४३ उमामहेश्वरदूर्वागणपतिव्रतकथनम्

सूत उवाच –

अन्यद्व्रतं पापहरं धर्मकामार्थमोक्षदम् उमामहेश्वरं नाम व्रतं त्रैलोक्यविश्रुतम् १

पौर्णमास्याममावास्यां चतुर्दश्यष्टमी तथा कार्यमेतासु तिथिषु नक्तमेतद्द्विजोत्तमाः २

ब्रह्मचारी हविष्याशी सत्यवादी सुसंयमी वर्षान्ते प्रतिमा कार्या हेम्ना वा रजतेन च ३

पञ्चामृतैस्तु संस्नाष्य पूजयेद्विधिवद्द्विजाः वस्त्रैः पुष्पैरलंकृत्य भक्ष्यैर्नानाविधैः शुभैः ४

ध्वजैर्वितानैश्चमरैर्यथा शोभां प्रकल्पयेत् आचार्यं पूजयेद्भक्त्या वस्त्रालंकारभूषणैः ५

भक्त्या च दक्षिणां दद्याच्छिवभक्तांश्च भोजयेत् शैवमेकं तु संभोज्य शतभोज्यफलं लभेत् ६

सत्यं सत्यं पुनः सत्यं देवस्य वचनं यथा प्रतिमां पूजितां पश्चात्ताम्रपात्रे सुनिर्मले ७

निधाय सितवस्त्रेण संछाद्य शिरसा नमेत् शङ्खतूर्यादिनिर्घोषैः शिवस्याऽऽयतनं महत् ८

पुनर्वेद्यां सुसंस्थाप्य व्रतं शंभोर्निवेदयेत् शिवं प्रदक्षिणीकृत्य पश्चाद्देवं क्षमापयेत् ९

श्रद्धया यः करोतीदं व्रतं त्रिदशपूजितम् सूर्यायुतप्रतीकाशं विमानं सार्वकामिकम् १०

आरुह्य स्नीसहस्रैश्च गणैर्नानाविधैर्वृतः याति माहेश्वरं स्थानं यत्र गत्वा न शोचति ११

तत्र माहेश्वरान्भोगान्भुक्त्वा कल्पशतत्रयम् तदन्ते वैष्णवान्भोगान्भुङ्क्ते विष्णोः समीपतः १२

पश्चाद्भोगसमायुक्तो ब्रह्मलोके महीयते ब्रह्मलोकात्परिभ्रष्टः प्राजापत्यान्समश्नुते १३

तस्माल्लोकाच्च्युतः पश्चात्सर्वलोकनमस्कृतः सोमलोकं समासाद्य भुक्त्या भोगान्यथेप्सितान् १४

सोमाद्देवेन्द्रगन्धर्वयक्षलोकमनुत्तमम् भुक्त्वा तत्र महाभोगांस्तदन्ते मेरुमूर्धनि १५

तदन्ते लोकपालानां लोकानासाद्य मोदते ततः कर्मावशेषेण पृथिव्यामेकराङ्भवेत् १६

उमामहेश्वरं नाम व्रतं सर्वसुखप्रदम् शंकरेण पुरा गीतं पार्वत्याः षण्मुखस्य च १७

आगस्त्यः षण्मुखाल्लब्ध्वा प्राप्तवान्मे गुरुस्ततः द्वैपायनान्मुनिवरात्प्राप्तवानहमुत्तमम् १८

अन्यच्छूलव्रतं नाम शृणुध्वं मुनिपुंगवाः अमावास्यां निराहारो भवेदब्दं सुसंयमी १९

शूलं पिष्टममं कृत्वा वर्षान्ते विनिवेदयेत् शिवाय राजतं पद्मं सुवर्णं कृतकर्णिकम् २०

भक्त्या तु विन्यसेन्मूर्ध्नि सर्वमन्यच्च पूर्ववत् ब्रह्महत्यादिभिः पापैर्मुक्तो याति परां गतिम् २१

लोकान्पूर्वोदितान्प्राप्य तदन्ते पृथिवीपतिः पूर्णमास्याममावास्यामब्दमेकं दृढव्रतः २२

वर्षान्ते सर्वगन्धाढ्यां प्रतिमां विनिवेदयेत् पूर्ववत्फलमाप्नोति व्रतेनानेन वै द्विजाः २३

अष्टम्यां च चतुर्दश्यामुपवासी जितेन्द्रियः सर्वभोगसमायुक्तः शिवलोके महीयते २४

क्षमा सत्यं दया दानं शौचमिन्द्रियनिग्रहः शिवपूजाऽग्निहवनं संतोषोऽस्तेयता तथा २५

सर्वव्रतेष्वयं घर्मः सामान्यो दशधा स्मृतः २६

अन्यद्व्रतं पापहरं शृणुध्वं मुनिपुंगवाः षण्मुखस्य पुरा प्रोक्तं देवदेवेन शंभुना २७

कैलासशिखरासीनं देवदेवं जगद्गुरुम् प्रणम्य विधिवद्भक्त्या पप्रच्छ गिरिजासुतः २८

स्कन्द उवाच –

केन व्रतेन भगवन्सौभाग्यमतुलं भवेत् पुत्रपौत्रधनैश्वर्यं मनुजः सुखमेधत्ते २९

तन्मे वद महादेव व्रतानामुत्तमं व्रतम् येन चीर्णेन देवेश नरो राज्यं च विन्दति ३०

राज्ञीव जायते नारी अपि दासकुलोद्भवा राजपुत्रो जयेच्छत्रून्गरुडः पन्नगानिव ३१

ब्राह्मणो ब्रह्मवर्चसं प्राप्य सर्वाधिको भवेत् वर्णाश्रमविहीनोऽपि सोऽपि सिद्धिं च विन्दन्ति ३२

