मन्वन्तराणि वक्ष्यामि शृणुध्वं मुनिपुंगवाः मनवः षडतीतास्ते सप्तमो वर्तते किल १
तेषां स्वायंभुवस्त्वाद्यस्ततः स्वारोचिषः स्मृतः उत्तमस्तामसश्चैव रैवतश्चाक्षुषस्तथा २
स्वायंभुवं तु कल्पादावन्तरं कथितं मया स्वारोचिषेऽन्तरे देवास्तुषिता नाम ते स्मृताः ३
विपश्चिन्नाम देवेन्द्र ऋषीन्वक्ष्यामि सांप्रतम् ऊर्जस्तम्भस्तथा प्राणो दान्तोऽथ ऋषभस्तथा ४
तिमिरः शार्वरीवांश्च सप्तैत ऋषयः स्मृताः उत्तरे त्वन्तरे देवाः सुधामानो द्विजोत्तमाः ५
प्रतर्दनाः शिवाः सत्यास्ततश्च वशवर्तिनः एतेषां च गणाः प्रोक्ता भवद्वादशभिर्गणैः ६
सुदान्तिर्नाम देवेन्द्रो महाबलपराक्रमः रजो गोत्रोऽर्धबाहुश्च सवनश्चानघस्तथा ७
सुतपाः शुक्रनामाऽथ सप्तैत ऋषयः स्मृताः मर्त्याश्च सुधियश्चैव तामसस्यान्तरे सुराः ज्योतिर्धर्मः पृथुः कल्पश्चैत्राग्निः सवनस्तथा ८
पीवरश्च समाख्याताः सप्तैत ऋषयो मताः स्याच्छिबिर्नाम देवेन्द्रः सिद्धचारणसेवितः ९
देवराज्यं परित्यज्य परं वैराग्यमाश्रितः ज्ञात्वैवाशाश्वतं सर्वं बृहस्पतिमथाब्रवीत् १०
भगवन्किं करोमीदं राज्यं तुच्छसुखं यतः कैवल्यं लभते केन तन्मे ब्रूहि गुरो स्फुटम् ११
बृहस्पतिरुवाच – अस्त्यनन्तगुणावासः परानन्दैकविग्रहः ध्यातः कैवल्यदः पुंसां महादेवो न चापरः १२
मोहपाशनिबद्धानां महामोहात्मतां हरेत् स्मरणान्मोचकस्तेषामुमापतिरिति श्रुतिः १३
यद्ब्रह्म परमं ज्योतिः प्रतिष्ठाक्षरमव्ययम् सर्वानुग्राहिणं शंभुं तमाशु शरणं व्रज १४
स ज्योतिषां परं ज्योतिरानन्दं तमसः परम् न यस्मादधिकं किंचित्तत्तत्त्वं विद्धि शांकरम् १५
तं जानीहि परं ब्रह्म विश्वात्मानं महेश्वरम् तदात्मकतया सर्वं जानीह्यसुरसूदन १६
आत्मानं ये हि मन्यन्ते विभिन्नं त्रिपुरद्विषः ते पश्यन्त्येव तं देवं नाऽऽवर्तन्ते पुनः पुनः १७
सर्वस्मादधिकः शंभुः परमात्मा महेश्वरः इति ये निश्चितधियः कृतार्थास्ते सुराधिप १८
दर्शनं तस्य काङ्क्षन्ते हरिब्रह्मादयः सुराः योगिनो नियतात्मानस्तमीशं शरणं व्रज १९
महदादिविशेषान्तं जगद्यस्मिल्ँलयं व्रजेत् पुनरुत्पद्यते यस्मात्तं जानीहि पिनाकिनम् २०
लीलाविलसितं यस्य विश्वमेतञ्चराचरम् तदभावाच्च विलयस्तं जानीहि महेश्वरम् २१
यस्याऽऽज्ञया स्थितो ब्रह्मा जगज्जननकर्मणि हरिश्च पालने रुद्रः संहारे च स शूलभृत् २२
यस्य प्रसादलेशेन मर्त्यो मरणधर्मिणः भवन्त्येव हि तेऽमर्त्या भजन्ते वृषभध्वजम् २३
क्षणं मुहूर्तमथवा ध्यातः संपूजितः स्मृतः प्रददात्याशु कैवल्यं यस्तं भज महेश्वरम् २४
तस्यैव मूर्तयस्तिस्रो ब्रह्मविष्णुहरा इति सर्गरक्षागुणलयैस्तमीशं शरणं व्रज २५
यस्यान्तःस्थानि भूतानि येनेदं भ्राम्यते जगत् ब्रह्मेति च जगुर्वेदास्तं रुद्रं शरजं व्रज २६
यज्ञैर्य इज्यते देवो मुक्तये वेदवादिभिः कर्मणां फलदस्तेषां शरणं व्रज तं हरम् २७
ये विनिद्रा जितश्वासा ध्यायन्ति क्षीणकर्मिणः तेषां प्रजायते यत्तत्तत्त्वं विद्धि च शांकरम् २८
