सूत उवाच –
ततः ससर्ज भगवान्देवोऽसावात्मनः सुतान् सनातनं च सनकं सनन्दनमथापि च १
शंभुं सनत्कुमारं च पञ्चैतान्पद्मसंभवः न सृष्टौ दधिरे वृद्धिं शिवैकध्यानतत्पराः २
सृष्टौ तेष्वनपेक्षेषु मोहाविष्टः प्रजापतिः तपस्तताप परमं न किंचित्प्रत्यपद्यत ३
गते बहुतिथे काले समभूत्क्रोधमूर्छितः प्राणात्मकः समुद्भूतो ललाटाद्ब्रह्मणो हरः ४
केनापि हेतूना विप्राः सूर्यकोटिसमप्रभः निश्चक्राम ततो भित्त्वा भालं भगवतो विधेः ५
रोदयित्वाऽब्जजन्मानं तस्माद्रुद्र इति स्मृतः अन्यानि सप्त नामानि शृणुध्वं मुनिपुंगवाः ६
भवः शर्वस्तथेशानः पशूनां पतिरेव च भीमश्चोग्रो महादेव इति नामानि सत्तमाः ७
भूमिरापोऽनलो वायुर्व्योम सूर्यश्च चन्द्रमाः अष्टमी दीक्षितस्तत्र मूर्तिरीशस्य शूलिनः ८
याभिर्व्याप्तमिदं विश्वं विश्वस्यास्य जगन्मयः तेन विश्वेश्वरो देव इति नाम्ना शिवः स्मृतः ९
प्रजाः सृजेति निर्दिष्टश्चन्द्रमौलिर्विरञ्चिना ससर्ज मनसा रुद्रानात्मतुल्यान्महेश्वरः १०
नीलकण्ठांस्त्रिनेत्रांश्च जटामुकुटमण्डितान् वृषध्वजान्वीतरागाञ्जरामरणवर्जितान् ११
सर्वज्ञाञ्शतकोटींस्तान्सर्वानुग्राहिणः परान् दृष्ट्वा तान्विविधान्रुद्रान्विरञ्चिः प्राह शंकरम् १२
जरामरणनिर्मुक्तामीदृशीं मा सृजः प्रजाम् सृजस्वान्यां सुरेशान प्रजां मृत्युसमन्विताम् १३
ब्रह्माणमब्रवीच्छंभुर्नारित मे तादृशी प्रजा ततः प्रभृति विश्वात्मा न प्रासूत शुभाः प्रजाः १४
रुद्रैरात्मसमुद्भूतैः क्रीडायुक्तस्तदाऽभवत् स्थाणुवन्निश्चलो यस्मात्स्थितः स्थाणुरिति स्मृतः १५
ज्ञानं वैराग्यमैश्वर्यं तपः सत्यं क्षमा धृतिः द्रष्टृत्वमात्मसंबोधो ह्यधिष्ठातृत्वमेव च १६
अव्ययानि दशैतानि नित्यं तिष्ठन्ति शंकरे स एव भगवानीशो विश्वेशो नीललोहितः १७
ततस्तमाह भगवान्ब्रह्मा संवीक्ष्य शंकरम् अनुगृह्य यथा मां त्वं पुत्रत्वे दत्तवान्वरम् १८
अद्य तत्सफलं जातं चिन्तितं यन्मयेप्सितम् एवं विश्वेश्वरं शंभुं समाभाष्य चतुर्मुखः स्तोत्रेणानेन तुष्टाव शिरस्याधाय चाञ्जलिम् १९
ब्रह्मोवाच – नमस्तेऽस्तु महादेव नमस्ते परमेश्वर
नमः शिवाय देवाय नमस्ते ब्रह्मरूपिणे २०
नमोऽस्तु ते महेशान नमः शान्ताय हेतवे प्रधानपुरुषेशाय योगाधिपतये नमः २१
नमः कालाय रुद्राय महाग्रासाय शूलिने नमः पिनाकहस्ताय त्रिनेत्राय नमो नमः २२
नमस्त्रिमूर्तये तुभ्यं ब्रह्मणो जनकाय च ब्रह्मविद्याधिपतये ब्रह्मविद्याप्रदायिने २३
नमो वेदरहस्याय कालकालाय ते नमः वेदान्तसारसाराय नमो वेदात्ममूर्तये २४
नमः शुद्धाय बुद्धाय योगिनां गुरवे नमः प्रहीणशोकैर्विविधैर्भूतैः परिवृताय ते २५
नमो ब्रह्मण्यदेवाय ब्रह्माधिपतये नमः त्र्यम्बकाय च देवाय नमस्ते परमेष्ठिने २६
नमो दिग्वाससे तुभ्यं नमो मुण्डाय दण्डिने अनादिमलहीनाय ज्ञानगम्याय ते नमः २७
नमस्ताराय तीर्थाय नमो योगर्द्धिहेतवे
नमो धर्माधिगम्याय योगगम्याय ते नमः २८
नमस्ते निष्प्रपञ्चाय निराभासाय ते नमः ब्रह्मणे विश्वरूपाय नमस्ते परमात्मने २९
त्वयेव सृष्टमखिलं त्वय्येव सकलं स्थितम् त्वया संह्रियते विश्वं प्रधानाख्यं जगन्मय ३०
