४५ सर्वात्मकरुद्रपाशुपतव्रतकथनम्

ऋषय ऊचुः – भूयोऽपि श्रोतुमिच्छामो माहात्म्यं परमेष्ठिनः कथं सर्वात्मको रुद्रः कथं पाशुपतं व्रतम् १

ब्रूहि सूत महाभाव सर्वमेतदसंशयम् कथं नो जायते प्रीतिः श्रोतुं शिवकथामृतम् २

सूत उवाच –

पुरा ब्रह्मादयो देवा द्रष्टुकामा महैश्वरम् मन्दरं प्रययुः सर्वे शंभोः प्रियतरं गिरिम् ३

स्तुत्वा प्राञ्जलयो देवा हरस्य पुरतः स्थिताः तान्दृष्ट्वाऽथ महादेवो लीलया परमेश्वरः ४

तेषामपहृतं ज्ञानं ब्रह्मादीनां दिवौकसाम् देवा ह्यपृच्छंस्तं देवमात्मानं पुरतः स्थितम् ५

आसंस्ते सकृदज्ञानात्तमाहुः को भवानिति अब्रवीद्भगवानीशो ह्यहमेव पुरातनः ६

आसं प्रथममेवाहं वर्तामि च सुरोत्तमाः भविष्यामि च लोकेऽस्मिन्मत्तो नान्योऽस्ति कश्चन ७

व्यतिरिक्तं च मत्तोऽस्ति नान्यत्किंचित्सुरोत्तमाः नित्यानित्योऽहमेवास्मि ब्रह्माऽहं ब्रह्मणस्पतिः ८

दिशश्च विदिशश्चैव प्रकृतिश्च पुमानहम् त्रिष्टुब्जगत्यनुष्टुप् च पंक्तिश्छन्दस्त्रयीमयः ९

सत्योऽहं सर्वतः शान्तस्त्रे गाग्निर्गौरहं गुरुः गौर्यहं च हरश्चाहं द्यौरहं जगतां प्रभुः १०

श्रेष्ठोऽहं सर्वतत्त्वानां वरिष्ठोऽहमपां पतिः आपोऽहं भगवानीशस्तेजोऽहं वेदिरप्यहम् ११

ऋग्वेदोऽहं यजुर्वेदः सामवेदोऽहमात्मभूः अथर्वणोऽथ मन्त्रोऽहं तथा चाङ्गिरसां वरः १२

इतिहासपुराणानि कल्पोऽहं कल्पना ह्यहम् अक्षरं च क्षरं चाहं क्षान्तिः शान्तिरहं खगः १३

गुह्योऽहं सर्वदेवेषु आरण्योऽहमजोऽप्यहम् पुष्करं च पवित्रं च मध्यं चाहं ततः परम् १४

बहिश्चाहं तथा चान्तः पुरस्तादहमव्ययः ज्योतिश्चाहं तमश्चाहं ब्रह्मविष्णुमहेश्वराः १५

बुद्धिश्चाहमहंकारस्तन्मात्राणीन्द्रियाणि च एवं सर्वं च मामेव यो वेद स सुरोत्तमः १६

स एव सर्ववित्सर्वः सर्वात्मा सर्वदर्शनः गां गोभिर्ब्राह्मणान्सर्वान्ब्राह्मण्येन हवींषि च १७

हविषा यस्तथा सत्यं सत्येन च सुरोत्तमाः धर्मं धर्मेण च तथा तर्पयामि स्वतेजसा १८

इत्यादि भगवानुक्त्वा तत्रैवान्तरधीयत नापश्यंस्ते ततो देवं रुद्रं परमकारणम् १९

तं देवाः परमात्मानं रुद्रं ध्यायन्ति शंकरम् सनारायणका देवाः सेन्द्राश्च मुनयस्तथा २०

ततोर्ध्वबाहवो देवा ह्यस्तुवञ्शंकरं तदा देवा ऊचुः – य एष भगवान्रुद्रो ब्रह्मा विष्णुर्महेश्वरः २१