अज्ञानरज्ज्वा बद्धानां मनुष्यादिशरीरिणाम् महादेवादृते नान्यं शक्र पश्यामि मोचकम् २९
तस्मात्त्वं तपसा शक्र समाराधय शंकरम् प्रसन्नो दास्यति पदं तव कैवल्यमुत्तमम् ३०
एवं गुरोर्निगदितं श्रुत्वा सुरपतिस्तदा समाराधयितुं देवं ययौ बदरिकाश्रमम् ३१
तत्र गत्वा जटी भूत्वा भस्मनिष्ठो जितेन्द्रियः मन्दाकिनीजले स्नात्वा भस्म चैवाभिमन्त्र्य च ३२
अग्निरित्यादिमन्त्रैश्च समुद्धूल्य च विग्रहम् पूजयामास देवेशं पुष्पैः पत्रैर्मनोहरैः ३३
शैवीं विद्यां जपन्नास्ते शिवध्यानैकतत्परः एवं गतानि वर्षाणि सहस्राणि चतुर्दश ३४
तपसा देवराजस्य प्रसन्नोऽभूत्ततः शिवः प्राह त्रिपुरहा शक्रं वरं ब्रूहि शतक्रतो ३५
तपसाऽनेन तीव्रेण प्रसन्नोऽहं तवानघ ईप्सितं ते प्रदास्यामि तव यद्यपि दुर्लभम् ३६
मयि प्रसन्ने तु हरे न किंचिदपि दुर्लभम् ३७
एवं शंभोर्वचः श्रुत्वा स्तुत्वा तं विविधैः स्तवैः कृताञ्जलिपुटो भूत्वा प्रणम्याऽऽह महेश्वरम् ३८
इन्द्र उवाच –
भगवन्कृतकृत्योऽस्मि भवतो दर्शनाच्छिव अलमन्यैर्वरैः शंभो भक्तिर्भवतु मे त्वयि ३९
तव भक्त्यमृतास्वादपरानन्दस्य देहिनः भवेत्कष्टं कुतः शंभो पूर्णकामो यतो हि सः ४०
तावदेवास्थिरं चेतः परिभ्रमति वस्तुषु न यावत्त्वयि देवेश भक्तिर्भवति देहिनः ४१
तावदेव भवाम्भोधिर्दुस्तरो देहिनां हर तव पादाम्बुजे भक्तिः परा यावन्न लम्यते ४२
तावत्पतति संसारगर्ते जन्तुः पुनः पुनः यावन्न तव कारुण्यलेशो भवति शंकर ४३
संसारविषवृक्षो यः सर्वतोऽतिभयंकरः तव भक्तिकुठारेण च्छिद्यते नान्यथा शिव ४४
इति शक्रवचः श्रुत्वा कारुण्यादवलोक्य तम् समुत्स्पृश्य तु पाणिभ्यां गाणपत्यं ददौ शिव ४५
विरञ्चिप्रमुखा देवा जायन्ते कर्मगौरवात् प्रलये च विनश्यन्ति भवन्ति च पुनः पुनः ४६
स्वर्गं गत्वा गताः श्वभ्रं तिर्यक्त्वं च मनुष्यताम् पुनर्विरञ्च्यादिपदमेवं चक्ररम्परा ४७
शंभोर्गणेश्वरा ये च नाऽऽवर्तन्ते भवे पुनः भोगान्यथेप्सितान्भुक्त्वा शंभोः सायुज्यमाप्नुयुः ४८
स्वेच्छाविग्रहिणः सर्वे स्वेच्छाचारा गणेश्वराः शिवेन सह ते भोगान्भुक्त्वा यान्ति शिवं पदम् ४९
एवं दत्त्वा वरं शंभुर्गाणपत्यं सुदुर्लभम् सुरराजाय शिवये तत्रैवान्तर्हितोऽभवत् ५०
गाणपत्यं वरं लब्ध्वा शिबिर्भगवतो द्विजाः आज्ञया तस्य देवस्य जगाम स्वपुरीं ततः ५१
महादेवार्चनरतो महादेवकथारतः स्थित्वा मन्वन्तरं तत्र चण्डो नाम गणोऽभवत् ५२
वृषध्वजस्त्रिनेत्रश्च जटाजूटेन्दुमण्डितः शुद्धस्फटिकसंकाशश्चतुर्बाहुस्त्रिशूलभृत् ५३
अक्षमालाधरः खड्गी सर्वेषामभयप्रदः द्वीपिचर्माम्बरधरः सर्वाभरणभूषितः रराज शांकरपदे नन्दीश्वर इवापरः ५४
एतद्वः कथितं सर्वं शिबेस्तु चरितं द्विजाः सर्वपापक्षयकरं सर्वसिद्धिप्रदं नृणाम् ५५
श्रद्धया ये पठन्तीदं शिबेस्तु चरितं द्विजाः प्राप्नुवन्त्यश्वमेधस्य फलमित्यब्रवीद्रविः ५६
१४७५
इति श्रीब्रह्मपुराणोपपुराणे श्रीसौरे सूतशौनकसंवादे शिबिनामधेय देवेन्द्रचरितकथनं नाम द्वाविंशोऽध्यायः ३२