सूतसंहिता

[[सूतसंहिता Source: EB]]

[

SriBalamanorama Series No. 19.

॥ श्रीः ॥

SŪTASAṀHITĀ

W I T H

TĀTPARYA DĪPIKĀ

॥ श्रीमत्सूत्संहिता ॥

तात्पर्यदीपिकासहिता

<MISSING_FIG href="../books_images/U-IMG-17046953408जानुयारी-removebg-preview.png"/>

Chowkhamba Sanskrit series

चौखांम्वा संस्कृत सीरिज, ब

नारस-१

P.O. Box 8, Banaras-1

PRINTED AND PUBLISHED BY

THE SRI BALAMANORAMA PRESS,

MYLAPORE, MADRAS.

All Rights Reserved.

1945

॥ श्रीः॥

सूतसंहितायाःविषयानुक्रमणिका

अध्यायः

१. शिवमाहात्म्यखण्डम्‌ (१-१४०)

विषयः
१. ग्रन्थावतारः
२. पाशुपतव्रतं
३. नन्दीश्वरविष्णुसंवादेन ईश्वरप्रतिपादनं
४. ईश्वरपूजाविधानं देवपूजाफलं च
५ शक्तिपूजाविधानं
६. शिवभक्तपूजाविधिः
७. मुक्तिसाधनकथनं
८. कालपरिमाणतदनवच्छिन्नस्वरूपकथनं
९. पृथिव्युद्धरणं
१०. ब्रह्मणा सृष्टिकथनं
११. हिरण्यगर्भादिविशेषसृष्टिकथनं
१२. जातिनिर्णयकथनं
१३. तीर्थमाहात्म्यकथनं

२. ज्ञानयोगखण्डम्‌ (१४१-२५२)

१, ज्ञानयोगसंप्रदायपरम्पराकथनं
२. आत्मना सृष्टिकथनं
३. ब्रह्मचर्याश्रमविधिनिरूपणं
४. गृहस्थाश्रमविधिनिरूपणं
५. वानप्रस्थाश्रमविधिनिरूपणं
६. संन्यासविधिनिरूपणं
विषयः
७. प्रायश्चित्तविधिनिरुपणं
८. दानधर्मफलकथनं
९. पापकर्मफलनिरुपणं
१०. पिण्डोत्पत्तिकथनं
११. नाडीचक्रनिरूपणं
१२. नाडीशुद्धिनिरूपणं
१३. अष्टाङ्गयोगे यमविधिः
१४. अष्टाङ्गयोगे नियमविधिः
१५. अष्टाङ्गयोगे आसनविधिः
१६. अष्टाङ्गयोगे प्राणायामविधिः
१७. अष्टाङ्गयोगे प्रत्याहारविधिः
१८.अष्टाङ्गयोगे धारणाविधिः
१९.अष्टाङ्गयोगे ध्यानविधिः
२०. अष्टाङ्गयोगे समाधिविधिः

३. मुक्तिखण्डम् (२५३-३३२)

१, मुक्तिमुक्त्युपायमोचकमोचकप्रदचतुर्विधप्रश्नाः
२. मुक्तिभेदकथनं
३. मुक्त्युपायकथनं
७. मोचककथनं
५. मोचकप्रदकथनं
६. ज्ञानानुत्पत्तिकारणकथनं
७. गुरूपसदनशुश्रूषणमहिमा
८, व्याघ्रपुरे देवानामुपदेशः
९. ईश्वरनृत्तदर्शनं

४.यज्ञवैभवखण्डम्‌ (३३३—१०६६)

तस्यपूर्वभागः—(३३३—७६३)

विषयः
१. सर्ववेदार्थप्रश्ननिरूपणं
२. परापरवेदार्थविचारः
३. कर्मयज्ञवैभवनिरूपणं .
४. वाचिकयज्ञनिरूपणं
५. प्रणवविचारनिरूपणं
६. गायत्रीविवरणं
७. हंसविद्याविवरणं
८. षडक्षरविचारः
९. ध्यानयज्ञविचारः
१०. ज्ञानयज्ञविवरणं
११. ज्ञानयज्ञविशेषः
१२. अयमेव प्रकारान्तरेण
१३. अयमेव प्रकारान्तरेण
१४.अयमेव प्रकारान्तरेण
१५.अयमेव प्रकारान्तरेण
१६. ज्ञानोत्पत्तिकारणनिरूपणं
१७. वैराग्योत्पत्तिप्रकारः
१८. अनित्यवस्तुविचारः
१९. नित्यवस्तुविचारः
२०. विशिष्टधर्मविचारः
२१. मुक्तिसाधनकथनं
२२. मार्गप्रामाण्यवर्णनं
२३. शङ्करप्रसादक्रमवर्णनं
विषयः
२४. प्रसादवैभवं
२५. इदमेव प्रकारान्तरेण
२६. शिवभक्तिविचारः
२७. परपदस्वरूपविचारः
२८. शिवलिङ्गस्वरूपकथनं
२९.शिवस्थानविचारः
३०. भस्मधारणवैभवनिरूपणं
३१. शिवप्रीतिकरजीवनब्रह्यैक्यविज्ञानवर्णनं
३२. भक्त्यभावकारणनिरूपणं
३३. परतत्वनामविचारः
३४. महादेवप्रसादकारणनिरुपणं
३५. संप्रदायपरम्पराकथनं
३६. सद्योमुक्तिकरक्षेत्रमहिमा
३७. मुक्त्युपायकथनं
३८. मुक्तिसाधनविचारः
३९. वेदानामविरोधः
४०. सर्वसिद्धिकरधर्मविचारः
४१. पातकविचारः
४२. प्रायश्वित्तकथनं
४३. पापशुद्ध्युपायकथनं
४४. द्रव्यशुद्धिकथनं
४५. अभक्ष्यनिवृत्तिकथनं
४६. मृत्युसुचकविवरणं
४७. अवशिष्टपापस्वरूपकथनं

यज्ञवैभवखण्डस्य उत्तरभागः (७६५—१ ०६६)

तत्र ब्रह्मगीता (७६५—९९३)

विषयः
१. ब्रंह्मगीतिः
२.वेदार्थविचारः
३. साक्षिशिवस्वरूपकथनं
४. तलवकारोपनिषदद्व्याख्यानं नाम साक्ष्यस्तित्वकथनं
५. आदेशकथनं नाम छान्दोग्योपनिषद्विवरणं
६. दहरोपासनं नाम छान्दोग्योपनिषद्विवरणं
७. वस्तुस्वरूपविचारो नाम मुण्डकोपनिषद्विवरणं
८. तत्त्ववेदनविधिर्नाम कैवल्योपनिषद्विवरणं
९. आनन्दस्वरूपकथनं नाम बृहदारण्यकोपनिषद्विवरणं
१०. आत्मनो ब्रह्मत्वप्रतिपादनं नाम बृहदारण्यकोपनिषद्विवरणं
११. ब्रह्मणः सर्वशरीरस्थितिर्नाम कठबल्ली-श्रेताश्वतरोपनिषद्विवरणं
१२. शिवस्य अहंप्रत्ययाश्रयत्वकथनं नाम ऐतरेयकादिसर्वोपनिषदां संग्रहः

यज्ञवैभवखण्डस्यउत्तरभागे

सूतगीता (९९३—१०६६)

१. सूतगीतिः
२. आत्मना सृष्टिकथनं
३. सामान्यसृष्टिकथनं
विषयः
४. विशेषसृष्टिकथनं
५. आत्मस्वरूपकथनं
६. सर्वशास्त्रार्थसंग्रहवर्णनं
७. रहस्यविचारः
८. सर्ववेदान्तसंग्रहः

श्रीसांबाय परब्रह्मणे नमः

॥ श्रीमत्सूतसंहिता ॥

तात्पर्यदीपिकाख्यया व्याख्यया सहिता

शिवमाहात्म्यखण्डप्रारंभः

ऐश्वरं परमं तत्वमादिमध्यान्तवर्जितम्‌।
आधारं सर्वलोकानामनाधारमविक्रियम्‌ ॥ १ ॥

————————————————————————————————————————

श्रीमद्विद्यारण्यकृततात्पर्यदीपिकाख्यसूतसंहिताव्याख्यानप्रारंभः—

प्रणमामि परं ब्रह्म यतोव्यावृत्तवृत्तयः।

अविचारसहं वस्तु विषयी

कुरुते1

धियः।
\ [नम2श्श्रीशंकरानन्दगुरुपादांबुजन्मने।
सविलासमहामोहग्राहग्राहैककर्मणे ॥ ]
श्रीमत्काशीविलासाख्यक्रियाशक्तीशसेविना।
श्रीमत्र्यंबकपादाब्जसेवानिष्णातचेतसा॥
वेदशास्त्रप्रतिष्ठात्रा श्रीमन्माधवमन्त्रिणा।
तात्पर्यदीपिका सूतसंहिताया विधीयते॥
क्रियते तत्तत्प्रकरणतात्पर्यप्रथनपूर्वकंविशदम्‌।
विषमपदवाक्यविवरणं मन्द3धियामनुग्रहाय भक्याच॥

इहहि भगवान्‌ बादरायणः लोकानुग्रहैकरसिकतया परशिवस्वरूपाविष्करणप्रधानां संहितामारभमाण महतः पुरुषार्थस्य प्रत्यूहप्राचुर्यात्तन्निवृत्तये शिष्टाचारानुमित

श्रुतिबोधि4तकर्तव्यताकं परशिवस्य प्रणिधानप्रणामलक्षणं

मंगलं5स्वकृतं6 शिष्यशिक्षार्थं। ग्रंथादावुपनिबध्नाति—ऐश्वरमित्यादिश्लोकद्वयेन। द्विविधं हि परमेश्वरं रूपं। निष्कलं सकलंचेति (‘निष्क7लस्सकलश्शंभुर्लिङ्गमूर्तिर्विराजत’) इति सिद्धान्ते। तत्र निष्कलं शुद्धं। सकलं शंभलिंगमूर्तिरूपं। स्वप्रकाशाखण्डसच्चिदानन्दैकरसमद्वितीयं स्वप्रपिपत्तिफलं तत्प्रणिधानं प्रथमार्धेन। निष्कलस्वरूपं बोधानन्दमयं प्रणिधेयत्वेनोक्तं—शैवागमे ‘परैक्यप्रापकं ज्ञानं वच्मि सम्यग्धिताय वः। चिदानन्दमयं पूर्णं प्रत्यक्ब्रह्मात्मना स्थितं, (“परे8व्योम्नि शिखान्तस्थःनिष्कलः परमः शिवः। चिदानन्दघनस्सूक्ष्मस्सर्वभूतानुकंपया) इति तथा सोमशंभुनापि—“जगन्मूल9मकर्तारं बोधानन्दमयं विभुं। निष्कलं स्वप्रकाशं च संचित्यपरमं शिवमिति।वृत्तेरसा10क्षितयावृत्तिप्रागभावस्य च स्थितः।बुभुत्सायास्तथाज्ञोस्मीत्यापात11ज्ञानवस्तुनः॥ असत्यालंबनत्वेन सत्यः सर्वजडस्प तु। साधकत्वेन चिद्रूपः सदा प्रेमास्पदत्वतः आनन्दरूपस्सर्वार्थसाधकत्वेन हेतुना। सर्वसंबधवत्वेन संपूर्णः शिवसंज्ञितः। जीवेशत्वादिरहितः केवलःस्वप्रभश्शिवः। इति शैवपुराणेषु कूटस्थः प्रविवेचितः; इति च। मोहशूलोत्तरेपि—(“शिवं पूर्व॑बदावाह्यबोधानन्दधनामृतामिति’।स्वाधीनमायोपाधिस्वीकारेण जगन्निर्माणनियमनपरिपालनादिकर्तृतत्वमैश्वरं। तदुक्तं मृगेन्द्रसोहितायां शिवं प्रस्तुत्य—12जगज्ज13न्मस्थितिध्वंसतिरोभावविभु-

क्तय। कृत्यसकारकफलं ज्ञेयमस्त्येतदेवही) ति। तस्य14द्विविधं रूपं। परमपरंच। लीलास्वीकृतयथोदीरितेपाधिविशिष्टमपरं। निरस्तसमस्तोपाधिकंस्वप्रतिष्ठमखण्डसच्चिदानन्दैकरसमद्वितीयं परं। तत्रयत्परं तत्वंपरमात्ममूतंत्रैकालिकबाधशून्यं। मिथ्याभूतपरिकल्पितस्वरूपमायातत्कार्यसंस्पर्शविरहात्‌। ननु मायाकार्येण कालेनावंच्छेदादेव कथं न15स्पर्श इति। तत्राह। आदिमध्यान्तवर्जितमिति। स्वप्रागमावावच्छिन्नो भूतकाल आदिः। स्वावच्छिन्नो वतेमानकालो मध्यः। स्वप्रध्वंसावच्छिन्नोभविष्यत्कालोऽन्तः। एतत्त्रितयवर्जितं। कलातत्वसद्भावे16 हि कालतत्वंउक्तंहि—पुंसो जगत्कर्तृतार्थं17 मायातस्तत्वपंचकं भवति। कालोनियतिश्चतथा भूतयदृच्छा18स्वभवाश्च, इति। निष्कलदशायां19 कलासहभावी काल एवनास्ति। कुतो निष्कलपरशिवस्य तत्कृतपरिच्छेदशंकेत्यभिप्रायः। इत्थं20निष्कलप्रणिधानं कृतं। सकलमपि द्विविधं। समस्तजगदात्मकं समस्तजगन्नियन्तृलीलावताररूपंचेति। अत एवहि रुद्राध्याये जगदात्मना जगन्नियंतृलीलावताररूपेण च नमस्कारः कृतः। तत्रजगदात्मना प्रणाममाह द्वितीयार्धेन। आधारमिति। यथैव हि सत्वमायोपाधिवशाज्जगन्नियन्तृत्वं निमित्तकारणं पारमेश्वरं तत्वंतमोपाधितवशाज्जगदात्मकतयातदुपादानत्वेन, एवं रजोगुणोपाधिवशात्तदाधारोपि। उक्तेहि जगन्नियन्तृत्वजगदात्मकत्वे परमेश्वरस्य। ‘शिवो21दाता शिवोभोक्ता शिवस्सर्वमिदं जगदिति, ‘स्थितिसंयमकर्ताच जगतोऽस्यजगत्सचेति’। श्रूयते—सोऽकामयत22 बहु स्यां प्रजायेयेति। अत्रहि सोऽकामयतेति निमित्तत्वं। बहुस्यामित्युपादानत्वं तथा पाराशर्य23ं सूत्र-

अनन्तानन्दबोधांबुनिधिमद्भूतविक्रमम्‌।
अंबिकापतिमीशानमनिशंप्रणमाम्यहम्‌॥ २ ॥

—————————————————————————————————————————

मपि—‘प्रकृतिश्च24प्रतिज्ञादृष्टान्तानुपरोधादि,ति। यथैव सर्वलोकानामयमाधार एवमस्यापि कश्चिदन्य आधरस्स्यादितीमां25 शंकां निरस्यति अनाधारमिति स्वातिरिक्ताधाररहितः। ‘स26भगवः कस्मिन्प्रतिष्ठितः? स्वमहिम्नीति’स्वमहिमप्रतिष्ठित्वश्रुतेः। ननु जगदाधारश्चेदाधेयजगदात्मना धर्मेण उपायापायवता विकारित्वंतस्य स्यात्‌ उपयन्ननपयन्‌ धर्मोविकरोति हि धर्मिणमितिन्यायात्तत्राह अविक्रियामिति। कल्पितत्वेन जगतो न स्वाश्रयविकारहेतुता। नहि मरुमरीचिकाजलैर्मरुभूमिरार्द्रीक्रियत इत्यर्थः॥ १ ॥

इदानीं जगन्नियन्तृ27लीलावताररूपेण प्रणिधानमाह अनन्तेति द्वितीयश्लोकेन॥ अवतारोहि ध्यानपूजार्थं28 शिवेन स्वीक्रियते तदुक्तं सुप्रभेदे।29यतीनां मन्त्रिणाञ्चैवज्ञानिनां योगिनां तथा। ध्यानपूजानिमित्तं हि तनुं गृह्णाति मायया, इति अद्भुताःविक्रमास्त्रिपुरदहनादयोयस्य तं अंबिकायाः पतिःअम्बिकापतिं विजयपरिणयनादयः परमेश्वरस्य लीला दर्शिताः। तर्हिप्राकृतपुरुषवदेव रागद्वेषादि30दोषसंभवात्संसार्येवासौइति। नेत्याह31। ईशानमिति। संसारिणो हि रागद्वेषादिवशीकृतत्वात्पुरुषान्तरपरतन्त्रत्वाच्चस्वयमनशिना32 ईशवन्तश्च। शिवस्तु लीलयैव विजयपरिणयनादिव्यापारानाचरन्नपि रागद्वेषादिविरही33 सर्वजगदीशिताच न पुरुषान्तरपरतंत्र इति न लौकिकसम इत्यर्थः। ननु लोकव-

सत्रावसाने मुनयो विशुद्धहृदयाभृशम्‌।
नैमिशीया महात्मानमागतं रौमहर्षिणम्‌॥ ३॥

————————————————————————————————————————————

देव शिवस्यापि सर्वे व्यवहाराश्श्रूयन्ते। अत एवैषांलीलारूपता कुत इत्यत आहअनन्तेति। अन्तः परिच्छेदः तद्रहितयोरानन्दबोधयोरबुधि34स्समुद्रः अतः तत्कृत35 परिच्छेदविरहात्पारमेश्वरयोरानन्दज्ञानयोर्नलौकिकानन्द-ज्ञानवदुत्पत्तिविनाशवत्वंवस्तुकृतपरिच्छेदविरहाच्च तयोरखण्डैकरसत्वमितीशानः। अतिशायिनो वस्त्वन्तरस्याभावेन तस्यनिरतिशयत्वंचेति कुतो लौकिकसाधारण्य36शंकावकाश इत्यर्थः। यद्यप्यंवुनिधिरन्तवान्सातिशयश्चतथापि लौकिकानां समुद्रेऽन्तवत्वसातिशयत्वविरहाभिमानात्तदभिमतदृष्टान्तेनैव परमेश्वरस्यात्यंतिकमानन्त्यं37 निरतिशयत्वं च दर्शयितुं अंबुनिधित्वेन38 रूपणं कृतमाति। ननु लौकिका अपि सर्वात्मकादीश्वरादभिन्ना एवेति कथं तदीयौज्ञानानन्दौ न तत्सदृशाविति। सत्यं। तत्सदृशौ। अज्ञानेनावृतत्वात्तु तत्सादृश्यंन ते जानन्ति। उक्तं हि। “अंज्ञानेनावृत39 ज्ञानं तेन मुह्यन्ति जन्तवः, इति। अतस्तिरोहितज्ञानत्वाल्लौकिकानां व्यापारा दुःखमया एव न लीलाः। अनावरणपरमानन्दज्ञानत्वेन तु परमेश्वरस्य विजयपरिणयनादिव्यापारा लीलाएवेत्यर्थः40। नमामीति41निष्कलपरशिवस्य तद्रूपतयाऽवस्थानमेव प्रणामः। सकलस्य तु ध्यानस्तुतिपूजात्मकः। तदुक्तं सुप्रभेदे42। ध्यानपूजाविहीनं यन्निष्कलंतद्विधायकम्‌। तत्तस्मात्सकलंशंभुं निष्कलंसंप्रपूजयेत्‌! इति। २ ॥………….. “इत्थं मंगलाचरणं कृतं43।अथ मुनिसूतसंवादात्मना पुराणमारभ्यत44े—सत्रावसान इयादिना॥ननु व्यासेन सूताय प्रागेवोपदिष्टानि अष्टादशपुराणानि। अधुना पुर्नमुनयः

शृण्वंति सूतो व्याचष्टे। व्यासस्तु कुरुते मंगलमितिचासंगतमुच्यते। व्यासस्सूताय पुराणानि प्रागुपादिष्टान्यपि तान्येव संप्रति मुनिसृतसंवादात्मना निबध्नातीति स्वयंक्रियमाणानिबंधनादौस्वयमेव मंगलमाचरतीति किमनुपपन्नं। अथ सूताय स्वात्मनोपदेशं परित्यज्य व्यासेन म॒निसूतसंवादात्मना निबंधनेकिंप्रयोजनं। उच्यते। पुराणप्रतिपाद्यायाःतत्वविद्यायाःप्रभावातिशयविष्करणं प्रयोजनं। तथाहि। इत्थं प्रभावेयं विद्या यत्सूतः प्राग्जन्मनः45कनीयानपि व्यासात्‌ पुराणमुखादेनामधिगम्य अग्रजानामपि मुनीनां स्वयमल्पोपितत्वोपदेशकर्ताजात इति। तत्रसत्रावसाने विशुद्धहृदयाःप्रसन्नेन्द्रियमानसाइति पदत्रयेण मुनीनां पराविद्योचिताधिकारसंपत्तिनिरूपणं। तथाहि।श्रतिस्मृतीतिहासपुराण प्रतिपादितवेदानुवचनयज्ञतपोदानव्रतादिभिः प्रक्षीणसकलकल्मषस्य अतएव विशुद्धबु46द्धेर्जनितजिज्ञासस्य परशिवस्वरूपविद्यायामधिकारः। अत ईदृगबिधो विद्या47 ग्रहणाधिकारं कारणगुणकलापस्तावदाविष्कर्तव्यः। तत्र सत्रावसानइत्यनेन श्रौत सकलधर्मानुष्ठाने विद्याप्रतिवंधकसकलपापापनयनरूपं विशुद्धहृदयत्वेकारणमुच्यते चतुर्विधा हि सोमयागाः। एकाहाहीनसत्रायनात्काः। एकैकदिनसाध्या अग्निष्टोमादय एकाहाः। अतिरात्रादयःएकादशदिनावसाना48 अहीनाः। द्वादशाहस्तु सत्राहीनोभयात्मकः। त्रयोदशरात्रादीनि सत्राणि। संवत्सरसाध्यान्ययनानि। अयनेष्वपि सत्रप्रयोगो दश्यते ॥ श्रु॥ गावोवा49 एतत्सत्रमासत विश्वसृजः50 प्रथमास्सत्रमासतेति। तथानैमिशे51 निमिषक्षेत्रे ऋषयः शौनकादयः। सत्रस्वर्गाय लोकाय सहस्रसममासतेति,तदिह नैमिशीयैःक्रियमाणस्यअनेकसंवत्सरसाध्यस्यायनत्वेपि सत्रपदप्रयोगोपपत्तिः। ¦ सत्रं च परमो धर्म इत्यपरेषामपि महतां वेदानुवचनानां दानतपोव्रतादीनामप्यु52पलक्षणं। तेषामपि चित्तशुद्धिद्वारा विविदिषाकारणत्वं इष्य

माणवेदनकारणत्वंच श्रूयते। ‘तमेतं53 वेदानुवचनेन ब्राह्मण विविदिषंति यज्ञेन दानेन तपसाऽनाशकेनेति,॥ तथा पाशुपतव्रतस्यापि परशिवसाक्षात्कारकरणत्वमथर्वशिरसि दृश्यते। ‘अ54ग्निरित्यादिना भस्मगृहीत्वा निमृज्यांगानिसंस्पृशेत्‌ तस्माद्व्रतमेतत्पाशुपतंपशुपाशविमोक्षाय, इति। उक्तस्य सत्रपदोपलक्षितस्य कर्मराशेःबुद्धिशुद्धौकारणभावमाह। विश्वुद्धहृदया इति। हृदयं बुद्धिस्तस्य विशुद्धिर्नाम संचितदुरितापनयनेन तन्निबंधनस्य दुःखस्य निरासः। नैमिशीया इति। ब्रह्मणाविसृष्टस्य चक्रस्य नेमिश्शीर्यते कुंठीभवाति यत्र तन्नेमिशं। नेमिशमेव नैमिशं। तथोक्तं वायवीये। ‘एतन्मनोमयंचक्रं मया सृष्टंविसृज्यते। यत्रास्य शीर्यते नैमिर्नैमिशं तच्छुमावहं॥ इत्युक्त्वासूर्यसंकाशंचक्रं सृष्ट्वामनोमयं। प्रणिपत्यमहदेवं विससर्ज पितामहः। तेपि हृष्टतरा विप्राःप्रणम्यजगतां पतिं। प्रययुस्तस्य चक्रस्य यत्र नेमिरविशीर्यते। तद्वनं तेन विख्यातंनैमिशं मुनिपूजित’ मिति॥ नेमिशमेषां निवासइति नैमिशीयाः। तथा प्रसन्नेन्द्रियमानसा इति। मनसः प्रसादो नाम रजस्तमोभ्यामनभिभवादावरणविक्षेपविरहेण तत्वप्रणिधानेऐकाग्र्यं। इन्द्रियाणां प्रसादो नाम प्रसन्नता मनःप्रातिकृल्यपरिहारेण प्रत्युत तदानुकुल्येनैव वर्तन श्रूयतेहि—यस्त्ववि55ज्ञानवान्भवत्यमनस्कस्सदाऽशुचिः। तस्येन्द्रियाण्यवश्यानि दुष्टाश्वा इव सारथैःय56स्तुविज्ञानवान्भवति समनस्कस्सद। शुचिः।तस्येन्द्रियाणांवश्यानि सदश्वा इव सारथे’रिति। पतंजलिरप्याह। ’ स्ववि57षयासंप्रयोगे चित्तस्वरूपानुकार इवेन्द्रियाणां प्रत्याहार, इति। इत्थमिहजन्मनिजन्मान्तरेवा विहितैर्व्रतदानादिभिः सञ्चितदुरितनिरसनेन58 रजस्तमोभ्यामन59भिभवाद्विशुद्धसत्वास्तत्वजिज्ञासवो विद्याग्रहणाधिकरिणो दर्शिताः। विद्योपदेशे तु सूतस्याधिकारितामाह

दृष्ट्वा यथार्हं संपूज्य प्रसन्नेन्द्रियमानसाः।
पप्रच्छुस्संहितामेतां60 सूतं पौराणि61कोत्तमम्‌ ॥ ४॥

एवं पृष्टो मुनिश्रेष्ठैस्सूतस्सर्वार्थदायिनम्।
महादेवं महात्मानं ध्यात्वा व्यासं च भक्तितः॥ ५॥

समाहितमना भूत्वाविलोक्य मुनिसत्तमान्‌।
वक्तुमारभते सूतस्संहितां श्रुतिसम्मिताम्‌62 ॥ ६ ॥

————————————————————————————————————————

महात्मानमागतमिति। उभयं हि तत्रापेक्षितं। अनुग्रहसामर्थ्यमनुग्रहशीलत्वंचेति। तत्र महात्मानमितिव्यास63प्रसादासादितपरशिवसाक्षात्कारनिबन्धनमनुग्रहसामर्थ्यमुक्तं। आगतमिति विशिष्टाधिकारिलाभात्तदुद्धरणार्थमनाहूतस्यापि स्वयमेवागमना64भिधानेन परमकारुणिकत्वादनुग्रहशीलत्वमुक्तं। यथा जनकं65 प्रति याज्ञवल्क्यस्येति॥ ३ ॥ अथ विद्याग्रहणाधिकारसंपन्ना मुनय उपदेशोचितगुरुलाभानिवंधनया प्रीत्या तं परिपुज्यम्बजिज्ञासामाविष्कृतवन्त इत्याह। पप्रच्छुरिति। उक्तंहि। तद्विद्धि66 प्रणिपातेनपरिप्रश्नेन सेवया। उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्वदर्शिन इति॥ ९ ॥ एवं मुनिभिः पृष्टोमुनीनां पुराणसंहिताश्रवणे मृख्याधिकारसिद्धये परशिवप्रणिधानपुरस्सरां शिष्याबलोकनरूपां चाक्षुषीं दीक्षामकार्षीदित्याह।67 एवं पृष्ट इत्यादिना। उक्ता ह्यागमेषु चाक्षुषी दीक्षा। ‘चक्षुरुन्मील्य यत्तवं ध्यात्वाशिष्यं समीक्षते। पशुबंधविमोक्षाय दीक्षेयं चाक्षुषी मते’ति। ‘यस्य68देवे परा भक्तिर्यथा देवे तथा गुरौ। तस्यैते कथिता ह्यर्थाःप्रकाशन्ते महात्मन इति’ श्वेताश्वतरश्रुतेः। परशिवप्रणिधानवद्गुरुप्रणिधानमपि विधेयमित्याह—व्यासं चेति ॥५॥ श्रुतिस

श्रीसूतः—

ब्राह्मं पुराणं प्रथमं द्वितीयंपाद्ममुच्यते।
तृतीयं वैष्णवं प्रोक्तं चतुर्थं शैवमुच्यते॥ ७॥
ततो भागवतं प्रोक्तं भविष्याख्यं ततः परम्।
सप्तमं नारदीयं च मार्कण्डेयं तथाष्टमम्‌69॥ ८॥
आग्नेयं नवमंपश्चाद्ब्रह्मकैवर्तमेवच70
ततो लैगं7172 वाराहं ततस्कान्दमनुत्तमम्‌॥ ९॥
वामनाख्यं ततः कौर्मंमात्स्यं तत्परमुच्यते।
गारुडाख्यं ततः प्रोक्तं ब्रह्माण्डं तत्परं विदुः॥ १०॥
ग्रन्थतश्चचतुर्लक्षं पुराणं मुनिपुंगवाः,
अष्टादशपुराणानां कर्ता सत्यवतीसुतः॥
कामिकादिप्रभेदानां यथा देवो महेश्वरः॥११॥

————————————————————————————————————————

म्मितामिति सकलश्रुत्यर्थसंग्रहात्मिकामित्यर्थः॥ ६॥ विवक्षितायाअस्यस्संहितायाः व्यासमुखादागतत्वेन प्रामाण्यं ख्यापयितुं73 नानामुनिप्रणीतसकलो74पपुराणमुलभूतानामष्टादशानां पुराणानां वेदशाखाविभागस्यच प्रणयनेन व्यासस्य सर्वज्ञत्वंअतएव तस्य परमपुरुषावतारत्वं।75 च प्रतिपादयितुमष्टादशपुराणानां76 नामान्यनुक्रामति—ब्राह्ममित्यादिना सार्धचतुष्टयेन। ब्रह्मसंबंधि ब्राह्मंतस्येदमित्यणिनस्तद्धितइति टिलोपस्य अन्निति प्रकृतिभावेन निरासेपि ब्राह्मोऽजाताविति निपातनाट्टिलोपः॥ १०॥ ग्रंथतश्वचतुर्लक्षमिति— संख्याभिधानं प्रक्षेपविप्लववपरिहाराय ११॥ कामिकादीनामागमसंहितानां

[आदिकर्ता77शिवस्साक्षाच्छूलपाणिरितिश्रुतिः।
कथ्यते दशभिर्विप्राः पुराणैः परमेश्वरः॥
चतुर्भिः कथ्यते विष्णुर्द्वाभ्यां ब्रह्मा जगत्पतिः।
एकेनाग्निस्तथैकेन भगवान्‌ चण्डभास्करः]॥
अष्टादशपुराणानि श्रुत्वा सत्यवतीसुतात्‌।
अन्यान्युपपुराणानि मुनिभिः कीर्तितानि तु॥ १२॥
आद्यं सनत्कुमारेण प्रोक्तं वेदविदां वराः
द्वितीयं नारसिंहाख्यं तृतीयंनान्दिकेश्वरम्‌78॥ १३॥
चतुर्थं शिवधर्माख्यं दौर्वासं पंचमं विदुः।
षष्ठं तु नारदीयाख्यं कापिलंसप्तमं विदुः॥ १४॥
अष्टमं मानवं79 प्रोक्तं ततश्चोशनसेरितम्‌।
ततो ब्रह्माण्डसंज्ञन्तुवारुणाख्यं ततः परम्‌॥ १५॥
ततः कालीपुराणाख्यं विशिष्टं मुनिपुङ्ग्वाः।

—————————————————————————————————————————————————

शिवेनैव प्रणयनात्प्रामाण्ये यथा विस्रंभःएवं नारायणावतारेण80 व्यासेन प्रणयानात्पुराणेष्वप्यविशेष इत्याह—अष्टादशपुराणानामिति। व्याख्यातप्रायोऽयं॥ १२॥ नानामुनप्रणीतानामुपपुराणानामप्येतन्मूलत्वादेतेषां प्रणेतुर्व्यासस्यसर्वज्ञत्वं81किं वक्तव्यमित्याह—अष्टादशपुराणानि श्रुत्वेति॥ १३॥ उपपुराणान्यप्यष्टादशानुक्रामति—आद्यंसनत्कुमारेण प्रोक्तमित्या-

ततो वासिष्ठलैंगाख्यं प्रोक्तं82 माहेश्वरं परम्‌॥ १६॥
ततस्साम्बपुराणाख्यं ततस्सौरमनुत्तमम्‌83
पाराशर्यं84ततः प्रोक्तंमारीचाख्यं ततः परम्‌॥
गंगाख्यं85 च ततः प्रोक्तं सर्वधर्मार्थसाधनम्‌॥ १८॥
लक्षन्त ग्रन्थसंख्याभिः सर्वविज्ञानसागरम्‌।
स्कान्दमद्याभिवक्ष्यामि86 पुराणं श्रुतिसम्मितम्‌॥ १९॥
षड्विधंसंहिताभेदैःपंचाशत्खण्डमण्डितम्‌॥ १९॥
आद्या सनत्कुमारोक्ता हितीया सूतसंहिता।
तृतीया शांकरी प्रोक्ता87चतुर्थी वैष्णवीमता॥
तत्परा संहिता ब्राह्मी सौरान्त्या88संहिता मता॥२१॥
ग्रन्थतः पंचपंचाशत्सहस्रेणाभिनिर्मिता।
आद्या तु संहिता प्रोक्ता द्वितीया षट्सहस्रिका॥२२॥
तृतीया ग्रन्थतस्त्रिंशत्सहस्रेणोपलक्षिता।

————————————————————————————————————————
दिश्लोकषट्केण॥ १६—१८॥ अभेदानीं विवक्षितां सूतसंहितामवतारयितुमनुक्रान्तानां पुराणानां मध्ये त्रयोदशस्य स्कान्दपुराणस्यसंहितादिविभागमाह सार्धपञ्चकेन। स्कान्दमद्याभिवक्ष्यामीत्यादिना।॥ १९-२०॥ सौरान्त्येति सूरसंबन्धि सौर तदस्या अस्ति सौरा अर्शआदिभ्योऽजिति अजन्तान्मत्वर्थीयाट्टाप्। सूरस्येयं संहितेतिव्युत्पत्तौतस्येदामित्यणन्तान्ङीपाभवितव्यमिति॥ २१॥

तुरीया संहिता पंचसहस्रेण विनिर्मिता ॥ २३ ॥
ततोऽन्या त्रिसहस्रेण ग्रन्थेनैव विनिर्मिता।
अन्या सहस्रतस्सृष्टा ग्रन्थतः पण्डितोत्तमाः ॥ २४ ॥
द्वितीयां संहितां वक्ष्ये सर्वपापप्रणाशिनीम्।
मुनिभिर्देवगन्धर्वैः पूजितामतिशोभनाम्‌ ॥ २५॥
चतुर्धाखण्डिता सापि पवित्रा वेदसंमिता।
शिवमाहात्म्यखण्डाख्यः प्रथमः परिकीर्तितः ॥ २६॥
द्वितीयो ज्ञानयोगाख्यस्सर्ववेदान्तसंग्रहः।
तृतीयो मुक्तिखण्डाख्यश्चतुर्थो यज्ञवैभवः ॥ २७ ॥
आद्यस्सप्तशतं प्रोक्तो ग्रन्थतः पण्डितोत्तमाः ।
द्वितीयोग्रन्थतस्सप्तशतं त्रिंशत्ततोऽधिकं।

————————————————————————————————————————
२४ ॥ इति सिद्धं विभागमभिधाय विवक्षितां संहितां वक्तुं प्रतिजानीते। द्वितीयां संहितां बक्ष्यइति ॥ २५ ॥ यद्यपि खण्डान्तरेष्वपि शिवमाहात्म्यमुच्यते तथापि प्रथमस्य तत्प्राधान्यात्तेन व्यपदेशः ॥ २६ ॥ द्वितीय इति। द्वितीये ज्ञानस्य योगा उपाया यमनियमादयो ज्ञानयोगा आख्यायन्तेऽस्मिन्नित्याख्यः। आतश्वोपसर्गइति कप्रत्ययः। ज्ञानयोगानामाख्य इति संबंधसामान्यषष्ठीसमासः सा तु प्रकृतेसंबंधविशेषे कर्मत्वेयोग्यतावलात्‌ पर्यवस्याति। न च कर्मणि पष्ठीसमासः।किं नस्यादिति वक्तव्यं।कर्मण्यणित्यनेन परेण बाधापातादिति। यज्ञवैभवखण्डे तु ज्ञानयज्ञविशेषा वक्ष्यन्ते। ते सर्वे ज्ञानात्मका एव यज्ञाः। इहतु तदुपायायमनियमादय इत्यसंकरः। यज्ञवैभवइति। यज्ञानां वैभवंप्रभावोऽस्मिन्निति यज्ञवैभवः॥ २७ ॥ आद्यइति सार्धश्लोकंएकं-

ततोऽधिकञ्च सप्तैव मुनयः परीकीर्तितः॥ २८॥
तृतीयः षट्शतंविप्राः सप्तत्रिंशद्विवर्जितः।
चतुर्थस्तु मुनिश्रेष्ठास्सहस्राणां चतुष्टयं॥ २९॥
उपर्यधोभागभेदाद्द्विधाभूतस्स उच्यते॥ ३०॥
आद्यस्त्रयोदशाद्ध्यायो द्वितीयो विंशतिस्तथा।
तृतीयो नव विप्रेन्द्राश्चतुर्थस्तु तथैवच॥
सप्तषष्टिस्समस्तानां वेदानामर्थ आस्तिकाः॥ ३१॥

————————————————————————————————————————

वाक्यं। सप्तानां शतानां समाहारस्सप्तशतमिति समाहारे द्विगुः। अकारान्तत्वेन प्राप्तं स्त्रीत्वंपात्रादिभ्यः प्रतिषेध इत्यनेन निषिध्यते। नन्वेकोयं खण्डःकथं सप्तशतसमाहारात्मकःअत उक्तं ग्रन्थत इति। ग्रन्थद्वारा स्वावयवभूतानां ग्रन्थाना सप्तंशंतसमाहारात्मत्वात्तदभेदेन स्वयमपि सप्तशतमित्यर्थः। ततोऽधिकमिति अधिकञ्चकिञ्चिदस्तीति सामान्येनोपक्रम्य कियत्तदिति जिज्ञासायां त्रिंशदिति। ‘शक्यमञ्जलिभिःपातुं वाताः कैतकगंधिन’ इति वत्‌॥ २८॥ २९॥ तृतीय इति सार्धश्लोकंएकं वाक्यं। चतुर्थइति। चतुर्थखण्ड उपरिभागः अधोभाग इति भागभेदेन द्विप्रकारः॥ ३०॥ प्रकृतसंहितागतखण्डचतुष्टयस्याध्यायविभागमाह आद्यस्त्रयोदशाध्याय इति सार्धश्लोकेन। आद्यः खण्ड अध्यायैस्त्रयोदश ग्रंथतः सप्तशतमितिवत्‌। ननु त्रयोदशभिरध्यायैरिति दिक्संख्येसंज्ञायामिति नियमात्‌ इहच द्विगुसमासनिमित्तानां संज्ञादीनामभावात्‌ आद्यस्त्रयोदशाध्याय इति पाठश्श्रेयान्‌। तत्रहि न त्रयोदशेति प्रथक्पदं॥३ १॥ तत्र। प्रथमे खण्डेप्रथमाध्याये ग्रन्थावतारः। द्वितीये पाशुपतव्रतं। तृतीये नन्दीश्वरविष्णुसंवादेनेश्वरप्रतिपादनं। चतुर्थे परमेश्वरपूजाविधानन्देवपूजाफलंच। पंचमे शक्तिपूजाविधिः।षष्ठे शिवभक्तपूजा। सप्तमे

[ एवं चतुर्विधैःखण्डैस्संहिता वेदसम्मिता ]।

————————————————————————————————————————मुक्तिसाधनं। अष्टमे कालपरिमाणतदनवछिन्नरूपकथनं। नवमे पृथिव्युद्धरणं। दशमे ब्रह्मणा सृष्टिकथनं। एकादशे हिरण्यगर्भादिविशेषसृष्टिः। द्वादशेजातिनिर्णयः। त्रयोदशे तीर्थमाहात्म्यं। द्वितीयखण्डे विंशतिरध्यायाः॥ तत्र प्रथमाध्याये ज्ञानयोगसंप्रदायपरंपरा। द्वितीये आत्मना सृष्टिः। तृतीये ब्रह्मचर्याश्रमविधिः। चतुर्थे ग्रहस्थाश्रमविधिः। पञ्चमे वानप्रस्थाश्रमविधिः। षष्ठे सन्‍यासविधिः। सप्तमे प्रायश्रित्तं। अष्टमे दानधर्मफलं। नवमे पापकर्मफलं। दशमेपिण्डोत्पत्तिः। एकादशे नाडीचक्रं। द्वादशे नाडीशुद्धिः। त्रयोदशे अष्टाङगयोगे यमविधिः।चतुर्दशे नियमविधिः। पश्चदशे आसनविधानं। षोडशेप्राणायामविधिः। सप्तदशे प्रत्याहाराविधिः। अष्टादशे धारणाविधिः। एकोनविंशेध्यानाविधिः। विंशे समाधिः॥ तृतीये मुक्तिखण्डे नवाध्यायाः॥ तत्र प्रथमे मुक्तिमुक्त्युपायमोचकमोचकप्रदचतुर्विधप्रश्नाः। द्वितीये मुक्तिभेदकथनं। तृतीये मुक्त्युपायकथनं। चतुर्थे मोचककथनं। पंचमे मोचकप्रदकथनं। षष्ठे ज्ञानोत्पत्तिकथनं। सप्तमे गुरूपसदनशुश्रूषणमहिमा। अष्टमे व्याघ्रपुरे देवानामुपदेशः। नवमे ईश्वरनृत्तदर्शनं। चतुर्थखण्डे सप्तषष्टिरध्यायाः॥ तत्र पूर्वभागे सप्तचत्वारिंशत्‌। तत्र प्रथमाध्याये सर्ववेदार्थपसारप्रश्नः॥ द्वितीये परापरवेदार्थविचारः। तृतीये कर्मयज्ञवैभवं। चतुर्थे वाचिकयज्ञः। पंचमे प्रणवविचारः। षष्ठेगायत्रीप्रपंचः। सप्तमे आत्ममन्त्रः। अष्टमे षड्क्षरविचारः। नवमे ध्यानयज्ञः। दशमे ज्ञानयज्ञः॥एकादशादिपञ्चस्वध्यायेषु ज्ञानयज्ञविशेषाः। षोडशे ज्ञानोत्पत्तिकारणं। सप्तदशे वैराग्यविचारः। अष्टादशे नित्यानित्यवस्तुविचारः। एकोनविंशे नित्यवस्तुविचारः। विंशेविशिष्टधर्मविचारः। एकविंशे मुक्तिसाधनविचारः। द्वाविंशे मार्गप्रमाण्यधर्मविचारः। त्रयोविंशे शंकरप्रसादः। चतुर्विंशपञ्चविंशयोः प्रसादवैभवं।षड्विंशे शिवभक्तिविचारः। सप्तविंशे परमपदस्वरूपविचारः। अष्टाविंशे शिवलिड्गस्वरूपकथनं। एकोनत्रिंशे शिवस्था-

अस्यामेव स्थितस्साक्षात्संहितायां नसंशयः॥ ३२॥
सर्गश्चप्रतिसगेश्च वंशो89 मन्वन्तराणि च \।
वंशानुचरितं चैव90पुराणं पञ्चलक्षणम्‌॥ ३३॥
यश्चतुर्वेदविद्विप्रःपुराणं वेत्ति नार्थतः।
तं दृष्ट्वाभयमाप्नोति वेदो मां प्रतरिष्यति॥

—————————————————————————————————————————नविचारः। त्रिंशे भस्मधारणवैभवं। एकत्रिंशे शिवप्रीतिकरं जीवब्रह्मैक्यविज्ञानं। द्वात्रिंशोभक्त्यभावकारणं। त्रयस्त्रिंशे परतत्वानां विचारः। चतुस्त्रिंशे महादेवप्रसादकारणं। पञ्चत्रिंशे संप्रदायपरंपरा। षट्त्रिंशे सद्योमुक्तिकरक्षेत्रमहिमा। सप्तत्रिंशे मुक्त्युपायाविचारः। अष्टत्रिंशे मुक्तिसाधनविचारः। एकोनचत्वारिंशे वेदानामविरोधः॥ चत्वारिंशे सर्वसिद्धिकरधर्मविचारः91।एकोनचत्वारिंशेपातकविचारः। द्विचत्वारिंशेप्रायश्चत्तविचारः। त्रिचत्वारिंशेपापशुद्ध्युपायाः92। चतुश्चत्वारेिंशे द्रब्यशुद्धिवि93चारः। पञ्चचत्वारिंशेऽभक्ष्यनिवृत्तिः। षट्चत्वारिंशेमृत्युसूचकम्‌। सप्तचत्वारिंशेऽवशिष्टपापस्वरूपकथनम्‌॥ चतुर्थखण्डस्योत्तरभागे विंशतिरध्यायाः॥ तत्र प्रथमे ब्रह्मगीतिः94। द्वितीये वेदार्थविचारः। तृतीये साक्षिशिवस्वरूपकथनम्‌। चतुर्थे साक्ष्यस्तित्वकथनम्‌। पञ्चमे आदेशकथनम्‌। षष्ठेदहरोपासनम्‌। सप्तमे वस्तुस्वरूपविचारः। अष्टमे तत्तवेदनविधिः। नवमे आनन्दस्वरूपकथनम्‌। दशमे आत्मनो ब्रह्मतत्वप्रतिपादनम्‌95। एकादशे ब्रह्मणः सवशरीरस्थितिः। द्वादशे शिवस्याहंप्रत्ययाश्रयत्वम्‌। त्रयोदशे सूतगीतिः96। चतुर्दशे आत्मना सृष्टिः। पञ्चदशेसामान्यसृष्टिः। षोडशे विशेषसृष्टिः।सप्तदशे आत्मस्वरूपकथनम्‌। अष्टादशे सर्वशास्त्रार्थसंग्रहः। एकोनविंशे रहस्यविचारः। विंशे

\ [बिभेत्यल्पश्रुताद्वेदो97 मामयं विप्लविष्यति ]॥
इतिहासपुराणाभ्यां वेदं समुपबृंहयेत्‌ ॥ ३४ ॥
वेदाः प्रमाणं प्रथमं स्वत एव ततः परम्‌ ॥
स्मृतयश्च पुराणाणि भारतं मुनिपुङ्ग्वाः ॥ ३५ ॥
अन्यान्यपि मुनिश्रेष्ठाः शास्त्राणिसुबहूनि च ॥

—————————————————————————————————————————सर्ववेदान्तसंग्रहः। इति सामन्येनाध्यायार्थाःकथिताः। सकलश्रुत्यर्थसंग्रहात्मकत्वादस्यांसंहितायामवश्यमादरोविधेय इत्याह समस्तानामिति श्लोकशेषेण ॥ १२ ॥ ननाविधोपाख्यानप्रतिपादनपर्यवसिते पुराणे कः प्रसङ्गो वेदार्थस्य तत्राऽऽह— सर्गश्चेत्येकेन। ब्रह्मणस्तटस्थलक्षणत्वेन सृष्टिस्थितिप्रलयाएव वेदे प्रधानं प्रमेयम्‌। “आत्मैवेदमग्र आसीत्‌” “स ऐक्षत इति महासर्गः। “नेह नानाऽस्ति” इति महाप्रलयः। अन्यत्सर्वंस्थित्यवस्थाविलासः। इत्थमेवं पुराणेऽपि वंशमन्वन्तरवंशानुचरितानि स्थित्यवस्थात98 एवेति॥ ३३ ॥ वेदार्थ एव चेत्पुराणे स वेदेनैवसिद्धःकिं पुराणेनेति तत्राऽऽह। यश्चतुर्वेदविद्विप्र इति सार्धश्लोकेन। तत्र स्थितस्याप्यर्भस्य तावतैव दुरधिगमत्वात्तदुपबृंहणायपुराणमित्यर्थः। अनुपबृंहणे बाधमाह99— तं दृष्ट्वेति। विप्लवस्य दुष्परिहरत्वं दर्शयितुं वेदे भयारोपः। प्रतरिष्यति विप्लावयिष्यतीतिबिभेति। अतस्तं समुपबृंहयेदित्यन्वयः ॥ ३४ ॥सर्वथा पुराणादिकमवेक्षितं चैत्तेनैव पर्याप्तम्‌। किं वेदैः इति चेत्‌ न। वेदानां स्वतः प्रामाण्पात्तन्मूलतयैवपुराणादेः स्वरूपलाभादित्याह— वेदाः प्रमाणं प्रथममिति श्लोकद्वयेन ॥ अन्यान्यपि। आर्षस्मृतिपुराणमूलानि। तदर्थसंग्रहशास्त्राणीत्यर्थः ॥ ३५ ॥ वेदाविरोधेन। विरोधे त्वनुपेक्षं

सर्वं वेदाविरोधेन प्रमाणं नान्यवर्त्मना ॥ ३६ ॥
एक एव द्विजा वेदो वेदार्थश्चैक एव तु ॥
तथाऽपि मुनिशार्दुलाः शाखाभेदेन भेदितः ॥ ३७ ॥
अनन्ता वैद्विजा वेदा वेदार्थोऽपि द्विजोत्तमाः ॥
अनन्तो वेदवेद्यस्य शङ्करस्य शिवस्य तु।

—————————————————————————————————————————स्यादसति100 ह्यनुमानम्‌’इति हि जैमिनीयं सूत्रम्‌। मूलभूतवेदानुमानेन स्मृत्यादेः प्रामाण्यं तद्विरोधे त्वनुमानमेव नोदेतीति मूलाभावादुपेक्षणीयम्‌। अथवा यावन्मूलोपलम्भंप्रत्यक्षश्रुतिविरुद्धस्मृत्याद्यर्थोनानुष्ठेय इति सूत्रार्थः। वेदाविरोधन चेत्प्रामाण्यंतर्हि ऋग्वदेऽनुदितहोमं निन्दित्वोदितहोमो विधीयते “प्रातःप्रातरनृतं ते वदन्तिपुरोदयाज्जुह्वति येऽग्निहोत्रम्‌। दिवाकीर्त्यमदिवा कीर्तयन्तःसूर्यो ज्योतिर्नतदा ज्योतिरेषाम्‌” इति ॥ यजुर्वेदे तूदितहोमनिन्दयाऽनुदितहोमो विधीयते “’ यथाऽतिथये प्रद्रुताय शून्यायावसथायाऽऽहार्यं हरन्ति तादृगेवतद्यदुदिते101 जुहीति?” इति। अतः परस्परविरोधाद्वेदद्वयमप्रमाणं102 स्यादित्यत्राह। एक एव द्विजा वेद इति। सर्वोऽयमेक एव वेदस्तत्कुतः परस्परविरोधः। नचैवंस्ववचनव्याघातः। षोडशिग्रहणाग्रहणवचनवद्विकल्पाभिप्रायत्वादित्यर्थः॥ ३७ ॥ कथं तर्हिं भेदव्यवहारः—“अड्गानि103 वेदाश्चत्वारो मीमांसा न्यायविस्तरः। पुराणं धर्मशास्त्रंविद्याह्येताश्चतुर्दश’ इति स्मृतिः। “वेदा वा एते अनन्ता वै वेदा इति च श्रुतिरित्यत आह। तथाऽपीति। एकस्याप्यपरिमितस्प वेदस्य केनचिदप्येकेन पुरुषेणाध्येतुं तदर्थस्य चानुष्ठातुमशक्यत्वादेकंवेदमृग्यजुःसामाथर्वभेदेन चतुर्धा विभज्य तत्रैकैकः पुनरैतरेयादिशाखाभेदेन भेदित इत्यर्थः ॥ ३८ ॥

मायया न स्वरूपेण द्विजा हा देववैभवम्‌ ॥ ३९ ॥
ब्रह्माणं मुनयः पूर्वं सृष्ट्वातस्मै महेश्वरः।
दत्तवानखिलान्वेदानात्मन्येव स्थितानिमान्‌ ॥ ४० ॥
ब्रह्मा सर्वजगत्कर्ता शिवस्य परमात्मनः।
प्रसादादेव रुद्रस्य स्मृतीः सस्मार सुव्रताः ॥ ४१ ॥

————————————————————————————————————————

ननु वेदशाखा एव चेदसंख्याताः104कथंतर्हि"एक105 एव रुद्रो न द्वितीयाय तस्थे इति तैत्तिरीयकश्रुतिः। “अहमेकः106 प्रथममासं वर्तामि च भविष्यामि। च। नान्यः कश्चिन्मत्तो व्यतिरिक्त इत्यथर्वशिरसि वचनमित्यत आह।वेदवेदस्येति। मायया न स्वरूपेणेति। परमार्थतो ह्यद्वितीयो रुद्र इत्युक्तम्‌। अतस्तेनैव लीलयानिर्मितस्य मायामयस्यन वास्तवेन तदद्वैतेन विरोध इत्यर्थः। नन्वेतादृशी लीलाक्वचिदपि लोके न दृष्टचरीत्यत आह। द्विजा हा देववैभवमिति। ‘“अहहेत्यद्भुते खेदे’इत्यभिधानम्‌। अन्यत्रादृष्टत्वमद्भुतस्यावलंकारो न दूषणमित्यर्थः॥ ३९ ॥ नन्वपौरुषेया वेदाः “वाचाविरूपनित्ययाः अनादिनिधना नित्यावागुत्सृष्टा स्वयंभूवा” इति। श्रुतिस्मृती इति। ते कथं निर्मिताः कश्चैता एतावतीर्ग्रहीष्याति यस्य कृते निर्मीयेरन्नित्यत आह—ब्रह्माणं मुनयः पूर्वमिति। स्वयमेव लीलया सकलवेदग्रहणसमर्थं ब्रह्माणं निर्माय स्वात्मनि नित्यमवस्थिता एव वेदास्तस्मैदत्ता इत्यर्थः। न च नित्यसिद्धवेदसमर्पणे शिवस्योपाध्यायतुल्यता। उपाध्यायोहि स्वयमन्यतो लब्ध्वाशिष्यानध्यापयति। शिवस्तु नैवमन्यतोऽधीते स्वात्मने नित्यमवस्थितानामेव तेषां ब्रह्मद्वारासंप्रदायं प्रवर्तयाति। “यो107ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै" इति स्थितानामेव वेदानां प्रापणश्रतेः॥४ ०॥ स्मृति-

