सूत उवाच –
व्रतानि संप्रवक्ष्यामि शृणुध्वं मुनिपुङ्गवाः तत्र कृष्णाष्ठमी पुण्या सर्वपापप्रणाशनी १
कृष्णाष्टमीव्रतान्नान्यद्व्रतमस्ति विभूतिदम् कृष्णाष्टमीव्रतं कृत्वा ब्रह्मा ब्रह्मत्वमाप्नुयात् २
विष्णुत्वं प्राप्तवान्विष्णुः सुरेशत्वं शचीपतिः कुबेरो यक्षराजत्वं नियन्तृत्वं यमः स्वयम् ३
चन्द्रश्चन्द्रत्वमापन्नो गणेशत्वं गणाधिपः स्कन्दः सेनापतित्वं च तथा चान्ये गणेश्वराः ४
कृत्वा चैश्वर्यमापन्नाः सौभाग्यं देववल्लभाः व्रतस्यास्य प्रभावेन लक्ष्म्याः पतिरभूद्धरिः ५
ययातिः सार्वभौमत्वं तथा चान्ये नृपोत्तमाः ऋषभो मुनयः सिद्धा गन्धर्वाणां च कन्यकाः ६
कृत्वा चैव परां सिद्धिं प्राप्ताश्च मुनिपुङ्गवाः नन्दीश्वरेण यत्प्रोक्तं नारदाय महात्मने ७
कृष्णाष्टमीव्रतं श्रेष्ठं सर्वकामफलप्रदम् मेरोर्यद्दक्षिणं शृङ्गं सुरासुरनमस्कृतम् ८
तत्र नन्दीश्वरं दृष्ट्वा सर्वज्ञं शंभुवल्लभम् उपास्यमानं मुनिभिः स्तुयमानं मरुद्गणैः ९
सर्वानुग्रहकर्तारं स्तुत्वा तु विविधैः स्तवैः अब्रवीत्प्रणिपत्याथ दण्डवन्नारदो मुनिः १०
नारद उवाच –
भगवन्सर्वतत्त्वज्ञ सर्वैषामभयप्रद केन व्रतेन चीर्णेन तपोवृत्तिः प्रजायते ११
सौभाग्यं कान्तिमैश्वर्यमपत्यं च यशस्तथा शाश्वतीं मुक्तिमन्ते च पशुपाशविमोचनीम् १२
भगवंस्तत् व्रतं ब्रूहि कारुण्याच्छंकरप्रियम् नंदिकेश्वर उवाच –
कृष्णाष्टमीव्रतं श्रेष्ठमस्ति देवऋषे शृणु गणेशत्वं मया लक्ष्यं येन चीर्णेन नारद १३
मासे मार्गशिरे प्राप्ते कृष्णाष्टम्यां जितेन्द्रियः अश्वत्थदन्तकाष्ठेन कृत्वा वै दन्तधावनम् १४
स्नानं कृत्वा च विधिवत्तर्पणं चैव नारद आगत्य भवनं पश्चात्पूजयेच्छंकरं प्रभुम् १५
गोमूत्रं प्राश्य विधिवदुपवासी भवेन्निशि अतिरात्रस्य यज्ञस्य फलमष्टगुणं भवेत् १६
सर्पिषः प्राशनं पौषे दन्तकाष्ठं च तत्स्मृतम् पूजयेच्छंभुनामानं भगवन्तं महेश्वरम् १७
वाजपेयाष्टकफलं प्राप्नोति श्रद्धयाऽन्वितः माधे वटस्य कथितं गोक्षीरं प्राशनं स्मृतम् १८
माहेश्वरं सुसंपूज्य गोमेधस्याष्टकं फलम् फाल्गुने च तदेवोक्तं कार्यं वै प्राशनं च तत् १९
संपूजयेन्महादेवं राजसूयाष्टकं फलम् काष्ठमौदुम्बरं चैत्रे प्राशने वर्जिता जनाः २०
पूजयेत्स्थाणुनामानमश्वमेधफलं लभेत
शिवं संपूज्य वैशाखे पीत्वा चैव कुशोकदम् २१
नरमेधाष्टकफलं प्राप्नोत्येव हि नारद ज्येष्ठे प्लाक्षं भवेत्काष्टं पूज्यः पशुपतिर्विभुः २२
गवां शृङ्गोदकं प्राश्य स्वपेद्देवस्य संनिधौ गवां कोटिप्रदानस्य यत्पुण्यं तदवाप्नुयात् २३
आषाढे चोग्रनामानमिष्ट्वा प्राश्य च गोमयम् सौत्रामण्यास्तु यज्ञस्य फलमष्टगुणं भवेत् २४
पालाशं श्रावणे प्रोक्तं शर्वं संपूज्य नारद प्राशयित्वाऽर्कपत्राणि कल्पं शिवपुरे वसेत् २५
मासे भाद्रपदेऽष्टभ्यां त्र्यम्बकं संप्रपूजयेत् प्राशनं बिल्वपत्रस्य सर्वदीक्षाफलं भवेत् २६
आश्विने जम्बुवृक्षस्य दन्तकाष्ठमुदीरितम् ईश्वरं पूजयेद्भक्त्या प्राशयेत्तण्डुलोदकम् २७
पौण्डरीकस्य यज्ञस्य फलमष्टगुणं लभेत् मासे तु कार्तिकेऽष्टभ्यामीशानाख्यं प्रपूजयेत् २८
पञ्चगव्यं सकृत्पीत्वा अग्निष्टोमफलं लभेत् वर्षान्ते भोजयेद्विप्राञ्शिवभाक्तिपरायणान् २९
पायसं मधुसंयुक्तं घृतेन सुपरिप्लुतम् शक्त्या हिरण्यं वासांसि भक्त्या तेभ्यो निवेदयेत् ३०
देवाय दद्याद्दध्यन्नं वितानध्वजचामरम् कृष्णां पयस्विनी गां च घण्टां कञ्चुकवाससी ३१
सरत्नां ताम्रकलशीं गामलंकृत्य नारद अलंकारं च वस्त्रं च दक्षिणां च स्वशक्तितः ३२
कल्पकोटिशतं साग्रं शिवलोके महीयते कृष्णाष्टमीव्रतं साम्यक्प्राप्तं देवऋषे मथा ३३
यदुक्तं देवदेवेन देव्यै विश्वसृजां पुरा ३४
सूत उवाच –
एवं नन्दीश्वराच्छ्रुत्वा नारदो मुनिपुङ्गवाः कृष्णाष्टमीव्रतं पुण्यं ययौ बदरिकाश्रमम् ३५
व्रतस्यास्य प्रभावं यः षठेद्वा शृणुयादपि अतिसत्रस्य यज्ञस्य फलं प्राप्नोत्यनुत्तमम् ३६
इति श्रीब्रह्मपुराणोपपुराणे श्रीसौरे सूतशौनकसंवादे कृष्णाष्टमीव्रतं नाम चतुर्दशोऽध्यायः १४