ईश्वर उवाच–मय्येकचित्तता योग इति पूर्वं निरूपितम् साधनान्यष्टधा तस्य प्रवक्ष्याम्यधुना शृणु १
यमाश्च नियमास्तावदासनान्यपि षण्मुख प्राणायामस्ततः प्रोक्तः प्रत्याहरश्च धारणा २
ध्यानं तथा समाधिश्च योगाङ्गानि प्रचक्षते अहिंसा सत्यमस्तेयं ब्रह्मचर्यापरिग्रहौ ३
यमाः संक्षेपतः प्रोक्ता नियमाञ्शृणु पुत्रक तपः स्वाध्यायसंतोषः शौचमीश्वरपूजनम् ४
नियमाः कथिता वत्स योगसिद्धिप्रदायिनः सर्वेषामेव भूतानामक्लेशजननं हि यत् ५
अहिंसा कथिता सद्भिर्योगसिद्धिप्रदायिनी यथार्थकथनं सत्यमस्तेयमधुना शृणु ६
चौर्येण वा बलेनापि परस्वहरणं च यत् स्तेयमित्युच्यते सद्भिरस्तेयं तस्य वर्जनम् ७
सर्वत्र मैथुनत्यागो ब्रह्मचर्यमिहोच्यते द्रव्याणामप्यनादानमापद्यपि यथेच्छया ८
अपरिग्रह इत्युक्तो योगसिद्धेस्तु साधनम् चान्द्रायणादिना यत्तु शरीरस्य च शोषणम् ९
तत्तपः कथितं पुत्र स्वाध्यायमधुना शृणु प्रणवः शतरुद्रीयं तथाऽथर्वशिरःशिखा १०
एतेषां यो जपः पुत्र स्वाध्याय इति कीर्तितः यदृच्छालाभसंतुष्टः संतोष इति पठ्यते ११
बाह्ये चाभ्यन्तरे चापि शुद्धिः शौचं विधीयते स्तुतिस्मरणपूजाभिर्वाङ्मनःकायकर्मभिः १२
मयि भक्तिर्दृढा पुत्र एतदीश्वरपूजनम् यमाश्च नियमाः प्रोक्ताः संक्षेपान्न तु विस्तरात् १३
यमैश्च नियमैर्युक्तो योगी मोक्षाय संस्तुतः स्थिरबुद्धिरसंमूढः पूर्वमासनमभ्यसेत् १४
पद्मकं स्वस्तिकं पीठं सैढं कौक्कुटकौञ्जरम् कौर्मं वज्रासनं चैवं वैयाघ्रं चार्धचन्द्रकम् १५
दण्डं तार्क्ष्यासनं शूलं खड्गं मुद्गरमेव च मकरं त्रिपथं काष्ठं स्थाणुर्वा हस्तिकर्णिकम् १६
भीमं वीरासनं चापि वाराहं मृगवैणिकम् क्रौञ्चं चानालिकं चापि सर्वतोभद्रमेव च १७
इत्येतान्यासनान्यत्र सप्तविंशतिसंख्यया योगसंसिद्धिहेतोस्तु कथितानि तवानघ १८
एषामेकतरं बद्ध्वा गुरुभक्तिपरायणः द्वन्द्वातीतो यजेत्प्राणानम्यासक्रमयोगतः १९
अन्तश्चराणां वायूनां बाह्याभ्यन्तररोधनम् प्राणायाम इति प्रोक्तो द्विविधः स च कथ्यते २०
अगर्भश्च सगर्भश्च तयोराद्योऽजयः स्मृतः द्वितीयः सजयः प्रोक्तो ध्रुवं व्याहृतिमातृभिः २१
रेचकः शून्यकश्चैव पूरकः कुम्भकस्तथा एवं चतुर्विधो भेदः प्राणायामेऽत्र सूरिभिः २२
असूनां नाडयः प्रोक्ता गमागमलयाश्रयाः रेचनाद्रेचकः प्रोक्तः शून्यकस्तु यथास्थितः २३
पूरकः पूरणाद्वायोस्तन्निरोधाच्च कुम्भकः देहिनो दक्षिणे भागे पिङ्गला नाडिका स्मृता २४
पितृयोनिरिति ख्याता भानुस्तत्राधिदैवतम् दक्षिणेतरगा या च इडा सा नाडिका स्मृता २५
