०६ वाराणसीलिङ्गमहिमवर्णनम्

ऋषय ऊचुः– कानि दिव्यानि लिङ्गानि यानि द्रष्टुं ययौ मुनिः आचक्ष्व तानि नः सूत माहात्म्यं चापि कृत्स्नशः १

सूत उवाच – यदुक्तं भानुना पूर्वं मनवे मुनिसत्तमाः तदेव कथयिष्यामि शृणुध्वं गदतो मम २

आग्नेय्यामविमुक्तस्य वापी त्रैलोक्यविश्रुता यत्र संनिहितो देवो नित्यं विश्वेश्वरः शिवः ३

यत्र स्नानं द्विजश्रेष्ठा देवानामपि दुर्लभम् भक्त्या यैस्तज्जलं पतिं ते रुद्रा एव भूतले ४

तेषां लिङ्गानि जायन्ते हृदये त्रीणि सुव्रत दुर्लभं तज्जलं तस्मात्तिष्ठत्येव हि मुद्रितम् ५

तत्र सत्यवतीसूनुः स्नात्वा चैव यथाविधि अविमुक्तेश्वरं दृष्ट्वा लाङ्गलीशं ततो यथौ ६

तत्र ब्रह्मादयो देवाः सेवन्ते शूलपाणिनम् तस्य दर्शनमात्रेण ज्ञानं पाशुपतं भवेत् ७

जगाम स मुनिः पश्चाद्द्रष्टुं वै तारकेश्वरम् यत्रान्तकाले भगवाञ्ज्ञानं तत्संप्रयच्छति ८

यत्रैवानेन देवस्य स्थापितं लिङ्गमुत्तमम् यस्य दर्शनमात्रेण ब्रह्महत्यां व्यपोहति ९

तद्दृष्ट्वा परमं लिङ्गं व्यासः सत्यवतीसुतः ययौ शुक्रेश्वरं द्रष्टुं सर्वसिद्धिप्रदायकम् १०

आराध्य मुनिना यत्र शुक्रेणामिततेजसा प्राप्ता संजीवनी विद्या सुराणामपि दुर्लभा ११

देवस्य वह्निदिग्भागे कृपस्तिष्ठति शोभनः स्नानं तत्राश्वमेधस्य फलं यच्छति शोभनम् १२

तस्मिन्कूपे मुनिः स्नात्वा दृष्ट्वा शुक्रेश्वरं शिवम् ब्रह्मेश्वरं ययो द्रष्टुं तत्र ब्रह्मा विराट् स्वयम् १३

तपतप्त्वा महाधोरं प्रीतये पार्वतीपतेः ब्रह्मत्वं प्राप्तवान्ब्रह्मा योगं चान्ये महर्षयः १४

दर्शनात्तस्य लिङ्गस्य सर्वयज्ञफलं लभेत् पुनर्जगाम भगवानॐकारेश्वरमव्ययम् १५

स्मरणाद्यस्य लिङ्गस्य मुच्यते सर्वपातकैः यत्र साक्षाच्छिवः सूक्ष्मो नित्यं तिष्ठति वै द्विजाः १६

अनुग्रहाय लोकानां पशुपाशविमोचकः यत्र पाशुपताः सिद्धा ॐकारेश्वरमीश्वरम् १७

संपूज्य परमां सिद्धिं प्राप्तवन्तो द्विजोत्तमाः कृष्णपक्षे चतुर्दश्यां तस्मिलिङ्ग उपोषितः १८

यदि जागरणं कुर्यात्परां सिद्धिमवाप्नुयात् ततः सत्यवतीसूनुः कृत्तिवासेश्वरं ययौ १९

उपासते महादेवं यत्र ब्रह्मादयः सुराः मुनयः शंशितात्मानो रुद्रजाप्यपरायणाः २०

कृत्तिवासेश्वरे लिङ्गे लीलाश्च वहवो द्विजाः देवस्य पूर्वदिग्भागे हंसतीर्थं महत्सरः २१

