ऋषय ऊचुः – कथं स भगवाञ्शंभुः सर्वस्याऽद्योऽपि सन्धिभुः चतुर्मुखल्य पुत्रत्वमगमत्केन हेतुना १
दक्षिणाङ्गभवो ब्रह्मा महादेवस्य शूलिनः कथं तत्पद्मयोनित्वं विरञ्चेरिति नो वद २
सूत उवाच –
आसीदेकार्णवे घोरे नष्टे वै सचराचरे देवाश्च दानवाश्चैव मुनयो मनवस्तथा ३
निर्विद्यन्ते तदा तस्मिन्सजाते प्रतिसंचरे नारायणो महायोगी शेते तस्मिंस्तमोमये ४
योगनिद्रां समासाद्य शेषाहिशयने द्विजाः उद्भूतं पङूजं तस्य नाभौ भगवतो हरेः ५
दिव्यगन्धसमोपेतं शतयोजनविस्तृतम् सस्यैव शयनस्थस्य दिव्यं वर्षशतं मतम् ६
ब्रह्मा जगाम तं देशं यत्राऽऽस्ते पुरुषोत्तमः समुत्थाप्य च तं ब्रह्मा करेण मधुसूदनम् मायया मोहितो ब्रह्मा तमुपाच सुरेश्वरम् ७
अस्मिन्नेकार्णवे घोरे शेते कोऽत्र भवानहो ब्रूहीत्युक्तेऽब्रवीद्विष्णुर्ब्रह्माणं तेजसां निधिः ८
न जानासि कथं मूढ मामन्तर्यामिणं विभुम् सर्वस्याऽऽद्यं सुरश्रेष्ठं जानीहीत्यब्रवीद्विभुः ९
एवमुक्त्वा पुनश्चक्री जानन्नपि पितामहम् को भवानिति तं प्राह ब्रह्मा हरिमथाब्रवीत् १०
अहं वै सर्वभूतानामाद्यः सर्वजगत्पतिः ब्रह्माणं मां परं देवं जानीहि पुरुषर्षभ ११
चराचरात्मकं विश्वं मयि तिष्ठति सर्वदा मय्येव विलयश्चान्ते पुनरेव न संशयः १२
एवं पितामहेनोक्तो भमवान्कमलापतिः प्रविष्टो ब्रह्मणो देहं तत्र लोकान्ददर्श सः १३
विस्मितः कमलाकान्तो निर्गतश्च विधेर्मुखात् सहस्रशीर्षा पुरुषः पुनर्ब्रह्माणमब्रवीत् १४
विधे त्वमपि मद्देहं प्रविश्याशु विलोकय चराचरात्मकाल्ँलोकान्सदेवासुरमानुषान् १५
ततो विरिञ्चिर्भगवानुदरं कमलापतेः प्रविश्य भुवनान्सर्वान्दृष्ट्वाऽभूद्विस्मितो विधिः १६
नापश्यन्निर्गद्वारं पिहितानि च चक्रिणा ततोऽसौ नाभिपद्मस्य नालमार्गमविन्दत १७
तेन मार्गेण निर्गत्य ब्रह्मा ब्रह्मविदां वरः रेजे पङ्कजमध्यस्थो देवदेवः पितामहः १८
तमब्रवीद्गदापाणिर्ब्रह्माणममितद्युतिः लीलार्थमेतत्सकलं पितामह कृतं मया १९
न मात्सर्यात्सुरश्रेष्ठ द्वाररोधो मया कृतः त्वमेव जगतो मान्यः सर्वस्याऽऽद्यः पितामहः २०
पुत्रत्वे त्वामहं याचे देहि मे कमलासन पद्मयोनिरिति ख्यातिं मत्प्रियार्थं गमिष्यसि २१
ततः स्ययंभूर्विश्वादिश्चक्रिणे वरमुत्तमम् दत्त्वा प्रहर्षमगमत्सर्वभूतात्मको विभुः २२
ततस्तमब्रवीद्विष्णुं नाऽऽवाभ्यां विद्यते परम् त्वन्मयं मन्मयं सर्वमेका मूर्तिर्द्विधा स्थिता २३
एवं निगदितो विष्णुर्ब्रह्मणा परमेष्ठिना विरञ्चेयं प्रतिज्ञा ते निष्फलैव भविष्यति २४
किं न पश्यसि विश्वेशं स्वयंज्योतिः सनातनम् सर्वात्मकमुमाकान्तमनादिनिधनं परम् २५
गच्छाऽऽवाभ्यां परं देवमधिकं शरणं विधे एवं हरेर्निगदितं श्रुत्वा ब्रह्मा तमब्रवीत् २६
