४८ ख्यानम्

सूत उवाच –

पुनर्वक्ष्यामि माहात्म्यं देवदेवस्य शूलिनः पठतां शृण्वतां सद्योऽघानि हन्ति बहून्यपि १

जितारीन्द्रियषड्वर्गां योगिनोऽप्यनहंकृताः यजन्ति ज्ञानयोगेन शिवमात्मस्वरूपिणम् २

तीर्थोदकैर्विशुद्धा ये दानयज्ञतपोव्रतैः ते यजन्ति महेशानं कर्मयोगेण साधवः ३

लुब्धा व्यसनिनोऽज्ञाश्च न यजन्ति जगत्पतिम् अजरामरवन्मूढास्तिष्ठन्ति नरकीटकाः ४

शिवधर्मरताः शान्ताः शिवशास्त्ररताः सदा दैवात्केऽपीह जायन्ते पृथिव्यां पुरुषोत्तमाः ५

रूपं न शक्यते तस्य संस्थानं वा कदाचन निर्देष्टुं प्राणिभिः कैश्चिद्द्रष्टुं वाऽप्यकृतात्मभिः ६

क्रियतां मद्वचः कर्णे शिवे वाऽऽत्मा नियुज्यताम् आदीप्ते भवने कूपं खनितुं नैव शक्यते ७

सत्यं वच्मि हितं वच्मि सारं वच्मि पुनः पुनः असारे दग्धसंसारे सारं यच्छिवपूजनम् ८

तदस्य दग्धसंसारग्रन्थेरत्यन्तदुर्भिदः परं निर्मूलविच्छेदि क्रियतां तद्भवार्चनम् ९

मनस्तद्विद्धि कर्मज्ञं शंकरे यत्प्रवर्तते सा वाणी वाक्पतिं शंभुं या स्तौत्यच्युतमच्युता १०

श्रवणौ तौ श्रुतौ याभ्यां श्रूयन्ते तत्कथाः शुभाः पादौ तौ सफलौ पुंसां शिवायतनगामिनौ ११

ते च नेत्रे सुभायालं याभ्यां संदृश्यते शिवः सफलौ तौ स्मृतौ विप्रारतत्पूजाकारिणौ करौ १२

तदेव सफलं कर्म शिवमुद्दिश्य यत्कृतम् सेयं लक्ष्मीः परा पुंसां सेयं भक्तिः समीहिता १३

श्रेयःश्रेयस्करी भक्तिर्मुक्तेर्या गिरिजापतेः रिपवस्तं न हिंसन्ति न च खादन्ति राक्षसाः १४

न दशन्ति च नागेन्द्रां नरं रुद्रपरायणम् विपाककटुकान्रम्यान्विषयान्विषसंनिभान् संत्यज्याऽऽराधयेद्देवं शंकरं लोकशंकरम् १५

अहिंसा सत्यमस्तेयं दया भूतेष्वनुग्रहः यस्यैतानि सदा विप्रास्तस्य तुष्यति शंकरः १६

दृष्ट्वा संपूजितं लिङ्गं भक्त्या यश्चाभिनन्दति तौर्यत्रिकं वा यः कुर्यात्तस्य तुष्यति शंकरः १७

वाङ्मनःकायकर्मेच्छा यस्य भक्तिर्महेश्वरे व्यसनोपहतस्यापि तस्य तुष्यति शंकरः १८

यथा द्विजा हस्तिपदे पदानि संलीयन्ते सर्वसत्त्वोद्भवानि एवं धर्माः शिवधर्मे तु सर्वे संलीयन्ते नात्र चित्रं मुनीन्द्राः १९

अल्पाश्रयानल्पफलांस्त्वरांश्च धर्मानन्यान्प्राहुरिह द्विजेन्द्राः महाश्रयं बहुकल्याणरूपं वदन्ति सन्तः शिवधर्ममेकम् २०

सर्वे वर्णा देवदेवस्य शंभोः पूजां कृत्वा सत्यवाक्यानि चोक्त्वा त्यक्त्वा धर्मं दारुणं मृत्युलोके यान्ति स्वर्गं नात्र कार्यो विचारः २१

ये वामदेवं हि यजन्ति नित्यं तद्वृत्तशीलाः किल लिङ्गमूर्तिम् ते ध्वस्तदोषा हि भवन्ति मर्त्या भवाम्बुराशिं विषयं तरन्ति २२

तैरिष्टं विविधैर्यज्ञैर्देवर्षिपितृमानवाः तर्पिताः स्युर्जगद्धेतुर्यैरिष्टो भगवान्भवः २३

पर्वतान्दश यद्दत्वा महादानानि षोडश धेनूश्च दश यद्दत्वा यद्दृष्ट्वा लिङ्गमाप्नुयात् २४

शिवभक्तो न यो राजा भक्तोऽन्येषु सुरेषु सः स्वपत्नीं युवतीं त्यक्त्वा यथैवान्यासु रज्यते २५

व्याजेनापि हि ये कुर्युः किंचित्कर्म शिवालये न ते यान्तीह नरकं पापात्मानोऽपि मानवाः २६

संमार्जनादिकर्तारो मार्गशोभाकराश्च ये तेऽवश्यं पृथिवीपाला भवन्ति त्रिदशोपमाः २७

अस्मिन्नर्थे पुरा वृत्तं तच्छृणुध्वं द्विजोत्तमाः यच्छ्रुत्वा प्राणिनः प्रायो न मोहमुपयान्ति ते २८

स्वायंभुवेऽन्तरे त्वासीद्राजा परमधार्मिकः पञ्चालविषये विप्रा नरवर्मेति विश्रुतः २९

दैवमन्त्रविदुत्साहशक्तियुक्तः प्रतापवान् षाड्गुण्यविन्महासत्त्वः स्मितपूर्वाभिभाषितः ३०

