२८ सुरासुरसृष्ट्यादिकथनम्

सूत उवाच –

स्वयंभुवा समादिष्टः पूर्वं दक्षः प्रजापतिः प्रजा सृजेति सर्गादौ ससर्ज च सुरासुरान् १

प्रजापतेर्वीरणस्य कन्याऽसिक्नीति विश्रुता षष्टिं दक्षोऽसृजत्कन्या असिक्न्यां वै प्रजापतिः २

ददौ च दश धर्माय कश्यपाय त्रयोदश सप्तविंशतिं सोमाय चतस्रोऽरिष्टनेमिने ३

द्वे चैव बहुपुत्राय द्वे कृशाश्वाय धीमते द्वे चैवाङ्गिरसे तद्वद्ददौ दशः प्रजापतिः ४

साध्या विश्वा च संकल्पा मुहूर्ता च ह्यरुन्धती मरुत्वती वसुर्भानुर्लम्बा जामीति ता दश ५

धर्मस्य पत्नयस्त्वेतास्तासां संततिरुच्यते साध्या बभूवुः साध्यायां विश्वायां विश्वदेवताः ६

संकल्पायास्तु संकल्पो मुहूर्तस्तु मुहूर्तजाः अरुन्धत्यास्त्वरुन्धत्यां मरुत्वत्यां मरुत्वतः ७

वसोस्तु वसवः प्रोक्ता भानोस्ते भानवः स्मृताः लम्बायां घोषनामानो नागवीथीस्तु जामिजाः ८

ज्योतिष्मन्तस्त्रयो देवा व्यापकाः सर्वतोदिशम् वसवस्ते समाख्याताः सर्वभूतहितैषिणः ९

आपो नलश्च सोमश्च ध्रुवश्चैवानिलोऽनलः प्रत्यूषश्च प्रभासश्च वसवोऽष्टौ प्रकीर्तिताः १०

ध्रुवस्य पुत्रः कालः स्यात्सर्वलोकभयंकरः विश्वकर्मा प्रभासस्य धर्मस्यैषा तु संततिः ११

अदितिश्च दितिश्चैव दनुरित्यपरा मता अरिष्टा सुरसा प्रोक्ता स्वधा सुरभिरेव च १२

विनता च तथा ताम्रा कद्रूः क्रोधवशा त्विरा मुनेश्च पत्नयस्त्वेताः कश्यपस्य द्विजोत्तमाः १३

अशुर्धाता भगस्त्वष्टा मित्रोऽथ वरुणोऽर्यमा त्रिवस्वान्सविता पूषा अंशुमान्विष्णुरेव च १४

तुषिता नाम ते पूर्वं चाक्षुषस्यान्तरे मनोः आदित्या अदितेः पुत्राः प्रोक्ता वैवस्वतेऽन्तरे १५

पुत्रद्वयं दितिः सूते कश्यपान्मुनिपुंगवात् हिरण्यकशिपुं त्वेकं हिरण्याक्षमनन्तरम् १६

हिरण्यकशिपुर्योऽसौ ब्रह्मणो वरदर्पितः शक्राद्या देवताः सर्वास्तेन दैत्येन बाधिताः १७

ब्रह्माणं शरणं गत्वा प्रोचुः प्राञ्जलयः सुराः देवा ऊचुः – देवदेव जगन्नाथ चतुर्मुख सुरोत्तम १८

हिरण्यकेन दैत्येन शस्त्रास्त्रैः सूदिता वयम् दाराश्चापहृतास्तेन वज्रादीन्यायुधानि च १९

त्रायस्वास्मान्भयत्रस्ताञ्शरणं नान्यदस्ति नः एवं सुरैर्निगदितं श्रुत्वा चैव पितामहः २०

देवैः सह ययौ तूर्णं यत्राऽऽस्ते विष्णुरव्ययः संस्तूय विविधैः स्तोत्रैरब्रवीत्कमलासनः २१

ब्रह्मोवाच – हिरण्यकशिपुर्देव मद्वरेणातिगर्वितः बाधते सकलान्देवान्मुनीन्निर्धूतकल्मषान् २२

यस्तं हनिष्यति क्षिप्रं न तं पश्यामि माधव त्वमेव हन्ता तस्येति मत्वा वयमुपागताः २३

हन्तुमर्हसि तं शीघ्रं देवानां कार्यसिद्धये श्रुत्वा नारायणो वाक्यमीरितं त्रिदिवौकसाम् २४

नरस्यार्धतनुं कृत्वा सिंहस्यार्धतनुं तथा नृसिंहरूपी भगवान्हिरण्यकशिपोः पुरे २५

आविर्बभूव भगवान्देवो नारायणः प्रभुः मुञ्चन्नादं महाघोरमसुराणां भयंकरम् २६

हिरण्यकशिपुर्दृष्ट्वा बृसिंहमतिभीषणम् वधाय प्रेषयामास प्रहादादीन्महासुरान् २७

प्रह्लादश्चानुह्लादश्च संह्लादो ह्लाद एव च हिरण्यकशिपोः पुत्राश्चत्वारः प्रथितौजसः २८

नरसिंहेन ते सार्धं युयुधुर्दानवास्तदा प्रह्लादः प्राहिणोद्ब्राह्ममस्रं तं नरकेसरिम् २९

वैष्णवास्त्रमनुह्लाद कौमारं च तथाऽपरः प्राहिणोद्ध्राद आग्नेयं तथा चान्ये महासुराः ३०

चत्वार्यस्त्राणि संप्राप्य भगवन्तं नृकेसरिम् बभूवुस्तानि भग्नानि यथा वज्राहता दुमाः ३१

गृहीत्वा चतुरः पुत्रान्हस्ताभ्यां नरकेसरिः चिक्षेप गगनाद्भूमौ गृहीत्वैवं पुनः पुनः ३२

एवं तान्व्यथितान्दृष्ट्वा हिरण्यकशिपुः स्वयम् जाज्वल्यमानः कोपेन यथौ यत्र नृकेसरिः ३३

विनिवृत्तोऽथ सङ्ग्रामात्प्रह्लादो दैत्यराट् ततः ज्ञात्वा तु भगवद्भावं नृसिंहस्यामितौजसः ध्यात्वा नारायणं देवं वारयामास दानवान् ३४

एष नारायणो योगी परमात्मा सनातनः ध्यातव्यो न तु योद्धव्यो भवद्भिरिति निश्चितम् ३५

पुत्रोदितमनादृत्य हिरण्यकशिपुः पुनः युयुधे हरिणा सार्धं यावद्गर्षशतत्रयम् ३६

अथ विश्वात्मको विष्णुः क्रोधसंरक्तलोचनः नखैर्विदारयामास हिरण्यकशिपुं तदा ३७

१२२८

इति श्रीब्रह्मपुराणोपपुराणे श्रीसौरे सूतशौनकसंवादे सुरासुरसृष्ट्यादिकथनं नामाष्टाविंशोऽध्यायः २८