सूत उवाच –
हिरण्यकशिपोः पुत्रः प्रह्लादो दैत्यसत्तमः अन्धके निहते दैत्ये तत्र राज्ये स्थितः स्वयम् १
कृत्वा स सुचिरं कालं राज्यं परमधार्मिकः राज्ये विस्क्तो मतिमाञ्शमादिगुणसंयुतः २
राज्ये मतिमतां श्रेष्ठो ह्यभिषिच्य विरोचनम् तपोवनं गतः सोऽथ वासुदेवपरायणः ३
निरोधनश्च निहतो देवदेवेन चक्रिणा बलिस्तस्याभवत्पुत्रो दैत्यो धर्मपरायणः ४
बद्ध्वा नीतः स पातालं देवदेवेन चक्रिणा बाणासुरस्तस्य सुतो भक्तो विश्वेश्वरे शिवे ५
दत्तं भगवता तस्मै गाणपत्यमनुत्तमम् तारश्च शम्बरश्चैव कपिलः शंकरस्तथा ६
स्वर्भानुर्वृषपर्वा च बाणस्यैते सुता द्विजाः कश्यपात्सुरसा जज्ञे खेचरान्मुनिपुंगवाः ७
अनन्ताद्याः काद्रवेया बलिनो बलवत्तराः गन्धर्वाञ्जनयामास तथाऽरिष्टा तु कश्यपात् ८
विनता जनयामास विख्यातौ गरुडारुणौ पश्वादीन्स्थावरान्तांश्च तथाऽन्यान्सुषुवुर्द्विजाः ९
स्थावराञ्जङ्गमांश्चैव समुत्पाद्याथ कश्यपः पुनः संतानवृद्ध्यर्थं तताप परमं तपः १०
तपःप्रभावात्संभूतौ वत्सरश्चासितः सुतौ नैध्रुवो वत्सराज्जातो रैभ्यश्चैव महामतिः ११
सुमेधा सुषुवे पुत्रान्नैध्रुवान्कुण्डषायिनः असितादेकपर्णायां समभूद्देवलो मुनिः १२
आराध्य देवलः शंभुं परां सिद्धिमवाप्तवान् शाण्डिल्यो देवलाज्जात एतेऽपत्यास्तु काश्यपाः १३
तृणबिन्दुस्तु राजर्षिः कन्यामिलविलाभिधाम् पुलस्त्याय ददौ तस्यां विश्रवाः समजायत १४
पुष्पोत्कटा तथा वाका कैकसी देववर्णिनी चतस्रः पत्नयस्तस्य पौलस्त्यस्य महात्मनः १५
कुबेरो देववर्णिन्यां कैकस्यां रावणस्तथा कुम्भकर्णः शूर्पणखा तथैव च बिभीषणः १६
पुष्पोत्कटायामभवंस्त्रयः पुत्राश्च कन्यकाः महोदरः प्रहस्तश्च महापार्श्वस्तथाऽपरः १७
तथा कुम्भनखी कन्या तस्य विश्रवसो द्विजाः त्रिशिरा दूषणश्चैव विद्युज्जिह्वो महाबलः १८
वाकायामभवन्पुत्रा राक्षसाः क्रूरकर्मिणः भूता मृगाः पिशाचाश्च सर्वे वै दंष्ट्रिणस्तथा १९
पौलस्त्या इति ते सर्वे मरीचेः कश्यपः सुतः भृगोः सकाशादभवच्छुक्रो दैत्यगुरुर्महान् २०
प्राप्ता संजीविनी विद्या येन शुक्रेण धीमता महादेवं समाराध्य पुरा बदरिकाश्रमे २१
जरामरणनिर्मुक्तो वज्रकायो महामुनिः योगाचार्य इति ख्यातः प्रसादाद्गिरिजापतेः २२
अनसूया तु सुषुवे क्रमात्पुत्रत्रयं द्विजाः दत्तात्रेयं चन्द्रमसं तथा दुर्वाससं मुनिम् २३
आत्रेया इति ते ख्याता निरपत्यस्तथा क्रतुः वसिष्ठाय ददौ कन्यां नारदो मुनिपुंगवाः २४
अरुन्धतीमरुन्धत्यां शक्तिर्नाम बभूव ह शक्तेः पराशरस्तस्मात्कृष्णद्वैपायनो मुनिः २५