तस्य भार्यासहस्राणां दर्शनीयतमाकृतिः दशानामग्रमहिषी सुदेवीत्यभिविश्रुता ३१

सर्वलक्षणसंपन्ना शचीव वरवर्णिनी भर्तुश्चापि प्रिया साध्वी चन्द्रकान्तिसमप्रभा ३२

करोति प्रत्यहं राज्ञो भूमिसंमार्जनादिभिः द्वारशोभां मार्गशोभां शिवस्याऽऽयतने शुभे ३३

तां तथाऽभिरतां दृष्ट्वा तस्य राज्ञः पुरोहितः पप्रच्छेदं स तन्वङ्गीं गालवो रहसि स्थिताम् ३४

ब्रूहि सुभ्रु महाभागे किमर्थं हरमन्दिरे संमार्जनरता नित्यमन्यकर्मपराङ्मुखी ३५

सैवमुक्ता तदा तेन मुनिना विनयान्विता प्रहस्याऽऽह विशालाक्षी मुनीन्द्रं गालवं प्रति ३६

न मेऽन्यत्र परा भक्तिर्यथा संमार्जनादिषु तवाहं कथयिष्यामि पुरा कर्म कृतं मया ३७

पूर्वमासमहं गृध्री पक्षिणी व्योमचारिणी कदाचिद्भ्रममाणा तु गता किष्किन्धपर्वतम् ३८

सिद्धविद्याधराकीर्णं हेमकूटमिवापरम् आश्चर्यवन्निराबाधं खलिङ्गं यत्र तिष्ठति ३९

यस्य संदर्शनादेव स्वर्गं यान्ति मनीषिणः संपूज्याथ तमेवेशं पुष्पैर्धुपाक्षतादिभिः ४०

न्यस्तं केनापि तत्पार्श्वे नैवेद्यं यत्तदैव हि तदादातुं समागत्य लिङ्गं कृत्वा प्रदक्षिणम् ४१

क्षुधार्ताऽहं महाभाग नैवेद्ये तु कृतोद्यमा तद्गृह्णत्या क्रमाद्विप्र पक्षाभ्यां पांशुमार्जनम् ४२

कृतं देवस्य पुरतो दैवयोगात्क्षणात्ततः तावत्तत्र समायातस्तस्य देवस्य पूजकः ४३

उद्गताऽहं ततः कालान्मृता जाता वसोर्गृहे नृवर्मणे च तेनाहं प्रदत्ता प्रथमा वधूः ४४

दशराज्ञीसहस्राणामुत्तमा तत्प्रभावतः मान्या च दयिता राज्ञः पुत्रपौत्रसमन्विता ४५

अकामादीश्वरागारे कृत्वैवं पांशुमार्जनम् दुहिताऽहं वसोर्जत्ता राज्ञो जातिस्मरा तथा ४६

कामात्संमार्जनं कृत्वा भविष्यामि न वेद्मि तत् एवमुक्तस्तया राज्ञ्या प्रहृष्टस्तामथाब्रवीत् ४७

समाराध्य सुरेशानं सर्वदं त्रिपुरान्तकम् किमाश्चर्थं गुणावासे यदेतत्प्राप्तवत्यसि ४८

चक्षुषा प्रेक्षणं चैव नमनं च प्रदक्षिणम् लिङ्गमूर्तेः शिवस्यैव राज्यावाप्तिकरं स्मृतम् ४९

जातिस्मरत्वमैश्वर्यं विद्याज्ञानं प्रजासुखम् अज्ञानाद्वा भयाद्वाऽपि दृष्ट्वैवेह महेश्वरम् ५०

नाम्नाऽपि नरकच्छेदः स्मरणाद्वैबुधं पदम् पूजनाद्यस्य निर्वाणं तमीशं को न संश्रयेत् ५१

फलं प्रसादाज्जायेत ध्रुवं कालेन देहिनाम् अर्थिनां त्वखिलान्कामात्सद्यः फलति शंकरः ५२

शाठ्येनापि नरा नित्यं ये स्मरन्ति महेश्वरम् तेऽपि यान्ति तनुं त्यक्त्वा शिवलोकमनामयम् ५३

चराचरगुरोरस्य शंभोरमिततेजसः न कृता यैर्दृढा भक्तिर्वञ्चितास्ते स्फुटं जनाः ५४

प्रमादेनापि यैः क्वापि प्रणामः शूलिनः कृतः कल्पान्तेऽपि भवग्रन्थिर्न तेषां जायते पुनः ५५

तावद्भ्रमन्ति संसारे शोकमोहपरायणाः नार्चयन्ति विरूपाक्षं यावदेव शरीरिणः ५६

इतिहासपुराणादिशिवपुस्तकवाचनम् ये कुर्युः सकृदप्येवं भक्त्या शृण्वन्ति ये नराः ५७

व्रतोपवासदानेषु तीर्थस्नानेषु यत्फलम् तत्तेषां स्यान्न संदेह इत्याह परमेश्वरः ५८

विनष्टलोभा विषयेषु निस्पृहाः प्रसन्नचित्ताश्च शिवार्चनोद्यताः ब्रजन्ति शंभोः परमं सनातनं निरामयं यत्प्रवदन्ति सूरयः ५९

कुलं पवित्रं पितरः समुद्धृता वसुंधरा तेन च पाविता द्विजाः सनातनोऽन दिरनन्तविग्रहो हृदि स्थितो यस्य सदैव शंकरः ६०

२५९४

इति श्रीब्रह्मपुराणोपपुराणे श्रीसौरे सूतशौनकसंवादे सुदेव्युपा ख्यानं नामाष्टचत्वारिंशोऽध्यायः ४८