सूत उवाच –
विभुर्नामा भवेदिन्द्रो रैवतस्यान्तरे द्विजाः वैकुण्ठाद्याः स्मृता देवा गणाश्चत्वार ईरिताः १
हिरण्यरोमा विश्वश्रीरूर्ध्वबाहुस्तथैव च ऐन्द्रबाहुः सुबाहुश्च पर्जन्यश्च महामुनिः २
सप्तैत ऋषयः प्रोक्ताः प्रियव्रतकुलोद्भवाः
मनोजवः सुरेन्द्रोऽभूच्चाक्षुषेऽप्यन्तरे द्विजाः ३
आयोः प्रसूता भावाद्याः कथिता देवतागणाः सुमेधा विरजाश्चैव हविष्मानुत्तमो बुधः ४
अत्रिनामा सहिष्णुश्च सप्तैत ऋषयः स्मृताः पुत्रो विवस्वतो विप्रा मनुर्वैवस्वतः स्मृतः ५
सांप्रतं वर्तते योऽसौ तत्र देवान्ब्रवीम्यहम् मरुद्गणास्तथाऽऽदित्या रुद्राश्च वसवः स्मृताः ६
पुरंदरस्तु देवेन्द्रो बभूवासुरदर्पहा वसिष्ठः कश्यपश्चात्रिर्जमदग्निश्च गौतमः ७
विश्वामित्रो भरद्वाजः सप्तैत ऋषयो मताः मन्वन्तराण्यतीतानि वर्तमानं मया द्विजाः ८
कथितान्यथ वक्ष्यामि शृणुध्वं प्रतिसंचरम् चतुर्धा कथितः सोऽपि पुराणेऽस्मिन्द्विजोत्तमाः ९
नित्यो नैमित्तिकश्चैव प्राकृतात्यन्तिकौ तथा योऽयं भूतक्षयो लोके नित्यं नित्यस्तु स स्मृतः १०
कल्पान्ते यस्तु संहारो नैमित्तिक इहोच्यते महदाद्यं विशेषान्तं स यदा याति संक्षयम् ११
प्राकृतः प्रतिसर्गोऽयं कथ्यते मुनिभिर्द्विजाः आत्यन्तिकस्तु प्रलयो ज्ञानादेव स जायते १२
तच्च ज्ञानं महेशस्य भक्तिलभ्यमिति श्रुतिः चतुर्युगसहस्रान्ते संप्राप्ते भूतसंक्षये १३
अनावृष्टिस्ततस्तीव्रा जायते शतवार्षिकी वृक्षगुल्मलताः सर्वाः पृथिव्यां यान्ति संक्षयम् १४
गभस्तिमाली भगवानथ सप्तरथोऽभवत् रश्मिभिः सागराम्भांसि तदा पिबति भास्करः १५
दीप्ताश्च रश्मयस्तेन भवन्ति मुनिपुंगवाः भवन्ति सूर्याः सप्तैते सर्वतो रश्मिसंकुलाः १६
तेषां रश्मिप्रतापेन दग्धा भवति मेदिनी द्वीपैश्च पर्वतेः सार्धं सागरैश्च द्विजोत्तमाः १७
सूर्यतेजोग्निदग्धानां भूतानां च परस्परम् एकत्वमुपजातानामग्निरेकस्ततोऽभवत् १८
ज्वालाभिरखिलं विश्वं निर्दहत्याशु पावकः स दग्ध्वा पृथिवीं सर्वां रुद्रतेजोविजृम्भितः १९
दिवं दग्ध्वाऽथ पातालं दन्दहीति द्विजोत्तमाः उत्तिष्ठन्ति शिखास्तस्य शतयोजनमायताः २०
तेजसा तस्य कालाग्नेरग्निः संवर्तकः स्वयम् दग्ध्वा स चतुरो लोकान्सयक्षोरगराक्षसान् २१
तप्तायःपिण्डवत्सर्वं जगदेतत्प्रकाशते उत्तिष्ठन्ते ततो मेघास्तडिद्भिश्च समन्ततः २२
संवर्तकोपमाः सर्वे नानावर्णा भयंकराः जायन्ते भास्कराद्धोरा राविणो मुनिपुंगवाः २३
