भानुरुवाच–शृणु पुत्र प्रवक्ष्यामि तत्त्वं यत्र प्रतिष्ठितम्
स्मन्महाभाग सर्ववेदार्थसंग्रहे १
तत्तत्त्वं यद्भगवतो रूपमीशस्य शूलिनः
विश्वं तेनाखिलं व्याप्तं नान्येनेत्यब्रवीच्छ्रुतिः २
स एवात्मा समस्तानां भूतानां मनुजाधिप चैतन्यरूपो भगवान्महादेवः सहोमया ३
एकोऽपि बहुधा भाति लीलया केवलः शिवः
ब्रह्मविष्ण्वादिरूपेण देवदेवो महेश्वरः ४
पृष्टो ब्रह्मादिभिर्देवैः कस्त्वं देवेति शंकरः अब्रवीदहमेवैको नान्यः कश्चिदिति श्रुतिः ५
आत्माभूतान्महादेवाल्लीलाविग्रहरूपिणः आदिसर्गे समुद्भूतौ ब्रह्मविष्णू सुरोत्तमौ ६
तमेकं परमात्मानमादिकर्तारमीश्वरम् प्राहुर्बहुविधं तज्ज्ञा इन्द्रं मित्रमिति श्रुतिः ७
न तस्मादधिकः कश्चिन्नाणीयानपि कश्चन तेनेदमखिलं पूर्णं शंकरेण महात्मना ८
मुमुक्षुभिः सदा ध्येयः शिव एको निरञ्जनः सर्वमन्यत्परित्यज्य मुक्त एव विमुच्यते ९
न तस्य कर्मकार्यं वा बन्धमुक्ती महेशितुः आनन्दरूपया गौर्या क्रीडति स्म महेश्वरः १०
अक्षरं परमं व्योम शैवं ज्योतिरनामयम् यस्तन्न वेद किं वेदैर्ब्राह्मणस्य भविष्यति ११
नान्यो वेद्यः स्वयंज्योती रुद्ध एको निरञ्जनः तस्मिञ्ज्ञातेऽखिलं ज्ञातमित्याहुर्वेदवादिनः १२
अहं ब्रह्मा च विष्णुश्च शक्रश्चान्ये दिवौकसः अद्याप्युपायैर्विविधैः शंभोर्दर्शनकाङ्क्षिणः १३
न दानैर्न तपोभिर्वा नाश्वमेधादिभिर्मखैः
भक्त्यैवानन्यया राजञ्ज्ञायते भगवाञ्शिवः १४
यतो वाचो निवर्तन्ते अमाप्य मनसा सह भर्गाद्विश्वस्य भरणाद्विश्वयोनेरुमापतेः १५
तस्य ज्ञानमयी शक्तिरव्यया गिरिजा शिवा तया सह महादेवः सृजत्यवति हन्ति च १६
आचक्षते तयोर्भेदमज्ञा न परमार्थतः अभेदः शिवयोः सिद्धो वह्निदाहकयोरिव १७
माया सा परमा शक्तिरक्षरा गिरिजाऽव्यया मायाविश्वात्मको रुद्रस्तज्ज्ञात्वा ह्यमृता भवेत् १८
स्वात्मन्यवस्थितं देवं विश्वब्यापिनमीश्वरम् भक्त्या परमया राजञ्ज्ञात्वा पाशैर्विमुच्यते १९
सकलं तस्य भासैव भाति नान्येन शंकरः तस्मिन्प्रकाशमाने हि नैव भान्त्यनलादयः २०
तस्मिन्महेश्वरे गूढे विद्याविद्ये क्षराक्षरे विधातरि जगन्नाथे विश्वं भाति न वस्तुतः २१
तस्मिन्गहेश्वरे विश्वमोतं प्रोतं न संशयः तस्मिञ्ज्ञातेऽखिलैः पाशैर्मुच्यते मनुजेश्वरः २२
ब्रह्मविष्ण्वादयो देवा मुनयो मनवस्तथा सर्वे क्रीडनकास्तस्य देवदेवस्य शूलिनः २३
स एवैको न चानेको न द्विरूपः कदाचन तस्याऽऽज्ञयाखिलं विश्वं वर्तते तन्नियन्त्रितम् २४
आदिसर्गे महादेवो ब्रह्माणमसुजत्प्रभुः दक्षिणाङ्गाद्विरूपाक्षः सृष्ट्यर्थं लीलया किल २५
तस्मै वेदान्पुराणानि दत्तवानग्रजन्मने वासुदेवं जगद्योनिं सत्त्वोद्रिक्तं सनातनम् २६
असृजत्पालनार्थं च वामभागान्महेश्वरः हृदयात्कालरुद्राख्यं जगत्संहारकारकम् २७
असृजद्योगिनां ध्येयो निर्गुणस्य स्वयं शिवः
विश्वं तस्माद्धि संभूतं तस्मिंस्तिष्ठति शंकरे २८
लयमेष्यति तत्रैव त्रयमेतत्स्वलीलया स एवाऽऽत्मा महादेवः सर्वेषामेव देहिनाम् २९
ज्ञानेन भक्तियुक्तेन ज्ञातव्यः परमेश्वरः न पश्यामि महादेवादधिकं देवतान्तरम् ३०
वेदा अपि तमेवार्थमाहुः स्वायंभुवेऽन्तरे वेदा ऊचुः – यं प्रपश्यन्ति विद्वांसो योगिनः क्षपिताशयाः नियभ्य करणग्रामं स एवात्मा महेश्वरः ३१
ब्रह्मविष्ण्वैन्द्रचन्द्राद्या यस्य देवस्य किंकराः यस्य प्रसादाज्जीवन्ति स देवः पार्वतीपतिः ३२
