०७ दक्षेश्वरमाहात्म्यादिकथनम्

सूत उवाच–पुनर्जगाम भगवान्कृष्णद्वैपायनः प्रभुः द्रष्टुं दक्षेश्वरं देवं भक्तानां सिद्धिदायकम् १

यच्छिवावज्ञया पापं जातं दक्षप्रजापतेः तस्य पापस्य मोक्षाय तस्मिल्ँलिङ्गे द्विजोत्तमाः २

आराध्य देवदेवेशं बहुन्यब्दशतानि वै तस्य प्रसन्नो भगवान्देवदेवः सहोमया ३

ददौ माहेश्वरं योगं तस्मै दक्षाय धीमते लब्ध्वा तं परमं योगं तस्मिल्ँलिङ्गे लयं गतः ४

ततः प्रभृति तल्लिङ्गं योगिभिः सेव्यते द्विजाः योगं ददाति सर्वेषां देवो दक्षेश्वरः शिवः ५

गङ्गायां प्रयतः स्नात्वा दृष्ट्वा दक्षेश्वरं शिवम् प्राप्नोति परमं योगमिति द्वैपायनोऽब्रवीत् ६

स्नात्वा सत्यवतीसूनुर्गङ्गायां प्रयतो द्विजाः दृष्ट्वा दक्षेश्वरं देवं ययौ पश्चात्त्रिलोचनम् ७

ऋषय ऊचुः–हेतुना केन दक्षस्य निन्दाऽभूच्छांकरी पुरा कारणं वद तत्सूत श्रोतुं वाञ्छा प्रवर्तते ८

सूत उवाच–आसीद्ब्रह्मसुतो दक्षः पुनः प्राचेतसाऽभवत् शप्तो देवेन रुद्रेण क्रोधाच्छंभोरवज्ञया ९

वैरं निधाय मनसि शंभुना सह सुव्रताः दक्षः प्राचेतसो यज्ञमकरोज्जाह्नवीतटे १०

तस्मिन्यज्ञे समाहूता इन्द्राद्या देवतागणाः ऋषयो मुनयः सिद्धा राजानः प्रथितोजसः ११

ब्रह्मा च विष्णुना सार्धमाहूतस्तेन धीमता देवान्सर्वांश्च भागार्थमाहूतान्पद्मसंभवः १२

दृष्ट्वा शिवेन रहितान्दक्षं प्रत्येवमब्रवीत् ब्रह्मोवाच–अहो दक्ष महामूढ दुर्बुद्धे किं कृतं त्वया देवाः सर्वे समाहूताः शंकरेण विना कथम् १३

अन्तर्यामी स विश्वेशः सर्वेषामेव देहिनाम् भोक्ता स सर्वयज्ञानां शंकरः परमार्थतः १४

एते च मुनयः सर्वे तव साहाय्यकारिणः न जानन्ति परं भावं महादेवस्य शूलिन १५

एते च देवाः शक्ताद्या आगता यज्ञभागिनः तन्मायामोहिताः सर्वे न जानन्ति पिनाकिनम् १६

यस्य पादरजःस्पर्शाद्ब्रह्मत्वं प्राप्तवानहम् शार्ङ्गिणाऽपि सदा मूर्ध्ना धार्यते कः शिवात्परः १७

यस्य वामाङ्गजो विष्णुर्दक्षिणाङ्गाद्भवाम्यहम् यस्याऽऽज्ञयाऽखिलं विश्वं सूर्यो भ्रमति सर्वदा १८

चन्द्रश्च तारकाश्चैव ग्रहाश्च भुवनानि च धर्माधर्मव्यवस्था च वर्णाश्चैवाऽऽश्रमाणि च १९

तिष्ठन्ति शासनात्तस्य देवदेवस्य शूलिनः सा च शक्तिः परा गौरी स्वेच्छाविग्रहचारिणी २०

तव पुत्रीति दुर्बुद्धे मन्यसे तमसाऽऽवृतः कस्तां जानाति विश्वेशीमीश्वरार्धशरीरिणीम् २१

अहं नाद्यापि जानामि चक्री शक्रस्य का कथा स्वेच्छाविग्रहरूपिण्या गौर्या सह पिनाकघृत् २२

भ्रामयत्यखिलं विश्वमिति सत्यं न संशयः स एव बध्नाति पशूनस्मदादीन्महेश्वरः २३

स एव मोचको देवः पशूनां न इति श्रुतिः नामसंकीर्तनाद्यस्य भिद्यते पापपञ्जरम् २४

कथं न पूज्यते देवस्त्वया दक्ष सुदुर्मते शंभोरवज्ञा यत्राऽऽस्ते स्थातव्यं नैव सूरिभिः २५

इत्युक्त्वा प्रययौ ब्रह्मा स्तूयमानो महर्षिभिः २६

सूत उवाच –

गते चतुर्मुखे देवे सर्वलोकपितामहे दधीचिरब्रवीद्दक्षं मुनीनामग्रणीः स्वयम् २७

दधीचिरुवाच–कथं देवाधिदेवेशः कर्मसाक्षी सनातनः विश्वेश्वरो महादेवस्त्वया दक्ष न पूज्यते २८

वाचकः प्रणवो यस्य ज्ञानमूर्तेरुमापतेः अनुग्रहं विना तस्य कथं जानाति शूलिनम् २९

एक एवेति यो रुद्रः सर्वदेवेषु गीयते तस्य प्रसादलेशेन मुक्तिर्भवति किंकरी ३०

प्रसङ्गात्कौतुकाल्लोभाद्भयादज्ञानतोऽपि वा हर इत्युच्चरन्मर्त्यः सर्वपापैः प्रमुच्यते ३१