विष्णुर्विश्वजगन्नाथो विश्वेशस्य शिवस्य तु।
आज्ञया परया युक्तो व्यासो जज्ञे गुरुर्मम॥ ४२॥
स पुनर्देवदेवस्य प्रसादादम्बिकापतेः।
संक्षिप्य सकलान्वेदांश्चतुर्धाकृतवान्द्विजाः॥ ४३॥

————————————————————————————————————————

पुराणादीनामपितर्हिशिवेनैवप्रापणं चेद्वेदसाम्यंन चेदप्रामाण्यं तत्राऽऽह—ब्रह्मा सर्वजगत्कर्तेति। वेदे हि द्वौभागौकर्मभागो ज्ञानभागश्चेति। आद्यस्यार्थःस्मृतिमुखेन ब्रह्मणा शिवाज्ञयैव व्याख्यातः। दितीयस्य तु विष्णुना व्यासरूपेणावतीर्यपुराणमुखेनेति स्मृतिपुराणानां वेदमूलता न स्वातन्त्र्यमित्यर्थः।यद्यपि स्मृतिष्वपि विद्यानिरुपणमस्ति तथाऽपि तत्प्रासङ्गिक द्रव्यशुद्धिप्रसड्गेन हि कथितम्‌—“ क्षेत्रज्ञस्येश्वरज्ञानाद्विशुद्धिः परमा मता” इति। चतुर्थाश्रमधर्मप्रसङ्गेन चौपनिषदतत्त्वनिरूपणं कृतमिति। पुराणानां तु विद्याप्राधान्यं। प्रासङ्गिकं कर्मनिरूपणम्‌। पुराणेषु हि जगदुत्पत्तिस्थितिलयकारणत्वंशिवस्याभिप्रेत्योत्पत्तिकारणत्वंसर्गेणोक्तम्‌। लयकारणत्वंचप्रतिसर्गेण। स्थितिकारणत्वंच वंशमन्वन्तरवंशानुचरितनिरूपणेन। तत्प्रसङ्गादाश्रमधर्माआगता इति। अत एवधर्मबिषये स्मृतिपुराणविप्रतिपत्तौ स्मृतीनां प्राबल्यंतत्न तासां तात्पर्यत इति तत्त्वज्ञानविषये पुराणप्राबल्यमिति विवेकः। (ब्रह्मणस्सकलान्‌ वेदान्‌ वसिष्ठः प्राप्तवानृषिः।तस्माच्छक्तिस्ततोधीमान्पराशरमहामुनिः।पराशरान्महाबुद्धिःवेदव्यासो महामुनिरिति)॥ ४१॥ व्यासेन पुराणानां प्रणयनं प्रागुक्तं तस्यतु विष्णेरवतारत्वमिदानीमाह। विष्णुर्विश्वजगन्नाथ इति॥ ४२॥ न केवलंवेदोपबृंहणाय पुराणप्रणयनम्‌। महतो

ऋग्वेदः प्रथमः प्रोक्तो यजुर्वेदस्तत परः।
तृतीयः सामवेदाख्यश्चतुर्थोऽथर्वउच्यते॥ ४४॥
एकविंशतिभेदेन ऋग्वेदो भेदितोऽमुना।
यजुर्वेदो द्विजा एकशतभेदेन भेदितः॥ ४५॥
नवधा भेदितोऽथर्ववेदःसाम सहस्रधा।
व्यस्तवेदतया व्यास इति लोके श्रुतो मुनिः॥ ४६॥
अयं साक्षान्महायोगीव्यासः सर्वज्ञ ईश्वरः।
महाभारतमाश्चर्यंनिर्ममेभगवान्मुनिः॥ ४७॥

————————————————————————————————————————

वेदस्याल्पबुद्धिभिर्दुरवगह्यत्वात्तत्तच्छाखाविभागं108 कृत्वासंप्रदायप्रवर्तनमपि तेनैव कृतभित्याह—स पुनर्देवदेवस्येति॥ ४३॥ अथर्वशब्दोऽकारान्तोऽप्यस्ति। अथर्वाय109ज्येष्ठपुत्राय प्राहः इति प्रयोगात्तेन लोके प्राचुर्येण प्रोक्तत्वाद्वेदोऽप्यथर्वः।प्रोक्तार्थेवाऽणि कृते ‘संज्ञापूर्वको विधिरनित्यः’ इति बृद्धिप्रकृतिभावयोरभावः॥ ४४॥ ४५॥ गीतिविशेषःसाम। “ गीतिषु समाख्येति हि जैमिनिः। तदाश्रयमन्त्रयोगाद्वेदोऽपि साम। उक्ते वेदविभागे व्यासनामनिर्वचनमेव प्रमाणमाह—व्यस्तवेदतयेति। वेदान्विभज्याऽऽसमन्ताच्छिष्येभ्यो110 व्यस्यतीति व्यासः। व्याङावुपसर्गौपचाद्यच्‌। व्यस्ता वेदाः शिवेनैत्र कर्त्रामहर्षिरूपेण निजेनैव अवतारान्तरेण करणेनेति करणे वा घञ्॥ ४६॥ सर्वज्ञत्वं111द्रढयितुं साकल्येन चतुर्विधपुरुषार्थप्रकाशकस्यमहाभारतस्य तेनैव प्रणयनमाह। अयं साक्षान्महायोगीति। उक्तं हि।’ धर्मे चार्थे च कामे

तस्य शिष्या महाभागाश्चत्वारो112मुनिसत्तमाः
अभवन्समुनिस्तेभ्यः पैलादिभ्योऽददाच्छ्रुतीः॥ ४८॥
तेभ्योऽधीता श्रुतिः सर्वैःसाध्वी विप्राः113 सनातनी।
तया वर्णाश्रमाचारः प्रवृत्तो वेदवित्तमाः॥ ४९॥
पुराणानां प्रवक्तारं स मुनिर्मां न्ययोजयत्‌ \।
तस्मादेव मुनिश्रेष्ठाः पुराणं प्रवदाम्यहम्‌॥
श्रद्धया परया युक्ताः श्रृणुध्वं मुनिपुङ्गवाः॥ ५०॥
इति श्रुत्वामुनिश्रेष्ठा114 नैमिशीयाः सनातनाः॥ ५१॥
प्रणम्य सूतमव्यग्रं पूजयामासुरादरात्‌।
सोऽपि सर्वजगद्धेतुं शङ्करं परमेश्वरम्‌॥ ५२॥
अम्बिकापतिमीशानमनन्तानन्दचिद्घनम्‌।
ध्यात्वातु सुचिरं कालंभक्या परवशोऽभवत्‌115॥ ५१॥

————————————————————————————————————————

च मोक्षे च भरतर्षभ। यदिहास्ति तदन्यत्र यन्नेहास्ति न तत्क्वचित्‌’॥ इदमेव हि महाभारतप्रणयनं साक्षाद्विष्णोरवतार इत्यत्र गमकम्‌।यदाहुः— कृष्णद्वैपायनं व्यासं विद्धि नारायणं प्रभुम्‌। को ह्यन्यः पुण्डरीकाक्षान्महाभारतकृद्भवेत्‌। इति॥ ४७ ॥ पैलादिभ्यःपैलवैशम्पायनजैमिनिसुमन्तुभ्यश्चतुरो वेदान्दत्वा ते यथा तत्प्रवर्ततेनियुक्ताः एवं पुराणानि मह्यदत्वाऽहं बियुक्त इति तदाज्ञयैवेयं मया व्यक्रियतइत्यर्थः॥ ४८॥ ४९॥ ५०॥ श्रृणुध्वमिति व्यत्ययेनाऽऽत्मनेपदम्‌॥ ५१॥ प्रणम्येति।पूर्वं दृष्ट्वा

नमः सोमाय रुद्राय शंकराय महात्मने।
ब्रह्मविष्णुसुरेन्द्राणां ध्यानगम्याय शूलिने॥ ५४ ॥

————————————————————————————————————

यथार्हमिति, दर्शननिबन्धना पूजा। इह तु श्रवणारम्भनिबन्धने प्रणामपूजे मुनीनाम्‌। एवं पृष्टोमुनिश्रेष्ठैरित्यत्र सूतेन शिवस्य प्रणिधानं चाक्षुपदीक्षार्थं।इह तु प्रणिधानं पुराणारम्भायेति। सर्वजगद्धेतुमिति जगतामुपादानरूपेण। शङ्करं परमेश्वरामति निमित्तरूपेण। अम्बिकापतिमिति लीलावतारूपेणानन्तानन्दाचिद्धनमिति निष्कलरूपेण प्रणिधानमिति॥ ५२ ॥ ५१॥ भक्तिपरिवश्यादेव तन्मुखादप्रयत्नेनेयमुद्गतास्तुतिः। नमः सोमायेति। सोमश्चन्द्रः शिवस्य सप्तमी मूर्तिः। इदं च पृथिव्यादिमूर्त्यन्तरसप्तकस्याप्युपलक्षणम्‌। उभया वा सहितः सोमः। रुदमनिष्टं संसारं द्रावयतीतिति रुद्रः। उक्तं च वायवीयसंहितायाम्‌— ‘रुद्दुःखं116 दुःखहेतुं च विद्रावयति नः प्रभुः। रुद्र इत्युच्यते तस्माच्छिवः परमकारणम्‌" इति॥ न केवलमनिष्टनिवृत्ताविष्टप्राप्तावपि स एव कारणमित्याह—शङ्करायेति। भक्तिव्यतिरिक्तैरुपायसहस्रैरप्यगम्यत्वकथनायतस्य निरतिशयं प्रभावमाह—महात्मन इति। तदुपपादनाय भक्तिविरहे प्रबलानामपि प्रयत्नास्तत्र कुण्ठिता इत्याह—ब्रह्मविष्णुसुरेन्द्राणामिति। उक्तं हि तल्वकारोपनिषदि ब्रह्म117ह देवेभ्यो। विजिग्ये, इत्यारभ्य परशिवानुग्रहैणैव प्राप्तविजया इन्द्रादयः स्वमाहात्म्यनिबन्धनमेव तं विजयं मेनिरे। शिवश्च तेषांविनाशहेतुं मदमपनेतुं दुरेदिव्येन ज्योतिर्मयेन रूपेणाऽऽविरासीत्किमिदं लोकोत्तरं रूपमिति विमृशन्तोऽपि ते तं नाज्ञासिषुः। तदाह तन्न118 व्यजानन्त किमेतद्यक्षामीति”। यक्षं यजनीयं119पूजार्हमिति ततस्तजिज्ञासया गतयोरग्निवाय्वोःप्रतिहतयोःस्वयं गतायेन्द्राय देवो दर्शनमपि न प्रादात्‌ ततो व्यपगतमदाय निरतिशयभत्तियुक्ताय तत्रैव हैमवतीरूपेणावतीर्यव्याहार्षीत्पर-

भक्तिगम्याय भक्तानां विदुषामात्मरूपिणे।
स्वानुभूतिप्रसिद्धाय नमस्ते सर्वसाक्षिणे ॥ ५५ ॥

इति श्रीस्कान्दपुराणे श्रीसूतसंहितायां शिवमाहात्म्यखण्डे

ग्रन्थावतारकथनंनाम प्रथमोऽधायः॥ १॥

———————————————————————————————————————————

शिवोऽयं भवतां विनाशहेतुं मदमपनेतुमनुग्रहेणाऽऽविरासीदिति। तदिदमुक्तं ध्यानगम्यायेति॥५४॥ भक्तिगम्यायेति भक्तेः फलभूतं ज्ञानयोगमाह—विदुषामात्मरूपिण इति विदुषो निजस्वरूपज्ञानिनः स्वात्मानमेव प्रापयतीत्यर्थः। इत्थंभूतस्य शिवस्य स्वरूपमाह—स्वानुभूतिप्रसिद्धायेति। स्वयं स्वतन्त्र एव भासते न प्रकाशान्तरेण। स्वातिरिक्तस्य च सर्वस्यभानेस्वयमेव हेतुर्भवति। “न120तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः। तमेव भान्तमनुभाति सर्वम्‌इति च श्रूतेरित्यर्थः॥ ५५ ॥

इतिश्रीमत्काशीविलासक्रियाशक्तिपरमभक्तश्रीमत्र्यम्बकपादाब्जसे

वापरायणे-

नोपनिषन्मार्गप्रवर्तकेन माधवाचार्येण विरचितायां श्रीसूतसंहिताता-

त्पर्यदीपिकायां शिवमाहात्म्यखण्डे ग्रन्थावतारकथनं नाम

प्रथमोऽध्यायः ॥ १ ॥

<MISSING_FIG href="../books_images/U-IMG-170230630111-12A-removebg-preview.png"/>

तात्पर्यदीदीपिकासंहितायां सूतसंहितायां

॥ द्वितीयोऽध्यायः ॥

पाशुपतव्रतम्‌

———

नैमिशीया ऊचुः—

सर्वं जगदिदं विद्वन्विभक्तं121 केन हेतुना।
उत्पन्नं केनचित्तस्मादनित्यं122 च ततः पशुः॥१॥
अज्ञत्वान्नैव हेतुःस्यान्न च प्रकृतिरेव च।
अतः सर्वजगद्धेतुरन्य एव तपोधन॥२॥

————————————————————————————————————————

अथ पाशुपतव्रतपूर्वकं123देवोपदेशादनुभवपर्यन्तं बोधो भवतीति वक्तुंद्वितीयोऽध्याय आरभ्यते। तत्रास्तिकिचिज्जगतः कारणमिति सामान्यतो जानन्त इदं तदिति विशेषेणाजानन्तो मुनयस्तज्जिज्ञासय। सूतं पप्रच्छुः—सर्वं जगदिदं विद्वन्निति। प्रश्नोपपत्तये सामान्यतो ज्ञानहेतुमाह—उत्पन्नं केनचिदिति। अनित्यत्वादेव जगदुत्पत्तिमदुत्पत्तिश्च124 न विना कारणेन। अतोऽस्ति किंचित्कारणमिति सामान्यतो ज्ञातमित्यर्थः। अधुना विशेषेण ज्ञाने कारणमाह। ततः पशुरिति॥१॥ अज्ञत्वादिति ।जगत उपादानादिज्ञानमन्तरेण तत्कर्तृत्वासिद्धेर्जीवरस्यपरिछ्छिन्नज्ञानत्वात्प्रकृतेश्च जडत्वेन तदभावान्न125 तत्कारणतोपपत्तिरित्यर्थःमलमायाकर्मलक्षणपाशत्रयबद्धा जीवाः पशवः। तत्र मलपाशमात्रबद्धाविज्ञानकलाः। ते द्विविधाः। समाप्तकलुषा असमाप्तकलुषाश्व।आद्या विद्येशाः।द्वितीयाः सप्तकोटिमहामन्त्रात्मकाः। मलकर्मलक्षणपाशद्वयबद्धाः प्रलयकलाः।तेऽपि मलकर्मणोः परिपाकभावाभावाभ्यांद्विविधाः। येषां तत्परिपाको नास्तिते कर्मवशान्नानायोनिषु

तमस्माकंमहाभाग ब्रूहि पुण्यवतां वर।

सूत उवाच—

पुरा विष्ण्वादयो देवाः सर्वे संभूय कारणम्‌॥ ३॥
विचार्य जगतो विप्राः संशयाविष्टचेतसः।
अतीव सुखदं शुद्धंरैद्रं लोकं समागमन्‌126॥ ४॥
तेषां मध्ये महादेवः संसारद्रावको हरः।
रुद्रः परमकारुण्यः127स्वयमाविरभूद्द्विजाः॥ ५॥

————————————————————————————————————————

जायन्ते। येषांतु मलकर्मपरिपाकोऽस्ति128 तेषुकेषु चिदीश्वरानुग्रहाद्भुवनपतयोभवन्ति। पाशत्रयबद्धास्तु कलादियोगात्सकलाः। तत्राष्टादशाधिकशतसंख्याकाः शिवानुग्रहान्मन्त्रेश्वरा भवन्ति। तत्र शतरुद्राःशतमण्डलिनोऽष्टौक्रोधादयोऽष्टौश्रीकण्ठवीरेश्वरौ129चेति। तद्व्यतिरिक्तानां मध्ये येषां मलत्रयपरिपाकस्तानाचार्यरूपेण शिवएव दक्षिणाऽनुगृह्णति। अपरिपक्वमलांस्तु मलपरिपाकार्थं भोगायनानायोनिषु विनियुङ्क्ते। एते सर्वेऽपि पशवः सत्यपि ज्ञानोत्कर्षतरतमभावे सार्वज्ञ्याभावान्न जगतःकर्तारः। प्रकृतेस्तुजडत्वाद्दुरत एवकर्तृत्वम्‌। अतोऽन्येनैवकेनचित्सर्वज्ञेन जगतः कर्त्रा भवितव्यम्‌॥ २॥ कोऽसाविति मुनीनां जिज्ञासा। अत्रोत्तरमथर्वशिरसिस्थितयाऽऽख्यायिकयैवसूत आह—पुरा विष्ण्वादयों देवा इति आध्यायपरिसमाप्तेः। अतीव सुखदंशुद्धमिति। तथा च श्रुतिः“देवा130ह वै स्वर्गं लोकमगमन्‌ ” इति। तदाहुः—“यन्न दुःखेन संभिन्न न च ग्रस्तमनन्तरम्‌। अभिलाषोपनीतंच सुखं स्वर्गपदास्पदम्‌’ इति॥ ३॥ ४॥ परम-

अदृष्टपूर्वं तं दृष्ट्वादेवा विष्णुपुरोगमाः।
प्रणिपत्य महादेवमपृच्छन्को भवानिति॥ ६॥
सोऽब्रवीद्भगवान्‌रुद्रः पशूनां पतिरीश्वरः।
सर्वज्ञः सर्वतत्वानां तत्वभूतः सनातनः॥ ७॥
अहमेको जगद्धातुरासं131प्रथममीश्वरः।
वर्तामि च भविष्यामि न मत्तोऽन्योऽस्ति कश्चन॥ ८॥

—————————————————————————————————————————

कारुण्यः करुणैव कारुण्यम्‌। चतुर्वर्णादिभ्यः स्वार्थेइति ष्यञ्। अदृष्टपूर्वामिति तमाविर्भूतंरुद्रंदेवाः को भवानित्यपृच्छन्‌।तदाह श्रुतिः“ते देवा132रुद्रमपृच्छन्कोभवनिति” इति॥ ५ ॥ ६ ॥ पशुनां पतिः। उक्तलक्षणानां त्रिविधानां पशूनामनुग्रहेण पालनात्पातिः। उक्तंहि मृगेन्द्रसंहितायाम्‌— “अथानादिभलापेतः सर्वोकृत्सर्वदृक्शिवः। पूर्वं व्यत्यासितस्याणोःपाशजालमपोहाति” इति। पाशानां133 स्वव्यापारे सामर्थ्याधानात्पशूनां भोगापर्वगप्रदानाच्च तेषामीष्ट इतीश्वरः। यथाऽऽहुरागमिकाः—“भुक्ति मुक्तिमणुनां स्वव्यापारे समर्थनाधानम्‌। जडवर्गस्य विधत्ते सर्वानुग्राहकःशंभुः” इति। सर्वतत्त्वानां तत्त्वभूतःइति।आप्रलयमवस्थितानि तत्त्वानि प्रलयेऽप्यवस्थानात्तुसनातनः शिवःसर्वतत्त्वानां तत्त्वभूतः।तदुक्तम्‌—आप्रलयंयत्तिष्ठति सर्वेषां भोगदायि भूतानाम्‌। तत्तत्त्वमिति प्रोक्तं न शरीरघटादितत्त्वमतःइति ॥५ ॥रुद्रस्योत्तरम्‌ \। अहमेक इति।जगद्धातुर्ब्रह्मणः सकाशादपि प्रथममहमासं वर्तामि भविष्यामि च। एकैककालकृतपरिच्छेदविरहाभिप्रायं नतु कालत्रयसम्बन्धाभिप्रायमहमेक इति न मत्तोऽन्यइति च। स्वातिरिक्तत्य काल्स्यापि निरासात्‌। अत एवचैक

मन्मायाशक्तिसंक्लृप्तंजगत्सर्वं चराचरम्‌ । `
साऽपि मत्तःपृथग्विप्रा134 नास्त्येव परमार्थतः॥

मामेवं वेदवाक्येभ्यो जानात्याचार्यपूर्वकम्‌ ।
यः पशुः स विमुच्येत ज्ञानाद्वेदान्तवाक्यजात्‌ ॥१०॥

—————————————————————————————————————————

इत्यापि द्वित्र्यादिसंख्यासम्बन्धनिरासो विवक्षितो नैकत्वसम्बन्धः। यदाह श्रुतिः—“अहमेकः135 प्रथममासं वर्तामि च भविष्यामि च नान्यः कश्चिन्मत्तो व्यतिरिक्तः” इति ॥८ ॥ कथं तर्हिलोकस्य चराचरजगद्गोचरोऽनुभव इत्यत आह—मन्मायाशक्तिसंक्लृप्तमिति। तर्हि तयैव मायया सद्वितीयत्वमिति चेन्न ।तस्या अपि परमार्थतः सत्त्वाभावादित्याह136—साऽपीति अयमभिसन्धिः।यदनुविद्धानि हि यान्यवभासन्ते तत्र तानि परिकल्पितानि यथाऽयंसर्पोऽयंदण्ड इयं धारेति रज्ज्वां इदमंशेनानुविद्धतया भासमानाः सर्पदण्डधारादयस्तत्र परिकल्पिताः। सदनुविद्धं चेदं सकलं जगदवभासते सन्घटः सन्पट इति। अतः सन्मात्ररूपेपरशिवे विश्चं परिकल्पितम्‌। न च तस्य सन्मात्रस्यानवभासने तदनुवेधेन कल्पितावभाससंभवइति सदैव तस्य प्रकाशोऽभ्युपगन्तव्यः। न च तस्य प्रकाशकान्तरं किंचिदस्ति \। स्त्रव्यातिरिक्तस्यसर्वस्य काल्पिततया जडत्वात्‌ । अतः स्वप्रकाशतया तदेव चिद्रूपम्‌। तथाच श्रूयते “सद्धीदं सर्वंसत्सदिति । चिद्धीदं सर्वं काशते काशते च” इति। तस्य च स्वात्मनोऽनतिरेकादात्मनः परमप्रेमास्पदत्वेन परमानन्दरूपत्वात्‌। श्रतिभिश्च परानन्दैकरसत्त्वंप्रतिपादितम्‌।इत्थं साच्चिदानन्दकैरसःपरमात्मा

मन्मायेत्यत्र मच्छब्देनोच्यते। कल्पितस्य जगतोऽनाद्यनन्तत्वेसर्वदोपलम्भप्रसंगान्न कादाचित्कत्वम्‌। कादाचित्कस्य च कारणपेक्षत्त्वात्तदनुरूपं किंचित्कल्पितमुपादानमङ्गीकर्तव्यम्‌। सत्योपादानत्वे137 कार्यस्यापि कल्पितत्वव्याघातात्तस्य च कारणस्याऽऽदिमत्त्वेतादृक्कारणान्तरकल्पनानवस्थापातादनाद्येव तत्स्वीकर्तव्यंसेयमुच्यते मायेति। सा च सत्वरजस्तमोगुणात्मिकाऽपि नसांख्याभिमतप्रधानवत्स्वतन्त्रा किंत्वीश्वरस्य परतन्त्रेत्याशयेन शक्तिरित्युक्तम्‌। ‘शक्तिरिति परतन्त्रतामाहोति’विवरणाचार्याः। ते च गुणाः परस्पराभिभवात्मकाः। उक्तं हि गीतासु—“रजस्तम138श्चाभिभूय सत्त्वं भवति भारत। रजः सत्वंतमश्चैवतमः सत्त्वंरजस्तथा” इति॥ तेन सा माया त्रेधा भवति। रजस्तमसोरत्यन्ताभिभवेन विशुद्धसत्त्वात्मिका तावदेका। ईषदुद्भृताभ्यांरजस्तमोभ्यांमलिनसत्त्वात्मिका द्वितीया। तमसोऽत्यन्तमुद्भवेनात्यन्ताभिभूतयोः. सत्त्वरजसोरसत्प्रायत्वात्केवलतमोमयी तृतीयेति। तत्र मन्मायेत्यत्र मच्छब्दोपलक्षितं मायातीतंसच्चिदानन्दैकरसं पराशिवस्वरूपम्‌। विशुद्धसत्त्वप्रधाना तु माया मायिनं न वशीकरोति। किन्तुतस्यवशे वर्तते। तथाच स्वाधीनमायोपाधिविशिष्टंतदेव परशिवस्वरूपमिह मच्छब्देनाभिधीयमानमीश्वरो जगत्कर्ता सर्वज्ञो भोगप्रद इत्यादिशब्दैरुच्यते। उक्तं हि व्यासेन “फलमत139उपपत्तेः ” इति। मलिनसत्त्वप्रधाना तु मायिनं वशीकरोति तद्वशीकृतं च चेतन्यं जीवः संसारी कर्ता भोक्तेत्यादिभिरुच्यते। फेवलतमोमयी तु॒ स्वाश्रयमसत्प्रायंकृत्वा भूतभौतिकजगदात्मकभोग्यरूपेण चविवर्तते140। तत्र मच्छब्दनाभिहितो य ईश्वरो भोगप्रदस्तत्परतन्त्रा माया मन्मायाशक्तित्युक्ता। तथैव द्वितीयां दशां प्राप्तयोपाधिभूतया विशिष्टा भोक्तारो जीवशब्देनोक्ताः। तयैव तृतीयां दशां प्राप्तयोपाधिभूतयाविशिष्टं भोग्यं

इत्युक्त्वा भगवान्रुद्रः स्वं141पूर्णं रूपमाविशत्‌।
नापश्यन्त ततो रुद्रं देवा विष्णपुरोगमाः॥११॥

—————————————————————————————————————————जडं जगदचरमित्युच्यते। इत्थं भोगप्रदभोक्तृभोग्यविभागकल्पिकाया मायायाः कल्पितत्वान्मायातीतपरशिवव्यतिरेकेण परमार्थतो न भाव इति। तदुक्तं श्वेताश्वतरोपनिषदि—“भोक्ता142 भोग्यं प्रेरितारं च मत्वा सर्वंप्रोक्तं त्रिविधं ब्रह्मचैतत्‌” इति।यावद्ब्रह्मन जानाति तावतप्रेरयिता भोगप्रद ईश्वरः।भोक्ता जीवः भोग्यंजगदिति विभागः143।ब्रह्म मत्वा144 तु स्थितस्यैतत्रिविधं ब्रह्मैव भवाति।अतो मायाशाक्तिसंक्लृप्तमित्यर्थः। आगमिका अप्याहुः— “शिवो145 दाता शिवोभोक्ता शिवः सर्वमिदं जगत्‌। शिवोयजति यज्ञैश्चयः शिवःसोऽहमेव हि" इति।मायातीतः शिव एव स्वमायया भोगदाता भोक्ता भोग्यं च भवति।यदा तु भोक्ता शिवंसाक्षात्कुरुते तदा विभाग हेतुभूताया मायाया नाशात्स्वयं शिवरूपतामेव प्रतिपद्यत इत्यर्थः।अयमर्थः सर्वोऽग्रेप्रपञ्चन भविष्यति॥९॥ उक्तमायापरिहारेण शिवस्वरूपप्राप्तावुपायमाह मामेवमिति। वेदवाक्येभ्य इति। तत्त्वमसीत्यादिभ्यः।स एव मुख्य उपायः।“तंत्वौपनिषदम्‌"इति श्रुतेः।आचार्यपूर्वकमिति। “आचार्यवान्पुरुषोवेद” इति श्रुतेः।यो जानाति सोऽज्ञानान्मुच्यते’ इति। ब्रह्मवेद ब्रह्मेव भवति’इति। तमेवविदित्वाऽतिमृत्युमेति’।तमेवं विद्वानमृत इह भवति नान्यः पन्था विद्यतेऽयनाय’ इति च श्रुतेः॥ १०॥ इत्थं गुरूपदेशादेव ज्ञातव्यंस्वरूपमुपदिश्य तत्साक्षात्कारसाधनानां पाशुपतव्रतप्रणपञ्चाक्षरजपादीनां शास्त्रत एव देवैर्ज्ञातुं शक्यत्वेन कर्तव्याभावाच्छिवः

अथर्वशिरसा देवमस्तुवंश्चोर्ध्वबाहवः।
अन्यैर्नानाविधैःसूक्तैःश्रीमत्पञ्चाक्षरेण च॥ १२॥
पुनः साक्षाच्छिवज्ञानसिद्ध्यर्थंमुनिपुङ्गवाः।
अग्निहोत्रसमुत्पन्नं भस्माऽऽदायाऽऽदरेण तु॥ १३॥
निधाय पात्रे शुद्धे तत्पादौप्रक्षाल्य वारिणा।
द्विराचम्य146 मुनिश्रेष्ठाः सपवित्राः समाहिताः॥ १४॥
ओमापः सर्वमित्येतन्मन्त्रमुच्चार्यभक्तितः।
ध्यात्वाविष्णुं जलाध्यक्षं गृहीत्वाभस्म वारिणा॥१५॥
विमृज्य मन्त्रैर्जाबालैरग्निरित्यादिसप्तभिः।
समाहितधियः शुद्धाशिवं ध्यात्वाशिवामपि॥ १६॥
समुद्धूल्य मुनिश्रेष्ठा आपादतलमस्तकम्‌।

————————————————————————————————————————स्वप्रविष्ठोऽभवदियाह—इत्युक्त्वाभगवान्रुद्र दाति॥ ११॥ उपदेशपरि तुष्टास्तुष्टुवुरित्याह—अथर्वशिरसा देवमिति। यो वैरद्र इत्यादिनेत्यर्थः। तदाह श्रुतिः - ततो147 देवा रुद्रंनापश्यन्‌। ते देवारुद्रं ध्यायन्ति।ते देवा ऊर्ध्वबाहवःस्तुन्वन्ति148।यो वैरुद्रः; स भगवानित्यादि। अलभ्यलाभनिबन्धनस्य हर्षोत्कर्षस्य लिङ्गमूर्ध्वबाहुत्वम्‌। अन्यैर्नानाविधैः सूक्तैरिति। शतरुद्रियादिभिः॥ १२॥ १३॥ १४॥ ओमापः सर्वमिति। ‘ओमापो149 ज्योती रसोऽमृतं ब्रह्म भृभुवः स्वरोम्‌ इत्येतन्मत्रामित्यर्थःसर्वशब्देनार्थद्वारा ज्योतिरादयः शब्दा गृह्यन्ते॥ १५॥ अग्निरित्यादीति। सप्तभिरिति शब्दपरो निर्देशः। आदिशब्देन जलमिति स्थलमित्यादयो गृह्यन्ते १६॥

सितेन भस्मना तेन ब्रह्मभूतेन भावनात्‌॥ १७॥
ललाटे हृदये कुक्षौ दोर्द्वंद्वेच सुरोत्तमाः।
त्रिपुण्ड्रधारणं कृत्वा ब्रह्मविष्णुशिवात्मकम्‌॥ १८॥
एवं कृत्वा व्रतं देवा अथर्वशिरसि स्थितम्‌।
शान्ता दान्ता विरक्ताश्च त्यक्त्वाकर्माणि सुव्रताः॥१९॥
वालाग्रमात्रं विश्वेशं जातवेदस्वरूपिणम्‌।
हृत्पद्मकर्णिकामध्ये ध्यात्वा वेदविदां वराः॥ २०॥
सर्वज्ञं सर्वकर्तारं समस्ताधारमद्भूतम्‌।
प्रणवेनैव मन्त्रेण पूजयामासुरीश्वरम्‌॥ २१॥
अथ तेषां प्रसादार्थं पशूनां पतिरीश्वरः।
उमार्धविग्रहः श्रीमान्सोमार्धकृतशेखरः॥ २२॥
नीलकण्ठो निराधारो निर्मलोनिरुपप्लवः।
ब्रह्मषिष्णुमहेशानैरुपास्यः परमेश्वरः॥ २३॥

————————————————————————————————————————ब्रह्मभूतेनेति। ब्रह्मत्वेन भाव्यमानतया ब्रह्मीभूतेनेत्यर्थः॥ १७—१९॥ वालाग्रमात्रमिति। अतिसूक्ष्मे दहराकाशेउपलभ्पमानत्वादीशस्य150 वालाग्रमात्रत्वम्‌। जातमाविर्भूतंवेदो ज्ञानं तदेवस्वरूपं तद्वन्तम्‌। यद्वा चरमसाक्षात्कारवृत्त्यभिव्यक्तेः151 सकारणं संसारं दहतीति जातवेदा इत्यग्नित्वारोपः। श्रूयते हि—वालाग्रमात्रं152 हृदयस्य मध्ये विश्वं देवं जातवेदंवरेण्यम्‌ , इति॥ २०—२१॥ अथ तेषामिति। प्रसादो नैर्मल्यं संस्काराविदानिवृत्ति-

सांनिध्यमकरोद्रुद्रः साक्षात्संसारनाशकः153
यं प्रपश्यन्ति वेदान्तैःस्वरूपं सर्वसाक्षिणम्‌ २४ ॥
तमेव शङ्करं साक्षाद्ददृशुः सुरसत्तमाः।
यं न परयन्ति दुर्वृत्ताः श्रौतस्मार्तविवर्जिताः॥ २५ ॥

—————————————————————————————————————————स्तदर्थमित्यर्थः। ननु व्रतादिभ्यः पूर्वमपि देवैः शिवः साक्षात्कृतः सन्नुपदिदेशेत्युक्तम्। व्रतादिभिः को विशेषो जात इति। न।सकलंरूपंतत्र साक्षात्कृतम्‌154। निष्कलंतु शिवेनोपादिष्टं सच्छब्दतः परोक्षतयैव ज्ञातम्‌। अघुना तु व्रतादिभिः प्रतिबन्धकदुरितप्रक्षयाद्यत्प्राक्वरोक्षतया ज्ञातं तदेव निष्कलंतत्त्वंप्रत्यक्षतोऽपश्यन्निति विशेषः। नन्वत्राप्युमार्धविग्रहः सोमार्धकृतशेखर इति सकलमेव रूपमुच्यते। न। यः प्राग्दृष्टःसकलउमार्धविग्रहादिरूप इत्यनूद्य स एव निराधारत्वनिर्मलत्वादिना निष्कलरूपेण साक्षात्सानिध्यमपरोक्षज्ञानविषयभावमकरोदीति विधानात्‌। निराधारः। स्वमहिमप्रतिष्ठत्वात्‌। स155भगवः कस्मिन्प्रतिष्ठितइति स्वे महिम्नीति श्रुतेः। मायापारतन्त्र्यलक्षणकालुष्यविरहान्नैर्मल्यम्‌। अत एव मायाकार्यसंसारोपप्लवविरहान्निरुपप्लवः॥२२—२३ ॥ तदेव साक्षात्क्रियमाणं निष्कलंरूपं सकलाद्विविच्य विशदीकर्तुमाह —यंप्रपश्यन्तीत्यादिभिः। वेदान्तैः’सत्यं156ज्ञानमनन्तं ब्रह्म’इत्यादिभिः पदार्थपदैरवान्तरवाक्यगतैस्तत्वमस्यहं ब्रह्मास्मीत्यादिभिर्महावाक्यगतैश्च पदैरभिधावृत्त्यासगुणं रूपं ज्ञात्वालक्षणया निष्कलंरूपंपश्यन्तीत्यर्थः। तथाहि सत्यज्ञानानन्तानन्दशब्दाःपरापरजातिवाचिनस्तदाधारभूतामेकामानन्दव्यक्तिंब्रह्मत्वेनलक्षयन्ति। तत्त्वमस्यहं ब्रह्मास्मीत्यादौतदादीनि पदानि सर्वज्ञत्वजगत्कारणत्वादिविशिष्टंत्वमादीनि च संसारादिविशिष्टमभि-

तमेव शंकर साक्षाद्ददृशुर्देवपुंगवाः।157
यत्प्राप्त्यर्थंद्विजैर्वेदा अधीयन्ते समाहितैः॥ २६॥
तमेव रुद्रमीशानं ददृशुस्त्रिदशाभृशम्‌।
यं यजन्ते मुनिश्रेष्ठाः श्रद्धयाब्राह्यणोत्तमाः॥ २७॥
तमेव परमं देवंदद्दशुःस्वर्गवासिनः।
यंप्रपश्यन्ति देवेशं योगिनो दग्धकिल्विषाः॥ २८॥

—————————————————————————————————————————धाय विरुद्धं विशेषणांशद्वयंपरित्यज्याखण्डैकरसंलक्ष्यन्ति। स्वरूपमिति। स्वं निरस्तसमस्तोपाधिकंरूपमित्यर्थः। सर्वसाक्षिणामिति। यथा साक्षी व्यवहाराननुप्रविष्ट उदासीन एवं संसाराननुप्रविष्टमुदासीनामित्यर्थः। अत्रापि शंकरमिति सकलंरूपमनूद्यतस्य तमेव158 साक्षाद्ददृशुरिति निष्कलरूपतया साक्षाद्दर्शनमुच्यते। यद्वाशंसुखंसंसारिणां मुक्तानां च करोतीति शंकरः। तथाहि शुभकर्मोपस्थापितविषयेन्द्रियसंप्रयोगजनितान्तकरणवृत्तौपर एवाऽऽनन्दः संसारिणां मत्रया व्यज्यते। श्रूयते हि एतैस्यैवाऽऽनन्दस्थान्यानि159 भूतानि मात्रामुपजीवन्ति” इति। सकलसंसारनिवृत्तौच साकल्येन्‌ व्यज्यते। “एषोऽस्य160 परमानन्दः इति श्रुते। तदुक्तं तत्त्वविद्भिः—स्वमात्रयाऽऽ नन्दयदत्र जन्तून्सर्वात्मभावेन तथा परत्र। यच्छंकरानन्दपदं हृदब्जे विभ्रा जते तद्यतयो विशन्ति” इति॥ २५॥ यत्प्राप्त्यर्थंद्विजैर्वेदा अधीयन्ते। यं यजन्त इति।‘तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन’ इति श्रुतेः। रुदरमीशःनमिति शंकरपदवदनुवादत्वमेव। यद्वारुदं दुःखंद्रावयतीति रुद्रः।अपरतन्त्रत्वादीशानश्चेति निष्कलपरतया व्याख्येयम्‌॥ २७॥

तमेव शर्वमानन्दं ददृशुर्लोकनायकाः।
यस्य प्रसादाद्भगवान्विष्णुर्विश्वजगत्पतिः॥ २९॥
तमेव सर्वलोकेशंददृशुः पुरुषाधिकाः।
यत्प्रसादाद्द्विजा ब्रह्मा स्रष्टासर्वस्य सुव्रताः॥ ३०॥
तमेव सत्यमीशानं161 ददृशुः सत्वसंयुताः।
अथ ते तुष्टवुर्देवाः साम्बं सर्वफलप्रदम्‌॥ २१॥
संसाररोगदःखस्य भेषजं गद्गदस्वराः।
अथ देवो महादेवः साम्बोदेवैरभिष्टुतः॥ ३२॥
विलोक्य देवानखिलान्प्रीतोस्मीत्यब्रवीद्धरः।
पुनर्देवान्समालोक्य रुद्रो विष्णुपुरोगमान्‌॥ ३३॥
प्राह गम्भीरया वाचा भगवान्करुणानिधिः।
अहमेव परं तत्त्वं मत्तो जातं जगत्सुराः॥ ३४॥

———————————————————————————————————————— न केवलंविविदिषन्ति विदन्ति चेत्याह—यं प्रपश्यन्ति देवेशं यागिन रति॥ २८॥ यस्य प्रसादादति। यद्विष्णोर्जगतः प्रतिपालने सामर्थ्यं यद्ब्रह्मणस्तत्सूष्टौसामर्थ्यं तदुभुयं शिवप्रसादादेवेत्यर्थः॥३०॥ सत्वसंयुता विशुद्धसत्त्वाः। श्रूयते हि— ‘ज्ञानप्रसादेन विश्युद्धसत्त्वस्ततस्तु तं पश्यते162 निष्कलं ध्यायमानः’ इति। अथतंतुष्टुवुरिति। इयमपरोक्षज्ञानलाभनिबन्धनास्तुतिः अथर्वशिरसादेवमस्तुवन्नितितूपदेशतः परोक्षज्ञानलाभनिवन्धना स्तुतिरिति। सर्वफलप्रदमिति। निरतिशयानन्दत्वेन सुखजातस्य समस्तस्यात्रैवान्तर्भावात्‌। श्रूयते हि—‘यो वेद’‘सोऽश्नुते163 सर्वान्कामान्सह’इति॥ ३१ ॥ ३२॥ ३३ ॥ ननूपदेशेन परोक्षज्ञानं देवानां शिवेन प्रागेवजनितम्‌। प्रागुक्तपाशुपतव्रतादिसाधनैश्च तैस्तन्निष्कलं रूप.

मय्येव संस्थितंनष्टं मत्समोनाधिकःसदा।
मत्स्वरूपपरिज्ञानादेव संसार164निर्हृतिः॥ ३५ ॥
मम ज्ञानं च वेदान्तश्रवणादेव जायते।
मुमुक्षोर्व्रतनिष्ठस्य प्रशान्तस्य महात्मनः ॥ ३६ ॥
त्यक्तकर्मकलापस्य ध्याननिष्ठस्य शूलिनः।
यज्ञदानादिभिः क्षीणमहापापार्णवस्य च॥ ३७ ॥

————————————————————————————————————————

मपरोक्षतया ज्ञातम्‌। किमतः परमहमेव परं तत्त्वमित्यादिना तेभ्यः शिवेनोपदेष्टव्यम्‌। अथ तस्य तन्निष्कलरूपस्य साक्षात्कृतस्यापि वक्त्रास्वस्मादभेद उपदिश्यत इति। न । तस्याप्यहमेकोजगद्धातुरि165त्यादिना प्रथमत एवोपदिष्टवान्। सत्यम्‌। येयंममनिष्कलरूपता भवद्भिः प्रागुपदेशतोज्ञाता सैवेयमिदानीं भवद्भिःसाक्षात्कृतेति देवैर्ज्ञाताया अपि शिवेन प्रत्यभिज्ञाप्यमानत्वात्‌। मत्तो जातमिति। ‘यतो वा इमानिभूतानि जायन्ते। येन जातानि जीवन्ति। यत्प्रयन्त्यभिसंविशन्ति’ इति श्रुतेः। मत्समोनाधिकः सदेति । मुक्तौद्वितीयस्यैवाभावात्संसारे सतोऽपि द्वितीयस्य शिवादपकृष्टत्वान्न कदाचिदपि परः166 शिवेन समोऽस्तिकुतोऽभ्यधिकस्य कथा। श्रूयतेहि—‘न तत्समश्चाभ्यधिकश्च दृश्यते" इति। ज्ञानस्य मोक्षहेतुत्वंयत्प्रागुपदिष्टम्‌ ‘यो जानाति समुच्यते’इति तत्प्रत्यभिज्ञापयति—मत्स्वरूपपरिज्ञानादिति ॥ ३४ ॥ २५ ॥ ज्ञानस्य वेदान्तहेतुकत्वमुपदिष्टम्‌। ज्ञानं वेदान्तवाक्यजम्’इति तत्प्रत्यभिज्ञपयाति—मम ज्ञानं चेति। तदपि श्रवणमभिहितव्रतादिक्षपितकल्मषस्यैव फलपर्यन्तं भवति नान्यस्येत्याह—मुमुक्षोरिति। विविदिपापरिपन्थिपापापनयनं यज्ञादिना उत्पन्नविविदिषस्य मुमुक्षोर्वेदनपरिपन्थिपापापनयो व्रतादिनेति॥३ ६॥ त्यक्तकर्मेति। विक्षेपकत्वेनकर्मकलापस्य ध्यानविरोधित्वात्‌। शूलिनइति

एवं मां यो167 विजानाति स सर्वंवेद नेतरः।
उक्तं वेदान्तविज्ञानं युष्माकं सुरपुङ्गवाः॥ ३८॥
व्रतं पाशुपतं चीर्णं यैर्द्विजैरादरेण च।
तेषामेवोपदेष्टव्यमिति वेदानुशासनम्‌॥ ३९॥

सूत उवाच—

इत्युक्त्वाभगवान्रुद्रस्तत्रैवान्तरधीयत।
ततो देवा मुनिश्रेष्ठादेवदेवस्य वैभवम्‌॥ ४०॥

———————————————————————————————————————————

कर्मणि षष्ठी। शिवगोचरं यद्ध्यानं तान्निष्ठस्येत्यर्थः॥ ३७ ॥स सर्वंवेदेति। एकविज्ञानेन सर्वविज्ञानश्रुतेः। उक्ताधिकारकारणाभावे जातमपि ज्ञानमृषरनिक्षिप्तं बीजमिवनिष्फलं भवेदित्याह—नेतर इति। “येषां तपो ब्रह्मचर्यं येषुसत्यं प्रतिष्ठितम्‌। तेषामसौ। विरजोब्रह्मलोकोन येषु जिह्ममनृतं न माया च’ इति श्रुतेः। ब्रह्मैव लोको निष्कलः शिव इत्यर्थः॥३८॥ अत एव व्रतादिभिर्जनिताधिकाराणामेवोपदेष्टव्यमित्याह— व्रतंपाशुपतंचीर्णामिति। लोकरञ्जनमात्रप्रयोजनतया दाम्भिकैःकृतमपि व्रतादिकंनिष्फलमेवेत्याह—आदरेणेति। इति वेदानुशासनमिति। “क्रियावन्तः168 श्रोत्रिया ब्रह्मनिष्ठाः स्वयं जुह्वत एकर्पिश्रद्धयन्तः। तेषामेवैतां ब्रह्मविद्यां वदेत शिरोव्रतंविधिवद्यैस्तु चीर्णम्‌ इत्यादिश्रुतेः। अत्रैकर्षिहोमशिरोव्रतादिकमध्ययनधर्मत्वादाथर्वणिकानामेव। अन्येषां तु शिरोव्रतापरपर्यायं पाशुपतंपूर्वोक्तं सर्वश्रोतृसाधारणं क्रियावत्त्वादिकमेव विद्याधिकारकारणम्‌। तदुक्तं व्यासेनस्वाध्यायस्य169 तथात्वेन हि समाचारेऽधिकाराच्च सववच्च तन्नियमः’ इति॥ ३९॥ अतः सर्वजगद्धेतुरन्य एवेतिमुनिभिःप्रश्ने यन्निर्दिष्टंतदेतद्देवेभ्यःशिवेनोपदिष्टमिति सूतः प्रत्यभिज्ञापयन्नुपसंहरति—इतीति। ते जगद्धेतुममन्य-

विदित्वा तं जगद्धेतुममन्यन्तानसूयवः।
तस्माद्युयमपि श्रेष्ठाः सर्वज्ञं परमेश्वरम्‌॥ ४१॥
जगतः कारणं बुध्वा भजध्वं सर्वकारणम्‌।
सोऽपि सर्वजगद्धेतुःसोमः सोमार्धशेखरः॥ ४२॥
प्रसादाभिमुखो भूत्वाब्रह्मविष्ण्वादिभिः सह।
सांनिध्यं वेदविच्छ्रेष्ठाः करिष्यत्याखिलेश्वरः॥ ४३॥
इति श्रुत्वामहात्मानो नैमिशारण्यवासिनः।
महादेवस्य माहात्म्यंश्रीमत्पाशुपतस्य च॥ ४४॥
हृष्टचित्ता महात्मानं सूतं सर्वार्थसागरम्‌।
प्रणम्य पूजयामासुः भक्त्याविज्ञप्तिसिद्धये॥ ४५॥

——————————————————————————————————————————— न्त इति। मुनिश्रेष्ठा इति संबोधनम्‌। हेमुनिश्रेष्ठा देवाअमन्यन्तेयन्वयः,अनसूयवइति। असूया हि चित्तस्य मलम्‌। मदिनाचित्तस्तुन बुध्यन्ते। अत एव चित्तस्य मलनिरासकारिकर्माप्युक्तानि पतञ्जलिना। “मैत्रीकरुणामुदितोपेक्षाणां सुखदःखपुण्यापुण्यविषयाणां भावनातश्वित्तप्रसादनमित्यादीनि’। सुखितेषु मेत्री भावयतः परकीयमपिसुखं स्वकीयमेवेत्यभिमानाच्चित्तगतमीर्ष्यामलं निवर्तते। दुःखितेषुकरुणां भावयतः स्वयंदुःखात्पादनहेतुद्वेषमलं निवर्तते। पुण्यकृत्सुमुदितां भावयतोगुणेषुदोषारोपणरूपमसूयामलं निवर्तते। पापिष्ठेषुपेक्षां भावयतस्तत्संसर्गत्यागात्संसर्ग जदोषमलं निवर्तत इति। शिवस्य देवैःसह संवादोपन्यासस्य फलमाह—तस्माद्यृयमिति। भजनफलमाह सोऽपि सर्वजगद्धेतुरिति॥४०—४३॥ सूतमुनिसंवादमुपन्यस्तंव्यास उपसंहरति—इति श्रुत्वेति। विज्ञप्तीति। ज्ञपेः’सनीवन्तर्धइतिसनीडागम विकल्पात्‌ ‘यस्यविभाषा’इति निष्ठायामुक्तोयो निषेधः सः’ऋल्वादिभ्यः क्तिन्निष्ठावद्भवति’इति निष्ठाबद्भावात्‌ क्तिन्यपि भवति॥ ४४—४५॥

इति श्रीस्कान्दपुराणे श्रीसूतसहितायां शिवमा

हात्म्यखण्डे पाशुपतव्रतंनाम

द्वितीयोऽध्यायः॥ २॥

तृतीयोऽध्यायः।

३. नन्दीश्चरविष्णुसंवादेनेश्चरप्रतिपादनम्‌।

नैमशीया ऊचुः—

भगवन्कः सुरैः सर्वैरसुरैःसिद्धकिंनरैः।
मुनिभिर्यक्षगन्धर्वैस्तथाऽन्यैःसर्वजन्तुभिः॥ १॥
भुक्त्यर्थं च विमुक्त्यर्थं पूञ्यः पुण्यवतां वर।
तमस्माकं महाभाग ब्रुहि सर्वार्थवित्तम॥ २॥

———————————————————————————————————————————

इति श्रीमत्काशीविलासक्रियाशक्तिपरमभक्त श्रीमत्र्यम्ब्रकपादाब्जसेवापरायणेनोपनिषन्मार्गप्रवर्तकेन माधवाचार्येण विरचितायां श्रीसृतसंहितातात्पर्यरदीपिकायां शिवमाहात्म्यखंण्डेपाशुपतव्रतं नाम

द्वितीयोऽध्यायः॥२॥

विरक्ताः शिवसेवया तत्त्वज्ञानेन मुच्यन्ताम। येतु न केवलं मोक्षं भोगानप्यपेक्षन्ते तैः को देवः सेव्य इति मुनयः सूतं पृच्छन्ति—भगवन्कः सुरैरिति॥ १ ॥ भुक्त्यर्थमिति। प्रथमतो भुक्त्यर्थं क्रमेण मुक्त्यर्थं च। अथवा सर्वेषां मध्ये कैश्चद्भुक्त्यर्थमपरैर्मुक्त्यर्थमिति विभागेन सर्वैरुभयार्थमित्यर्थः। क्रममुक्तिरपि हि श्रुयते—‘स सामभिरुन्नीयते ब्रह्मलोकं स एतस्माज्जीवघनात्परात्परं पुरिशयं पुरुषमीक्षते’ इति॥ २॥ स्वयमुपरतचित्तैः

सूत उवाच—

साधु साधु महाप्राज्ञाः पृष्टमेतज्जगद्धितम्।
वक्ष्ये तंश्रद्धयोपेताः शृणुध्वंमुनिपुङ्गवाः॥ ३॥
पुरा विष्णुर्जगन्नाथः पुराणः पुरुषोत्तमः।
मायया मोहितः साक्षाच्छिवस्य परमात्मनः॥ ४॥
अहमेव जगत्कर्ता मय्येवेदंजगत्स्थितम्‌।
मत्समश्चाधिकश्चापि नास्ति सर्वत्र सर्वदा॥ ५॥
मम शक्तिविलासोऽयं जगत्सर्वं चराचरम्‌।
अहमेव समाराध्यः सर्वदा सर्वजन्तुभिः॥ ६॥
इत्यहंमानसंछन्नः स्वात्मभृतं महेश्वरम्‌।
अविज्ञायाम्बिकानाथमनन्तानन्दाचिद्धनम्‌॥ ७॥

———————————————————————————————————————————केवलंमोक्षापेक्षैरपि भवद्भिःकरणया भोगार्थिभ्योहितमेतत्पृष्टमित्याह—जगद्धितमिति॥२॥ पुरुषोत्तम इति। पुरुषेषूत्तम इति पुरुषोत्तमः। ‘यतश्च निर्धारणम्‌’ इति विहितया निर्धारणसप्तम्या सामासः। पुरुषश्चासावुत्तमश्चेति सामानाधिकरण्ये हि ‘सन्महत्परमोत्तम ’ इति प्रथमानिर्दशात्पूर्वनिपात उत्तमपुरुष इति स्यात्‌। पुरुषाणामुत्तम इति निर्धारणषष्ठ्यां तु ‘न निर्धारणे’ इति समासनिषेधः। अतो यथोक्त एव विग्रहः। विष्णोरप्येतादृशीदशाकैवान्यस्य कथेति विवक्षया विष्णूदाहरणम्॥४॥ मोहमूलवचनमाह—अहमेव जगत्कर्तेति॥५॥६॥ नन्वहमेवजगत्कर्तति जीवेश्वरतादात्म्यप्रतिपादकमिदं महावाक्यं तदनुसंधानेऽस्य विष्णोः कर्थं व्यामोह इत्यत आह—इत्यहंमानसंछन्नइति। वाच्यार्थपरित्यागेन लक्ष्यस्यचिदानन्दघनस्यानुसंधानेन व्यामोहः। अहंकारविशिष्टं त्वात्मानं मन्यमानस्य तस्यासदेव सार्वज्ञ्यं

___________________

१. भावकः. ख.