द्वैपायनाच्छुको जज्ञे पञ्च पुत्राः शुकस्य ते भूरिश्रवाः प्रभुः शंभुः कृष्णो गौरश्च पञ्चमः २६
कन्या कीर्तिमती नाम वंशा एते प्रकीर्तिताः कश्यपाददितिर्लेभे भास्करं तेजसाऽधिकम् २७
संज्ञा राज्ञी प्रभा छाया भानोर्भार्याः स्मृतास्त्विमाः सूते सूर्यान्मनुं संज्ञा यस्य वंशेऽभवन्नृपाः २८
यमं च यमुनां चैव राज्ञी रेवन्तमेव च प्रभा प्रभातमादित्याच्छाया सावर्णिमेव च २९
शनिं च तपती चैव विष्टिं चैव यथाक्रपम् इक्ष्वाकुर्नभगश्चैव धृष्टः शर्यातिरेव च ३०
नरिष्यन्तश्च नाभागो ह्यरिष्टः करुषस्तथा वृषध्वजो महातेजा नव वैवस्वताः समाः ३१
इला ज्येष्ठा वरिष्ठा च कन्या एतास्त्रयः स्मृताः इक्ष्वाकोश्चाभवत्पुत्रो विकुक्षिरिति विश्रुतः ३२
तस्य पुत्रशतं त्वासीत्ककुत्स्थो ज्येष्ठ ईरितः तस्मात्सुयोधनो जज्ञे पृथुस्तस्य सुतोऽभवत् ३३
विश्वकस्तस्य पुत्रोऽभूद्दमकस्तस्य वै सुतः तस्माच्छर्यातिरभवद्युवनाश्वश्च तत्सुतः ३४
श्रावस्तिस्तस्य पुत्रोऽभूच्छ्रावस्ती येन निर्मिता तस्मात्कुवलयः ख्यातो धुन्धुमारिस्ततोऽभवत् ३५
धुन्धुमारेस्त्रयः पुत्रा दृढाश्वाद्या महौजसः दृढाश्वस्य च दायादो हरिश्चन्द्रस्ततोऽभवत् ३६
रोहितस्तस्य पुत्रोऽभूद्रोहितस्यापि तत्सुतः धुन्धुस्तदभूत्पुत्रो धुन्धोः पुत्रौ बभूवतुः ३७
सुदेवो विजयश्चैव कुरुको विजयात्स्मृतः वृकोऽथ कुरुकाज्जज्ञे तस्माद्बाहुरभूत्सुतः ३८
सगरस्तस्य पुत्रोऽभूत्पौत्रस्तस्यांशुमान्स्मृतः तस्य पुत्रो दिलीपस्तु तस्माज्जज्ञे भगरिथः ३९
प्रीतोऽभूत्तपसा शंभुर्ददौ वरमनुत्तमम् गङ्गां बभार शिरसा रक्षार्थं जगतां हरः ४०
दशायुतानां वर्षाणि द्विसहस्रं शतद्वयम् महादेवाद्वरं लब्ध्वा राज्यं कृत्वा भगीरथः ४१
विरक्तो राज्यभोगेभ्यो विश्वं मत्वेन्द्रजालवत् जाबालं समनुप्राष्य यत्तज्ज्ञानं शिवात्मकम् ४२
मुनेरनुग्रहाल्लब्ध्वा परां सिद्धिं गतो नृपः श्रुतस्तस्याभवत्पुत्रो नाभागस्तत्सुतोऽभवत् ४३
सिन्धुद्वीपस्ततो जज्ञे अयुतायुस्ततोऽभवत् ऋतुपर्णस्तु तत्पुत्रः सुधामा तत्सुतोऽभवत् ४४
यस्मै दत्तं भगवता गानपत्यमनुत्तमम् कल्माषपादस्तत्पुत्रः क्षेत्रजस्तत्सुतोऽश्मकः ४५
ऋषेर्वसिष्ठाद्विप्रेन्द्रान्नकुलस्तत्सुतोऽभवत् नकुलस्याभवत्पुत्रो नाम्ना शतरथो नृपः ४६
अभूदिलविलस्तस्माद्वृद्धशर्मा ततोऽभवत् तस्माद्विश्वसहो नाम खट्वाङ्गस्तत्सुतोऽभवत् ४७
दीर्घबाहुस्ततो जज्ञे रघुस्तस्याभवत्सुतः रघोरजस्तु विख्यातो राजा दशरथस्ततः ४८
तस्य पुत्राश्च चत्वारो धर्मज्ञा लोकविश्रुताः रामोऽथ भरतश्चैव तृतीयो लक्ष्मणः स्मृतः ४९
चतुर्थश्चैव शत्रुघ्नो रामो नारायणः स्वयम् धर्मज्ञः सत्यसंकल्पो महादेवपरायणः ५०
