३९ कथनम्

सूत उवाच –

गृहं गत्वा स्थिरो भूत्वा यावदाह्वयते द्विजान् तावदेव कलिः पापो ब्राह्मणेषु विवेश ह १

कश्चिद्राजानमाश्रित्य ब्रूते तादृशमेव हि अन्योन्यामर्षयोगेण स्त्रण्डयन्ति परस्परम् २

मूकीभावाश्रिताः केचित्केचिद्यथार्थवादिनः यो यथा वक्ति तत्तादृगित्थं केचिदथोचिरे ३

इति कोलाहले वृत्ते राजचेतसि निर्णये जाते लोके नास्तिकतां बहवः प्रतिपेदिरे ४

राजा वेत्ति महामूर्खं न तु मायाविनं द्विजम् लोके तु भ्रान्तिमापन्ने राजा चिन्तापरोऽभवत् ५

ईश्वरं हन्ति दुष्टात्मा वध्योऽयं मम शास्त्रतः परं तु लोको ब्रह्मघ्नं मिथ्या मां तु वदिष्यति ६

सूत उवाच –

एतस्मिन्समये प्राप्ते लोकपूर्वपितामहाः स्वर्गान्द्रष्टा ह्यनेकानि नरकाणि प्रपेदिरे ७

येषां पुत्राश्च पौत्राश्च प्रतिपौत्रास्तथाऽपरे मातामहादिवर्गाश्च सखिसंबन्धिबान्धवाः ८

शिवावगणनोद्भूतपातका यमलोकगाः सुकृतं भस्मतां यातं मद्याद्गङ्गोदकं यथा ९

एतस्मिन्नेव काले तु कमलाहृदयंगमः सुप्त आक्रन्दमकरोच्छोणितौघपरिप्लुतः १०

लक्ष्मीर्दृष्ट्वाऽथ तद्रूपं विह्वलं भवविह्वला प्राप्ताऽऽश्वर्यं महाघोरं रुरोद भृशदुःखिता ११

लक्ष्मीरुवाच – वेदान्तवेद्य पुरुषेश्वर देवदेव त्रैलोक्यनाथ किमिदं त्वयि दृश्यतेऽद्य आकारमात्ररहितः पुरुषः पुराण स्त्वय्येव विश्वमिह रज्जुभुजगमात्रम् १२

शैलाः पतन्ति जलधिर्मरुतामुपैति सूर्यादयो हतरुचः पृथिवी पराणुः भूतानि चाच्युत विभो विलयं प्रयान्ति त्वद्रोममात्रमपि नैव चलेत्क्षणार्धम् १३

श्रीनारायण उवाच –

उक्तं त्वया तदपि लक्ष्मि तथैव किंतु मत्स्वामिनोऽवगणना न हि शक्यते मे कृत्वाऽपि पूज्यतममूर्तिमिमं गिरीशं नो मन्यते तदिह वज्रसमं ममैव १४

लक्ष्मीरुवाच – सर्वात्मा सर्ववित्कर्ता वक्ता धर्ताऽव्ययः प्रभुः त्वं साक्षी सर्वलोकानां त्वत्तः परतरोऽस्ति कः १५

श्रीनारायण उवाच –

अस्ति सर्वं वरारोहे मयि तत्तथ्यमेव हि श्रीमहेशवराल्लब्धं मदीयं न हि किंचन १६

एकः सृजति भूतानि मत्समानि कियन्त्यपि तत्तत्त्वं वेदम्यहं देवि मदीयाः केचनापरे १७

वेदवेदाङ्गवेत्तॄणां सहस्राण्यग्रजन्मनाम् हननान्मुच्यते जीवो न तु श्रीशिवहेलनात् १८

गुर्वङ्गनागमनकृत्सदा मद्यनिषेवकः ब्राह्मणस्वर्णहारी च कदाचिन्मुच्यते जनः १९

स्त्रीघ्नो गोघ्नो नृपघ्नश्च तथा विश्वासघातकः कृतघ्नो नास्तिको लुब्धः कदाचिन्मुच्यते जनः २०

न तु श्रीरुद्रसामान्यदर्शी मुच्येत बन्धनात् विरञ्चिविष्णुशक्रेभ्यः सर्वोत्कृष्टं न जायते २१

विष्णुना यदि वा तुल्यं मुच्यन्ते नैव जन्तवः स्वामी मदीयः श्रीकण्ठस्तस्य दासोऽत्मि सर्वदा २२

लक्ष्मीरुवाच – गच्छामस्तत्र वैकुण्ठ यत्र स्वाम्यस्ति ते विभो कैलासपर्वते रम्ये प्रणमामः सदाशिवम् २३

सूत उवाच –

ततस्तौ गरुडारूढौ गत्वा कैलासपर्वतम् नानाविधैः स्तोत्रपदैः संतुष्टं चक्रतुः क्षणात् २४