स्कन्दश्चाग्निस्तथा चन्द्रो भुवनानि चतुर्दश भूतानि च तथा सूर्यः सोमाद्यष्टौ ग्रहास्तथा २२

प्राणः कालो यमो मृत्युरमृतं परमेश्वरः भूतं भव्यं भविष्यं च वर्तमानं महेश्वरः २३

विश्वं कृत्स्नं जगत्सर्वं सत्यं तस्मै नमो नमः ओमादौ च तथा मध्ये भूर्भुवः स्वस्तथैव च २४

अन्ते त्वं विश्वरूपोऽसि शीर्षं च जगतः सदा ब्रह्मैकस्त्वं द्वित्रिधोर्ध्वमधस्तत्त्वं सुरेश्वरः २५

शान्तिश्च त्वं तथा पुष्टिस्तुष्टिश्चाप्यहुतं हुतम् विश्वं चैव तथाऽविश्वं दत्तं चादत्तमीश्वरः २६

ऋतं वाऽप्यथवा देव परमप्यपरं ध्रुवम् परायणं सतां चैव असतामपि शंकर २७

अपाम सोमममृता अभूमागन्म ज्योतिरविदाम देवान् किं नूनमस्मान्कृणवदरातिः किमु धर्तिरमृत मर्त्यस्य २८

एतज्जगद्वेदितव्यमक्षरं सूक्ष्ममव्ययम् प्राजापत्यं पवित्रं वा सौम्यमग्राह्यमाग्रियम् २९

आग्नेयेनापि चाऽऽग्नेयं वायव्येन समीरणम् सौम्येन सौम्यं ग्रसते तेजसा स्वेन लीलया ३०

तस्मै नमोऽपसंहर्त्रे महाग्रासाय शूलिने हृदिस्था देवताः सर्वा हृदि प्राणाः प्रतिष्ठिताः ३१

हृदि त्वमसि योनिस्त्वं तिस्रो मात्रा परस्तु सः शिरश्चोत्तरतस्तस्य पादो दक्षिणतस्तथा ३२

स यो जीवोत्तरः साक्षात्स आकारः सनातनः ॐकारो य स वै देवः प्रणवो व्याप्य तिष्ठति ३३

अनन्ततारः सूक्ष्मश्च शुक्लं वैद्युतमेव च परब्रह्म स ईशान एको रुद्रः स एव च ३४

भवान्महेश्वरः साक्षान्महादेवो न संशयः ऊर्ध्वमुन्नामयत्येवं स ॐकारः प्रकीर्तितः ३५

प्राणान्नयति यत्तस्मात्प्रणवः परिभाषितः सर्वं व्याप्नोति यत्तस्मात्सर्वव्यापी सनातनः ३६

ब्रह्मा हरिश्च भगवानाद्यन्तं नोपलब्धवान् यथाऽन्ये च ततोऽनन्तो रुद्रः परमकारणम् ३७

यत्तारयति संसारात्तार इत्यभिधीयते सूक्ष्मो भूत्वा शरीराणि सर्वदा ह्यधितिष्ठति ३८

तस्मात्सूक्ष्मः सदा ख्यातो भगवान्नीललोहितः नीलश्च लोहितश्चैव प्रधानपुरुषान्वयात् ३९

स्कन्दतेऽस्य यतः शुक्रं ततः शुक्रमयीति च विद्योतयति यत्तस्माद्वैद्युतं परिगीयते ४०

बृहत्त्वाद्बृंहणाद्ब्रह्म बृंहते च परापरम् तस्माद्बृहति यत्तस्मात्परं ब्रह्मेति कीर्तितम् ४१

