०४ वाराणसीमहिमकलियुगवर्णनम्

मनुरुवाच–राज्ञः सकाशात्स मुनिर्गत्वा किं कृतवान्पुनः तस्याऽऽश्रमस्य किं नाम भगवन्ब्रूहि ये प्रभो १

भानुरुवाच – रेवातीरे महत्पुण्यं जालेश्वरमिति स्मृतम् आश्रमं तृणविन्दोस्तु मुनिसिद्धनिषेवितम् २

गत्वा तत्र मुनिश्रेष्ठो भवभावसमन्वितः शिवलिङ्गं प्रतिष्ठाप्य तीर्थयात्रां चकार स ३

मनुरुवाच – कानि तीर्थानि गुह्यानि येषु संनिहितः शिवः ब्रूहि मे तानि भगवन्नन्यान्यपि च तत्त्वतः ४

भानुरुवाच–तीर्थानामुत्तमं तीर्थं क्षेत्राणां क्षेत्रमुत्तमम् वासणसीतिनगरी प्रिया देवस्य शूलिनः ५

यत्र विश्वेश्वरो देवः सर्वेषामिह देहिनाम् ददाति तारकं ज्ञानं संसारान्मोचकं परम् ६

गङ्गा ब्रह्ममयी यत्र मूर्तिश्चोत्तरवाहिनी संहर्त्री सर्वपापानां दृष्टा स्पृष्टा नमस्कृता ७

नास्ति गङ्गासमं तीर्थं वाराणस्यां विशेषतः तत्रापि मणिकर्ण्याख्यं तीर्थं विश्वेश्वरप्रियम् ८

तस्मिंस्तीर्थे नरः स्नात्वा पातकी वाऽप्यपातकी दृष्ट्वा विश्वेश्वरं देवं मुक्ति भाग्जायते नरः ९

विश्वेश्वरस्य माहात्म्यं यदुक्तं ब्रह्मसूनुना तदहं संप्रवक्ष्यामि व्यासायामिततेजसे १०

घोरं कलियुगं प्राप्य कृष्णद्वैपायनः प्रभुः किं तच्छ्रेयस्करमिति हृदि कृत्वा जगाम सः ११

नन्दीश्वरस्य यः शिष्यो योगिनामग्रणीः स्वयम् सनत्कुमारो भगवान्यत्राऽऽस्ते हिमवद्गिरौ १२

नानादेवगणाकीर्णे यक्षगन्धर्वसेविते सिद्धचारणाकूष्माण्डैरप्सरोभिश्च संकुले १३

गङ्गा मन्दाकिनी यत्र राजते दुःखहारिणी शोभिता हेमकमलैः पुष्पैरन्यैर्मनोहरैः १४

तस्याऽऽश्रममनुप्राप्य पाराशर्यो महामुनिः अभिवाद्य यथान्यायं तस्याग्र उपविश्य च १५

कृताञ्जलिपुटो भूत्वा वाक्यमेतदुवाच ह १६

व्यास उवाच –

प्राप्तं कलियुगं घोरं पुण्यमार्गबहिष्कृतम् पाखण्डाचारनिरतं म्लेच्छान्ध्रजनसंकुलम् १७

अधार्मिका क्रूरसत्त्वा ह्यनाचाराल्पमेधसः तस्मिन्युगे भविष्यन्ति ब्राह्मणाः शूद्रयाजकाः १८

स्नानं देवार्चनं दानं होमं च पितृतर्पणम् स्वाध्यायं न करिष्यन्ति ब्राह्मणा हि कलौ युगे १९

न पठन्ति तथा वेदाञ्श्रेयसे ब्राह्मणाधमाः प्रतिग्रहार्थं वेदांश्च पठिष्यन्ति कलौ युगे २०

पुरुषोत्तममाश्रित्य शिवनिन्दारता द्विजाः कलौ युगे भविष्यन्ति तेषां त्राता न माधवः २१

स्वां स्वां वृत्तिं परित्यज्य परवृत्त्युपजीवकाः ब्राह्मणाद्या भविष्यन्ति संप्राप्ते तु कलौ युगे २२

एतान्पापरतान्दृष्ट्वा राजानश्चाविचारकाः भविष्यन्ति कलौ प्राप्ते वृथा जात्यभिमानिनः २३

उच्चासनगताः शूद्रा दृष्ट्वा च ब्राह्मणांस्तदा न चलन्त्यल्पमतयः संप्राप्ते तु कलौ युगे २४

काषायिणश्च निर्ग्रन्था नग्नाः कापालिकास्तथा बौद्धा वैशेषिका जैना भविष्यन्ति कलौ युगे २५

तपोयज्ञफलानां तु विक्रेतारो द्विजाधमाः यतयश्च भविष्यन्ति शतशोऽथ सहस्रशः २६

विनिन्दन्ति महादेवं संसारान्मोचकं परम् तद्भक्तांश्च महात्मनो ब्राह्मणांश्च कलौ युगे २७

ताडयन्ति दुरात्मानो ब्राह्मणान्राजसेवकाः न निवारयते राजा तान्दृष्ट्वाऽपि कलौ युगे २८

एवं घोरे कलियुगे किं तच्छ्रेयस्करं द्विज ब्रूहि तद्भगवन्मह्यं संसारान्मोचकं परम् २९

१८०

इति श्रीब्रह्मपुराणोपपुराणे श्रीसौरे भानुमनुसंवादे वाराणसीमहिमकलियुगवर्णनं नाम चतुर्थोऽध्यायः ४