ततो ब्रह्मादयो देवाः सिद्धास्तत्राऽऽगता गिरौ रुद्रः कौतूहलप्रेप्सुः सर्वैस्तैः परिवारितः २५

भवानीसहितस्तत्र गतो यत्र प्रतर्दनः सर्वदेवविमानानां मध्ये तिष्ठति शंकरः २६

श्रीमहेश उवाच –

कथयन्तु कथं ह्येते मिलिताः सर्वनिर्जराः किं कार्यं किमपूर्वं वा राजा चिन्तातुरः कथम् २७

देवा ऊचुः – स्वामिन्प्रतर्दनो राजा विधिलब्धवरोऽभवत् वेदमार्गप्रवक्ता च स्वयं तस्य प्रवर्तकः २८

सृष्टिरक्षार्थमस्माभिः कपटं कृतमीश्वर सर्वधातुश्च भवतो हेलनं कारितं सुरैः २९

तत्क्षमस्व महादेव किंनरोऽयं प्रवर्तितः कल्पितो वैष्णवोऽस्माभिस्तव निन्दापरायणः ३०

सूत उवाच –

एतस्मिन्नेव काले तु राजा वृत्तान्तमेयिवान् तीव्रं खड्गं समादाय हतवान्किंनरं क्रुधा ३१

तत्पक्षपातिनो ये च तेषां शीर्षाणि कंधरात् पृथक्कृतानि पश्वाद्या हता अश्वा अनेकशः ३२

न तं वारयते कश्चिद्राजानं पुण्यचेतसम् महादेवेन शमितः क्रोधस्तस्य महात्मनः ३३

ततः कोलाहले शान्ते नन्दी कौतुकपूर्वकम् युयोज हयशीर्षे तच्छरीराणि पृथक्पृथक् ३४

शीर्षाणि हयगात्रैश्च सम्यक्संयोज्य बुद्धिमान् उवाच वचनं तथ्यं देवसंसदि शुद्धयीः ३५

येन वक्त्रेण गिरिशो हेलितस्तन्मुखं हयः मुद्राधारणगर्भेण हेलितस्तत्तनुर्हयः ३६

ब्रह्मोवाच – गतं तदधुना तथ्यं राजर्षौ राज्यकर्तरि भविष्यं कथयिष्यामि तच्छृणुध्वं समाहिताः ३७

घोरे कलियुगे प्राप्ते म्लेच्छैर्व्याप्ते भुवस्तले सर्वाचारपरिभ्रष्टा भविष्यन्ति नराधमाः ३८

तवाऽऽन्ध्रीदेशमध्ये तु दाक्षिणात्यो भविष्यति ब्राह्मणो दुर्भगः कश्चिद्विधवाब्राह्मणरितः ३९

तस्य पापिष्ठविप्रस्य व्यभिचारात्सुतोऽनघः भविष्यति गुणान्वेषी दैवादध्ययनोत्सुकः ४०

पद्मपादुकमाचार्यं वरं वेदान्तवादिनम् अद्वैतागमबोद्धारं प्रणम्य प्रार्थयिष्यति ४१

विप्रोऽहं मधुशर्माऽस्मि स्वामिन्मां पाठय प्रभो वेदान्तशास्त्रसर्वं च मह्यं पाठय भो गुरो ४२

आचार्यः करुणामूर्तिर्विनयेन परिप्लुतम् करिष्यति च शिष्याणामग्रण्यं प्रेमवत्सलः ४३

ततो दिने दिने भक्तिं करिष्यति यथा यथा गुरुर्भवति संतुष्टः सर्वां विद्यां प्रयच्छति ४४

एकदा गुरुणा दृष्टः स्नानसंध्यादिकाः क्रियाः अकृत्वा भोजनप्रेप्सुर्भविष्यति निराह्निकः ४५

पृष्टोऽसौ गुरुणा तथ्यं गोलको हि वदिष्यति धर्मः साधारणो नाथ कृतोऽयं केन कुप्यसि ४६

ततो वक्ष्यत्यथाऽऽचार्यः कस्ते तातः प्रसूश्च का ततो मे ब्राह्मणः स्वामिन्ब्राह्मणी च प्रसूर्मम ४७

वद मातामहः कस्ते येन प्राप्ता प्रसूस्तव को विधिः कुत्र वा दत्ता तथ्यं शीघ्रं वदान्यथा ४८

भस्मसात्त्वां करिष्यामि हीनं ब्राह्मणवर्चसा इत्येवं कथिते सर्वं कथयिष्यति तत्त्वतः ४९

शापं दास्यत्यथाऽऽचार्यः सिद्धान्तो मा स्फुरत्वलम् सिद्धान्ते जडतां तेऽस्तु परमद्वैतदर्शने ५०

कथं त्वदीया सेवा मे निष्फला स्याद्वद प्रभो इत्यादिबहुनिर्वेदं यदा त्वेष करिष्यति ५१