न जानन्ति परं भावं यस्य ब्रह्मादयः सुराः अद्यापि न वयं विद्मः स देवस्त्रिपुरान्तकः ३३
शृण्वन्तु देवताः सर्वाः सत्यमस्मद्वचः परम् नास्ति रुद्रान्महादेवादधिकं दैवतं परम् ३४
न यथा कूर्मरोमाणि शृङ्गं न शशमस्तके न यथाऽस्ति वियत्पुष्पं तथा नास्ति हरात्परम् ३५
शिवभक्तिमृते यस्तु सुखमाप्तुमिहेच्छति अजागलस्तनादेव स दुग्धं पातुमिच्छति ३६
महादेवं विजानीयादहमस्मीति पण्डितः अन्यत्किमस्मादप्यस्ति ज्ञातव्यं मुक्तिहेतवे ३७
ब्राह्मीं नारायणीं रौद्रीं पूजयित्वा महेश्वरीम् यत्प्रपश्यन्ति योगीन्द्रास्तद्विद्याच्छांकरं पदम् ३८
क्रमाच्चक्राणि चंक्रम्य शङ्खिन्यामुपरि स्थितम् यदभिव्यज्यते ज्योतिस्तद्विद्याच्छांकरं पदम् ३९
देवयानपथं हित्वा पितृयाणं तथोत्तरम् गगनाद्यो रवः सूक्ष्मः शंकरस्य स वाचकः ४०
विश्वतश्चक्षुरीशानस्त्रिशूली विश्वतोमुखः जनकः सर्वभूतानामेक एव महेश्वरः ४१
वालाग्रमात्रं हृत्पद्मे स्थितं देवमुमापतिम् येऽनुपश्यन्तिं विद्वांसस्तेषां शान्तिर्हि शाश्वती ४२
पृथिव्यां तिष्ठति विभुः पृथिवी वेत्ति नैव तम् रूपं च पृथिवी यस्य तस्मै भूम्यात्मने नमः ४३
अप्सु तिष्ठति नैवाऽऽपस्तं विदुः परमेश्वरम् आपो रूपं च यस्यैव नमस्तस्मै जलात्मने ४४
योऽग्नौ तिष्ठत्यमेयात्मा न तं वेत्ति कदाचन अग्नी रूपं भवेद्यस्य तस्मै वह्न्यात्मने नमः ४५
तिष्ठत्यजस्रं यो वायौ न वायुर्वेत्ति तं परम् वायुर्यस्य भवेद्रूपं तस्मै वाय्वात्मने नमः ४६
व्योम्नि तिष्टति यो नित्यं व्योम वेत्ति न तं हरम् व्योम यस्य भवेद्रूपं तस्मै व्योमात्मने नमः ४७
सूर्ये तिष्टति यो देवो न सूर्यो वेत्ति शंकरम् यस्य सूर्यो भवेद्रूपं तस्मै सूर्यात्मने नमः ४८
यश्चन्द्रे तिष्ठति विभुश्चन्द्रो वेत्ति न शाश्वतम् चन्द्रो यस्य भवेद्रूपं तस्मै चन्द्रात्मने नमः ४९
यजमाने तिष्ठति यो न तं वेत्ति कदाचन यजमानोऽपि यद्रूपं यजमानात्मने नमः ५०
त्वत्तो वयं समुद्भूतास्त्वय्येव विलयस्तथा प्रमाणपदमारूढास्त्वत्प्रसादात् वृषध्वज ५१
भानुरुवाच–एवं वेदस्तुतिं श्रुत्वा भगवान्गिरिजापतिः प्रयक्षः समभूत्तेषां वेदानां मनुजाधिप ५२
सूर्यकोटिप्रतीकाशः सहस्राक्षः सहस्रपात् सहस्रशीर्षा पुरुषः सूर्यसोमाग्निलोचनः ५३
स्थूलात्स्थूलतरः स्थूलः सूक्ष्मात्सूक्ष्मतरः परः वेदानुवाच भगवान्देवदेवो महेश्वरः ५४
ईश्वर उवाच–मत्मसादाद्भविष्यध्वं हे वेदा लोकपूजिताः युष्मानाश्रित्य विप्रेन्द्राः कर्म कुर्वन्ति नान्यथा ५५
ये युष्मान्समतिक्रम्य यत्किंचित्कर्म कुर्वते निष्फलं तद्भवेत्कर्म तेषां युष्मदयंज्ञया ५६
नित्यं नैमित्तिकं यच्चान्यन्मोक्षसाधनम् युष्मद्वचो नान्यदिति मत्वा धीरो न शोचति ५७
ये वै युष्माननादृत्य शास्त्रं कुर्वन्ति मानवाः निरये ते विपच्यन्ते यावदिन्द्राश्चतुर्दश ५८
श्रेयसे त्रिषु लोकेषु न वेदादधिकं परम् विद्यते नात्र संदेह इति दत्तो वरो मया ५९
युष्मत्कृतं परं स्तोत्रं ये पठिष्यन्ति वै द्विजाः तेषामध्ययनं पुण्यं मत्प्रसादाद्भविष्यति ६०
भानुरुवाच–एवं दत्त्वा वरान्देवो वेदेभ्यो गिरिजापतिः पश्यतामेव वेदानां क्षणादन्तर्हितोऽभवत् ६१
१०६
इति श्रीब्रह्मपुराणोपपुराणे श्रीसौरे सूतशौनकसंवादे शिवमहिमवर्णनं नाम द्वितीयोऽध्यायः २