४२ शिवपूजाविधिकथनम्

ऋषय ऊचुः – श्रुतं शंभोर्यथा चक्रं प्राप्तवान्पुरुषोत्तमः इदानीं श्रोतुमिच्छाम शिवपूजाविधिं शुभम् १

सूत उवाच –

शिवपूजाविधिं वक्ष्ये संक्षेपेण द्विजोत्तमाः वक्तुं वर्षशतेनापि न शक्यं विस्तरेण तु २

पुरा मेरुगिरेः शृङ्गे सिद्धगन्धर्वसेविते उक्तं सनत्कुमाराय नन्दिना कुलनन्दिना ३

नन्दीश्वरं सुखासीनं सर्वज्ञं मरुतां पतिम् उपसंगम्य विधिवद्दण्डवत्प्रजिपत्य च ४

सनत्कुमारः पप्रच्छ शिवपूजाविधिक्रमम् सर्वेषां वरदं शान्तं गणकोटिभिरावृतम् ५

सनत्कुमार उवाच –

नमस्तुभ्यं गणेशाय मार्तण्डायुतवर्चसे शिवार्चनविधिं ब्रूहि मम त्रिदशपूजित ६

नन्दिकेश्वर उवाच –

शिवपूजाविधिं वक्ष्ये शृणु ब्रह्मसुताद्य मे सर्वात्मके महादेवे भक्तोऽप्ति त्वं यतो मुने ७

तत्राऽऽदौ विधिना स्नात्वा समाचम्य यथाविधि पूजास्थानमनुप्राप्य उपविश्याथ बुद्धिमान् ८

प्राणायामत्रयं कृत्वा ध्यायेद्देवं सदाशिवम् शरीरशोषणं कृत्वा दहनं प्लावनं ततः ९

शैवीं तनुं समास्थाय न्यासकर्म समाचरेत् योऽयं सूत्रात्मको मन्त्रः सर्ववेदात्मकः परः १०

तस्य वर्णांश्च विधिवन्न्यसेत्प्रणवपूर्वकान् ब्रह्माणि ततो विन्यस्य ततश्चन्दनवारिणा ११

पूजास्थानं सुसंप्रोक्ष्य द्रव्याणि च मुनीश्वर क्षालनं प्रोक्षणं चैव प्रणवेन विधीयते १२

स्थापयेत्प्रोक्षणीपात्रं पाद्यपात्रं तथैव च तथा ह्याचमनीयं च ह्यवगुण्ठ्य यथाविधि १३

आच्छाद्य दर्भैर्मतिमांस्तेनैवाभ्युक्ष्य वारिणा जलं तेषु विनिक्षिप्य द्रव्याणि च ततः क्षिपेत् १४

उशीरं चन्दनं चैव पाद्ये तु परिकल्पयेत् चूर्णयित्वा सकङ्कोलं कर्पूरं जातिकाफलम् १५

क्षिपेदाचमनीये तु प्रणवेन यथाक्रमम् सर्वत्र चन्दनं दद्यादर्ध्यपात्रेऽधुना शृणु १६

व्रीहीन्यवांश्च पुष्पाणि कुशाग्राणि तथैव च सिद्धार्थानक्षतांश्चैव साज्यं च भसितं तथा १७

कुशपुष्पयवब्रीहिबहुमूलतमालकान् प्रक्षिपेत्प्रोक्षणीपात्रे प्रणवेन सुधीस्ततः १८

सूत्रेण भवगायत्र्या गायत्र्या च द्विजोत्तमः प्रोक्षणीपात्रमादाय संप्रोक्ष्य द्वारपालकौ १९

पार्श्वतो मां चतुर्बाहुं सूर्यायुतसमप्रभम् वानरास्यं त्रिनयनं पुष्पमालासुशोभितम् २०

सर्वाभरणशोभाढ्यं नन्दीशं संप्रपूजयेत् दक्षिणे तु महाकालं घोररूपं भयावहम् २१

दंष्ट्राकरालवदनं कालाग्निचयसंनिभम् पश्चादन्तर्गृहं शंभोः प्रविश्य सुसमाहितः २२

पञ्चपुष्पाञ्जलिं दद्याद्ब्रह्मभिः पञ्चभिर्मुने गन्धैः पुष्पैर्महादेवं भक्त्या संपूजयेद्बुधः २३