देवयोनिरिति ख्याता चन्द्रस्तत्राधिदैवतम् एतयोरुभयोर्मध्ये सुषुम्ना नाम विश्रुता २६
पद्मसूत्रनिभा नाडी कार्याख्या ब्रह्मदैवतम् ततः शून्यं निरालम्बं मध्ये स्वात्मनि योजयेत् २७
बाह्यस्थाद्रोधनाद्वायोः शून्यकत्वं विनिर्दिशेत् चन्द्रदैवतया भूयः पिबेदमृतमुत्तमम् २८
आप्यायनं भवेत्तेन प्लावनं कल्मषस्य तु आपूर्योदरसंस्थं तु उच्चैर्वायुं निरोधयेत् २९
कुम्भकः कुम्भवत्स स्याद्रेचको वर्तितस्य च उत्क्षिप्य प्रयतो वायुमजदेवत्यमानयेत् ३०
अङ्गुष्ठाग्रात्समारभ्य ब्रह्मरन्ध्रेण मोचयेत् संकोच्य कूचिकाचक्रमूर्ध्वं नीत्वा रसात्रयम् ३१
संक्षोभ्य शङ्खिनीं सम्यक्ततो ब्रह्मगुहां नयेत् अनेन शोधयेन्मार्गमैश्वरं विमलं मुनिः ३२
क्रमेणाभ्यासयोगेन योगसंसिद्धिभाग्भवेत् मुमुक्षुणां सदा वत्स योगाङ्गं योगसिद्धये ३३
विहाय वह्निमार्गं तु अङ्गुल्यास्तु शनैः शनैः सौम्येनाऽऽकर्षयेद्वायुं नाभावाकृष्य धारयेत् ३४
धारयन्नियतप्राणो योगैश्वर्यसमन्वितः जायते वत्सराद्योगी जरामरणवर्जितः ३५
वायुमाकर्षयेद्बाह्यं वामया चोदरं भरेत् नाभिनासान्तरा ध्यायंस्त्रिः प्राणांश्च जयेद्ध्रुवम् ३६
मनःस्थैर्यं भवेद्वत्स त्रिषु स्थानेषु धारणात् अङ्गुष्ठनाभिनासाग्रे वायुं योगी जितासनः ३७
अपानं कटिदेशे तु पृष्ठतो वै विनिर्दिशेत् सदा तत्रैव संधेय एष वायुजयक्रमः ३८
रेचकः पूरकश्चैव कुम्भकश्च न विद्यते निरालम्बे मनः कृत्वा क्षणात्प्राणजितो भवेत् ३९
इन्द्रियाणां विचरतां विषयेषु स्वभावतः निग्रहः प्रोच्यते यस्तु प्रत्याहारः स उच्यते ४०
मद्यत्पश्यति तत्सर्वं पश्येदात्मवदात्मनि प्रत्याहारः स वै प्रोक्तो योगसाधनमुत्तमम् ४१
कर्मेन्द्रियाणां पञ्चानां पञ्चमाद्येतरेजने यदि तत्र स्थिरो लोको मनो याति तदालयम् ४२
उद्वातान्दश पञ्चैव कारयेद्धारणां बुधः प्राणवायुं निवार्यैव मनः सूर्येऽन्तरे क्षिपेत् ४३
देवांश्च सिद्धान्गन्धर्वांश्चारणान्खेचरान्गणान् षण्मासाभ्यासयोगेन सूक्ष्मज्योतिः प्रपश्यति ४४
दृष्टे न स्याज्जरा मृत्युः सर्वज्ञश्च प्रजायते स्फोटाख्या नाडिका प्रोक्ता कूर्मलोकस्तदान्तरे ४५
उच्चार्य बिन्दुतत्त्वं तु तस्यान्ते गुणवत्स्मरेत् भूतं भव्यं भविष्यं च वर्तमानं च दूरतः ४६
ज्ञानं यत्तद्भवेन्नूनं स्फोटाख्ये ज्ञानमभ्यसेत् ललाटे मूर्ध्नि हृदये सदाशिवमनुस्मरेत् ४७
शुद्धस्फटिकसंकाशं जटाजूटेन्दुशेखरम् पञ्चवक्त्रं दशभुजं सर्पयज्ञोपवीतिनम् ४८
ध्यात्वैवमात्मानि विभुं ध्यानं तत्सूरयो विदुः तत्रोन्मनस्त्वं भवति न शृणोति न पश्यति ४९
न जिघ्राति न स्पृशति न किंचिद्वा समीक्षते गुह्योदरादिस्थानेषु वायुं नासां विचिन्तयेत् ५०
