२५ गौरीपृथक्शरीरत्वादिकथनम्

ऋषय ऊचुः – कथं भगवती गौरी शंकरार्धशरीरिणी परब्रह्मात्मिका नित्या परमाऽऽकाशमध्यगा १

सर्वशक्तिमयी शान्ता निर्गुणा निरुपद्रवा आदिमध्यान्तरहिता सर्वोपाधिविवर्जिता २

स्वभाभिर्भासयन्तीदं विश्वमेतत्सुरेश्वरी नित्यानन्दा निरातङ्का निर्विभागा निरञ्जना ३

पृथक्शरीरमकरोत्कथं सा परमेश्वरी वयं तच्छ्रोतुमिच्छामः सूत वक्तुमिहार्हसि ४

सूत उवाच –

विश्वेश्वरान्महादेवाद्वरं लब्ध्वा पितामहः प्रजाः ससर्ज भगवान्न व्यवर्धन्त ताः प्रजाः ५

दुःखितोऽभूत्तदा ब्रह्मा प्रजा दृष्ट्वा तु दुर्बलाः मेनेऽकृतार्थमात्मानं प्रादुर्भूतस्ततो हरः ६

ब्रह्माणब्रवीच्छंभुर्ज्ञातं त्वद्दुःखकारणम् सर्वतः शर्मणे यत्र भविष्यति तवानघ ७

क्रियतां वै तथेत्युक्त्वा कर्तुं समुपचक्रमे अर्धनारीश्वरो देवः स्वयं विश्वेश्वरः शिवः ८

नारीभागान्महादेवः ससर्ज पृथगीश्वरीम् ब्रह्मात्मिकां परां शक्तिं कोटिबालार्कभासुराम् ९

न तस्या विद्यते जन्म जातेति किल भाति या परं भावं न जानन्ति यस्या ब्रह्मादयः सुराः १०

यस्यास्तु शक्तिभिर्वाच्या ब्रह्माण्डानां च कोटयः भर्तुरङ्गाद्विभक्तेव दृष्टा साऽथ विरञ्चिना ११

अब्रवीत्प्राञ्जलिर्भूत्वा विश्वेश्वरीं पितामहः १२

ब्रह्मोवाच त्वां नमामि शिवां शान्तामीश्वरार्धशरीरिणीम् अनाद्यनन्तविभवां मूलप्रकृतिमीश्वरीम् १३

जन्ममृत्युजरातीतां जन्ममृत्युजरापहाम् क्षेत्रज्ञशक्तिनिलयां परमाकाशमध्यगाम् १४

ब्रह्मेन्द्रविष्णुनमितामष्टमूर्त्यङ्गिनीमजाम् प्रधानपुरुषातीतां सावित्रीं वेदमातरम् १५

ऋग्यजुःसामनिलयामृज्वीं कुण्डलिनीं पराम् विश्वेश्वरीं विश्वमयीं विश्वेश्वरपतिव्रताम् १६

विश्वसंहारकरणीं विश्वमायामवर्तिनीम् सर्गस्थित्यन्तकरिणीं व्यक्ताव्यक्तस्वरूपिणीम् १७

पाहि मां देवतेवेशि शरणागतवत्सले नान्या गतिर्महेशानि मम त्रैलोक्यवन्दिते १८

त्वं माता मम कल्याणि मिता सर्वेश्वरः शिवः सृष्टोऽहं त्रिपुरघ्नेन सृष्ट्यर्थं शंकरप्रिये १९

विविधाश्च प्रजाः सृष्टा न वृद्धिमुपयान्ति ताः ततः परं प्रजा सर्वो मैथुनप्रभवाः किल २०

संवर्धयितुमिच्छामि कृत्वा सृष्टिमतः परम् शक्तीनां खलु सर्वासां त्वत्तः सृष्टिः प्रवर्तते २१

नैव सृष्टं त्वया पूर्वं शक्तीनां यत्कुलं शिवे सर्वेषां देहिनां देवि सर्वशक्तिप्रदायिनी २२

त्वमेव नात्र संदेहस्तस्मात्त्वं वरदा भव मम सृष्टिविवृद्ध्यर्थमंशेनैकेन शाश्वते २३

मम पुत्रस्य दक्षस्य पुत्री भव शुचिस्मिते प्रार्थिता वै तदा देवी ब्रह्मणा मुनिपुंगवाः २४

एकां शक्तिं भ्रुवोर्मध्यात्ससर्जाऽऽत्मसमप्रभाम् आह तां प्रहसन्प्रेक्ष्य देवीं विश्वेश्वरो हरः २५

ब्रह्मणो वचनाद्देवि कुरु तस्य यथेप्सितम् आदाय शिरसा शंभोराज्ञां सा परमेश्वरी २६

अभवद्दक्षदुहिता स्वेच्छया ब्रह्मरूपिणी पुनराद्या परा शक्तिः शंभोर्देहं समाविशत् २७

अर्धनारीश्वरो देवो विभातीति हि नः श्रुतिः ततः प्रभृति विप्नेन्द्रा मैथुनप्रभवाः प्रजाः २८

एवं वः कथिता विप्रा देव्याः संभूतिरुत्तमा पठेद्यः शृणुयाद्वाऽपि संततिस्तस्य वर्धते २९

११२४

इति श्रीब्रह्मपुराणोपपुराणे श्रीसौरे सूतशौनकसंवादे गौरीपृथक्शरीरत्वादिकथनं नाम पञ्चविंशोऽध्यायः २५