अद्वितीयोऽथ भगवांस्तुरीयः शिव ईशते ईशानमस्य जगतः स्वर्दृशं बभ्रुमीश्वरम् ४२

ईशानमिन्द्र तस्थुषः सर्वेषामपि सर्वदा ईशानः सर्वविद्यानां यत्तदीशानमुच्यते ४३

यदीक्षते च भगवान्निरीक्षयति चान्यथा आत्मज्ञानं महादेवो योगो गमयति स्वयम् ४४

भगवांश्चोच्यते तेन देवदेवो महेश्वरः सर्वा ल्लोँकाम्क्रमेणैव वो गृह्णाति महेश्वरः विसृजत्येष देवेशो वासयत्यपि लीलया ४५

एष हि देवः प्रदिशो नु सर्वाः पूर्वो हि जातः स उ गर्भे अन्तः स एव जातः स जनिष्यमाणः प्रत्यङ्जनास्तिष्ठति सर्वतोमुखः ४६

उपासितव्यं यन्तेन तदेतत्सद्भिरग्रियम् यतो वाचो निवर्तन्ते अप्राप्य मनसा सह ४७

तदग्रहणमेवेह यद्वाग्वदति यत्नतः अपरं च परं चेति पारायणमिति स्वयम् ४८

वदन्ति वाचः सर्वज्ञं शंकरं नीललोहितम् एष सर्वो नमस्तस्मै पुरुषः पिङ्गलः शिवः ४९

स एकः स महारुद्रो विश्वं भूतं भविष्यति भुवनं बहुधा जातं जायमानमितस्ततः ५०

हिरण्यबाहुर्भगवान्हिरण्यमपि चेश्वरः अम्बिकापतिरीशानो हेमरेता वृषध्वजः ५१

उमापतिर्विरूपाक्षो विश्वभुग्विश्ववाहनः ब्रह्माणं विदधे योऽसौ पुत्रमग्नेः सनातनम् ५२

प्रहिणोति स्म तस्मै च ज्ञानमात्मप्रकाशकम् तमेकं पुरुषं रुद्रं पुरुहूतं पुरुष्टुतम् ५३

वालाग्रमात्रं हृदयस्य मध्ये विश्वदेवं वह्निरूपं वरेण्यम् तमात्मस्थं येऽनुपश्यन्ति धीरास्तेषां शान्तिः शाश्वती नेतरेषाम् ५४

महतोऽपि महीयान्स अणोरप्यणुरव्ययः गुहायां निहितश्चाऽऽत्मा जन्तोरस्य महेश्वरः ५५

विश्वं भूतं च विश्वस्य कमलं स्याद्धृदि स्वयम् गह्वरं गगनान्तस्थं विश्वान्तश्चोर्ध्वतः स्थितम् ५६

तत्रापि शुभ्रं गगनमॐकारं परमेश्वरम् वालाग्रमात्रं मध्यस्थमृतं परमकारणम् ५७

सत्यं ब्रह्म महादेवं पुरुषं कृष्णपिङ्गलम् ऊर्ध्वरेतसमीशानं विरूपाक्षमजं ध्रुवम् ५८

अधितिष्ठति यो योनिं योनिश्चैव स ईश्वरः देहे पञ्चविधात्मानं तमीशानं पुरातनम् ५९

प्राणेऽप्यन्तर्मनसो लिङ्गमाहुर्यस्मिन्क्रोधो या च तृष्णा क्षमा च तृष्णां छित्त्वा हेतुजातस्य मूलं भजस्व देवं हरमेव केवलम् ६०

परात्परतरं चाऽऽहुः परात्परतरं ध्रुवम् ब्रह्मणो जनकं विष्णोर्वह्नेर्वायोः सदाशिवम् ६१

ध्यात्वाऽग्निना च समग्निं विशेद्वाचः पृथक्पृथक् पञ्च भूतानि संयम्य मात्रागुणविविक्रमात् ६२

मात्राः पञ्च चतस्रश्च त्रिमात्रा द्विस्ततः परम् एकमात्रममात्रं हि द्वादशान्तेष्ववस्थितम् ६३

स्थित्यां स्थाप्यामृतो भूत्वा व्रतं पाशुपतं चरेत् एतद्व्रतं पाशुपतं चरिष्यामः समासतः ६४