अतीवाऽऽज्ञापयामास ब्रह्मादीनखिलान्हरिः।
अथ देवो महादेवः सर्वात्मा सर्वभासकः॥ ८॥
तस्य शक्तिं समाहृत्य मोहयामास शङ्करः।
ततस्तत्प्रमुखाः सर्वे ब्रह्माद्याः पशवो भृशम्‌॥ ९॥
मोहिता मायया शंभोर्विवशाश्र विशेषतः।
एतस्मिन्नन्तरे श्रीमान्नन्दी शंकरवल्लभः॥ १०॥
सर्वविज्ञानरत्नानामाकरः करुणालयः।
ममागत्य हरिव्रह्यप्रमुखानमराधिपान्‌॥ ११॥
बोधयामास सर्वज्ञः परं भावं शिवस्य तु।

नन्दिकेश्वर उवाच—

विष्णोविश्वजगन्नाथःशंकरः परमेश्वरः॥ १२॥

———————————————————————————————————————————

ब्रुवतःकथंन व्यामोह इत्यर्थः॥ ७ ॥ ८॥ अविमर्शदशायां व्यामुह्यतोऽपि विष्णोर्विमर्शकाले विवेकः स्यात्तमपि शिवःसंजहार ब्रह्मादिसकललोकव्यामोहजननापराधनिमित्तेनेत्याह—तस्यशक्तिमिति॥ ९॥ नन्दी देवानप्यनुग्रहीतुं समर्थ इत्याह—सर्वविज्ञानेति। न केवलमनुग्रहसमर्थः। अनुग्रहशीलोऽपीत्याह—करुणालय इति। उभयत्र कारणमाह—शंकरबल्लभ इति॥ १०॥ ११॥ परं भावामिति।भावो सत्ता शिवस्य यः परो भावो निष्कलंरूपं तद्धिस्वरूपं पारमार्थिकत्वात्सदित्युच्यते। तदेव स्वात्मनिपरिकल्पितेषु समस्तवस्तुषुसत्सदित्यनुगमात्सत्तेत्युच्यते जलतरङ्गचन्द्रप्रतिबिम्वेष्वनुगतंचन्द्ररूपं यथा तद्वत्‌। सा चानुगम्यमानवस्तूपहिताऽपरो भावः। उपाध्यपगमे त्वनुगतं सन्मात्रं सत्परोभावः। सकलं वा विश्वाधिकं सोऽपि स्वेतरसमस्तवस्त्वतिशायित्वात्परो भावः। ‘विश्वाधिको रुद्रो महर्षिरति ’ हि श्रतिः। तस्य विश्वाधिकत्वेविश्वस्यस्वत्वंतस्य च

सर्वसाक्षी महानन्दः सर्वात्मत्वेन संस्थितः।
स एव सर्वजन्तूनामात्मा सर्वावभासकः॥ १३॥
अस्य प्रसादलेशस्य लवलेशलवेन तु।
इदं विष्णुपदं लब्धंत्वया नान्येन हेतुना॥ १४॥
अन्येषामपि सर्वेषां पदमस्य प्रसादतः।
अनेनेदं जगत्सर्वंविना न भवति स्वयम्‌॥ १५॥
अयं धाता विधाता च सर्वदा सर्ववस्तुनाम्‌।
यथा वैश्वानरेणद्धमयोदहति भातिच॥ १६

**———————————————————————————————————————————**स्वामित्वमिति स्वस्वामिभावलक्षणं कारणमाह—विश्वजगन्नाथ इति। भोगापवर्गप्रदानलक्षणं शंकर इति। नियमनसामर्थ्यं परमेश्वरं इति। सर्वज्ञत्वं सर्वसाक्षीति। नित्यतृप्ततामाह महानन्द इति। स्वात्मन्यध्यस्तस्य सर्वस्य सत्तास्फूर्तिप्रदत्वंसर्वात्मत्वेनेति। न केवलंभोग्यवर्गस्य अपि तु भोक्तृवर्गस्यापि स एवाऽऽत्मेत्याह स एव सर्वजन्तूनामत्मिति। नच तदात्मकस्य तन्नियन्तृत्वाद्यसंभवः। वास्तवंहि तादात्म्यम्‌। लीलाकल्पितविभागनिबन्धनं तु नियन्तृत्वादीति। अत एव हि श्रूयते ‘अन्तः प्रविष्टः शास्ता जनानां सदात्मेति’। आत्मत्वेसत्ताप्रदत्वं कारणमाह सर्वावभासक इति। स्वसत्तयैव लब्धसत्ताकंकरोतीत्यर्थः॥ १२॥ १३॥ विश्वाधिकत्वंवक्तुं शिवस्योत्कर्षमुक्त्वातदन्यस्यापकर्षमाह अस्य प्रसादेति॥ १४॥ १५॥ धाता पोषकः। विधाता निर्माता। अतस्तेन पोष्यत्वं निर्मायमाणत्वंच तदन्यस्य ततोऽपकर्षे हेतुरित्यर्थः। वस्तुनामिति’सज्ञापुर्वकोविधिरनित्यः’इत्यदीर्घत्वम्‌। अन्येषामपि स्वोपजीविनः प्रति यत्पोषकत्वादि तच्छिवप्रसादलब्धत्वाच्छिवस्यैवेत्यत्र निदर्शनमाह यथा वैश्वानरेणेति। अयसो यद्दग्धृत्वं भानं च तद्यथा वह्नेस्वे तथेत्यर्थः। उत्तरत्र चायं दृष्टान्तः। अयसो यथा दाहप्रकाशौ वह्नेरेवैवं विषयानन्दाः सर्वेऽपि शिवस्यैव स्वरूपभूता

तथाऽनेन भवत्येतज्जगत्सर्वं विभाति च।
अस्याऽऽनन्दस्य भूतानि लेशमन्यानि सर्वदा॥ १७॥
लब्ध्वा संतोषमापन्नान्यतीव ब्रह्मवित्तमाः।
अस्यैवाऽऽज्ञालबाकृष्टं जगन्नित्यंप्रवर्तते॥ १८॥
अविज्ञायैनमात्मानं भवानत्यन्तमोहितः।
अहंकाराभिभूतश्र भवता मोहितं जगत्‌॥ १९॥
अतरस्त्वं भ्रान्तिभूत्सृज्य स्वात्मभूतं महेश्वरम्‌।
आराधयाऽऽदरेणैव सह देवैरुमापतिम्‌॥ २०॥

सूत उवाच—

इत्युक्त्वा मुनयः श्रीमान्नन्दी राङ्करवल्लभः।
अगमद्रथमारुह्यश्रीमत्कैलसपर्वतम्‌॥ २१॥
ततो विश्वाधिकं रुद्रं महर्षिं सर्वसाक्षिणम्‌।
ब्रह्मविष्ण्वादयो देवाः पूजयामासुरादरात्‌॥ २२॥
तथा लक्ष्म्यादयो देव्यस्तथाऽन्ये सर्वजन्तवः।
पूजयामासुरीशानं पुरुषं कृष्णपिङ्गलम्‌॥ २३॥

**———————————————————————————————————————————**इति॥१६॥ अस्याऽऽनन्दस्येति। ‘एतस्यैवाऽऽनन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति’इति श्रुतेः॥ १७॥ अस्यैवाऽऽज्ञेति। ‘एतस्य वा अक्षरस्य प्रशासने गार्गिद्यावापृथिवीविधृते तिष्ठत इत्यादिश्रुतेः॥ १८॥ अहंकाराभिभवोविष्णोः प्राक्सूतनोक्तः। अधुना तु नन्दिनेति न पौनरुक्त्यम्‌ ॥ १९—२१॥ महर्षिमिति। दर्शनादृष्टिः। ऋषिर्दर्शनादिति यास्कः। तस्य महत्त्वंसर्वज्ञक्त्वात्‌॥ २२॥ पुरुषमिति। अन्तर्यामित्वेन सर्वेषां हृदयेऽवस्थानात्पूर्षुशरीरेषु शेत इति पुरुषः। श्रूयते हि ‘स वा अयं पुरुषः सर्वासु पूर्षु पुरिशयः’इति। कृष्णपिङ्गलमिति। कण्ठे कृष्णः।

अथैषां पुरतः श्रीमानम्बिकापतिरीश्वरः।
आविर्बभूत सर्वज्ञः शंकरो वृषवाहनः॥ २४॥
दृष्ट्वातं ब्रह्मविन्मुख्याःपशूनां पतिमीश्वरम्‌।
ब्रह्मविष्ण्वादयः सर्वे प्रणम्य भुवि दण्डवत्‌॥ २५॥
शिरस्यञ्जलिमाधाय प्रसन्नेन्द्रियमानसाः।
अस्तुवन्मुक्तिदं भक्या मुक्तिदंभवभेषजम्‌॥ २६॥

देवा ऊचुः —

नमस्ते देवदेवेशनमस्ते करुणालय।
नमस्ते सर्वजन्तूनां भुक्तिमुक्तिफलप्रद॥ २७॥
नमस्ते सर्वलोकानां सृष्टिस्थित्यन्तकारण।
नमस्ते भवभीतानां भवभीतिविमदेन॥ २८॥
नमस्ते वेदवेदान्तैरर्चनीय द्विजोत्तमः।
नमस्ते शूलहस्ताय नमस्ते वह्निविपाणये॥ २९॥
नमस्ते विश्वनाथाय नमस्ते विश्वयोनये।
नमस्ते नीलकण्ठाय नमस्ते कृत्तिवाससे॥ ३०॥
नमस्ते सोमरूपाय नमस्ते सूर्यरूपिणे॥
नमस्ते वह्निरूपाय नमस्ते जलरूपिणे॥ ३१॥
नमस्ते भूमिरूपाय नमस्ते वायुमूर्तये।

———————————————————————————————————————————
ललाटे पिङ्गलः ‘पुरुष कृष्णपिङ्गलम्’ इति हि श्रुतिः ॥ २३ ॥ २४ ॥ २५॥ २६॥ २७॥ २८॥ वेदवेदान्तैरिति। वेदान्तैः पारमार्थिकेन रूपेण ज्ञापनमर्चनं वेदैः स्तुत्यत्वेन चेष्टव्यत्वेन वाऽभिधानम्‌॥२९॥३०॥ नमस्ते सोमरूपयित्यादिनाऽष्टमूर्तित्वकथनम्‌। आत्मरूपिण इति।आत्मा

नमस्ते व्योमरूपाय नमस्ते ह्यात्मरूपिणे॥ ३२॥
नमस्ते सत्यरूपाय नमस्तेऽसत्यरूपिणे।
नमस्ते बोधरूपाय नमस्तेऽबोधरूपिणे॥ ३३॥
नमस्ते सुखरूपाय नमस्तेऽयुखरूपिणे।
नमस्ते पूर्णरूपाय नमस्तेऽपूणेरूपिणे॥ ३४॥
नमस्ते ब्रह्मरूपाय नमस्तेऽबह्मरूपिणे।
नमस्ते जीवरूपाय नमस्तेऽजीवरूपिणे॥ ३५॥
नमस्ते व्यक्तरूपाय नमस्तेऽव्यक्तरूपिणि।
नमस्ते शब्दरूपाय नमस्तेऽशब्दरूपिणे॥ ३६॥
नमस्ते स्पर्शरूपाय नमस्तेऽस्पर्शरूपिणे।
नमस्ते रूपरूपाय नमस्तेऽरूपरूपिणे॥ ३७॥
नमस्ते रसरूपाय नमस्तेऽरसरूपिणे।
नमस्ते गन्धरूपाय नमस्तेऽगन्धरूपिणे। ३८।
नमस्ते देहरूपाय नमस्तेऽदेहरूपिणे।
नमस्ते प्राणरूपाय नमस्तेऽप्राणरूपिणे॥ ३९॥

———————————————————————————————————————————यजमानः॥३१॥ ३२॥नमस्ते सत्यरूपायेत्यादिभावाभावप्रपञ्चस्यसमस्तस्यशिवे परिकल्पितत्वाच्छिव एवतस्य पारमार्थिकं रूपं रजतादेरिव शुक्त्यादीत्यर्थः। असत्यरूपिण इत्याद्यकारप्रश्लेषो द्वितीयपादेषु सर्वत्र। सुखरूपाय परमानन्दरूपाय। पृणेरूपायानन्ताय॥३३॥३४॥ जीवरूपायाऽऽत्मरूपाय॥३५॥ सत्यज्ञानानन्दात्मानन्तशब्दा अनृतजडदुःखानात्मात्वान्तवत्त्वदासद्वारा ब्रह्म लक्षयन्तीति ह्युक्तंव्यासेन ‘आनन्दादयः प्रधानस्य इत्यत्र। तत्र देशकालवस्तुकृतपरिच्छेदनिरासवाचिनाऽनन्तशब्देन वस्तुकृतस्यापि परिच्छेदस्य निरासाद्भावाभावावपि वस्तुतः परमात्मनो न

नमस्ते श्रोत्ररूपाय नमस्तेऽश्रोत्ररूपिणे।
नमस्ते त्वक्स्वरूपाय नमस्तेऽत्वक्स्वरूपिणे॥ ४०॥
नमस्ते दृष्टिरूपाय नमस्तेदृष्टिरूपिणे।
नमस्ते रसनारूप नमस्तेऽरसनात्मने॥ ४१॥
नमस्ते घ्राणरूपाय नमस्तेऽघ्राणरूपिणे।
नमस्ते पादरूपाय नमस्तेऽपादरूपिणे॥ ४२॥
नमस्ते पाणिरूपाय नमस्तेऽपाणिरूपिणे।
नमस्ते वाक्स्वरूपाय नमस्तेऽवाक्स्वरूपिणे॥ ४३॥
नमस्ते लिङ्गरूपाय नमस्तेऽलिङ्गरूपिणि।
नमस्ते पायुरूपाय नमस्तेऽपायुरूपिणे॥ ४४॥
नमस्ते चित्तरूपाय नमस्तेऽचित्तरूपिणे।
नमस्ते मातृरूपाय नमस्तेऽमातृरूपिणे॥४१५॥
नमस्ते मानरूपाय नमस्तेऽमानरूपिणे।
नमस्ते मेयरूपाय नमस्तेऽमेयरूपिणे॥ ४६॥
नमस्ते मितिरूपाय नमस्तेऽमितिरूपिणे।
नमस्ते सर्वरूपाय नमस्तेऽसर्वरूपिणे॥ ४७ ॥
रक्ष रक्ष महादेव क्षमस्व करुणालय।
भक्तचित्तसमासीन ब्रह्मविष्णुशिवात्मक॥ ४८॥

———————————————————————————————————————————पृथगित्यभिप्रायेण वहुधा भावाभावरूपतामिधानम्‌॥ ३६-४४॥ मातृरूपायेत्यादि मितिः प्रमा तस्याः कर्तामाता॥ ४५॥ करणं मानम्‌। विषयो मेयम्‌। तद्रूपायेत्यर्थः॥ ४६-४७॥ रक्ष रक्षेति। अहमेव जगत्कर्तेत्यादि यदुक्तं यच्चान्येस्तथा प्रतिपन्नं तमपराधं क्षमस्व तन्निबन्धना

सूतउवाच—

इति ब्रह्मादयः स्तुत्वाप्रणम्य भुवि दण्डवत्‌।
भक्तिपारं गता देवा बभूवुः परमेश्वरे॥ ४९॥
देवदेवो महादेवःसर्वेभूतहिते रतः।
अनुगह्यावशान्देवानम्बिकापतिरीश्वरः॥ ५०॥
प्रनृत्यपरमं भावं स्वकं सम्यक्प्रदर्शयन्‌।
ब्रह्मविष्ण्वादिभिः साकं श्रीमद्व्याघ्रपुरं गतः॥ ५१॥

———————————————————————————————————————————दनर्थाच्चरक्ष। यतस्त्वंकरुणालय इत्यर्थः। “हृदि ह्ययमात्मा" ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति" इति श्रतिस्मृतिदर्शनात्‌। सर्वेषां चित्तेषुयद्यप्यस्ति तथाऽपि भक्तचित्तेषु विशेषत इत्याह—भक्तचित्तेति। ब्रह्मविष्णुशिवात्मकेति। स ब्रह्मा स शिवः स हरिःइति श्रुतिः॥ ४८॥ भाक्तिपारमिति। प्रियातिशयवशाच्चित्तत्य विषयान्तरव्यावृत्तस्य तदेकनिष्ठतां भक्तेःपारम्‌॥४९॥ अत एव व्यवहारान्तराक्षमत्माह—अवशानिति। ईदृग्दशोपलम्भेन देवान्मुख्याधिकारिणो ज्ञात्वा परतत्वविषयं साक्षात्कारं तेषामन्वग्रहीदित्याह—अनुगृह्येति। ईदृशी हि दशा साक्षात्काराधिकारकारणमुक्ता पतञ्जलिना— “विशेषदर्शिन आत्मभावभावनाविनिवृत्तिरिति’। भावोदेवादिविषया रतिः। यदाहुः—‘रतिर्देवादिविषया व्यभिचारितयाऽर्जिता। भावः प्रोक्त’ इति। स चेह विषयस्य शिवस्य परमानन्दरूपत्वात्तद्विषयःस्वयमपि परमः। तंस्वात्मनि वर्तमानं परमं भावमभिनयेन विशदं दर्शयितुं देवैःसह नृत्योचितंस्थानं श्रीमद्व्याघ्रपुरं गत इत्याह—प्रनृत्येति। यथा रत्यादिस्थापिभावकार्यस्य वर्णनेनाभिनयेन वा प्रदर्शनंस रत्याादिरभिव्यक्तःसन्‌ श्रङ्गारादिरसरूपतामापद्यते। उक्तं हि—व्यक्तः स तैर्विभवाद्यैःस्थायी भावो रसः स्मृतः’ इति। एवं परतत्वस्वरूपविषयोभावोऽपि तत्कार्येणाभिनयेन विशदीभूतःप्रकर्षेण दृश्यत इति। प्रदर्शयन्निति लक्षणहेत्वोः क्रियायाः इति हेतौशतृप्रययः। नर्तनं द्रष्टुमिच्छयेति संबन्धः॥ ५०॥ ५१॥ परा-

तत्र सर्वे सुरा विप्राः श्रद्धया द्रष्टुमिच्छया। `
अवर्तन्ताखिलेशस्य नर्तनं भुक्तिमुक्तिदम्॥ ५२॥ `
भवन्तोऽपि महादेवप्रसादाय मुनीश्वराः॥
पूजयध्वं महाभक्तया महादेवं घृणानिधिम्‌॥ ५३॥
इति श्रुत्वामुनिश्रेष्ठा नैमिशीयास्तपोधनाः।
प्रणम्य दण्डवद्भूमौसूतमात्महितेरतम्‌॥ ५४॥
जज्ञिरे देवदेवोऽसौशंकरस्त्वम्बिकापतिः।
पूजनीय इति श्रीमान्सर्वदा सर्वजन्तुभिः॥ ५५॥
तेषां शिष्याः प्रशिष्याश्चतथाऽन्ये सर्वजन्तवः।
महादेवः सदा सर्वैःपूञ्य इत्येव जज्ञिरे॥ ५६॥

इति श्रीस्कान्दपुराणे श्रीसूतसंहितायां शिवमाहात्म्यखण्डे

नन्दीश्वरविष्णुसंवादेनेश्वरप्रतिपादनं नाम

तृतीयोऽध्यायः॥ ३॥

———————————————————————————————————————————

परपुरषार्थैकसाधनत्वेनेच्छा न पुनरौत्सुक्यमात्रेणययाह—श्रद्धयेति। भुक्तिमुक्तिदमिति। भोगमेक्षसाधनोपदेशाप हायमध्याय आदावेवावतारितः॥ ५२॥ भवन्तोऽपोति। पूजयध्वमिति मध्यमपुरुषाक्षिप्तस्य युष्मच्छब्दस्यापिना। संबन्ध;। भवन्त इति शत्रन्तम्‌। यूयमपि देववद्भक्तिपरवशाःसन्तः पूजयध्वमित्यर्थः पूज्य इत्येव जज्ञिर इति फलाभिसंबन्धविरह एवकारार्थः। तादृशी हि पूजा सात्त्तिकी। उक्तं हि गीतासु—“अफलाकाङ्क्षिभिर्यज्ञो विधिदृष्टो य इज्यते। यष्टव्यमेवेति मनः समाधाय स सात्त्विकः’ इति। जज्ञिर इति’ अनुपसर्गाज्ज्ञः इत्यात्मनेपदम्‌॥ ५३—५६॥

इति श्रीमाधवाचर्येण विरचितायां श्रीसूतसंहितातात्पर्यदीपिकायां

शिवमाहात्म्यखण्डे नन्दीश्वरविष्णुसंवादेनेश्चरप्रति

पादनं नाम

तृतीयोऽध्यायः॥ ३॥

चतुर्थाऽध्यायः।

४. इश्वरपूजाविधानं देवपूजाफलंच।

नैमिशीया उचुः—

भगवन्देवदेवस्य नीलकण्ठस्य शूलिनः।
ब्रूहि पूजाविधिं विद्वन्कृपया भुक्तिमुक्तिदम्‌॥ १॥

सूत उवाच—

वक्ष्ये पूजाविधिं विप्राः शृणुध्वं भुक्तिमुक्तिदम्‌।
श्रुतिस्मृत्युदितं कर्मकृत्वा श्रद्धापुरःसरम्‌॥ २॥
स्नात्वाशुद्धेसमेदेशे गोमयेनोपलेपिते।
समासीनः सदा मौनी निश्वलोदङ्मुखः सुखी॥ ३॥

———————————————————————————————————————————

** **पूज्यस्वरूपापरिज्ञान पूजाया मन्दफलत्वादध्यायद्वयेन मुनयस्तत्स्वरूपंज्ञात्वा पूजां जिज्ञासन्ते—भगवन्देवदवस्येति॥ १॥ कृतनित्यनैमित्तिकस्येव पूजाधिकार इत्याह—श्रुतिस्मृतीति। श्रद्धेति। उक्तंगीतासु—“अश्रद्धया हुतंदत्तं तपस्तप्तं कृतं च यत्‌।असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह”’ इति॥ २॥ स्नात्वेति।स्मार्तकर्माङ्गत्वेन वारुणे स्नानं कृतवताऽपि शिवपूजाङ्गत्वेन भस्मस्नानमपि कार्यमित्यर्थः। अथ वा “ष्णा शौचे’इत्यतः स्‍नात्वेति पदं निष्पन्नम्‌। अतः पञ्चसु शुद्धीर्विधायेत्यर्थः। आह सोमशंभुः— ‘इत्थमात्माश्रयद्रव्यमन्त्रालिज्ञविशुद्धिषु। कृतासु देवदेवस्यपूजनं नान्यथा भवेत्‌” इति॥ सदेति यावद्पूजाकालमित्यर्थः। निश्चलश्चसावुदड्मुखश्च। उदङ्मुखत्वं चोक्तं सोमशंभुना—‘देवदक्षिणदिग्भागे संनिविष्टः सुखासने।उत्तरस्थो विनीतात्मा न्यस्तमन्त्रकरद्वयःइति॥ उदङ्मुखत्वे कारणमुक्तं ज्ञानरत्नावल्याम्—न प्राच्यामग्रतः शंभेर्नोत्तिरे योषिदाश्रये।न प्रतीच्यां यतः पृष्ठं तस्माद्दक्षं समाश्रयेत्‌ इति॥ दक्षं देवस्थ दक्षिणमागम्‌।

विचित्रमासनं तत्र निधाय ब्रह्मवित्तमाः।
आगमेनैव शास्त्रेण प्रोक्तलक्षणलक्षितम्‌॥ ४॥
आदाय श्रद्धया विप्राः शिवलिङ्ग समाहितः।
तत्रैवाऽवाह्यदेवेशं प्रणवेन हृदि स्थितम्‌॥ ५॥

———————————————————————————————————————————

तंचाऽऽश्रित उत्तराभिमुख एव भवति॥२॥ विचित्रमिति।स्थिरलिङ्गेआधारशक्त्यादिशिवासनपर्यन्तैर्विविधव्याप्तिभावनाविषयैश्चित्रमित्यर्थः। चरलिङ्गेतूक्तरूपं स्थिरासनं स्नानार्थं [षडुत्थं] चलासनंच दत्त्वेत्यर्थः। आगमेनेति नानागमोपलक्षणम्‌। लिड्गलक्षणमुक्तं श्रीकालोत्तरादिषु—‘स्थिरालिङ्गेसदा कार्यं सिद्धिकामैःप्रयत्नतः। भुक्तिमुक्तिप्रदं पुंसां चरलिङ्गेशिवार्चनम्‌॥ सर्वत्र संस्थितः पूज्यःसर्वाधारेषु सर्वदा। तथाऽपि लिङ्गेभगवान्‌ पूजां गृह्णाति धूर्जटिः। असंपूर्णाकृता पूजा मन्त्रद्रव्यक्रियागुणैः। तथाऽपि लिङ्गेसंपूर्णा पूजा भवति षण्मुख॥ लीयन्ते यत्र भूतानि निगच्छन्ति यतः पुनः। तेन लिङ्ग परं व्योमनिष्कलः परमः शिवः॥ लिङ्ग्यते चिन्त्यते येन भावेन भगवाञ्शिवः। योगिभिस्तत्‌त्रिधा लिङ्गंव्यक्ताव्यक्तोभयात्मकम्‌॥ व्यक्तं तत्सकलं ज्ञेयमव्यत्त्कं निष्कलं मतम्‌। ज्ञानज्योतिर्मयंलिङ्गंव्यक्ताव्यक्तमिदं स्मृतम्‌॥स्फाटिकं त्रिविधं ज्ञेयं सूर्यचन्द्रानलात्मकम्‌। श्वेतंरक्तं च पीतंच कृष्णच्छायं द्विजास्त्रिषु॥ त्रिपञ्चवारं यस्यैव तुलासाम्यं न जायते। तदा बाणं समाख्यातं शेषं पाषाणसंभवम्‌॥ नद्यांवा प्रक्षिपेद्भूयो यदा तदुपलक्ष्यते। बाणलिङ्गंतदा विद्धि" इति॥ तथा तत्रैव मृन्मथादेलिङ्गानामुत्तरोत्तरोत्कर्षाभिधानप्रस्तावे। संस्थाप्य बाणलिङ्गं तु रतनात्कोटिगुणं भवेत्‌। रसलिङ्गे ततोबाणात्फलंकोटिगुणं स्मृतम्‌। कोगुणान्‌ रसलिड्गस्य वक्‍तुं शक्नोति शांकरि। सिद्धयोरसलिङ्गेस्युरणिमाद्याःसुसंस्थिताः इति॥ 9॥ प्रोक्तरक्षणलक्षितं शिवलिङ्गमादाय दीक्षापुरःसरं परिगृह्य। आवाह्येति। आवाहनं लिङ्गेऽभिव्यक्त्यनुसंधानम्‌। विसर्जनं तु निजरूपेणावस्थानचिन्तनम्‌। उक्तंहि—’ आवाहनमभिव्यक्तिर्वक्त्यभावो विसर्जनम्‌’इति। आवाहनं तदादिसंस्कारदशकोपलक्षणम्‌। यथाऽऽदृरागमविदः—’ आवाहनं स्थापनं च सांनिध्यं संनिरोधनम्। सकलीकारम-

अर्घ्यं दत्वा मुनिश्रेष्ठाः170 पूर्वोक्तेनैव मन्त्रतः171
पाद्यमाचमनं चैव पुनः पूर्वोक्तमन्त्रतः॥ ६॥
पुनः स्नाप्य महादेवमापोहिष्ठादिभिस्त्रिभिः।
तथा पुरुषसूक्तेन श्रीमत्पञ्चाक्षरेण च॥ ७॥
पुनराचमनं दत्त्वा प्रतिष्ठाप्याऽऽसने हरम्‌।
दत्त्वावस्त्रं मुनिश्रेष्ठाः प्रणवेन समाहितः॥ ८॥
उपवीतं पुनर्दत्वा भूषणानि च सादरम्‌।
गन्धंपुष्पं तथा धूपं दीपं चैवाऽऽदरेण च॥ ९॥
श्रीमत्पञ्चाक्षरेणैव प्रणवेन युतेन च।
हविर्निवेद्यदेवाय पानीयेन सहाऽऽदरात्‌॥ १०॥
पुनराचमनं दत्वा ताम्बूलंसोपदंशकम्‌।
माल्यं दत्त्वाऽनुलेपं च प्रणम्य भुवि दण्डवत्‌॥११॥
लौकिकैर्वैदिकैःस्तोत्रैः स्तुत्वाहृदि विसर्जयेत्‌।
प्रणवेन महादेवं सर्वज्ञं सर्वकारणम्‌॥ १२॥

———————————————————————————————————————————मृतीकरणं चाथ पाद्यकम्‌॥ तत आचमनंचार्ध्वंपुष्पं च दश सत्क्रियाः? इति। प्रणवेनेति। तेन हि यत्कृतं तदशेषैर्मन्त्रैःकृतं भवति। श्रूयते हि— यः प्रणवमधीते स सर्वमधीते ” इति। तथा एतद्वैयज्ञुस्त्रयीं विद्यांप्रत्येषावागेतत्परमपक्षरम्‌ ” इति॥ ५॥पृर्वोक्तेनेति। प्रणवेन। मन्त्रतो मन्त्रेण पञ्चाक्षरेण॥ ६॥ पञ्चाक्षरेण चेति। चकारादन्यैरपि शतरुद्रियादिभिः॥ ७—१ १॥ प्रणवेन हृदि विसर्जयेदिति हृदि स्वप्रतिष्ठिततया शिवमनुसंदध्यादित्यर्थः। हृदयंतस्य नियतं स्थानम्‌। “ईश्वरः सर्वभूतानां हृदृेशेऽर्जुन तिष्ठति इति स्मृतेः। हृदयं तद्विजानीयादित्यारभ्य’ तस्याः शिखाया मध्ये परमात्मा व्यवास्थितः” ‘स बह्मा स शिवः स हरिः सेन्द्रःसोऽक्षरः परमः स्वराट्‌

ब्रह्मचारी गृहस्थश्चवानप्रसखश्च सुरताः।
एवं दिने दिने देवं पूजयेदम्बिकापतिम्‌॥ १२॥
संन्यासी देवदेवेशं प्रणवेनैव पूजयेत्‌।
नमोन्तेन शिवेनैव स्रीणां पूजा विधायते॥
विरक्तानां च शूद्राणामेवंपूजा प्रकीर्तिता॥ १४॥
अन्येषामपि सर्वेषां नराणां मुनिपुङ्गवाः॥
पूजा देवालयं दृष्टा प्रणामस्तस्य कीर्तितः॥ १५॥
एवं पूजा कृता येन सफलंतस्य जीवितम्‌॥ १६॥

———————————————————————————————————————————इति श्रुतेश्च। इत्थं संग्रहेण शिवपूजाविधिरुक्ता। एतावताऽप्यसौ पूर्ण एव।बह्वल्पं वा स्वगृह्योक्तं यस्य यावत्प्रकीर्तितम्‌। तस्य तावति शास्त्रार्थे कृते सर्वःकृतोभवेत्‌ इतिन्यायात्‌॥ प्रपञ्चस्तु पुराणान्तरादागमान्तरेभ्यश्चोक्तोऽविरुद्ध उपसंहर्तव्यः॥ १२॥ उक्तपूजाविधावाश्रमभेदेन मन्त्रव्यवस्थामाह— ब्रह्मचारीति॥ १२३॥ पञ्चाक्षरपूजायां स्रीशूद्राणां विशेषमाह—नमोन्तेनेति॥ १४॥ अन्येषामिति संकरजातीनां देवालयंदृष्ट्रातस्य देवालयस्य प्रणाम एव पूजा प्रकीर्तिता॥ पुराणान्तरेषु स्त्रीशूद्रादीनां सर्वेषां प्रणवमात्रंपरित्यज्यावशिष्टेन पश्चाक्षरेणैवपूजाऽभिहिता। यथाऽऽह वसिष्ठः—“ब्रह्मचारी गृहस्थश्च वानप्रस्थश्च भिक्षुकः। सदोनमः शिवायेति शिवमन्त्रं समाश्रयेत्‌॥ पञ्चाक्षरः सप्रणवो द्विजराज्ञोर्विधीयते। विटशूद्रजन्मनां वाऽपि स्त्रीणां निर्बीज एवहि॥ सबीजः सस्वरः सौम्यो विप्रक्षत्रिययोर्द्वयोः। नेतरेषामितीशानः स्वयमेवाऽऽह शंकरः॥ दुर्वृत्तो वृत्तहीनो वा पतितोऽप्यन्त्यजोऽपि वा। जपेत्पञ्चाक्षरीं विद्यांजपेनैवाऽऽप्नुयाच्छिवम्‌ इति॥शैवपुराणे शिवोऽप्याह—’* समन्त्रकं तु पतितोह्यर्चयेद्यदि पद्मज।नारकी स्यान्न सन्देहो मम पञ्चाक्षरंविना॥ मयोक्तमेतद्धि पुरा पवित्रंपञ्चाक्षरं मन्त्रमिदं शिवायै।साधारणं पद्मज वेदसारं ममाऽऽज्ञया सर्वमिदं सुरेश ‘इति॥ नन्दीश्वरोऽपि—’ शृणुष्वातिरहस्यं ते वदामि मुनिपूङ्गव।

पूजया भुक्तिमाप्नोति पूजया मुक्तिमाप्नुयात्‌।
पुरा कश्चिन्महापापी पुल्कसः पुरुषाधमः ॥ १७ ॥
ब्राह्मणानां कुलं हत्वा गवां वेदविदां वराः।
अपहृत्य धनं मार्गे प्राणिहिंसापुरःसरम्‌ ॥ १८ ॥
स्वच्छन्दं निर्घृणो विप्राश्चचार पृथिवीतले।
तस्य मित्रमभूत्कश्रिद्व्राह्मणो गणिकापतिः ॥ १९ ॥
तस्मैदत्तं धनं किंचित्पुल्कसेन द्विजोत्तमाः।
स पुनब्राह्मणस्तुष्टो मतिं तस्मैप्रदत्तवान्‌ ॥ २० ॥

ब्राह्मण उवाच—

सुबन्धो मम दुर्बुद्धेत्वया पापानि निर्घृण।
कृतानि सर्वदा मूढ त्वहो किं ते फलिष्याति ॥ २१॥
इत्येवं बहुधा विप्रः पुल्कसं प्रत्यभाषत।
सोऽपि विप्रवचः श्रुत्वा बहुशः पण्डिताोत्तमाः ॥२२॥

——————————————————————————————————————————————————————

हिताय सर्वलोकानां पतितानां विशेषतः॥समन्त्रकं सकृद्वाऽपि पतिता पूजयेद्यदि। नारकी स्यान्न संदेहःशैवपञ्चाक्षरं विना इति॥ इत्थमुक्ता पूजा। तत्फलमाह—एवं पूजा कृता येनेति ॥ १६ ॥ तत्राऽऽदरातिशयार्थमाख्यायिकामाह—पुरा कश्चिदित्यादिना। पुल्कसलक्षणमत्रैव वक्ष्यते—‘जातः शूद्रेण राजन्यांवैदेहाख्यःस पुल्कसः’ इति। पुल्कसकृतपापप्रपञ्चवर्णनं तादृगपि दभ्रसभादर्शनमात्रादेव विमुक्त इति सभादर्शनप्रभावोत्कर्षज्ञापनाय ॥ १७—१९ ॥ मतिं तस्मे प्रदत्तवानिति। दातुं प्रवृत्तवान्‌। आदिकर्मणि क्तवतुः। अन्यथा’अच उपसर्गात्तः’ इति तत्वे प्रत्तवानिति स्यात्‌। आदिकर्मणि तु ’ प्रदत्तं चाऽऽदिकर्मणि’इति क्तेन क्तवतोरप्युपलक्षणात्तत्वप्रतिषेधे ददादेश एवभवति। यदि वाब्राह्मणेन
पुल्कसं प्रति बुद्धिदानं बहुशः कृतं तदलम्‌। मतिदानस्य प्रारम्भमात्रं

कालेन महता दान्तः पुल्कसः पुरुषाधमः।
जन्मान्तरसहस्रेषु कृतपुण्यवशेन च॥२३॥
प्रणम्य दण्डवद्विप्रं पप्रच्छ ब्रह्मवित्तमाः।

पुल्कस उवाच—

देव विप्र सुबन्धो मे मया सर्वत्र सर्वदा॥ २४॥
महाघोराणि पापानि कृतानि मम नायक।
किं करोम्यहमद्यास्मिल्लोँके मूढोऽतिनिर्घृणः॥ २५॥
तद्वदातिभयाविष्टं मानसं मम संततम्‌।

ब्राह्मण उवाच—

साधु साधु त्वयाऽद्योक्तंतव वक्ष्ये हितं श्वणु॥ २६॥
पुण्यक्षेत्रे महातीर्थे पुराणे बसुधातले।
मुनिभिः सिद्धगन्धर्वैरमरैश्व सुसेविते॥ २७॥
श्रीमद्व्याघ्रपुरे यत्र प्रनृत्यत्यम्बिकापतिः।
तत्र भक्तिपरो भूत्वा स्नात्वा प्रातः समाहितः२८॥
दृष्ट्वादभ्रसभां दूरे प्रणम्य भुवि दण्डवत्।
योगिनां भोगिनां नृृणां दत्त्वा सर्वस्वमर्जितम्‌॥२९॥
स्थानस्यास्य भये जाते रक्षणं कुरुयत्नतः।

सूत उवाच—

एवं द्विजोत्तमेनोक्तः पुल्कसः पुरुषाधमः॥ ३०॥

———————————————————————————————————————————
ततोऽप्यतिशयितस्यापरिमितस्य कर्तव्यस्य संभवात्कृतस्याऽऽरम्भमात्रत्वमित्यादिकर्माभिप्रायः॥ २०—२२॥ दान्त इति। दम इन्द्रियाणां निषिद्धव्यापारोपरमः। विप्रजनितोपदेशेन जातनिर्वेदे मनस्युपरते तदधीन-

श्रीमद्व्याघ्रपुरं पुण्यं गतः श्रद्धापुरःसरम्‌।
ब्राह्मणोऽपि सहानेन श्रद्धया मुनिपुङ्गवाः॥ ३१॥
प्राप्तवानेतदत्यन्तं श्रद्धया स्थानमुत्तमम्‌।
पुल्कसः श्रद्धया स्नात्वा172 ब्राह्मणा वेदवित्तमाः॥ ३२॥
योगिभ्यश्च तथान्येभ्यो दत्वा सर्वस्वमर्जितम्।
श्रीमद्दभ्रसभां नित्यं ब्राह्यणा वेदपारगाः॥ ३३॥
दूरे दृष्ट्वानमस्कृत्वा173 पञ्चक्रोशाद्बहिर्द्विजाः।
उवास सुचिरं कालमेवं कृत्वा दिने दिने॥ ३४॥
एवंचिरगते काले पुल्कसः पुण्यगोरवात्‌।
स्थानसंरक्षणव्याजात्तत्रैव मरणं गतः॥ ३५॥
स पुनर्मरणादूर्ध्वंभुक्त्वाभोगाननेकशः।
श्रीमद्व्याघ्रपुरेशस्य प्रसादादम्बिकापतेः॥
अवाप परमां मुक्तिमविघ्नेन द्विजोत्तमाः॥ ३६॥
ब्राह्मणोऽपि तथैवास्मिन्स्थाने प्रातः समाहितः॥
स्नानं कृत्वामहादेवमम्बिकापतिमीश्वरम्‌।
पूजयामास पूर्वोक्तप्रकारेण महेश्वरम्‌॥ ३८॥

———————————————————————————————————————————व्यापाराणि बाह्येन्द्रियाण्यपि तस्माद्व्यापारादुपारमन्नित्यर्थेः॥ २३—३३॥ नमस्कृत्वेति। नमइति शब्दपरो निर्देशः।नम इत्येतत्पदप्रयोगंकृत्वेत्यर्थः। नमस्कृत्येति तु पाठेऽर्थपरस्य नमश्शब्दस्य गतिसमासे “नमस्पुरसोर्गत्योः इति सत्वम्‌। नमस्कृत्वेति तु पाठे “क्त्वाऽपि छन्दसीति ‘ल्यपोऽपवादः क्त्वादेशश्छान्दसः॥ ३४॥ स्थानसंरक्षणव्याजादिति। व्याजशब्देन निमित्तमात्रंलक्षितम्‌। संरक्षणाद्धेतोरित्यर्थः॥ ३५॥ ३६॥ ब्राह्मणोऽपीति-

तस्यापि ब्रह्मविच्छ्रेष्ठाः पूजया परमेश्वरः।
श्रीमद्दभ्रसभानाथः प्रददौमुक्तिमीश्वरः॥ ३९॥
बहवो वेदविच्छ्रेष्ठाः पूर्वोक्तेनैव वर्त्मना।
शिवलिङ्गार्चनं कृत्वा विमुक्ता भवबन्धनात्‌॥ ४०॥
केचिद्वाराणसीं गत्वाऽऽपूज्यपूर्वोक्तवर्त्मना।
महादेवं महात्मानं विमुक्ता भवबन्धनात्‌॥ ४१॥
केचिच्छ्रीसोमनाथाख्यं केचित्केदारमद्भूतम्‌।
केचिच्छ्रीपर्वतं मुख्यं केचिद्गोपर्वतं नराः॥ ४२॥
केचिद्दक्षिणकैलासं केचिदग्नीश्वराभिधम्‌।
केचिच्छ्रीहरतीर्थाख्यं केचिदवृद्धाचराभिधम्‌॥ ४३॥
केचेद्वल्मीकमाश्चर्यं केचिद्धालास्यसंज्ञितम्‌।
केचिद्रामेश्वरं पुण्यं केचित्कान्तारमादरात्‌॥ ४४॥
प्राप्य पूवोक्तमार्गेण शिवं पूज्य द्विजोत्तमाः।
अनायासेन संसाराद्विमुक्ता वेदवित्तमाः॥ ४५॥
केचित्स्वे स्वे गृहे देवं समाराध्य यथाबलम्‌।
पूर्वोक्तेनैव मार्गेण विमुक्ता भवबन्धनात्‌॥ ४६॥

———————————————————————————————————————————गणिकापतिरपि ब्राह्मणःसभादर्शनमात्रेण कृतप्रायश्चित्त इति पर्वोक्तप्रकारेण प्रणवेन पूजयामासेत्युक्तम्‌॥ ३७—४०॥ क्षेत्राणां प्रभावोत्कर्षतरतमभावसंभवेऽप्युक्तपूजाविधानमाहात्म्यान्निरतिशयश्रद्धापूर्वकात्सममेव फलमपवर्गलक्षणं प्रतिपन्ना इत्याहकैचिद्वाराणसीमिति। आपूज्येत्याकारप्रश्लेषःशिवंपूज्येत्यसमासेऽपिल्यबग्देशःछान्दसः॥४१—४५॥ यथाबलमिति। बलंसामर्थ्यमनतिक्रम्य विद्यमानसामर्थ्यमवञ्चयित्वा। अत एव गृहे शिवं समाराध्य विमुक्ताः। भवो जन्म स एव दुःखमयसंसारहेतुत्वाद्वन्धनं जन्माभावेहि

केचिद्भोगेच्छया देवं पूर्वोक्तेनैव वर्त्मना।
श्रदयाऽऽपूज्य देवेशंभुक्तवन्तो महासुखम्‌॥ ४७॥
किमत्र बहुनोक्तेन श्रूयतां मुनिपुङ्गवाः।
पूजया सर्वजन्तूनां भोगमोक्षौ च नान्यथा॥ ४८॥
तस्माद्भवन्तोऽप्यमुना पूर्वोक्तेनैववर्त्मना।
पूजयध्वं महादेवं भुक्तिमुक्तिफलप्रदम्‌॥ ४९॥
इति श्रुता मुनिश्रेष्ठाः सूतं सर्वार्थसागरम्‌।
प्रणम्य पूजयामासुः शंकरं शशिभूषणम्‌। ५०॥
तेषां पुत्राश्च पौत्राश्च ज्ञातयः सुहृदो जनाः।
पूजयामासुरीशानं मुनिभिस्तैःप्रचोदिताः॥ ५१॥
पूजया सदृशं पुण्यं नास्ति लोकत्रयेष्वपि।
पूजयैव महादेवः शंकरः परमेश्वरः॥
नीलक्ण्ठोविरूपाक्षः शिवो नित्यं प्रसीदति॥ ५२॥
पूजिते देवदेवेशे पुरागे सर्वकारणे॥ ५३॥
पूजिता देवताः सर्वाइति वेदान्तनिश्वयः।

———————————————————————————————————————————
दुःखाभावोऽपवर्गो भवति। उक्तं हि गौतमेन दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायादपवर्गः’ इति। शास्त्रजनिततत्वज्ञानादहं मनुष्य इति मिथ्याज्ञानापाये रागादिदोषापायाद्धर्माधर्मयोः प्रवृत्त्यभावेन तन्निबन्धनजन्माभावादात्यन्तिकदुःखनिवृत्तिरूपोऽपवर्गो भवतीत्यर्थः॥ ४६ ॥ भोगेच्छयति किमत्रेति भोगापवर्गसाधनं शिवपूजेति ह्युक्तम्‌॥४७—४ ८॥ तस्मादिति। भवन्त इति शत्रन्तम्‌।यूयमपि प्रागुक्ता इवसन्तः पूजयध्वमित्यर्थः॥ ४९—५१॥ पूजयैवेति। यथाधिकारं प्रागुक्तया मानस्या बाह्मया वा॥ ५२॥ ५३॥ पूजिता देवताः सर्वाइति . वेदान्त-

भोगं मोक्षं च लभते नात्र कार्याविचारणा॥ ५४॥

इति श्रीस्कान्दपुराणे श्रीसूतसंहितायां शिवमाहात्म्यखण्डे

ईश्वरपूजाविधानं नाम चतुर्थोऽध्यायः॥ ४॥

————————

पञ्चमोऽध्यायः।

५. शाक्तिपूजाविधानम्‌

नैमिशीया ऊचुः—

भगवन्सर्वशास्त्रार्थपरिज्ञानवतां वर।
ब्रूहि पूजाविधिं शक्तेःपरायाःसंग्रहेण तु॥ १॥

सूत उवाच—

वक्ष्ये पूजाविधिं शक्तेः पराया आस्तिकोत्तमाः।
अत्यन्तश्रद्धयासार्धं शृणुध्वंभुक्तिमुक्तिदम्‌॥ २॥

———————————————————————————————————————————

निश्चय इति। उक्तं ह्यथर्वशिरसिशिवेनैव ‘मां यो वेद ससर्वान्देवान्वेद’इति॥५४॥

इति श्रीमाधवाचार्येण विरचितायां श्रीसूतसंहितात्पर्यदीपिकायां शिवमाहात्म्य

खण्डे ईश्वरपूजाविधानं नाम चतुर्थोऽध्यायः॥४॥

———————

उक्तभोगापवर्गलक्षणं फलंपरमेश्वरः स्वशक्त्यैव दातुं शक्तो नान्यथा। तदुक्तम्‌ भोजेन “शक्तो यया स शंभुर्भुक्तौमुक्तौ च पशुगणस्यास्य तामेनां चिद्रुपामाद्यां सर्वात्मनाऽस्मि नतःइति॥ अत उक्तशिवपूजाफलावाप्तये अवश्यापेक्षितां मुनयः शक्तिपुजां पृच्छन्ति भगवन्सर्वशास्त्रार्थेति। अस्तिकाचित्परा शक्तिर्नाम यत्पूजथा शिवपूजा प्रोक्तफलाभवतीति सामान्यतो ज्ञात्वा शक्तिस्वरूपतद्विभागतत्पूजाविधींश्व विशेषतोजिज्ञासूनां मुनीनामयं प्रश्नः। दाहपाकप्रकाशादिविषयाःशक्तयोवह्ण्यादावपसन्ति। इयं तु शिवस्य जगन्निर्माणादिविषयेतिपराया इति विशेषणम्‌॥ १॥ अत्यन्तश्रद्धयेति। शिवपूजायाज्ञातत्वात्प्रासङ्गिकीयं जिज्ञासेति माभूत्‌। तत्सा-

पूजा शक्तेः परायास्तु द्विविधा परिकीर्तिता।
ब्राह्याभ्यन्तरभेदेन बाह्या तुद्विविधा मता॥ ३॥
वैदिकी तान्त्रिकी चेति द्विजेन्द्रास्तान्त्रिकी तु सा।
तान्त्रिकस्येव नान्यस्य वैदिकी वेदिकस्य हि॥ ४॥
इत्थं समस्तदेवानां पूजा विप्रा व्यवस्थिता।
अविज्ञायान्यथा पूजां कुर्वन्पतति मानवः॥ ५॥
आसनावाहने चार्ध्यं पाद्यमाचमनं तथा।

———————————————————————————————————————————

फल्यस्य174 तदधीनत्वादत्रातिशयेन भवितव्यमित्याशय,। यथा दण्डचक्रादयः स्वरूपेण तथा व्यपदिश्यमाना अपि कार्यघटादिप्रतियोगिनिरूप्येण रूपेण कारणानीत्युच्यन्ते एवं परशिवस्वरूपेण175 तथोच्यमानोऽपि कृत्यपञ्चकलक्षण शक्येन निरूप्यमाणः परा शक्तिरित्युच्यते। उक्तं हि तस्यकृत्यपञ्चकम्‌। “पञ्चविधं तत्कृत्यंसृष्टिस्थितिसंहृतितिरोभावाः। तद्वदनुग्रहकरणं प्रोत्तंसततोदितस्यास्य” इति। परमार्थतस्तु सा च शक्तिः शाक्तिमतः शिवादभिन्नैवेत्यागमेषु बहूधा प्रपञ्चितम्‌ ‘पावकस्योष्णतेवेयमुष्णांशोरिवदीधितिः। चन्द्रस्य चन्द्रिकेवेयं शिवस्य सहजा ध्रुवा’इत्यादिभिः ॥२॥ तत्पूजाया अधिकारिभेदेन व्यवस्थां दर्शयितुं विभागमाह पूजा शक्तेरित्यादि॥३॥ तन्मूलस्मृतिपुराणादिप्रतिपादिता वैदिकी।तदनपेक्षया शिवप्रोक्तकामिकाद्यगमप्रातिपादितप्रकारा तान्तिकी। तत्र तान्त्रिक्या अधिकारिविशेषमाह—तान्त्रिकस्यैवेति।तन्त्रोदीरितकुण्डमण्टपादिपुरःसरदीक्षासंस्कृतस्यैव नतद्रहितस्येत्यर्थः। वैदिकस्येति ; स्वगृह्योक्तसंस्कारसंस्कृतस्यैवेत्यर्थः॥ ४॥ न केवलं शक्तेः। शिवविष्णुविनायकादीनामपि वैदिकतान्त्रिकाविभागेन पूजादिभेदस्तदधिकारिभेदश्चेत्याह—इत्थमिति। अधिकारिविभागाभिधानप्रयोजनमाह—अविज्ञायेति। स्वमार्गातिक्रमो हि श्रूत्यैवनिन्दितः “‘यो वैस्वां देवतामपि176 त्यजते स स्वायैदेवतायै च्यवते न परां प्राप्नोति पापीया-

स्नानं वासोत्तरीयं च भूषणानि च सर्वशः177॥ ६॥
गन्धपुष्पं तथा धूपं दीपमन्नेन तर्पणम्‌।
माल्यानुलेपनं चैव नमस्कारं विसर्ज॑नम्॥७॥ `
सर्वं मातृकया कुर्यान्मातृका मन्त्रनायिका।
मातृकाव्यतिरेकेण मन्त्रा नैव हि सत्तमाः॥ ८॥
मातृका च त्रिधा स्थूला सूक्ष्मा सूक्ष्मतराऽपि च।
गुरूपदेशतो ज्ञेया नान्यथा शास्त्रकोटिभिः॥९॥

———————————————————————————————————————————
न्भवति” इति। स्वां देवतामिति स्वोचितमार्गोपलक्षणम्‌॥५॥ तत्र बाह्यां पूजा माह—आसनावाहने चार्ध्यमित्यादि। इयं हि बाह्योपकरणसव्यपेक्षत्वाद्वाह्या। वासोत्तरीयमितिवास इति व\ससोऽन्त्यलोपश्छान्दसः॥ ६॥ उक्तोपचारजातस्य शक्तिपूजामात्रस्य पूजाङ्गं मन्तमाह सर्वं मातृकयेति। तयैव करणे कारणमाह—मन्त्रनायिकेति। तत एवोद्धृत्य हि सर्वमन्त्रा नीयन्त इत्यर्थः। मातृकाव्यतिरेकेणेति। नहि मातृकायामननुप्रविष्टमक्षरमस्ति न चानक्षरात्मको मन्त्रोऽप्यस्ति। अतो मातृकया कृतं सर्वैरेव मन्त्रैःकृतं स्यादत्यर्थः ॥ ७ ॥ ८ ॥ प्रथममध्यमोत्तमानामधिकारिणां [स्वाधिकारानुसारेण178मातृकारूपपूजाकरणमित्यभिप्रेत्य तस्यास्त्रैरूप्यमाह—मातृका च त्रिधेति। प्रधमोऽधिकारी स्थुलयामातृकया पूजयेत्‌। मध्यमः सूक्ष्मया। उत्तमः सूक्ष्मतरयेति विभागः। स्थूलादिरूपत्रयं चैवमवगन्तव्यम्‌। नियतकालपरिपाकानां हि प्राणिकर्मणां मध्ये परिपक्वानामुपभोगेन प्रक्षयादितरेषां चापरिपक्वानां भागाभावेन तदर्थाया; सृष्टेरनुपयोगात्प्राकृतप्रलये ग्रस्तसमस्तप्रपञ्चामाया स्वप्रतिष्ठेनिष्कले परशिवे विलीना यावदवशिष्टकर्मपरिपाकं वर्तते। उक्तं हि—“‘प्रलयेव्याप्यते तस्यां चराचरमिदं जगत्‌” इति॥ तथा—“जगत्प्रतिष्ठा देवर्षे पृथिव्यप्सु प्रलीयते। तेजस्यापःप्रलीयतेतेजो वायौप्रलीयते॥ वायुः प्रलीयतेव्योम्नि तदव्यक्ते प्रलीयते। अव्यक्तं पुरुषे ब्रह्म निष्कले संप्रलीयते” इति॥ अव्यक्तं माया तस्याश्च सम्यक्प्रलयो नाम मुक्ताविव नाऽऽयन्तिको

