३४ आदिकथनम्

ऋषय ऊचुः – सर्गश्च प्रतिसर्गश्च वंशा मन्वन्तराणि च वंशानुचरितं चैव श्रुतं सर्वमशेषतः १

इदानीं श्रोतुमिच्छामश्चरितं त्रिपुरद्विषः २

पुराणि त्रीणि भगवान्ददाह स कथं पुरा लीलयैवेषुणैकेन सूत नो वद कौतुकम् ३

सूत उवाच –

शृणुध्वमृषयः सर्वे चरितं शूलपाणिनः यथेरितं भगवता सूर्येण मनवे पुरा ४

शृण्वतां सर्वपापघ्नं सर्वदुष्टनिवारणम् यत्तत्सर्वापदां हन्तृ श्रोत्रपीयूषमुत्तमम् ५

तारको नाम यो दैत्यो निहतः शक्तिपाणिना आसन्सुतास्त्रयस्तस्य त्रैलोक्यैश्वर्यदर्पिताः ६

विद्युन्माली तारकाक्षः कमलाक्षो महाबलः तेपुस्तपो महाघोरं दानवाः प्रियकाङ्क्षया ७

यमैश्च नियमैर्युक्ता बभूवुरनिलाशनाः प्रीतश्चतुर्मुखस्तेषां प्रददौ वरमुत्तमम् ८

देवासुराणां सर्वेषामवध्यत्वं द्विजोत्तमाः पुनस्तैरमरेशत्वं याचितः पद्मसंभवः ९

वरमन्यं दैत्यवर्या वृणीध्वं मनसोप्सितम् दास्यामि तदहं क्षिप्रमिति ब्रह्माऽब्रवीत्पुनः १०

अब्रुवंस्ते विचार्यैवं मिथः कमलसंभवम् पुराणि त्रीणि लोकेश रचयित्वा वयं सदा ११

त्रील्ँलोकान्विचरिष्यामस्त्वत्तो लब्धवरा विभो ततो वर्षसहस्रे तु समेष्यामः परस्परम् १२

एकीभावं गमिष्यन्ति पुराणि च सुरोत्तम यदा समेतान्येतानि यो हन्याद्भगवंस्तदा १३

एकेनैवेषुणा देव स नो मृत्युर्भविष्यति एवमस्त्विति तानुक्त्वा ब्रह्माऽन्तर्धानमाप्तवान् १४

तेषां मयस्तु क्रमशश्चक्रे त्रीणि पुराण्यथ पृथिव्यामायसं त्वासीद्राजतं गगनाङ्गणे १५

स्वर्गे तु काञ्चनमयमसुराणां पुरं द्विजाः विस्तारायामतस्तेषां योजनानां शतं भवेत् १६

आयसं यत्पुरं दिव्यं विद्युन्मालेस्तदाऽभवत् राजतं तारकाक्षस्य कमलाक्षस्य काञ्चनम् १७

मयस्य तु गृहं रम्यं पुरेषु त्रिषु विस्तृतम् यत्राऽऽस्ते दानवः श्रीमान्देवदानवपूजितः १८

रम्यं पुरत्रयं रेजे त्रैलोक्यमिव चापरम् विमानैः सूर्यसंकाशैः समन्तात्परिशोभितम् १९

गजवाजिसमाकीर्णं गोपुराट्टालमण्डितम् सिद्धचारणगन्धर्वैर्दिव्यस्त्रीभिर्विराजितम् २०

रहस्यायतनैर्दिव्यैरग्निहोत्रैर्गृहे गृहे वेदाध्ययनसंपन्नैः समन्तादुपशोभितम् २१

सर्वाः पतिव्रतास्तत्र दानवानां स्त्रियो द्विजाः महादेवार्चनरतैर्दानवैरुपशोभितम् २२

तेषां तपःप्रभावेन शक्राद्यास्तनुतां गताः दृष्ट्वा देवास्तदैश्वर्यं पुराणां द्विजसत्तमाः २३

देवास्तत्तेजसा दग्धा विष्णुं गत्वेदमब्रुवन् देवा ऊचुः – देवदेव जगन्नाथ त्रैलोक्यस्याभयप्रद २४

पुरत्रयासुरभयाद्भवांस्त्रातुमिहार्हति एवं सुराणां वचनं श्रुत्वा दानवमर्दनः २५

गोविन्दश्चिन्तयामास किं कार्यमिति चेतसा हन्तव्यास्ते कथं दैत्या महादेवपरायणाः २६

हरतेजोग्निनिर्दग्धपापास्तेऽत्र न संशयः त्रैलोक्यमपि यो हत्वा महादेवपरायणः २७

कस्तं निहन्ता त्रैलोक्ये विना शंभोरनुग्रहात् शंभुप्रसादलेशेन ख्यातोऽस्मि भुवनत्रये २८

