२७ उत्तानपादसंतत्यादिकथनम्

सूत उवाच –

उत्तानपादस्य सुतो ध्रुवो नाम महामनाः आराध्य परमं देवं नारायणमनामयम् १

निर्ममो निरहंकारस्तन्निष्ठस्तत्परायणः प्रसादात्तस्य देवस्य प्राप्तवान्स्थानमुत्तमम् २

ध्रुवस्य पुत्राश्चत्वारः सृष्टिर्धन्यस्तथा परः हर्यः शंभुर्महात्मानो वैष्णवाः प्रथितौजसः ३

छाया पञ्च सुतान्सूते सृष्टेर्धर्मपरायणान् रिपुं रिपुंजय विप्रं वृषलं वृकतेजसम् ४

रिपोर्भार्या तु बृहती प्रसूते चक्षुषं सुतम् सूते पुष्करिणी पुत्रं चक्षुषश्चाक्षुषं मनुम् ५

तद्वंशजा असंख्याता अङ्गक्रतुशिवादयः अङ्गाद्वेनस्ततो वैन्यस्तस्मात्पृथुरिति स्मृतः ६

ख्यातः स पृथिवीपालो येन दुग्धा वसुंधरा न तत्समो नृपः कश्चिद्विद्यते पृथिवीतले ७

वासुदेवार्चनरतो वासुदेवपरायणः तपसाऽऽराध्य गोविन्दं गोवर्धनगिरौ शुभे ८

प्रीतस्तमब्रवीद्विष्णुः पृथुं मुनिवरोत्तमाः मत्प्रसादेन राजर्षे पुत्रौ तव भविष्यतः ९

सार्वभौमौ महात्मानौ मद्भक्तौ पितृतत्परौ एवं लब्धवरो राजा देवेशे पुरुषोत्तमे १०

आस्थाय परमां भक्तिं भगवद्वाचमाश्रितः पृथोर्भार्या महाभागा कालेन सुषुवे सुतौ ११

शिखण्डिनं हविर्धानं सुशीलश्च शिखण्डिनः श्वेताश्वतरनामानं शिवध्यानैकतत्परम् १२

उपास्य लब्धवांस्तस्मात्सुशीलो योगमैश्वरम् ऋषय ऊचुः – सुशीलेन कथं राज्ञा प्राप्तं ज्ञानमनुत्तमम् १३

वयं तच्छ्रोतुमिच्छामो ब्रूहि सूत महामते १४

सूत उवाच –

योऽसौ शिखण्डिनः पुत्रो ब्रह्मचर्याश्रमे रतः अधीत्य विधिवद्वेदान्परं वैराग्यमास्थितः १५

विचारः श्रेयसे तस्य कदाचित्समभूद्द्विजाः प्रवृत्तं च निवृत्तं च कर्म यद्द्विविधं मतम् १६

तयोरात्यन्तिकी मुक्तिर्मम केन भविष्यति इति संचिन्त्य मनसा जगाम हिमवद्गिरिम् १७

तत्र धर्मवनं नाम मुनिसिद्धैर्निषेवितम् अपश्यद्योगिभिर्जुष्टं महादेवकृतालयम् १८

यत्र सिद्धा महात्मानो मरीच्याद्या महर्षयः
नारायणश्च भगवांस्तथा चान्ये सुरासुराः १९

समाराध्य महादेवं सिद्धिं प्राप्ता ह्यनेकशः यत्र मन्दाकिनी गङ्गा राजते ह्यघहारिणी २०

अपश्यदाश्रमं तस्यास्तीरे योगीन्द्रसेवितम् मदाकिनीजले तत्र स्नात्वाऽभ्यर्च्य महेश्वरम् २१

महादेवकथायुक्तैः स्तुत्वा स विविधैः स्तवैः ध्यायमानः क्षणं तत्र स्थितो विश्वेश्वरं शिवम् २२

श्वेताश्वतरनामानमथापश्यन्महामुनिम् महापाशुपतं शान्तं जीर्णकौपीनवाससम् २३

भस्मोद्धूलितसर्वाङ्गं त्रिपुण्ड्रातिलकान्वितम् अभिवन्द्य मुनेः पादौ शिरसा प्राञ्जलिर्नृपः २४

अब्रवीत्तं मुनिश्रेष्ठं सर्वभूतानुकम्पिनम् अद्य धन्यः कृतार्थोऽस्मि सफलं जीवितं मम २५

तपांसि सफलान्येव जातानि तव दर्शनात् भवामि तव शिष्योऽहं रक्ष संसारजाद्भयात् २६

योग्यता मम चेदस्ति शिष्योऽहं भवितुं तव सोऽनुगृह्याथ पुत्रत्वे राजानं मुनिपुंगवाः २७

कारयित्वा स संन्यासं ददौ योगमनुत्तमम् यत्तत्पाशुपतं योगमन्त्याश्रममिति श्रुतम् २८

गुह्यं तत्सर्ववेदेषु वेदविद्भिरनुष्ठितम् अनुग्रहान्मुनेस्तस्य सोऽपि पाशुपतोऽभवत् २९

वेदाभ्यासरतः शान्तो भस्मनिष्ठो जितेन्द्रियः संन्यासविधिमाश्रित्य सुशीलो मुक्तिमान्भवेत् ३०

इति श्रीब्रह्मपुराणोपपुराणे श्रीसौरे सूतशौनकसंवादे उत्तानपादसंतत्यादिकथनं नाम सप्तविंशोऽध्यायः २७