१७ वर्णाश्रमाचारविधिकथनम्

ऋषय ऊचुः – यदुक्तं भवता सूत नैष्फलं ज्ञानमुत्तमम् श्रुतं चाखिलमस्माभिर्मनांसि हृषितानि नः १

भक्तिश्च शाश्वते शंभौ जाताऽस्माकं हि शाश्वती वर्णाश्रमाचारविधिमिदानीं ब्रूहि तत्त्वतः २

सूत उवाच –

चतुर्णामपि वर्णानां विधिं वक्ष्यामि सुव्रताः यदुक्तं भानुना पूर्वं मनवे परमेष्ठिने ३

येन विश्वेश्वरः क्षंभुः कर्मयोगरतैः सदा आराध्यते न चान्येन इत्येषा वैदिकी श्रुतिः ४

ब्राह्मणः क्षत्रियो वैश्यश्चतुर्थः शूद्र उच्यते वर्णाश्चत्वार एवैते त्रय आद्या द्विजाः स्मृताः ५

गृहस्थो ब्रह्मचारी च वानप्रस्थो यतिस्तथा चत्वारश्चाऽऽश्रमारतेषां पञ्चमो नोपपद्यते ६

सर्वेषामाश्रमाणां च विहितं दण्डधारणम् न दण्डेन विना कश्चिदाश्रमीति निगद्यते ७

ब्रह्मचारी भवेद्दण्डी कृष्णाजिनधरस्तथा मेखली च तथा मुण्डो शिखी वा यदि वा जटी ८

भिक्षाहारेण सततं वर्तनं तस्य सुव्रताः अग्निकार्यं तथा कुर्यात्सायं प्रातर्यथाविधि ९

अग्निकार्यपरित्यागी पतितः सर्वकर्मसु स्नात्वा संतर्प्य देवादीन्देवताभ्यर्चनं ततः १०

अभिवादनशीलः स्याद्वृद्धेषु च यथाक्रमम् कृतेऽभिवादने कुर्यान्नैव प्रत्यभिवादनम् ११

करोति नाभिवाद्येऽसौ यथा शूद्रस्तथैव सः आध्याश्मिकं वैदिकं वा तथा लौकिकमेव वा १२

आदतीत गुरोर्यस्मात्तं पूर्वमभिवादयेत् असावहमिति ब्रूयात्प्रत्युत्थाय यवीयसः १३

नाभिवाद्यास्तु विप्रेण क्षत्रियाद्याः कथंचन शिष्टानां च गृहान्नित्यं भिक्षामाहृत्य सुव्रतः १४

निवेद्य गुरवेऽश्नीयाद्वाग्यतस्तदनुज्ञया भैक्षेण वर्तनं नित्यं नैकान्नादी ब्रती भवेत् १५

उपवाससमा भिक्षा प्रोक्ता वै ब्रह्मचारिणाम् अनारोग्यमनायुष्यमस्वर्ग्यं चातिभोजनम् १६

अपुण्यं लोकविद्विष्टं तस्मात्तत्परिवर्जयेत् प्राङ्मुखोऽन्नादि भुञ्जीत सूर्याभिमुख एव वा १७

नाद्यादुदङ्मुखो नित्यं विधिरेष सनातनः पादौ प्रक्षाल्य विधिवदाचम्य प्रयतो द्विजः १८

भुञ्जीत मौनी सततं स्मरेद्देवं सदाशिवम् सोपानत्को जलस्थो वा नोष्णीषी चाऽऽचमेद्बुधः १९

न चैव वर्षधाराभिर्न तिष्टन्प्रलपन्न च प्राश्नीयान्त्रिरपः पूर्वं ब्राह्मेण प्रयतो द्विजः २०

संवृत्ताङ्ष्ठमूलेन मुखं चैवमुपस्पृशेत् अङ्गुष्ठानाभिकाभ्यां च संस्पृशेन्नयनद्वयम् २१

