३५ शिवरथत्रिपुरदाहकथनम्

सूत उवाच –

अथ नन्दीश्वरः प्राह ब्रह्मादीन्परया मुदा ससारथिं रथं शंभोः सशरं कर्तुमर्हथ १

रथारूढो महादेवस्त्रिपुरं संहरिष्यति अथ देवाधिदेवस्य निर्मितो विश्वकर्मणा २

रथः परमशोभाढ्यः सर्वदेवमयः शिवः सूर्यचन्द्रौ स्मृतौ चक्रे अरयः शशिनः कलाः ३

सूक्ष्मारा द्वादशाऽऽदित्या नेम्यः षडृतवः स्मृताः अन्तरिक्षमभूत्तस्य पुष्करं मुनिपुंगवाः ४

मन्दरश्चाभवन्नीडं कूवरं कथयामि वः उदयाद्रिस्तथाऽस्ताद्रिरधिष्ठानमथोच्यते ५

मेरुः केसरशैलश्च वेगः संवत्सरः स्मृतः अयने मेखले प्रोक्ते चक्रयोर्मुनिपुंगवाः ६

मुहूर्ता वन्धुराः शस्ता रथस्य द्विजसत्तमाः घोणा काष्ठाश्च विज्ञेया अक्षदण्डः क्षणा द्विजाः ७

कुथा निमेषाः कथिताः कलाश्चैव लवाः स्मृताः द्यौर्वरूथमभूत्तस्य स्वर्गमोक्षावुभौ ध्वजौ ८

दण्डौ च कर्मवैराग्ये मखा दण्डाश्रयाः स्मृताः संभयो दक्षिणास्तस्य युगाक्षौ शृणुत द्विजाः ९

अर्थकामौ द्विजश्रेष्ठा ईषादण्डस्तथोच्यते अव्यक्तमिति यत्प्रोक्तं बुद्धिस्तस्यैव विड्वलः १०

अहंकारो भवेत्कोणो भूतानि बलमुत्तमम् भूषणानीन्द्रियाणि स्युरर्धं च गतिरुत्तमा ११

वेदास्तस्य हयाः प्रोक्ताः षडङ्गानि च भूषणम् धर्मशास्त्राणि भीमांसा पुराणं न्याय एव च १२

बाणाश्रयाक्षयाश्चैव मन्त्रा घण्टा इवेरिताः रथंतरं च च्छन्दांसि दिशः पादा रथस्य ताः १३

सरितां पतयस्तस्य रथकम्बलिकाः स्मृताः गङ्गाद्याः सरितः शुभ्राः सर्वाभरणभूषिताः १४

सर्वाः स्त्रीरूपधारिण्यश्चामराग्रकराः शुभाः सप्ताऽऽवहाद्याः सोपानाः सारथिर्भगवानजः १५

प्रतोदः प्रणवस्तस्य शैलेन्द्रः कार्मुकं तथा ज्या भुजंगाधिपः श्रीमान्घण्टा वै भारती स्मृता १६

इषुस्तस्याभवद्विष्णुर्यमः शल्यं द्विजोत्तमाः शरस्य तैक्ष्ण्यं कालाग्निरेवं देवमयो रथः १७

अथाऽऽरुरोह भगवान्दिव्यं रथमनुत्तमम् स्तूयमानो महादेवो मुनिसंघैर्मुनीश्वराः १८

स्वकार्यविघ्नकर्तारं देवं दृष्ट्वा विनायकम् संपूज्य भक्ष्यभोज्यैश्च फलैश्च विविधैः शुभैः १९

उण्डेरमोर्देकैश्चैव पुष्पैर्दीपैर्मनोहरैः एवं संपूज्य भगवान्पुरं दुग्धुं जगाम ह २०

शंभोरग्रे ययुर्देवास्तेषामग्रे गणेश्वराः तेषामग्रेसरो नन्दी सर्वलोकनमस्कृतः २१

विमानं कोटिसूर्याभमारुह्य मुनिपुंगवाः दैत्यान्प्रहर्तुं शैलादिस्त्वरेण प्रययौ तदा २२

समन्तात्प्रययुर्देवाः सायुधाश्च सवाहनाः लोकपालास्तथा सिद्धा गन्धर्वाप्सरसां गणाः २३

मुनयः शंसितात्मानो मातरो लोकमातरः समन्ताद्देवदेवस्य कृताञ्जलिपुटा ययुः २४

पुष्पवर्षाणि ववृषुः खेचराश्चारणास्तथा भृङ्गी पुरत्रयं हन्तुं लक्षकोटिगणैर्वृतः २५

जगाम शङ्कुकर्णश्च गोकर्णश्च महाबलः कुन्द्रदन्तो महाकालो डिण्डी मुण्डी गणेश्वरः २६