त्वमीश्वरो महादेवः परं ब्रह्म महेश्वरः परमेष्ठी शिवः शान्तः पुरुषो निष्कलो हरः ३१
त्वमक्षरं परं ज्योतिरॐकारः परमेश्वरः त्वमेव पुरुषोऽनन्तः प्रधानं प्रकृतिस्तथा ३२
भूमिरापोऽनलो वायुर्व्योमाहंकार एव च यस्य रूपं नमस्यामि भवन्तं ब्रह्मसंज्ञितम् ३३
यस्य द्यौरभवन्मूर्धा पादौ पृथ्वी दिशो भुजाः आकाशमुदरं तस्मै विराजे प्रणमाम्यहम् ३४
संतापयति यो नित्यं स्वाभाभिर्भासयन्दिशः ब्रह्मतेजोमयं विश्वं तस्मै सूर्यात्मने नमः ३५
हव्यं वहति यो नित्यं रौद्री तेजोमयी तनुः कव्यं पितृगणानां च तस्मै वह्न्यात्मने नमः ३६
आप्याययति यो नित्यं स्वधाम्ना सकलं जगत् पीयते देवतासंधैस्तस्मै चन्द्रात्मने नमः ३७
बिभर्त्यशेषभूतानि योऽन्तश्चरति सर्वदा शक्तिर्माहेश्वरी तुभ्यं तस्मै वाय्वात्मने नमः ३८
सृजत्यशेषमेवेदं यः स्वकर्मानुरूपतः स्वात्मन्यवस्थितस्तस्मै चतुर्वक्त्रात्मने नमः ३९
यः शेते शेषशयने विश्वामावृत्य मायया आत्मानुभूतियोगेन तस्मै विश्वात्मने नमः ४०
बिभर्ति शिरसा नित्यं द्विसप्तभुवनात्मकम् ब्रह्माण्डं योऽखिलाधारं तस्मै शेषात्मने नमः ४१
यः परान्ते परानन्दं पीत्वा दिव्यैकसाक्षिणम् नृत्यत्यनन्तमहिमा तस्मै रुद्रात्मने नमः ४२
योऽन्तरा सर्वभूतानां नियन्ता तिष्ठतीश्वरः तं सर्वसाक्षिणं देवं नमस्ते परमात्मने ४३
यस्य केशेषु जीमूता नद्यः सर्वाङ्गसंधिषु कुक्षौ समुद्राश्चत्वारस्तस्मै व्योमात्मने नमः ४४
यं विनिद्रा यतश्वासाः संतुष्टाः समदर्शिनः ज्योतिः पश्यन्ति युञ्जानास्तस्मै योगात्मने नमः ४५
यस्य भासा विभातीदं तदहं तमसः परम् तत्त्वं सदा निराकारं चिद्रूपं पारमेश्वरम् ४६
यया संतरते मायां योगी संक्षीणकल्मषः अपरान्तामपर्यन्तां तस्मै विद्यात्मने नमः ४७
नित्यानन्दं निराधारं निष्कलं परमं शिवम् प्रपद्ये परमात्मानं भवन्तं परमेश्वरम् ४८
एवं स्तुत्वा महादेवं ब्रह्मा तद्भावभावितः प्राञ्जलिः प्रणतस्तस्थौ गृणन्ब्रह्म सनातनम् ४९
ततस्तस्य महादेवो नित्ययोगमनुत्तमम् ऐश्वर्यं ब्रह्मसद्भावं वैराग्यं च ददौ हरः ५०
कराम्यां सुशुभाभ्यां च उपस्पृश्य महेश्वरः व्याजहार महादेवः सोऽनुगृह्य पितामहम् ५१
यत्त्वयाऽभ्यर्थितो ब्रह्मन्पुत्रत्वेऽहं मया कृतम् त्वमिदानीं ममाऽऽदेशात्सृजस्व विविधाः प्रजाः ५२
त्रिधा भिन्नोऽस्म्यहं ब्रह्मन्ब्रह्मविष्णुहराख्यया सर्गरक्षालयगुणैर्निर्गुणोऽहं न संशयः ५३
स त्वं ममाग्रतः पुत्रः सृष्टिहेतोर्विनिर्मितः ममैव दक्षिणादङ्गाद्वामाङ्गात्पुरुषोत्तमः ५४
मवव हृदयाद्रुद्रः संजातः कामरूपधृक् ब्रह्मविष्णुहराख्यानां यः परः परमेश्वरः ५५
तं महान्तं महादेवं ब्रह्मञ्जानन्ति सूरयः एवं ब्रह्माणमाभाष्य दत्त्वा च विविधान्वरान् ५६
अन्तर्हितो महादेवः पश्यतः पद्मजन्मनः अनुग्रहात्ततस्तस्य तस्माज्ज्ञानोदयो भवेत् ५७
ततश्च पाशविच्छित्तिः शिव एव भवेत्ततः नश्यन्ति व्याधयस्तस्य गलगण्डग्रहादयः ५८
ऐहिकीं लभते सिद्धिं चिरंजीवित्वमेव च सर्वपापविनिर्मुक्तः शिवलोके महीयते ५९
१०२०
इति श्रीब्रह्मपुराणोपपुराणे श्रीसौरे सूतशौनकसंवादे हरोत्पत्त्यादिकथनं नाम त्रयोविंशोऽध्यायः २३