ब्रह्मा च देवा दैत्याश्च सिद्धाश्च मुनयस्तथा मनवो राक्षसाः सर्पा गन्धर्वाः पितरश्च ये २९

मातरो गुह्यका भूताः पिशाचा मानवास्तथा भगवन्तं महादेवमसंपूज्य जगत्त्रये ३०

सिद्धिमिच्छन्ति ये मूढस्ते स्युर्दुःखस्य भाजनम् तस्मात्तमीशमुग्रेण यज्ञेनेष्ट्वा सुरोत्तमम् ३१

हन्तव्या दानवा नूनमित्युक्त्वा कमलापतिः मेरोरुत्तरतो गत्वा यज्ञेनाथ सदाशिवम् ३२

इष्ट्वा वै रुद्रभागेण ततो भूता विनिर्गताः नानायुधकराः सर्वे त्रैलोक्यदहनप्रभाः ३३

भूतांस्तान्प्रस्थितान्दृष्ट्वा देवो नारायणोऽब्रवीत् गत्वा पुरत्रयं शीघ्रं दग्ध्वा हत्वा महासुरान् ३४

निःशेषानसुरान्कृत्वा पुनरागन्तुमर्हथ अथ विष्णोर्वचः श्रुत्वा भूतवृन्दा महाबलाः ३५

हरिं प्रणम्य प्रययुस्तन्नियोगात्पुरत्रयम् भूता भयंकरा दृप्ता अयुतायुतकोटयः ३६

पुरत्रयमनप्राप्य बभूवुर्नष्टचेतसः पराजितास्ततो भूता दैत्यैः सन्मार्गवर्तिभिः ३७

पुनरभ्येत्य शक्राद्या देवं नारायणं विभुम् अब्रुवंस्त्राहि भगवन्निर्जिता भयविह्वलाः ३८

चिन्तयामास तान्दृष्ट्वा शक्रादीन्विष्णुरव्ययः भविष्यति कथं कार्यं देवानामिति सुव्रताः ३९

नाभिचारेण नाशोऽस्ति धर्मिष्ठानां महात्मनाम् एते दैत्या महाभागाः सत्यव्रतपरायणाः ४०

श्रौतस्मार्तक्रियानिष्टा महादेवार्चने रताः मायया मोहयित्वैव निहन्तव्या महासुराः ४१

हनिष्ये त्रिपुरं सर्वमिति संचिन्त्य चेतसा असृजन्मायिनं शार्ङ्गी स्वात्मदेहान्मुनीश्वराः ४२

दृष्टप्रत्ययकृच्छास्त्रं ददौ विष्णुः सुविस्तरम् यस्मिञ्शरीरमेवाऽऽत्मा नास्ति पारत्रिकी गतिः ४३

संघातश्चेतयत्येव सुराया मदशक्तिवत् अपहृत्य परद्रव्यं कामस्तेनैव सेव्यते ४४

शास्त्रं तदुपदिश्यैव त्रिपुरं प्रति सुव्रताः प्रेषयामास तं विष्णुः सोऽपि मायी तदा ययौ ४५

पुरत्रयं प्रविश्याथ दानवा मोहितास्तदा तत्यजुर्वैदिकं कर्म भवे भक्तिं च शाश्वतीम् ४६

पातिव्रत्यं विहायैव स्वैरिण्यश्च स्त्रियस्तदा नारदोऽपि ययौ तत्र स्वशिष्यैः सहितो मुनिः ४७

मायारूपं समास्थाय नियोगाच्चक्रिणो द्विजाः स्त्रियो दृष्टफलार्थिनो दैत्या दृष्टफलार्थिनः ४८

बभूवुरुपदेशेन नारदस्य महात्मनः पाषण्डमार्गभूयिष्ठा संजाता दानवास्तदा ४९

शिवार्चनपरिभ्रष्टाः संजाता दानवास्तदा एवं स भगवान्विष्णुर्मायारूपधरो विभुः ५०

अधर्मबहुलं कृत्वा त्रिपुरं मुनिपुंगवाः महादेवमनुप्राप्य शरणं सर्वदेहिनाम् ५१

तुष्टाव स्तोत्रवर्येण भगवन्तं सनातनम् दण्डवत्प्रणिपत्याऽऽह जले स्थित्वा समाहितः ५२

