१० दानाहंविप्रादिकथनम्

सूत उवाच–नित्यं नैमित्तिकं काम्यं विमलं च चतुर्विधम् दानं पात्रे प्रदातव्यं नापात्रेऽप्यणुमात्रकम् १

पात्रभूतान्प्रवक्ष्यामि शृणुध्वं मुनिपुङ्गवाः भानुना देवदेवेन मनवे कथिताश्च ये २

न दानादधिकं किंचिद्विद्यते भुवनत्रये दानेन प्राप्यते स्वर्गः श्रीर्दानेनैव लभ्यते ३

दानेन प्राप्नुयात्सौख्यं रूपं कान्तिं यशो बलम् दानेन जयमाप्नोति मुक्तिर्दानेन लभ्यते ४

दानेन शत्रूञ्जयति व्याधिर्दानेन नश्यति दानेन लभते विद्यां दानेन युवतीं जनः ५

धर्मार्थकाममोक्षाणां साधनं परमं स्मृतम् दानमेव न चैवान्यदिति देवोऽब्रवीद्रविः ३

तस्माद्दानाय सत्पात्रं विचार्यैव प्रयत्नतः दातव्यमन्यथा सर्वं भस्मनीव हुतं भवेत् ७

वेदवेदाङ्गतत्त्वज्ञाः शान्ताश्चैव जितेन्द्रियाः श्रौतस्मार्तक्रियानिष्ठाः सत्यनिष्ठाः कुटुम्बिनः ८

तपस्विनस्तीर्थरता कृतज्ञा मितभाषिणः गुरुशुश्रूषणरता नित्यं स्वाध्यायशीलिनः ९

महादेवार्चनरता भूतिशासनभूषिताः वैष्णवाः सूर्यभक्ता वा पात्रभूता द्विजोत्तमाः १०

एभ्य एव प्रदातव्यमीहेद्दानफलं यदि आपद्यपि न दातव्यमन्येभ्य इति निश्चितम् ११

यस्तु माहेश्वरो विप्रो जातिमात्रोऽपि यद्यपि उत्तमः सर्वपात्राणां तस्मै दत्तं तदक्षयम् १२

शिवभक्तमतिक्रम्य यच्चान्यस्मै प्रदीयते निष्फलं तद्भवेद्दानं नरकं च प्रपद्यते १३

तस्मात्पात्रतमं ज्ञात्वा शिवभक्तमकल्मषम् तस्मै सर्वं प्रदातव्यमक्षयं फलमिच्छता १४

दानं फलमनुद्दिश्य सर्वदा यत्प्रदीयते तद्दानं नित्यमित्युक्तं देवदेवेन भानुना १५

दानं पापविशुद्ध्यर्थं श्रद्धया यत्प्रदीयते प्रोक्तं नैमित्तिकं दानमृषिभिर्वेदवादिभिः १६

पुत्रार्थं वा धनार्थं वा स्वर्गार्थं वाऽन्यतोऽपि वा यद्दानं दीयते भक्त्या काम्यमित्यभिधीयते १७

हरस्य प्रीणनाथं यच्छिवभक्ताय दीयते दानं तद्विमलं प्रोक्तं केवलं मोक्षसाधनम् १८

यत्किंचिद्दीयते दानं दरिद्राय विशेषतः दानं तदधिकं प्रोक्तं स्वकुटुम्बाविरोधतः १९

स्वल्पामपि महीं यस्तु ददाति श्रद्धयाऽन्वितः स याति ब्रह्मसदनं यत्र देवः स्वयं विराट् २०

इक्षुगोधूमतुवरीयवैश्च सहितां महीम् यो ददाति दरिद्राय स याति सवितुः पदम् २१

अपि गोचर्ममात्रां यो ददाति श्रद्धयाऽन्वितः शिवभक्ताय शान्ताय सर्वपापैः प्रमुच्यते २२

न भूमिदानादधिकं दानमस्तीह भूतले तद्दानं हि दरिद्राय दत्तं भवति चाक्षयम् २३

आढ्याय नैव दातव्यं भूमिदानं विशेषतः यो ददाति भयात्स्नेहात्सोऽक्षयं नरकं व्रजेत् २४

यैर्दत्ता ब्राह्मणेभ्यश्च ग्रामाः परमधार्मिकैः गृह्णन्ति ये करं तेषु लोभान्धाः पापिनो नृपाः २५

नरकेषु विपच्यन्ते यावत्कल्पायुतत्रयम् तदन्ते मक्षिका यूका मत्कुणा मशकास्तथा २६

कृमयो जालपादाश्च शूकराः पक्षिणस्तथा श्वानो गोधाः शशाः सेधा गर्दभाश्च पिपीलिकाः २७

मूषकाः कृकलासाश्च वृक्षगुल्मादयस्तथा भवन्ति युगासाहस्रं तदन्ते म्लेच्छजातयः २८

न तेषां निष्कृतिर्दृष्टा प्रायश्चित्तशतैरपि ब्रह्महा शुद्धिमाप्नोति कालेन मुनिपुङ्गवाः २९

द्विजग्रामकरग्राही नैव शुद्धिमवाप्नुयात् तस्मात्परिहरेत्तत्र करं यत्नेन बुद्धिमान् ३०