ततो वर्षं प्रमुञ्चन्ति बिन्दुभिर्गजसंनिभैः ब्रह्मणा प्रेरिता वृष्टिर्जायते शतवार्षिकी २४
जलौधैर्नाशमायान्ति तदा कल्पान्तपावकाः द्वीपैश्च पर्वतैर्युक्ता पृथिवी पूर्यते जलैः २५
विलीयते धरा चैव सर्वा एव द्विजोत्तमाः तस्मिन्नैकार्णवे घोरे देवदेवः प्रजापतिः २६
योगनिद्रां समास्थाय शेते ध्यायन्महेश्वरम् एष नैमित्तिकः प्रोक्तः प्रलयो मुनिपुंगवाः २७
अतः शृणुध्वं वक्ष्यामि प्राकृतः प्रलयो यथा कालाग्निरुद्रो भगवान्परार्धद्वितये गते २८
ब्रह्माण्डं भस्मसात्कृत्वा ताण्डवं नाट्यमास्थितः पीत्वा तत्परमानन्दं समालोक्य गिरीन्द्रजाम् २९
एका सा परमा शक्तिर्नित्या हैमवती शिवा एक एव महादेवस्तयोर्भेदो न विद्यते ३०
तिष्ठत्येका तदा तस्मिन्नेक एव महेश्वरः पार्वत्या परया शक्त्या नान्यः कश्चिदिति श्रुतिः ३१
सहस्रशीर्षा पुरुषः सहस्राकृतिरीश्वरः सहस्रनयनो देवः सहस्रचरणः शिवः ३२
सहस्रबाहुर्विश्वात्मा त्रिशूली दीप्तलोचनः दंष्ट्राकरालवदनः परब्रह्मतनुः शिवः ३३
दग्ध्वा ब्रह्मादिकं विश्वं स्वतेजस्यधितिष्ठति पृथिवी विलयं याति स्वगुणैरप्सु संयुता ३४
जलमग्नौ लयं याति वायौ तेजश्च लीयते व्योम्नि वायुर्लयं याति भूतादौ व्योम लीयते ३५
इन्द्रियाणि च सर्वाणि तैजसे यान्ति संक्षयम् वैकारिके देवगणाः प्रलयं यान्ति सत्तमाः ३६
अहंकारो लयं याति महति त्रिविधश्च यः महत्तत्त्वं लयं याति विरञ्चौ मुनिपुंगवाः ३७
अव्यक्ते निलयस्तस्य ब्रह्मणः पद्मजन्मनः एवं भूतैश्च तत्त्वानि संहृत्य भगवाञ्शिवः ३८
आस्ते स भगवानेको न द्वितीयोऽस्ति कश्चन इच्छया पार्वतीशस्य प्रलयो नान्यथा द्विजाः ३९
ब्रह्मादीनां पुनः सृष्टिरित्याहुस्तत्त्वदर्शिनः तस्यैव शक्तयस्तिस्रो ब्रह्मविष्णुमहेश्वराः ४०
सर्वस्मादधिकस्ताभ्यः शूलपाणिरिति श्रुतिः एकमेव महादेवं वदन्ति बहुधा जनाः ४१
ब्रह्माणं शार्ङ्गिणं रुद्रं वायुमिन्द्रं रविं शशिम् अग्निं यमं च वरुणं जनं भेददृशो जनाः ४२
तत्तद्रूपं समास्थाय भगवानेव शंकरः फलं ददाति सर्वेषां सर्वशक्तिमयः शिवः ४३
तस्मात्सर्वान्परित्यज्य यजेदेकं महेश्वरम् आदिमध्यान्तरहितं निर्गुणं तमसः परम् ४४
क्रमेण लभ्यतेऽन्येषां मुक्तिराराधने द्विजाः आराधयन्महेशं तं तस्मिञ्जन्मनि मुच्यते ४५
एष वः कथितो विप्रा यथावत्प्रतिसंचरः यदीरितं भगवता किमन्यच्छ्रोतुमिच्छथ ४६
१५२१
इति श्रीब्रह्मपुराणोपपुराणे श्रीसौरे सूतशौनकसंवादे नित्यनैमित्तिक प्राकृतात्यन्तिकप्रतिसंचरकथनं नाम त्रयस्त्रिंशोऽध्यायः ३३