शतजिह्वः सहस्राक्षो वीरभद्रो महाबलः शिवाख्यो विशिखश्चैव तथा पञ्चशिखो महान् २७

शतास्यष्टङ्कहस्तश्च पिशाचीशः पिनाकधृक्
एते चान्ये च बहवो गणानां लक्षकोटयः समन्तात्परिवार्येशं त्रिपुरं हन्तुमुद्यताः २८

अथ विरञ्चिमुरारिविभावसुप्रभृतिभिर्नतपादसरोरुहः सह तदा हि जगाम तयाऽम्बया सकललोकहिताय पुरत्रयम् २९

दग्धुं समर्थो मनसा क्षणेन चराचरं सर्वमिदं त्रिशूली किं त्वत्र दुग्धं त्रिपुरं पिनाकी स्वयं गतस्तत्र गणैश्च सार्धम् ३०

रथेन किं चेषुवरेण तस्य गणैश्च शंभोस्त्रिपुरं दिधक्षतः पुरत्रयं दग्धुमलुप्तशक्तेः किमेतदित्याहुरजेन्द्रमुख्याः ३१

मन्ये च नूनं भगवान्पिनाकी लीलार्थमेतत्सकलं प्रहर्तुम् व्यवस्थितश्चेति तथाऽन्यथा चेदाडम्बरेणास्य फलं किमेतत् ३२

अथ पाणौ समादाय धनुर्देवो महेश्वरः शरं संधाय वेगेन त्रिपुरं समचिन्तयत् ३३

तस्मिन्काले पुष्ययोगे पुराण्येकत्वमाययुः तद्वा समभवद्विप्रा देवानां तुमुलो महान् ३४

देवाश्च मुनयः सर्वे तुष्टुवुः परमेश्वरम् ननृतुर्यक्षगन्धर्वाश्चारणाः सिद्धकिंनराः ३५

अथाब्रवीन्महादेवं ब्रह्मा लोकपितामहः पुष्ययोगस्त्वनुप्राप्तो भगवन्पार्वतीपते ३६

पुराणीमानि देवेश पृथग्भावं न यान्ति वै योगेऽस्मिन्नेव भगवंस्त्रिपुरं दग्धुमर्हसि ३७

देवाश्च दैत्या देवेश समास्तव महेश्वर धर्मात्मानः सुरा यस्मात्पापात्मानोऽसुरास्तथा ३८

तस्माल्लीलां विहायैव भगवन्विश्वपूजित त्रैलोक्यस्य हितार्थाय त्रिपुरं दग्धुमर्हसि ३९

अथावैक्षत देवेशः पुरत्रयमवज्ञया भस्मसादभवद्विप्राः प्रभावात्परमेष्ठिनः ४०

अथाब्रुवन्नुपेन्द्राद्या भगवन्तमुमापतिम् कृताञ्जलिपुटाः सर्वे स्तुवन्तोऽस्य रथे स्थिताः ४१

दग्धं यद्यपि देवेश त्रिपुरं वीक्षणात्प्रभो देवानां कार्यसिद्ध्यर्थं शरं मोक्तुमिहार्हसि ४२

अथ ज्यां धनुषो मृज्य प्रहसन्भगनेत्रहा मुमोच बाणं वेगेन त्रिपुरं भस्मसादभूत् ४३

ये तत्रेशाननिरता दैत्याः क्षपितकल्मषाः शिवलोकं गताः सर्वे शिवस्यानुग्रहाद्द्विजाः ४४

विरञ्चिप्रमुखा देवा मुनयः सिद्धकिंनराः वबन्दिरे महादेवं दण्डवाप्रणिपत्य ते ४५

सूत उवाच –

एवं विश्वेश्वरो देवो भगवान्पार्वतीपतिः ब्रह्मादिभ्यो वरं दत्त्वा मन्दरं प्रययौ शिवः ४६

ततो देवाः प्रमुदिताः स्वं स्वं धाम ययुर्द्विजाः निर्वैराः स्वस्थमनसः शिवस्यानुग्रहात्स्थिताः ४७

एवं संक्षेपतः प्रोक्तं दग्धं भगवता यथा त्रिपुरं मुनिशार्दूलाः पुण्याख्यानमनुत्तमम् ४८

यः पठेदिदमाख्यानं महादेवस्य संनिधौ सर्वपापविनिर्मुक्तः शिवलोके महीयते ४९

लक्ष्मीं विद्यां यशः पुत्रान्दारांश्च लभते नरः अन्यांश्च प्राप्नुयात्कामाञ्श्रद्धया मुनिपुंगवाः ५०

१६४५

इति श्रीब्रह्मपुराणोपपुराणे श्रीसौरे सूतशौनकसंवादे शिवरथत्रिपुरदाहकथनं नाम पञ्चत्रिंशोऽध्यायः ३५