पश्चाद्गदिष्यति स्वामी पूर्वपक्षोऽस्तु ते दृढः सिद्धान्ते सर्वथैवाऽऽन्ध्यं मम वाक्यं न चान्यथा ५२

मधुना तेन शास्त्राणां पूर्वपक्षो विलोकितः भविष्यति च वेदान्तमन्यथा कर्तुमुद्यतः ५३

यथा यथा कलेर्देवाः प्रचारः संभविष्यति तथा तथाऽयमुन्मार्गः शिवद्वेष्टुर्भविष्यति ५४

पूर्वं तु द्राविडाद्देशात्कर्णाटकतिलङ्गयोः शनैर्गोदावरीतीरे प्रसृतोऽयं भविष्यति ५५

पूर्णे कलियुगे प्राप्त आर्यावर्ते चलिष्यति मायावादमसच्छास्त्रं वदिष्यन्ति नराधमाः ५६

तेषां दर्शनमात्रेण सचैलं स्नानमाचरेत् भद्रात्वं च यथा विष्टे राहोः स्वर्भानुता यथा ५७

हरित्वं च यथाऽनेके तथैते तत्त्ववादिनः योगनिन्दापरा नित्यमग्निहोत्रस्य निन्दकाः ५८

वेदान्तसममित्याहुः पुराणानि च ये नराः केवलं वेषमात्रेण नरा नरकगामिनः ५९

संभाषणे कृते येषां पतेच्च ब्रह्मवर्चसः वरं बौद्धस्तथा जैनः कापालिकमतोऽपि वा ६०

व्यक्तं वदति वेदानामप्रामाण्यं तु तैः किमु वेदप्रामाण्यवत्कृत्वाऽभिमानी न च वैदिकः ६१

ईश्वरं वचनाद्वक्ति परं चानीश्वरः खलः सूत उवाच –

एवं जाते ततः सर्वे यथागतमितो गताः प्रतर्दनोऽपि राजर्षिः कृत्वा राज्यमकण्टकम् ६२

देहान्ते मुक्तिमापन्नः परामद्वैतलक्षणाम् ततः परं भविष्यन्ति तस्य शिष्या अनेकशः ६३

संन्यासिवेषमात्रेण कुर्वाणा जीविकां निजाम् राजसेवां प्रकुर्वाणाः प्रच्छन्नाः कौलिका अपि ६४

अगम्यागमने सक्ता अभक्ष्यस्य च भक्षणे अपेयनिरताः केचिन्नानाभोगसमाकुलाः ६५

यानारूढाः सदा राजसेवायां तत्परा अपि अद्वैतनिन्दानिरताः प्रच्छन्नग्रन्थगौरवाः ६६

अन्यदर्शनसिद्धान्तं नैव जानन्ति तत्त्वतः तत्र दोषस्य बुद्ध्या वै पठिष्यति कलौ युगे ६७

अन्यदैवतनामानि यदि हेयानि तत्कथम् वेदं पठन्ति पापिष्ठाः कथं तर्कं वदन्ति हि ६८

मीमांसाशास्त्रसद्ग्रन्थानालोक्य च पुनः पुनः पूर्वपक्षं च सर्वेषां ग्रहीष्यन्ति समत्सराः ६९

स्वकीयं न वदिष्यन्ति यतो नास्ति प्रमाकरम् हंसान्परमहंसांश्च निन्दिष्यन्ति च जारजाः ७०

जातमात्रं नरं कंचिन्मुण्डयित्वा मठाधिपम् काषायवस्त्रमात्रेण करिष्यन्ति नराधमाः ७१

माठापत्यं च सेवा च धनसंग्रह एव च दासीगयनमीर्ष्या च पञ्चधा तत्त्ववादिनः ७२

संसारस्तत्त्वमित्येव परं ते तत्त्ववादिनः मायाविलसितं विश्वमिति मायैकवादिनः ७३

शुद्धं तत्त्वं न जानन्ति विश्वं तत्त्वं वदन्ति च शब्दमात्रेण ते जाताः कलौ हा तत्त्ववादिनः ७४

भविष्यति यदा विप्राः पापानां प्रभवः कलौ तथा तथा भविष्यन्ति ह्युदीच्यां दम्भवैष्णवाः ७५

शिवसामान्यवक्तारं शिवसामान्यदर्शिनम् दृष्ट्वा स्नायात्सचैलः सञ्शिवसामान्यसङ्गिनम् ७६

मधुदर्शितमार्गेण पापिष्ठा वैष्णवाः कलौ भविष्यन्ति ततो म्लेच्छाः शूद्रा यूथबहिष्कृताः ७७

तस्माच्छृणुध्वं विप्रेन्द्रा माहात्म्यं पार्वतीपतेः भक्तिं तस्य सदा कर्तुमुद्यता भवत ध्रुवम् ७८

१८९८

इति श्रीब्रह्मपुराणोपपुराणे श्रीसौरे सूतशौनकसंवादे कलिप्रवेशादि कथनं नामोनचत्वारिंशोऽध्यायः ३९