ईशोऽहमिति योगीन्द्रः परानन्दैकविग्रहः जरामरणनिर्मुक्तः शिव एव भवेन्मुनिः ५१
गमनागमनाभ्यां यो हीनो वै विपयोज्झितः एकान्तरोन्मनीभावः समाधिरभिधीयते ५२
न बृहद्वस्तुनश्चिन्ता न सूक्ष्मस्यापि चिन्तनम् न बहिर्नान्तरं पुत्र ब्रह्मग्रन्थिविभेदनम् ५३
न स्थूलं न कृशं वाऽपि न ह्रस्वं नापि लोपितम् न शुक्लं नापि वा पीतं न कृष्णं नापि कर्बुरम् ५४
कृत्वा हृत्पद्मनिलये विश्वाख्यं विश्वसंभवम् आत्मानं सर्वभूतानां परस्तात्तमसंस्थितम् ५५
सर्वस्याऽऽधारमव्यक्तमानन्दं ज्योतिरव्ययम् प्रधानपुरुषातीतमाकाशं दहरं शिवम् ५६
तदन्तः सर्वभूतानामीश्वरं ब्रह्मरूपिणम् ध्यायेदनादिमध्यान्तमानन्दादिगुणालयम् ५७
महान्तं पुरुषं ब्रह्म ब्रह्माणं ब्रह्म चाव्ययम् ॐकारान्ते तथाऽऽत्मानं संस्थाप्य परमात्मनि ५८
आकाशे देवमीशानं ध्यायीताऽऽकाशमध्यगम् कारणं सर्वभावानामानन्दैकरसाश्रयम् ५९
पुराणं पुरुषं शंभुं ध्यायेन्मुच्येत बन्धनात् शिवभक्तिं विना यस्तु संसारं तर्तुमिच्छति ६०
मूढो यथा श्वलाङ्गुलैः समुद्रं तर्तुमिच्छति तथा विना शंभुसेवां संसारतरणं न हि ६१
सर्वसौख्यप्रदः शंभुर्नान्या काचन देवता तस्मात्सर्वप्रयत्नेन महादेवं प्रपूजयेत् ६२
यद्वा मुहायां प्रकृतं जगत्संमोहनालये विचिन्त्य परमं व्योम सर्वभूतैककारणम् ६३
जीवनं सर्वभूतानां यत्र लोकः प्रलीयते आनन्दं ब्रह्मणः सूक्ष्मं यत्पश्यन्ति मुमुक्षवः ६४
तन्मध्ये निहितं ब्रह्म केवलं ज्ञानलक्षणम् पातुं तिष्ठेन्महेशेन सोऽश्रुते योगमैश्वरम् ६५
नैकलक्षं द्विलक्षं वा त्रिलक्षं न नवात्मकम् सर्वोपाधिविनिर्मुक्तं समाधिरभिधीयते ६६
बाह्ये चाभ्यन्तरे पुत्र यत्र यत्र मनः क्षिपेत् तत्र तत्राऽऽत्मनो रूपमानन्दमनुभूयते ६७
संस्थाप्य मयि चाऽऽत्मानं परं ज्योतिषि निर्गुणे मुहूर्तं तिष्ठतः साक्षात्तस्य चानुभवो भवेत् ६८
सर्वज्ञः परिपूर्णश्च जरामरणवर्जितः
मत्प्रसादाद्भवेद्योगी नान्यथा क्रौञ्चसूदन ६९
तस्मात्सर्वं परित्यज्य कर्मजातं सुदुष्करम् मामेकं शरणं गच्छेदज्ञानं नाशयाम्यहम् ७०
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चान्ये च संकराः मद्भक्तिभावनापूता यान्ति मत्परमं पदम् ७१
जगतः प्रलये प्राप्ते नष्टे च कमलोद्भवे मद्भक्ता नैव नश्यन्ति स्वेच्छाविग्रहधारिणः ७२
योगिनां कर्मिणां चैव तापसानां यतात्मनाम् अहमेव गतिस्तेषां नान्यदस्तीति निश्चयः ७३
५४८
इति श्रीब्रह्मपुराणोपपुराणे श्रीसौरे शिवस्कन्दसंवादे यमनियमप्राणायामादिकथनं नाम द्वादशोऽध्यायः १२