स्नात्वा तत्र महादेवं कृत्तिवासेश्वरं शिवम् ये द्रक्ष्यन्ति महात्मानस्ते वै ब्रह्मादिवन्दिताः २२

सकृत्पश्यति यो भक्त्या कृत्तिवासेश्वरं विभुम् न पतत्येव संसारे रुद्र एव न संशयः २३

हंसतीर्थे नरः स्नात्वा कृत्तिवासेश्वरं विभुम् संपूज्य परया भक्त्यां कृतिवासेश्वरं शिवम् २४

न पतत्येव संसारे नात्रकार्या विचारणा ययौ रत्नेश्वरं द्रष्टुं मोक्षो यत्र प्रतिष्ठितः २५

दर्शनात्तस्य लिङ्गस्य फलं वक्तुं न शक्यते सर्वस्मादधिको योगो वेदविद्भिर्निषेव्यते २६

योऽयं पाशुपतो योगः पशुपाशविमोचकः वर्षैर्द्वादशभिः सम्यक्कृते पाशुपते द्विजाः २७

रत्नेश्वरे तदा ज्योतिर्दर्शनान्मनुजोत्तमः रत्नेश्वरं तु संपूज्य पाराशर्यो महामुनिः २८

द्रष्टुं देवाधिदेवेशं वृद्धकालेश्वरं ययौ तस्मिल्ँलिङ्गे महादेवः सदा तिष्ठति लीलया २९

अनुग्रहाय लोकानामुमया सह विश्वभुक् पृथिव्यां यानि लिङ्गानि सन्ति दिव्यानि वै द्विजाः ३०

वृद्धकालेश्वरे दृष्टे दृष्टान्येव न संशयः देवस्य पूर्वदिग्भागे कूपो मुनिनिषेवितः ३१

पूरितः पुण्यसलिलैर्देवदेवेन शंभुना यैः पतिं तस्य सलिलं प्राकृतैश्चुलुकत्रयम् ३२

प्रकृतिर्मुच्यते तेभ्यो मुक्तात्मानो भवन्ति ते तत्र द्वेपायनो विप्राः स्नानं कृत्वा समाहितः ३३

वृद्धकालेश्वरं लिङ्ग संपूज्य च ततो ययौ मन्दाकिनीतले रम्ये मुनिसिद्धनिषेविते ३४

मध्यमेश्वरनामानं मोक्षलिङ्गमनुत्तमम् यत्र ब्रह्मादयो देवा मुनयः सनकादयः ३५

उपासते परं लिङ्गं शिवदर्शनकाङ्क्षिणः मन्दाकिन्यां मुनिः स्नात्वा दृष्ट्वा वै मध्यमेश्वरम् ३६

घण्टाकर्णह्रदे स्नात्वा लिङ्गं तद्विमलं शिवम् प्रतिष्ठाप्य मुनिश्रेष्ठो लब्धवाञ्ज्ञानमुत्तमम् ३७

घण्टाकर्णह्रदे तत्र दृष्ट्वा व्यासेश्वरं शिवम् यत्र यत्र मृतो वाऽपि वाराणस्यां मृतो भवेत् ३८

ततः सत्यवतीसूनुः कपर्दीश्वरमीश्वरम् द्रष्टुं जगाम विप्रेन्दा लिङ्गं तत्पारमेश्वरम् ३९

पिशाच्चमोचनं नाम तत्र तीर्थमनुत्तमम् रुद्रलोकस्य सोपानमिति प्राह महामुनिः ४०

ये द्रक्ष्यन्ति कपर्दीशं कृतार्थास्ते न संशयः मानुषीं तनुमाश्रित्य रुद्रा एव न संशयः ४१

तस्मिंस्तीर्थे मुनिः स्नात्वा संतर्प्य च सुरान्पितॄन् कपर्दीश्वरमीशानं संपूज्य प्रययौ मुनिः ४२

२५०

इति श्रीब्रह्मपुराणोपपुराणे श्रीसौरे सूतशौनकसंवादे वाराणसीलिङ्गमहिमवर्णनं नाम षष्ठोऽध्यायः ६