नाशः। किंतु सुप्तौ सति मायागोचरप्रवृत्तीनामप्यभावात्स्वप्रतिष्ठपरमात्मप्रकाशस्याप्यत्यन्तनिर्विकल्पतया तद्बलाद्भासमानाया अप्यप्रातिभातप्रायत्वंन पुनरनवभानमेव प्रतिभासमात्रशरीरस्य हि मिथ्यावस्तुनोऽनवभाने सत्यभाव एव स्यादिति न चाभाव एवास्तु। उत्तरसर्गानुपपत्तिप्रसङ्गादिति।अवशिष्टैःप्राणिकर्मभिश्चतस्यां मायायां विलीयैवक्रमेण प्राप्तपरिपाकैः स्वफलप्रदानाय परमेश्वरस्य सिसृक्षात्मिका मायावृत्तिर्जन्यते । सैषा मायावस्थेक्षणकामतपोविचिकीर्षादिशब्दैरभिधीयते। तदैक्षत बहु स्यां प्रजायेय” इति छान्दोग्ये ‘स ऐक्षत लोकान्नु सृजा’ इत्यैतरेयके । सोऽकामपत बहु स्यां प्रजायेय’इत्ति तैत्तिरीयके। ‘तपसा चीयते ब्रह्म’इति मुण्डके। “विचिकीर्षुर्घनीभूता क्वचिदभ्येति बिन्दुताम्‌” इति प्रपञ्चसारे। अपरिपक्वकर्माभेदाद्धनीभावस्तदर्थव्यापारोविचिकीर्षा। परिपक्वकर्माकारपरिणतमायाविशिष्टं बिन्दुस्तदिदमविभागावस्थ- मव्यक्तमुच्यते। अत एवं तस्योत्पत्तिः स्मर्यते—‘तस्मादव्यक्तमुत्पन्नंत्रिगुणं द्विजसत्तम’इति। स एव जगदङ्कुराकारोऽध्यात्मंचाऽऽधारादावाभिव्यज्यमानःकुण्डल्यादिशब्देरुच्यते । यदाहुः—“शक्तिःकुण्डलिनीति विश्वजननव्यापारबद्धोद्दमां ज्ञात्वेर्त्थंन पुनर्विशन्ति जननीगर्भेऽर्भकत्वं नराः” इति । “ कुण्डली सर्वथा ज्ञेया सुषुम्नान्तर्गतैव सा” इति । बिन्दोः कालक्रमेण चिदाचिदंशबिभागात्‌ त्रैविध्यंतत्रैवोक्तम—’ कालेन विद्यमानस्तु स बिन्दुर्भवति त्रिधा ॥ स्थूलसुक्ष्मपरत्वेन तस्य त्रैविध्यमिष्यते । स बिन्दुनादबीजत्वभेदेन च निगद्यते’इति ॥ अचिदंशः स्थूलोबीजम्‌। चिदचिन्मिश्रः सूक्ष्मो नादः। स एव पुरुषश्चिदंशः परोबिन्दुः स एवेश्वरः । तस्य च त्रिधा विभागसमये शब्दब्रह्मापरनामधेयस्य रवस्योत्पत्तिरुक्ता—’ बिन्दोस्तस्माद्भिद्यमानाद्रवोव्यक्तात्मको’भवेत्‌ । स रवः श्रुतिसंपन्नैः शब्दब्रह्मेति गीयते’इति ॥ स एव शब्दब्रह्मात्मको रवो जगदुपादानं बिन्दुतादात्म्येन सर्वगतोऽपि प्राणिनां मूलाधारेऽभिव्यज्यत इत्युक्तम्‌—" स तु सर्वत्र संस्यूतो मूले179व्यक्तस्तथा पुनः । आविर्भवति देहेषु प्राणिनामर्थविस्तृतः” इति ॥ देहेष्विति मूलाधारप्रदेश तस्या-

अथाम्भन्तरपूजायामधिकारो भवेद्यदि।
त्यक्त्वा बाह्यामिमां पूजामाश्रयेदपरां180 बुधः॥१०॥`
पूजा याऽभ्यन्तरा साऽपि द्विविधा परिकीर्तिता।
साधारा च निराधारा निराधारा महत्तरा॥११॥

———————————————————————————————————————————
नुस्यूतस्य रवस्यसंस्थितपवनबलेनाभिव्यक्तिराविर्भावः181। तत्र हि पवनस्योत्पत्तिरुक्ता “दहेऽपरे मूलाधारेऽस्मिन्समुद्यति समीरणः ” इति। ज्ञातमर्थं विवक्षोः पुरुषस्येच्छयाजातेन प्रयत्नेन मूलाधारस्थः पवनः संस्कृतस्तेन पवनेन सर्वत्र स्थितं शब्दब्रह्म तत्राभिव्यञ्यते। तदभिव्यक्तं शब्दब्रह्म कारणबिन्द्वत्मकंस्वप्रतिष्ठतया निस्पन्दं सत्परा वागित्युच्यते। तदेव नाभिपर्यन्तमागच्छता तेन वायुनाऽभिव्यक्तं विमशेरूपेण मनसा युक्तं सामान्यस्पन्दप्रकाशरूपिणी कार्यबिन्दुतत्त्वात्मिकाऽधिदैवमीश्वररूपा पश्यन्ती वागित्युच्यते। तदेव शब्दब्रह्म तेनैव वायुना हृदयपर्यन्तमभिव्यज्यमानं निश्वयात्मिकयाबुद्ध्या युक्तं विशेषस्पन्दरूपनादबिन्दुमप्यधिदैवतंहिरण्यगर्भरूपा मध्यमा वागित्युच्यते। तदेवाऽऽस्यपर्यन्तंतेनैव वायुना कण्ठादिस्थानेष्वभिव्यज्यमानमकारादिक्षकारान्तवर्णमालारूपं परश्रोत्रग्रहणयोग्यंबीजात्मकमधिदैवं विराड्रूपं वैखरी वागित्युच्यते। तदुक्तमाचार्यैः’मूलाधारात्प्रथममुदितो यस्तु भावःपराख्यः पश्चात्पश्यन्त्यथ हृदयगो बुद्धियुङ्मध्यमाख्यः। वक्त्रेवैखयर्थ रुरुदिषोरस्यजन्तोः सुषुम्नां बद्धस्तस्माद्भवति पवनः प्रेरितो वर्णसंज्ञः182‘इति॥ तत्र वैखरी स्थूला मातृका सा प्रथमाधिकारिणः पूजोपकरणम्‌। मध्यमा सूक्ष्मा मातृका मध्यमाधिकारिणः पूजोपकरणम। कारणकार्यबिन्दात्मिका परा पश्यन्तीरूपा सृक्ष्मतरा मातृकोत्तमाधिकारिणः पूजोपकरणम्‌। मातृकात्रैविध्यं सर्वमन्त्रोपलक्षणम्‌। अतश्च सर्वमन्त्रा उक्तरीत्यास्थृलसूक्ष्मसृक्ष्मतररूपाःप्रथममध्यमोत्तमाधिकारिविषया इत्यर्थः। बहुवक्तव्यश्चायमर्थः। किंचित्तु प्रकृतोपयोगोदाविष्कृतमिति। गुरूपदेशत इति। उपदेशमन्तरेण शास्त्रैर्दुराधिगमत्वात्तथैव च फलतिशयत्वाच्चेत्यर्थः॥९॥ प्रथममभिधानाद्ब्राह्यपूजैव मुख्या इतरा जघन्येति भ्रमनिरासाय सुलभत्वानिमित्त बाह्यायाः प्रथममभिधानम्‌। उत्तमा त्वितरैवे-

साधारा यातु साधारे निराधारा तुसंविदि।
आधारे वर्णसंक्लृप्तविग्रहे परमेश्वरीम्‌॥ १२॥
आराधयेदतिप्रीत्यागुरुणोक्तेन वर्त्मना।
या पूजा संविदि प्रोक्ता सातु तस्यां मनोलयः॥१३॥
संविदेव परा शक्तिर्नेतरा परमार्थतः।
अतः संविदि तां नित्यं पूजयेन्मुनिसत्तमाः॥ १४॥
संविद्रुपातिरेकेण यत्किंचित्प्रतिभासते।
स हि संसार आख्यातः सर्वेषामात्मनामपि॥ १५॥

———————————————————————————————————————————त्याह—अथाभ्यन्तरेति। पूजास्वरूपस्य शास्त्रतःसम्पक्परिज्ञानं चित्त्यस्यैकाग्रता वाऽधिकारः॥ १०॥ मनसा परिकल्पितमूर्तावाधारे सच्चिदानन्दैकरसस्य शिवस्याऽऽवाहनाद्यात्मिकायासा साधरेत्याह-साधारेति।आधारकल्पितमन्तरेण साक्षात्तस्यैवानुसंधानं निराधारा। अत एव महत्तरेत्युक्तम्॥ १ १॥ काल्पेताधारस्वरूपमाह—आधार इति। मृलाधारमुखोद्गतबिसतन्तुनिभप्रभाप्रभावितसुधियाधारविस्तृतलिपिजाताहितमुखकरचरणादिकायां मुद्राक्षमालाऽमृतकलशपुस्तकहस्तायां मूर्तौसंविद्यावाहनादिभिराराधयेदित्यर्थः। सा तु तस्यामिति तु शब्देनाऽऽधारवन्मानसोपचारकल्पनाया अपि विरहलक्षणंवैलक्षण्यमाह। किं तर्ह्यस्याःपूजाया रूपमित्यत आह—तस्यां मनोलय इति। विषयान्तरव्यावृत्त्यातदेक विषयचित्तप्रवाहानुवृत्तिरित्यर्थः॥ १२॥ १३॥ कथमस्यानिराधारतेति चेत्पूज्यतदधिष्ठानयोरात्यन्तिकाद्भेदविरहादिवत्याह—संविदेवेति। शक्तिस्वरूपं तु ‘वक्षेपूजाविधिंशक्तेः परयाः’इत्यत्रोक्तम्‌। शक्तिशक्तिमद्भेदव्यवहारो—ऽप्यौपाधिकादेव भेदान्न वास्तवादित्याह—नेतरेति। अत एव अतःसंविदि तांनित्यमित्यपि भेदव्यवहार आधारान्तरविरहनिबन्धन एवेति। ‘स भगवः कस्मिन्प्रतिष्ठित इति स्वे महिम्नि’ इतिवत्‌॥ १४॥ उक्ते निराधाराया महत्त्वेसंसारसागरोत्तारणहेतुत्वकारणमाह—संविद्रुपातिरेकेणेति। साधारायामिवपूज्यपूजाधिकरणपुजकपूजोपकरणादिप्रपंचक्षणसंसारसमुल्लासविरहात्सं-

अतः संसारनाशाय साक्षिणीमात्मरूपिणीम्‌। `
आराधयेत्परां शक्तिंप्रपंचोल्लासवर्जिताम्‌॥ १६॥ `
संविद्वाचकशब्देन संविद्रूपामनाकुलः।
अर्चयेदादरेणैव शिवामादौमहामतिः॥ १७॥
पुनः समस्तमुत्सज्य स्वपूर्णां परसंविदम्‌।

———————————————————————————————————————————
सारनाशहेतुत्वेनेय’ महत्तरेत्यर्थः॥ १५॥ साक्षिणामिति। साक्ष्यप्रपञ्चोल्लासविरहेऽपि साक्षित्वं स्वरूपापरोक्षाभिप्रायं तदुल्लाससमयभाविवा तद्विरहदशायामसदप्युपलक्षणत्वेनोपादीयते॥ १६॥ निरस्तसमस्तोपाधौनिर्विकल्पिकायां संविदि चित्तमवतारयितुमुपायक्रममाह—संविद्वाचकेति। संविद्वाचकशब्दाःप्रणवहृल्लेखादिमन्त्राः। प्रणवोह्यकारोकारमकारैर्जाग्रत्स्वप्नसुषुप्तिसाक्षिणीं बिन्दुनादशाक्तिशान्तैश्व तुरीयतुरीयःतीतशक्तिशान्तात्मिकां संविदं प्रतिपादयन्निष्प्रपञ्चसंविदि पर्यवस्याति। एवं हृल्लेखामन्त्रोऽपि हकाररेफेकारबिन्दुनादशक्ति- शान्तलक्षणैःसप्तभिर्भागैरिति। अनयोश्चैतेभागा आगमे प्रदशिता—अकारश्चाप्युकारश्च मकरो बिन्दुरेव च। नादः शक्तिश्च शान्तश्च तारभेदाः प्रकीर्तिताः॥ हकारोरेफईकारो बिन्दुनादौ तथैव च। शक्तिशान्तौच संप्रोक्ताःशक्तेर्भेदास्तु सप्तधाइति॥ संविद्रुपामिति। संविदेव हि हृल्लेखमन्त्रप्रतिपाद्य। देवतोक्ता ‘बोधस्वरूपवाची संवित्तत्रैव देवता गुरुभिः इति। प्रणवस्य तु संविद्वाचकता सकलश्रुतिस्मृतिपुराणेतिहासैरुद्धोष्यत एव। अत आदौप्रथमावस्थायां विक्षेपकविषयव्यावृत्तेन चेतसा यथोक्तमन्त्ररूपैःसंविद्वाचकशब्दैर्निर्विकल्पयासंविद्यवतरेदित्यर्थः॥ १७॥ अत्र योगे निष्णातस्यानन्तरकक्षामाह—पुनःसमस्तप्तमिति पादत्रयेण। आलम्बनमात्रपरित्यागेन जागरादिक्रमपरित्यागेन च परमायामेवसंविदि प्रत्यययावृत्तिृकृत्वेत्यर्थः। तृतीयां कश्चामाह—पुनस्तच्च विसर्जयेदिति। इत्थमनुसंधानेन साक्षात्कृतपरसंवित्सरूपःस्वयं॑ तदात्मा भूत्वा ध्यानध्यातृध्येयाविभागानुसंधानमपिपरित्यजेदित्यर्थः। द्वितीयकक्षायांहि प्रत्यया अप्यनुसंधीयन्ते इह तु स्वरूपतः सतोऽपि ताननुसंधाय प्रत्येतव्यमेवानुसंधीयत इत्येतावानेव विशेषः। प्रत्ययस्वरू-

स्वात्मनैवानुसंधाय पुनस्तच्च विसर्जयेत्‌॥ १८॥
स्वानुभूत्या स्वयं साक्षात्स्वात्मभूतां महेश्वरीम्‌।
पूजयेदादरेणैव पूजा सा पुरुषार्थदा॥ १९॥
पूजाविधिर्मया शक्तेःप्रोक्तो वेदैकदर्शितः।
पूजयध्वं भवन्तोऽपि मुदा तामुक्तवर्त्मना॥ २०॥

इति श्रीस्कान्दपुराणे श्रीसूतसहितायां शिवमाहात्म्यखण्डे

शक्तिपूजाविधिर्नाम पञ्चमोऽध्यायः॥५॥

———————————————————————————————————————————पस्याप्यभावे तु सुषृप्तितःसमाधेरविशेषापातः॥ १८ ॥ परित्यज्य कथंतिष्ठेदित्यत आह—स्वानुभूत्येति। प्रत्यशनामप्यनवभासेपरानन्दैकरसस्वप्रकाशसंविदात्मना स्वयमपरोक्षतयाऽवभासमानोऽवतिष्ठत इति। इयं हि संविदः परमा पूजा। एषा च सकलसंसारकारणाविद्यानिरासेन यावदारम्भककर्मसंस्कारानुवृत्तिस्तावज्जीवन्मुक्तिलक्षणं तन्निवृत्ति परकवैलक्षणं च पुरुषार्थंददातीत्यर्थः॥ १९॥ पूजाविधिरिति। वेदैकदार्शित इति। श्वेताश्वतरे ध्यानयोगस्यैव परशक्तिसाक्षात्कारहेतुतोक्ता ‘ते ध्यानयोगानुगतः अपश्यन्देवात्मशक्ति स्वगुणैर्निगूढाम् इति। एको मुख्यःकेवलो वा संदार्शितः। वैदेनैकेन दर्शितइति विग्रहे पूर्वकालैकर्वजरत्पुगणनवकेवलाःसमानाधिकरणेन’ इति प्रथमानिर्देशादेकशब्दस्यैव पूर्वनिपात एकवेददर्शित इति स्यात्‌। पूजयध्वमितिमध्यमपुरुषेणाऽऽक्षिप्तस्य युष्मच्छब्दस्यापिनाऽन्वयः। भवन्त इति तु प्रथमानिर्देशे शत्रन्तम्‌। युयमपि तां संविदमुक्तवर्त्मना तद्रूपाः सन्तोऽलभ्यलाभनिबन्धनया मुदोपेताः पूजयध्वमित्यर्थः॥ २०॥

इति श्रीमाधवाचर्येण विरचितायां श्रीसूतसंहितातात्पर्यदीपिकायां

शिवमाहात्म्यखण्डे शाक्तिपूजाविधानं

नाम पञ्चमोऽध्यायः॥ ५॥

————

षष्ठोऽध्यायः।

६. शिवभक्तपूजाविधिः।

नेमिशीया उचुः—

भगवन्‌ शिवभक्तस्य कथं पूजा प्रकीर्तिता।
फलं च कीदृशं प्रोक्तं पूजायास्तद्वदाऽदरात्‌॥ १॥

सूत उवाच—

वक्ष्ये पूजाविधिं विप्राः शिवभक्तस्य सादरम्‌।
शृणुध्वं श्रद्धयोपेताः कुरुध्वं यत्नतः सदा॥ २॥
येन केन प्रकारेण शिवभक्तस्य जायते।
मनस्तृप्तिस्तथा कुर्यात्पूजा सैव मयोदिता॥ ३॥
शुद्धतोयं समादाय शिवभक्तस्य सादरम्‌।
पादौ प्रक्षालयेत्साऽपि पूजाविप्रा गरीयसी॥ ४॥
तैलाभ्यङ्गंतथा पूजां प्रवदन्ति मनीषिणः।
गात्रमर्दनमप्यस्य शिवभक्तस्य सुव्रताः॥ ५॥

———————————————————————————————————————————

वेदेन मुख्यतया दर्शितसंवित्पूजाविधौये न समर्थास्तेषामपि तत्सामर्थ्यप्राप्तिरनायासेन तत्फलप्राप्तिश्च यया शिवभक्तपूजया भवति सा कीदृशीति मुनयः पृच्छन्ति—भगवन्निति। अष्टविधा भक्तिस्तन्मध्येऽपि शिवभक्तपूजेैवप्रथमत उक्ता शिवपुराणे—मद्भक्तजनवात्सल्यं पूजायां चानुमोदनम्‌। स्वयमप्यर्चनं भक्त्या मदर्थं॑ चाङ्गचेष्टितम्‌॥मत्कथाश्रवणे भक्तिःस्वरनेत्राङ्गविक्रिया। मन्नामकीर्तनं नित्यं यश्च मामुपजीवति ” इति॥ १॥ अल्पेन सुकरेणोपायेन परमपुरुषार्थः कथं सिध्येदित्यनाश्वासात्तच्छ्रवणे करणे वाऽनादरो न विधेय इत्याह—शृणुध्वमिति॥ २॥ संग्रहेण पूजामाह— येन केनेति॥ ३॥ प्रपञ्चयति—शुद्धमित्यादिना। ४—९॥ संग्रह-

अन्नपानप्रदानं च प्रोक्ता पूजा गरीयसी।
अर्थदानं च पूजा स्याद्वस्त्रदानमपि द्विजाः॥ ६॥
स्रक्चन्दनादिदानं च वनितादानमेव च।
भूमिदानं च गोदानं तिलदानमपि द्विजाः॥ ७॥
जलपात्रप्रदानं च गृहदानं तथैव च।
तालवृन्तप्रदानं च पात्रदानं तथैव च॥
छत्रपादुकयोर्दानं शय्यादानं तथैव च।
शिवभक्तस्य पूजेति प्रवदन्ति विपश्चितः॥ ९॥
पुरा कश्चिद्द्विजा वैश्यः समृद्धोऽभून्महीतले।
तस्य पुत्राःसमुत्पन्नाश्चत्वारो वेदवित्तमाः ! १०॥
तेषां ज्येष्ठतमः पुत्रः सत्यवादी महाधनः।
सर्वभूतानुकम्पी च ब्रह्यचर्यपरायणः॥ ११॥
शिवभक्तः सदा विप्राः प्रसन्नो नियताशनः।
जन्ममृत्यृभयाक्रान्तस्त्वरमाणो विमुक्तये॥ १२॥
श्रीमद्वाराणसीमेत्य ब्रह्मविष्ण्वादिसेविताम्‌।
स्वधनं शिवभक्तेभ्यः प्रदत्त्वा श्रद्धया सह॥ १३॥
पूजया शिवभक्तानां विमुक्तः कर्मबन्धनात्‌।

———————————————————————————————————————————विवरणाभ्यामभिहितायां पूजायामाश्वासातिशयजननाय पुरावृत्तान्युदाहरति—पुरा कश्चिदित्याद्यध्यायशेषेणे॥ १० ॥ सत्यदयाब्रह्मचर्यैरेव शिवभक्तिर्लभ्येत्यााह—सत्यवादीति॥ ११॥ तत्प्रसादवतामेव सकलप्राणिसाधारणावपि जन्ममृत्यू भयहेतुत्वेन भासेते इयाह—जन्ममृत्युभयेति। श्रूयते हि—विवेकिनं नाचिकेतसंप्रति संतुष्टस्य मृत्योर्वचनम्—‘न सांपरायः प्रतिभाति बालंप्रमाद्यन्तं वित्तमोहेन मूढम्‌। अयं लोको नास्तिपर इति मानी पुनः

द्वितीयो वैश्यपुत्रस्तु धनिकोऽतीव सुव्रताः॥ १४॥
सोमनाथं महास्थानं सर्वकामफलप्रदम्।
समागत्य सह स्वस्य भार्यया वेदवित्तमाः॥ १५॥
सर्वस्वं शिवभक्तेभ्यः प्रदत्वाश्रद्धया सह।
पूजया शिवभक्तानां तथा मुक्तिमवाप्तवान्‌॥ १६॥
पुत्रस्तृतीयो वैश्यस्य प्रोज्झिताशेषबान्धवः।
अन्यायेनैव मार्गेण वर्तमानश्चिरं द्विजाः॥ १७॥
महाधनपतिर्भूत्वा पूर्वपुण्यबलेन सः।
श्रीमद्व्याघ्रपुरं पुण्यं समागत्य द्विजोत्तमाः॥ १८॥
अन्न पानं तथा वस्त्रं चन्दनं पुष्पमेव च।
ताम्बूलंशिवभक्तेभ्यः प्रदत्त्वा श्रद्धया सह॥ १९॥
संवत्सरत्रयं कृत्वा पूजामेवंद्विजोत्तमाः।
पूजया शिवभक्तानां विमुक्तः कर्मबन्धनात्‌॥ २०॥
वैश्यपुत्रश्चतुर्थोऽपि ब्राह्मणानविचारतः।
हत्वा सर्वधनं तेषां समादाय मुनीश्वराः॥ २१॥
विटानां च नटानां च गायकानां तथैव च।
मूर्खाणामपि दत्वास सदा वेश्यापरोऽभवत्‌॥ २२॥
स पुनः सर्वरोगार्तो गृहीतो ब्रह्मरक्षसा।
एवं चिरगते काले पिता तस्य महाधनः॥ २३॥
पुत्रस्नेहेन संतप्तः सत्वरंद्विजपुङ्गवम्।
सर्वशास्त्रार्थतत्त्वज्ञंसमागत्य मुनीश्वराः॥ २४॥

———————————————————————————————————————————पुनर्वशमापद्यते मे इति॥ १२-१८॥ प्रदत्त्वेति संज्ञापूर्वकस्यबिधे-

प्रणम्यदण्डवद्विप्रं दत्वा तस्मैमहाधनम्‌।
पुनर्विज्ञापयामास पुत्रवृत्तमशेषतः॥ २५॥
श्रुत्वा वृत्तं द्विजस्तस्य ब्राह्मणैःपण्डितोत्तमैः।
विचार्यसुचिरं कालंविनिश्चित्याब्रवीद्द्विजाः॥२६॥

ब्राह्मण उवाच—

श्रीमद्वृद्धाचलंनाम स्थानं सर्वनिषेवितम्‌।
सर्वोपद्रवनाशाय शंकरेण विनिर्मितम्॥ २७॥
ब्रह्मविष्ण्वादिभिर्नित्यं सेवितं सर्वदाऽऽदरात्‌।
नराणां दर्शनादेव वत्सराद्भुक्तिमुक्तिदम्‌॥ २८॥
अल्पदानेन सर्वेषां महादानफलप्रदम्‌।
ब्रह्महत्यासुरापानस्वर्णेस्तेयादिनाशनम्‌॥ २९॥
अगस्त्येन च रक्षार्थं लोकानां पूजितं पुरा।
मणिमुक्तानदीतीरेसर्वतीर्थसमावृते॥ ३०॥
अस्ति तत्सहपुत्रेण समागत्य मम प्रिय।
नद्यामस्यां स्वपुत्रेण सह स्नात्वादिने दिने॥ ३१॥
श्रीमद्वृद्धाचलेशानं दण्डवत्प्रणिपत्य च।
कृत्वा प्रदक्षिणं भक्त्या शतमष्टोत्तरं हरम्‌॥ ३२॥

———————————————————————————————————————————रनित्यत्वाल्ल्यबभावः॥ १९—२६॥ वाराणसीसोमनाथव्याघ्रपुरवृद्धाचललक्षणानि महत्तमानि तीर्थानि प्राप्तानामपि तद्ब॒लाल्लब्धविवेकानामन्ततः शिवभक्तपूजयैव परमपुरुषार्थप्राप्तिर्जातेति पुरावृत्तचतुष्टयोदाहरणतात्पर्यम्। अत एव हि तदभावे तेषामपि न फलवत्तेति वक्ष्यति—‘‘अदत्वा मुष्टिमात्रंयो देशेऽस्मिन्मुनिपुङ्गवाः। यो भुड्क्तेतस्य संसारान्नहि मुक्तिः कदाच-

प्रसादयित्वा सद्वैश्य ब्राह्यणं चान्यमेव च।
शिवभक्तं समाराध्य स्थानेऽस्मिन्‌ श्रद्धया सह॥
पूजया शिवभक्तस्य पुत्रमुद्धर यत्नतः॥ ३३॥

सूत उवाच—

एवमुक्तस्तु वैश्योऽपि ब्राह्मणेन समाहितः।
सह पुत्रेण चार्थेन भार्यया बन्धुबान्धवैः॥ ३४॥
श्रीमद्वृद्धाचलं पुण्यं समागत्य मुनीश्वराः।
मणिमुक्तानदीतोये महापापविनाशने॥ ३५॥
स्नानं कृत्वा महादेवं श्रीमद्वृद्धाचलेश्वरम्‌।
भक्त्या प्रदक्षिणीकृत्य नित्यमष्टोत्तरं शतम्‌॥ ३६॥
मनोरमं मठं कृत्वादत्वा तच्छिवयोगिने। `
नित्यं प्रपूजयामास शिवभक्तानतिप्रियः॥ ३७॥

धनेन धान्येन तिलेन तण्डुलैस्तथैव तैलेन तथोदकेन च।
दुकूलपुष्पाभरणैरपि द्विजा मनोनुकूलेन च पूजनेन॥३८॥

एवं संवत्सरेऽतीते पुत्रोनीरोगतां गतः।
पूजया शिवभक्तानां निवृत्तो ब्रह्मराक्षसः॥ ३९॥
स पुनः शिवभक्तेभ्यः प्रदत्त्वा धनमर्जितम्।
अस्मिन्देशे विमुक्तोऽभूत्पूजया परयाऽनया॥ ४१॥

———————————————————————————————————————————न”इति॥ २७—३३॥ बन्धुबान्धवैरिति। बन्धूनां संबन्धिनो बान्धवाः। बन्धुभिस्तद्वन्धुभिश्चेत्यर्थः॥ ३४॥ २५ ॥ अष्टोत्तरं शतम्‌। वारानिति शेषः।\। ३६॥ ३८॥ नीरोगतां गतः। निवृत्तो ब्रह्मराक्षस इति। न केवलं परमफलमपवर्गएव अवान्तरफलमारोग्यादिकमपि शिवभक्त-

पिता तस्य महाधीमान्देशस्यास्य तपोधनाः।
ज्ञात्वा माहात्म्यमाह्लादात्सर्वस्वं वेदवित्तमाः॥ ४१॥
प्रदत्त्वा शिवभक्तानां विमुक्तःकर्मबन्धनात्‌।
तस्य बन्धुजनाश्चैव शिवभक्तस्य पूजया॥ ४२॥
अनायासेन संसाराद्विमुक्तास्तत्र सुव्रताः।
अस्मिन्देशे प्रदत्तं यन्मुष्टिमात्रमपि द्विजाः॥ ४३॥
तदनन्तं भवत्येव नात्र कार्याविचारणा।
अदत्त्वा मुष्टिमात्रं यो देशेऽस्मिन्मुनिपुङ्गवाः॥ ४४॥
यो भुङ्क्ते तस्य संसारान्नहि मुक्तिः कदाचन।
अगस्त्यशिष्यो धर्मिष्ठः श्वेताख्यो भगवान्मुनिः॥४५॥
वैश्यपुत्रस्य वैश्यस्य बन्धूनामपि सुव्रताः।
श्रुत्वा मुक्तिमगस्त्येन प्रेरितो मुनिसत्तमाः॥ ४६॥
प्राप्यैतच्छ्रद्धया स्थानं श्रीमद्वृद्धााचलाभिधम् ।
मणिमुक्तानदीतोये स्नानं कृत्वासमाहितः॥ ४७॥
अर्कवारे तथाऽष्टम्यां पर्वण्यार्द्रादिने तथा।
मघर्क्षेच महादेवं श्रीमद्वृद्धाचलेश्वरम्‌॥ ४८॥
पूजयामास धर्मात्मा मणिमुक्तानदीजलैः।
तज्जलंपूजितंतेन श्वेतेनैवाभवन्नदी॥४९॥
नाम्ना श्वेतनदीत्युक्ता सर्वपापविनाशिनी।
पुनः श्वेतो मुनिः श्रीमान्‌ श्रद्धया परया सह॥ ५०॥

———————————————————————————————————————————
पूजया। भवतीत्यर्थः॥३९ —४८॥ पूजयामासेति। जलं समर्प्य पूजयामास। ’ ल्यब्लोपे पञ्चमी ” तेनैव च कारणेन तज्जलं लोके पूजितमभूत्।

पूजयामास धर्मज्ञःशिवभक्ताननेकधा।
देवदेवो महादेवः श्रीमद्वृद्धाचलेश्वरः॥ ५१॥
सांनिध्यमकरोत्तस्य भक्तानां पूजया तया। `
मुनिश्च देवदेवेशं श्रीमद्वृद्धाचरेश्वरम्‌॥ ५२॥
पूजयामास पुष्पेण पत्रेणैवोदकेन च।
एतस्मिन्नन्तरे विप्राः शिवस्य परमात्मनः॥ ५३॥
प्रसादाच्छिवभक्तानां पूजया परया तथा।
अवाप परमां मुक्तिं मुनिः श्वेतो महामतिः॥ ५४॥
बहुनाऽत्र किमुक्तेन ब्राह्मणा वेदवित्तमाः।
पूजया शिवभक्तानां भोगमोक्षौन चान्यतः॥ ५५॥
इति श्रुत्वा महात्मानो नैमिशारण्यवासिनः।
सादरं पूजयामासुः शिवभक्ताननेकधा॥ ५६॥
पूजया शिवभक्तानां प्रसन्नः परमेश्वरः।
ननर्तपुतस्तेषां मुनीनामम्बिकापतिः॥५७॥
मुनयो देवदेवस्य शङ्करस्य शिवस्य तु।
दृष्ट्वाऽऽनन्दमहाचत्मवशा अभवन्मुदा॥ ५८॥
इति श्रीस्कान्दपुराणे श्रीसूतसंहितायां शिवमाहात्म्यखण्डे
शिवभक्तपूजाविधिर्नाम षष्ठोऽध्यायः॥ ६॥

———————————————————————————————————————————
तेनेव निमित्तेन सा नद्यपि नाम्ना श्वेतनदात्युक्ताऽभवदित्यर्थः॥ ४९—५६ ॥ ननर्तेति। अभिनयेनैव परानन्दसाक्षात्कारोपदेशोनृत्ताभिप्राय इति प्रागेवव्याख्यातम्‌। तेनोपदेशेन जनितसाक्षात्काराणां मुनीनां बाह्यविषयास्फुरणेन तत्परवशतानुवृत्तिमाह—दृष्ट्वाऽऽनन्दमहानृत्तमिति॥ ५७॥ ५८

इति श्रीमाधवाचार्येण विरचितायां श्रीसूतरसंहितातात्पर्यदीपिकायां शिवमाहात्म्यखण्डे शिवभक्तपूजाविधिर्नाम षष्ठोऽध्यायः॥ ६॥

सप्तमोऽध्यायः।

७. मुक्तिसाधनकथनम्‌।

नेमिशीया ऊचुः—

भगन्‌ श्रोतुमिच्छामः सर्वतत्वविशारद।
केचित्केवलविज्ञानं प्रशंसन्ति विमुक्तये॥ १॥
केचित्समुच्चितं कर्मज्ञानेन ब्रह्मवित्तम।
केचिद्दानं प्रशंसन्ति तथा केचिद्व्रतं बुधाः॥ २॥
केचिद्यज्ञं प्रशंसन्ति तपः केचित्तपोधनाः।
ब्रह्मचर्याश्रमं केचिद्गार्हस्थ्यं भुवि केचन॥ ३॥

——————————————————————————————————————————— शिवेनाभिनयरूपोपदेशेन त्रिशदीकृतपरत्त्वाजीवन्मुक्ताः कृतकृत्या अपि मुनयः सकललोकोपकाराय सुलभं मुक्तिसाधनं जिज्ञासमानाः संशयबीजभूता बुद्धेर्विप्रतिपत्तीरुदाहरन्ति—भगवन्‌ श्रोतुमिच्छाम इति। केवलविज्ञानमिति वेदान्ततत्त्वविदः॥ १ ॥ समुच्चितं कर्मेति। तदेकदेशिनः—‘विद्यां चाविद्यां च यस्तद्वेदोभयं सह। अविद्यया मृत्युंतीर्त्वाविद्ययाऽमृतमश्नुते ‘यथाऽन्नं मधु संयुक्तं मधु चान्नेन संयुतम्‌। एवं तपश्च विद्या च सयुक्तं भेषजं महत्‌ इत्याद्याः श्रुतिस्मृतयो मोक्षकर्मसमुच्चया इति मन्यमानाः। केचिद्दानमिति॥“किं भगवन्तः परमं वदन्ति" इति श्रुतौ श्रद्दधानाः। केचिद्व्रतामति ‘न कंचन वसतौप्रत्याचक्षीत तद्व्रतं तस्माद्यया कया च विधया बह्वन्नं प्राप्नुयात्‌’ ‘अन्नंन निन्द्यात्तद्व्रतम्‌’इत्यादि पश्यन्तः॥२॥ केचिद्यज्ञामति। ‘यज्ञेन हि देवा दिवं गताः’ इत्यारभ्य ‘तस्माद्यज्ञं परमं वदन्ति, इति श्रुतिमाद्रियमाणाः। तपः केचिदिति। ‘तपः इति तपोनानशनात्परम्’ इत्यारभ्य’तस्मात्तपः परमंवदन्ति" इति श्रुतिमुदाहरन्तः। ब्रह्मचर्याश्रममिति ‘येषां तपोब्रह्मचर्यम्‌ नैष्ठिको ब्रह्मचारी वा वसेदामरणान्तिकम्‌’इत्यादि श्रुतिस्मृती परिशीलयन्तः। गार्हस्थ्यमिति। ‘एकाश्रम्यं त्वाचार्यः प्रत्यक्षवि-

वानप्रस्थाश्रमं केचित्संन्यासं भुवि केचन।
तीर्थसेवां प्रशंसन्ति स्वाध्यायं भुविकेचन॥ ४.॥।
केचित्स्थाने महेशस्य विशिष्टे वर्तनं सदा।
एवमन्यानि लोकेऽस्मिन्प्रशंसन्ति विमुक्तये॥ ५॥
एषां183 यत्सर्वजन्तूनां कर्तुं शक्यं विमुक्तिदम्‌।
तदस्माकं महाभाग वद सूत हिते रत॥ ६॥

सूत उवाच—

शृणुध्वं मुनयः सर्वेसमाधाय मनः सदा।
पुरा नारायणं व्यासः श्रीवैकुण्ठनिवासिनम्‌॥ ७॥
प्रणम्य दण्डवद्भक्त्या पर्यपृच्छदिदं बुधाः॥
सोऽपि नारायणः श्रीमानतीव प्रीतमानसः॥ ८॥

———————————————————————————————————————————धानाद्गार्हस्थ्यस्य’इति गौतमवचसा वञ्चिताः॥ ३॥ वानप्रस्थाश्रममिति।“तपः श्रद्धे ये ह्युपवसन्त्यरण्ये शान्ता विद्वांसो भैक्षचर्यां चरन्तः’ इति श्रुतिमभ्यसन्तः। संन्यासमिति। न्यास इति ब्रह्मेत्युपक्रम्य ‘तानि वा एतान्यवराणि तपांसि184 न्यास एवात्यरेचयत्‌ इति श्रुतितात्पर्यविदः। तीर्थसेवामिति।‘तीर्थे स्नाति तीर्थमेव समानानां भवति’इति श्रुतिदर्शिनः। स्वाध्यायमिति। अपहतपाप्मा स्वाध्यायो देवपवित्रं185 वा तस्मात्स्वाध्यायोऽध्येतव्योयं यंक्रतुमधीते तेन तेनास्येष्टंभवति’इति श्रुतिमधीयानाः॥४॥ केचित्स्थानं इति। संप्राप्य काशींशिवराजधानीं मङ्क्त्वा तदग्रे मणिकर्णिकायाम्‌। टृष्ट्वाऽथ विश्वेश्वरमेकदाऽऽर्येस्पृष्टा प्रणामः परमो हि धर्मः॥ इत्यादिवचन सहस्राणि व्याहरन्तः। एवमन्यानीति। ‘यः पुनरेतं त्रिमात्रेणोमित्येतेनैवाक्षरेण परं पुरुषमभिध्यायीत।इत्यारभ्य ‘परात्परं पुरिशयं पुरुषमीक्षते ‘इत्यादि श्रुतीर्विमृशन्तः प्रणवध्यानादिकमेव प्रशंसन्ति॥ ५—६॥

समुत्थाय महालक्ष्म्याब्रह्मणा च सुरैःसह।
वेदव्यासेन कैलासमगमत्परमर्षयः॥ ९॥
तत्र देव्या समासीनं नीलकण्ठमुमापतिम्‌।
तेजसा भासयन्सर्वं चतुर्वर्गफलप्रदम्‌॥ १०॥
ईश्चराणां च सर्वेषामीश्वरं परमेश्वरम्‌।
पतिं पतीनां परमं दैवतानां च दैवतम्‌॥ ११॥
स्मृतिमात्रेण सर्वेषामभीष्टफलदायिनम्‌।
सत्यं विज्ञानमानन्दं संपूर्णं सर्वसाक्षिणम्‌॥ १२॥
प्रणम्य परया भक्या पप्रच्छेदं जगद्धितम्।
महादेवोऽपि सर्वज्ञः सर्वभूतहिते रतः॥ १३॥
प्राह सर्वामरेशानो वाचा मधुरया बुधाः।

ईश्वर उवाच—

साधु साधु महाविष्णो भवता पृष्टमच्युत॥ १४॥
पुरा देवी जगन्माता सर्वभूतहिते रता।
मामपृच्छदिदं भक्त्याप्रणम्य परमेश्वरी॥ ४१५॥
तदिदं कृपया वक्ष्ये तव सर्वजगद्धितम्।
ज्ञानमेव महाविष्णो मोक्षसाधनमुच्यते॥ १६॥

———————————————————————————————————————————
सूतस्त्वाख्यायिकयैवोत्तरमाह—पुरा नारायणं व्यास इत्यादिना॥ ७॥ ९॥ भासयन्निति द्वितीयार्थेप्रथमा। तेजसा सर्वंभासयन्यश्चतुर्वर्गफलप्रदस्तमिति प्रकृत्यर्थविशेषणं वा शोभनं पठतीति क्रियाविशेषणवत्‌। विष्णुर्वाभासयन्नस्तु॥ १०॥यतः सर्वेषामीश्वराणामीश्वरोऽतः परमेश्वरः ॥११-१५॥ विदितप्रश्नाभिप्रायः शिवः सुलुभं सर्वाधिकारं च मुक्तिसाधनं वक्तुंप्रतिजानीते— तव सर्वजगद्धितमिति। सुलभस्य सुकरस्य सर्वाधिकारस्य च विवक्षिततीर्थजातस्य

ज्ञाानं वेदशिरोद्भूतमिति मे निश्चिता मतिः।
अनेकजन्मशुद्धानां श्रौतस्मार्तानुवर्तिनाम्‌॥ १७॥ `
जायते तच्छिवज्ञानं प्रसादादेव मे हरे।
निवृत्तिधर्मनिष्ठस्तु ब्राह्मणः पङ्कजेक्षण॥ १८॥
उक्तो मुख्याधिकारीति ज्ञानाभ्यासे मया हरे।
अन्ये च ब्राह्यणा विष्णो राजानश्च तथैव च॥१९॥
वैश्याश्च तारतम्येन ज्ञानाभ्यासेऽधिकारिणः।
द्विजस्त्रीणामपि श्रोतज्ञानाभ्यासेऽधिकारिता॥ २०॥
अस्ति शूद्रस्य शुश्रूषोः पुराणेनैव वेदनम्‌।

———————————————————————————————————————————
ज्ञानद्वारा मुक्तिसाधनतां च वक्तुंसाक्षान्मोक्षसाधनत्वं ज्ञानस्यैवत्याह—ज्ञानमेव महाविष्णो इति। ‘तमेव विदित्वाऽति मृत्युमेति नान्यः पन्था विद्यतेऽयनाय’ इति श्रुतेः॥ १६॥ तदपि ज्ञानमुपनिषद्वाक्यादेवेत्याह—वेदशिरोद्भूतमिति। ‘तंत्वौपनिषदं पुरुषं पृच्छामि’इति। वेदान्तविज्ञानसुनिश्चितार्थीः’इति श्रुतम्‌। तस्य तु ज्ञानस्य वक्ष्यमाणोपायरहितैःप्रयत्नातिशयलभ्यतामाह—नेकजन्मेति। निष्कामकृतानि हिकर्माणि भगवदाराधनद्वारेणैव तत्त्वज्ञानं साधयन्ति॥ फलं तु तत्त्वज्ञानमन्यद्वाशिवप्रसादादेवभवति। उक्तं हि ‘फलमत उपपत्तेरिति॥ १७॥ शिवज्ञानमिति। मदीयनिष्कव्ठतत्त्वज्ञानमित्यर्थः। उक्तज्ञानसाधनेषु तारतम्येनाधिकारितविभागमाह—निवृत्तिधर्मेति। निवृतिधर्मः संन्यासपूर्वकं श्रवणमननादिकम्‌। “याज्ञवल्क्यःप्रवव्राज"द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यःइति श्रूयते॥ १८॥ अन्ये चेति। अकृतसंन्यासादिकाः। तारतम्येनेति। न्यूनाधिकभावेन तरतमशब्दाभ्यांतरतमप्रत्ययवाचकाभ्यांतदर्थावतिशयौलक्ष्येते। तत्रापि द्वयोरातिशयात्तरबर्थाद्वहूनामतिशयस्तमबर्थोऽधिक इति तद्भावस्तारतम्यम्‌। द्विजस्त्रीणामिति। ‘अथ हैनं गार्गी वाचक्नवी पप्रच्छ’इत्यादौ गार्ग्यादेर्षिद्याव्यवद्दादरर्शनात्‌। अस्तिपदस्य पूर्वार्धेन संबन्धः॥ १९ २०॥

वदुन्ति केचिद्विद्वांसः स्रीणां शूद्रसमानताम्‌॥ २१॥
अन्येषामपि सर्वेषां ज्ञानाभ्यासो विधीयते।
भाषान्तरेण कालेन तेषां सोऽप्युपकारकः॥ २२॥
येषामस्ति परिज्ञानं विनेह ज्ञानसाधनम्‌।
कल्प्यंतत्साधनं तेषां पूर्वजन्मसु सूरिभिः॥ २३॥
मुख्याधिकारिणां नृृणां प्रतिबन्धविवर्जितम्‌।
ज्ञानमुत्पद्यतेऽन्येषां प्रतिबद्धं विजायते॥ २४॥

———————————————————————————————————————————
शूद्रस्य शुश्रूषोरिति। स्वधर्मनिष्ठस्य द्विजशुश्रूषा हि शूद्रस्य मुख्या वृत्तिः। ‘शूद्रस्य द्विजशुश्रूषा तथा जीवन्वणिग्भवेत्‌’इति स्मृतेः। पुरणेनैवेति। वेदवाक्यश्रवणस्य निषिद्धत्वात्। ‘अथ हास्य वेदमुपश्रृण्वतस्रपुजतुभ्यां श्रोत्रप्रतिपूरणम्‌इति। इदमेवोक्तं व्यासेन ‘श्रवणाध्ययनार्थप्रतिषेधात्स्मृतेश्च, इति। स्त्रीणां शूद्रसमानतामिति। यथाऽऽहुः—‘स्त्रीशूद्राद्विजबन्धूनां त्रयी न श्रुतिगोचरा। इति भारतमाख्यानं कृपया मुनिना कृतम्‌’॥ इति। गार्गीमैत्रेय्यादीनामपि श्रुतिवाक्यान्न तत्त्वबोधः किंतु पौरुषेयैरेव वाक्यैर्जातस्तत्त्वावबोध आख्यायिकारूपया श्रुत्या व्यवहृत इत्येतावदिति हि ते मन्यन्त इत्यर्थः॥ २१॥ येषांतु हीनजातीनां पुराणेऽप्यनधिकारस्तेषामपि स्वदेशभाषया तत्त्वविद्यायामस्त्याधिकार इत्याह—अन्येषामिति। नचैवं सर्वेषां फलसाम्यम्‌। कालसंनिकर्षादिकृतवैषम्यसंभवादित्याह—कालेनेति॥ २२ ॥ ननु निवृत्तिधर्मश्रवणादिकं विनैववामदेवादेर्गर्भस्थस्यैव स्वतो बोधः श्रूयते—‘गर्भे नु सन्नन्वेषामवेदम्‌’इति प्रस्तुत्य गर्भ एवैतच्छपानो वाक्रदेव एवमुवाचेति तत्कथं श्रवणादेः साधनतेति तत्राऽऽह—येषामस्तीति ॥२३॥सर्वेषां फलसाम्याभावाय वैषम्यान्तरमाह—मुख्याधिकारिणामीति ॥२४॥ प्रतिबद्धेन किं क्रियत इति चेत्‌। अनेकजन्मव्यवधानमिदत्याह—प्रतिबद्धं परिज्ञानमिति। उक्तं हि व्यासेन—‘ऐहिकमप्यप्रस्तुतप्रतिबन्धेतद्दर्शनात्‌’ इति ।भगवानप्याह—‘अनेकजन्मसंसिद्धस्ततो याति परां गतिम्‌’ इति।

प्रतिबद्धंपरिज्ञानं नेह मुक्तिंप्रयच्छति।
विशुद्धंब्रह्मविज्ञानं विशद्धस्येव सिध्यति॥ २५॥
अतः सर्वमनुष्याणां नहि मुक्तिरयत्नतः।
यज्ञदानादिकर्माणि न साक्षान्मुक्तिसिद्धये॥ २६॥
तस्मादयत्नतो मुक्तिः सर्वेषां येन हेतुना।
तं वदामि महाविष्णो हिताय जगतां शृणु॥ २७॥।
सन्ति लोके विशिष्टानि स्थानानि मम माधव।

———————————————————————————————————————————इह जन्मनि जन्मान्तरे वा मुक्तिश्चेत्सिध्यति कियान्विशेष इति चेत्‌। ‘इह चेदवेदीदथ सत्यमस्ति न चेदिहावेदीन्महती विनष्टिः’ इति तलवकारोपनिषदिमहतो वैषम्यस्य दशनादिहापि जायमाने वाऽधिकारिभदेन वैलक्षण्यमाह—विशुद्धमिति। उक्तमुख्याधिकारिणोऽपरोक्षानुभवपर्यन्तंज्ञानमितरस्य तु स्वाधिकारतारतम्येन परोक्षमपीत्यर्थः॥ २५ ॥ अधिकारवैचित्र्यमुपसंहरति—अतः सर्वेति। यानि कैश्चिन्मुक्तिसाधनान्युक्तानि तान्यत्यन्तविप्रकृष्टान्येवेत्याह—यज्ञदानादीति। निष्कामकृतान्यपि हि यज्ञादीनिप्रतिबन्धपापनिरासद्वारा सत्त्वशुद्धिमात्रंजनयन्ति तेन च विषयदोषदर्शनं ततो वैराग्यं तेन च श्रेयसि जिज्ञासा ततः संन्यासपूर्वकान्मनननिदिध्यासनोपाकृताच्छ्रवणात्तत्त्वज्ञानेनापवर्गइति। अतस्तेषां परमत्त्वाद्यभिधानमपि परंपरासाधनताभिप्रायमेव। तथाच— ‘तमेतंवेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन’ इति यज्ञादीनां विविदिषामात्रे साधनत्वं न वेदनेऽपि किमुत तत्फले मोक्षे। ‘विद्यां चाविद्यांच यस्तद्वेदोभयं सह’इत्यत्राप्यविद्याशब्दाभिधियस्यकर्मणे विद्यया सहोपायोपेयभावेन वेदन एव सहभावः श्रुतो न पुनरनुष्ठाने अतो ज्ञनकर्मणोः क्रमसच्चय एव। यान्यप्यन्यानि ज्ञानकर्मसमुच्चयवचनानि तान्यप्युक्तरीत्या क्रमसमुच्चयपराण्येव। अतो ज्ञानमेव साधनम्‌। तच्चाधिकारिवौचित्र्यात्साधनप्रयत्नवैचित्र्याच्चानेकतारतम्योपेतमिति प्रकरणार्थः॥२ ६॥ यदर्थोऽयं प्रपञ्चस्तमिदानीं तीर्थविशेषप्रभावंवर्णयितु-

तेषामन्यतमे स्थाने वर्तनं भुक्तिमुक्तिदम्॥ २८॥
श्रीमद्वाराणसी पुण्या पुरी नित्यं मम प्रिया। `
यस्यामुत्क्रममाणस्य प्राणैर्जन्ताः कृपाबलात्॥ २९॥
तारकं ब्रह्मविज्ञानं दास्यामि श्रयसे हरे।
तस्यामेव महाविष्णो प्राणत्यागो विमुक्तिदः॥ ३०॥
स्थानं दक्षिणकैलाससमाख्यं सत्कृतं मया।
यत्र सर्वाणि तीर्थानि सर्वलोकगतानि तु॥ ३१॥
सुवर्णमुखरीतोये पवित्रे पापनाशने।
मासि मासि व्यतीपाते मघर्क्षेमाघमासि च॥ ३२॥
अर्कवारेऽप्यमावास्यां स्नानं कृत्वा महेश्वरम्‌॥
श्रीकालहस्तिशैलेशं पूजयेन्मां सुरेश्वरम्‌॥ ३३॥
यत्र संवत्सरं भक्त्यायो वा को वा दिने दिने।
दृष्ट्वादक्षिणकैलासवासिनं करुणानिधिम्‌॥ ३४॥।
भुङ्क्ते तस्य महाविष्णो ज्ञानं तस्य विमुक्तिदम्‌।
जायते मरणे काले तेन मुक्तो भवेन्नरः॥ ६५॥
श्रीमद्व्याघ्रपुरे नित्यं यो वा को वा महेश्वरम्‌
प्रणम्य दण्डवद्भूमौ मासद्वादशकं मुदा॥ २६॥
तस्य सिद्धा परा मुक्तिर्नहि संशयकारणम।
श्रीमद्वृद्धाचले भक्त्या वर्तते वत्सरद्व्यम्‌॥ ३७॥

———————————————————————————————————————————मारभते—तस्मादयत्नत इत्यादिना ॥२७—२९॥ प्राणत्यााग इति। वक्ष्यमणितीर्थविशेषेष्वपीति शेषः.॥ ३०॥ तानि क्रमेणाऽऽह —स्थानंदक्षिणकैलासेत्यादिना॥ ३१—३३॥ यो वा को वेति।प्रागुक्ताधिकारादिवै-

यो वा को वा महादेवं श्रीमद्वृद्धाचलेश्वरम्।
प्रदक्षिणत्रयं कृत्वा प्रणम्य परमेश्वरम्‌॥ ३८॥
तस्य मुक्तेरयत्नेन सिध्यत्येव न संशयः।
स्थाने वर्तनमात्रेण विशिष्टे मानवोऽच्युत॥ ३९॥
अयत्नेन विमुच्येत स्वसंसारमहद्भयात्‌।
तस्माद्विमुक्तिमन्विच्छन्नयत्नेनैव मानवः॥ ४०॥
भजेदन्यतमं स्थानमेतेषां श्रद्धया सह।

