०३ सुद्युम्नाख्यानम्

भानुरुवाच–यदेतदैश्वरं तेजः सर्वगं भाति केवलम् तदेव शरणं गच्छ यदीच्छसि परं पदम् १

तदेव सर्वभूतस्थं चिन्मात्रं तमसः परम् अक्षरं निर्गुणं शुद्धमानन्दं परमव्ययम् २

प्रत्यक्षं सर्वभूतानामज्ञानां तद्विपर्ययः विश्वमायाविधातारं द्विरष्टादशरूपिणम् ३

भक्तिग्राह्यं महादेवं जानीह्यात्मनि संस्थितम् आत्मभूते महादेवं योगिध्येये सनातने ४

भक्तिमास्थाय परमां परं निर्वाणमाप्नुहि तीर्थयात्रा बहुविधा यज्ञाश्च विविधाः कृताः ५

येषां जन्मसहस्रेषु तेषां भक्तिर्भवेच्छिवे अक्षयः परमो धर्मो भक्तिलेशेन जायते ६

नास्ति तस्मात्परो धर्म इत्याहुर्वेदवादिनः धर्मो बहुविधः प्रोक्तो मुनिभिस्तत्त्वदर्शिभिः ७

तत्राक्षयः परो धर्मः शिवधर्मः सनातनः यज्ञात्तीर्थाज्जपाद्दानाद्धर्मः स्याद्बहुसाधनः ८

साधनप्रार्थनाक्लेशः परसंपत्तिदुःखदः यः पुनः शिवधर्मस्तु न साधनमपेक्षते ९

संचितं जन्मसाहस्रैः पापं मेरूपमं यदि करोति भस्मसाच्छक्तिः शंभोरमिततेजसः १०

कुर्वन्नपि सदा पापं सकृदेवार्चयेच्छिवम् लिप्यते न स पापेन याति माहेश्वरं पदम् ११

ये स्मरन्ति महादेवं यदि पापरता अपि ते विज्ञेया महात्मान इति सत्यं ब्रवीम्यहम् १२

नामानि च महेशस्य गृणन्त्यज्ञानतोऽपि वा तेषामपि शिवो मुक्तिं ददाति किमतः परम् १३

अत्राहं संप्रवक्ष्यामि कथां पापप्रणाशनीम् पाद्मकल्पसमुद्भूतां ब्रह्मणा समुदीरिताम् १४

श्रद्धया परया राजञ्शृणु त्वं गदतो मम वक्ष्येऽहं तं प्रणम्याऽऽदावीशं भुवननायकम् १५

आसीदाद्ये कृतयुगे सप्तद्वीपैकराड्बली इन्द्रद्युम्न इति ख्यातो राजा परमधार्मिकः १६

तस्य पुत्रो महाभागः सुद्युम्न इति विश्रुतः ऐश्वर्यैरखिलैर्भाति यथा दिवि शचीपतिः १७

प्रतिष्ठानपुरे रम्ये गङ्गातीरे मनोरमे तत्र स्थित्वाऽखिलां पृथ्वीं तस्मिन्राजनि शासति १८

कदाचित्तत्र भगवांस्तृणबिन्दुर्महामुनिः आजगाम स तं द्रष्टुं सुद्युम्नं प्रियदर्शनम् १९

तमायान्तं मुनिं दृष्ट्वा राजा रुद्रार्चने रतः उद्वास्यार्चां महाबाहुरुथाय च कृताञ्जलिः २०

यथावदभिवाद्याथ ददावासनमुत्तमम् यथावन्मधुपर्कादि तस्मै सर्वं न्यवेदयत् २१

अद्य धन्यः कृतार्थोऽस्मि सफलं जीवितं मम भगवानागतो यस्मान्मां द्रष्टुं मुनिसत्तम २२

किमर्थमागतो ब्रह्मन्कृतकृत्योऽस्मि सुव्रत विशेषाच्छंकरे भक्तो न दुर्लभमिहास्ति ते २३

भानुरुवाच–सुद्युम्नस्य वचः श्रुत्वा मुनिराह महामनाः शिवभक्त्यमृतास्वादपरानन्दैकनिर्भरः २४

