सूत उवाच –
अथ धर्मो वनस्थानामुच्यते शृणुत द्विजाः प्रीतो भवतु येनासौ भगवान्भगनेत्रहा १
शरीरमात्मनो दृष्ट्वा पलिताद्यैश्च दूषितम् पुत्रेषु भार्यां निक्षिप्य वनं गच्छेद्द्विजोत्तमः २
फलमूलाशनो नित्यं पञ्चयज्ञपरायणः अतिथिं पूजयेद्भत्तया मत्वा शर्व इति श्रुतिः ३
अष्टौ ग्रासांश्च भुञ्जीत चरिवासा भवेज्जटी भवेत्त्रिषवणस्नायी नित्यं स्वाध्यायतत्परः ४
दयां च सर्वभूतेषु न कुर्यान्निशि भोजनम् वर्जयेद्ग्रामजातानि पुष्पाणि च फलानि च ५
यदि गच्छेत्सपत्नीको ब्रह्मचार्येव सर्वदा यदि गच्छेद्वनी भायां प्रायश्चित्ती भवेद्द्विजः ६
आदिगर्भो भवेत्तस्याः स चाण्डालसमो भवेत् सर्वभूतानुकम्पी स्यात्संविभागरतः सदा ७
परिवादं मृषावादं निद्रालस्यं विवर्जयेत् शीर्णपर्णाशनो वा स्यात्कृच्छ्रैर्वा वर्तयेत्सदा ८
शिवपूजारतो नित्यं शिवध्यानपरायणः एवं यो वर्तते नित्यं वानप्रस्थाश्रमे द्विजः ९
परां गतिमवाप्नोति देहान्ते शाश्वतं पदम् यदा मनसि वैराग्यं जायते सर्ववस्तुषु १०
तदा च संन्यसेद्विद्वानन्यथा पतितो भवेत् वेदान्ताभ्यासनिरतो दान्तः शान्तो जितेन्द्रियः ११
निर्ममो निर्भयो नित्यं निर्द्वन्द्वो निष्परिग्रहः जीर्णकौपनिवासाः स्यान्मुण्डो नग्नोऽथवा भवेत् १२
त्रिदण्डी वा भवेद्विद्वानित्येषां वैदिकी श्रुतिः समः शत्रौ च मित्रे च तथा मानापमानयोः १३
भैक्ष्येण वर्तयेन्नित्यं नैकान्नादी भवेत्कचिम् एकान्नादी भवेद्यस्तु कदाचिल्लम्पटो यतिः १४
निष्कृतिर्नैव तस्यारित धर्मशास्त्रेषु सर्वथा भवेत्त्रिपवणस्नायी भस्योद्धूलितविग्रहः १५
प्रणवं प्रजपेन्नित्यं मोक्षशास्त्रस्य चिन्तकः वेदान्तांश्च पठेन्नित्यं तेषामर्थांश्च चिन्तयेत् १६
आत्मानं चिन्तयेद्देवमीशानं विभुमव्ययम् अनन्तं निर्गुणं शान्तं पुरुषं प्रकृतेः परम् १७
कारणं सर्वजगतामाधारं सर्वतोमुखम् चिद्रूपं शंकरं स्थाणुमानन्दमजरं विभुम् १८
प्रेरकं सर्वभूतानामेकं ब्रह्म महेश्वरम् अप्रमेयमनाद्यन्तं स्वर्यज्योतिः सनातनम् १९
तन्निष्ठस्तन्मयो भूत्वा योगयुक्तो महामुनिः अचिरेणैव कालेन परं ब्रह्माधिगच्छति २०
द्विजः संन्यसनादेव पापेभ्यः संप्रमुच्यते ज्ञानी मोक्षमवाप्नोति विराट्पदमखे रतः २१
इति सर्वमशेषेण चातुराश्रम्यमीरितम् योऽनुतिष्ठेत्प्रयत्नेन तस्य शंभुः प्रसीदति २२
८९२
इति श्रीब्रह्मपुराणोपपुराणे श्रीसौरे सूतशौनकसंवादे वानप्रस्थादिधर्मकथनं नाम विंशोऽध्यायः २०