अङ्गुष्ठतर्जनीभ्यां च संस्पृशेन्नासिकापुटे कनिष्ठाङ्गुष्ठयोगेन स्पृशेच्छ्रोत्रयुगं द्विजः २२

सर्वाभिरङ्गुलीभिश्च हृदयं च तलेन वा संस्पृशेद्वै शिरस्तद्वदङ्गुष्ठेनाथवा द्वयम् २३

विन्यस्य दक्षिणे कर्णे ब्रह्मसूत्रमुदङ्मुखः दिवा मूत्रपुरीषे च शर्वर्यो दक्षिणामुखः २४

आच्छाद्य पर्णैर्वसुधां तृणैर्वा मौनसंयुतः शिरः प्रावृत्य विप्रेन्द्रा नान्यथा च कदाचन २५

पथि गोष्ठे नदीतीरे छायायां कूपसंनिधौ तुषाङ्गारकपालेषु न क्षेत्रे न चतुष्पथे २६

नोद्याने न श्मशाने च न पश्यंस्तारकादिकान् न चैवाभिमुखः स्त्रीणां गुरुब्राह्मणयोर्गवाम् २७

शौचं पश्चात्प्रकुर्वीत गन्धलेपक्षयावधि आन्तरं मनसः शुद्धिर्यथा भवति तद्द्विजाः २८

जितेन्द्रियः स्यात्सततं वश्यात्माऽक्रोधनः शुचिः प्रयुञ्जीत सदा वाचं मधुरां हितभाषिणीम् २९

परोपघातं पैशून्यं कामं लोभं तथैव च द्यूतं जनपरीवादं स्त्रीक्ष्वेल्यालम्भनं तथा ३०

गन्धमाल्यं रसं छत्रं वर्जयेद्दन्तधावनम् सर्वं पर्युषितं वर्ज्यं कृतं च लवणं तथा ३१

मलापकर्षणं स्नानं शूद्राद्यैरभिभाषणम् गुरोरवज्ञां सततं ब्रह्मचारी विवर्जयेत् ३२

उदकुम्भं सुमनसो गोशकृन्मृत्तिकां कुशान् गुर्वर्थमाहरेन्नित्यं भैक्षं चाहरहश्चरेत् ३३

आचम्य संयतो नित्यमधीयीत ह्युदङ्मुखः उपसंगृह्य तत्पादौ वीक्षमाणो गुरोर्मुखम् ३४

सर्वेषामेव भूतानां वेदश्चक्षुः सनातनम् वेदः श्रेयस्करः पुंसां नान्य इत्यब्रवीद्रविः ३५

अनधीत्य द्विजो यस्तु शास्त्राणि सुबहून्यपि शृणोति ब्राह्मणो नासौ नरकाणि प्रपद्यते ३६

नाधीतविद्यो यो विप्र आचारेषु प्रवर्तते नाऽऽचारफलमाप्नोति यथा शूद्रस्तथैव सः ३७

नित्यं नैमित्तिकं काम्यं यच्चान्यत्कर्म वैदिकम् अनधीतस्य विप्रस्य सर्वं भवति निष्फलम् ३८

अनधीतस्य विप्रस्य पुत्रो वाऽध्ययनान्वितः शूद्रपुत्रः स विज्ञेयो न वेदफलमश्नुते ३९

वेदं वेदौ तथा वेदान्देवांश्च चतुरो द्विजाः अधीत्य गुरुवे दत्त्वा दक्षिणां च भवेद्गृही ४०

रूपलक्षणसंयुक्तां कन्यामुद्वाहयेत्ततः अमातृगोत्रप्रभवामसमानार्षगोत्रजाम् ४१

मातृतः पञ्चमादूर्ध्वं पितृतः सप्तमात्तथा अगोत्रकुलसंपन्नां रोगहीनां सुरूपिणीम् ४२

मातृतः पञ्चमादर्वाक्पितृतः सप्तमत्तथा कन्यां विवाहयेद्यस्तु गुरुतल्पी भवेद्धि सः ४३