ईश्वर उवाच –

शृणु वत्स प्रवक्ष्यामि व्रतानामुत्तमं व्रतम् अस्ति दूर्वागणपतेर्व्रतं त्रैलोक्यविश्रुतम् ३३

भगवत्या पुरा चीर्णं पार्वत्या पद्मया सह सरस्वत्या महेन्द्रेण विष्णुना धनदेन च ३४

अन्यैश्च देवैर्मुनिभिर्गन्धर्वैः किंनरैस्तथा चीर्णमेतद्व्रतं सर्वैः पुराकल्पे षडानन ३५

चतुर्थी या भवेच्छुक्ला नभोमासस्य पुण्यदा तस्यां व्रतमिदं कुर्यात्कार्तिक्यां वा षडानन ३६

गजाननं चतुर्बाहुमेकदन्तं विपाटितम् विधाय हेम्ना विघ्नेशं हेमपीठासनस्थितम् ३७

तथा हेममयीं दूर्वां तदाधारे व्यवस्थिताम् संस्थाप्य विघ्नहर्तारं कलशे ताम्रभाजने ३८

वेष्टितं रक्तवस्त्रेण सर्वतोभद्रमण्डले पूजयेद्रक्तकुसुमैः पत्रिकाभिश्च पञ्चभिः ३९

बिल्वपत्रमपामार्गं शमी दूर्वा हरिप्रिया अन्यैः सुगन्धिकुसुमैः पत्रिकाभिः सुगन्धिभिः ४०

फलैश्च मोदकैः पश्चादुपहारं प्रकल्पयेत् यथावदुपचारैस्तु पूजयामि जगत्पते ४१

इत्युक्त्वा श्रद्धया नूनं पूजयेद्गिरिजासुतम् एह्येहि देव हेरम्ब विघ्नराज गजानन उपविश्याऽऽसनं देव सर्वकामप्रदो भव ४२

इत्यावाहनासनमन्त्रः उमासुत नमस्तुस्यं विश्वव्यापिन्सनातन विघ्नौघं छिन्धि सकलमर्ध्यं पाद्यं ददामि ते ४३

इत्यर्ध्यपाद्यमन्त्रः गणेश्वराय देवाय उमापुत्राय वेधसे पूजामथ प्रयच्छामि गृहाण भगवन्नमः ४४

इति गन्धमन्त्रः विनायकाय शूराय वरदाय गजानन उमासुताय देवाय कुमारगुरवे नमः ४५

लम्बोदराय वीराय सर्वविघ्नौघहारिणे ४६

इति पुष्पमन्त्रः उमाङ्गमलसंभूत दानवानां वधाय वै
अनुग्रहाय लोकानां स देवः पातु विश्वभुक् ४७

इति धूपमन्त्रः परंज्योतिः प्रकाशाय सर्वसिद्धिप्रदाय च तुभ्यं दीपं प्रदास्यामि महादेवात्मने नमः ४८

इति दीपमन्त्रः गणानां त्वां गणपतिं हवामहे कविं कवीनामुपमश्रवस्तमम् ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पत आ नः शृण्वन्नूतिभिः सीद सादनम् ४९

इत्युपहारमन्त्रः गणेश्वर गणाध्यक्ष गौरीपुत्र गजानन व्रतं संपूर्णतां यातु त्वत्प्रसादादिभानन ५०

इति प्रार्थनामन्त्रः एवं संपूज्य विघ्नेशं यथा विभवविस्तरैः सोपस्करं गणाध्यक्षमाचार्याय निवेदयेत् ५१

गृहाण भगवन्ब्रह्मन्गणराजं सदक्षिणम् व्रतं त्वद्वचनादद्य संपूर्णं यातु सुव्रत ५२

इति दानमन्त्रः एवं यः पञ्च वर्षाणि कृत्वोद्यापनमाचरेत् ईप्सिताल्ँलभते कामान्देहान्ते शांकरं पदम् ५३

अथवा शुक्लपक्षस्य चतुर्थ्यां संयतेन्द्रियः कुर्याद्वर्षत्रयं त्वेवं सर्वसिद्धिमवाप्नुयात् ५४

उद्यापनं विना यस्तु करोति व्रतमुत्तमम् तेन शुक्लतिलैः कार्यं प्रातःस्नानं षडानन ५५

हेम्ना वा रजतेनापि कृत्वा गणपतिं बुधः पञ्चगव्यैश्च सुस्नाप्य दूर्वाभिः संप्रपूजयेत् ५६

मन्त्रैश्च दशभिर्भक्त्या दूर्वायुक्तैः शिखिध्वज इत्येवं कथितं वत्स सर्वसिद्धिप्रदं शुभम् व्रतं दूर्वागणपतेः किमन्यच्छ्रोतुमर्हसि ५७

२२३८

इति श्रीब्रह्मपुराणोपपुराणे श्रीसौरे सूतशौनकसंवाद उमामहेश्वरदूर्वागणपतिव्रतकथनं नाम त्रिचत्वारिंशोऽध्यायः ४३