२९ हिरण्याक्षवधादिकथनम्

सूत उवाच – हते हिरण्यकशिपौ प्रह्लादो दैत्यसत्तमः हिरण्याक्षं महाबाहुं राज्ये समभियोजयत् १

सोऽपि देवान्रणे जित्वा स्वर्गात्ते वै पलायिताः हिरण्याक्षो महादेवं तपसाऽऽराध्य चान्तकम् २

लेभे पुत्रं महाबाहुं सर्वोमरनिषूदनम् हिरण्याक्षभयाद्देवाः शार्ङ्गिणं शरणं गताः ३

दृष्ट्वान्थ भगवान्देवान्हिरण्याक्षवधाय वै वाराहं रूपमास्थाय हिरण्याक्षो निषूदितः ४

हते तस्मिन्हिरण्याक्षे प्रह्लादो वैष्णवाग्रणीः त्यक्त्वा तु तामसीं वृत्तिं स्वकीयं राज्यमास्थितः ५

ततः कदाचिद्देवानां मायया मोहितोऽभवत् कंचन ब्राह्मणं दृष्ट्वा कृशाङ्गं गृहमागतम् ६

अवज्ञामकरोद्दैत्यः शप्तस्तेनाग्रजन्मना बलं यस्य समाश्रित्य दैत्य मामवमन्यसे ७

भक्तिर्विनश्यतु क्षिप्रं तव देवे जनार्दने इति शप्त्वा यथौ विप्रः स्वाश्रमं मुनिपुंगवाः ८

अथ दैत्यपतिर्युद्धमकरोद्विष्णुना सह पितुर्वधमनुमृत्य देवाश्चान्मे विनिर्जिताः ९

अनुग्रहाद्भगवतः पूर्वस्मादैत्यराट् पुनः त्यक्त्वा मायामयं सर्वं शार्ङ्गिणं शरणं ययौ १०

अभिषिच्यान्धकं राज्ये योगयुक्तोऽभवत्स्वयम् अथ देवो महादेवः शरण्यः सर्वदेहिनाम् ११

केनापि हेतुना भिक्षामकरोद्ब्राह्मणैः सह संस्थाप्य मन्दरे देवीं गिरिजां गिरिजापतिः १२

सनारायणकान्देवानकरोत्यार्श्वगाञ्शिवः स्त्रीरूपधारिणो देवाः सेवन्ते पार्वती तदा १३

संस्थाप्य नन्दिप्रमुखानसंख्यातान्गणेश्वरान् भैरवं च समादिश्य नन्दिनं द्वारकेशतः १४

एतस्मिन्नन्तरे प्राप्तो मन्दरं चान्धकासुरः आहर्तुकामः शर्वाणीं तं दृष्ट्वा कालभैरवः १५

ताडयामास शूलेन पपात भुवि मूर्च्छितः
पुनरुत्थाय वेगेन गदामादाय दैत्यराट् १६

भैरवं ताडयामास तथा चान्यान्गणेश्वरान् दृष्ट्वा तदद्भुतं युद्धं विष्णुर्दानवमर्दनः १७

असृजच्छक्तयो दिव्यास्ताभिर्दैत्यः पराजितः ततो वधाय भगवान्रुद्रो मन्दरपर्वतम् १८

प्राप्तो यत्र स्थिता देवी देवैः सह गणेश्वरैः दृष्टा विश्वेश्वरं देवी शीघ्रं परमया मुदा १९

ननाम शिरसा भक्त्या भर्तुश्चरणपङ्कजम् प्रणम्य दण्डवद्विष्णुं यद्वृत्तं तन्न्यवेदयत् २०

श्रुत्वा तद्विस्मितो भूत्वा देव्या सह वरासने उपविष्टस्तदा सर्वे देवाः प्राञ्जलयः स्थिताः २१

अथास्मिन्नन्तरे प्राप्तो हिरण्यनयनात्मभूः युयुधे स सुरैः सार्थं मातृभिश्चः गणैः सह २२

तेन ते निर्जिता देवाः शक्राद्याः सह मातृभिः युद्धं तदद्भुतं दृष्ट्वा शार्ङ्गी शंकरमब्रवीत् २३

बथाऽसौ हन्यते दैत्यस्तथोपायं कुरु प्रभो एवं हरेर्वचः श्रुत्वा शंकरः कालभैरवम् २४

बधाय प्रेषयामास दैत्येन्द्रस्य वलीयसः ततः स भैरवः शंभोः शिवस्याऽऽज्ञां विधाय च २५

आदाय सहसा शूलं ययौ दैत्यस्य संगरम् शूलाग्रेण विनिर्भिद्य ननर्त स्वात्मलीलया २६

शूलाग्रे स्थापिते दैत्ये ब्रह्माद्या मुनयस्तदा अस्तुवन्विविधै स्तोत्रैर्हृष्टोः लोकस्तदाऽभवत् २७

अन्धक उवाच –

नमामि मूर्ध्ना भगवन्तमेकं समाहिता यं विदुरीशतत्त्वम् पुरातनं पुण्यमनन्तरूपं कालं कविं योगवियोगहेतुम् २८

दंष्ट्राकरालं दिवि नृत्यमानं हुताशवक्त्रं ज्वलनार्करूपम् सहस्रपादाक्षिशिरोभियुक्तं भवन्तमेकं प्रणमामि रुद्रम् २९