अग्निमाधाय विधिवदृग्यजुःसामसंभवैः उपोषितः शुचिः स्नातः शुक्लाम्बरधरः स्वयम् ६५

शुक्लयज्ञोपवीती च शुक्लमाल्यानुलेपनः जुहुयाद्विरजा विद्वान्विरजाः स भविष्यति ६६

वायवः पञ्च शुद्ध्यर्थं वाङ्मनश्चरणादयः श्रोत्रे जिह्वा तथा घ्राणं मनो बुद्धिस्तथैव च ६७

शिरः पाणिस्तथा पार्श्वं पृष्ठोदरमनन्तरम् जङ्घे शश्वदुपस्थं च पायुं मेढुं तथैव च ६८

त्वक्च मांसं च रुधिरं मेदोऽस्थीनि तथैव च शब्दं स्पर्शं च रूपं च रसो गन्धस्तथैव च ६९

भूतानि चैव शुध्यन्तां मद्देहे क्ष्मादयस्तथा अन्तःप्राणमनोज्ञानं शुध्यतां मे शिवेच्छया ७०

हुत्वा येन समिद्भिश्च वरुणाय यथाक्रमम् उपसंहृत्य रुद्राग्निं गृहीत्वा भस्म यत्नतः ७१

अग्निरित्यादिना धीमान्विमृज्याङ्गानि संस्पृशेत् एतत्पाशुपतं दिव्यं व्रतं पाशविमोक्षणम् ७२

ब्राह्मणानां सतां प्रोक्तं क्षत्त्रियाणां तथैव च वैश्यानामपि योग्याणां यतीनां च विशेषतः ७३

वानप्रस्थाश्रमस्थानां गृहस्थानां सतामपि विमुक्तिर्विधिनाऽनेन दृष्टा वै ब्रह्मचारिणाम् ७४

अग्निरित्यादिना सम्यग्गृहीत्वा ह्यग्निहोत्रकम् सोऽपि पाशुपतो विप्रो विमृज्याङ्गानि संस्पृशेत् ७५

भस्मच्छन्नो द्विजो विद्वान्महापातकसंभवैः पापैर्विमुच्यते सत्यं लिप्यते च न संशयः ७६

वीर्यमग्नेर्यतो भस्म वीर्यवान्भस्मसंमतः भस्मस्नानरतो विप्रो भस्मशायी जितेन्द्रियः ७७

सर्वपापविनिर्मुक्तः शिवसायुज्यमाप्नुयात् इत्युक्त्वा भगवान्ब्रह्मा स्तुत्वा देवं समप्रभुः ७८

भस्मच्छन्नः स्वयं कृत्स्नं विररामाम्बुजासनः अथ तेषां प्रसादार्थं पशूनां पतिरीश्वरः ७९

स गत्वा चोमया सार्धं सांनिध्यमकरोत्प्रभुः अथ संनिहितं रुद्रं तुष्टुवुः सुरपुंगवाः ८०

रुद्राध्यायेन देवेशं देवदेवमुमापतिम् देवोऽपि देवानालोक्य घृणया च वृषध्वजः ८१

तुष्टोऽस्मीत्याह देवेशो वरं दत्त्वा वरारिहा क्षणादन्तर्हितः शंभुर्ब्रह्मादीनां प्रपश्यताम् ८२

सूत उवाच –

इमं यः पठतेऽध्यायं शुचिर्भूत्वा समाहितः सर्वतीर्थफलं चैव सर्वयज्ञफलं तथा ८३

सर्वदेवव्रतफलं सर्वस्तोत्रफलं तथा प्राप्नोति सकलं विप्राः श्रद्धया शिवसंनिधौ ८४

गाणपत्यमवाप्नोति देहान्ते मुनिपुंगवाः ८५

इति श्रीब्रह्मपुराणोपपुराणे श्रीसौरे सूतशौनकसंवादे सर्वात्मकरुद्रपाशुपतव्रतकथनं नाम पञ्चचत्वारिंशोऽध्यायः ४५