सूत उवाच –
श्राद्धं दर्शेऽथ कर्तव्यमष्टकास्वयनद्वये विषुवे च व्यतीपाते तीर्थेषु च विशेषतः १
परीक्ष्य ब्राह्मणान्सम्यग्वेदवेदाङ्गपारगान् विशेषाच्छिवभक्तांश्च रुद्रजाप्यपरायणान् २
अभावे शिवभक्तानां सदाचाररतान्द्विजान् भोजयेच्छ्रद्धया श्राद्धे शिवबुद्ध्या समाहितः ३
व्रतोपवासनिरताः सोमपाः संयतेन्द्रियाः अग्निहोत्रपराः शान्ता बह्वृचा गुरुपूजकाः ४
त्रिणाचिकेताः शिष्याश्च त्रिमधुत्रिसंपर्णिकाः मन्त्रब्राह्मणवेत्तारः पुराणस्मृतिपाठकाः ५
अध्यात्मशास्त्रनिरता ब्राह्मणाः पङ्क्तिपावनाः एकं वा भोजयेद्विप्रं शिवभक्तिपरायणम् ६
तेन पूता भवन्त्येव ये केचित्पङ्क्तिदूषकाः वधबन्धोपजीवी च वृषलः शूद्रयाजकाः ७
वेदविक्रयिणश्चैव श्रुतिविक्रयिणस्तथा वेदविक्रयिणश्चान्ये कोपिनः कुण्डगोलिकौ ८
कायस्था लम्बकर्णाश्च नित्यं राजोपसेवकाः नक्षत्रतिथिवक्तारो भिषक्शास्त्रोपजीविनः ९
व्याधिनः काव्यकर्तारो गायकाश्चैव गोत्रिणः वेदनिन्दारताश्चैव कृतघ्नाः पिशुनास्तथा १०
हीनातिरिक्तदेहाश्च श्राद्धे वर्ज्याः प्रयत्नतः ब्रह्महत्यामवाप्नोति यदि स्त्रीगमनं भवेत् ११
अध्वानं कलहं क्रोधं पुत्रभार्यादिताडनम् श्राद्धभोजी भवेद्यो हि तद्दिने परिवर्जयेत् १२
प्रक्षालयेत्ततः पादावर्चिते मण्डले शुभे चतुरस्रं ब्राह्मणस्य क्षत्त्रियस्य त्रिकोणकम् १३
वर्तुलं चैव वैश्यस्य शूद्रस्याभ्युक्षणं स्मृतम् उपवेश्य ततो विप्रान्दत्त्वा चैव कुशासनम् १४
पश्चाच्छ्राद्धस्य रक्षार्थं तिलांश्च विकिरेत्ततः विश्वेदेवानथाऽऽहूय विश्वेदेवास इत्यृचा १५
शंनोदेव्या जलं क्षिप्त्वा सपवित्रे तु भाजने यवान्यवोऽसीति तथा गन्धपुष्पं च निक्षिपेत् १६
या दिव्या इति मन्त्रेण हस्तेऽप्यर्ध्यं विनिक्षिपेत् प्रदद्याद्गन्धमाल्यादि धूपं वासांसि शक्तितः १७
अपसव्यं ततः कृत्वा पितॄनावाहयेत्ततः उशन्तस्त्वेति च ऋचा आवाह्य तदनुज्ञया १८
जपेदायन्तु न ऋचं तिलोऽसीति तिलांस्तथा क्षिपेदर्ध्यं यथापूर्वं विप्रहस्ते समाहितः १९
संस्रवान्प्रक्षिपेत्पात्रे न्युब्जं चैव यथा भवेत् पितृभ्यः स्थानमसीति ततोऽग्नौकरणं मतम् २०
अग्नौ करिष्य इत्युक्त्वा कुरुष्वेत्यभ्यनुज्ञया अन्नं घृतप्लुतं वह्नौ जुहुयात्पितृयज्ञवत् २१
अग्नेरभावाद्विप्रस्य पाणौ होमो विधीयते महादेवस्य पुरतो गोष्टे वा श्रद्धमाऽन्वितः २२
पिण्डनिर्वपणं कृत्वा ब्राह्मणांश्चैव भोजयेत् केचिदप्येवमिच्छन्ति नैव भानोर्मतं द्विजाः २३
विविधं पायसं दद्याद्भक्ष्याणि सुबहून्यपि लेह्यं चोप्यं तथा कामपुष्पमेव फलं विना २४
विविधान्यपि मांसानि पितॄणां प्रीतिपूर्वकम् दत्तान्यपि निषिद्धानि श्राद्धं नैवाक्षयं भवेत् २५
नाश्नाति यो द्विजो मांसं नियुक्तः पितृकर्मणि स प्रेत्य नरकं याति पशुत्वं च प्रपद्यते २६
धर्मशास्त्रं पुराणं च तथाऽथर्वशिरस्तथा रुद्रांश्च पौरुषं सूक्तं ब्राह्मणाञ्श्रावयेत्ततः २७
भुञ्जीरन्ब्राह्मणाः सर्वे वाग्यता घृतभोजनाः विकिरं निक्षिपेत्पश्चाच्छेषमन्नमथाब्रवीत् २८
हस्तप्रक्षालनं दत्त्वा कुर्याद्वै स्वस्तिवाचनम् दद्याद्वै दक्षिणां शक्त्या स्वधाकारमुदीरयेत् २९
दातारो नोऽभिवर्धन्तां वाजेवाजेति वै ऋचम् जप्त्वा च ब्राह्मणान्स्तुत्वा नमस्कृत्य विसर्जयेत् ३०
भोक्ता च श्राद्धदस्तस्यां रजन्यां मैथुनं त्यजेत् स्वाध्यायं च तथाऽऽध्वानं प्रयत्नेन विवर्जयेत् ३१
अध्वगो व्यसनी चैव विशेषेण ह्यनग्निकः आमश्राद्धं द्विजः कुर्याद्दुर्बलस्तु सदैव हि ३२
फलैरपि च मूलैर्वा कुर्याच्छ्राद्धं च निर्धनः स्नात्वा तिलोदकैर्वापि तर्पयेच्छ्रद्धया पितॄन् ३३
श्रद्धया तु कृते श्राद्धे भगवान्नीललोहितः प्रीतो ग्रवति विश्वात्मा विश्वेशो हव्यकव्यभुक् ३४
८७०
इति श्रीब्रह्मपुराणोपपुराणे श्रीसौरे सूतशौनकसंवादे श्राद्धविधि कथनं नामैकोनविंशोऽध्यायः १९