अहो दक्ष तवाज्ञानं तव नाशस्य कारणम् केनापि हेतुना जातमिति मे भाति निश्चितम् ३२

एवं दधीचेर्वचनं श्रुत्वा दक्षो विचक्षणः दधीचिमब्रवीद्विप्राः शक्रादीनां च संनिधौ ३३

दक्ष उवाच–नाहं नारायणाद्देवात्पश्याम्यन्यं द्विजोत्तम कारणं सर्ववस्तूनां नास्तीत्येव सुनिश्चितम् ३४

दधीचिरुवाच–उमया सह यो देवः सोम इत्युच्यते बुधैः स एव कारणं नान्यो विष्णोरपि हि वै श्रुतिः ३५

तस्माद्यः सर्वदेवानामधिकश्चन्द्रशेखरः इज्यते सर्वयज्ञेषु कथं दक्ष न पूज्यते ३६

यज्ञस्य पालको विष्णुरिति यन्निश्चितं त्वया भविष्यत्यन्यथैवाऽऽशु पश्यतः कमलापतेः ३७

एते च ब्राह्मणाः सर्वे ये द्विषन्ति महेश्वरम् भवन्तु वेदबाह्यास्ते तमोपहतचेतसः ३८

षाषण्डाचारनिरताः सर्वे निरयगामिनः कलौ युगे तु संप्राप्ते दरिद्राः शूद्रयाजकाः ३९

सर्वस्मादधिको रुद्रः पशुपाशविमोचकः पराङ्मुखस्तु युष्माकं मा भूदिज्याकरी गतिः ४०

इति शप्त्वा ययो विप्रौ दधीचिर्मुनिपुङ्गवः स्वाश्रमं मुनिभिर्जुष्टमॐकारं नर्मदातटे ४१

एतस्मिन्नन्तरे गौरी परव्योमात्मिका शिवा दक्षयज्ञस्य वृत्तान्तं श्रुत्वा देवऋषेर्मुखात् ४२

प्राह विश्वाधिकं रुद्रं प्रणतार्तिप्रभञ्जनम् निरीक्ष्यमाणं देवेशी परानन्दैकविग्रहम् ४३

श्रीदेव्युवाच–योऽयं प्राचेतसो दक्षः पिता मे पूर्वजन्मनि आवामवज्ञाय कथं यज्ञं कर्तु प्रचक्रमे ४४

देवाः सर्वे समाहूता विष्णुना सह शंकर आदित्या वसवो रुद्राः साध्याश्चैव मरुद्गणाः ४५

ऋषयो मुनयः सिद्धा दैतेया दानवाश्च ये राजानश्च महाभागा गन्धर्वाः किंनरास्तथा ४६

अवज्ञाकारिणस्तस्य यज्ञं शीघ्रं विनाशय तेन मे जायते प्रीतिरतुला भक्तवत्सल ४७

एवं देव्या वचः श्रुत्वा देवदेवः पिनाकधृत् असृजत्तत्क्षणाच्छंभुर्वीरभद्रं महाबलम् ४८

सहस्रसिंहवदनं प्रलयाग्निसमप्रभम् सहस्रबाहुं जटिलं दुष्टानां च भयंकरम् ४९

भक्तानां वरदं देवं सूर्यसोमाग्निलोचनम् उमाकोपोद्भवा देवी भद्रकाली भयंकरी ५०

अन्याश्च देव्यो रुद्राश्च शतशो रोमसंभवाः भद्रकाल्या सह तदा वीरभद्रो महाबलः ५१

प्रहितो देवदेवेन दक्षयज्ञजिघांसया गत्वा स यज्ञं दक्षस्य भस्मसादकरोद्द्विजाः ५२

दक्षस्तदद्भुतं कर्म दृष्ट्वाऽथ भयविह्वलः गतस्तच्छरणं शीघ्रं वीरभद्रस्य शूलिनः ५३

उवाच वीरभद्रस्तं दक्ष प्राचेतसं द्विजाः तस्य पापविमोक्षाय कारुण्यामृतवारिधिः ५४

वीरभद्र उवाच–गच्छ वाराणसीं दक्ष सर्वपापप्रणाशिनीम् अनुग्रहार्थ लोकानां यत्र तिष्ठति शंकरः ५५

अनुग्रहाद्भगवतो देवदेवस्य शूलिनः अनेनैव शरीरणे तत्र मोक्षं गमिष्यसि ५६

सूत उवाच –

वीरभद्रस्य वचनं श्रुत्वा दक्षो महामतिः गत्वा वाराणसीं शीघ्र सर्वसङ्गविवर्जितः ५७

प्रतिष्ठाप्प्र महालिङ्गं गङ्गातीरे मनोरमे आराध्य परया भक्त्या तस्मिल्ँलिङ्गे लयं गतः ५८

दक्षेश्वरस्य महात्म्यं कथितं मुनिपुङ्गवाः त्रिलोचनस्य माहात्म्यं सांप्रतं वर्ण्यते मया ५९

३०९

इति श्रीब्रह्मपुराणोपपुराणे श्रीसौरे सूतशौनकसंवादे दक्षेश्वरमाहात्म्यादिकथनं नाम सप्तमोऽध्यायः ७