सूत उवाच—

इति श्रुत्वा हरिर्बह्यप्रमुखैरमरैरपि॥ ४१॥
वेदव्यासेन लक्ष्म्याच सह वेदविदां वराः।
प्रणम्य परया भक्त्या भवं भक्तप्रिये रतम्‌॥ ४२॥
विहाय पद्मसंभूतं पाराशर्यं सुरानपि।
श्रीमद्दक्षिणकैलासं सर्वदेशोत्तमोत्तमम्‌॥ ४३॥
पञ्चयोजनविस्तीर्णं दशयोजनमायतम्‌।
ब्रह्मणा च सरस्वत्या वज्रिणा नीलयातथा॥ ४४॥
कालेन हस्तिना चान्यैर्देवगन्धर्वराक्षसैः।
मुनिभिः पूजितं स्थानं भुक्तिमुक्तिफलप्रदम्॥ ४५॥
अवाप पद्मया विष्णुः सह सर्वजगत्पतिः।
ब्रह्मा वेदविदां मुख्यः श्रीमद्वृद्धाचलंमुदा॥ ४३॥

———————————————————————————————————————————

चित्र्यनिबन्धनोऽपि न विशेषः कश्चिदस्तीत्यर्थः॥ ३४—४६॥विश्वविज्ञानसागरइति विष्णोरवतारभेदस्य. व्यासस्य विशेषणं तदीदरवि-

प्राप्तवानाशु भारत्या प्रसन्नःपापनाशनम्‌।
वेदव्यासो मुनिः श्रीमान्विश्वविज्ञानसागरः॥४७॥
प्राप्तवानादरेणैव श्रीमद्वाराणसीं पुरीम्‌।
तथा सर्वे सुरा विप्राः प्रसन्ना मुक्तिमुक्तिदम्॥ ४८॥
श्रीमद्व्याघ्रपुरंभक्त्याप्राप्तवन्तो मुनीश्वराः।
तथाऽन्ये मुनयो व्याघ्रपुरं पूर्वतपोबलात्॥ ४९॥
अवापुर्यत्र देवेशः प्रनृत्यत्यम्बिकापतिः।
अहं व्यासवचः श्रुत्वाश्रद्धया परया सह॥ ५०॥
श्रीमद्दक्षिणकैलासेऽप्युषित्वावत्सरं बुधाः।
पुण्डरीकपुरे तद्वच्छ्रीमद्वृद्धाचले तथा॥ ५१॥
वाराणस्यामपि ज्ञानं लब्धवानतिशोभनम्‌।
भवन्तोऽपि यथाश्रद्धंवर्तर्ध्वंपण्डितोत्तमाः॥ ५२॥
एषामन्यतमे स्थाने विशिष्टे मुक्तिसिद्धये।
बहवो वर्तनादेषु विमुक्ता भवबन्धनात्‌॥ ५३॥

इति श्रीस्कान्दपुराणे श्रीसूतसंहितायां शिवमाहात्यखण्डे

मुक्तिसाधनकथनंनाम सप्तमोऽध्यायः॥ ७॥

———————————————————————————————————————————
पयभूताया वाराणस्याः सर्वत उत्कर्षाभिप्रापेण॥ ४७—५०॥ अतएव सुतः स्वयमपि दक्षिणकैलासव्याघ्रपुरवृद्धाचलेषु वत्सरं वत्सरमुषित्वावाराणस्यामेवपरमपुरुषार्थं प्राप्तवानस्मीत्याह—श्रीमद्दक्षिणकैलासेऽपीति ५१-५३॥

इति श्रीमाधवाचार्येण विरचितायां श्रीसुतसंहितात्यापर्यदीपिकायां

शिवमाहात्मखण्डमुक्तिसाधनकथनं

नाम सप्तमोऽध्यायः॥

अष्टमोऽध्यायः।

८, कालपरिमाणतदनवाच्छिन्नस्वरूपकथनम्‌

नैमिशीया उचुः—

कालसंख्या कथं विद्वन्कथिता कालवेदिभिः।
कः कालेनानवच्छिन्नो वदकारुण्यतोऽनघ॥ १॥

सूत उवाच—

कालसंख्या मया वक्तुंन शक्या जन्मकोटिभिः।
मुनीन्द्रैरपि देवैश्च शिवेनापि महात्मना॥ २॥
तथाऽपि संग्रहेणाहं वक्ष्ये युष्माकमादरात्‌।
काष्ठा पञ्चदशा प्रोक्ता निमेषाः पण्डितोत्तमाः॥ ३॥
तासां त्रिंशत्कला तासां186 त्रिंशन्मौहूर्तिकी गतिः।
मुहूर्तानां द्विजास्त्रिंशद्दिवारात्रंतु मानवम्‌॥ ४॥

———————————————————————————————————————————
उक्ततीर्थसेवया जनिततत्वज्ञानानां मुक्तानामपि कालपरिच्छेदं संसारिभ्यःसकाशादविशेषप्रसङ्गाद्विशेषज्ञानाय परिच्छेदकं कालस्वरूपंतदनवच्छिन्नस्वरूपं च मनयो जिज्ञासन्ते—कालसंख्याकथमिति॥ १॥ सर्गप्रलयप्रवाहस्याऽऽनन्त्यादियद्दिन इयन्मास इयद्वर्ष एव वा कालइति हि परिच्छेदरूपा कालसंख्या भवद्भिर्जिज्ञासिता सा नास्त्येव। असती च सा मया मुनीन्द्रैः शिवेन वा कथं वक्तुं शक्या। नहि नराविषाणस्य परिमाणं केनचिद्वक्तुं शक्यामित्याह—कालसंख्यामयेति।युगमन्वन्तरकल्पमहाकल्पानां वर्षादिसंख्याचेत्पृच्छयते सा कथ्यते इत्याह। तथाऽपीति। अपरिज्ञातपरिमाणं कल्पादिकं ज्ञापयितुं परिज्ञातपरिमाणं निमेषादिकमाभते—काष्ठापञ्चदशेति। दिवारात्रं तुमानवमित्येवमन्तं सावनमानाभिप्रायम्‌ \। सौरचाद्र-

अहोरात्राणि विप्रेन्द्राः पक्षः पञ्चदश स्मृतः।
पक्षद्वयेन मासः स्यान्मासैःषड्भिर्द्विजोत्तमाः॥ ५॥

———————————————————————————————————————————नाक्षत्रमानेषु मनुष्याणां रात्रिंदिवविभागव्यवहाराभावात्‌। स हि विभागव्यवहारः सुर्यसावने मानवानाम्‌। चान्द्रमाने पितृृणाम्‌। सौरमाने देवानाम्‌। तथाहि सूर्यदर्शनादर्शनोपलक्षितयोर्हिकालभागयोर्दिवारात्रिशब्दौ व्युत्पन्नौ। तौ च सूर्योदयमारभ्य षष्टिघटिकात्मककालमध्ये मनुष्याणां भवतः। चन्द्रवृद्धिक्षयावच्छिन्नस्तु कालश्चान्द्रो मासः। तत्र पितृृणां कृष्णाष्टम्यां सूर्योदयः। दर्शोऽहर्मध्यम्‌। शुक्लाष्टम्यामस्तमयः। पौर्णमास्यां रात्रिमध्यमिति सचान्द्रोऽहोरात्रः\।\। २—४ ॥ अहोरात्राणि विप्रेन्द्रा इति तिथ्यभिप्रायम्‌। तेषु हि शुक्लप्रतिपदादिपौर्णमास्यन्तेष॒ मानवानां शुक्लपक्षव्यवहारः। शेषे कृष्णपक्षव्यवहार इति। ‘पक्षद्वयेन मासः स्यात्‌’इति तु चान्द्रमासाभि प्रायम्‌। स हि यथोक्तपक्षद्वयात्मकः। सावनस्तु मासो यदा कदाचिदारभ्य त्रिंशत्सुर्योदयात्मकः। सौरस्तु सूर्यस्यैकराशिभोगमात्रात्मक इति न तौ पक्षद्वयात्मकत्वेन व्यवह्रियते मासैः षड्भिरित्यारभ्यसौरमानेन ॥ ५ ॥ यद्यपि चान्द्रादीनामपि दक्षिणोत्तरायणे विद्येते तथाऽपि न तयोर्मासषट्कात्मकत्वम्‌। नापि तद्वयस्य वर्षात्मकत्वम्‌। क्रमात्तेइति। कर्कटायनमारभ्य मकरायणपर्यन्तं दक्षिणायनम्‌। तस्मिन्खलु काले क्रान्तमण्डलस्योत्तरमवसानमारभ्य दिने दिने सूर्यौ दक्षिणत एति मकरायणपर्यन्तम्‌ तद्दक्षिणायनम्‌। तदारभ्य दिनि दिने क्रान्ते दक्षिणावसानमारभ्योत्तरत एति कर्कटायनपर्यन्तमिति तदुत्तरायणम्‌। पुर्वंदक्षिणायनं देवानां रात्रिः। उत्तरायणं तेषामहरित्यर्थः। ननु मेषादिराशिषट्कं निरक्षदेशादुत्तरतश्चरति तत्रस्थं सूर्यं सदा देवाः पश्यन्ति। अतस्तेषां तदहः। तुलादिराशिषट्कं निरक्षदेशाद्दक्षिणतश्चरति तत्रस्थं सूर्यमसुरा नित्यं पश्यन्ति देवा न कदाचिदतो देवानां सा रात्रिः। उक्तं हि सूर्यसिद्धान्ते—’ सुरासुराणामन्योन्यमहोरात्रं विपर्ययात्‌’इति.। अत उत्तरायणानुप्रविष्टे मकरकुम्भमीनमासत्रये देवानां सृर्यदर्शनाभावात्कथं सकलमुत्तरायणं तेषामहरित्युच्यते तथा कर्कटकसिंहकन्यामासेषुक्तदक्षिणायनानुप्रविष्टेषुदेवाःसदा सूर्यं पश्यन्तीति तेषां कथं रात्रिरुच्यते इति। तत्र ब्रूमः।

अयनंद्वेऽयने वर्षं क्रमात्ते दक्षिणोत्ते।
रात्रिर्दिवौकसां पूर्वं दिवा चैवोत्तरायणम्‌॥ ६॥
मनुष्याणां यथा187 तद्वद्देवानामपि सूरिभिः।
पक्षमासायनाब्दानां विभागः कथितो द्विजाः॥ ७॥
दिव्यैर्द्वादशसाहस्रैर्वर्षैःप्रोक्तं चतुर्युगम।
कृतं तत्र युगं विप्राः सहस्राणां चतुष्टयम्‌॥ ८॥
तस्य संध्याच संध्यांशः प्रोक्तश्चाष्टशताऽनघाः।
त्रिभिर्वर्षसहस्रैस्तु त्रेता दिव्यैःप्रकीर्तिता॥ ९॥

———————————————————————————————————————————उक्तानुपपत्तिबलादेवात्र * श्लोके उत्तरायणशब्देन मकारादिमासषट्कंनगृह्यते। किंतूत्तरगोलभूतंमेषादिमासषट्कम्‌। तद्धि निरक्षदेशादुत्तरतः स्थितमिति। तत्र वर्तमानः सूर्यो गतेन प्रत्यागतेन च सदा निरक्षदेशादुत्तरत एतीति तदुत्तरायणमत्र विवक्षितम्‌। तत्र च सूर्यं सदा देवाःपश्यन्तीति मेषादिमासषट्कं देवानामहरिति। एतेन तुलादिमासषट्कंदेवानां रात्रिरिति व्याख्येयम्‌। यद्वाअत्रदिवाशब्देन सूर्यस्योन्नतकालोगृह्यते। रात्रिशब्देन च तस्य नतकालः। मकरादिमासषट्‌कं हि देवान्प्रति सुर्यस्योन्नतकालत्वाद्दिवेत्युक्तम्‌। कर्कटादिमासषट्‌कम्‌ तु तान्प्रति नतकालत्वाद्रात्रिरित्युक्तमिति। तदेवं दक्षिणायनोत्तरायणशब्दौ वा सूर्यस्य निरक्षदेशाद्दक्षिणोत्तरगोलगमनाभिप्रायौ। रात्रिदिवाशब्दौवा देवान्प्रति सूर्यस्यनतोन्नतकालाभिप्रायाविति सर्वं समञ्जसम्‌॥ ६॥ मनुष्याणां पञ्चदश तिथयः पक्षः। पक्षद्वयंचान्द्रो मासः। सूर्यस्यैकराशिभोगस्तु सौरो मासः। राशिषट्कभोगोऽयनम्‌। अयनद्वयं सवत्सर इति। यथा मानुषः संवत्सर एवं देवानां स्वमानेनाहोरात्रस्तदनुसारेणैव पश्चमासायनाब्दाअपि द्रष्टव्या इत्याह—मनुष्याणामिति॥ ७ ॥ दिव्यैर्द्वादशेत्यादि। दिव्याब्दानां सहस्रद्वादशकेन कृतत्रेताद्वापरकलिनामकंयुगचतुष्टयं भवति तत्र द्वादशसहस्रमध्ये

कृतार्धंद्वापारः प्रोक्तस्तदर्धंकलिरुच्यते।
ऋमात्संध्या च संध्यांशस्तुरीयांशविवर्जितः॥ १०॥
त्रेताद्वापरतिष्याणां युगानां मुनिपुङ्गवाः।
एवं दादशसाहस्रं प्रोक्तं विप्राश्रतुर्युगम्॥ ११॥
युगानामेकसप्तत्या मन्वन्तरमिहोच्यते।
मनवो ब्रह्मणः प्रोक्ता दिवसेच चतुर्दश॥ १२॥
ब्राह्ममेकमहर्विप्राःकल्प इत्युच्यते बुधैः।
तावती रात्रिरप्युक्ता ब्रह्यणः पण्डितोत्तमाः॥ १३॥
त्रिशतैःषष्टिभिः कल्पैर्ब्रह्मणों वर्षमीरितम्‌।

———————————————————————————————————————————
चतुःसहस्रण्यष्टो शतानिचाब्दाः कृतयुगप्रमाणम्‌। आदाववसाने च शतद्वयं शतद्ववं च संध्या। तत्संनिकृष्टं शतद्वयंशतद्वयंच संध्यांशः तन्मध्यवर्ति सहस्रचतुष्टयंयुगशरीरम्। त्रिभिरित्यादि। कृतप्रमाणं पादोनं त्रेता कृतार्धंद्वापरः कृतचतुर्थांशः कलिः। कृतसंध्यासंध्याशौपादोनौ त्रेतायाः कृतवदभितो द्रष्टव्यौ। अर्धीकृतौद्वापरस्य चतुर्थांशः कलेरितिं। तिष्यः कालिः। उक्तं हि सुर्यसिद्धान्ते—‘दिव्यैर्द्वादशसाहस्रैर्भिन्नेरेकं चतुर्युगम्‌। युगस्य दशमो भागश्चतुस्त्रिद्व्येकसंगुणः॥ क्रमात्कृतयुगादीनां षष्ठोंऽशः संध्ययोः स्वकः’। इति॥८-११॥ युगानामिति। उक्तचतुर्युगानाम्‌॥१२॥ ब्राह्ममेकमहरिति। कल्पादावेकःसंधिः। मन्वन्तरावसानेचैकैक इति पञ्चदश संधयः कृतयुगप्रमाणाः कृतचतुर्थांशश्चकलिरिति चतुर्गुणितैः पञ्चदशभिः षष्टिः कलिप्रमाणानि भवन्ति। दशभिः कलिप्रमाणैरेकंचतुर्युगमिति षष्ट्याषट्चतुर्युगानि भवन्ति। चतुर्दशगुणितया चैकसप्तत्या षडूनंसहस्रंभवति। मिलितं युगसहस्रंब्राह्ममेकमहः स कल्प उच्यत इत्यर्थः। तदवसाने च भूर्भुवः स्वरिति लोकत्रयंलीयते। तद्रात्र्यवसने च लोकत्रयं सृज्यते। सा च सृष्टिरनन्तराध्याये वक्ष्यते॥ १३॥ त्रिश-

वर्षाणां यच्छतं तस्यद्विपरार्धमिहोच्यते ॥ १४ ॥
ब्रह्मणोऽन्ते मुनिश्रेष्ठा मायायां लीयते जगत्‌ ।
तथा विष्णुश्च रुद्रश्चप्रकृतौविलयं गतौ॥१५॥
ब्रह्मणश्च तथा विष्णोस्तथा रुद्रस्य सुव्रताः।
मूर्तयो विविधाः स्वेषु कारणेषु लयं ययुः॥ १६ ॥
माया च प्रलये काले परस्मिन्परमेश्वरे।
सत्यबोधसुखानन्दे ब्रह्मरुद्रादिसंज्ञिते ॥ १७ ॥
अभेदेन स्थितिं याति हेतुस्तत्र सुदुर्गमः।
अन्यथाभानहेतुत्वादियं मायेति कीर्तिता ॥ १८ ॥

———————————————————————————————————————————
तैरिति । तावत्तावद्रात्रियुक्तैरित्यर्थः ॥ १४ ॥ ब्रह्मणोऽन्त इति ।स्थलभूतकार्यं जगतस्थूलभूतेषुतानि सृक्ष्मभूतेषु ।’ जगत्प्रतिष्ठा देवर्षेपृथिव्यप्सु प्रलीयते । तेजस्यापः प्रलीयन्ते तेजो वायौ प्रलीयते ।वायुःप्रलीयते व्योम्नि तदव्यक्तं प्रलीयते’इत्युक्तादिशेत्यर्थः। तथा विष्णुश्चेति । ब्रह्मविष्णुरुद्राणामवतारमूर्तयः स्वकारणेषु मायाया रजःसत्त्वतमोगुणेषु प्रविशन्ति । स्वयं तु परमेश्वरात्मनैव वर्तन्ते ॥ १५ ॥ १६ ॥ प्रलयेकालइति ।प्रकृते प्रतिसंचरे । यस्य ह्यनन्तरभावी सर्गोदशमैकादशाध्याययोर्वक्ष्यते । सत्यबोधेति । सत्यज्ञानानन्दैकरसत्वंशिवस्योक्तं द्वितीयाध्याये मन्मायाशाक्तिरित्यत्र ॥ १७ ॥ अभेदेन स्थितिं यातीति ।यथा तस्या भेदेन नावभासो यथा च नाऽऽत्यन्तिको नाशस्तथोक्तं पञ्चमाध्याये मातृका च त्रिधेत्यत्र । ननु कार्यप्रपञ्चवत्कारणभूता मायाऽपि कस्मान्न विलाप्यते किमिति तयाऽवस्थातव्यम्‌ ।उत्तरसर्गार्थमिति चेत्‌ । अथ तस्य स्वमहिमप्रतिष्ठस्य किमुत्तरैरपि सर्गस्तत्राऽऽह—हेतुस्तत्र सुदुर्गम इति \। तदुक्तमाचार्यै—‘भोगार्थंसृष्टिरित्यन्ये क्रीडार्थमपि चापरे । देवस्येष प्रभावोऽयमाप्तकामस्य का स्पृहा’ इति । उक्तं व्यासेन ‘लोकवत्तु लीलाकैवल्य’ मिति ।विष्णुपुरणेऽपि—‘क्रीडतो बालकस्येव चेष्टास्तस्य निशामय’इति ।

आत्मतत्त्वतिरस्कारात्तम इत्युच्यते बुधैः। .
विद्यानाश्यत्वतोऽविद्यामोहस्तत्कारणत्वतः॥ १९॥
सद्वैलक्षण्यदृष्ट्येयमसदित्युदिता बुधैः।
कार्यनिष्पत्तिहेतुत्वात्कारणं प्रोच्यते बुधैः॥ २०॥
कार्यवद्व्यक्तताभावादव्यक्तमिति गीयते।
एषा माहेश्वरी शक्तिर्नस्वतन्त्रा परात्मवत्‌॥ २१॥
अनया देवदेवस्य शिवस्य परमात्मनः।
उदितः188 परमः कालस्तद्वशाः सर्वजन्तवः॥ २२॥
सोऽपि साक्षान्महादेवे कल्पितो मायया सदा।
सर्वे काले विलीयन्ते न कालोलीयते सदा॥ २३॥

———————————————————————————————————————————ननु कार्यप्रपञ्चस्य कारणे लयोऽस्तु कारणं तु मायैवेति कुतः। असदव्यक्तादिशब्दैः श्रूतिस्मृतिपुराणेषुकारणस्यनेकधा विप्रतिपत्तिदर्शनादित्याशङ्क्य प्रवृत्तिनिमित्तभेदेन मायादिशब्दा एकमेवार्थं प्रतिपादयन्तीत्यभिप्रेत्य प्रवृत्तिनिमित्तभेदमाह—अन्यथाभानेत्यादिना॥ १८—२०॥परात्मवदिति। यथा परमात्मा स्वतन्त्रो नैवभेषा स्वतन्त्रा अत एव हि शक्तिरित्युक्तम्‌। परमः काल इति। द्विविधो हि कालःपरमाऽपरमश्चेति। शिवमायासंबन्धरूपः परम इति। वक्ष्यति ह्यत्तरखण्डे—‘कालोमायात्मसंबन्धः सर्वसाधारणात्मकः’इति स एव कल्पमन्वन्तरसंवत्सरमासाद्यात्मना पदार्थान्परिच्छिन्दन्नपरः काल आयुरित्युच्यते। तदुक्तम्—भोजेन ‘भावि भवद्भूतमयंकलयति जगदेष कालोऽतः’इति। तदाह—तद्वशाः सर्वोति। मायावदनादिरप्यसौतदधीननिरूपणतया तयोदित इत्युच्यते॥२१—२२॥ अतएव मायावत्तत्संबन्धरूपः कालोऽपि कल्पित इत्याह—सोऽपीति। यथा माया मायादृष्ट्यैव कल्पिता तथा तत्संबन्धोऽपि। यदाहुराचार्याः—‘अस्या विद्येत्यविद्यायामेवाऽऽसित्वा प्रकल्प्यते। ब्रह्मदृष्ट्यात्वविद्येयंकथंचन युज्यते

कालो माया च तत्कार्यं शिवेनैवाऽऽवृतं बुधाः।
शिवः कालानवच्छिन्नः कालतत्त्वं यथा तथा ॥२४॥
तथाऽपि कालोऽसत्यत्वान्मायया सह लीयते।
शिवो न विलयंयाति द्विजाः सत्यस्वभावतः॥२ ५॥
उत्पन्नानां प्रनष्टानामुत्पाद्यानां तथैव च।
शिवः कालानवाच्छिन्नः189 कारणं त्विति कीर्तितः ॥२६॥

———————————————————————————————————————————
ननु मायाशिवसंबन्धात्मनः कालस्यमायात उदितत्वे जगदिव सोऽपि विनाशीति परिमितत्वात्कथं तत्परिमाणं शिवेनापि ज्ञातुमशक्यमित्युक्तमित्यत आह—सर्वेकालइति। येन कालःपरिच्छेत्तव्यःस सर्वःकालेनैव परिच्छिद्यत इति कालस्य परिच्छेदकाभावादपरिमित इत्युक्तमित्यर्थः। उदित इति न जन्माभिप्रायम्‌। किंतुमायावत्सदा सद्भावादिति। प्रागसतः सत्तासंबन्धवाचको ह्युदयशब्दः प्रागभावांशंपरित्यज्यसत्तासंबन्धांशमात्रं लक्षयति। यथौत्पत्तिकस्तु शब्दस्यार्थेन संबन्ध इति जैमिनिसूत्र उत्पत्तिशब्दः। तथाहि तत्र व्याख्यातं शाबरभाष्ये औत्पात्तिक इति नित्यं व्रुम इति॥२३॥ कालस्यकदाचिदपि विलयाभावात्कथं कल्पितत्वमुक्तम्‌। ज्ञानाविलाप्य स्यैव कल्पितत्वनियमादित्यत आह—कालोमायेति। मायाकार्यं च माया च तत्संबन्धरूपःकालश्च त्रितयमपि शिवतत्वज्ञानेन विलीयत एव। तद्व्यति-रिक्तोपायैर्नविलीयत इत्यभिप्रायेण तु न कालोलीयते सदेत्युक्तमित्यर्थः।कालस्यसर्वपरिच्छेदकत्वे सर्वान्तर्भावाच्छिवस्यापि तेन परिच्छेदो न शङ्नीय इत्याह—शिवः कालेति। यथा कालः कालेन न परिच्छिद्यते तथा शिवोऽपीति ॥ २४ ॥ कालशिवयोरुभयोरपि कालानवच्छेदसाम्येऽपि सत्यासत्यत्वकृतं वैलक्षण्यमित्याह—तथाऽपीति ॥ २५ ॥ कालसामान्येन शिवस्यानवच्छेद उक्तः। कालविशेषैस्तुसुतरामनवच्छेद इत्याह—उत्पन्नानामीति। शिवादेव हि जगज्जायते तस्मिन्नेव वर्तते तत्रैव लीयते। अतो

प्रसादादस्य देवस्य

ब्रह्मविष्ण्वादि

कंपदम्।
तदधीनं जगत्सर्वमित्येषाशाश्वती श्रुतिः॥ २७॥
असंख्या विलयं याता

ब्रह्माणः पण्डितोत्तमाः।
असंख्या विष्णवो रुद्राअसंख्या वासवादयः॥ २८॥
एक एव शिवः साक्षात्सृष्टिस्थित्यन्तसिद्धये।
ब्रह्मविष्णुशिवाख्याभिः कल्पनाभिर्विजृम्भितः॥२९॥
रजोगुणेन संछन्नो ब्रह्माऽधिष्ठाय तं गुणम्‌।
स्रष्टाभवति सर्वस्य जगतः पण्डितोत्तमाः॥३०॥
गुणेन तमसा छन्नो विष्णुः सत्वगुणं बुधाः।
अधिष्ठाय भवेत्सर्वजगतः पालकः प्रभुः॥ ३१॥
तथा सत्वगुणच्छन्नो रुद्रो विप्रास्तमोगुणम्‌।
अधिष्ठाय भवेद्धन्ता जगतः सत्यवादिनः॥३२॥

———————————————————————————————————————————

जगतः प्रागपि सत्वान्न वर्तमानभविष्पत्कालाभ्यामवच्छिद्यते। स्थितिकालेऽपि सत्वान्न भूतभविष्यद्भ्यां। विनाशोत्तरमपि सत्त्वा

न्न भूतवर्तमानाभ्यामिति॥२६॥ ननु जगदुत्पत्तिस्थिति

लयकारणं ब्रह्मविष्णुरुद्रास्तत्कथं शिव इत्युच्यत इत्यत आह—प्रसादादस्येति। शिवायत्तकालावच्छिन्ना ब्रह्मादयोऽपि न स्वतन्त्राः। कालस्यहि शिवायत्तता श्रूयते—“एतस्य वा अक्षरस्य प्रशासने गार्गि निमेषा मु

हूर्ताअर्धमासा मासा इति विधृतास्तिष्ठन्तीति। इतिशब्दोऽनुक्तसकलकालभागसंग्रहार्थः॥२७॥ ब्रह्मादीनां भूतकालपरिच्छेदमाह—असंख्या इति॥ २८॥ त

त्किं भूते काले ब्रह्मादयः स्वतन्त्राः। न। तदाऽपि तद्रूपेण शिवस्यैव सर्गादिकर्तृत्वादित्याह—एक एवेति॥ २९॥ कल्पनावैचित्र्ये

कारणमाह —रजोगुणेनेति। ब्रह्मा हि रक्तवर्णत्वाद्बही रजोगुणेन संछन्नः प्रवृत्तिशीलत्वादन्तरपि तमेवाधितिष्ठति। इन्द्रनीलश्यामत्वाद्विष्णुरन्तस्तमसा संछ्न्नो जगतः पालनेन बहिः सत्त्वमधितिष्ठति। चन्द्रकोटिप्रकाशत्वाद्रुद्रोऽ-

ब्रह्मणो मूर्तयोऽनन्ता जायन्ते गुणभेदतः।
तथा विष्णोस्तथेशस्य गुणभेदेन सुव्रताः॥ ३३॥
काश्चित्सत्त्व190गुणोद्रेकाद्विशिष्टा मूर्तयो द्विजाः।
काश्चित्तमोगुणोद्रेकान्निहन्त्र्योवेदवित्तमाः॥ ३४॥
परस्परोपजीव्याः स्युर्हिताय जगतां द्विजाः।
सर्वमूर्तिष्वयं साक्षाच्छिवः सत्यादिलक्षणः॥ ३५॥
अप्रच्युतात्मभावेन सदा191 तिष्ठति सुव्रताः।
तमहंप्रत्ययव्याजात्सर्वेजानन्ति जन्तवः॥ ३६॥
तथाऽपि शिवरूपेण न विजानन्ति मायया।

———————————————————————————————————————————
न्तः सत्त्वेन संछन्नःसकलससारसंंहार

द्बहिस्तमोगुणेनेति गुणवैचित्र्यं ब्रह्मादीनां गुणत्रयनिबन्धनं। रक्तकृष्णश्वेतरूप

त्वमिति सूतगीतामु द्वितीयाध्याये वक्ष्यति। सत्यवादिन इति मुनीनां संबोधनम्‌॥३०—३२॥ ननु ब्रह्मादीनां भूतकालपरिच्छेदे कथमधुनात

नोभविष्यन्वा स

र्गादिरित्यत आह—ब्रह्मण इति॥३३॥ महावर्गाणामानन्त्यात्प्रतिमहा

सर्गं ब्रह्मादिसृष्टेस्तन्मूर्तीनामानन्त्यम्‌। न केवलंब्रह्मदयोऽप

राअप्यनन्ताःशिवस्यमूर्तेया गुणभेदेन विचित्रा इत्याह—काश्चित्सत्त्वगणोद्रेकादिति। ‘ये अन्नेषु विविध्य

न्ति

ये पथां पथिरक्षयः’इत्यादयोहि निग्रहानुग्रहव्या

पाराः। शिवमूर्तयोऽनन्ताः श्रूयन्त इत्यर्थः॥ ३४॥ परस्परोपजीव्या इति। संहारैकगुणत्वेहि न सर्गोऽभिवर्धेत। सत्त्वैकगुणत्वेच दर्पेण विनश्येयुः। अतः परस्परोपजीवनं जगतोहितम्‌। इत्थंमूर्तीनां गुणवैचि

त्र्येण शान्तघोरमूढतेति। तत्र सर्वत्रानुगतस्य शिवस्य स्वरूपादच्युतिमाह—स

र्वमूर्ति

ष्विति॥सर्वत्रानुगते किमित्यनुपलम्भस्तत्राऽऽह—तम

हंप्रत्यपेति। अहंप्रत्ययोहि सर्वप्रत्य

क्त्वंविषयीकरोति। सर्वान्तरत्वं च शिवस्य स्वरूपम्‌। श्रूयते हि—‘अन्तः प्रविष्टः शास्ता जनानां सर्वात्मा

’इति। अतोऽहमिति प्रत्यागात्मनो ज्ञानं तत्सर्वंशिवस्यैवेत्यर्थः॥ ३६॥ तर्हि

सर्वे प्राणिनः कृतकृत्या इति

प्रसादाद्देवदेवस्य श्रुत्युत्पन्नात्मविद्यया॥
बहूनां जन्मनामन्ते जानन्त्येव शिवं बुधाः॥ ३७॥
प्रसादहीनाः पापिष्ठा मोहिता मायया जनाः।
नैव जानन्ति देवेशं जन्मनाशादिपीडिताः॥ ३८॥
यां यां मू

र्तिंसमाश्रित्य ब्रह्मभावनया जनाः।
आराधयन्ति ते सर्वे क्रमाज्जानन्ति शंकरम्‌॥ ३९॥
रुद्रस्य मूर्तिमाराध्य प्रसादात्कर्मवर्जि

ताः।
अयत्नेनैव जानन्ति शिवं सर्वत्र संस्थितम्‌॥ ४०॥
रुद्रमूर्तिषु सर्वासु शिवोऽतीव प्रकाशते।
अन्यासु तारतम्येन शिवः साक्षात्प्रकाशते॥ ४१॥
आद

र्शेनिर्मले यद्वद्भृशं भाति मुखं द्विजाः।
तथाऽतीव महादेवो भाति शुद्धासु मूर्तिषु॥ ४२॥
कानिचिद्वेदवाक्यानि ब्राह्यणा वेदवित्तमाः।
रुद्रमू

र्तिं समाश्रित्य शिवे परमकारणे॥ ४३॥

———————————————————————————————————————————

किंशास्त्रैराचर्यैर्वेति तत्राऽऽह—तथाऽपीति। निरुपाधिकशिवस्वरूपज्ञानं हि पुरुषार्थः। न तत्तेषामस्ति मायया मोहितत्वादित्यर्थः। कथं तर्हिमायां जित्वा शिवमवाप्नुयुरिति तत्राऽऽह—प्रसादादिति॥ ३७॥ केषांचिदात्मविद्याया अनुदयकारणमाह—प्रसादहीना इति॥ ३८ ॥ तर्हि तत्तद्देवताभाजो न प्राप्नुयुरेव

किंशिवं नेत्याह—यां यामिति। शिवबुद्ध्या सर्वासु मूर्तिषु क्रियमाणाऽऽराधना शिवस्यैवेत्यर्थः। उक्तं हि गीतासु—‘यो यो यां यां त

नुंभक्तःश्रद्धयाऽऽर्चितुमिच्छति’

इत्यादि॥

३९॥ त

त्किंसर्वासु मूर्तिष्वेकरूपमेव फलमिति नेत्याह—रुद्रस्येति॥ ४०॥ तत्र कारणमाह—रुद्रर्मूतिष्विति॥ ४१ ॥ तारतम्येन प्रकारो कारणमाह—

आदर्श इति॥ ४२ ॥ नानादेवताप्रतिपादकानां तत्तन्मू

र्तिद्वारा परशिवे पर्य-

पर्यवस्यन्ति विप्रेन्द्रास्तथा वाक्यानि कानिचित्‌।
विष्णुमूर्तिंसमाश्रित्य बह्ममूर्तिं च कानिचित्‌॥४४॥
आग्नेयींमूर्तिमाश्रित्य श्रुतिवाक्यानि कानिचित्‌।
सूर्यमूर्तिंतथाऽन्येषां192मूर्तिंं चश्रित्य कानिचित्‌॥४१५॥
पुराणैर्दशभिविप्राः प्रोक्तः शम्भुस्तथैव च।
चतुर्भिर्भगवान्विष्णुर्द्वाभ्यां ब्रह्माप्रकीर्तितः॥ ४६॥
अग्निरेकेन विप्रेन्द्रास्तथैकेन दिवाकरः।
एवं मूर्त्यभिधानेन द्वारेणैव मुनीश्वराः॥४७॥
प्रतिपाद्यो महादेवः स्थितः सर्वासु मूर्तिषु।
स एव मोचकः साक्षाच्छिवः सत्यादिलक्षणः॥४८॥
ब्रह्मविष्णुमहादेवैरुपास्यः सर्वदा द्विजाः।
अतोन्यदार्तं विप्रेन्द्रा अविनाश्योयमेव हि॥ ४९॥
अयमात्मविदामात्मा ह्ययमज्ञानिनामपि।

———————————————————————————————————————————
वसानमाह—कानिचिदिति। श्रूयते हि—‘सर्वे वेदा यत्पदमामनन्ति’ इति ॥४३—४५॥ तथाऽपि शिवमूर्तिष्वेवभूयसां पुराणानामादर इत्याह—पुराणैरिति। यान्यपि दशभ्योऽवशिष्टानि पुराणानि तेषामपि तत्तन्मूर्तयोद्वारमात्रम्‌। पर्यवसानं तु परशिवएवेत्याह—चतुर्भिरित्यादि ॥ सर्वेषां पुराणानां साक्षात्परंपरया वापरशिवेपर्यवसाने कारणमाह—स एव मोचक इति । मोचको मोक्षप्रदः। स एव साक्षान्मोक्षप्रदः।अन्ये तद्द्वारा॥४६—४८॥ ननु शिवः सर्वात्मकः श्रूयते । ‘सर्वे वेदा यत्रैक भवन्ति’इत्यारभ्य ‘अन्तः प्रविष्टः शास्ता जनानां सर्वात्मा इति श्रुतेः। अतो ब्रह्मादीनामपि तदात्मकत्वेकिंनिबन्धनमिदमुपास्योपासकभावलक्षणवैलक्षण्यमित्यत आह—ब्रह्मविष्ण्विति। निरस्तसमस्तोपाधिकं सिच्चिदानन्दैक-

अस्मादेव समुत्पन्नं स्थितमस्मिन्द्विजोत्तमाः॥
अस्मिन्नष्टमिदं सर्वं जगन्मायामयं बुधाः॥ ५०॥
प्रतिकल्पंमुनिश्रेष्ठा ब्रह्मनारायणादयः॥ ५१॥
अस्मादेव विजायन्ते विलीयन्ते यथा पुरा।
अयमेको महादेवः साक्षी सर्वान्तरो हरः॥ ५२॥
अम्बिकासहितो नित्यं नीलकण्ठस्त्रिलोचनः॥
चन्द्रार्धशेखरः श्रीमान्‌ श्रीमद्व्याघ्रपुरे तथा॥ ५३॥
वाराणस्यां तथा सोमनाथे वृद्धाचलाभिधे।
वेदारण्ये च वल्मीके श्रीमत्केदारसंज्ञिते॥ ५४॥
श्रीमद्दक्षिणकैलासे सर्वस्थानोत्तमोत्तमे।
नित्यं संनिहितो भक्तैरखिलैरमरेश्वरैः॥
उपास्यः सर्वदा विप्राः सर्वैर्नित्यत्वकाङ्क्षिभिः॥ ५५॥

——————————————————————————————————————————————————

रसंपरशिवस्य स्वरूपं। तदेव तत्तदुच्चावचोपाधिविशिष्टं सद्ब्रह्मादय इत्युच्यते। तत्रोपाधीनामन्तवत्त्वेन तद्विशिष्टरूपाणामप्यन्तवत्त्वम्। शिवस्यतु निरुपाधिकत्वेन नान्तवत्त्वमित्येतद्वैलक्षण्यमित्यर्थः। ‘एषत आत्माऽन्तर्याम्यमृतोऽतोऽन्यदार्तम्‌’ इति श्रुतेः॥ ४९॥ ननु विशिष्टस्यान्तवत्त्वेतदन्तःपातित्वेन विशेषणस्यापितथात्वात्कथंसर्वात्मतेति चेत्‌। विशिष्टाकारस्यकाल्पितत्वेऽपि स्वरूपाकारस्य चेतनाचेतनजगदधिष्ठानत्वेनाकल्पित्वान्नैवमित्याह—अयमात्मविदामित्यादि॥ ५०॥ नन्वनादौ संसारे कदाचिदासीद्ब्रह्मादीनां ल्योन वा। आसीच्चेत्कथमिदानीं तदुपलम्भः। न चेदितः परं भविष्यतीति कैव प्रत्याशेत्यत आह—प्रतिकल्पमिति। अस्य तु न तथाविधत्वमित्याह—अयमेक इति। सर्वान्तरत्वेनाधिष्ठानत्वान्न तथात्वमित्यर्थः। ‘एष त आत्मा सर्वान्तरः’इति श्रुतेः॥ ५१॥ ५२॥ ननूक्तनिरूपाधिकशिवस्वरुपं वाङ्‌मनसयोरगोचरतया श्रूयते—‘यतो वाचो निवर्तन्ते। अप्राप्य मनसा सह’ इति। तत्कथमर्वाचीनैरुपासनीयमित्यत आह—अम्बिकासहित इति। स्वीकृ-

कोऽन्यः संसारमग्नानामुपास्यो मोचकः प्रभुः॥ ५६॥
ऋते साक्षान्महादेवमित्येषा शाश्वती श्रुतिः।
अतः सर्वप्रयत्नेन भवद्भिर्मुनिसत्तमैः॥ ५७॥
कालपाशविनाशाय शङ्करः शशिशेखरः।
उपासनीयः श्रोतव्यो मन्तव्यश्च द्विजोत्तमाः॥ ५८॥
इति सूतवचः श्रुत्वानैमिशारण्यवासिनः।
शिवः कालानवच्छिन्न इत्यजानन्त पण्डिताः॥ ५९॥

इति श्रीस्कान्दपुराणे श्रीसूतसंहितायां शिवमाहात्म्यखण्डे

कालपरिमाणतदनवच्छिन्नस्वरूपकथनं

नामाष्टमोऽध्यायः॥ ८॥

——————————————————————————————————————————————————

तदिव्यावतारस्य तस्य स्थानविशेषेषु सुकरमुपासनमित्यर्थः॥ ५३- ५५॥ तस्यैवोपासनीयत्वेश्रुतिमर्थत उदाहरति—कोऽन्य इति। ‘यदा चर्मवदाकाशंवेष्टयिष्यन्ति मानवाः। तदा शिवमविज्ञाय दुःखस्यान्तो भविष्यति’इति श्रुतिः।अत्राप्येषा श्रुतिर्भविष्यति। उक्तोपदेशस्य फलमाह—अतःसर्वप्रयत्नेनेति॥ उपासनीय इति ‘उपनिषच्छब्दानां शक्तितात्पर्यावधारणमन्यायानुसन्धानंश्रवणम्‌। वस्तुतथात्वव्यवस्थापकन्यायानुसंधानं मननम्‌। श्रवणमननाम्थाम-वधृतेऽर्थेविजातीयप्रत्ययाव्यवहितसजातीयप्रत्ययसंतानानुवृत्तिर्निदिध्यासनमुपासना। ‘आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्योनिदिध्यासितव्यः’इति हि दर्शनमनूद्यतत्साधनत्वेन श्रवणादीनि हि श्रूयन्ते॥ ५६-५८॥ कः कालेनानवच्छिन्न इति यत्पृष्टं तस्योत्तरमुक्तमुपसंहरति। शिवः कालेति॥ ५९॥

इति श्रीमाधवाचार्येण विरचितां श्रीसूतसंहितातात्पर्यदीपिकायां

शिवमाहात्म्यखण्डे काल्परिमाणतदनवच्छिन्नस्वरूपकथनं

नामाष्टमोऽध्यायः॥ ८॥

नवमोऽध्यायः॥

९. पृथिव्युद्धरणम्‌।

नेमिशीया उचुः —

भगवन्विष्णुना तोयात्कथं भूमिः समुद्धृता।
तदस्माकं समासेन वद सर्वार्थवित्तम॥ १॥

सूत उवच —

आसीदेकार्णवं घोरमविभागं तमोमयम्‌।
शान्तानलादिकं193 सर्वं न प्राज्ञायत किंचन॥ २॥

तदैवैकाम्बुधौ नष्टे जगति स्थावरादिके।
विष्णुः साक्षात्समुद्भूतस्तदा तस्मिन्महोदधौ॥ ३॥

——————————————————————————————————————————————————

ब्राह्ममेकमहःकल्प इत्युक्तब्रह्मदिनवसाने लीनस्य पृथिव्यादिलोकत्रयस्य तदीयरात्र्यवसानं पुनरुत्पत्तिप्रकारं जिज्ञासमाना मुनयः पृच्छन्ति — भगवन्विष्णुनेति। वराहरूपेणाहरादौ हि ब्रह्मा वराहरूपोभूत्वा सलिले मग्नांभुवमुद्धृत्य पुनर्ब्रह्मैवभूत्वा लोकत्रयमसृजदिति श्रुयते ‘आपो वा इदमग्नेसलिलमासीत्तस्मिन्प्रजापतिर्वायुर्भूत्वाऽचरत्स इमामपश्यत्तां वराहे भूत्वाऽहरत्तां विश्वकर्मा भूत्वा व्यमार्ट् सा प्रथत सा पृथिव्यभवत्‌” इत्यादि। विष्णुपुराणेऽपि — “तोयान्तः स महीं ज्ञात्वा जगत्येकार्णवे प्रभु। अनुमानात्तदुद्धारं कर्तुकामः प्रजापति ॥ अकरोत्स तनूमन्यां कलादिषु यथा पुरा। मत्स्यकूर्मादिकां तद्वद्वाराहं रूपमास्थितः इति॥१॥ सूतस्तु पूर्वकल्पावसानप्रकाराभिधानपुरःसरमुत्तर॑ वक्तुमारभते आसीदिति। तमोमयमिति। चन्द्रादित्यादिज्योतिषामभावात्‌। अत एव विभागापरिज्ञानादविभागम्‌॥२॥ जगतीति। जगति पृथिव्यादिलोकत्रयात्मके यत्स्थावरजङ्गमजातंतस्मिन्सर्वास्मिञ्जलप्लुते। अत एवजनलोक-

स पुनर्वेदविच्छ्रेष्ठा सहस्राक्षः सहस्रपात्‌।
सहस्रशीर्षापुरुषो द्विजा नारायणाभिधः॥ ४॥
सुष्वाप सलिले साक्षच्छिवं परमकारणम्‌।
ऋतं सत्यं परं ब्रह्म पुरुषं साम्बमीश्वरम्‌॥ ५॥
उर्ध्वरेतं विरूपाक्षं हृदि ध्यायन्महेश्वरम्‌।
इमं चोदाहरन्त्यत्र श्लोकं नारायणं प्रति॥ ६॥
आपो नारा इति प्रोक्ता आपो वैनरसूनवः।
ता यदस्यायनं तेन प्रोक्तो नारायणः स्वयम्‌॥ ७॥
स पुनर्दैवदेवस्य शिवस्य परमात्मनः।
आज्ञया सलिले मग्नांमहीमुद्धर्तुिमिच्छया॥ ८॥
वाराहं रूपमास्थाय महापर्वतसंनिभम्‌।
अट्टहासं द्विजाः कृत्वा प्रविश्य च रसातलम्॥ ९॥

——————————————————————————————————————————————————

निवासिनोऽस्तुवन्निति वक्ष्यति। विष्णुः साक्षादिति। ब्रह्मा ह्यहरवसाने विष्णुरूपी शेषपर्य॑ङ्कशायी स्थित्वावराहरूपेण भुवमुद्धत्य स्वेनैवाऽऽत्मना पुनर्लोकत्रयमस्त्राक्षीत्‌। अत एववक्ष्यति—

‘विसृज्य रूप॑ वाराहं स्वयं ब्रह्मा भवद्धरिः’इति॥३॥४॥ ऋतं सत्यमिति। उमासहायमुर्ध्वरेतसं त्रिणेत्रं महेश्वरमृतसत्याभिधेयसूक्ष्मस्थूलभूतोपलक्षितसमस्तजगदात्मक॑ पुरुषं परिपूर्णं पर॑ निष्कल ध्यापन्‌॥५॥६॥ आप इति। नरो हिरण्यगर्भस्‍तत उत्पन्नत्वादापो नरसूनवः। यत आहुः— '

अप एव ससर्जाऽऽदौ तासु वीर्यमवासृजत्‌’इति। जनलोकेति। पृथिव्यादिलोकत्रये जलप्लुतेऽपि चतुर्थे महर्लोके निवसतां पञ्चमे जनलोके गतत्वाज्जनलोकनिवासिन इत्युक्तम्‌ “जनलोक॑ प्रयान्त्येते महर्लोकनिवासिन” इत्युक्तम्‌। लोकालोकेति। सकलभूतात्मकैकपादरूपाय स्वप्रतिष्ठत्रिपाद्रूपाय च। ‘पादोऽस्य विश्वाभूतानि त्रिपादस्यामृतं दिवि` इति श्रुतेः॥७—

१५॥ सूत्रात्मादीति। सूत्रात्मा क्रियाशक्तिप्रधानःप्रणोपाधिकः। आदिशब्देनान्तर्यामी ज्ञानशाक्ति-

दंष्ट्राभ्यामुज्जहारैनां महीमन्तर्गतां जले।
तस्य दंष्ट्राग्रविन्यस्तामणुप्रायां194 महीमिमाम्‌॥ १०॥
दृष्ट्वाविस्मयमापन्ना जनलेकनिवासिनः195\।
ते पुनर्वेदविच्छ्रेष्ठाः सिद्धा ब्रह्मर्षयो हरिम्‌॥ ११॥
अस्तुवन्‌ श्रद्धया विष्णुं महाबलपराक्रमम्‌।

ब्रह्मर्षय ऊचुः—

नमस्ते देवदेवानामादिभूत सनातन॥ १२॥
पुरुषाय पुराणाय नमस्ते परमात्मने।
जरामरणरोगादिविहीनायामलात्मने॥ १३॥
ब्रह्मणां196 पतये तुभ्यं जगतां197 पतये नमः।
लोकालोकस्वरूपाय लोकानां पतये नमः॥ १४॥
शङ्खचक्रगदापद्मपाणये विष्णवे नमः।
नमो हिरण्यगर्भायश्रीपते भूपते नमः॥ १५॥
नमः स्वयंभुवे तुभ्यं सूत्रात्मादिस्वरूपिणे।
विराट्प्रजापतेः साक्षाज्जनकाय नमो नमः॥ १६॥
विश्वतैजसरूपाय प्राज्ञरूपाय ते नमः।
जाग्रत्स्वप्नस्वरूपाय नमः सुप्त्यात्मने नमः198॥ १७॥

——————————————————————————————————————————————————

प्रधानो मनउपाधिको हिरण्यगर्भेः। विराट्‌ समष्टिरूपः स्थूलशरीरः॥१६॥ इत्थं समष्टिरूपवैश्वानरहिरण्यगर्भेश्वररूपतामुक्त्वा व्यष्टिरूपविश्वतैजस प्राज्ञरूपतां तदवस्थारूपतां चाऽऽह —

विश्वतैजसेति। अवस्थात्रयविशिष्टो विश्व। दिः॥ १७॥ अवस्थोपलक्षितस्तदृष्टा तत्साक्षी \। तदप्यपश्यन्स्वप्रातिष्ठोऽव॥

अवस्थासाक्षिणे तुभ्यमवस्थावर्जिताच्युत।
तुरीयाय विशुद्धाय तुर्यतीताय ते नमः॥ १८॥ `
प्रथमाय समस्तस्य जगतः परमात्मने।
ॐकारैकस्वरूपाय शिवाय शिवद्‌ प्रभो॥ १९॥
सर्वविज्ञानसंपन्न नमो विज्ञानदायिने।
जगतां योनये तुभ्यंवेधसे विश्वरूपिणे॥ २०॥
नित्यशुद्धाय बुद्धाय मुक्ताय सुखरूपिणे।
नमो वाचामतीताय मनोऽगम्याय ते नमः॥ २१॥
अप्रमेयाय शान्ताय स्वयंभानाय साक्षिणे।199
नमः पुंसे पुराणाय श्रेयःप्राप्यैकहेतवे॥ २२॥
आकाशादिप्रपञ्चाय नमस्तद्रूप शङ्कर।
मायारूपाय मायायाः सत्ताहेतो जनार्दन॥ २३॥
नमः प्रद्यम्नरूपाय नमः सङ्कर्षणात्मने।
नमोऽनिरुद्धरूपाय वासुदेवाय ते नमः॥ २४॥
योगाय योगगम्याय योगिनामिष्टसिद्धिद।
नमस्ते मत्स्यरूपाय नमस्ते कूर्मरूपिणे॥ २५॥

——————————————————————————————————————————————————

स्थावर्जितः। साक्षिणं विव्रणोति —

तुरीयायेति। स हि विश्वादित्रयापेक्षया चतुर्थत्वात्तुरीयः। अवस्थाविर्वजितं विवृणोति —

तुर्यातीतयेति॥ १८॥ ओंकारेति। ‘एतद्वै सत्यकाम परं चापरं च ब्रह्म यदोङ्कारः’ इति हि श्रूयते। प्रणवप्रतीकत्वात्ततप्रतिपाद्यवाद्वातत्स्वरूपः। ९९॥ ९०॥ नमो वाचामिति। यतो वाचो निवर्तन्ते। अप्राप्य मनसा सह इति श्रुतेः॥ २१॥ २२।\। मायायां इति। यतोऽधिष्ठानमन्तरेण मायाऽपि न सिध्यति॥ २३॥ नमः प्रद्युम्नायेति। सर्वात्मकत्वेऽपि विभूतिमत्सु संनिधानात्तदात्मकत्वेन स्तू-

नमस्तुभ्यं वराहाय नारसिंहाय ते नमः।
नमो वामनरूपाय नमो रामत्रयात्मने॥ २६॥
नमः कृष्णाय सर्वज्ञ नमस्ते कल्किरूपिणे।
कर्मिणां फलरूपायं कर्मरूपाय ते नमः॥ २७॥
कर्मकर्त्रे नमस्तुभ्यं नमस्ते कर्मसाक्षिणे।
नमो विज्ञप्तिरूपाय नमो वेदान्तरूपिणे॥ २८॥
गुणत्रयात्मने तुभ्यं नमो निर्गुणरूपिणे।
अद्भुतायामरेशाय शिवप्राप्तैकहेतवे॥ २९॥
नमो नक्षत्ररूपाय नमस्ते सोमरूपिणे।
नमः सूर्यात्मने तभ्यं नमो वज्रधराय ते॥ ३०॥
नमस्ते पद्मनाभाय नमस्ते शार्ङ्गपाणये।
नमस्तुभ्यंविशालाक्ष नमः श्रीधर नायक॥ ३१॥
नमः संसारतप्तानां तापनाशैकहेतवे।
श्रोतस्मार्तैकनिष्ठानामचिरादेव मुक्तिद॥ २२॥
अन्येषामपि सर्वेषां संसारेैकप्रदाव्यय।
नमोऽसुरविमर्दाय नमो विद्याधरार्चित॥ ३३॥
क्षीरोदशायिने तुभ्यंनमो वैकुण्ठवासिने।
नमो रागाभिभूतानां वैराग्यप्लवदायिने॥ ३४॥

सूत उवाच —

इत्थं ब्रह्मर्षिभिः सिद्धैः सनकाद्येरभिष्टुतः।
प्रसादमकरात्तेषां श्रीवाराहशरीरभृत॥ ३५॥
ततः पूर्ववदानीय महीं साक्षान्महीपतिः।

विसृज्य रूपं वाराहं स्वयं ब्रह्माऽभवद्धरिः॥ ३६॥
सा मही संस्थिता विप्रा जलस्योपरिनौरिव।
तस्यां ब्रह्मामहादेवप्रसादादेव सुव्रताः॥ ३७॥
पूर्वसर्गोत्थविध्वस्तानखिलानमरप्रभुः।
यथापूर्वं द्विजाः स्रष्टुं मतिं चक्रे प्रजापतिः॥ ३८॥
इति श्रुत्वा मुनिश्रेष्ठा नैमिशारण्यवासिनः।
पूजयामासुरत्यर्थं सूतं सर्वहितप्रदम्‌॥ ३९॥

