यस्याज्ञया जगत्स्रष्टा विरञ्चिः पालको हरिः
संहर्ता कालरुद्रख्यो नमस्तस्मै पिनाकिने १
तीर्थानामुत्तमं तीर्थं क्षेत्राणां क्षेत्रमुत्तमम्
मुनीनामाश्रयो नित्यं नैमिष्यारण्यमुत्तमम् २
शौनकाद्या महात्मानः शिवभक्ता महौजसः दीर्घसत्रं प्रकुर्वन्तस्तत्रेशानस्य तुष्टये ३
तस्मिन्तत्रे महाभागो मुनीनां भाग्यगौरवात्
आजगाम मुनीन्द्रष्टुं सूतः पौराणिकोत्तमः ४
तं दृष्ट्वा ते महात्मानो नैमिषारण्यवासिनः प्रहृष्टाः प्रष्टुमुद्युक्ताः पप्रच्छू रोमहर्षणम् ५
ऋषय ऊचुः – कथं भगवता पूर्वमादित्येनात्मरूपिणा पुराणं कथितं सौरं तन्नो वक्तुमिहार्हसि ६
कृष्णद्वैपायनात्साक्षात्पूर्वं हि विदितं त्वया त्वत्तो नास्ति परो वक्ता पुराणानां महातपः ७
सन्त्यन्ये बहवः शिष्मा अपि तस्य महात्मनः तथापि शिष्यवात्सल्यात्त्वं पुराणेषु योजितः ८
यान्यन्यानि पुराणानि त्वयोक्तानि महामुने अलं तैः पार्वतीकान्तभक्तौ भक्तियुतं त्विदम् ९
न यज्ञैर्न तपोभिर्वा न दानैर्न व्रतैस्तथा शिवभक्तिमृते यस्मान्मुक्तिर्नास्तीति शुश्रुम १०
देवोऽयं भगवान्भानुरन्तर्यामी सनातनः
यो ब्रूते सर्ववस्तूनां तत्त्वं ज्ञात्वैव नान्यथा ११
अतः श्रद्धा हि महती श्रोतुं त्वद्वदनामृतम्
अस्माकं वर्तते सूत रोमहर्षण सुव्रत १२
सूत उवाच –
नत्वा सूर्यं परं धाम ऋग्यजुः सामरूपिणम् त्रिसत्यं त्रिजगद्योनिं त्रिमार्गं च त्रितत्त्वगम् १३
पुराणं संप्रवक्ष्यामि सौरं शिवकथाश्रयम् यच्छ्रुत्वा मनुजः शीघ्रं पापकञ्चुकमुत्सृजेत् १४
श्लोकद्वयं पठेद्यस्तु श्लोकमेकमथापि वा श्रद्धावान्पापकर्मापि स गच्छेत्सवितुः पदम् १५
पौराणीं वृत्तिमाश्रित्य ये जीवन्ति द्विजातयः
तन्मण्डलं विनिर्भिद्य तत्सायुज्यं व्रजन्ति ते १६
वक्ता यत्र रविः साक्षाच्छ्रोता तस्य सुतो मनुः
माहात्म्यं कथ्यते शंभोर्नास्त्यस्मादधिकं द्विजाः १७
इदं पुराणं वक्तव्यं धार्मिकायानसूयवे
द्विजाय श्रद्दधानाय शिवैकार्पितबुद्धये १८
आसीन्मनुः सूर्यसुतो वर्तते यो महातपाः स कदाचिन्महाभागः कामिकाख्यं वनं ययौ १९
प्रतर्दनस्य नृपतेर्यज्ञे विपुलदक्षिणे
तत्त्वं विचारयामासुर्मिथो यत्र महर्षयः २०
अशक्तास्ते महाभागा भृग्वाद्यास्तत्त्वनिर्णये एवं स्थितेषु विप्रेषु मायया मोहितात्मसु २१
संशयाविष्टचित्तेषु वागभूदशरीरिणी तपः कुरुध्वं विप्रेन्द्रास्तपोऽज्ञाननिबर्हणम् २२
तपसा प्राप्यते सर्वमिति ते शुश्रुवर्गिरम्