नमः सर्वात्मने तुभ्यं शंकरायाऽऽर्तिहारिणे रुद्राय नीलकण्ठाय कद्रुद्राय प्रचेतसे ५३

गतिस्त्वं सर्वदाऽस्माकं नान्यद्देवारिमर्दन त्वमादिस्त्वमनादिस्त्वमनन्तश्चाक्षयः प्रभुः ५४

प्रकृतिः पुरुषः साक्षाद्द्रष्टा हर्ता जगद्गुरुः त्राता नेता जगत्यस्मिन्द्विजादीन्द्विजवत्सलः ५५

वरदो वाङ्मयो वाच्यो वाच्यवाचकवर्जितः ध्येयो मुक्त्यर्थमीशानो योगिभिर्योगवित्तमैः ५६

हृत्पुण्डरीकसुषिरे योगिनां संस्थितं सदा वदन्ति सूरयः सन्तं परब्रह्मस्वरूपिणम् ५७

भवन्तं तत्त्वमित्याहुस्तेजोराशिं परात्परम् परमात्मानमित्याहुरस्मिञ्जगति यद्विभो ५८

दृष्टं श्रुतं स्थितं सर्वं जायमानं जगद्गुरो अणोरल्पतरं प्राहुर्महतोऽपि महत्तरम् ५९

सर्वतःपाणिपादान्तं सर्वतोक्षिशिरोमुखम् महादेवमनिर्देश्यं सर्वज्ञं त्वामनामयम् ६०

विश्वरूपं विरूपाक्षं सदाशिवमनुत्तमम् कोटिभास्करसंकाशं कोटिशीतांशुसंनिभम् ६१

कोटिकालाग्निसंकाशं षड्विंशात्मकमीश्वरम् प्रवर्तकं जगत्यस्मिन्प्रकृतेः प्रपितामहम् ६२

वदन्ति वरदं देवं सर्वावासं स्वयंभुवम् श्रुतयः श्रुतिसारं त्वां श्रुतिसारविदश्च ये ६३

अदृष्टमस्वाभिरनेकमूर्ते द्विधा कृतं यद्भवता न लोके तदेव दैत्यासुरभूसुराश्च देवासुराः स्थावरजङ्गमाश्च ६४

पाहि नान्या गतिः शंभो विनिहत्यासुरान्क्षणात् मायया मोहिताः सर्वे दैत्यास्ते परमेश्वर ६५

यथा तरङ्गाः शफरीसमूहा युध्यन्ति चान्योन्यमपांनिधौ तु जडाश्रयादेव जडीकृताश्च सुरासुरास्तद्विजये हि सर्वे ६६

सूत उवाच – य इमं प्रातरुत्थाय शुचिर्भूत्वा पठेन्नरः शृणुयाद्वा स्तवं पुण्यं सर्वान्कामानवाप्नुयात् ६७

एवं स्तुतो महादेवो रुद्रजाप्येन चक्रिणा नन्दिदत्तकरः शंभुः स्वयं वचनमब्रवीत् ६८

ईश्वर उवाच –

युष्मत्कार्यं मया ज्ञातं विष्णोर्मायाबलं तथा त्रिपुरे चैव यद्वृत्तमसुराणां सुरोत्तमाः ६९

सर्वे गतसमाचारा वेदधर्मविनिन्दकाः दानवास्ते यतो जातास्तस्माद्वध्या मया तथा ७०

एवमुक्त्वा महादेवः सोमः स्कन्देन नन्दिना गणेश्वरैश्च सहितो दिव्यं भवनमाविशत् ७१

अथ ब्रह्मादयो देवा द्वारमाश्चित्य तुष्टुवुः ततो गणाग्रणीर्नन्दी शूलहस्तो विनिर्गतः ७२

आज्ञया देवदेवस्य तं दृष्ट्वा देवतागणाः तुष्टुवुर्विविधैः स्तोत्रैरभीष्टार्थप्रदायिनम् ७३

ववृषुः पुष्पवर्षाणि नन्दिनो मूर्ध्नि खेचराः नियोगाद्वज्रिणः सर्वे नन्दी तुष्टस्तदाऽभवत् ७४

१५९५

इति श्रीब्रह्मपुराणोपपुराणे श्रीसौरे सूतशौनकसंवादे विद्युन्मालि- तारकाक्षकमलाक्षतप आदिकथनं नाम चतुस्त्रिंशोऽध्यायः ३४