स्कन्दं विनायकं चैव लिङ्गशुद्धिमथाऽऽरभेत् सूक्तैर्मन्त्रैश्च विधिवन्नमोन्तैः प्रणवादिकैः २४

आसनं कल्पयेत्पश्चादैश्वर्यदलपङ्कजे अणिमा पूर्वपत्रं स्यात्सर्वज्ञत्वमथेश्वरम् २५

कर्णिकायां न्यसेद्विप्र वह्नेर्वै मण्डलं ततः सौरं सौम्यं च विन्यस्य धर्मादीन्वै विदिक्षु च २६

अधर्मादींस्ततो दिक्षु सोमस्यान्ते गुणत्रयम् तत्त्वत्रयमथो विद्वांस्ततः शंभुं प्रपूजयेत् २७

स्नापयेद्विधिना देवं गन्धयुक्तेन वारिणा पश्चामृतं ततो मन्त्रैः साधितं विधिपूर्वकम् २८

स्नापयेत्प्रणवेनैव तत्राऽऽदौ पयसा मुने आज्येन मधुना दध्ना तथा चेक्षुरसेन च २९

जलस्य शुद्धिं विधिवन्मन्त्रैः कुर्यादनेकशः संछाद्य सितवस्त्रेण स्नापयेदिन्दुशेखरम् ३०

कुशापामार्गकर्पूरजातीचम्पकपुष्पकैः करवीरः सितैश्चैव मल्लिकाकमलोत्पलैः ३१

आपूर्य पुष्पैः सुशुभैश्चन्दनाद्यैश्च तज्जलम् सद्योजातादिकांस्तत्र विन्यसेद्ब्रह्मणः सुत ३२

सुवर्णकलशेनाथ तथा वै राजतेन च शङ्खेन मृन्मयेनाथ शोभितेन शुभेन च ३३

सकूर्चेन सपुष्पेण स्नापयेन्मन्त्रपूर्वकम् पावमानेन रुद्रेण तथा वामीयकेन च ३४

त्वरिताख्येन रुद्रेण नीलरुद्रेण वा पुनः अथर्वशिरसा वाऽपि रुद्रेण च तथैव च ३५

रथंतरेण पुण्येन श्रीसूक्तेनाथवा मुने पौरुषेण च सूक्तेन ज्येष्ठसाम्ना च विष्णुना ३६

पञ्चभिर्ब्रह्मभिर्वाऽथ सूत्रेण प्रणवेन वा स्नापयेद्देवदेदेशं सर्वयज्ञफलाप्तये ३७

वस्त्रं यज्ञोपवीते च तथा ह्याचमनीयकम् मुकुटं च शुभं भद्रं तथा वै भूषणानि च ३८

मुखवासं च नैवेद्यं सर्वं वै प्रणवेन च ततः स्फटिकसंकाशं देवं निष्कलमक्षरम् ३९

कारणं सर्वलोकानां सर्वलोकमयं परम् ब्रह्मणा विष्णुरुद्राद्यैरपि देवैरगोचरम् ४०

वेदद्भिर्हि वेदान्तैरगोचरमिति श्रुतम् आदिमध्यान्तरहितं भेषजं भवरोगिणाम् ४१

शिवलिङ्गमिति ख्यातं शिवलिङ्गं व्यवस्थितम् प्रणवेनैव मन्त्रेण पूजयेल्लिङ्गमूर्धनि ४२

स्तोत्रैः स्तुत्वा महादेवं प्रणिपत्य प्रदक्षिणम् पुनरर्घ्यं च वै दत्त्वा पुष्पाणि च विकीर्य वै ४३

पादयोर्देवदेवस्य प्रणिपत्य विसर्जयेत् एवं संक्षिप्य कथितं ब्रह्मसूनो शिवार्चनम् ४४

सर्वदेवेषु यद्गुह्यं यथा शंभोर्भया श्रूतम् ४५

सूत उवाच –

सनत्कुमारो भगवाञ्श्रुतवान्यच्छिवार्चनम् नन्दीश्वराद्भगवतस्तन्मया कथितं द्विजाः ४६

यः पठेत्प्रयतो भक्त्या शिवार्चनविधिक्रमम् सर्वपापविनिर्मुक्तो ब्रह्मलोके महीयते ४७

२१८१

इति श्रीब्रह्मपुराणोपपुराणे श्रीसौरे सूतशौनकसंवादे शिवपूजाविधिकथनं नाम द्विचत्वारिंशोऽध्यायः ४२