इति श्रीस्कन्दपुराणे श्रीसूतसंहितायां शिवमाहात्म्यखण्डे

पृथिव्युद्धरणं नाम नवमोऽध्यायः॥ ९॥

दशमोऽध्यायः।

१०. ब्रह्मणा सृष्टिकथनम्‌।

नैमिशीया उचुः —

कथं ब्रह्माऽसृजद्विद्वन्‌ जगत्सर्वं चराचरम्‌।
संग्रहेण तदस्माकं ब्रूहि पुण्यवतां वर॥ १॥

सूत उवाच —

—————————————————————————————————————————————————

यते। स्मर्यते हि — ‘यद्यद्विभूतिमत्सत्त्वंश्रीमदूर्जितमेव वा। तत्तदेवावगच्छत्वं मम तेजोशसंभवम्‌ इति॥ २४—३९॥

इति श्रीमाधवाचार्येण विरचितायां श्रीसूतसंहितातात्पर्यदीपिकायां
शिवमाहात्म्यखण्डे प्रथिव्युद्धरणं नाम नवमोऽध्यायः॥ ९॥

अहरवसाने ध्वस्तस्य लोकत्रयस्य तन्निवासिनां च पृथिव्यद्धरणसमनन्तरभाविसर्गक्रमं मुनयः पृच्छन्ति — कथंब्रह्मेति। ब्रह्मा प्रजापतिः॥१॥

सिसृक्षार्ब्रह्मणस्तस्य ब्राह्मणा वेदवित्तमाः।
अबुद्धिपूर्वकः सर्गःकल्पादिषु यथा पुरा॥ २॥
प्रादुर्भूतोऽम्बिकाभर्तुराज्ञयैव तमोमयः।

——————————————————————————————————————————————————

सिसृक्षोरिति। अत्रैष सर्गक्रमः। ब्रह्मण आयुरवसाने ग्रस्तसमस्तप्रपञ्चाया अत्यन्तनिर्विकल्पिकाया मायाया जडत्वेन स्वप्रतिष्ठं निस्तरङ्गसमुद्रकल्पं परब्रह्म यावत्प्राणिकर्मपरिपाकमवतिष्ठते। परिपक्केषु तु कर्मसु तस्य परब्रह्मणः सगाभिमुखे प्रथमपरिस्पन्दे ज्ञानेच्छाप्रयत्नविरहादबुद्धिपृर्वके स्रष्टव्यप्राणिकर्मप्रेरणयैव प्रवर्तिते तद्विपयतया सविकल्पकत्वेन तदावरणमायाया यत्स्फुरणं सोऽयमर्बुद्धिपवकस्तामसःसर्गः प्रथमः। यदधिकृत्याच्यते ‘तस्मादव्यक्तमुत्पन्नम्‌’ इति। श्रूयते च नासदासीत्‌? इत्यारभ्म‘तम आसीत्तमसा गूढमग्रे इति। एषच तमः सर्गः पञ्चमे शक्तिपूजाध्यायेऽस्माभिः प्रपञ्जित्तः। ततोऽत्यन्तनिर्विभागायां तस्यां मायायां तमश्शब्दाभिधायां मोहमहामोहतामिस्रान्धतामिस्त्रापरपर्याया अस्मितारागद्वेषाभिनिवेशाश्चत्वारो विपर्ययाः प्रसुप्ततया वर्तन्ते। यथा तत्त्वलीनानां हि। उक्तं हि पातञ्जले। “अविद्याऽस्मितारागद्वेषाभिनिवेशः”। अविद्यात्रयमुत्तरेषां प्रसुप्ततनुविच्छिन्नोदाराणाम्‌200। तथा प्रसुप्तास्तुत्वलीनानां तनुदग्धास्तु योगिनाम्‌। विच्छिन्नोदाररूपास्तुक्लेशा विषयसङ्गिनाम्‌ इति॥तत्रानात्मनि देहादावात्मतत्तविपर्ययोऽस्मिता स मोहः तेन च देहभोगोपकरणे स्रक्चन्दनादावभिलाषो रागः स महामोहः। ततप्राप्तिपरिपन्थिनिद्वेषः स तामिस्रः। तदिदमहितमिति ज्ञात्वाऽप्यज्ञवदपरिव्यागोऽभिनिवेशः सोऽन्धतामिस्रः। यद्वा — ‘तमोऽविवेकोमोहः स्यादन्तः करणविभ्रमः। महामोहस्तु विज्ञेयो ग्राम्यभोगसुखैषणा॥ मरणं ह्यन्धतामिस्त्रं तामिस्रंक्रोध उच्यते। अविद्यापश्चपर्वैषा प्रादुर्भूता महात्मनः’ इति।तस्मादविभागापन्नगुणत्रयादव्यक्तात्तमसः सकाशादन्तर्विभागस्य गुणत्रयात्मकस्य महतः सर्गो द्वितीयः। अत्रेदमुच्यते—

‘अव्यक्तान्तर्हितात्तत्वात्‌ त्रिभेदगहनात्मकम्‌। महान्नाम भवेत्तत्त्वंमहतोऽहंकृतिस्तथा’॥ इति तस्माद्बहिर्विभागगुणत्रयावस्थस्याहमस्तृतीयः201 सर्गः। अत्रेदमुच्यते202 —‘ वैकारिकस्तैज-

तमो मोहो महामोहस्तामिस्रो ह्यन्धसंज्ञितः॥ २३ ॥
अविद्या पञ्चपर्वैषा प्रादुर्भूता महात्मनः।

———————————————————————————————————————————————————

सश्च भूतादिश्चैव तमसः। त्रिविधोऽयमहंकारो महत्तत्वादजायत’ इति॥ तत्र भूतादिनामकात्तामसादहंकाराद्रजसोपष्टव्धात्पञ्चतन्मात्राणां सर्गश्चतुर्थः। वैकारिकनाम्रःसात्त्विकादहंकाराद्रजसोपष्टब्धादेकादशेन्द्रियगणस्य सर्गःपञ्चमः.। यदाहुः सांख्याः —

‘सात्विक एकादशकः प्रवर्तते वैकृतादहंकारात्‌। भूतादेस्तन्मात्रंस तामसस्तैजसादुभयम्‌ इति॥ शैवास्तु सात्विकादहंकारान्मनसो राजसादिन्द्रियदशकस्य सर्गमाहुरित्येतावान्विशेषः। यदाहुः — ‘सात्त्विकराजसतामसभेदेन स जायते पुनस्त्रिधा। स च तैजसवैकारिकभूतादिकनामभिः समुच्छ्वसिति॥ तैजसतस्तत्र मनो वैकारिकतो भवन्ति चाक्षाणि। भूतादेस्तन्मात्राण्येषांसर्गोऽयमेतस्मात्‌" इति॥ इन्द्रियदशकाधिष्ठातृदवेतासर्गःषष्ठः। षडिमे प्राकृताः सर्गा। ईश्वरकतृकाः। उक्तं भागवते — ‘आद्यस्तु महतः सर्गो गुणवैषम्यमात्मनः। द्वितीयस्त्वहमो यत्र द्रव्यज्ञानक्रियोदयः॥ भूतसर्गस्तृतीयस्तु तन्मात्रो द्रव्यशक्तिमान्‌। चतुर्थ ऐन्द्रियःसर्गो यस्तु ज्ञानाक्रियात्मकः॥ वैकारिको देवसर्गः पञ्चमो यन्मय॑ मनः। षष्ठस्तुतमसः सर्गो यस्त्वबुद्धिकृतःप्रभोः ॥षडिमे प्राकृतास्सर्गा वैकृतानपि मे शृणु। इति। वस्तुगत्या प्रथमस्यापि तमसर्गस्याबुद्धिपूर्वकस्य बुद्धिपूर्वकसर्गपञ्चकानन्तरमुपन्यासादुपन्यासक्रमानुसारेण षष्ठत्वमिति। अयमेवाबुद्धिपूर्वकस्तमःसर्गः। स्वस्पृष्टौ प्रजापतिनाऽपि प्रथमं सृष्टस्ततो वृक्षादिर्मुख्यःसर्गस्ततस्तिर्यक्स्रोतः पश्वादिः। तत उर्ध्वस्रोतो देवादिः। ततोऽर्वाक्स्रोतो मानुषस्ततो भूतप्रेतादिरिति षड्वैकृताः प्राकृतवैकृतात्मक एकः कौमार इति। तत्र प्रजापतेः स्वसृष्ठौ। प्रथमं तमःसर्गमाह — अबुद्धिपूर्वकाति। अबुद्धिरविद्या सा पूर्वायस्यस्मितादेः स तथोक्तः अथवाऽबुद्धिरननुसंधानं तत्पूर्बकोऽत एव ब्रह्मणः प्रादुर्भूत इत्याह नतु ब्रह्मा त॑ ससर्जेति। महाकल्पादिषु यथा परमात्मनः सकाशात्पञ्चपर्वाऽविद्या प्रादुर्भवत्येवमवान्तरकल्पेस्वसृष्टौब्रह्मणोऽपि प्रादुरभूत्‌। अवान्तरकल्पेषु चाततीतेष्वनन्तरेषु यथा प्रादुरासीदेवमस्मिन्नपि कल्प इति ॥ २॥ तन्येव पञ्चपर्वाण्याह —

तमो मोह इति। तमआदीनां स्वरूपं प्रागुक्तम्‌।

पञ्चधाऽवस्थितः सर्गःप्रवृत्तस्तामसो द्विजाः॥ ४॥
अन्तर्बहिश्चवेदज्ञास्त्वप्रकाशस्तथैव च।
स्तब्धोनिःसंज्ञ एवायमभवन्मुनिपुङ्गवाः॥५॥
तं दृष्ट्वाभगवान्ब्रह्मा सिसृक्षुःसर्वमास्तिकाः।
असाधक इति ज्ञात्वा पुनः सोऽपरमीश्वरः॥ ६॥
अमन्यतास्य वेदज्ञा ब्रह्मणो ध्यायतः पुनः।
सर्गोऽवर्तत दुःखाढ्यस्तिर्यक्स्रोतः प्रजापतेः॥ ७॥
पश्वादिः स तु विज्ञेयस्तिर्यक्स्रोतः समासतः।

तं चासाधकमित्येवं ज्ञात्वाऽमन्यत्परं प्रभुः॥ ८॥

——————————————————————————————————————————————————

तदा तु मोहादीनां विपर्ययाणामनुत्पन्नत्वात्प्रसुप्ततया वृत्तिरुक्ता। इहतु समुदाचरद्वृत्तिताऽपीत्येतावान्‌ विशेषः। पञ्चधेति। तामसो यः सर्गउक्तः स पञ्चप्रकार इत्यर्थः॥३—४॥ अधुना वृक्षादिमुख्यसर्गमाह — अन्तर्बाहिरिति। अयमिति। स्थावरादिर्मुख्यःसर्गः। सर्गानुक्रमण्यामस्य क्रमे — चतुर्थो मुख्यसर्गाख्यो मुख्यस्तु स्थावराभिधः। इति वक्ष्यमाणत्वात्‌। अयमिति प्रकृततमःपरामर्शे तु स्थावरसर्गस्य पृथगनामिधानादनुपन्यस्तस्यैव तदनुक्रमणं स्यादिति। वृक्षादिर्हि च्छेदनजलदानादिजनितदुःस्वसुखमात्रज्ञानवत्वेऽपितत्प्रतीकारंतदुपायं चाऽन्तरंवाह्ममप्यजाननप्रकृष्टज्ञानाभावादप्रकाशः। नामापरिज्ञानान्निःसंज्ञः व्यापारासमर्थत्वेन स्तब्धश्चोच्यते। अत एवेमं मुख्यसर्गं प्रकृत्यविष्णुपुराणम्‌ —बहिरन्तश्चाप्रकाशः संवृतात्मा नगात्मकः। मुख्यानगा यतश्चोक्ता मुख्यसगस्ततस्त्वयम्‌’ इति॥५॥ असाधक इति ऐहिकामुष्मिकहिताहिततदुपायतत्प्रतीकारविरहादप्यसाधकत्वम्‌। सर्गान्तरमाह — पुनः सोऽपरमिति॥ ६॥ तिर्यग्भूतं स्रोतो गमनमाहारसंचाराद्यर्थमस्येति तिर्यक्स्रोताः। हृस्वत्वमार्षम्‌। समासत इति। व्यासतस्तु पुराणान्तरे तद्भेदा अष्टाविशंतिर्दशिताः। सर्गान्तरमाह — तं चेति। अमन्यदमन्यत॥ ७॥ ८॥ सात्त्विकत्वादेव देवसर्गस्योर्ध्वस्रोतस्त्वम्‌ ’ ऊध्वं,

पुनश्चिन्तयतस्तस्य सत्त्विकोऽवर्तंत द्विजाः।
उर्ध्वस्रोत इति ख्यातः सर्गोऽतीव सुखावहः॥९॥
देवसर्गइति ख्यातः स तु सत्यपरायणः।
तमप्यसाधकं मत्वाब्रह्मा ब्रह्मविदां वराः॥१०॥
अमन्यत पर सर्गंराजसं वैदिकोत्तमाः।
तस्य चिन्तयतः सृष्टिं प्रादुरासीच्छिवाज्ञया॥११॥
अर्वाक्स्रोत इति ख्यातः सर्गो विप्रास्तु मानुषः।
पुनश्चिन्तयतस्तस्य ब्रह्मणः परमेष्ठिनः॥१२॥
महादेवाज्ञया विप्राः सर्गो भूतादिकोऽभवत्‌।
इति पञ्चविधा सष्टिः प्रवृत्ता परमेष्ठिनः॥ १३॥

——————————————————————————————————————————————————

गन्छन्ति सत्त्वस्थाः’ इति गीतामु। भोगभूमौहि देवा वर्तन्ते न कर्मभूमौ। अतस्तदीयसर्गस्यासाधकत्वम्‌॥९॥१०॥ राजसमिति। राजसो हि रागेण कर्मणि प्रवर्तमानोऽसौसाधको भविप्यतीति स्रष्टुरभिप्रायः। उक्तं हि — ‘‘रजो रागात्मकं विद्धि तृष्णासङ्गसमुद्धवम्‌। तन्निबध्नाति कौन्तेयकर्मसङ्गेन देहिनम्‌” इति। देवलोकादर्वाचीने मनुष्यलोके गमनमेषामित्यवोक्स्रोतसोमनुष्याः अर्वाग्वा पृत्रपौत्रादिकप्रवाहररूपेण गमनमेषामिति। यद्यप्येतत्पश्चादावपि समानं तथाऽपि मनुष्येषु रूढोऽयं शब्दः। गच्छतीति गौरितियथा पशुषु। साधकत्वेन मनुष्यसर्गे नास्यपरितोषः॥११॥ १२॥ भूतादिक इति। आदिशब्देन प्रेतपिशाचादयः। इति पश्चाविधेति। मुख्यसर्गोवृक्षादिः प्रथमः। तियक्स्रोतःपश्चादिर्द्वितीयः। उर्ध्वस्रोतोदेवसर्गस्तृतीयः। अर्वाक्स्रोतःमनुप्यसगेश्चतुर्थः। भूतादिः पञ्चमः। इति वैकृताः सर्गाःपञ्च। यस्तु प्रजापतेः प्रथमस्तामसः सर्गःसोऽबुद्धिपूर्वक इति बुद्धिपूर्वकवैकृतसर्गेषुन गणनीय इति। अत एव प्राकृतेष्वपि परमात्मनः सकाशादव्यक्ताख्यस्य तमसः सर्गो न गणनीयः॥१३॥ अन्तर्बहिर्विभागगुणत्रयात्मनोर्महदकारयोरन्तर्बहिविभागलक्षणविशेषपरित्यागेन गणत्रयविभागात्मनैकीकरणान्महतः सर्गः

सर्गस्तु प्रथमो ज्ञेयो महतो ब्रह्मणस्तु सः।
द्वितीयो वेदविच्छ्रेष्ठास्तन्मात्राणां च भौतिकः॥ १४॥
वैकारिकाख्यो वेदज्ञास्तृतीयः परिकीर्तितः।
सोऽयमैन्द्रियकः सर्गइत्येते प्राकृतास्त्रयः॥ १५॥
चतुर्थो मुख्यसर्गाख्यो मुख्यस्तुस्थावराभिधः।
तिर्यक्स्रोतस्तु पश्चादिः पञ्चमः परिकीर्तितः॥ १६॥
षष्ठस्तु देवसर्गाख्यः सप्तमोऽर्वाक्प्रकीर्तितः।
अष्टमो मुनिशार्दूला भूतप्रेतादिसंज्ञितः॥ १७॥
कौमारोनवमः प्रोक्तः प्राकृतो वैकृतश्च सः।
एषामवान्तरो भेदो मया वक्तुं न शक्यते॥ ४८॥
अल्पत्वादुपयोगस्य द्विजा नाद्य वदाम्यहम्।
सनकं च द्विजश्रेष्ठास्तथैव च सनातनम्‌॥ १९॥

——————————————————————————————————————————————————

प्रथमः। महतो यः सर्गो ब्रह्मणः परमात्मनः सकाशादित्यर्थः। सूक्ष्मभूतानां तन्मात्राणां शब्दादीनां सर्गो द्वितीयः॥१४॥ इन्द्रियतदधिष्ठातृ देवतासर्गयोर्वैकारिकत्वेनैकीकरणादिन्द्रियसर्गस्तृतीय इति प्राकृतास्त्रयः। वैकारिकाख्य इति। इह पुराणेऽहंकारस्य महतः पृथगुपादाना- त्तन्मात्रगतज्ञानक्रियाशक्तिजनकत्वमेव वैकारिकशब्दार्थः। अयं चार्थोऽग्रत एव हिरण्यगर्भ वक्ष्यामीत्यत्र स्पष्टीभविष्यति। उक्ता मुख्यसर्गादयो वैकृताः पञ्चेत्येष्टौ वैकृतेषु प्रथमस्यापि मुख्यसर्गस्य प्राकृतांस्त्रीनपेक्ष्य चतुर्थत्वम्‌। एवं तैर्यग्योन्यादीनां पञ्चमत्वादिकामिति॥१५॥१७॥ कौमारः सनकादिरग्रे वक्ष्यमाणप्रभावातिशययोगात्प्रजापतिना सृष्टत्वाच्च प्राकृतवैकृतोभयात्मकः। इति सर्गानव। यद्यपि मुनिर्भिम्युद्धरणानन्तरभाविप्रजापतिकृतो वैकृत एवं सर्गपृष्टः सूतेन स्वयमपि सिसृक्षोर्ब्रह्यण इत्यादिना स एव व्युत्पादितस्तथाऽपि सर्गानुक्रमणप्रस्तावेन प्राकृतमपि सर्गत्रयमुपन्यस्तमिति तेन सह सर्गानवेत्युक्तम्। पुराणान्तरेषु मुख्यसर्गषडिधः। तैर्यग्योन्ये

सनन्दनसमाख्यं च तथैव ब्रह्मवित्तमाः।
ऋभुं सनत्कुमारं च ससर्जाग्रे प्रजापतिः॥ २०॥ `
ब्रह्मणो मानसाः पुत्राइमे ब्रह्मसमा द्विजाः।
महावैराग्यसंपन्ना अभवन्पञ्च सुव्रताः॥ २१॥
अकर्त्रात्मानुसंधानाज्जाता एते प्रजापतेः।
शिवध्यानैकमनसो न सृष्टौचक्रिरे मतिम्‌॥ २२॥
सृष्ट्यर्थं भगवान्ब्रह्मा लोकानामम्बिकापतेः।
मुमोह मायया सद्यस्तं दृष्ट्वापुरुषोत्तमः॥ २३॥
बुबोध पुत्रं ब्रह्माणं द्विजा नारायणः पिता।
प्रबोधितश्चतुर्वक्त्रोविष्णुना विश्वयोनिना॥ २४॥
महाघोरं तपश्चक्रे ध्यायन्विष्णुं सनातनम्‌।
एवं चिरगते कालेन किंचित्प्रत्यपद्यत॥ २५॥
ततः क्रोधो महानस्य ब्रह्यणोऽजायताऽऽस्तिकाः।
क्रोधेन तस्य नेत्राभ्यां प्रपतन्नश्रुबिन्दवः॥ २६॥
एतस्मिन्समये तस्य ब्रह्मणः परमेश्वरः।
अददात्कृपया203 बुद्धिं भगवान्करुणानिधिः॥ २७॥

——————————————————————————————————————————————————

ऽष्टाविंशतिभदो देवसर्गोऽष्टविध इत्याद्युक्तम्‌। इह तदनभिधाने कारणमाह — एषामवान्तर इति। न शक्यत इति। नेष्यत इत्यर्थः॥१८॥ अनिच्छाकारणमह —

अल्पत्वादिति। कौमारस्प सर्गस्य विभागमाह — सनकं चेति॥ १९—२२।\। सनकादयश्चेत्सृष्ठौ मतिंन चक्रिरे ब्रह्मा वा किमिति क्लेशात्मिकायां मतिमकरोदित्यत आह — सृष्ट्यर्थमिति। स हि शिवाज्ञया स्वयं सृष्टौनियुक्त इति तेनावश्यं सा कर्तव्येत्यर्थः॥ २३॥ बुबोध बोध-

स पुनर्देवदेवस्य प्रसादादम्बिकापतेः।
तताप परमं घोरं तपो विप्राश्चतुर्मुखः॥ २८॥
सृष्ट्यर्थंब्रह्मणस्तस्य भ्रुवोर्घ्राणस्य मध्यतः।
अविमुक्ताभिधाद्देशात्स्वकीयात्तुविशेषतः॥ २९॥
त्रिमूर्तीनां महेरास्य द्विजा वेदार्थवित्तमाः।
असंभूतो204 महादेवः सर्वदेवनमस्कृतः॥ ३०॥
अर्धनारीश्वरो भूत्वा प्रादुरासीद्धृणानिधिः।
तमजं शंकरं साक्षात्तेजाराशिमुमापतिम्‌॥ ३१॥
सर्वज्ञं सर्वकर्तारं नीललोहितसंज्ञितम्।
दृष्ट्वानत्वा महाभक्त्यास्तुत्वा हृष्टः प्रजापतिः॥३२॥

———————————————————————————————————————————————————

यामास॥२४—२ ८॥ सृष्ट्यर्थमिति। सृष्ट्यर्थंतपतस्तस्य ब्रह्मणो भ्रुवोर्घाणस्य च मध्ये यदविमुक्ताभिधानं क्षेत्रं त्रिमूर्तीनां ब्रह्मविष्णुमहेश्वराणामुपलब्धिस्थानत्वेन साधारणमपि विशेषतोमहेश्वरस्य स्वकीयं स्थानम्‌। तत्रासंभूतोऽनादिरपि परमेश्वरः कृपयाऽर्धनारीश्वरः सन्प्रादुरासीत्‌। भ्रुवोर्घ्राणस्य च मध्यं शैवमविमुक्ताभिधमिति हि जाबालोपनिपदि श्रूयते — “अथ हैनमत्रिः पप्रच्छ याज्ञवल्क्यं य एषोऽनन्तोऽव्यक्त आत्मा तं कथमहं विजानीयामिति। स होवाच याज्ञवल्क्यः सोऽविमुक्तःउपास्यो य एषोऽनन्तोऽव्यक्त आत्मा सोऽविमुक्ते प्रतिष्ठित इति सोऽविमुक्तः कस्मिन्प्रतिष्ठित इति वरणायां नास्यां च मध्येप्रतिष्ठित इति का वैवरणा का च नासीति सवोनिन्द्रियकृतान्दोषान्वारयति तेन वरणा भवति सर्वानिन्द्रियकृतान्पापान्नाशायति तेन नासी भवतीति कतम॑ चास्य स्थानं भवतीति भ्रुवोर्घ्राणस्य च यः संधिःस एव द्यौर्लोकस्यपरस्य च संधिर्भवतीति’॥२९॥ ३१॥ नीललोहितमिति। कण्ठे नीलोऽन्यत्र लोहितः अथवा उमार्धविग्रहत्वात्‌ दक्षिणे लोहितः वामे

उवाच देवदेवेशं सृजेमा विविधाः प्रजाः।
ब्रह्मणो वचनं देवः श्रुता विश्वजगत्पतिः॥ ३३॥
ससर्ज स्वात्मना तुल्यान्‌ शिवो रुद्रान्द्विजोत्तमाः।
तं पुनश्चऽऽह देवेशं ब्रह्मा विश्वजगत्प्रभुः॥ ३४॥
जन्ममृत्युभयाविष्टाः सृज देव प्रजा इति।
एवं श्रुत्वा महादेवः प्रहस्य करुणानिधिः॥ ३५॥
प्रोवाचाशोभनाः स्रक्ष्ये नाहं ब्रह्मन्प्रजा इमाः।
अहं दुःखोदधौमग्नाउद्धरामि प्रजा इमाः॥ ३६॥
सम्यग्ज्ञानप्रदानेन गुरुमूर्तिपरिग्रहः।
त्वमेव सृज दुःखाद्याः205 प्रजाः सर्वाःप्रजापते॥ ३७॥
इत्युक्त्वाऽन्तर्हितः श्रीमान्भगवान्नीललोहितः।
ततस्तस्य प्रसादेन निवार्य कमलासनः॥ ३८॥
रुद्रानत्यन्तकल्याणान्प्रजासृष्टो206 प्रवर्तकान्‌।
शब्दादीनि च भूतानि पञ्जीकृत्य द्विजोत्तमाः॥२९॥

——————————————————————————————————————————————————

नीलः॥३३॥३४॥ जन्ममृत्युभयेति। तथाविधा एव प्रवृत्त्यभिमुखायतः॥३५॥ ३६॥ गुरुमूर्तीति योजयति परे तत्वेस दीक्षयाऽऽचार्यमूर्तिस्थ’ इति ह्युक्तम्‌

॥३७॥रुद्रान्नीललोहितेन सृष्टान्निवार्य शब्दादीनि तन्मात्रापरपर्यायाणि सूक्ष्मभूतानि प्रागेव परमात्मना सृष्टानि पञ्चीकृत्य वियदादीनां पञ्चानां भूतानां मध्ये एकैकं पञ्चात्मक॑ कृत्वा यथा वियदादिकमेकैकं द्विधा द्विधा विभज्य तत्र वियतो द्वितीयभागं चतुर्धाविभज्य वाय्वादिभूतचतुष्टयप्रथमभागेष्वेकैक॑ योजयेत्‌। एवं वायोरपि द्वितीयभागं चतुर्धा विभज्य वायुप्रथमभागं परित्यज्यवायुव्यतिरिक्तभूतचतुष्टयप्रथमभागेषुयोजयेत्‌। एवं तेजस उदकस्य पृथिव्याश्चद्वितीयं द्वितीयं भागं चतुर्धाविभज्य स्वस्वप्रथमभागं

तेभ्यः स्थूलाम्बरं वायुं वह्निं चैव जलंमहीम्‌।
पर्वतांश्च समुद्रांश्चवृक्षादीनपि सुव्रताः॥ ४०॥
कलादियुगपर्यन्तान्कालानन्यानपि प्रभुः।
सृष्ट्वावेदविदां मुख्याः साधकानसृजत्प्रभुः207॥ ४१॥
मरीचिं च स्वनेत्राभ्यां हृदयाद्भृगुमेव च।
शिरसोऽङ्गिरसं चैव तथोदानाद्द्विजोत्तमाः॥ ४२॥
पुलस्त्यं पुलहं व्यानादपानात्क्रतुमीश्वरः।
दक्षं प्रणात्तथैवात्रिं श्रोत्राभ्यां मुनिपुङ्गवाः॥ ४३॥
समानाच्च वसिष्ठाख्यं संकल्पाद्धर्मसंज्ञितम्‌।
एवमेतानजः श्रीमानसृजत्साधकोत्तमान्‌॥ ४४॥
पुनस्तदाज्ञया विप्रा धर्मः संकल्पसंज्ञितः208
मानवं रूपमापन्नः साधकैस्तुप्रवर्तितः॥ ४५॥

—————————————————————————————————————————————————————————————

परित्यज्यावशिष्टभूतचतुष्टयप्रथमभगेषु योजिते सत्येकैकभूतस्यार्धं स्वकीयमर्धं स्वेतरभूतचतुष्टयात्मकमित्येकैकस्य पञ्चात्मकत्वेऽपि भागाधिक्यात्पृथिव्यादिविभागव्यवहार इति। उक्तं व्यासेन — वैशेष्यात्त तद्वादस्तद्वादः” इति॥३८॥३९॥ तेभ्य इति। तेभ्योऽपञ्जीकृतेभ्यः

शब्दादिभ्यः सकाशास्पञ्चीकरणेन निष्पन्नानि स्थूलादीन्याकाशादीने भृतानि भौतिकानि पर्वतादीनि च ससर्जेत्यर्थः॥४०॥ कलादीति। कलाकाष्ठमुहूर्तादिकालविभागानां बह्वल्पतपनपरिस्पन्दोपाधिकृतत्वेन पञ्चीकरणोत्तरकालभावित्वम्‌। कालस्वरूपमात्रस्य तु मायापरमात्मसंबधमात्रात्मकत्वेन प्रागेव सिद्धेः॥ ४१॥ तानेव साधकानाह —मरीचिंचेत्यादि। ४२ — ०५॥ साधकैर्मरीच्यादिवसिष्ठान्तैर्नवभिः प्रवर्तितो धमे एव मनुरूपतां प्रप्त इत्याह

— पुनरिति॥

४५॥ ततश्चतुर्मुख इति। असुरान्सृष्ट्वाब्रह्मणा परित्यक्तं तच्छरीरं रात्र्यात्माकमा-

ततश्चतुर्मुखः स्वस्य जघनादसुरान्द्विजाः।
सृष्ट्वामूर्तिं पुनस्त्यक्त्वा शरीरान्तरमाप्तवान्‌॥ ४६॥
सा तनुर्ब्रह्मणा त्यक्ता रात्रिरूपाऽभवन्नृणाम्‌।
पुनर्ब्रह्माऽऽप्तदेहस्य मुखात्सत्त्वविजृम्भितात्‌॥ ४७॥
सृष्ट्वासुरानजस्तच्च शरीरं त्यक्तवान्पुनः।
तत्पुनर्वेदविच्छ्रेष्ठा अभून्नृृणां दिनंशुभम्‌॥ ४८॥
पुनश्च सत्त्वसंयुक्तं शरीरं भगवानजः।
आस्थाय ब्रह्मविन्मुख्याः पितृृन्सृष्ट्वाविहाय तत्‌॥ ४९॥
शरीरान्तरमापन्नश्चतर्वक्त्रःशिवाज्ञया।
त्यक्ता मूर्तिर्द्विजाः सा तु संध्या तेनाभवद्‌ द्विजाः॥५०॥
ब्रह्मणो विग्रहादेव रजसा परिवेष्टितात्।
जज्ञिरे मनुजाः सर्वे त्यक्तं तद्विग्रहं पुनः॥ ५१॥

——————————————————————————————————————————————————

सीत्‌। तथाहि तैत्तीरीयके ‘इदं वा अग्रे नैवकिंचनाऽऽसीत्‌’इति ब्रह्मणोऽहरादौलोकत्रयसृष्टिंप्रक्रम्योक्तम्‌ सजघनादसुरानसृजत तेभ्यो मृन्मये पात्रेऽन्नमदुहद्याऽस्य सा तनूरासीत्तामपाहत सा तमिस्राऽभवत्‌’ इति॥ ४६॥ मुखात्सत्त्वविजृम्भितादिति। ऊर्ध्वस्नोतसोहि सात्त्विका इत्युक्तम्‌। श्रूयते हि — ‘स मुखाद्देवानसृजत तेभ्योहरिते पात्रे सोममदुहत्‌। याऽस्य सा तनूरासीत्तामपाहत तदहरभवदिति॥४७॥४८॥ पुनश्च सत्त्वसंयुक्तमिति। पितृृन्देवपितृृन्‌ ऋतून्‌ ‘ऋतवः खलु वै देवाः पितरःइति श्रुतेः। मनुप्यपितरस्तु तदा न जाता एव। तान्सृष्टा त्यक्तं शरीरं संध्या जाता। श्रूयते हि — ‘स उपपक्षाभ्यामेवर्तूनसृजत तेभ्यो रजते पत्रे घृतमदुहत। याऽस्य सा तनूरासीत्तामपाहत सोऽहोरात्रयोः संधिरभवदिति’॥४२—५०॥रजसा परिवेष्टितादिति। अर्वाक्स्रोतसो हि राजसा इत्युक्तम्‌। श्रूयते हि `स प्रजननादेव प्रजा असृजत’ इत्यारभ्य’ताभ्यो

दारुमये पात्रे पयोऽदुहद्याऽस्य सा

ज्योत्स्नारूपेण निष्पन्नं पुनर्देहान्तरंगतः।
ब्रह्मा तस्य शरीरात्तु रजसा सहिताद्द्विजाः॥ ५२॥
क्षुत्पिपासाभिभूताश्चराक्षसाः पन्नगास्तथा।
भूतगन्धर्वरूपाश्चसमुत्पन्ना बलान्विताः॥ ५३॥
पुनर्देहान्तरं गत्वा ततो विश्वजगत्पतिः।
वयांसि गवयानश्वान्मातङ्गान्रासमभान्मृगान्‌॥ ५४॥
ससर्जान्यांश्च विश्वात्मा तथैवोद्गात्रमेव च
ऋचं चैव त्रिवृत्सोमं209 तथा चैव रथंतरम्‌॥ ५५॥
अग्निष्टोमादिकंसर्वं सहाङ्गेन प्रजापतिः\।
तथैव सर्वनामानि निर्ममेवेदशब्दतः॥ ५६॥
पञ्चीकृतानि भूतानि ब्रह्मणा मुनयः पुरा।
सर्वेषां कारणत्वेन प्रोक्तानि ब्रह्यवादिभिः॥ ५७॥
एवं विचित्रं जगदन्तरात्मा प्रजापतिः स्वप्नसमं स सृष्ट्वा।

—————————————————————————————————————————————————————————————

तनूरासीत्तामपाहत सा ज्योत्स्नाऽभवत्‌’ इति। रजसा सहितादिति रजसो रागात्मकत्वात्ततो जाता राक्षसादयः क्षुत्पिपासादिपरीता जाताः॥ ५१-५२॥ तत्तत्सष्टव्यानुरूपंतं तं देहंस्वीकृत्य शेषं सर्वं सृष्टवानित्याह पुनर्दहान्तरं गत्वेति॥५४॥ औद्गात्रमुद्गातृकर्म। ऋचं यज्ञम्‌। त्रिवृदादीनि यज्ञाङ्गानि। श्रयते हि ‘इदं सर्वमसृजत यदिदं किञ्चऋचो यजूंषि सामानि च्छन्दांसि यज्ञान्प्रजां पशून्‌’ इति॥ ५५॥ वेदशब्दत इति। तथा चोक्तं पुराणे — ‘ऋषीणां नामधेयानि कर्माणिविविधनि च। वेदशब्देभ्य एवाऽऽदौ निर्ममे स महेश्वरः’ इति॥ ५६॥ यानि पुरा ब्रह्मणा पञ्चीकृतानि भूतानि तान्येवोक्तस्य शब्दार्थप्रपञ्चजातस्यकारणमित्यर्थः॥५७॥ एवंविचित्रामिति। निरतिशयज्ञानवैराग्यसंपन्नो हि प्रजापतिः। यत्रेदमुच्यते

प्रसादतस्तस्य महेश्वरस्य पुनस्तमोरूपमवाप मद्यः॥५८॥

इति श्रीस्कन्दपुराणे श्रीसूतसंहितायां शिवमाहात्म्यखण्डे

ब्रह्मसृष्टिकथनं नाम दशमोऽध्यायः॥ १०॥

——————————

एकादशोऽध्यायः॥

११. हिरण्यगर्भादिविशेषसृष्टिकथनम्‌।

नैमिशीया ऊचुः—

एव सृष्ट्वापुनर्ब्रह्या स्थावराणि चराणि च।
भगवन्भगवानीशः किं चकाराऽऽशु तद्वद॥ १॥

सूत उवाच—

संहारहेतुभूतेन तमसा परिवेष्टितः।
विहाय तत्तमोरूपं सृष्टानामभिवृद्धये॥ २॥

——————————————————————————————————————————————————

ज्ञानमप्रतिमं यस्य वैराग्यं च जगत्पतेः। ऐश्वर्यं चैव धर्मश्च सह सिद्ध चतुष्टयम्‌` इति। सह स्वभावत एव। एवंभूतोऽपि सृज्यप्राणिकर्मभिः प्रवर्तितस्य परमेश्वरस्याऽऽज्ञया मायामयंजगन्निर्माय प्रभोराज्ञां निष्पन्नां मन्यमानः स्वाभाविकींस्वरूपप्रतिष्ठांप्रापत्‌। तत्त्वनिष्ठैव चेय॑ लौकिकदृष्टीनामविषयत्वात्तमोरूपप्राप्तिरुच्यते। उक्ते गीतामु — ‘या निशा सर्वभूतानां तस्यांजागर्ति संयमी। यस्यां जाग्रति भूतानि सा निशा पश्यता मुनेः’ इति॥ ५८॥

इति श्रीमाधवाचार्येण विरचितायां श्रीसूतसंहितातात्पर्यदीपिकायां
शिवमाहात्म्यखण्डे ब्रह्मसृष्टिकथनं नाम दशमोऽध्यायः॥१ ०॥

————————

प्रजापतेःस्वप्रतिष्ठत्वेऽवशिष्टसृष्टिः सृष्टपरिपालनं सांप्रतिकसंसारोपलम्भश्च कथंस्यादिति जिज्ञासमाना मुनयःपृच्छन्ति। एवं सृष्ट्वेति॥१॥ संहारहेतुभूतेनेनि। जगत्कर्तरि प्रजापतौ स्वरूपप्रतिष्ठे हि ‘जगत्प्रतिष्ठा देवर्षे’इत्युक्तरीत्या सकलं जगदव्यक्ते लीयते। अत उक्तं संहारहेतुभूतं

हिरण्यगर्भसंज्ञस्य ब्रह्मणो रूपमाप सः।
हिरण्यगर्भं वक्ष्यामि तथाऽन्यदपि सुव्रताः॥ २३॥
पञ्चभूतेषु जातेषु शब्दस्पर्शादिषु द्विजाः।
विजातास्तेषु सत्त्वेन गुणेन ज्ञानशक्तयः॥ ४॥
तथा समष्टिभूतानां द्विजाः खानां रजोगुणात्‌।
शब्दस्पर्शादिभूतेषु विजाताः कृतिशक्तयः॥ ५॥
भूतेषु संस्थिता ज्ञानशक्तयः पञ्च संयुताः।
समष्टिभूतं सर्वेषां मानसं करणं भवेत्‌॥ ६॥

——————————————————————————————————————————————————

तमः। तेन परिवेष्टितस्तदुपाधिकःस सृष्टानामभिवृद्धये तत्तमोरूपं विजहौ। अयमाशयः अविद्याऽस्मितारगद्वेषाभिनिवेशलक्षणक्लेशपञ्चकमूलो हि कर्माशयः प्राणिभिरिहामुत्रच लोके भोक्तव्यः यदुक्तं पतञ्जलिना। ‘क्लेशमूलंकर्माशयो दृष्टादृष्टजन्मवेदनीय’इति। यावच्च कर्मणां मृलभूतं क्लेशपञ्चकमनुवर्तते तावत्तस्यकर्माशयस्य त्रिविधःपरिपाकोभवति नानाविधयोनिषु जन्मप्राप्तिश्चाऽऽयुश्च सुखदुःखलक्षणफलोपभोगश्चेति। तदप्युक्तं तेनैव ‘सति मूले तद्विपाको जात्यायर्भोगा’ इति। तत्र पूर्वोदीरितसृष्ट्यांकेषांचिज्जन्महेतुकर्मणां चरितार्थत्वेऽप्यवशिष्टानां चाऽऽयुर्हेतूनां च कर्मणां फलप्रदानानुरूपसर्गपर्यन्तानां प्रभोराज्ञामनुसंदधानस्तदर्थंहिरण्यगर्भापरपर्यायस्य ब्रह्मणो रूपं प्रापदिति। यद्यपि ब्रह्म हिरण्यगर्भरूपएव तथापि सूतः प्राकृतसर्गशेष॑ विवक्षुरजिज्ञासिताभिधानेऽनवधेयवचनतापातात्तद्विषयां जिज्ञासां मुनीनामुत्पादयितुं हिरण्यगर्भसंज्ञस्येति विशिनष्टि । अमुनैव विशेषणेन मुनीञ्ज्ञातजिज्ञासानाकलय्यापृष्टोऽपि सूतः स्वयमेव वक्तुं प्रतिजानीते । हिरण्यगर्भामिति। तथाऽन्यदिति। सूत्रात्मानमन्त

मिणं त्रयाणामपेक्षितमुपाधित्रय॑ तदुत्यत्तिप्रकारं चेत्यर्थः॥ २॥३॥ पञ्चभूतेष्विति। अयमर्थः। अबुद्धिपूर्वक॑ तमोरूपमव्यक्तमुत्पन्नमिति यदवादिष्म तदधिष्ठितानिष्कलःपरशिव ईश्वरः सगुणं ब्रह्मेति चोच्यते। तत उत्पन्नं यन्महत्तत्वं प्राकृतसर्गमध्ये प्रथमम्‌ ‘सर्गस्तु प्रथमो ज्ञेयः’ इति

तद्गतो भगवान्ब्रह्मा त्रिमूर्तीनां द्विजर्षभाः।
हिरण्यगर्भइत्युक्तो मुनिभिः सूक्ष्मदर्शिभिः॥ ७॥
तथैव ब्रह्मविच्छ्रेष्ठाः संयुताः कृतिशक्तयः।
समष्टिभूतः प्राणानां भवेत्प्राणः शिवाज्ञया॥८॥

———————————————————————————————————————————————————

प्रागुक्तं तस्य गुणत्रयात्मकत्वात्ततउत्पन्नानि शब्दस्पर्शरूपरसगन्धतन्मात्रापरपर्ययाणि सूक्ष्मभूतान्यपि गुणत्रयात्मकान्येव। अतप्तेषु सत्वगुणनिबन्धनाः याः पञ्चज्ञानशक्तयस्ताःप्रत्येकं श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणलक्षणानि ज्ञानेन्दियाणि पञ्च जनयन्ति। तेष्वेव पञ्चसुसूक्ष्मभूतेषु रजोगुणात्समष्टिभूतानां खानां वाक्पाणिपादपायूपस्थलक्षणानां कर्मेद्रियाणां कारणभूताःपञ्च क्रियाशक्तयोजायन्ते। तथेति कथनात्समाष्टिभूतानां स्वानामित्येतत्पूर्वत्रापि योजनीयम्‌। तत्र तु श्रोत्रादीनां ज्ञानोन्द्रियाणां कारणभूता ज्ञानशक्तय इत्यर्थः। समष्टिभूतानामिति व्यष्टिव्यवच्छेदार्थम्‌। तथाहि। व्यष्टिभूतस्थूलभूतसूक्ष्मकारणोपाधिभिरुपहितं तत्त्वंविश्वतैजसप्राज्ञशब्दैरभिधीयते। समष्टिभूतैस्तैरुपहितं तत्त्वंवैश्वानरहिरण्यगर्भेश्वरपदैरभिधीयते। तथा ह्युत्तरतापनीयोपनिषदि श्रूयते ‘विश्वोवैश्वानरः प्रथमः पादस्तैजसो हिरण्यगर्भो द्वितीयः पादः प्राज्ञ ईश्वरस्तृतीयः पादः’ इति। तदिह हिरण्यगर्भस्य विवक्षितत्वात्समष्टिभूतानामित्युक्तम्‌। तत्रसमष्टिसूक्ष्मभूतेषु पञ्चसु स्थिता ज्ञानशक्तयो मिलित्वा मनोबुध्यपरपर्यायं समष्टिभूतमन्तःकरणं जनयन्ति। पञ्चभूतगतज्ञानशक्त्यात्मकस्यापि मनसश्छन्दोगोपनिषदि यदन्नमयत्वाभिधानम्‌ ‘अन्नमयं हि सौम्य मनः इति तदन्नप्राचुर्यभिप्रायम्‌। अन्ननिबन्धनोपचयाभिप्राय॑ वा। तथाच तत्रैव पञ्चदशाहानि माऽशीरित्यादिनाऽन्नहानोपादानाभ्यां चित्तस्यापचयोपचयवेवोदाहरन्ति। अमुनैवाभिप्रायेण यज्ञवैभवखण्डे उपरिभागे पञ्चमाध्याये — ‘अन्नेनाऽऽप्यायिते भुक्तेनाधीतं तस्य भासते" इत्याप्यायन एवान्नस्यासाधारणकारणतां वक्ष्यति। तदुपहितः परमात्मा हिरण्यगर्भ इत्युच्यते। स एव च ब्रह्मविष्णुरुद्राख्यमूर्तित्रयमध्ये ब्रह्मेत्युच्यते॥४–७॥ तथा सूक्ष्मभूतपञ्चके यक्रियाशक्तिपञ्चक॑ तन्मिलितंतत्समष्टिभूत॑ प्राणाण-

तत्रस्थो भगवान्विष्णुः सूत्रात्मेति प्रकीर्तितः।
उभयत्र स्थितः साक्षात्‌ त्रिमूर्तीनां महेश्वरः॥ ९॥
अन्तर्यामीति वेदेषु गीयते वेदवित्तमाः।
हिरण्यगर्भरूपं यः प्राप्तः श्रुतिषु निश्चितः॥ १०॥
स पुनर्भगवान्ब्रह्मामाययैव स्वकं वपुः।
द्विधा कृत्वा मुनिश्रेष्ठा अर्धेन पुरुषोऽभवत्‌॥ ११॥

——————————————————————————————————————————————————

नादिपञ्चवृत्तिकं प्राणं जनयति। आपोमयः प्राण इत्यप्यन्नमयवत्प्राचुर्याभिप्रायमुपचयाभिप्रायं वा॥ ८॥ तदुपहितः परमात्मा सूत्रात्मेत्युच्यते। स एव च ब्रह्मादिमूर्तित्रयमध्ये विष्णुरिति। उभयत्रेति। क्रियाज्ञानप्रविभागमन्तरेण भूतशक्तिपञ्चकोत्पन्नेपरिहृतमनःप्राणविभागे एकस्मिन्नुपाधौस एवपरमात्माऽन्तर्यामीति। स च ब्रह्मादिमूर्तित्रयमध्ये महेश्वर इत्युच्यते॥ अविभक्तज्ञानत्वक्रियाशक्तिविशेषात्कारणॊपाधिक ईश्वरोऽप्यन्तर्यामीति कथ्यते। “एष सर्वेश्वर एष सर्वज्ञ एषोऽन्तयाम्येष योनिः सर्वस्य प्रभवाप्ययौ हि भृतानाम्‌’ इति हि श्रूयते। वेदेषु गीयत इति। बृहदारण्यके पञ्चमाध्याये उद्दालकयाज्ञवल्कसंवादे सप्तमब्राह्मणे प्रष्टारमुद्दालकं प्रति याज्ञवस्क्येनोक्तम्‌। यःपृथिव्यां तिष्ठन्पृथिव्याअन्तरो य॑ पृथिवी न वेद यस्य प्रथिवी शरीर॑ यः पृथिवीमन्तरे यमयत्येष तआत्माऽन्त्यर्याम्यमृतः इत्यादिभिर्बहुभिः पर्यायैरन्तर्यामी निरूपितः। तथा “वायुर्वैगौतम तत्सूत्र” मित्यादिना प्राणः सूत्रात्मा निरूपितः। तथा हिरण्यगर्भः समवर्तताग्रे इति हिरण्यगर्भोऽपि श्रुतिषु गीयते। हिरण्यगर्भरूपमिति। ब्रह्मा हि त्रिमूर्तिमध्यवर्तिना ब्रह्माण्डाभिमानिविराडात्मना च व्यपदिश्यते। तदुभयमव्यवच्छेदेन समष्टिसूक्ष्मोपाधिकविवक्षया यः प्राग्धिरण्यगर्भरूप॑ प्राप्त इत्युदित इत्युक्तम्‌।\। ९॥१०॥ `द्विधा कृत्वेति। यदाह मनुः— द्विधा कृत्वाऽऽत्मनो देहमर्धेन पुरुषोऽभवत्‌। अर्धेन नारी तस्यां तु विराजमसृजत्प्रभुः’ ॥ इति। इयत्पर्यन्तं प्राकृतसर्गविशेषः। अव्यक्तमहदहङ्कारतन्मात्राणि ह्यष्टौप्रकृतयइत्युच्यन्त इत्यारभ्य बैकृतसर्गविशेषः। विकारषोडशकान्तरवर्तिपञ्चीकृतभूतकार्यो हि ब्रह्माण्डः॥

अर्धेन नारी तस्यां तु विराजमसृजत्प्रभुः।
पुनश्चभगवानस्यां स्वराडाख्यं तथैव च॥ १२॥
सम्राडात्माभिधं विप्रा असृजल्लोकनायकः।
ते पुनस्तेन विप्रेन्द्रा ब्रह्माण्डेनाऽऽवृतास्त्रयः॥ १३॥
प्राधान्येन विराडात्मा ब्रह्माण्डमभिमन्यते।
स्वराट्स्वरूपसमुभयं सम्राडित्यब्रवीच्छ्रुतिः॥ १४॥
विराट्‌ स्वायंभुवं विप्रा असृजन्मनुमास्तिकाः।
असृजद्योगिनीं नारीं शतरूपां तपस्विनीम्‌॥ १५॥

——————————————————————————————————————————————————

११॥ विराजमिति। समष्टिरूपस्थूलभूतपञ्चकमयब्रह्माण्डाभिमानिनम्‌। स्वराडाख्यमिति। ब्रह्माण्डान्तरवर्तिसमष्टिलिङ्गशरीराभिमानिनम्‌। संम्राडात्मेति तदुभयकारणाव्याकृताभिमानिनम्‌। तेन स्रष्टाहिरण्यगर्भेन ब्रह्माण्डेनाऽऽवृता इत्युक्तप्रकारेण॥ १२॥ १२३॥ उक्तमेव प्रकारमाह —प्राधान्येनेति। स्वरूपमिति। स्वरूपं समष्टिलिङ्गस्वरूपं समष्टिलिङ्गशरीरं तद्ध्यासंसारमनुव्रत्तेःस्वरूपमित्युच्यते। यदाह व्यासः। `तदापीतेः ससारव्यपदेशात्‌’इति। आपीतिरप्ययो मायायास्तत्पर्यन्तमापीतेरिति। अब्रवीच्छ्रुतिरिति। तैत्तिरीयकोपनिषदि `आपो वा इदं सर्वम्’इति प्रक्रम्य `सम्राडापो विराडापः स्वराडापः’इति त्रितयात्मकत्वेनापां स्तुतिं कुर्वाणा श्रुतिरुक्तसम्राडादित्रितयं व्यवहृतवतीत्यर्थः। अन्यत्राप्येते बहुषु प्रदेशेषु श्रुत्या व्यवह्रियन्ते यथा उपरवाभिमन्त्रणे ‘विराडसि सपत्नहा सम्राडसि भ्रातृव्यहा स्वराडस्यभिमातिहेति। तथा `विराडज्योतिरधारयत्सम्राड्ज्योतिरधारयत्स्वराड्ज्योतिरधारयत्‌’इति॥ १४॥ वैकृतसृष्टेःप्रस्तुतत्वाद्विकाररूपब्रह्माण्डाभिमानिना विराजैव कृतं सर्गमाह — विराट्‌ स्वायंभुवमिति। विराडब्रह्मा सोऽपि स्वशरीरं स्त्रीपुंसात्मक॑ कृत्वा तद्भागावेव मनुशतरूपे कृतवानित्यर्थः। तदुक्तं भागवते —`कस्य रूपमभूत्‌ द्वेधा यत्कायमभिचक्षते। ताभ्यां रूपविभागाभ्यां मिथुनं समपद्यत॥यस्तु तत्र पुमान्सोऽभून्मनुःस्वायंभुवः स्वराट्। स्त्री याऽऽसीच्छतरूपाख्यामहि-

सा पुनर्मनुना तेन गृहीताऽतीव शोभना।
तस्यां तेन समुत्पन्नः प्रियवृत्तइतीरितः ॥ १६॥
उत्तानपादसंज्ञश्चतथा कन्याद्वयं पुनः।
उत्तानपादजां कन्यां द्विजा दक्षप्रजापतेः ॥ १७ ॥
आकुतिं दत्तवान्‌ शुद्धां मानसस्य प्रजापतेः।
आकुल्यां मानसस्याभूद्यज्ञो विप्राश्च दक्षिणा ॥ १८ ॥
यज्ञस्य जज्ञिरे पुत्राः मुनयो द्वादशास्तिकाः।
दक्षाजाताश्चतस्रश्च तथा पुत्रश्च विंशतिः॥ १९॥

——————————————————————————————————————————————————

ष्यस्यमहात्मनः’॥ इति। कस्य विराड्ब्रह्मण इत्यर्थः। श्रुतिरप्याह — ‘सद्वितीयमैच्छत्स हैतावानाम यथा स्त्रीपुमांसो स॑परिष्वक्तौस इममेवाऽऽत्मानंद्वैधा पातयत्ततः पतिश्च पल्नीचाभवताम्‌’इति प्रकम्य `तां समभवत्ततो मनुष्या अजायन्त’इत्यादि। स्वयंभुवोविराजोऽपत्यं स्वायंभुवो मनुः। तेनैवह्युक्तम्‌— ‘तपस्तप्वाऽसृजद्यं तु स स्वय॑ पुरुषो विराट्‌। तं मां वित्तास्य सर्वस्य स्रष्टारं द्विजसत्तमाः’॥ इति। वृत्तं व्रतं प्रियवृत्तःप्रियव्रतः। उत्तानपादजामिति। उत्तानपादानुजां जातां प्रसूतिं कन्यां दक्षप्रजापतये। मानसस्येति। रुचिप्रजापतये। यदाहान्यत्र — ‘ददौप्रसूतिंदक्षाय आकूतिं रुचये पुरा। प्रजापतिः स जग्राह तयोर्यज्ञः सदक्षिणः’ इति॥ १५— १८ ॥ यज्ञस्येति। दक्षिणायामिति शेषः। दक्षाज्जाता इति। चतुर्विंशतिकन्याः। तत्र श्रद्धाद्यास्त्रयोदश धर्मस्य पत्न्यः। यदाह पराशरः — ‘श्रद्धा लक्ष्मीर्धृतिस्तुष्टिःपुष्टिर्मेधा तथा क्रिया। बुद्धिर्लज्जावपुः शान्तिःसिद्धः कीर्तिस्त्रयोदशी॥ पत्न्यर्थं प्रतिजग्राह धर्मो दाक्षायणीः प्रभुः’ इति। ताभ्यःश्रद्धादिभ्यस्त्रयोदशभ्योऽवशिष्टाःस्यात्यादय एकादश। तास्वष्टौदक्षव्यतिरिक्तेभ्यः प्रजापतिभ्योऽष्टम्योभवायैका पितृभ्य एका वह्नय एका। यदाह पराशरः। ताभ्यः शिष्टा यवीयस्य एकादश सुलोचनाः। ख्यातिःसत्पथ॑संभूतिः स्मृतिः प्रीतिः क्षमा तथा॥ सन्नतिश्चानसुय। च ऊर्जा स्वाहा स्वधा तथा।