विप्रदानकरादानादधिकं नास्ति पातकम् दानानामुत्तमं दानं विद्यादानं विदुर्बुधाः ३१

तच्च दानं विनीताय वर्णाश्रमरताय च ब्राह्मणायैव शान्ताय शुश्रूषणरताय च ३२

दत्तं तद्ब्रह्मलोकाय विद्यादानं प्रचक्षते अन्नदानं प्रशंसन्ति विदुषो वेदवादिनः ३३

अन्नमेव यतः प्राणाः प्राणादानसमं हि तत् तस्मादहरहर्देयमन्नमेव विचक्षणैः ३४

अपरीक्ष्यैव सर्वेभ्य इति स्वायंभुशासनात् प्रीतो विरञ्चिरन्नेन प्रीतश्च कमलापतिः ३५

प्रीतश्च भगवाञ्शंभुरन्नेनैव शचीपतिः तस्माद्विशिष्टं तद्देयमाहुर्वेदविदो बुधाः ३६

आममन्नं गृहस्थाय नैव पक्वं कदाचन नाध्वगाय निषिद्धं तदिति देवोऽब्रवीद्रविः ३७

जलदानमपि प्रोक्तमन्नदानेन वै समम् जीवनं सर्वभूतानां जलमेव द्विजोत्तमाः ३८

तिलदः पुत्रमाप्नोति वासोदः कान्तिमुत्तमाम् दीपदो निर्मलां दृष्टिं यानदः श्रियमुत्तमाम् ३९

शय्याप्रदश्चापि तथा धान्यदः सौख्यमुत्तमम् अश्विनोर्लोकमाप्नोति सौन्दर्यं घोटकप्रदः ४०

ब्रह्मदानं महद्दानमिति वेदविदो विदुः तेन दानेन महता सायुज्यं ब्रह्मणः स्मृतम् ४१

गृहीत्वा वेतनं वेदं योऽध्यापयति मूढधीः अधीते यो हि वा दत्त्वा तावुभौ पापिनौ स्मृतौ ४२

तयोर्मुखगता वेदा निन्दिताः सर्वकर्मसु सुराभाण्डगतं तोयं यथा भवति निन्दितम् ४३

गवां ग्रासप्रदानेन मुच्यते सर्वपातकैः यानि भोज्यानि मूलानि फलानि विविधानि च ४४

शाकानि ब्राह्मणेभ्यश्च दत्त्वाऽत्यन्तं सुखी भवेत् इन्धनानां प्रदानेन जाठराग्निप्रदीपनम् ४५

परलोकगतानां च च्छत्रदानं सुखप्रदम् रोगिणे रोगशान्त्यर्थमौषधं यः प्रयच्छति ४६

रोगहनिः स दीर्घायुः सुखी भवति सर्वदा गामलंकृत्य यो दद्यात्सवत्सां च सदक्षिणाम् ४७

स क्षीरिणीं द्विजेन्द्राय श्रद्धया द्विजपुङ्गवाः प्राप्नोति शाश्वतालोकान्नानाभोगसमन्वितान् ४८

संख्या नैवास्ति पुण्यानां कपिलायाः प्रदानतः कृष्णाजिनं च महिषी मेषी च दश धेनवः ४९

ब्रह्मलोकप्रदायिन्यस्तुलापुरुष एव च षोडश क्रतवो ये च दानं तीर्थेषु यत्स्मृतम् ५०

तदक्षयं भवेद्दानं योगिने च विशेषतः अयने विषुवे चैव ग्रहणे चन्द्रसूर्ययोः ५१

संक्रान्त्यादिषु कालेषु दत्तं भवति चाक्षयम् शिवमुद्दिश्य यद्दत्तं स्वल्पं वा यदि वा बहु ५२

शिवालये विशेषेण दत्तं भवति चाक्षयम् विशाखर्क्षेण संयुक्ता वैशाखी पूर्णिमा भवेत् ५३

तस्यां तिथौ तु संपूज्य ब्राह्मणान्सप्त पञ्च वा कृष्णैरेव तिलैर्विद्वान्मधुना वाऽप्युपोषितः ५४

धर्मराजो यमः साक्षात्प्रीयतामिति शक्तितः दद्याद्वेदार्थविदुषे यदि वा शिवयोगिने ५५

यावज्जीवं कृतैः पापैः कायिकैर्वाङ्मनोगतैः मुच्यते तत्क्षणादेव धर्मराजप्रसादतः ५६

कृष्णाजिने तिलान्कृत्वा हिरण्यं मधुसर्पिषी ददाति मस्तु विप्राय सर्वपापैः प्रमुच्यते ५७

गामन्नमुदकुम्भं च वैशाख्यां संप्रयच्छति प्रीतये धर्मराजस्य सर्वपापैः प्रमुच्यते ५८

प्रसिद्धा या शिवतिथिर्माघे कृष्णचतुर्दशी तस्यां तिथौ नरो भक्त्या देवमुद्दिश्य शंकरम् ५९

ददाति हेम वासो वा फलं धान्यमथापि वा यत्किंचिद्वेदविदुषे दत्तं भवति चाक्षयम् ६०

अभयं सर्वभूतेभ्यो दद्याद्दानं परं स्मृतम् न तस्मादधिकं दानं विद्यते च धनैर्विना ६१

एवं दानफलं प्रोक्तं पुराणेऽस्मिन्पृथक्पृथक् पठेद्यः शृणुयाद्वाऽपि गोदानस्य फलं लभेत् ६२

४३७

इति श्रीब्रह्मपुराणोपपुराणे श्रीसौरे सूतशौनकसंवादे दानाहंविप्रादिकथनं नाम दशमोऽध्यायः १०