सीता तस्याभवद्भार्था पार्वत्यंशसमुद्भवा जनकेन पुरा गौरी तपसा तोषिता यतः ५१
जनकाय ददौ शंभुः प्रीतो धनुरनुत्तमम् तद्धनुर्भञ्जयामास जनकस्य गृहे स्थितम् ५२
दृष्ट्वा पराक्रमं तस्य रामस्य गुणशालिनः जनकः प्रददौ तस्मै सीतां ब्रह्मविदां वरः ५३
पित्रा कृतोऽभिषेकार्थं रामो राज्यस्य वै यदा वारयामास कैकेयी तदा राज्ञः प्रिया वधूः ५४
राजंस्त्वया वरो दत्तः पूर्वमेव यतः प्रभो राजानं मत्सुतं तस्माद्भरतं कर्तुमर्हसि ५५
इति तस्या वचः श्रुत्वा राज्ये तमभिषिच्य सः प्रेषयामास तं रामं वनं प्रति सलक्ष्मणम् ५६
वनं गत्वा निवसतो भार्यां दृष्ट्वाऽथ राक्षसः रावणो नाम पौलस्त्यो नीत्वा लङ्कां पुनर्ययौ ५७
अदृष्ट्वा तां ततः सीतां दुःखितौ रामलक्ष्मणौ सख्यं वानरराजेन गत्वा दाशरथी द्विजाः ५८
सुग्रीवस्य सखा वीरो हनुमान्नाम वानरः गत्वाऽथ रावणपुरीमपश्यज्जनकात्मजाम् ५९
अश्रुपूर्णेक्षणां सीतामिन्दीवरनिभाननाम् विश्वासार्द्यं ददौ तस्यै रामस्यैवाङ्गुलीयकम् ६०
दृष्ट्वाऽङ्गुलीयकं सीता प्रहृष्टा च तदाऽभवत् समाश्वास्य ततः सीतां प्रययौ राघवान्तिकम् ६१
रागस्तमागतं दृष्ट्वा प्रहर्षोत्फुल्ललोचनः श्रुत्वा तद्वचनाद्वृत्तं युद्धाय कृतनिश्चयः ६२
सेतुं कृत्वाऽथ रक्षोभिर्युद्धं कृत्वा महामनाः निहत्य रावणं रामो भ्रातृभिः सह सुव्रतः ६३
आनयामास तां सीतामशोकवनमध्यगाम् प्रतिष्ठाप्य महादेवं सेतुमध्येऽथ राघवः ६४
लब्धवान्परमां भक्तिं शिवे शिवपराक्रमः रामेश्वर इति ख्यातो महादेवः पिनाकधृक् ६५
तस्य दर्शनमात्रेण ब्रह्महत्यां व्यपोहति अभिषिक्तस्ततो राज्ये रामो राजीवलोचनः ६६
पालयन्पृथिवीं सर्वां धर्मेण मुनिपुंगवः अयजद्देवदेवेशमश्वमेधेन शंकरम् ६७
तस्य प्रसादात्स्वपदं प्राप्तवानथ राघवः एवं संक्षेपतः प्रोक्तं रामस्य चरितं मया ६८
इदं विस्तरतो विप्राः प्रोक्तं वाल्मीकिना पुनः कुशश्चैको लवश्चान्यः पुत्रौ रामस्य सुव्रतौ ६९
सत्यसन्धौ महावीर्यौ महादेवपरायणौ अतिथिश्च कुशाज्जज्ञे निषधस्तत्सुतोऽभवत् नलस्तस्याभवत्पुत्रो नभस्तस्याभवत्सुतः ७०
ततश्चन्द्रावलोकश्च तारापीडस्ततोऽभवत् ततश्चन्द्रगिरिर्नाम भानुजित्तत्सुतोऽभवत् ७१
एते सर्वे नृपाः प्रोक्ता इक्ष्वाकुकुलसंभवाः धर्मात्मानो महासत्त्वाः कीर्तिमन्तो दृढव्रताः ७२
इमं यः पटते नित्यमिक्ष्वाकोर्वंशमुत्तमम् सर्वपापविनिर्मुक्तः सूर्यलोके महीयते ७३
१३५६
इति श्रीब्रह्मपुराणोपपुराणे श्रीसौरे सूतशौनकसंवादे प्रह्लादराज्यारोहणादीक्ष्वाकुकुलसंभवनृपमालिकान्तकथनं नाम त्रिंशोऽध्यायः ३०