धर्मस्य दत्ता दक्षेण श्रद्धायास्तु त्रयोदश।
तथैव तेन संपन्नाः श्रद्धाद्याः कन्यका दश॥ २०॥
ताभ्यः स्वात्यादयो विप्रा विजाताः षट्च पञ्च च।
एवं कर्मानुरूपेण प्राणिनामम्बिकापतेः॥
आज्ञया बहवो जाता असंख्याता द्विजर्षभाः॥ २१॥
स्वभावादेव संभूतं समस्तमिति केचन।
तन्न सिध्यति विप्रेन्द्रा देशकालाद्यपेक्षया॥ २२॥
कर्मणैव समुत्पन्नं समस्तमिति केचन।
तच्छ्रुतिस्मृतिवादस्य विरुद्धं मुनिपुङ्गवाः॥ २३॥
पुरा हिमवतः पार्श्वे मुनिः सत्यवतीसुतः।

—————————————————————————————————————————————————

भृगुर्भवो मरीचिश्च तथा चैवाङ्गिरा मुनिः। पुलस्त्यःपुलहश्चैव क्रतुश्चर्षिवरस्तथा॥ अत्रिर्वसिष्ठो बह्निश्च पितरश्च यथाक्रमम्‌ ।स्वात्याद्या जगृहुः कन्याः’इति॥ १९—२ १॥ न केनचित्सृष्टं स्वाभाविकमेवैतज्जगादीतिलोकायातिकास्तमुपन्यस्य निरस्यति। स्वभावादेवोति। काष्मीरेष्वेन कुङ्कुममिति देशापेक्षा अहन्येव कमलानां विकासः। रात्रावेवोत्पलानामिति कालापेक्षा। आदिशब्देन पृण्यकृत एव सुखं पापिन एवं दुःखमित्यदृष्टापेक्षा। सर्वमेवैतत्स्वभाव इति चेत्‌। न।ईदृग्विधस्य लोकायतपक्षस्य वैदिकमताविशेषात्‌॥२२॥ कर्मणैवेति अनीश्वरवादिनः। श्रुति्स्मृतिवादस्य विरुद्धमिति। ननु पुण्योवै पुण्येन कर्मणा भवति पापः पापेनेति’ वाजसनेयोपनिषदि कर्मणैवेति पक्षः स्वीकृतः। न। इश्वराविष्ठितयोरेव तयोः स्वरूपलाभःस्वकार्यकरत्वं चेत्यपि श्रुतावेवोदीरणात्‌। श्रूयते हि। एष उ एव साधु कर्मकारयति तं यमेभ्यो लोकेम्भउन्निनीषति। एष उ एवासाधु कर्म कारयति त॑ यमधो निनीषर्तति’। व्यासोऽपीश्वरादेव फलप्राप्तिमाह — ‘फलमत उपपत्ते’रिति। स्मर्यते च — अहं सवर्स्यप्रभवो मत्तः सर्वंप्रवर्तते ’ इति॥ २३॥ उक्तेऽर्थे मुनीनां संशयापनयनाय परमेश्वरवाक्यमु-

सुमन्तुर्जैमिनिश्चैव वैशंपायन एव च॥ २४॥
पैलः कपिलसंज्ञश्च तथा विप्राः पतञ्जलिः।
अक्षपादः कणादश्चतथैवाऽऽङ्गिरसो मुनिः॥ २५॥
मुकुन्दो मोचकश्चैव महाकालो महामतिः।
कालरूपः कलामाली कामरूपः कपिध्वजः॥ २६॥
वेदज्ञो वैदिको विद्वान्विद्वेष्नीवेणुवाहनः।
बाल्वलो लकुलो वह्निर्वज्रदण्डः परंतपः॥ २७॥
पापनाराः पवित्रश्च तथाऽन्ये च महर्षयः।
परस्परं विचार्याथ श्रद्धया परमर्षयः॥ २८॥
संशयाविष्टमनसस्तपश्चेरुर्महत्तरम्‌।
एतस्मिन्नन्तरे रुद्रः प्रसन्नःकरुणानिधिः॥ २९॥
स्वयमाविरभूत्तेषां पुरतः परमेश्वरः।
तंदृष्ट्वामुनयः सर्वे प्रसन्नेन्द्रियबुद्धयः॥ ३०॥
प्रणम्यपरया भक्त्याभगवन्तं त्रिलोचनम्।
कृताञ्जलिपुटाः सर्वे पप्रच्छुः परमेश्वरम्‌॥ ३१॥
देवदेवो महादेवः सर्वज्ञः करुणानिधिः।
कपर्दी नीलकण्ठश्च कालकालो महेश्वरः॥ ३२॥
सोमार्धशेखरः सोमः सोमसूर्योग्निलोचनः
उवाच मधुरंवाक्यं मुनीनां संशयापहम्‌॥ ३३॥

——————————————————————————————————————————————————

दाहर्तुंसंशयानान्मुनीननुक्रामति। पुरा हिमवत इत्यादिना॥ २४—१२॥ मुनीनां यथोपन्यस्तः संशयस्तन्निरासाय परमेश्वरप्रणिधानं च श्वेताश्वतरोपनिषदि श्रुयते — ‘कालःस्वभावो नियतिर्यदृच्छा भूतानि योनिः पुरुष इति चिन्त्यम्’। `संयोग एषां न त्वात्मभावादात्माप्यनीशः सुखदुःखहेतोः’।

ईश्वर उवाच —

न स्वभावाज्जगज्जन्मस्थितिध्वंसा मुनीश्चराः।
न मया केवलेनापि नच केवलकर्मणा॥३४॥
प्राणिनां कर्मपाकेन मया च मुनिसत्तमाः।
जगतः संभवो नाशः स्थितिश्च भवति द्विजाः॥३५॥
एवं कर्मानुरूपेण जगज्जन्मादि यन्मया।
एष स्वभावो विप्रेन्द्रा इति वेदार्थनिर्णयः॥ ३६॥

सूत उवाच —

एवमुक्त्वामहादेवः सर्वज्ञः करुणानिधिः।
अनुगृह्य मुनिश्रेष्ठांस्तत्रैवान्तर्हितोऽभवत्‌॥ ३७॥
मुनयश्च पुनर्विप्राः समाभाष्य परस्परम्‌।
अतीव प्रीतिमापन्ना अगमन्वेदवित्तमाः॥२८॥
भवन्तोऽपि मुनिश्रेष्ठाः प्राणिकर्मानुरूपतः।
सृष्ट्वासंहरतीशान इति वित्त जगत्सदा॥ ३९॥
इति श्रुत्वा मुनिश्रेष्ठा नैमिशीयास्तपोधनाः।
प्रसन्नहृदयाः शर्वंपूजयामासुरादरात्‌॥ ४०॥

इति श्रीस्कान्दपुराणे सूतसंहितायां शिवमाहात्म्यखण्डे
हिरण्यगर्भादिविशेषसृष्टिर्नाम एकादशोऽध्यायः॥११॥

——————————————————————————————————————————————————

ते ध्यानयोगानुगता अपश्यन्देवात्मशक्तिंस्वगर्णैर्निगूढाम्’इति॥ ३३-४०॥ इति श्रीमाधवाचर्येण विरचितायां श्रीसूतसंहितातात्पर्यदीपिकायांशिवमाहात्म्यखण्डे हिरण्यगर्भादिविशेषसृष्टिर्नाम एकादशोऽध्यायः॥ ११॥

————

द्वादशोऽध्यायः।

१२. जातिनिर्णयकथनम्।

नैमिशीया ऊचुः —

भगवन्सर्वशास्त्रार्थपरिज्ञानवतां वर
जातिनिर्णयमस्माकं वदवेदैकदर्शितम्‌॥ १॥

सूत उवाच —

वक्ष्ये लोकोपकाराय जातिनिर्णयमादरात्‌।
अगस्त्योऽपि पुरापृच्छत्प्रणम्य वृषवाहनम्‌॥ २॥
पुरा सर्वे मुनिश्रेष्ठाः प्रलये विलयंगते।
अन्धकारावृते लोके विष्णोरंशो महाद्युतिः॥ ३॥
सहस्रशीर्षापुरुषो विष्णुनौरायणाभिधः।
क्षीराब्धौ चिन्तयन्‌ रुद्रं सुष्वाप ब्रह्मवित्तमाः॥ ४॥
कदाचित्पङ्कजंविप्रास्तरुणादित्यसंनिभम्‌।
तस्य सुप्तस्य देवस्य नाभ्यां जातं महत्तरम्‌॥ ५॥
हिरण्यगर्भोभगवान्ब्रह्मा विश्वजगत्पतिः।
आस्थाय परमां मूर्तिंतस्मिन्पद्मेसमुद्बभौ॥ ६॥
तस्य वेदविदां श्रेष्ठा ब्रह्मणः परमेष्ठिनः।
महादेवाज्ञया पूर्ववासनासहितान्मुखात्‌॥ ७॥

——————————————————————————————————————————————————

प्राणिनां कर्मपाकेन मया चेत्युक्तवात्कर्मणां च जातिभेदेन व्यवस्थितत्वाज्जातिभेदं जिज्ञासमाना मुनयः पृच्छन्ति। भगवन्निति। वैदैकदर्शितमिति। स्मृतिपुराणानामपि मूलभूतवेदानुमापनेनैव धर्मेप्रमाणत्वातू। वेदैकप्रमाणको धर्मइति जैमिनिरप्याह — चोदनारक्षणोऽर्थो धर्मइति॥ १॥

ब्राह्मणा ब्राह्मणस्त्रीभिःसह जातास्तपोधनाः।
तस्य हस्तात्सह स्त्रीभिर्जज्ञिरे पृथिवीभुजः॥ ८॥
ऊरुभ्यां सहिताः स्त्रीभिर्जाता वैश्याः शिवाज्ञया।
पद्भ्यांशूद्राः सह स्त्रीभिर्जज्ञिरे वेदवित्तमाः॥ ९॥
स्वस्त्रीषु स्वस्य वैधेन मार्गेणोत्थः स्वयं भवेत्‌।
अवरासूत्तमाज्जातस्त्वनुलोमः प्रकीर्तितः॥ १०॥
उत्तमास्ववराज्जातः प्रतिलोमः प्रकीर्तितः।
वर्णस्त्रीष्वनुलोमेन जातः स्यादान्तरालिकः॥ ११॥
वर्णासु प्रतिलोमेन जातो व्रात्य इति स्मृतः।

——————————————————————————————————————————————————

अगस्त्योऽपीति। स शिवं यदपृच्छत्तस्मैशिवेनोक्तं तदहं वोवच्मीत्यर्थः॥२॥ प्रलयइति। नैमित्तिकप्रलयावसरे लोकत्रये विलयं गते सतिसुष्वापेत्यन्वयः। प्रलयकाले वा विलयंप्राप्ते॥ ३—६॥ सर्गावसरे ब्रह्मणो मुखाद्व्राह्मणा जाता इत्यनेनान्वयः। मुखाद्व्राह्मणा इति श्रूयते हि ‘ब्राह्मणोऽस्य मुखमासीद्बाहू राजन्यः कृतः। ऊरू तदस्य यद्वैश्यःपद्भयां शूद्रो अजायत’इति॥ ७॥ ब्राह्मणा इत्यादि जात्यभिप्रायमत उक्तं सहस्त्रीभिरिति॥ ८॥ ९॥ असंकीर्णस्य जातिचतुष्टयस्य लक्षणमाह —स्वस्त्रीष्विति। ब्राह्मण्यां ब्राह्मणस्य क्षत्रियायां क्षत्रियस्येत्यादि। स्मर्यते हि — ‘सवर्णेभ्यः सवर्णासु जायन्ते हि स्वजातयः’इति। वैधेनेति। विवाहादिविध्युक्तेन। अन्यथा जातानां कुण्डगोलकादीनां सत्यपि सत्यपिसवर्णत्वे शूद्रधर्मत्व॑ स्मर्यते — ‘शूद्राणां तु सधर्माणः सर्वेऽपध्वस्तजाःस्मृताः’इति। संकीर्णाननुलोमजानाह। अवरास्विति। क्षत्रियवैश्याशूद्रासु ब्राह्मणस्य। वैश्यशूद्रयोःक्षत्रियस्य। शूद्रायां वैश्यस्येत्यर्थः॥ १०॥ उत्तमास्विति। ब्राह्मण्यां क्षत्रियादित्रयात्‌। क्षत्रियायां वेश्यशूद्राभ्याम्‌। वैश्यायां शूद्रादित्यर्थः। वर्णस्त्रीष्विति। अनुलोमप्रतिलोमजाः स्त्रियो व्यवच्छिनत्ति वर्णास्वित्यपि। कुण्डगोलकयोर्लक्षणमाह ब्राह्मण्यां सधवायामिति॥ ११॥ १२॥ नृपायामिति। क्षत्रियायामनुलोमजो

ब्राह्मण्यां सधवायां यो ब्राह्यणेन द्विजोत्तमाः।
जातश्चौर्येण कुण्डोऽसौविधवायां तु गोलकः॥ १२॥
नृपायां ब्रह्मणाज्जातः सवर्णइति कीर्तितः॥ १३॥
चौर्यादस्यामनेनोत्थो नाम्ना नक्षत्रजीवनः।
वैश्यायां बाह्मणाज्जाते निषादो वेदवित्तमाः॥ १४॥
अस्यामनेन चौर्येण कुम्भकारोऽभिजायते।
ऊर्ध्वनापित एवासौनाम्ना वेदविदां वराः॥ १५॥
शूद्रायां ब्राह्मणेनोत्थो द्विजाः पारशवः स्मृतः।
चोर्येणास्यां निषादोऽभून्नाम्ना वेदार्थवित्तमाः॥ १६॥
दौष्यन्त्यांब्राह्मणाज्जात आपीताख्यो भवेद्द्विजाः।
आयोगव्यां तु विप्रेण पिङ्गलो नाम जायते॥ १७॥
विप्रायां क्षत्रियाज्जातः सूत इत्युच्यते बुधैः।
चोर्येणास्यामनेनोत्थो रथकार इति स्मृतः॥ १८॥
क्षत्रियस्त्रीषु वैश्यात्तु भोजश्चौर्याद्विजायते।
वैश्यायां क्षत्रियाज्जातो माहिष्योऽम्बष्ठसंज्ञितः॥१९॥
चौर्येणास्यामनेनोत्थो भवेदश्विकसंज्ञितः।

——————————————————————————————————————————————————

विधिना जातश्चैत्सवर्णः। चौर्येण चेन्नक्षत्रजीवीत्यर्थः॥१३॥ १४॥ कुम्भकारस्यैव नामान्तरमूर्ध्वनापित इति॥१५॥ १६॥ दौष्पन्त्यामिति। शूद्रयां क्षत्रियाज्जातो दौष्यन्त इति वक्ष्यति। तज्जातिः स्त्री दौष्यन्ती। आयोगव्यामिति। शूद्राद्वैश्यायां जात आयोगवः। तज्जाता स्त्रायोगवी। एतावत्पर्यन्तं ब्राह्मणाद्व्राह्मण्यादिषु चौर्यजाअचौर्यजाश्चोक्ताः॥ १७॥क्षत्रियेण ब्राह्मण्यादिषु पूर्ववद्द्विविधानाह —

विप्रायां क्षत्रियादित्यादिना॥ १८॥ माहिष्य इत्यम्बष्ट इति नामद्वयेनोक्त इत्यर्थः॥ १९॥२०॥

शूद्रायां क्षत्रियाज्जातो दौष्यन्त्याख्यो भवेद्‌द्विजा॥२०॥
चोर्येणास्यामनेनोत्थः शूलिको भवति द्विजाः।
ब्राह्मण्यां वैश्यतो जातः क्षत्ता भवति नामतः॥२१॥
अस्यामनेन चोर्येण म्लेच्छो विप्राः प्रजायते।
जातो वैश्यान्नृपायां यः शालिको मागधश्च सः॥२२॥
अस्यामनेन चौर्येण पुलिन्दो जायते बुधाः।
मणिकारस्तु वैश्यायां चौर्याद्वैश्येन जायते॥ २३॥
शुद्रायां वैश्यतो जात उग्र इत्युच्यते बुधैः।
अस्यामनेन चौर्येण कटकारः प्रकीर्तितः॥ २४॥
शूद्राद्विप्राङ्गनायां तु चण्डालो नाम जायते।
अस्यामनेन चौर्येण बाह्यदासस्तुजायते॥ २५॥
जातः शूद्रेण राजन्यां वैदेहाख्यश्च पुल्कसः।
अस्यामनेन चौर्येण वलवाख्यो विजायते॥ २६॥
जातः शूद्रेण वैश्यायां भवेत्पत्तनशालिकः।
अनेनास्यां भवेच्चक्री चौर्याद्व्राह्मविदांवराः॥ २७॥
चौर्याच्छूद्रेण शूद्रायां जातो मालविको भवेत्‌।
अम्बष्ठायां समुत्पन्नः सवर्णेन द्विजोत्तमाः॥ २८॥

——————————————————————————————————————————————————

वैश्याद्ब्राह्मण्यादिषु पूर्ववद्विविधानाह —

ब्राहण्यां वैश्यतो जात इत्यादिना॥२१।\। शालिकमागधशब्दौ पर्यायौ॥ २२–२४॥ शद्राद्व्राह्मण्यादिषु पूर्ववद्विविधानाह —

शुद्राद्विप्राङ्गनायामित्यादिना॥ २५॥ राजन्यां राजन्यायाम्‌। वैदेहपुल्कसशब्दौ पर्यायौ॥२६॥२७॥ अपरा अपि नानाविधाः संकरजातीराह —

अम्बष्ठायामित्यादिना। अम्बष्ठायां क्षत्रियाद्वैश्यायां जातायां सवर्णेन ब्राह्मणात्क्षत्रियायां जातेन॥ २८॥ करणायामति। शुद्रायां विश

आग्नेयनर्तकाख्यः स इति प्रोक्तो महात्मभिः।
करणायां तु विप्रेन्द्रा माहिष्याद्यो विजायते॥ २९॥
स तक्षा रथकारश्च प्रोक्तः शिल्पी च वर्धकी।
लोहकारश्च कर्मार इति वेदार्थवेदिभिः॥ ३०॥
विप्रायामुग्रतो जातस्तक्षवृत्तिः प्रकीर्तितः।
वैश्यायां तेन निष्पन्नः समुद्रो नाम जायते॥ ३१॥
ब्राह्मण्यां यो निषादेन जातो नापित संज्ञितः।
नृपायां यो निषादेन जातोऽधोनापितः स्मृतः॥ ३२॥
विप्रायां नापिताज्जाातो वेणुकः परिकीर्तितः।
राज्ञ्यांयो जनितस्तेन चर्मकारः स उच्यते॥ ३३॥
द्विजोत्तमायां दौष्यन्ताद्भागलब्धःप्रजायते।
वैश्यायां तु निषादेन सुनिषादोऽभिजायते॥ ३४॥
ब्राह्मण्यां यो मुनिश्रेष्ठा वैदेहेन प्रजायते।
स नाम्ना रजको ज्ञेयः पण्डितैः पण्डितोत्तमाः॥३५॥
द्विजोत्तमायां चाण्डालाद्यःपुमाञ्जायते भुवि।
श्वपचः स तु विज्ञेयः सर्वशास्त्रविशारदैः॥ ३६॥
श्वपचाद्विप्रकन्यायां गुहको जायते सुतः।
वैश्यायां यस्तुचण्डालज्जातो दन्तकपोलकः॥ ३७॥
जनितोऽनेन शूद्रायां विप्रा आश्रयकः स्सृतः।
प्रतिलोमनिषादाद्यःशूद्रायां स तु भैरवः॥ ३८॥

——————————————————————————————————————————————————

उत्पन्नायाम्‌। माहिष्यादिति। अम्बष्ठापरपर्यायात्‌। उच्यत इति। शूद्रायां वैश्यतो जात उग्रइत्युच्यते तस्मात्तेनेति॥ २९- ४४॥ मातङ्गादिति

शूद्रायां मागधाज्जातः कुकुन्दः प्रोच्यते बुधैः।
नृपायां मागधाज्जातः स्वनकः परिकीर्तितः॥ ३९॥
स्वनकाद्राजकन्यायामुद्बन्धोनाम जायते।
आयोगवेन ब्राह्यण्यां चर्मकारः प्रजायते॥ ४०॥
विप्रव्रात्यात्तु विप्रायां बन्दिको नाम जायते।
क्षत्रव्रात्यान्नृपायां तु जल्लोमत्तश्च मल्लकः॥ ४१॥
मल्लात्तु पिच्छलस्तेन नटाख्यो जायते भुवि।
नटात्करणसंज्ञस्तु करणात्त्वष्टसंज्ञितः॥ ४२॥
तेन द्रमिल उत्पन्नो नृपायां वेदवित्तमाः।
वैश्यव्रात्यात्तु वैश्यायां सुधन्वा जायते द्विजाः॥४२॥
अनेन चौर्यसंज्ञस्तु हारुषो हारुषादपि।
द्विजन्मा जायते तस्मान्मैत्रो मैत्रात्तु सात्वतः॥ ४४॥
मेत्राद्वैदेहको जातः स मातङ्गश्चकीर्तितः।
मातङ्गाज्जायते सूतः सूताद्दस्युः प्रजायते॥ ४५॥
दस्योर्जातो मुनिश्रेष्ठा मालाकारः समाख्यया।
प्रतिलोमनिषादेन कैवर्तोख्यो विजायते॥ ४६॥
नीलकारिस्त्रियां जात आयोगेन द्विजोत्तमाः।
नीलादिवर्णविक्रेता नाम्ना वेदार्थवित्तमाः॥ ४७॥
कारौचारुसमाख्यायां निषादेन मुनीश्वराः।
चर्मजीवी समुत्पन्नः सर्वविज्ञानसागराः॥ ४८॥
युष्माकं संग्रहेणैव मयोक्तो जातिनिर्णयः।

——————————————————————————————————————————————————

सुधन्वेत्यारभ्य मालाकारपर्यन्तम् वैश्यायामित्यनुवर्तते॥४५—४८॥

यथाऽगस्त्याच्छ्रुतः पूर्वं सद्गुरोरनुशासनात्‌॥ ४९॥
स्वजात्युक्तं यथाशाक्ति कुरुते कर्मयः पुमान्‌।
मुक्तिस्तस्येव संसारादिति वेदानुशासनम्‌॥ ५०॥
सर्वेषां जन्मना जातिर्नान्यथा कर्मकोटिभिः।
पश्वादीनां यथा जातिर्जन्मनैव न चान्यथा॥ ५१॥
साऽपि स्थूलस्य देहस्य भौतिकस्य न चाऽऽत्मनः।
तथाऽपि देहेऽहंमानादात्मा विप्रादिसंज्ञितः॥ ५२॥
स्वस्वरूपापरिज्ञानाद्देहेऽहंमान आत्मनः।
अपरिज्ञानमप्यस्य ब्राह्मणा वेदवित्तमाः॥ ५३॥
आदिमन्न भवत्यन्तस्तस्य ज्ञानेन सुव्रताः।

——————————————————————————————————————————————————

ईदृशानामनुक्तानामनन्तानां भेदानां संभवादाह — संग्रहेणेति॥ ४९॥ जातिनिर्णयप्रयोजनमाह —स्वजात्युक्तमिति वेदानुशासनमिति। ‘धर्मो विश्वस्य जगतःप्रतिष्ठा धर्मे स प्रतिष्ठितम्‌’ इति हि वेदवाक्येऽनुशिष्यते। स्वजात्युक्त एवहि धर्मः॥ ५०॥ जन्मनिबन्धना एता जातयः सन्तु कर्मनिबन्धनास्तु कीदृश्य इत्याशङ्क्यता न संभवन्त्येवेत्याह — सर्वैषामिति। तत्र दृष्टान्तमाह पश्चादीनामिति॥ ५१॥ यदि जन्मनिबन्धनैवजातिस्तर्हि जन्मरहितस्याऽऽत्मनःसा कथं भवत्तदभावे वा तस्य कथं जातिप्रयुक्तधर्मेषु नियोग इत्यत आह — साऽपि स्थुलस्येति। सूक्ष्मभूतकार्यस्य लिङ्गशरीरस्याप्यात्मवज्जाात्यभावाभिप्रायेण स्थूलस्येत्युक्तम्‌। जातिमद्देहादितादात्म्याध्यासादजातेरप्यात्मनो विप्रत्वादिव्यवहारइत्यर्थः॥५२॥ अध्यासोपादानमज्ञानमाह — स्वस्वरूपेति। अज्ञानस्य तर्हि को हेतुः। अनादित्वे वा तस्याऽऽत्मवदन्तोऽपि न स्यादिति चेन्न। यथा प्रागभावस्यानादेर्भवेन निवृत्तिरेवमनादेरज्ञानस्यज्ञानेन निवृत्तिरित्याह — अपरिज्ञानमिति। लोकायतादिशात्नोक्तप्रज्ञानादज्ञाननिवृत्तिंवारयितुमाह —ज्ञानमिति। यथार्थदर्शिनोयथादृष्टार्थवादिनश्चव्यासादयस्ते सद्गुरवः। लोकायतादयस्तु विप्रल-

ज्ञानं वेदान्तविनज्ञानमिति सद्गुरुनिर्णयः॥ ५४॥
यस्यापरोक्षविज्ञानमस्ति वेदान्तवाक्यजम्‌।
तस्य नास्ति नियोञ्यत्वमिति वेदार्थनिर्णयः॥ ५५॥
वर्णानामाश्रमाः प्रोक्ताः सर्वशास्त्रार्थवेदिभिः।
तेषां वर्णाश्रमस्थानां वेदकिंकरता सदा॥ ५६॥
अस्ति चेद्ब्रह्मविज्ञानंस्त्रियो वा पुरुषस्य वा।
वर्णाश्रमसमाचारस्तयोर्नास्त्येव सर्वदा॥५७॥
अविज्ञायाऽऽत्मसदद्भावं स्ववर्णाश्रममास्तिकाः।
जहाति यः स मूढात्मा पतत्येव न संशयः॥ ५८॥
तस्मात्सर्वप्रयत्नेन श्रद्धया सह सर्वदा।
कर्तव्यो वर्णिभिर्धर्मः श्रौतः स्मार्तश्चमुक्तये॥ ५९॥
इत्याकर्ण्य मुनीश्वराः श्रुतिगतं सूतोपादिष्ट परं
सत्यानन्तसुस्वप्रकाशपरमब्रह्मात्मविज्ञानदम्‌।
श्रुत्वा जातिविनिर्णयं सकललोकाम्भोधिपारं सदा
सत्यास्तेयदयार्जवादिसहितास्तुष्टा बभूवुर्भृशम्‌॥६०॥

——————————————————————————————————————————————————

म्भकत्वादज्ञत्वाच्च नैव॑विधा इत्यर्थः॥५३॥५४॥ ज्ञानिनस्तर्हिजात्यभावे कथं तस्य तत्प्रयुक्तौविधिनिषेधाविति चेन्न स्त एव तस्य तावित्याह। यस्यापरोक्षेति। वेदार्थेति।‘स न साधुना कर्मणा भूयान्नो एवासाधुना कनीयानिति’ वाजसनेयश्रुतिः। ‘एष नित्यो महिमा ब्राह्मणस्य न कर्मणा वर्धते नो कनीयान्‌’इति काठकश्रुतिः॥ ५५॥ वर्णधर्मवदाश्रमधर्मोऽपि तत्वज्ञानविरहिणमेवेत्याह —वर्णानामिति। वेदकिंकरता वेदेन कर्मसुनियोज्यता॥५६॥ स्त्रीत्वादीनामपि वर्णाश्रमवद्देहधर्मत्वेन देहाध्यासाविरहे सति कर्मस्वनियाज्यत्वे नतत्कृतः कोऽपि विशेषःइत्याह —

अस्ति चेदिति॥५७॥संश्चासौभावश्च सद्भावः पारमार्थिकं रूपमात्मनस्तदसाक्षात्कृत्य कर्मपरित्यागे पातित्यमाह —

इति श्रीस्कान्दपुराणे श्रीसूतसंहितायां शिवमाहात्म्यखण्डे

जातिनिर्णयो नाम द्वादशोऽध्यायः॥ १२॥

त्रयोदशोऽध्यायः॥

१२. तीर्थमाहात्यकथनम्‌

नैमिशीया ऊचुः —

भगवंस्तीर्थमाहात्म्यं सर्वशास्त्रार्थवित्तम।
ब्रुहि कारुण्यतोऽस्माकं हिताय प्राणिनां मुदा॥ १॥

सूत उवाच —

वदामि तीर्थमाहात्म्यंसंग्रहेण मुनीश्वराः।
श्रृणुध्वंसर्वशास्त्रोक्तं श्रद्धया परया सह॥ २॥
गङ्गाद्वारं महातीर्थं सर्वदेवनिषेवितम्‌।
तत्र स्नात्वा रवौ मेषे स्थितेऽश्विन्यां मुनीश्वराः॥ ३॥

——————————————————————————————————————————————————

अविज्ञायेति॥ ५८॥ ५९॥ सत्यानन्तेति। जातिनिर्णयो हि तत्प्रयुक्तकर्मानुष्ठानद्वारा तत्वज्ञानहेतुः॥६०॥

इति श्रीमाघवाचार्येण विरचितायां श्रीसूतसंहितातात्पर्यदीपिकायां शिवमाहात्म्यखण्डे जातिनिर्णयो नाम द्वादशोऽध्यायः॥१२॥

—————

तत्त्वज्ञानमन्तरेण कर्मत्यागे पातित्यमुक्तम्‌। प्रमादाज्जातस्यतस्यनिर्णजने तीर्थसेवा सुकरोपाय इति मन्यमाना मुनयस्तीर्थमाहात्म्य॑ जिज्ञासन्ते—

भगवंस्तीर्थेति॥ १॥ श्रद्धयेति। तद्विरहे तीर्थानामपि निष्फलत्वम्‌ `मन्त्रेतीर्थे द्विजे देवे दैवज्ञे भेषजे गुरौ॥ यादृशी भावना यत्र सिद्धिर्भवति तादृशी’इत्याहुः॥ २—१६॥ विशाख इति। विशाखानक्षत्रयुक्ते सूर्यवारे। `नक्षत्रेण युक्तः कालः’इत्यण्‌। संज्ञापूर्वकस्प विधेरनित्यत्वादादि वृद्ध्यभावः। सूर्यवारस्य विशेषस्योपादानात्‌ `लुबविशेषे’इति न लुप्‌।

यथाशक्ति धनं दत्त्वा श्रद्धयाशिवयोगिने।
उपोष्य सर्वपापेभ्यो मुच्यते मानवो द्विजाः॥ ४॥
सोमतीर्थमिति ख्यातं सोमनाथस्य संनिधौ।
समुद्रे पश्चिमे विप्राः स्थितं योजनमायतम्‌॥ ५॥
विस्तीर्णं योजनं विप्रा विश्वेैर्देवैर्निषॆवितम्।
पर्वण्यार्द्रादिनेऽष्टम्यां व्यतीपाते तथा द्विजाः॥ ६॥
अर्कवारे चतुर्दश्यां स्नात्वा दत्त्वाऽत्र भोजनम्‌।
प्रणम्य सोमनाथाख्यं सोमं सोमविभूषणम्‌॥ ७॥
उपोष्य रजनीमेकां भस्मदिग्धतनूरुहः।
सर्वपापविनिर्मुक्तः शंकरं याति मानवः॥ ८॥
वाराणस्यां महातीर्थं नाम्ना तु मणिकर्णिका।
तत्र स्नात्वा महाभक्त्या प्रातरेव समाहितः॥ ९॥
दृष्ठ्वाविश्वेश्वरं देवं करुणासागरं हरम्‌।
यथाशक्त्यन्नपानादि दत्त्वा मुक्तो भवेन्नरः॥ १०॥
प्रयागाख्यं महातीर्थं भवरोगस्य भेषजम्‌।
भरण्यां कृत्तिकायां तु रोहिण्यां वा विशेषतः॥ ११॥
तत्र स्नात्वा रवौ मेषे वर्तमाने मुनीश्वराः।
यथाशक्ति धनं दत्त्वा विमुक्तो मानवो भवेत्‌॥ १२॥
आर्द्रायां मृगशीर्षे वा गङ्गासागरसंगमे।
स्नात्वा मध्यंदिने दत्वा यथाशाक्तिधनं मुदा॥ १३॥
सर्वपापविनिर्मुक्तः शिवसायुज्यमाप्नुयात्‌।

——————————————————————————————————————————————————

अत एव युक्तवद्वयाक्तिवचने. न भवतः। अथ वा सूर्यवारे विशाखे स्यातां

नर्मदा च महातीर्थं नरकद्वारनाशकम्‌॥ १४॥
ब्रह्मविष्ण्वादिभिर्नित्यंसेवितं शंकरेण च।
तत्र स्नात्वा यथाशक्ति धनं दत्त्वाऽऽदरेण च॥ १५॥
ब्रह्मलोकमवाप्नोति नरो नात्र विचारणा।
यमुना च महातीर्थं यमेनापि निषेवितम्‌॥ १६॥
यत्र स्नात्वा नरो भक्त्या रवौ वृषभसंस्थिते।
विशाखे सूर्यवारे वा दत्त्वाविप्राय भोजनम्‌॥१७॥
सर्वपापविनिर्मुक्तः शिवेन सह मोदते।
सरस्वतीति विख्याता नदी सर्ववरप्रदा॥ १८॥
यस्यां वागीश्वरी देवी वर्तते सर्वदाऽऽदरात्‌।
तस्यामार्द्रादिने स्नात्वायत्किंचिच्छिवयोगिने॥ १९॥
दत्त्वापुत्रादिभिः सार्धं नरः स्वर्गमवाप्नुयात्‌।
गोदावरीति या लोके सुप्रसिद्धामहानदी॥ २०॥
सर्वयोगीश्वराराध्या सह्यात्सिद्धामहानदी।
सिंहराशौस्थिते सूर्ये सिंहयुक्ते ब्रहस्पतौ।
तस्यां स्नात्वायथाशक्ति धनं दत्त्वा तुमानवः॥२१॥
गङ्गायां द्वादशाब्दस्य नित्यस्नानफलंलभेत्‌।
कृष्णवेणीति या लोके प्रोक्ता विप्रा महानदी॥२२॥
सर्वयोगीश्चराराध्या सह्यादेवोद्गता शुभा।
इन्द्रकीलगिरिर्यस्यांस्नात्वाऽभूच्छंकरासनम्‌॥ २३॥

——————————————————————————————————————————————————

चेदित्यर्थः॥ १७—२२॥ सह्यादिति। सह्यपर्वतात्‌॥ २ ३—३६॥

नित्यं यस्यां महादेवः स्नात्वा विष्ण्वादिभिः सह।
तस्मिन्‌ गिरिवरे श्रीमान्वर्तते शिवया सह॥ २४॥
स्नात्वातस्यां नरः पर्वण्युपोष्य ब्रह्मवित्तमाः। .
यथाशाक्ति धनं दत्त्वामुच्यते भवबन्धनात्‌॥ २५॥
सुवर्णमुखरी नाम नदी संसारनाशिनी।
समस्तप्राणिनां भुक्तिमुक्तिसिद्ध्यर्थमास्तिकाः॥२६॥
केवलं कृपया साक्षाच्छिवेन परमात्मना।
निर्मिता मघनक्षत्रे माघमासि द्विजोत्तमाः॥२७)
यस्यास्तीरे महादेवः शंकरः शशिभूषणः।
श्रीमद्दक्षिणकैलासे शिवया परया सह॥ २८॥
वर्तते तां समालोक्य सुवर्णमुखरीं नदीम्‌।
यस्यां संभूय तीर्थानि स्वपापध्वस्तिसिद्धये॥ २९॥
स्नानं कृत्वामहाभक्त्या मघर्क्षे माघमासिच।
यथाशक्ति धनंदत्त्वा श्रद्धया शिवयोगिने॥ ३०॥
श्रीकालहस्तिशैलेशं शिवं शिवकरं नृणाम्‌।
श्रीमद्दक्षिणकैलासवासिनं वासवार्चितम्॥ ३१॥
प्रणम्य दण्डवद्भक्त्याविमुक्ता ह्यघपञ्जरात्।
स्नात्वा तस्यां नरा भक्त्या मघर्क्षेमाघमासि च॥३२॥
सर्वपापविनिर्मुक्तः शिवसायुज्यमाप्नुयात्‌।
कम्पा नाम नदी पुण्या कमलासननिर्मिता॥ ३३॥
यस्यां द्विजोत्तमाः स्नात्वा शंकरं शशिशेखरम्।
दृष्ट्वाभक्त्यानरः सद्यो मुच्यते भवबन्धनात्‌॥३६॥

आदिलिङ्गेमहाविष्णुर्यस्यां स्नात्वा महेश्वरम्‌।
समाराध्य स्थितस्तन्न देवदेवस्य संनिधौ॥ ३५॥
निरीक्ष्य श्रद्धया विप्रा नदीं तामच्युतो हरिः।
तस्यां स्नात्वाऽर्कवारे च ब्राह्मणाः श्रद्धया सह॥३६॥
हस्ते वा भगनक्षत्रे तथा पर्वण्यपि द्विजाः।
विप्रायान्नादिकं दत्वा नरः स्वर्गे महीयते॥ ३७॥
कुटिला नाम या लोके प्रसिद्धा महती नदी।
यस्यास्तीरे मुनिश्रेष्ठावीराख्या वेदवित्तमाः॥ ३८॥
श्रावण्यां पौर्णमास्यां तु भद्गकालीदृढव्रता।
अधिकासंज्ञितां रम्यां पुरीमादित्यनिर्मिताम्‌॥ २३९॥
अप्सरोगणसंकीर्णामाश्रितामसुरैःसुरैः।
अभ्येत्याशेषदेवानामादिभूतं महेश्वरम्‌॥ ४०॥
प्रतिष्ठाप्य जलेनास्याः स्नाप्य श्रद्धापुरःसरम्‌।
प्रार्थयामास धर्मज्ञा देवदेवं घृणानिधिम्‌॥ ४१॥
यः पुमान्देवदेवास्यां स्नात्वा श्रद्धापुरःसरम्‌।
श्रावण्यां पौर्णमास्यां वा दृष्ट्वास्तुत्वाऽभिवन्द्यच॥४२॥
ददाति विदुषे वस्त्रंधनं धान्यं यथाबलम्‌।
तस्य भुक्तिं च मुक्तिं च प्रयच्छाशेषनायक॥ ४२॥

सूत उवाच —

वीरया प्रार्थितो देवो विप्रेन्द्रा ब्रह्मवित्तमाः।
तथा भवत्विति प्राह शिवो गम्भीरया गिरा॥ ४४॥

——————————————————————————————————————————————————

भगनक्षत्रे उत्तरफल्गुन्याम्‌॥ ३७—३९.॥ अप्सरैरप्सरोभिश्चन कादाचि-

तस्यां स्नात्वाऽर्कवारे यः श्रद्धया परया सह।
ददाति धनमन्यद्वास मुक्तो नात्र संशयः॥ ४५॥
मणिमुक्ता नदी दिव्या महादेवेन निर्मिता।
यस्यां विष्णुश्च रुद्रश्च ब्रह्मा वह्निश्चमारुतः॥ ४६॥
विश्वेदेवाश्च वसवः सूर्यो देवः पुरंदरः।
आदित्ये चापसंयुक्ते श्रद्धयाऽऽर्द्रादिने द्विजाः॥ ४७॥
स्नानं कृत्वा धनं दत्त्वा श्रीमद्‌वृद्धाचलेश्वरम्‌।
प्रणम्य दण्डवद्भूमौ लोकानां हितकाम्यया॥ ४८॥
प्रार्थयामासुरीशानं श्रीमद्वृद्धाचलेश्वरम्‌।
दुर्वृत्तो वा सुवृत्तो वा मूर्खो वा पण्डितोऽपि वा॥ ४९॥
ब्राह्मणो वाऽथ शूद्रो वा चण्डालो वाऽन्य एव वा।
अस्यामस्मिन्दिने स्नात्वाश्रद्धया शिवयोगिने॥५०॥
यथाशक्ति धनं दत्त्वा धान्यं वा वस्त्रमेव वा।
श्रीमद्वृद्धाचलेशाय ब्राह्मणा वेदवित्तमाः॥ ५१॥
उपोष्य प्रातरेवेशं श्रीमद्वृद्धाचलेश्वरम्‌।
यो नमस्कुरुते तस्य प्रयच्छ परमां गतिम्‌॥ ५२॥
इत्यवंप्रार्थितः सर्वैः श्रीमद्वृद्धाचलेश्वरः।
तथैवास्त्विति संतुष्टः प्राह गम्भीरया गिरा॥ ५३॥
तस्यामार्द्रादिने स्नाति श्रद्धया मानवो द्विजाः।
तस्य संसारविच्छित्तिः सिद्धा नात्र विचाराणा॥५४॥
श्रीमद्व्याघ्रपुरे रम्ये महालक्ष्म्यानिषेविते।
शिवगङ्गेति विख्यातं तटाकं तीर्थमुत्तमम्‌॥ ५५॥

तस्य दक्षिणतीरे श्रीशंकरः शशिशेखरः।
प्रनृत्यति परानन्दमनुभूयानुभूय च॥ ५६॥
यस्मिन्ब्रह्मादयो देवा मुनयश्च दिने दिने।
स्नानं कृत्वा प्रनृत्यन्तं भवानीसहितं शिवम्‌॥ ५७॥
प्रणमन्ति महाभक्त्या भवरोगनिवृत्तये।
यस्मिन्साक्षान्महादेवो भवानीसहितो हरः॥ ५८॥
ब्रह्मविष्ण्वादिभिः सार्धं मघर्क्षेमाघमासि च।
स्नानं करोति रक्षार्थं प्राणिनामीश्वरेश्वरः॥ ५९॥
तस्मिन्भक्त्यानरः स्नात्वाददाति धनमादरात्‌।
स सर्वसमतामेत्य ब्रह्माप्नोति द्विजोत्तमाः॥ ६०॥
गुह्यतीर्थमिति ख्यातं समुद्रे वेदवित्तमाः।
श्रीमद्व्याघ्रपुरस्यास्य प्रागुदीच्यां दिशि स्थितम्‌॥६१॥
एकयोजनविस्तीर्णमेकयोजनमायतम्‌।
समुद्रतीरमारभ्य ब्रह्मणा विष्णुना तथा॥ ६२॥
रुद्रेणाशेषदेवाद्यैर्मुनिभिश्चनिषेवितम्‌।
पुरा वेदाविदां मुख्या वरुणोजलनायकः॥ ६३॥
प्रमादाद्व्राह्मणं हत्वा तत्पापविनिवृत्तये।
व्याघ्रपादवचः श्रुत्वात्वरया परया सह॥ ६४॥
गुह्मतीर्थमिदं गत्वा मघर्क्षे माघमासि च।
तत्र स्नात्वामहाभक्त्या वरुणो दग्धकल्मषः॥ ६५॥
एतस्मिन्नन्तरे श्रीमान्नीलकण्ठोऽम्बिकापतिः।

——————————————————————————————————————————————————

त्कत्वंसंकीर्णत्वं किंतु नियतवासोऽपि तासामियं पुरीत्यर्थः॥ ४ ०—५९॥

प्रसादमकरोत्तस्य वरुणस्य कृपाबलात्॥ ६६॥
वरुणोऽपि महादेवं वाञ्छितार्थप्रदायिनम्।
प्रार्थयामास धर्मात्मा लोकानां हितकाम्यया॥ ६७॥

वरुण उवाच —

भगवन्देव मत्पूजां मघर्क्षेमाघमासि च।
कृत्वा यः श्रद्धयैवास्मिंस्तीर्थेस्नात्वा ददाति च।
तस्य मुक्तिं प्रयच्छाऽऽशु ब्राह्यणस्यान्त्यजस्य वा॥६८॥

सूत उवाच —

देवदेवो महादेवो वाङ्मनोऽगोचरो हरः॥ ६९॥
तथैवास्त्विति विप्रेन्द्राः प्राह गम्भीरया गिरा।
अत्रपर्वणि यः स्नात्वा ददाति धनमादरात्‌॥ ७०॥
समस्तपापनिर्मुक्तः स याति परमां गतिम्‌।
बहवोऽत्र मुनिश्रेष्ठाः स्नात्वा पर्वणि पर्वणि॥ ७१॥
विहाय सर्वपापानि विमुक्ता भवबन्धनात्‌।
ब्रह्मतीर्थमिति ख्यातं तटाकं ब्रह्मणा कृतम्‌॥ ७२॥
श्रीमद्ब्रह्मपुराख्यस्य मध्यमे सुप्रतिष्ठितम्‌।
रोमशोभगवान्यास्मिंस्तटाके वेदवित्तमाः॥ ७३॥
स्नात्वा नित्यं महाभक्त्या तताप सुमहत्तपः।
यस्मिन्ब्रह्मा द्विजाः स्नात्वाकल्पादौपरमेश्वरम्‌॥७४॥

——————————————————————————————————————————————————

स सर्वसमतमेत्येति। समत्वलाभोहि महत्तरं फलम्‌ तथा च गीतासु— ‘सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु। साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते’इति॥ ६०- ६८॥ वाङ्मनोऽगोचर इति। वाङ्मनसयोरगोचरः

पूजयामास लोकानां सृष्टिस्थित्यर्थमादरात्‌।
तत्र स्नात्वाऽर्कवारे च ग्रहणे चैव पर्वणि॥ ७५॥
यो ददाति धनं भक्त्यास याति परमेश्वरम्‌।
सूर्यपुष्करिणी नाम तीर्थमत्यन्तशोभनम्‌॥ ७६॥
श्रीमद्ब्रह्मपुराख्यस्य पश्चिमस्यां दिशिस्थितम्‌।
यत्र स्नात्वाऽर्कवारे च ग्रहणे चन्द्रसूर्ययोः॥ ७७॥
विषुवायनकालेषु पर्वण्यार्दादिने तथा।
पूषा दक्षाध्वरध्वस्तदन्ताल्ँलब्ध्वा प्रियं गतः॥ ७८॥
पुरा रावणपुत्रस्तुविजित्य सकलंजगत्‌।
इन्द्रजिद्रथमारुह्य प्रमत्तः पण्डितोत्तमाः॥ ७९॥
गच्छन्नत्यन्तवेगेन व्योम्नि लङ्कां प्रति द्विजाः।
तीर्थस्यास्य रथस्तीरे दक्षिणे सुस्थितोऽभवत्‌॥ ८०॥
सोऽपि तत्प्रेक्ष्य विप्रेन्द्रा विचार्यसुचिरं सुधीः।
पूजयामास तत्रैव श्रद्धया परमेश्वरम्‌॥ ८१॥
देवदेवो महादेवो राक्षसानां महाधनम्‌।
तत्रैवाऽऽस्ते स्वयं प्रीत्या भवानीसहितो हरः॥ ८२॥
इन्द्रजित्पुनरादातुं न शशाक तमीश्वरम्‌।
स पुनः सुचिरं कालंविचार्यपरमेश्वरम्‌॥ ८३॥
प्रदक्षिणत्रयं कृत्वा समारुह्य रथोत्तमम्‌।
विवर्णो विवशोऽतीव द्विजा लङ्कापुरीं गतः॥ ८४॥
अस्मिन्पर्वणि यः स्नात्वाभोजयेद्ब्राह्मणं मुदा।
सर्व॑पापविनिर्मुक्तः शिवलोकं स गच्छति॥८५॥

यः स्नाति वेदविच्छ्रेष्ठाः कावेर्युदधिसङ्गमे।
सर्वाणि तस्य पापानि विनश्यन्ति न संशयः॥ ८६॥
श्वेतारण्ये तथा कुम्भघोणे मध्यार्जुने द्विजाः।
आम्रतीर्थे हृदि स्थाने तथा मङ्गलवंशके॥ ८७॥
त्रिकोटिहाख्ये कावेरी वरिष्ठा सर्वकामदा।
एषु स्थानेषु कावेर्यां स्नात्वापर्वणि यः पुमान्‌॥
अर्कवारे तथा विप्राः प्रणम्य परमेश्वरम्‌॥ ८८॥
ददाति धनमन्यद्वामहापापात्प्रमुच्यते।
पापिष्ठो वा वरिष्ठो वा यः पुमान्मरणं गतः॥ ८९॥
एषु स्थानेषु विप्रेन्द्राः स मुक्तो नात्र संशयः।
बहवो मरणान्मुक्ता एषु स्थानेषु सप्तसु॥ ९०॥
क्षीरकुण्डमिति ख्यातं भवरोगस्य भेषजम्‌।
सर्वतीर्थोत्तमं पुण्यं सर्वपापप्रणाशनम्‌॥ ९१॥
सर्वकामप्रदं दिव्यं श्रीमद्वल्मीकमध्यगम्‌।
उत्तरे फाल्गुने मासि ब्रह्मणा विष्णुना तथा॥ ९२॥
शंकरेण तथा देवैर्मुनिभिः सर्वजन्तुभिः।
सेवितं सोमसूर्याभ्यां स्वर्गाद्वल्मीकमागतम्‌॥ ९२॥
यः स्नाति फाल्गुने मासि श्रद्धयैवोत्तरे दिने।
तस्य सर्वाणि पापानि विनश्यन्ति द्विजोत्तमाः॥९४॥
यः स्नात्वाऽत्र व्यतीपाते ददाति धनमादरात्‌।
तस्य मुक्तिरयत्नेन सिद्ध्यत्येव न संशयः॥ ९५॥

——————————————————————————————————————————————————

उत्तरे दिन इति। विशाखे सूर्यवारे चेतिवद्व्याख्येयम्‌॥ ९४—१०४॥

देवतीर्थमिति ख्यातं क्षीरकुण्डस्य पश्चिमे।
देवराजः पुरा यत्र स्नात्वा पर्वणि पर्वणि॥ ९६॥
वत्सरान्ते महादेवं वल्मीकावासमादरात्‌।
प्रदक्षिणत्रयं कृत्त्वा प्रणम्य भुवि दण्डवत्‌॥ ९७॥
विसृज्यदेवराजत्व॑ विमुक्तः कर्मबन्धनात्‌।
यत्र स्नात्वोत्तरे मर्त्यःश्रद्धया मासि फाल्गुने॥ ९८॥
प्रदक्षिणत्रयं कृत्वा वल्मीकावासमीश्वरम्‌।
ददाति धनमन्यद्वामुच्यते भवबन्धनात्‌॥ ९९॥
अर्कवारे तथार्द्रायां कृष्णाष्टम्यां विशेषतः।
यः स्नाति देवतीर्थेऽस्मिन्स याति परमां गतिम्‌॥१ ००॥
सेतुमध्ये महातीर्थं गन्धमादनपर्वतम्‌।
यत्र स्नात्वामहाभक्त्याराघवः सह सीतया॥१०१॥
लक्ष्मणेन तथैवान्यैःसुग्रीवप्रमुखैर्वरेः।
मुनिर्भिर्देवगन्धर्वैर्यक्षविद्याधरादिभिः॥ १०२॥
राक्षसेशवधोत्पन्नां ब्रह्महत्यां विहाय सः।
प्रतिष्ठाप्य महादेवं श्रीमद्रामेश्वराभिधम्॥ ३॥
विदित्वा तीर्थमाहात्म्यं दत्तवान्धनमुत्तमम्‌।
यत्र स्नात्वा व्यतीपाते ग्रहणे चन्द्रसूर्ययोः॥ ४॥
अर्कवारे भृगोर्वारे पर्वण्यार्द्रादिने तथा।
विषुवायनकालेषु षडशीतिमुखे तथा॥ ५॥
अर्धोदयेऽथवा विप्राः सुमुहूर्तेषु चास्तिकाः।
यथाशक्ति धनं दत्त्वा दृष्ट्वारामेश्वरं शिवम्‌॥ ६॥

लोकिकैर्वेैदिकैःस्तोत्त्रैःस्तुत्वावेदार्थपारगाः।
प्रदक्षिणत्रयं भक्त्यायः करोति द्विजोत्तमाः॥ ७॥
ब्रह्महत्यादिभिः पापैर्महद्धिः स विमुच्यते।
कृतघ्नाश्चविमुच्यन्ते यद्यत्र मरणं गताः॥ ८॥
स्नात्वाऽत्रैव महाभक्त्यामासमात्रं दिने दिने।
दृष्ट्वारामेश्वरं दत्त्वा सुवर्णं निष्कमादरात्‌॥९॥
उपोष्य रजनीमेकां मासान्ते पर्वणि द्विजाः।
ब्रह्महत्यासुरापानस्वर्णस्तेयादिपातकात्‌॥ १०॥
बुद्धिपूर्वकृतान्मर्त्योमुच्यते नात्र संशयः।
कृतार्थाःस्नानमात्रेण बहवोऽत्राभवन्द्विजाः॥ ११॥

सूत उवाच —

एतानि तीर्थानि पुरोदितानि वेदेषु शास्त्रेषु शिवागमेषु।
दृष्ट्वाभवानीपतिरम्बिकायाः प्रोवाच कारुण्यबलेन देवः॥१२।
देवी पुनः प्राह गुहस्य शंकरी गुहो विरिञ्चाय चतुर्मुखस्ततः।
गुरोर्ममाशेषजगत्प्रसिद्धये गुरुर्ममापारकृपामहोदधिः॥ १३॥

