३७ जालंधरवधकथनम्

ऋषय ऊचुः – कथं जालंधरो दैत्यो निहतः शूलपाणिना सुदर्शनेन चक्रेण वक्तुमर्हसि सांप्रत्नम् १

सूत उवाच –

आसीत्कृतान्तसंकाशो जालंधर इति स्मृतः जलमण्डलसंभूतस्तेन देवा विनिर्जिताः २

लोकपालाश्च साध्याश्च वसवश्च मरुद्गणाः विश्वेदेवास्तथाऽऽदित्या रुद्राश्चैव विनिर्जिताः ३

ब्रह्माणं सुरश्रेष्ठं समरे मुनिपुंगवाः जगाम जेतुं देवेशं विष्णुं दैत्यनिबर्हणम् ४

तेन सार्धमभूद्युद्धं जालंधरसुरेशयोः विनिर्जित्य ततो विष्णुं दैत्यान्प्रतीदमब्रवीत् ५

देवा विनिर्जिताः सर्वे वर्जयित्वा त्रिलोचनम् तमद्य जेतुमिच्छामि भगवन्तं महेश्वरम् ६

नन्दीश्वरेण सहितं साम्यं चैव रणाङ्गणे जालंधरवचः श्रुत्वा दैतेयास्ते द्विजोत्तमाः ७

ययुर्देवं तमीशानं योद्धुमुद्युक्तमानसाः ततो जालंधरो दैत्यो दैत्यैश्च सहितो बली ८

रथैर्नागैश्च संनद्धः प्रययौ शंकरान्तिकम् दृष्ट्वा जालंधरं शंभुरञ्जनाद्रिचयोपमम् ९

प्रहसन्नब्रवीद्दैत्यं ब्रह्मणो वरदर्पितम् युद्धेनालं दितेः पुत्र मब्दाणैर्नीशितैरिह १०

क्षणाद्विच्छिन्नसर्वाङ्गो मृत्योर्ग्रासं गमिष्यसि श्रुत्वा जालंधरो वाक्यं देवदेवस्य शूलिनः ११

कुपितः प्राह देवेशं भगवन्तं त्रिलोचनम् अनेन वाक्प्रलापेन किं महेश वृथा तव १२

गदया ताडयामि त्वामनया तीक्ष्णधारया भां यो जेष्यति लोकेषु न तं पश्यामि शंकर १३

तस्मादुत्थाय युध्यस्व यदि तेऽस्ति बलं शिव श्रुत्वाऽथ दैत्यवचनं पादाङ्गुष्ठेन शंकरः १४

चकार लीलया चक्रमम्बुधौ दिव्यमायुधम् यदिदं निर्मलं चक्रं जालंधर मयाऽम्बुधौ १५

बलं ते यदि चोद्धर्तुं तिष्ठ योद्भुं च नान्यथा आकर्ण्य तस्य वचनं क्रोधसंरक्तलोचनः १६

शूलिनं प्राह विप्रेन्द्रास्त्रैलोक्यं प्रदहन्निव जालंधर उवाच –

रेखामात्रं किमुद्धर्तुं किमिदं भाषसे शिव १७

मेर्वादयोऽपि तिष्ठन्ति किं मया न विचालिताः या त्वया लिखिता रेखा चक्ररूपा महेश्वर १८

तामुद्धृत्य ततो हन्मि त्वां नन्दिप्रमुखैः सह बालत्वे निर्जितो ब्रह्मा तरसैव पुरा मया १९

निक्षिप्तो भगवान्विष्णुर्लीलया शतयोजनम् इन्द्राद्या लोकपालाश्च वद्धाः कारागृहे स्थिताः २०

दासीभूताः स्त्रियस्तेषां वर्तन्ते मद्गृहे शिव दोर्भ्यां वियन्नदी रुद्धा क्रीड्यर्थं हिमवद्गिरौ २१

दिग्गजाश्च विनिक्षिप्ताः सिन्धौ वै रावणादयः वडवाग्नेर्मुस्त्रै रुद्धे चैकार्णव इवाभवत् २२

तस्मान्न जानासि क्रथं शंभो मम पराक्रमम् त्वामपि प्रापयान्यद्य जित्वा कारागृहं प्रति २३

तस्य तद्वचनं श्रुत्वा दानवस्य महेश्वरः नेत्राग्निलवभागेन चमूं तस्यादहत्क्षणात् २४

अक्षौहिणीनां साहस्रं लीलयैव महेश्वरः कृत्वा तद्भस्मसाद्विप्रा जालंधरमथाब्रवीत् २५

ईश्वर ऊवाच – समयो यः कृतः पूर्वं लेखामुद्धरणं प्रति कुरु दैत्य तथा शीघ्रं ततो मां जेतुमर्हसि २६

अथ शंभोर्वचः श्रुत्वा मदान्धो दैत्यपुंगवः दोर्भ्यामास्फोट्य वेगेन लेखामुद्धर्तुमुद्यतः २७

सुदर्शनाख्यं यच्चक्रं कृच्छ्रेण महता द्विजाः स्कन्धे वै स्थापयामास द्विधाभूते ततः क्षणात् २८

निपपात ततो दैत्यो मेघाचल इवापरः तस्य देहस्य रक्तेन संपूरितमभूज्जगत् २९

नियोगाद्देवदेवस्य तन्मासं तस्य शोणितम् रक्तकुण्डमभूत्तत्र निरये पापकर्मणाम् ३०

दृष्ट्वा जालंधरं देवा निहतं शूलपाणिना मुमुचुः पुष्पवर्षाणि जय देवेति चाब्रुवन् ३१

देवाः स्वस्थानमापन्नाः समुद्राश्च वसुंधरा दिग्गजाः पर्वताः सर्वे हते तस्मिन्महासुरे ३२

जालंधरवधं यस्तु पठेद्वा शृणुयादपि श्रावयेद्वा द्विजान्भक्त्या ब्रह्मलोकं स गच्छति ३३

१७२४

इति श्रीब्रह्मपुराणोपपुराणे श्रीसौरे सूतशौनकसंवादे जालंधरवधकथनं नाम सप्तत्रिंशोऽध्यायः ३७