ब्राह्मेणैव विवाहेन दैवेनापि तथैव च आर्षं च केचिदिच्छन्ति धर्मकार्येषु गर्हितम् ४४

धारयेद्वैणवीं यष्टिमन्तर्वासस्तथोत्तरम् यज्ञोपवीतद्वितयं सोदकं च कमण्डलुम् ४५

छत्रं चोष्णीषममलं पादुके वाऽप्युपानहौ रौक्मे च कुण्डले नित्यं कृत्तकेशनखः शुचिः ४६

शुक्लाम्बरधरो नित्यं सुगन्धः प्रियदर्शनः न जीर्णमलवद्वासा भवेद्वै विभवे सति ४७

ऋतुगामी भवेद्विप्रो निषिद्धतिथिवर्जितः षष्ठ्यष्टम्यौ पञ्चदशीममावास्यां चतुर्दशी ४८

ब्रह्मचारी भवेन्नित्यं जन्मर्क्षे च विशेषतः आददीताऽऽवसथ्याग्निं जुहुयाज्रातवेदसम् ४९

वेदोदितं रवकं कर्म नित्यं कुर्यादतन्द्रितः
अकुर्वाणः पतत्याशु निरयानतिभीषणान् ५०

कुर्याद्गृह्याणि कर्माणि संध्योपासनमेव च सख्यं सामाधिकैः कुर्यादुपेयादीश्वरं सदा ५१

पापं न गूहयेद्विद्वान्न धर्मं ख्यापयेत्क्वचित् वयसः कर्मणोऽर्थस्य श्रुतस्याभिजनस्य च ५२

वेषवान्बुद्धिसादृश्यमाचरन्विचरेत्सदा श्रुतित्मृत्युदितः सन्यक्साधुभिर्यश्च सेवितः ५३

तमाचारं निवेवेत साधून्वक्ष्यामि सांप्रतम् गङ्गायमुनयोर्मध्ये मध्यदेशः प्रकीर्तिताः ५४

तत्रोत्मन्ना द्विजा ये वै साधवस्ते प्रकीर्तिताः यस्तैरनुष्ठितो धर्मः श्रुतिस्मृत्योश्च संगतः ५५

सदाचारः स वै प्रोक्तो देवदेवेन शंभुना कुरुक्षेत्राश्च मत्स्याश्च पाञ्चालाः शूरसेनजाः ५६

एते देशाः पुण्यदेशाः सर्वे चान्ये च निन्दिताः देशेष्वेतेषु निवसेद्ब्राह्मणैर्धर्मकाङ्क्षिभिः ५७

अत्रैव दृश्यते धर्मो नान्यत्रेत्यब्रवीद्रविः अङ्गवङ्गकलिङ्गांश्च सौराष्ट्रं गुर्जरं तथा ५८

आभीरं कौङ्कणं चैव द्राविडं दक्षिणापथम् अन्ध्रं च मागधं चैव देशानेतांश्च वर्जयेत् ५९

नित्यं स्वाध्यायशीलः स्यात्पञ्चयज्ञपरायणः शान्तो दान्तो जितक्रोधो लोभमोहविवर्जितः ६०

सावित्रीजाप्यनिरतः शिवभक्तिपरायणः श्राद्धकृद्दाननिरतः क्षमायुक्तो दयालुकः ६१

गृहस्थस्तु समाख्यातो न गृहेण गृही भवेत् न शरीरं विना देवः पूज्यते गिरिजापतिः ६२

ब्रह्मचारी गृहस्थो वा वानप्रस्थोऽथवा यतिः शिवभक्तियुतं कर्म कुर्वन्मुच्येत बन्धनात् ६३

७७२

इति श्रीब्रह्मपुराणोपपुराणे श्रीसौरे सूतशौनकसंवादे वर्णाश्रमाचारविधिकथनं नाम सप्तदशोऽध्यायः १७