०९ ब्राह्मादिपुराणकमदानफलकथनम्

ऋषय ऊचुः – किं लक्षणं पुराणानां तेषां दानेन किं फलम् अन्येषामपि दानानां व्रतानां च विशेषतः १

वर्णानामाश्रमाणां च तेषां वै लक्षणं यथा ततः श्राद्धविधानं च प्रायश्चित्तं कथं भवेत् २

सर्वमेतदशेषेण सूत नो वक्तुमर्हसि सूत उवाच –

यदुक्तं भानुना पूर्वं पुत्राय मनवे द्विजाः तदहं संप्रवक्ष्यामि शृणुध्वं गदतो मम ३

सर्गश्च प्रतिसर्गश्च वंशा मन्वन्तराणि च वंशानुचरितं चैव पुराणं पञ्चलक्षणम् ४

ब्राह्मादीनां पुराणानामुक्तमेतत्तु लक्षणम् एतच्चोपपुराणानां खिलत्वाल्लक्षणं स्मृतम् ५

ब्राह्मं पुराणं तत्राऽऽद्यं संहितायां विभूषितम् श्लोकानां दशसाहस्रं नानापुण्यकथायुतम् ६

पाद्मं द्वितीयं कथितं तृतीयं वैष्णवं स्मृतम् चतुर्थं वायुना प्रोक्तं वायवीयमिति स्पृतम् ७

ततो भागवतं प्रोक्तं भागद्वयविभूषितम् चतुर्भिः पर्वभिः प्रोक्तं भविष्यं तदनन्तरम् ८

नारदीयं तथाऽऽग्नेयं मार्कण्डेयमतः परम् दशमं ब्रह्मवैवर्तं लिङ्गमेकादशं परम् ९

भागद्वयेन लैङ्गं च ततो वाराहमुत्तमम् संयुक्तमष्टभिः खण्डैः स्कान्दं चैवातिविस्तम् १०

ततस्तु वामनं कौर्मं भागद्वयविराजितम् मात्स्यं च गारुडं प्रोक्तं ब्रह्माण्डं च ततः परम् ११

नामद्वयेन कथितं ब्रह्माण्डमिति संज्ञितम् खिलान्युपपुराणानि यानि चोक्तानि सूरिभिः १२

इदं ब्रह्मपुराणस्य खिलं सौरमनुत्तमम् संहिताद्वयसंयुक्तं पुण्यं शिवकथाश्रयम् १३

आद्या सनत्कुमारोक्ता द्वितीया सूर्यभाषिता इयं पुण्यतमा ख्याता संहिता पापनाशिनी १४

वैवस्वताय मनवे कथिता रविणा पुरा दानमस्य पुराणस्य दानानामुत्तमं द्विजाः १५

यो दद्याच्छिवभक्ताय ब्राह्मणाय तपस्विने यानि दानानि लोकेषु प्रसिद्धानि द्विजोत्तमाः १६

सर्वेषां धलमाप्नोति चतुर्दश्यां न संशयः ब्राह्मं पुराणं प्रथमं ददाति श्रद्धयाऽन्वितः १७

सर्वपापनिर्मुक्तो ब्रह्मलोके महीयते पाद्मं ब्रह्माणमुद्दिश्य यो ददाति गुरोर्दिने १८

द्विजाय वेदविदूषे ज्योतिष्ठोमफलं लभेत् वैष्णवं विष्णुमुद्दिश्य द्वादश्यां प्रयतः शुचिः १९

अनूचानाय यो दद्याद्वैष्णवं पदमाप्नुयात् ददाति सूर्यभक्ताय यस्तु भागवतं द्विजाः २०

सर्वपापविनिर्मुक्तः सर्वरोगविवर्जितः
जीवेद्वर्षशतं साग्रमन्ते वैवरवतं पदम् २१

वैशाखे शुक्लपक्षस्य तृतीयाऽक्षयसंज्ञिता तस्यां तिथौ संयतात्मा ब्राह्मणायाऽऽहिताग्नये २२

भविष्याख्यं पुराणं तु ददाति श्रद्धयान्वितः अश्वमेधस्य यज्ञस्य फलमाप्नोत्यनुत्तमम् २३

मार्कण्डेयं तु यो दद्यात्सप्तम्यां प्रयतात्मवान् सूर्यलोकमवाप्नोति सर्वपापविवर्जितः २४

आग्नेयं प्रतिपद्येव प्रदद्यादाहिताग्नये राजसूयस्य यज्ञस्य फलं भवति शाश्वतम् २५

ददाति नारदीयं यश्चतुर्दश्यां समाहितः द्विजाय शिवभक्ताय शिवलोके महीयते २६

यो दद्याद्ब्रह्मवैवर्ते वैष्णवाय समाहितः ब्रह्मलोकमवाप्नोति पुनरावृत्तिदुर्लभम् २७

कार्तिकस्य चतुर्दश्यां शुक्लपक्षस्य सुव्रताः लैङ्गं दद्याद्द्विजेन्द्राय शिवार्चनरताय वै २८

सर्वपापविनिर्मुक्तः सर्वैश्वर्यसमन्!वितः याति माहेश्वरं घाम सर्वलोकोपरि स्थितम् २९

द्वादश्यां संयतो भूत्वा ब्राह्मणाय तपस्विने यो वै ददाति वाराहं विष्णुलोकं स गच्छति ३०

स्कान्दं शिवचतुर्दश्यां प्रदद्याच्छिवयोगिने ज्ञानी भवति विप्रेन्द्रा महादेवप्रसादतः ३१

द्वादश्यां वा चतुर्दश्यां दद्याद्वागनमुत्तमम् तस्य देवस्य तं लोकं प्राप्नोत्यक्षयमुत्तमम् ३२

दद्यात्कौर्मं चतुर्दश्यां योगिने प्रयतात्मने सर्वदानस्य यत्पुण्यं सर्वयज्ञस्य यत्फलम् ३३

प्राप्नोति तत्फलं विद्वानन्ते शैवं परं पदम् मात्स्यं दद्यात् द्विजेन्द्राय प्रयतश्चोत्तरायणे ३४

विमुक्तः सर्वपापेभ्यः शिवलोके महीयते गारुडं शिवमुद्दिश्य दद्याच्छिवतिथौ द्विजाः ३५

वाजपेयसहस्रस्य फलमाप्नोत्यनुत्तमम् प्रदद्याच्छिवभक्ताय ब्रह्माण्डमिति यत्स्मृतम् ३६

शिवस्य पुरतो भक्त्या संमाप्ते दक्षिणायने चन्द्रस्य ग्रहणे वाऽथ भानोरपि च सुव्रताः ३७

गणाधिपत्यमाप्नोति देवदेवस्य शूलिनः एवमुक्तः पुराणानां क्रमो दानेन यत्फलम् ३८

प्रोक्तं समाप्ततो विप्राः सूर्यो यत्स्वयमब्रवीत् यः पठेदिममध्यायं महादेवस्य संनिधौ ३९

सर्वपापविनिर्मुक्तो वाजपेयफलं लभेत् ४०

३७५

इति श्रीब्रह्मपुराणोपपुराणे श्रीसौरे सूतशौनकसंवादे ब्राह्मादिपुराणकमदानफलकथनं नाम नवमोऽध्यायः ९