श्रुत्वा तु मुनयः सर्वे भृग्वाद्या दग्धकिल्बिषाः २३
मनुं पुरस्कृत्य ययुः क्षेत्रं वै द्वादशात्मनः विश्रूतं द्वादशादित्यमिति लोकेषु तद्द्विजाः २४
यत्र संनिहितो नित्यं भानुस्त्रिदशपूजितः
तेपुस्तत्र तपो घोरं तत्त्वदर्शनकाङ्क्षिणः २५
गते वर्षसहस्रे तु सूर्यः प्रत्यक्षतामगात् किमर्थं तप्यते वत्स सर्वश्चैतैहर्षिभिः २६
तुष्टोऽहं तव दास्यामि यत्ते मनसि वर्तते एते च मुनयः सर्वे तपसा दग्धकिल्विषाः २७
पश्यन्तु मां परं देवं विश्वान्तर्यामिणं विभुम् २८
सूत उवाच –
इति दृष्ट्वा रविं साक्षाप्रत्यक्षं पुरतः स्थितम् मेने कृतार्थमात्मानं मनुर्वैवस्वतस्तदा २९
आत्मन्यात्मानमाधाय सर्वभावेन संयमी स्तुतिं चकार स मनुर्मुनिभिः सह सुव्रतः ३०
मनुरुवाच – नमो नमो वरेण्याय वरदायांशुमालिने ज्योतिर्मय नमस्तुभ्यमनन्तायाजिताय ते ३१
त्रिलोकचक्षुषे तुभ्यं त्रिगुणायामृताय च नमो धर्माय हंसाय जगज्जननहेतवे ३२
नरनारीशररीराय नमो मीढुष्टमाय ते
प्रज्ञानायाखिलेशाय सप्ताश्वाय त्रिमूर्तये ३३
नमो व्याहृतिरूपाय त्रिलक्षायाऽऽशुगामिने
हर्यश्वाय नमस्तुभ्यं नमो हरितबाहवे ३४
एकलक्षविलक्षाय बहुलक्षाय दण्डिने एकसंस्थद्विसंस्थाय बहुसंस्थाय ते नमः ३५
शक्तित्रयाय शुक्लाय रवये परमेष्ठिने त्वं शिवस्त्वं हरिर्देव त्वं ब्रह्मा त्वं दिवस्पतिः ३६
त्वमॐकारो वषट्कारः स्वधा स्वाहा त्वमेव हि त्वामृते परमात्मानं न तत्पश्यामि दैवतम् ३७
एवं स्तुत्वा मनुः प्राह भगवन्तं त्रयीमयम् मुनिभिः सह धर्मात्मा सम्यग्दर्शनकाङ्क्षिभिः ३८
मनुरुवाच – किं तच्छ्रेयस्करं तत्त्वं वेदान्तेषु प्रतिष्ठितम् कस्माद्विश्वमिदं जातं कस्मिन्वा लयमेष्यति ३९
कस्य ब्रह्मादयो देवा वशे तिष्ठन्ति सर्वदा
तदेकमथवाऽनेकमुभयं वा वद प्रभो ४०
केन वा ज्ञायते सम्यगयमश्व इतीतिवत्
ज्ञाते तस्मिंस्तु किं रूपं तस्य ज्ञानं किमात्मकम् ४१
चरितं तस्य किं तात किं तीर्थं तदधिष्ठितम् केषामनुग्रहस्तस्य तीर्थे निवसतां प्रभो ४२
लक्षणं च पुराणानां व्रतानां च क्रमो यथा
वर्णानामाश्रमाणां च वर्णाचारविधिः कथम् ४३
श्राद्धं कथं वा क्रियते प्रायश्चित्तविधिः कथम् एतत्सर्वं हि भगवन्पृष्टं वक्तुमिहार्हसि ४४
एवं मनोर्वचः श्रुत्वा भगवान्भास्करो द्विजाः
यत्पृष्टं तदशेषेण वक्तुं समुपचक्रमे ४५
इति श्रीब्रह्मपुराणोपपुराणे श्रीसौरे सूतशौनकसंवादे नैमिषारण्यप्रशंसादिकथनं नाम प्रथमोऽध्यायः १