१३ सात्त्विकराजसविघ्नादिकथनम्

स्कन्द उवाच–भूतकार्यमिदं देहमापद्रोगाकुलं परम् विषयैः पीड्यते देव सुखदुःखात्मकैः सदा १

आभिभूतो यदा योगी दुःखैरध्यात्मसंभवैः किमुपायं तदा तस्य यदा वै भौतिकस्य च २

ब्रूह्याधिदैविकस्यापि योगसंसिद्धये प्रभो यातनायोपसर्गाणां प्रसादाद्योगिनां वद ३

ईश्वर उवाच–सात्त्विका राजसा विघ्नास्तामसास्त्विह योगिनाम् योगत्रासकराः सर्वे भवन्ति भवतामपि ४

प्रातिभाश्रवणावार्तादर्शनास्वादवेदनाः उपसर्गा भवन्त्येते सात्त्विकास्तु षडेव हि ५

दरिद्रोऽहमहं चाऽऽढ्यः शूगेऽहं दुर्बलस्तथा मूर्खोऽहं च सुविद्वांश्च सुरूपोऽहमरूपवान् ६

दाताऽहं कृपणश्चाहं सुखी भोग्यहमेव च अकुलीनः कुलीनश्च कण्टकः कण्टकोज्झितः ७

मदीयं सर्वमेतद्धि वस्त्वित्यादिप्रजल्पनम् अहंकारमयं किंचिद्यत्तत्कृत्स्नं हि राजसम् ८

अन्धत्वं चैव वाधिर्यं पङ्गुत्वं दुष्टरोगता शिरोरोगो ज्वरः शूलयक्ष्ममूर्छाभ्रमादयः ९

राजसास्तामसाः सर्वे तमोहंकारसंयुताः व्याधयो मिश्रभावेन पीडयन्तीह देहिनम् १०

केवलं जाड्यभावेन मूढत्वं मोहनं तथा अज्ञानत्वं च मूकत्वमित्याद्यास्तामसाः स्मृताः ११

गुह्यका यातुधानाश्च किंनरोरगराक्षसाः देवदानवरौद्राश्च दैत्या मातरजा गणाः १२

तामसास्तु ग्रहा भूता वायुभूता नरं सदा पीडयन्तीह विघ्ना हि योगाभ्यासरतं ग्रहैः १३

एवमाद्युपसर्गाणां वारणाय च धारणाम् वक्ष्यामि विविधां वत्स योगिनां सिद्धिहेतवे १४

त्वगादिसप्तधातूनामेकीभूतं विचिन्तयेत् प्रणवं कण्ठनासाग्रे सबीजं वह्निदीपितम् १५

वारुणेषु च सर्वेषु उपसर्गेषु योगवित् एतदेव चरोन्नित्यमुपसर्गादयो ययुः १६

पित्तरोगाभिभूतो वा योगी योगपरायणः ध्यानमेतत्प्रकुर्वीत तथाऽन्यच्छृणु पुत्रक १७

सुवृत्तं चोडुनाथस्य चाक्षरं तत्र चिन्तयेत् सुधाभिलषितं ध्यायेत्स्वस्य मूर्ध्नि शिवात्मकम् १८

प्रविश्य ब्रह्मरन्धेण देहं निर्वाणजं स्मरेत् शीतलेन सुगन्धेन हृत्तत्त्वं चापि तेन वै १९

पैत्तिकाश्चोपसर्गाश्च भानुना तिमिरं यथा विषज्वरजराद्याथ नश्यन्त्यभ्यासतो ध्रुवम् २०

नाशयेदन्धतां योगी दिव्वदृष्टिः प्रजावते उत्क्षिप्यापानमन्यं च चन्द्रदैवत्यया पिबेत् २१

पीत्वा पार्थिवतत्त्वेन स्तम्भं वायोर्विनाशयेत् पुष्टिरेवातला तस्य स्थिरत्वं रुजहीनता २२

हृत्तत्त्वं च सुपीताभममरत्वं तथा स्मरन् श्रोत्रमाकाशवाय्वोश्च अत्रैकत्वं विचिन्तयेत् २३

मोचयेत्तं पुनर्वायुं बधिरत्वविनाशनम् शृणोति दूरतः सर्वं श्रुतधारी भवेत्सदा २४

वियन्मयोऽथ संचारी सतताभ्यासयोगतः सरोजं रसनायां च तत्द्रष्टारं सकर्णिकम् २५

स्मृत्वा मध्ये पुनर्ध्यायेच्छुक्लवर्णां स्वरस्वतीम् जडत्वं च शिरोरोगं मुस्त्ररोगान्विनाशयेत् २६

प्रज्ञा चैव स्मृतिर्मेधा कवित्वं बुद्धिरुत्तमा स्तम्भनं दुष्टसत्त्वानां सर्ववायूञ्जयेत्सदा २७

हृत्सरोजगतं देवमष्ठादशभुजैर्युतम् नीलारुणं महाकायं त्रिदृक्चन्द्रजटाधरम् २८

सिंहचर्माम्बरं भीमं सर्वाभरणभूषितम् भुजङ्गहाराभरणं सवँकङ्कणनूषुरम् २९

ज्वालामालाकुलं दीप्तं भाभासितदिगाननम् अभेद्यं विजयं रौद्रमक्षोभ्यं त्रिदशेश्वरम् ३०

कपालमालिनं चोग्रं भीमं दंष्ट्राकरालिनम् अस्त्रैर्व्ययग्रकरं देवममोधैर्वह्निकारणैः ३१

स्मरणाद्यजनाच्चैव तैजसैर्विघ्ननाशनम् शूलमुद्वरवज्रेषुदण्डकार्मुकशक्त्यसि ३२

पद्मान्ते दक्षिणे भागेऽविनाशं परमेश्वरम् परिघध्वजस्त्रट्वाङ्गैरङ्कुशं च धनुर्गदाम् ३३

ज्वालाननेन पाशेन वामभागेऽभयप्रदम् अनेन ध्यानयोगेन सर्वविघ्नान्निवारयेत् ३४

वशं नयेज्जगत्सर्वमापद्यपि महेश्वरः सम्यग्दर्शनसंपन्नो नाभिभूयेत कर्मभिः ३५

योगविद्योगयुक्तात्मा परं निर्वाणमृच्छति आदित्यमण्डलं पद्मे सौम्यं वै पावकं ततः ३६

आत्मनो हृद्गुहावासं संचिन्त्यैवं महामुनिः तत्र देवं परं शान्तं ध्यायेदीशं सुनिर्मलम् ३७

जगद्व्याप्यं स्थितं कृत्स्नं कालाकालविवर्जितम् वियद्देशे हृत्कुञ्जे वा योगी योमविदां वरः ३८

ईश्वरं चिन्तयेत्स्थाणुं ज्ञानमानन्दविग्रहम् उभावपि स्थिरीकृत्य योगी मोक्षाय कल्पते ३९

बाह्ये चित्तं समारोप्य वायोः परमकारयत् ततो द्वाराणि संयम्य ब्रह्मरन्ध्रे लयं गतः ४०

लक्षमाधाय तत्रैव योजयेन्मयि षण्मुख घृतं घृतेष्वेव यथा नियुक्तं प्रयाति चैक्यादविशेषभावम् तथैव लीनो न भवेत्स भूयः परे चतुर्थे त्वनया च युक्त्या ४१

५८९

इति श्रीब्रह्मपुराणोपपुराणे श्रीसौरे शिवस्कन्दसंवादे सात्त्विकराजसविघ्नादिकथनं नाम त्रयोदशोऽध्यायः १३