आवाभ्यामधिकः कश्चिद्विद्येतेति मुधा हरे भाषसे निद्रयाऽऽविष्टस्त्यज मोहं महामते २७
विष्णुरुवाच – मैवं विधे यदज्ञात्वा परं भावं महेश्वरे अस्तीति नान्यथाऽहं ते ब्रवीमि कमलासन २८
मोहितात्मा न संदेहो मायया परमेष्ठिनः मायी विश्वात्मको रुद्रो मायाशक्तिस्तु शांकरी २९
यस्मात्सर्वमिदं ब्रह्मन्विष्णुरुद्रेन्द्रपूर्वकम् महाभूतेन्द्रियैः सर्वैः प्रथमं संप्रसूयते ३०
सर्वैश्वर्येण संपन्नो नाम्ना सर्वेश्वरः स्वयम् सर्वैर्मुमुक्षुभिर्ध्येयः शंभुराकाशमध्यगः ३१
योऽग्रे त्वां विदधे पुत्रं तव वेदांश्च दत्तवान् यत्प्रसादात्त्वया लब्धं प्राजापत्यमिदं पदम् ३२
एको बहूनां जन्तूनां निष्क्रियाणां च सक्रियाः य एकं बहुधा बीजं करोति स महेश्वरः ३३
जीवैरेभिरिमाल्ँलोकान्सर्वानेको य ईशते य एको भगवान्रुद्रो न द्वितीयोऽस्ति कश्चन ३४
सदा जनानां हृदये संनिविष्टोऽपि यः परैः अलक्ष्यो लक्षयन्विश्वमधितिष्ठति सर्वदा ३५
यस्तु कालात्मयुक्तानि कारणान्यपि लीलया अनन्तशक्तिरेकात्मा भगवानधितिष्ठति ३६
यस्य शंभोः परा शक्तिर्भावगम्या मनोहरा निर्गुणा स्वगुणैरेव निगूढा निष्कला शिवा ३७
एष देवो महादेवो विज्ञेयः सर्वदा जनैः न तस्य परमं किंचित्पदं समधिगम्यते ३८
अयमादिरनाद्यन्तः स्वभावादेव निर्मलः अनन्तः परिपूर्णश्च स्वेच्छाधीनश्चराचरः ३९
उत्तरोत्तरभूतानामुत्तरश्च निरुत्तरः अनन्तमहिमा भूमिरपरिच्छिन्नवैभवः ४०
अनेन चित्रकृत्येन प्रथमं सृज्यते जगत् अन्तकाले पुनश्चेदमस्मिन्प्रलयमेष्यति ४१
दृश्यश्च पतितैर्मूढैर्दुर्जनैरपि कुत्सितैः भक्तैरन्तर्बहिश्चापि पूज्यः संभाव्य एव च ४२
तदीयं त्रिविधं रूपं स्थूलं सूक्ष्मं ततः परम् अस्मदाद्यैः सुरैर्दृश्यं स्थूलं सूक्ष्मं तु योगिभिः ४३
ततः परं तु यन्नित्यं ज्ञानमानन्दमव्ययम् तन्निष्ठैस्तत्परैर्भक्तैर्दृश्यते व्रतमास्थितैः ४४
बहुनाऽत्र किमुक्तेन ब्रह्मन्सर्वेश्वरे शिवे भक्तिरेव सदा कार्या यया युक्तो विमुच्यते ४५
प्रसादादेव सा भक्तिः प्रसादो भक्तिसंभवः यथेहाङ्कुरतो बीजं बीजतो वा यथाऽङ्कुरः ४६
तस्य प्रसादलेशेन पशोः पाशपरिक्षयः तस्मात्पशुपतिः शंभुः पशवस्त्वस्मदादयः ४७
सर्वेषां मुक्तिदः शंभुस्तेषां भावानुरूपतः गर्भस्थो मुच्यते कश्चिज्जायमानस्तथा परः ४८
बालो वा तरुणो वाऽथ वृद्धो वा मुच्यते परः तिर्यग्योनिगतः कश्चिन्मुच्यते नारकी परः ४९
अपरस्तूदरप्राप्तो मुच्यते स्वपदक्षयात् कश्चित्क्षीणपदो भूत्वां पुनरावर्त्य मुच्यते ५०
कश्चिदूर्ध्वगतस्तस्मिन्स्थित्वा स्थित्वा विमुच्यते तस्मान्नैकप्रकारेण नराणां मुक्तिरिष्यते ५१
