२६ मरीच्यादिसर्गदक्षकन्यासंततिकथनम्

सूत उवाच –

हिरण्यगर्भः शिवयोर्लब्ध्वा वरमनुत्तमम् असृजद्भगवान्ब्रह्मा मरीच्यादीनकल्मषान् १

मरीचिभृग्वङ्गिरसः पुलस्त्यं पुलहं क्रतुम् दक्षमत्रिं वसिष्ठं च सोऽसृजन्मनसा विभुः २

देवासुरमनुष्यांश्च पितृंश्चापि प्रजापतिः असृजत्क्रमशः सर्वानन्धकारे च राक्षसान् ३

गन्धर्वान्स तथा नागान्यक्षांश्चापि सहस्रशः असृजन्मुखतो विप्रान्बाहुभ्यां क्षत्त्रियान्विभुः ४

ऊरुद्वयात्तथा वैश्यान्पादाच्छूद्रान्ससर्ज ह छन्दांसि वेदान्यज्ञांश्च कल्पसूत्रमतः परम् ५

वेदाङ्गानि ततः सृष्ट्वा मैथुनप्रभवामतः सृष्टिं कर्तुं मतिं चक्रे देवदेवः पितामहः ६

स्वयमप्यर्धतो नारी त्वर्धेन पुरुषोऽभवत् अर्धेन नारी या तस्माच्छतरूपाऽभ्यजायत ७

स्वायंभुवं मनुं ब्रह्मा चार्धेन वपुषाऽसृजत् शतरूपा च या देवी तपस्वप्त्वा सुदुश्चरम् ८

अन्वपद्यत भर्तारं मनुं स्वायंभुवं द्विजाः प्रियव्रतोत्तानपादौ मनोः स्वायंभुवात्सुतौ ९

महात्मानौ महावीर्यौ शतरूपा व्यजीजनत् द्वे कन्ये लक्षणोपेते द्वाभ्यां सृष्टिरवर्धत १०

आकूतिश्च प्रसूतिश्च रुचये प्रथमां ददौ प्रसूतिं चैव दक्षाय स्वयं देवो मनुर्विराट् ११

चतस्रो विंशतिः कन्याः प्रसूत्यां संबभूविरे धर्माय प्रददौ दक्षः श्रद्धाद्या वै त्रयोदश १२

ददौ स भृगवे ख्यातिं सतीं देवाय शूलिने मरीचये च संभूतिं स्मृतिमङ्गिरसे तथा १३

पुलस्त्याय ददौ प्रीतिं पुलहाय तथा क्षमाम् संततिं कृतवे चैव अनसूयां तथाऽत्रये १४

वसिष्ठाय ददाबूर्जां स्वधां पितृगणाय च पावकाय तथा स्वाहां ददौ दक्षः प्रजापति १५

भृगोः ख्यात्यां समुत्पन्ना लक्ष्मीर्नारायणप्रिया देवौ धाताविधातारौ मेरोर्जामातरौ शुभौ १६

आयतिविंयतिश्चैव मेरोः कन्ये महात्मनः बभूवतुस्तयोः पुत्रौ प्राणश्चाऽऽद्यश्च कथ्यते १७

मृकण्डुरथ तत्पुत्रो मार्कण्डेयो मृकण्डुतः अभूद्वेदाशिरा नाम प्राणस्य मुत्निसत्तमाः १८

मरीचेरपि संभूतिः पौर्णमासमसूयत कन्याचतुष्टयं चैव श्रद्धादीनां द्विजोत्तमाः १९

कर्दमं चाम्बरीषं च पुलहात्सुषुवे क्षमा दुर्वाससं तथा सोमं दत्तात्रेयं त्त योगिनम् २०

अनसूया तु सुषुवे पुत्रानत्रेरकल्मषात् सिनीवालीं कुहूं चैव राकामनुमतिं तथा २१

स्मृतिश्चाङ्गिरसः पुत्रीः सूते लक्षणसंयुताः प्रीत्या पुलस्त्यादभवद्दत्तो निर्मानवैः सुतः २२

पूर्वजन्मनि योऽगस्त्यः ख्यातः स्वार्यभुवेऽन्तरे पुत्राणां षष्टिसाहस्रं संततिः सुषुवे क्रतोः २३

वालखिल्या इति ख्याताः सर्वे ते चोर्ध्वरेतसः वसिष्ठश्च तथोर्जायां सप्त पुत्रानजीजनत् २४

रजो गोत्रोऽर्ध्वबाहुश्च सवनश्चानघस्तथा सुतपाः शुक्ल इत्येते पुण्डरीका च कन्यका २५

ब्रह्मणस्तनयो वह्निर्योऽसौ रुद्रात्मकः स्मृतः तस्मात्स्वाहा सुताँलेभे त्रीनुदारान्गुणाधिकान् २६

पावकः पवमानश्च वैद्युतः पावकः स्मृतः २७

सूर्ये तपति यो वह्निः शुचिरग्निरिहेष्यते बभूवुः संततौ तेषां चत्वारिंशच्च पञ्च च २८

पावकाद्यास्त्रयश्चैते चत्वारिंशत्तथा नव यज्ञेषु भागिनः सर्वे तथा सर्वे तपश्विनः २९

रुद्रार्चनपराः सर्वे त्रिपुण्ड्राङ्कितगस्तकाः अयज्वानश्च यज्वानः पितरो ब्रह्मणः सुता ३०

श्रग्निप्वात्ता बर्हिषदो द्विधा तेषां व्यवस्थितिः स्वधाऽनुसुषुवे तेभ्यः कन्ये द्वे लोकविश्रुते ३१

मेनां च धारिणीं तत्र योगमार्गरते उभे मेना हिमवतः सूते मैनाकं कौञ्चमेव च ३२

गौरीं च गङ्गां च ततः कन्ये द्वे लोकमातरौ मेरोस्तु धारिणी सूते मन्दरं चारुकन्दरम् ३३

महादेवप्रियतमं नानाधातुविचित्रितम् धारिणी सुषुवे वेलां नियतिं चाऽऽयर्ति तथा ३४

सागरात्सुषुवे वेला सामुद्रीं नाम नामतः प्राचीनबर्हिषा सा च दश पुत्रानजीजनत् ३५

प्राचेतस इति ख्याताः सर्वे स्वायंभुवेऽन्तरे भवशापादभूत्पुत्रो येषां दक्षः प्रजापतिः ३६

एषा दक्षस्य कन्यानां संततिः कथिता मया अथेदानीं मनोः पुत्रसंततिं कथयामि वः ३७

११६१

इति श्रीब्रह्मपुराणोपपुराणे श्रीसौरे सूतशौनकसंवादे मरीच्यादिसर्गदक्षकन्यासंततिकथनं नाम षड्विंशोऽध्यायः २६