तृणबिन्दुरुवाच–राजन्यदुक्तं भवता तत्तथैव न संशयः तथाऽपि चरितं श्रुत्वा तवाहं विस्मयान्वितः २५

प्रष्टुं समागतो राजञ्जन्मनस्तव गौरवम् कथयस्व महाबाहो श्रोतुं कौतूहलं हि मे २६

सुद्युम्न उवाच–जन्मन्यहमतीतेऽस्मिन्व्याधोऽहं गोमतीतटे देवतानामहं द्वेष्टा सर्वेषां प्राणिनामपि २७

सव्याडिरितिनामाऽहं ख्यातोऽहं व्याधराड्मुने न कश्चिद्धर्मलेशोऽस्ति पापकर्मस्वहं रतः २८

मया ये निहता मार्गे तेषां संख्या न विद्यते परस्वं यदपहृतं तत्पापं पर्वतोपमम् २९

एवं बहुतिथे काले गतेऽहं पञ्चतां गतः धर्मराजस्य पुरतो नीतोऽहं यमकिंकरैः ३०

मां दृष्ट्वाऽथाब्रवीद्धर्मश्चित्रगुप्तं विचारकम् किमनेन कृतो धर्मलेशोऽस्ति वद सुव्रत ३१

चित्रगुप्त उवाच–अनेन यत्कृतं पुण्यं गया वक्तुं न शक्यते जानाति भगवानेको विश्वव्यापि महेश्वरः ३२

इदं पुण्यमिति ज्ञात्वा कृतं नानेन यद्यपि आहर प्रहरेत्यादि नामसंकीर्तनं च यत् ३३

करोति तेन पुण्येन दुष्कृतं भस्मसात्कृतम् पापलेशोऽपि नास्यास्ति इति मे निश्चिता मतिः ३४

सुद्युम्न उवाच–तस्य तद्वचनं श्रुत्वा चित्रगुप्तस्य धीमतः सुव्याडिं पूजयामास यथावद्विधिपूर्वकम् ३५

एतस्मिन्नन्तरे तत्र विमानं सार्वकामिकम् सूर्यायुतप्रतीकाशं दिव्यस्त्रीभिर्विराजितम् ३६

देवदूतैः समानीतमारुह्य मुनिपुंगव धर्मराजमनुज्ञाप्य गतोऽहममरावतीम् ३७

तत्र भुक्त्वा महाभोगान्युगानामयुतं ततः गतोऽस्मि ब्रह्मसदनं ब्रह्मणाऽहं प्रपूजितः ३८

तत्राहं कल्पपर्यन्तं भोगान्भुक्त्वा यथेप्सितान् ततस्तु कर्मणः शेषं भोक्तुमत्र महीतले ३९

इन्द्रद्युम्नस्य राजर्षेः कुले जातोऽस्मि सुव्रत स्मरामि पूर्विकां जातिं प्रसादाच्छूलिनो मुने ४०

ईश्वरे सहसा भक्तिर्मम त्रिदशपूजिते जानाति को महेशस्य माहात्म्यं परमात्मनः ४१

यस्य नाम्नः फलमिदमज्ञानोञ्चारणादपि ज्ञात्वा यः कीर्तयेच्छंभोर्नामान्यमिततेजसः ४२

मुक्तिः करतले तस्य स्थितेति मुनयो जगुः भानुरुवाच – इति सर्वमशेषेण चरितं तस्य धीमतः सुद्युम्नस्य मुनिः श्रुत्या विस्मितोऽभूत्पुनः पुनः ४३

समालिङ्ग्य महात्मानं सुद्युम्नं राजपुंगवम् राजन्स्वमाश्रमपदं यामीत्युक्त्वा जगाम सः ४४

एतत्ते चरितं राजन्सुद्युम्नस्य महात्मनः कथितं यः पठेद्भक्त्या ब्रह्मलोकं स गच्छति ४५

१४१

इति श्रीब्रह्मपुराणोपपुराणे श्रीसौरे भानुमनुसंवादे सुद्युम्नाख्यानं नाम तृतीयोऽध्यायः ३