ज्ञानभावानुरूपेण प्रसादेनैव निर्वृतिः त्वमेका भगवन्मूर्तिरन्या नारायणी परा ५२
रौद्री तृतीया कथिता जगत्संहारकारिणी एतासां प्रेरकः शंभुः स्वे स्वे कार्ये चतुर्मुख ५३
निर्गुणोऽपि गुणाध्यक्षः स्वतन्त्रैश्वर्यविग्रहः तमीश्वरं महादेवं न पश्यसि कथं विधे ५४
दिव्यं ददामि ते चक्षुर्येन पश्यसि तं शिवम् विष्णोर्भगवतो ब्रह्मा दिव्यं चक्षुरवाप्य तु ५५
अपश्यत्स महादेवं प्रत्यक्षं पुरतः स्थितम् ब्रह्मा लब्ध्वा परं ज्ञानमैश्वरं निर्गुणं परम् ५६
तमेव शरणं गत्वा संस्तूय विविधैः स्तवैः प्रीतो भूत्वा महादेवश्चतुर्मुखमथाब्रवीत् ५७
ईश्वर उवाच –
स्तोत्रैर्बहुविधैर्भक्त्या तोषितोऽहं विधे त्वया मुक्तो भविष्यसि क्षिप्रं मत्समश्च न संशयः ५८
मयैव सृष्टः सुष्ट्यर्थं त्वमेव च जनार्दनः वरं ददामि ते ब्रह्मन्वरयस्व यथेप्सितम् ५९
एवं शंभोर्निगदितं श्रुत्वा चैव पितामहः विष्णुं निरीक्ष्य पुरतः स्थितमाह महेश्वरम् ६०
ब्रह्मोवाच – भगवन्देवदेश सर्वज्ञ गिरिजापते त्वामेव पुत्रमिच्छामि त्वया वा सदृशं सुतम् ६१
त्वन्मायामोहितः शंभो न वेद्मि त्वां परं शिवम् नमामि तव पादाब्जं योगिनां भवभेषजम् ६२
श्रुत्वा विरञ्चेर्वचनं देवदेवः पिनाकधृक् ब्रह्माणमब्रवीत्पुत्रं समालोक्याथ चाक्रणम् ६३
प्रार्थितं यत्त्वया ब्रह्मंस्तत्करिष्यामि पुत्रक अहमंशेन भविता पुत्रस्तव पितामह ६४
ज्ञानं मद्विषयं क्षिप्रं भविष्यति तवानघ सृज त्वं मत्प्रसादेन चराचरमिदं जगत् ६५
एष योगीश्वरः शार्ङ्गी ममैवांशो न संशयः साहाय्ये भविता ब्रह्मन्ममाऽऽदेशात्तवानघ ६६
एवं दत्त्वा वरं शंभुर्ब्रह्मणे द्विजसत्तमाः अथाब्रवीद्धृषीकेशं प्राञ्जलिं पुरतः स्थितम् ६७
वरं वरय दास्यामि तव नारायणाब्यय नाऽऽवाभ्यां विद्यते भेदो मच्छक्तिस्त्वं न संशयः ६८
त्वन्मयं मन्मयं सर्वभव्यक्तं पुरुषात्मकम् ज्ञानज्ञेयात्मकं विश्वं त्वन्मयं मन्मयं हरे ६९
ज्ञाताऽहं ज्ञानरूपस्त्वं मन्ताऽहं त्वं मतिर्हरे प्रकृतिस्त्वं सुरश्रेष्ठ पुरुषोऽहं न संशयः ७०
त्वं चन्द्रमा अहं सूर्यः शर्वरी त्वमहं दिनम् त्वमेव माया विश्वस्य मायाऽहं परमा विभो ७१
एवं शंभोर्वचः श्रुत्वा वासुदेवो निरञ्जनः अब्रवीत्परमात्मानं महादेवं द्विजोत्तमाः ७२
विष्णुरुवाच – निश्चला त्वयि मे भक्तिर्भवत्वव्यभिचारिणी वरैः किमन्यैर्भगवन्करोमि सुरपूजित ७३
एवमस्त्वित्यथाऽऽभाष्य समालिङ्ग्य च शार्ङ्गिणम् पालयैतन्ममाऽऽदेशादित्युक्त्वाऽन्तर्हितो हरः ७४
अभवद्ब्रह्मणः पुत्रो यथा देवस्त्रिलोचनः तथा सर्वमशेषेण कथितं मुनिपुंगवाः ७५
१०९५
इति श्रीब्रह्मपुराणोपपुराणे श्रीसौरे सूतशौनकसंवादे ब्रह्म पद्मयोनित्वादिकथनं नाम चतुर्विंशोऽध्यायः २४