जयादिदेवामरपूजिताङ्घ्रे विभागहीनामलतत्त्वरूपम् त्वमग्निरेको बहुधा विभज्यसे वाद्यादिभेदैरखिलात्मरूपः ३०

त्वामेकमाहुः पुरुषं पुराणमादित्यवर्णं तमसः परस्तात् त्वं पश्यसीदं परिपास्यजस्रं त्वमन्तको योगिगणाभिजुष्ट ३१

एकान्तरात्मा बहुधा निविष्टो देहेषु देहादिविशेषहीनः त्वमात्मतत्त्वं परमार्थशब्दं भवन्तमाहुः शिवमेव केचित् ३२

त्वमक्षरं ब्रह्म परं पवित्रमानन्दरूपं प्रणवाभिधानम् त्वमीश्वरो वेदविदेषु सिद्धः स्वायंभूवोऽशेषविशेषहीनः ३३

त्वमिन्द्ररूपो वरुणोऽग्रिरूपो हंसः प्राणो मृत्युरन्नाधियज्ञः प्रजापतिर्भगवानेकरूपो नीलग्रीव स्तूयसे वेदविद्भिः ३४

नारायणस्त्वं जगतामनादिः पितामहस्त्वं प्रपितामहश्च वेदान्तगुह्योपनिषत्सु गीतः सदाशिवस्त्वं परमेश्वरोऽसि ३५

नमः परस्तात्तमसः परस्मै परात्मने पञ्चपरान्तराय त्रिमूर्त्यतीताय निरञ्जनाय सहस्रशक्त्यासनसंस्थिताय ३६

त्रिमूर्तयेऽनन्तपरात्ममूर्तये जगन्निवासाय जगन्मयाय नमो ललाटापिंतलोचनाय नमो जनानां हृदि संस्थिताय ३७

फणीन्द्रहाराय नमोऽस्तु तुब्यं मुनीन्द्रसिद्धाचिंतपादपद्म ऐश्वर्यघर्मासनसंस्थिताय नमः परान्ताय भवोद्भवाय ३८

सहस्रचन्द्रार्कसमूहमूर्तये नमोऽग्निचन्द्रार्कत्रिलोचनाय नमोऽस्तु सोमायनमघ्यमाय नमोऽस्तु देवाय हिरण्यबाहवे ३९

नमोऽतिगुह्याय गुहान्तराय वेदान्तविज्ञानविनिश्चिताय त्रिकालहीनामलधामधाम्ने नमो महेशाय नमः शिवाय ४०

स्तवेनानेन भगवान्प्रीतो भूत्वाऽथ भैरवः अवरोह्य च शूलाग्रातुवाच परमेश्वरः ४१

त्वयाऽहं स्तोत्रवर्येण तोषितो दैत्यपुंगव प्रीतोऽस्मि तव दास्यामि गाणपत्यं हि दुर्लभम् ४२

नन्दीश्वरसमो वत्स भृङ्गी नाम गणो भव एवं लब्धवरो दैत्यः कोटिसूर्यसमप्रभः ४३

नीलकण्ठस्त्रिनेत्रश्च वृषकेतुर्जटाधरः तं दृष्ट्वा देवताः सर्वा हर्षनिर्भरमानसाः ४४

तुष्टुवुर्गणराजं तं भैरवस्य समीपगम् अथ शंभोः समपिस्थां देवीं विश्वेश्वरीं शिवाम् ४५

संस्तूय सर्वभावेन शरणागतवत्सलाम् पुत्रत्वे जगृहे दैत्यं प्रीतेन मनसा शिवा ४६

ततोऽनुज्ञां महेशस्य लब्ध्वाऽसौ कालभैरवः मातृभिः सह विश्वात्मा पाताले स्वपुरं ययौ ४७

विष्णोर्भगवती मूर्तिर्यत्राऽऽस्ते तामसी परा अथ तां भैरवो दृष्ट्वा मुदा तां परिषस्वजे ४८

एकैव मूर्तिरभवत्तयोर्भैरवशार्ङ्गिणोः कालाग्निभैरवो योऽसौ स एव नृहरिः स्वयम् ४९

भगवान्नृहरिर्योऽसौ स एव किल भैरवः नृहरेः पूजनान्नूनं प्रीतो भवति भैरवः ५०

पूजनाद्भैरवस्यैव नृहरिः पूजितो भवेत् ये पश्यन्ति तयोर्भेदं मायया मोहिता जनाः ५१

निरये ते विपच्यन्ते यावदाभूतसंप्लवम् ५२

तस्मात्पूज्या सदा मूर्ती रुद्रनारायणात्मिका प्रीता भूत्वा भगवती भवत्यज्ञानहारिणी ५३

एवं संक्षेपतः प्रोक्तो मयाऽन्धकवधो द्विजाः प्रादुर्भावो भैरवस्य तस्य चैव पराक्रमः ५४

इमं यः पठतेऽध्यायं महादेवस्य संनिधौ सर्वपापविनिर्मुक्तः शिवस्यानुचरो भवेत् ५५

१२८३

इति श्रीब्रह्मपुराणोपपुराणे श्रीसौरे सूतशौनकसंवादे हिरण्याक्षवधादिकथनं नामोनत्रिंशोऽध्यायः २९