युष्माकं परमकृपाबलेन विप्रा अस्माभिः कथितमिदं जगद्धिताय। शिष्याणां सततमिदं मुदा भवद्भिर्वक्तव्यं परमशिवप्रसादसिद्ध्यै॥ १४॥

य इदं तीर्थमाहात्म्यं पठते सुमुहूर्तके।
सर्वपापविनिर्मुक्तःस याति परमां गतिम्‌॥ १५॥
य इदंशृणुयान्नित्यं सुमुहूर्तेषु मानवः।
सर्वपापविनिर्मुक्तः शिवलोके महीयते॥ १६॥

तीर्थेषु श्राद्धकाले वा य इदं श्रावयेन्मुदा।
दारिद्र्यंसकलंत्यक्त्वा स महाधनवान्भवेत्‌॥ १७॥
यः शृण्वन्देवतापूजां करोतीदं मुदा नरः।
तस्य ब्रह्मा हरिश्चापि प्रसीदति महेश्वरः॥ १८॥
भगवान्देवकीसूनुःसर्वभूतहिते रतः।
महादेवप्रसादार्थमिदं पठति नित्यशः॥ १९॥
तस्माद्भवद्भिर्मुनयः श्रद्धया परया सह।
पठितव्यमिदंनित्यं प्रसादार्थं त्रिशूलिनः॥ २०॥
एवमुक्त्वा मुनीन्द्रेभ्यः सूतः सर्वार्थवित्तमः।
अतीव प्रीतिमापन्नः सोमं सोमार्धशेखरम्‌॥ २१॥
सर्वज्ञं सर्वकर्तारं संसारामयभेषजम्‌।
सुरासुरमुनीन्द्रेैश्च प्रणताङ्घ्रिसरोरुहम्‌॥ २३॥
ध्यात्वा हृत्पङ्कजे भक्त्याप्रसन्नेन्द्रियमानसः।
प्रणम्य दण्डवद्भूमौ महादेवं जगद्गुरुम्‌॥ २४॥
वेदव्यासं च संसारसमुद्रतरणप्लवम्‌।
विहाय मुनिशार्दुलान्कैलासमचरं गतः॥ १२५॥

इति श्रीस्कान्दपुराणे श्रीसूतसंहितायां शिवमाहात्म्यखण्डे

तीर्थमाहात्म्यकथनं नाम त्रयोदशोऽध्यायः॥ १३॥

——————————————————————————————————————————————————

षडशीतिमुख इति। मिथुनकन्याधनुर्मीनराशिषु रविसंक्रमे॥१०५-१२४॥

इति श्रीमत्काशीविलासश्रीक्रियाशक्तिपरमभक्तश्रीमत्र्यम्बकपादाब्जसेवापरायणेनोपनिषन्मार्गप्रवर्तकेन माधवाचार्येण विरचितायां श्रीसूतसंहिता तात्पर्यदीपिकायां शिवमाहात्म्यखण्डे तीर्थमाहात्म्यकथन॑ नाम त्रयोदशोऽध्यायः॥ १३॥ समाप्तमिदं शिवमाहात्म्यखण्डम्‌।

अथ द्वितीय॑ ज्ञानयोगखण्डम्‌॥

१. ज्ञनयोगसंप्रदायपरम्पराकथनम्‌।

कैलासशिखरे रम्ये नानारत्नसमाकुले।
नानापुष्पसमाकीर्णे नानामूलफलोदके॥ १॥
नानावल्लीसमाकीर्णे नानामृगसमाकुले।
नानावृक्षसमाकीर्णे नानायोगिसमावृते॥ २॥
नानासिद्धसमाकीर्णेनानामुनिसमावृते।
नानादेवसमाकीर्णेनानाचारणसेविते॥ ३॥
नानायक्षसमाकीर्णे नानागन्धर्वसेविते।
सुखासीनंसुप्रसन्नं सुनेत्रंसुस्मितं शुचिम्‌॥ ४॥
स्वतेजसा जगत्सर्वंभासयन्तं भयापहम्‌।
सर्वशास्त्रार्थतत्त्वज्ञं वेदवेदाङ्गपारगम्‌॥ ५॥
भस्मोद्धूलितसर्वाङ्ग त्रिपुण्ड्‌राङ्कितमस्तकम्‌।
रुद्राक्षमालाभरणं जटामण्डलमण्डितम्‌॥ ६॥
जितेन्द्रियं जितक्रोधं जीवन्मुक्तंजगद्गुरुम्‌।
व्यासप्रसादसंपन्नं व्यासवद्विगतस्पृहम्‌॥ ७॥
वेदमार्गे सदा निष्ठं वेदमार्गप्रवर्तकम्‌।
ऋजुकायशिरोग्रीवंनासाग्रन्यस्तलोचनम्‌॥ ८॥
स्वयं स्वमेव ध्यायन्तं सुतं बुद्धिमतां वरम्‌।
विष्णुवृद्धोविशालाक्षो वत्सः कुण्डिन आरुणिः॥ ९॥

—————————————————————————————————————————————————

ज्ञातव्यंवस्तु प्रथमखण्डेनोपदिश्य ज्ञानोपायं वक्तुं द्वितीयखण्डमारभते — कैलासेत्यादिना। कैलासेत्यारभ्यमुनय ऊचुरित्येतदन्त॑ व्यासवा-

जाबालो जमदग्निश्च जर्जरो जङ्गमो जयः।
पक्वःपाशधरः पारः पारगः पण्डितोत्तमः॥ १०॥
महाकायो महाग्रीवो महाबाहुर्महोदरः।
उद्दालको महासेन आर्तआमलकप्रियः॥ ११॥
एकपादो द्विपादश्चत्रिपादः पद्मनायकः।
उग्रवीर्योमहावीर्यउत्तमोऽनुत्तमः परः॥ १२॥
पण्डितः करुणः कालःकैवल्यश्चकलाधरः।
कल्पान्तः कङ्कणः कण्वः कालःकालाग्निरुद्रकः॥१३॥
श्वेतबाहुर्महाप्राज्ञः श्वेताश्वतरसंज्ञकः।
एषां शिष्याः प्रशिष्याश्च पाशाविच्छेदने रताः॥ १४॥
विचार्यमाणा वेदार्थं विषण्णा विवशाभृशम्‌।
समागम्य समाधिस्थं दण्डवत्प्रणिपत्य च॥ १५॥
स्तोत्रैः स्तुत्वा महात्मानं पप्रच्छुः पण्डितोत्तमाः।

मुनय उचुः —

भवता कथितं सर्वंसंक्षेपाद्विस्तरेण च॥ १६॥
इदानीं श्रोतुमिच्छामो ज्ञानयोगं सहेतुकम्‌।
साक्षाद्विष्णोर्जगन्नाथात्कृष्णद्वैपायनाद्गुरोः॥ १७॥
अवाप्तज्ञानयोगस्त्वंन वेत्ता त्वामृते भुवि।
तस्मात्कारुण्यतोऽस्माकं संक्षेपाद्वक्तुमर्हसि॥ १८॥
इति पृष्टो मुनिश्रेष्ठैःसूतः पौराणिकः प्रभुः।

——————————————————————————————————————————————————

क्यम्‌॥ १—१५॥ संक्षेपविस्तराभ्यामुपदिष्टस्यापि तत्त्वस्यानादिभवपरम्परोपात्तदुरितोपहतचित्तैर्दुरधिगमत्वाद्दुरितप्रक्षयद्वारा तेषामपि तदधिगमे क

साक्षात्सर्वेश्वरं साम्बं संसारामयभेषजम्‌॥ १९॥
सर्वज्ञं सर्वगं शर्वं सर्वभूतहिते रतम्‌।
व्याघ्रचर्माम्बरधरं व्याख्यानैकरतं विभुम्‌॥ २०॥
चतुर्भुजं शरच्चद्रचन्द्रिकाधवलाकृतिम्‌।
गङ्गाधरं विरूपाक्षं चन्द्रमौलिंजटाधरम्‌॥ २१॥
नीलग्रीवं चिरं स्मृत्वा व्यासमप्यमितौजसम्‌।
प्रहृष्टः परया भक्त्यापरिपूर्णमनोरथः॥ २२॥
लौकिकैर्वैदिकैःस्तोत्रैःस्तुत्वा सम्यक्समाहितः।
वक्तुमारभते सर्वं प्रणिपत्य महेश्वरम्‌॥ २३॥

सूत उवाच—

शृणुध्वं मुनयः सर्वे भाग्यवन्तः समाहिताः।
एतदेव पुराऽपृच्छद्गिरां नाथो महेश्वरम्‌॥ २४॥
देवोऽपि देवीमालोक्य करुणाविष्टचेतसा।
प्राह गम्भीरया वाचा गुरवे मुनिपुङ्गवाः॥ २५॥
देव्या अङ्के समासीनः स्कन्दोऽपि श्रुतवांस्तदा।
स्कन्दाद्वसिष्ठः संप्राप्तः पूर्वजन्मतपोबलात्‌॥ २६॥
वसिष्ठाल्लब्धवान्‌ शक्तिः शक्तेः प्राप्तः पराशरः।
पराशरान्मुनिश्रेष्ठो भगवान्‌ व्याससंज्ञितः॥ २७॥

——————————————————————————————————————————————————

उपाय इति मुनयोजिज्ञासन्ते भवता कथितमिति। योग उपायः। सोपायं ज्ञानसाधनं शुश्रूषामहे इत्यर्थः॥ १६– २३॥ गिरां नाथो बृहस्पतिः। सकललोकहितायावश्यप्रष्टव्यमर्थमसौबृहस्पतिः पृच्छति॥ २४॥ आलोक्येति। देव्याःब्रह्मविद्याधिदेवतात्वात्‌ तत्करुणावीक्षां विना ब्रह्मज्ञाना-

तदहं श्रुतवान्‌ व्यासाज्जन्मान्तरतपोबलात्‌।
वक्ष्ये वेदविदामद्य युष्माकं तद्यथाश्रुतम्‌॥ २८॥

इति श्रीस्कान्दपुराणे सूतसंहितायां ज्ञानयोगखण्डे ज्ञान-

योगसंप्रदायपरम्पराकथनं नाम प्रथमोऽध्यायः॥१॥

————

द्वितीयोऽध्यायः॥

२. आत्मना सृष्टिकथनं।

ईश्चर उवाच —

अवाच्यमेतद्विज्ञानमतिगुह्यमनुत्तमम्‌।
आम्नायान्तैकसंसिद्धमशेषक्लेशनाशनम्‌॥ १॥
अनन्तानन्दमोक्षाख्यब्रह्मप्राप्त्येकसाधनम्।

——————————————————————————————————————————————————

नुदयात्‌ तदभ्यनुज्ञापनम्‌ आवश्यकमिति देव्यालोकनाभिप्रायः॥ २५॥ वक्ष्यमाणोपाये समाश्वासजननाय शिवादिवक्त्रृपरम्परोपन्यासः॥२६ — २ ८॥

इति श्रीसूतसंहितातात्पर्यदीपिकायां ज्ञानयोगखण्डे ज्ञानयोगसं

प्रदायपरम्पराकथनं नाम प्रथमोऽध्यायः॥१॥

सोपायज्ञानयोगे श्रद्धावत एवाधिकारो नेतरस्य। उक्तं हि — ``अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत्‌। असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह” इति॥ अतस्तत्र ज्ञाने श्रद्धातिशयजननाय स्वरूपतःफलतश्च तस्य निरतिशयमुत्कर्षमाह — अवाच्यमित्यादिभिः। अशेषक्लेशनिबर्हणत्वेन नित्यनिरतिशयानन्दप्रापकत्वेन चात्यन्तमुत्तमत्वादतिगुह्यमतिरहस्यामिदं ज्ञानं यत्र तत्रानधिकारिणि न वक्तव्यम्‌ “न विद्यामूषरे वपेदित्यर्थ”। तत्र च ज्ञाने त्रिविधा अधिकारिणः। विशुद्धसत्त्वासमाहितचेतसउत्तमाः। तेषां वेदान्तश्रवणमात्रमेवोपायस्तदाह्— आम्नायान्तैकसंसिद्धमिति। वक्ष्यतिच सप्तमाध्यायावसाने — `सर्वदा सर्वमुत्सृज्य वेदान्तश्रवणं कुरु’इति॥१॥ ये तु विवेक-

आश्रमैरखिलैर्युक्तमष्टाङ्गैरपि संयुतम्‌॥ २॥
वक्ष्ये कारुण्यतः साक्षाच्छ्रुणु वाचस्पतेऽधुना।
आसीदिदं तमोमात्रमात्माभिन्नं जगत्पुरा॥ ३॥
ततः सत्त्वगुणक्षोभान्महत्तत्त्वमजायत।
एक एव शिवः साक्षात्तिस्रो मूर्तीर्दधौपुनः॥ ४॥
रजोगुणं समास्थाय ब्रह्मास्यात्सृष्टिकारणम्‌।
सत्वमास्थाय विष्णुः स्यात्पालनाथं ब्रहस्पते॥ ५॥
तमसा कालरुद्राख्यः सर्वसंहारकारणम्‌।
असंख्या मूर्तयस्तेषां विजायन्ते पृथक्पृथक्‌॥ ६॥
उत्तमाधमरूपेण गुणवैषम्यमात्रतः।
शब्दादीनि च भूतानि श्रोत्रादीन्द्रियपञ्चकम्‌॥ ७॥
वागादिपञ्चकं तद्वत्प्राणापानादिपञ्चकम्‌।
वातादिपञ्चकं तद्वत्‌ नागकूर्मादि पञ्चकम्‌।
मनोबुद्धिरहंकारश्चित्तं चेति चतुष्टयम्‌॥ ८॥

——————————————————————————————————————————————————

वैराग्यसंपन्ना अपि रजोलेशानुवृत्त्या विक्षिप्तचेतसोमध्यमाधिकारिणःसहसैवचेतस एकाग्रत्व॑ न लभन्ते तेषामष्टाङ्गयोगो ज्ञानसाधनम्‌।तच्च दशमाध्यायमारभ्य खण्डशेषेण वक्ष्यति। ये तु प्रबलतरदुरितप्रतिबद्धचित्ता औत्सुक्यमात्रेण प्रवृत्ता अप्यप्रतिष्ठितजिज्ञासा अधमाधिकारिणस्तेषां जिज्ञासाप्रतिष्ठार्थं वर्णाश्रमधर्माणां कथंचिद्व्यतिक्रमे तन्निमित्तं पापं तस्य प्रायाश्चित्तं तेन विशुद्धानां दानधर्मादिकंचोपायः। ‘विविदिषन्ति यज्ञेन’ —

इत्यादि श्रुतेः। स चायमुपायो दशमादर्वाचीनेनाध्यायजातेनोपदिश्यत इति सकलोऽयंखण्डो ज्ञानोपायप्रतिपादकः॥ २॥ तत्रैतस्मिन्नघ्याये वर्णाश्रमधर्मेण सृष्टिंवक्तुं महदादिक्रमेण हिरण्यगर्भोत्पत्तिमाह। आसीदिदमित्यादि।एषच सर्गक्रमो गतखण्डेऽष्टमादिष्वध्यायेषु प्रपञ्चित इति नेह पुनरुच्यते। तत्र तु सूतेन

अव्यक्तात्कालपाकेन प्रजायन्ते पृथक्पृथक्‌।
सर्वे कालपराधीना न कालःकस्यचिद्वशः॥ ९॥
कालो मायात्मसंबन्धात्सर्वसाधारणात्मकः।
हिण्यगर्भोभगवान्प्रादुरासीत्प्रजापतिः॥ १०॥
स वैशरीरी प्रथमः स वैपुरुष उच्यते।
तेन ब्रह्माण्डमुत्पन्न॑ तन्मध्येऽयं बृहस्पते॥ ११॥
भुवनानि च देवाश्च शतशोऽथ सहस्रशः।
स्थावरं जङ्गमं चैव तथा वर्णाश्रमादि च॥ १२॥
साम्बं सर्वेश्वरं ध्यात्वाप्रसादात्तस्य निर्ममे।
प्रसादेन विना देवाः प्रसादेन विना नराः॥ १३॥
प्रसादेन विना लोका न सिध्यन्ति महासने।
प्रसादाद्देवदेवस्य ब्रह्मा ब्रह्मत्वमागतः॥ १४॥
विष्णुर्विष्णुपदं प्राप्तो रुद्रो रुद्रत्वमागतः।
वर्णाश्रमाचारवता पुरुषेण महेश्वरः॥ १५॥
आराध्यते प्रसादार्थं न दर्वृत्तैःकदाचन।
यस्मिन्प्रसन्ने सर्वेषां पुष्टिर्जायेत पुष्कला॥ १६॥

——————————————————————————————————————————————————

मुनिभ्यः स्ववचनेनोवोक्तः। इह तु शिवेन बृहस्पतये उपदिष्टप्रकारवर्णनमेवेत्येतावनेव विशेषः॥३ —९॥ हिरण्यगर्भ इति। यथोक्तसूक्ष्मभूतेन्द्रियकरणोपाधिको हिरण्यगर्भः पञ्चीकृतभूतमयशरीरः प्रजापातिरूपेण प्रादुरासीदित्यर्थ;॥ १ ०॥ प्रथमः शारीरीति स्थूलभूतमयशरीरसंबन्ध एव। तस्यैव यतः प्रथम इत्यर्थः। प्रजापतिपदप्रापकेण तपसा सर्वाणि पापानि पूर्वमोषतीति पुरुषः, श्रूयते हि —

`सयत्पूर्वोऽस्मात्सर्वस्मात्सर्वान्पाप्मन औषत्तस्मात्युरुषःइति॥११–१४॥ एवंवर्णाश्रमाचाराणामुत्पत्तिमभिधाय तदाचरणोपयो-

अहो तेन विना लोकश्चेष्टतेऽन्यत्र मायया।
ब्रह्मचर्याश्रमस्थानां यतिनां च विशेषतः॥ ६७ ॥
वानप्रस्थाश्रमस्थानां गृहस्थानां वशोहरः।
वर्णाश्रमसमाचारात्प्रसन्ने परमेश्वरे॥ १८ ॥
साक्षात्तद्विषयं ज्ञानमाचिरादेव जायते।
ज्ञानादज्ञानविध्वस्तिर्नकर्मभ्यः कदाचन॥ १९ ॥
अज्ञाने सति संसारो ज्ञाने स कथमुच्यते।
तस्माञ्ज्ञानेन मुक्तिः स्यादज्ञानस्य क्षयान्मुने॥ २० ॥
सर्वंसंक्षेपतः प्रोक्तं मया वेदाविदां वर।
तस्मात्त्वं च महाभाग वर्णाश्रमरतो भव॥ २१ ॥

सूत उवाच —

इति श्रुत्वा मुनिश्रेष्ठाः प्रणम्य परमेश्वरम्‌।
स्तोतुमारभते विप्राः प्रसादार्थं त्रिशूलिनः॥ २२ ॥

बृहस्पतिसरुवाच —

नमो हराय देवाय महामायाय शूलिने।

——————————————————————————————————————————————————

गमाह — वर्णाश्रमाचारवतेति॥ १५ ॥१६ ॥चतुर्णामाश्रमाणां शिवप्रसादद्वारा ज्ञानोपयोगमाह —ब्रह्मचर्याश्रमेति॥१७ — २०॥ सर्वंसंक्षेपत इति। अयमुपायोऽनुष्ठेय इति संक्षेपेणोक्तमित्यर्थः। अनुष्ठानप्रकारस्तु प्रपञ्चेन वक्ष्यते — वर्णाश्रमरत इति।तत्प्रयुक्तधर्मरत इत्यर्थः।तत्र वर्णधर्माः — ‘ब्राह्मणो बृहस्पतिसवेन राजा राजसूयेन यजेत वैश्यो वैश्यस्तोमेन’ इत्यादयः। आश्रमधर्माः — ‘आहूतश्चाप्यधीयीत’ इत्यादिब्रह्मचारिधर्माः। `क्षौमे वसानौजायापती अग्निमादधीयाताम्’ इत्यादयोगृहस्थधर्माः। अरण्यवासादयोवनस्थधर्माः। श्रवणादयो यतिधर्माश्चेति॥ २१ ॥ २२ ॥

तापसाय महेशाय तत्वज्ञानप्रदायिने॥ २३॥
नमो मौञ्जाय शुभ्राय नमः कारुण्यमूर्तये।
नमो देवादिदेवाय नमो वेदान्तवेदिने॥ २४॥
नमः पराय रुद्राय सुपाराय नमोनमः।
विश्वमूर्ते महेशाय विश्वाधाराय ते नमः॥ २५॥
नमो भक्तभवच्छेदकारणायामलात्मने।
कालाय कालकालाय कालातीताय ते नमः॥ २६॥
जितेन्द्रियाय नित्याय जितक्रोधाय ते नमः।
नमः पाषण्डभङ्गा

य नमः पापहराय ते॥ २७॥
नमः पर्वतराजेन्द्रकन्यकापतये नमः।
योगानन्दाय योगाय योगिनां पतये नमः॥ २८॥
प्राणायामपराणां तु प्राणरक्षाय ते नमः।
मूलाधारे प्रविष्टाय मूलदीपाय ते नमः॥ २९॥

——————————————————————————————————————————————————

वर्णाश्रमधर्माणामुत्पत्तिं संग्रहेण स्वरूपं च श्रुतवानपि बृहस्पतिस्‍तत्प्रपञ्चशुश्रूषया देव॑ तुष्ठाव —नमोहराय देवायेत्यादिना॥ २३॥ नमो मौञ्जायेति। मुञ्जा अन्नं ‘ऊर्ग्वै मुञ्जा’ इति श्रुतेः। तच्च भोग्यमिति तत्संबन्धी भोगप्रद ईश्वरस्तस्मै। मुञ्जपदेन मुञ्जवान्वाहिमवतः शिखरप्रदेश उपलक्ष्यते। सोऽस्य निवास इति मोञ्जस्तस्मै। `परो मौञ्जवतोतीहीति’ श्रुतेः॥२४॥ २५॥ कालाय भाविकालवद्भूतमयं कलयति जगदेष कालोऽतस्तदात्मने। कालकालाय। तमपि कलयते तस्यापि पारिच्छेदकाय। कालातीताय स्वयंकेनचिदप्यपरिच्छिन्नाय॥२६॥२७॥ योगानन्दायेति। योगः समाधिः। ‘युजसमाधौ’इति धातुः। तत्राभिव्यज्यमानो य आनन्दस्तद्रूपाय। योगाय समाधिरूपाय। योगिनां पतय इति। योगसमाधिष्ठानां समाधिफलप्रदानेन पालकाय च नम इत्यर्थः॥ २८॥ प्राणायामेति। श्वासप्र-

नाभिकन्दे प्रविष्टाय नमोहृद्देशवर्तिने।
सच्चिदानन्दपूर्णाय नमः साक्षात्परात्मने॥ ३०॥

नमः शिवायाद्भुतविग्रहाय ते नमः शिवायाद्भुतविक्रमाय ते। नमः शिवायाखिलनायकाय ते नमः शिवायामृतहेतवे नमः॥ ३१॥

सूत उवाच—

य इदं पठते नित्यं स्तोत्रं भक्या सुसंयतः।
तस्य मुक्तिः करस्था स्याच्छंकरप्रियकारणात्‌॥ ३२॥
विद्यार्थी लभते विद्यांविवाहार्थीगृही भवेत्‌।

—————————————————————————————————————————————————————————————

श्वासयोर्गतिविच्छेदः प्राणायामस्तदभ्यासपराणाम्‌। ते हि यदा कण्ठादिस्थानेषुलकारादिभूतवर्णैःसहप्राणनियममभ्यस्यन्ति तदा ते कालं वञ्चयन्ति। उक्तं हि—`कण्ठे भ्रूमध्ये हृदि नाभौसर्वाङ्गेस्मरेत्क्रमशः \। लवरसमीरणपवर्णैरनिलसमा कालवञ्चनेयं स्यात्‌’इति। अतस्तेषांवञ्चितकालानां या प्राणरक्षा भवति साऽपि त्वत्प्रसादलभ्येत्यर्थः। मूलाधार इति। परा हि शक्तिर्मूलाधारादामस्तकमुद्गता तत्र चन्द्रमण्डलसंस्पर्शात्स्रवदमृतधारया सह स्वयमपि पुनर्मूलाधारं प्रविशति। यदाहुः —`मूलालवालकुहरादुदिता भवानिनिर्भिद्य षट्सरसिजानि तडिल्लतेव॥ भूयोऽपि तत्र विशसि ध्रुवमण्डलेन्दुनिष्यन्दमानसुखबोधसुधास्वरूपे’इति। तस्याः शक्तेःशक्तिमान्‌ शिवोऽप्यभिन्न इति हि निरूपितम्‌। अतः सोऽपि मूलाधारे प्रविष्ट इत्यर्थः। मूलदीपायेति। सोमसुर्याग्रयो हि सर्वंदीपयन्तीति दीप्तास्तेहि चित्प्रकाशेन प्रतिभातमेवार्थंदीपयितुं शक्नुवन्ति नान्यथा श्रूयते हि — “न तत्रसूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः। तमेव भान्तमनुभाति सर्वंतस्य भासा सर्वमिदं विभाति’’ इति। अतश्चित्प्रकाशोमृलदीपस्तदात्मने॥२९॥ नाभिकन्द इति तत्र तयोरपि स्थानयोरभिव्यक्तिहेतुत्वात्‌॥३०॥ अमृतहेतव इति। अमृत॑ पुण्यफलं स्वर्गादि विद्याफलंचापवर्गः

वैराग्यकामो लभते वैराग्यंभवतारकम्‌॥ ३३॥
तस्माद्दिने दिने यूयमिदं स्तोत्रं समाहिताः॥
पठन्तु भवनाशार्थमिदं हि भवनाशनम्‌॥ ३४॥

इति श्रीस्कान्दपुरणेसूतसंहितायां ज्ञानयोगखण्डे

आत्मना सृष्टिनिरूपणं नाम दितीयोऽध्यायः॥२॥

————————

तृतीयोऽध्यायः॥

३. ब्रह्मचर्याश्रमावाधिनिरूपणम्‌।

ईश्वर उवाच —

अथातः संप्रवक्ष्यामि ब्रह्मचर्याश्रमं मुने।
आम्नायैकसुसंसिद्धमादराच्छृणु सुव्रत॥ १॥
उपनीतो द्विजो वेदानधीयीत समाहितः।
दण्डं यज्ञोपवीतं च मेखलां च तथैव च॥ २॥

तदुभयहेतवे। तथात्वं च गतखण्डे तृतीयाध्याये वर्णितम्‌॥ ३१– ३३ \। पठन्त्विति पुरुषव्यत्ययः॥ ३४॥

इति श्रीस्कान्दपुराणे सूतसंहितातात्पर्यदीपिकायां ज्ञानयोगखण्डे आत्मना

सृष्टिनिरूपणं नाम द्वितीयोऽध्यायः॥ २॥

विदितबृहस्पत्यभिप्रायःशिवो वर्णाश्रमधर्मान्प्रपञ्चयति — तत्न ब्रह्मचर्यपूर्वकत्वादाश्रमान्तराणां तद्धर्मानेव प्रथममाह — अथातः संप्रवक्ष्यामीति। यतो ब्रह्मचर्यं प्रथम आश्रमोऽतो बृहस्पतेर्जिज्ञासानन्तरं तद्धर्मान्संप्रवक्ष्यामि।आम्नायैकेति। `अष्टवर्षं ब्राह्मणमुपनयीत’ इत्यादि श्रुतेः॥ १॥ उपनीतो द्विज इति। अध्यापनस्य वृध्यर्थतया प्राप्तत्वेनाविधेयत्वात्‌ `उपनीय तमध्यापयीत’ इति वाक्ये प्रयोजकव्यापारवाचिभ्यामुपनयनाध्यापनधातुभ्यां

कृष्णाजिनं च काषायं शुक्लंवा वस्त्रमुत्तमम्‌।
धारयेन्मन्त्रतो विद्वान्स्वसूत्रोक्तेन वर्त्मना॥ ३॥
भिक्षाहारो यथाकामं गुरुशुश्रूषणे रतः।
धारयेद्वैल्वपालाशौदण्डौकेशान्तिकौद्विजः॥ ४॥
आश्वत्थं वा ऋजुं सोम्यमव्रणत्वाग्विभूषितम्‌।
सायंप्रातरूपासीत संध्यां विप्रः समाहितः॥ ५॥
कामं क्रोधं तथा लोभं मोहं चैव विवर्जयेत्।
अग्निकार्यं ततः कुर्यात्सायं प्रातः स्वसूत्रतः॥ ६॥
देवानृषीन्पितृृन्‌ स्नात्वा तर्पयेद्ब्राह्मणोत्तमः।
समिद्धाग्निसमुत्थेन विरजानलजेनच॥ ७॥
अग्निहोत्रसमुत्थेन भस्मना सजलेन च।
अग्निरित्यादिभिर्मन्त्रैःषड्भिर्वासप्तभिः क्रमात्‌॥ ८॥

——————————————————————————————————————————————————

प्रयोज्यव्यापारलक्षणया ‘उपगच्छेत्सोऽधीयीत’ इति हि व्याचक्षते॥ २॥ ३॥ बैल्वपालाशौविकल्पितौ। केशान्तिकाविति। केशानामन्तिकौ। पुरुषशिरःसंमितावित्यर्थः॥ ४॥ ५॥ काममिति। मदमात्सर्ययोरप्युपलक्षणम्‌॥६॥ समिद्धाग्निसमुत्थेनेति। सामिद्धोऽग्निःशिवाग्निस्तदुत्थेन भस्मना। उक्तं शैवागमेषु —

“शुद्धं गोमयमादाय सद्योजातेन भस्मवित्‌। पञ्चगव्यात्मक॑ पिण्डं कृत्वा वामेन चाम्बुभिः॥ शिवाग्निना दहद्धोरं चालन्या चाल्येत्परम्‌ । स्मरन्नीशं नवेकुम्भे भस्म मूलेन संचयेत्‌॥ ततः किंचित्समुद्धृत्य जप्त्वा शास्त्रेण सप्तधा । क्रमशः शिरसः कार्यं तेनाङ्गौघप्रघर्षणम्‌। ततश्च यावता स्नानं तावदुद्धृत्य मन्त्रयेत्‌। कलाभिर्भस्मगायत्र्याब्रह्माङ्गैश्च शिवाणुना’’। ‘ॐ सद्योजाताय विद्महे वामदेवाय धीमहि। तन्नो घोरः प्रचोदयात्‌’ इति भस्मगायत्त्री। विरजानलजेनेति । “ज्योतिरहं विरजा विपाप्मा भूयासँस्वाहा” इत्येतैर्मन्त्रैर्हुतोऽग्निर्विरजानलस्तदुत्थेन॥ ७–९॥

विमृज्याङ्गानि सर्वाणि समुद्धूल्य ततः परम्‌।
तिर्यक्त्रिपुण्ड्रमुरसा ललाटेन करादितः॥ ९॥
ग्रीवायां च शुचिर्भूत्वा शिवं ध्यात्वा शिवां तथा।
मेधावीत्यादिभिर्मन्त्रैर्धारयेद्ब्राह्मणः सदा॥ १०॥
त्रियायुषं जमदग्नेरिति मन्त्रेण वा द्विजः।
महादेवार्चनं कुर्यात्पुष्पाद्वापत्रतोऽन्यतः॥ ११॥
मातरं पितरं वृद्धं तथा ज्येष्ठंस्वकं गुरुम्‌।
अध्यात्मज्ञानिनं नित्यं श्रद्धयैवाभिवादयेत्‌॥ १२॥
असावहं भो नामास्मिसम्यक्प्रणतिपूर्वकम्‌।
आयुष्मान्भव सौम्येति वाच्यो विप्रोऽभिवादने॥१३॥
आकारश्चास्य नाम्नोऽन्ते वाच्यः पूर्वाक्षरः प्लुतः।
व्यत्यस्तपाणिना कार्यमुपसंग्रहणं गुरोः॥ १४॥
सव्येन सव्यः स्प्रष्टव्यो दक्षिणेन तु दक्षिणः।
लौकिकं वैदिकं चापि तथाऽऽध्यात्मिकमेव च॥१५॥
आददीत यतो ज्ञानं तत्पूर्वमभिवादयेत्‌।
मातापित्रोश्च वंश्यांश्च गुरुवंश्यान्गुणादिकान्‌॥ १६॥
अनुवर्तेत मनसा वाचा कायेन सर्वदा।
गुरुं दृष्ट्वासमुतिष्ठेन्नमस्कृत्वा कृताञ्जलिः॥ १७॥
तेनैवाभिहितः पश्चात्समासीतान्यभागतः।

—————————————————————————————————————————————————————————————

मेधावीभूयासं `तेजस्वी भूयासम्‌’ इत्यादयो मन्त्राः॥१०॥ अन्यत इति।अन्यैरक्षतचन्दनादिभिः॥ ११ ॥ १२॥ अभिवादने कृते अभिवादितैश्चगुर्वादिभिः आयुष्मान्भव सौम्य देवदत्ता ३’ इत्यादिक्रमेण प्रत्याभिवादनं च कार्यमित्याह। आयुष्मान्भवेति॥ १३॥ १४॥ व्यत्या-

सत्यमेव वदेन्नित्यमधीतं च न विस्मरेत्‌॥ १८॥
नित्यं नैमित्तिकं कर्ममोक्षकामनयाथवा।
विध्युक्तमिति बुद्ध्यावा शान्तो भूत्वा समाचरेत्॥ १९॥
भिक्षामाहृत्य विप्रेभ्योऽलाभेवर्णान्तरेष्वपि।
निवेद्य गुरवेऽश्नीयाद्ब्रह्मचारी दिने दिने॥ २०॥
भवत्पूर्वं चरेद्भैक्ष्यमुपनीतो द्विजस्तथा।
भवन्मध्यं तु राजन्यो वैश्यस्तु भवदुत्तरम्‌॥ २१॥
अभिशस्तेषु सर्वेषु भिक्षां नित्यं विवर्जयेत्‌।
प्राङ्मुखोऽन्नानि भुञ्जीत सूर्याभिमुख एव वा॥ २२॥
प्रक्षाल्य चरणौहस्तौ द्विराचम्यान्नभुग्भवेत्‌॥
प्राणयेत्यादिभिर्मन्त्रैर्हुत्वा प्राणाहुतीर्द्विजः॥ २३॥
वेदाभ्यासैकनिष्ठः स्यान्नान्यमन्त्ररतो भवेत्‌।
एवमभ्यसतस्तस्य वैराग्यं जायते यदि॥ २४।
प्रव्रजेत्परमे हंसे मोक्षकामनया द्विजः।
नैष्ठिको वा गृही वाऽपि भवेत्कामी यथारुचि॥ २५॥

इति श्रीस्कान्दपुराणे सूतसंहितायां ज्ञानयोगखण्डेब्रह्मचर्याश्रमविधिर्नाम तृतीयोऽध्यायः॥२॥

——————————————————————————————————————————————————

समेव दर्शयति। सव्येनेति॥ १५–१९॥विप्रेभ्य इति\। तदलाभे वर्णान्तरेषु॥ २०॥ भवत्पूर्वमित्यादि। भवति भिक्षां देहीति ब्राह्मणः॥ भिक्षां भवति देहीति क्षत्रियः। भिक्षां देहि भवतीति वैश्यइत्यर्थः॥ २१॥ २२॥प्राणायेति।प्राणाय स्वाहाऽपानायस्वाहेत्यादयो मन्त्राः ॥ ९३-२५॥

इति श्रीस्कन्दपुराणे सूतसंहितातात्पर्यदीपिकायां ज्ञानयोगखण्डे ब्रह्मचर्याश्रमविधिकथनं नाम तृतीयोऽध्यायः॥ ३॥

चतुर्थोऽध्यायः ॥

४. गृहस्थाश्रमविधिनिरूपणम्‌॥

ईश्वर उवाच —

अथातः संप्रवक्ष्यामि गार्हस्थ्य॑ संग्रहेण ते॥
अधीत्यवेदान्विविधान्पूर्वोक्तेनैव वर्त्मना॥ १॥
आचार्यानुज्ञाया युक्तः स्नात्वागार्हस्थ्यमाविशेत्‌॥
अनुकूले कुले गोत्रप्रवरादिविवर्जिते॥ २॥
सूत्रोक्तेनैव मार्गेण वरयेत्कुलजां स्त्रियम्‌।
सर्वलक्षणसंपन्नां साध्वीमन्यां विवर्जयेत्॥ ३॥
ऋक्षसंज्ञां नदीसज्ञां वृक्षसंज्ञां च वर्जयेत्।
तया धर्मंचरेन्नित्यं सहितः संयतेन्द्रियः॥ ४॥
ऋतुकालेऽङ्गनासेवां कुर्यात्प्राज्ञः समन्त्रकम्‌।
देवाग्न्यतिथिभैक्ष्यार्थं पचेन्नैवाऽऽत्मकारणात्‌॥ ५॥
आत्मार्थं यः पचेन्मोहान्नरकार्थं स जीवति।
धर्मार्थं जीवनं येषां संतानार्थं च मैथुनम्॥ ६॥
ते मुच्यन्ते हि संसारान्नान्ये नारकिणः सदा।

——————————————————————————————————————————————————

ब्रह्मचर्यधर्मान्संग्रहणॊक्त्वागृहस्थधर्मान्वक्तु प्रतिजानीते — अथात इति। यतश्चरितब्रह्मचर्यस्यैव विवाहः। तथाऽऽहुः — वेदानधीत्य वेदौ वा वेदं वाऽपि यथाक्रमम्‌॥ अविष्लुतब्रह्मचर्योलक्षण्यां स्त्रियमुद्वहेत्‌’ इति॥अतस्तदनन्तरं गृहस्थधर्माउच्यन्ते॥१॥ स्नात्वासमावर्तनं कृत्वा। प्रवरादिविवर्जित इति। ‘असमानार्षगोत्रजाम्‌’इति स्मृतेः॥ २॥ ४॥ समन्त्रकमिति। ‘अमोहमस्मि सा त्वम्‌’इत्यादयो मन्त्राः॥ ५॥ आत्मार्थमिति। ‘नार्यमणं पुष्यति नो सखायं केवलाघो भवति केवलादी’ इति श्रुतेः। `न पचेदन्नमात्मनः’इति स्मृतेः॥ ६॥ ७॥ यात्रार्थं शरीर-

याजनाध्यापानाभ्यां च विशुद्धेभ्यः प्रतिग्रहात्॥ ७॥
यात्रार्थमर्जयेदर्थं यागार्थं वा द्विजोत्तमः।
निर्जने निर्भेये देशे विण्मूत्रादि विसर्जयेत्‌॥ ८॥
प्रक्षाल्येद्गुदं शिश्नंपादद्वंद्वंकरद्वयम्।
मृज्जलाभ्यां यथाशक्ति गन्धलेपनिवृत्तये॥ ९॥
यावन्मात्रं मनःशुद्धिस्तावच्छौचं विधीयते।
पश्चादाचमनं कुर्याद्दन्तकाष्ठंच भक्षयेत्‌॥ १०॥
द्विराचम्य पुनः स्नात्वाकृत्यशेषं समाचरेत्‌।
प्राणायामत्रयं कुर्यात्सावित्रीं च जपेद्बुधः॥ ११॥
उपस्थानं ततः कुर्यान्मध्याह्नेऽप्येवमाचरेत्‌।
ब्रह्मयज्ञं द्विजः कुर्याद्वेदपारायणे रतः॥ १२॥
अन्यानि यानि कर्माणि तानि नित्यं समाचरेत्‌।
अग्निकार्यं तथा कुर्याद्बलिकर्मादिकं तथा॥ १३॥
नित्यश्राद्धंतथा दानमशक्तानां च रक्षणम्‌।
दयांसर्वेषु भूतेषु कुर्याद्गार्हस्थ्यमाश्रितः॥ १४॥
यतिसंरक्षणंकुर्यादन्नपानादिभिः सदा।
यतिश्च ब्रह्मचारी च पक्वान्नस्वामिनावुभौ॥ १५॥

——————————————————————————————————————————————————

यात्रार्थम्॥ ८–१२॥ दया सर्वेषुभूतेष्विति। यतो गृहस्थाश्रमःसर्वेषामुपजीव्यः। श्रयते हि गृहस्थाश्रममुद्दिश्य - “अयमात्मा सर्वेषां भूतानां लोकः। स यज्जुहोति यद्यजते तेन देवानां लोकः। अथ यदनुब्रूते तेन ऋषीणाम्‌। अथ यत्प्रितृभ्योनिपृणाति यत्प्रजामिच्छते तेनपितृृणाम्‌। अथ यन्मनुष्यान्वासयते यदेभ्योऽशनं ददाति तेन मनुष्याणाम्‌। यदस्य गृहेषु श्वापदा वयांस्यापिपीलिकाभ्य उपजीवन्ति तेन तेषां लोकः”इति॥ १४

तयोरन्नमदत्त्वा तु भुक्त्वा चान्द्रायणं चरेत्‌।
यतिहस्ते जलंदद्याद्भैक्षं दद्यात्पुनर्जलम्‌॥ १६॥
तद्भैक्षंमेरुणा तुल्यंतज्जलं सागरोपमम्‌।
एकवारं गृही नित्यमश्नीयादुत्तमं हि तत्॥ १७॥
द्विवारं वाऽक्षमोऽश्नीयाद्द्वात्रिंशद्ग्रासमन्वहम्‌।
कुक्कुटाण्डप्रमाणेन न हृष्टो न विषादवान्‌॥ १८॥
होमे जपे च भुक्तौच गुरवृद्धाद्युपासने।
तथैवाऽऽचमनेयज्ञोपवीती स्यान्न चान्यथा॥ १९॥
वैणवीं धारयेद्यष्टिं सोदकं च कमण्डलुम्‌।
उद्धूलनं सकृत्कुर्यात्सर्वदैवोक्तवर्त्मना॥ २०॥
त्रैयम्बकेण मन्त्रेण सतारेण शिवेन च।
त्रिपुण्ड्रंधारयेन्नित्यं गृहस्थाश्रममाश्रितः॥ २१॥
तेनाधीतं श्रुतं तेन तेन सर्वमनुष्ठितम्‌।
येन विप्रेण शिरसि त्रिपुण्ड्रं भस्मना धृतम्‌॥ २२॥
त्रिपुण्ड्‌रं धारयेद्धक्त्या मनसाऽपि न लङ्घयेत्‌
श्रुत्याविधीयते यस्मात्तत्त्यागी एतितो भवेत्‌॥ २३॥
रुद्राक्ष धारयेन्नित्यं रुद्राक्षाणामिति श्रुतिः।
लिङ्गेसमर्चयेन्नित्यं देवदेवं महेश्वरम्‌॥ २४॥
अम्नीनाधाय विधिवत्कुर्याद्यज्ञाननन्तरम्।
यज्ञैः सर्वाणि पापानि विनश्यन्ति न संशयः॥

———————————————————————————————————————————————————

— १८॥ न चान्यथेति। उपवीतरहितो न स्यादित्यर्थः॥१९॥ २०॥ त्रेयम्बकेणेति। सतारेण शिवेन सप्रणवेन पञ्चाक्षरेण॥२१-२३॥ रुद्राक्षाणामिति श्रुतिरिति। स्मृत्यनुमितश्रुतिरित्यर्थः॥ २४–२६॥

प्रक्षीणाशेषपापस्य शुद्धान्तः करणस्य तु।
देवदेवपरिज्ञाने वाञ्छा जायेत सुव्रत॥ २६॥
स्वर्गकामो यदि स्वर्गं याति यज्ञाद्द्विजोत्तमः॥
पुत्रमुत्पादयेत्स्वस्यां पितृृणामृणशान्तये॥ २७॥
सत्यं ब्रूयात्प्रियं ब्रूयात्सर्वभूतेषु सर्वदा।
एवं समाचरन्विप्रो विरक्तश्चेद्गृहाश्रमात्‌॥ २८॥
संन्यसेत्सर्वकर्माणि वेदान्ताभ्यासयत्नवान्‌।
वेदान्तश्रवणाभावे पतितोऽयं भवेद्ध्रुवम्‌॥ २९॥
विरक्तोऽपि मुमुक्षुश्चेद्धंसे वरा संन्यसेद्गृही।
बहूदकेवा शक्तश्चेन्न्यसेद्विप्रःकुटीचके॥ ३०॥
अविरक्तोगृही चान्ते वानप्रस्थं समाश्रयेत्‌।
अथवा यावदायुष्यं गार्हस्थ्यं सम्यगाचरेत्‌॥ ३१॥
गृहस्थादाश्रमाः सर्वे समुत्पन्नाः सुरक्षिताः।

——————————————————————————————————————————————————

निष्कामस्य जिज्ञासाजनका यज्ञादय इत्युक्तम्‌। सकामस्य स्वर्गादिकंजनयन्तीत्याह —

स्वर्गकाम इति। यदि स्वर्गकामस्तर्हियज्ञार्स्वर्गं यातीति `स्वर्गकामो यजेत’यज्ञेन विविदिषन्ति इति श्रुतिद्वयादियं व्यवस्था। २७॥ गृहाश्रमात्संन्यसेदिति च। “व्रह्मचर्यंसमाप्य गृही भवेत्‌। गृहाद्वनी भूत्वा प्रव्रजेत्‌। यदि वेतरथा ब्रह्मचर्यादेव प्रव्रजेद्गृहाद्वा वनाद्वा” इति॥ २८॥ २९। विरक्तोऽपीति। मुमुक्षुश्चेत्परमहंसो भवेत्‌। अमुमुक्षुरपि शक्तश्चेद्धंसो बहूदको वा भवेत्‌। अशक्तश्चेत्कुटीचको भवेदित्यर्थः॥ ३०॥ अविरक्तो गृहीति। अतो गार्हस्थ्याद्वानप्रस्थाश्रममाश्रयेदित्यर्थः। यावदायुष्यं वा सम्यग्गार्हस्थ्यमाचरेत्‌॥ ३१॥ गार्हस्थयस्य प्राशस्त्येहेतुः। गृहस्थादाश्रमा इति। यत आश्रमान्तराणां सर्वेषां स्वरूपलाभःस्वधर्मपरिपालन॑ च गृहस्थाश्रमनिबन्धनम्‌। अतः प्रशस्त इत्यर्थः॥ ३२॥

तस्माद्गृहस्थ एव स्यादविरक्तो द्विजः सदा॥ ३२॥

इति श्रीसूतसंहितायां ज्ञानयोगखण्डे गृहस्थाश्रमवि

धिर्नाम चतुर्थोऽध्यायः॥ ४॥

——————

पञ्चमोऽध्यायः॥

५. वानपस्थाश्रमविधिनिरूपणम्‌॥

ईश्वर उवाच —

अथातः संप्रवक्ष्यामि वानप्रस्थाश्रमं मुने।
पुत्रे भार्यां विनिक्षिप्य ग्रहीत्वा समाहितः॥ १॥
शुक्लपक्षे शुभे वारे शुभनक्षत्रसंयुते।
सुमूहूर्ते वनं गच्छेद्गृहस्थश्चोत्तरायणे॥ २॥
यमादिसहितः शुद्धस्तपः कुर्यात्समाहितः।
शाकमूलफलाशी स्यात्तेनेशं पूजयेहद्बुधः॥ ३॥

————————————————————————————————————————————————

इति श्रीसूतसंहितातात्पर्यदीपिकायां ज्ञानयोगखण्डे गृहस्थाश्रम

विधिनिरूपणं नाम चतुर्थोऽध्यायः॥ ४॥

—————

ब्रह्मचर्यादुत्तमं गार्हस्थ्यमभिधाय ततोऽप्युत्तमे वानप्रस्थाश्रमं च वक्तुं प्रतिजानीते —अथात इति। यतो गृहस्थादुत्तमो वनस्थः। यदाऽऽहुः — `ब्रह्मचरी गृहस्थश्च वानप्रस्थोऽथ भिक्षुकः। चत्वार आश्रमाः प्रोक्ता यो यः पश्चात्स उत्तमः’ इति। अतोगृहस्थधर्माभिवाननन्तरं वानप्रस्थधर्माभिधानमित्यर्थः॥ १॥ २॥ तेनेशमिति। तपःप्रभृतिकं हि वनस्थस्य स्वधर्मः। स्वधर्मानुष्ठानमेवेश्वरस्य पूजा। ‘स्वकर्मणा तमभ्यर्च्यसिद्धिं विन्दति मानवः’

ग्रामादाहृत्य वाऽश्नीयाद्ग्रासान्षोडशबुद्धिमान्‌।
जटाश्च बिभृयान्नित्यं नखलोमानि नोत्सृजेत्‌॥ ४॥
वेदाभ्यासं सदा कृर्याद्वाग्यतः सुसमाहितः।
अग्निहोत्र॑ च जुहयात्पञ्चयज्ञान्समाचरेत्‌॥ ५॥
चीरवासा भवेत्कुर्यात्स्नानं त्रिषवणं बुधः।
सर्वभूतानुकम्पी स्यात्प्रतिग्रहविवर्जितः॥ ६॥
वर्जयेन्मधुमांसादि भौमानि वनजानि च।
एकवारं समश्नीयाद्रात्रौध्यानपरो भवेत्‌॥ ७॥
जितेन्द्रियो जितक्रोधो भवेदध्यात्मचिन्तकः।
भूमौ शयीत सततंसावित्रीं च जपेद्बुधः॥ ८॥
क्रोधपैशुन्यनिद्रादि दूरतः परिवर्जयेत्‌।
कृच्छ्रं चान्द्रायणं कुर्यान्मासि मासिवने स्थितः॥९॥

——————————————————————————————————————————————————

इत्युक्तम्‌॥ ३॥ षोडशोति। यत आहुः—``अष्टौ ग्रासा मुनेःप्रोक्ताः शोडशारण्यवासिनः। द्वात्रिंशत्तु गृहस्थानां यथेष्टं ब्रह्मचारिणाम्‌” इति॥ ४॥ पञ्च यज्ञानिति। श्रूयते हि — `पञ्च वा एते महायज्ञाः। देवयज्ञःपितृयज्ञो भूतयज्ञो मनुष्ययज्ञो ब्रह्मयज्ञ इति। यदग्नौजुहोत्यपि समिधं तद्देवयज्ञः संतिष्ठते। यपिितृभ्यःस्वधा करोत्यप्यपस्तत्पितृयज्ञः संतिष्ठते। यद्भूतेभ्यो बलिंहरति तद्भूतयज्ञः संतिष्ठते। यद्ब्राह्मणोभ्योऽन्नं ददाति तन्मनुष्पज्ञःसंतिष्ठते। यत्स्वाध्यायमधीयीतैकामप्यृचं यजुः साम वा तद्ब्रह्मयज्ञः संतिष्ठते, इति॥ ५॥ ६॥ भौमानीति। शशादीनि। वनजानीति। वनं जलम्‌। जलजानिकच्छपादीनि — ``पञ्च पञ्चनखा भक्ष्या गोधाकच्छपशल्लकाः। शशश्च नकुलश्च’’ इति गृहस्थस्याम्यनुज्ञा॥ न्यपि। तथा मधु माक्षिकं च वनस्थेन वर्जनीयमित्यर्थः॥ ७॥ ८॥ कृच्छ्रंचान्द्रायणमिति।कृच्छ्रलक्षणानि मनुनोक्तनि — “त्र्यहं प्रातस्त्र्यहं सायं त्र्यहमद्यादयाचितम्‌। त्र्यंहं

ग्रीष्मेपञ्चतपाश्च स्थाद्वर्षास्वभ्रावकाशगः।
आर्द्रवासास्तु हेमन्ते क्रमशो वर्धयंस्तपः॥ १०॥
उपस्पृश्य त्रिषवणं वितृदेवांश्चतर्पयेत्।
एकपादेन तिष्ठेत वायुभक्षोऽब्दमध्यमे॥ ११॥

———————————————————————————————————————————————————

परं तु नाश्नीयात्प्राजापत्यं चरन्द्विजः” इति। एकभक्तादिषु ग्राससंख्याऽऽपस्तम्बेन—‘साय॑ द्वाविंशतिर्ग्रासाःप्रातः षड्विंशतिः स्मृताः। चतुर्विंशतिरायाच्याः परं निरशनंस्मृतम्‌’इति। तत्प्रमाणमपि तेनैवोक्तम्‌ — कुक्कुटाण्डप्रमाणेन यथाचाऽऽस्यं विशेत्सुखम्‌ इति। चान्द्रायणं पञ्चविधम्‌। पिपीलिकामध्यं यवमव्यमृषिचान्द्रायणं शिशुचान्द्रायणंयतिचान्द्रायणं चेति। पिपीलिकामध्यमाह वासिष्ठः—`मासस्य कृष्णपक्षादौ ग्रासानद्याच्चतुर्दश। ग्रासापचयभोजी सन्पक्षशेषं समापयेत्‌। तथैवशुक्लपक्षादौग्रासं भुञ्जीत चापरम्‌। ग्रासोपचयभोजी सन्पक्षशेेषं समापयेत्‌’इति। यदाऽऽह यमः — `एकैकं हासयेत्पिण्डंकृष्णे शुक्लेच वर्धयेत्‌। एतत्पिपीलिकामध्यं चान्द्रायणमुदाहृतम्‌। वर्धयेत्पिण्डमेकैकं शुक्लेकृष्णे च हासयेत्‌। एतच्चान्द्रायणं नाम यवमध्य प्रकीर्तितम्‌ त्रींस्त्रीन्पिण्डान्समश्नीयान्नियतात्मा दृढव्रतः। हविष्यान्नस्य वै मासमृषिचान्द्रायणंस्मृतम्‌। चतुरः प्रातरश्नीयाच्चतुरः सायमेव वा। पिण्डानेतद्धि बालानां शिशुचान्द्रायणं स्मृतम्‌। पिण्डानष्टौसमश्नीयान्मासं मध्यंदिने रवौ। यतिचान्द्रायणं ह्येतत्सर्वकल्मषनाशनम्‌’ इति॥ ९॥ पञ्चतपा इति। पञ्च तपांसि तापकानि दिक्चतुष्टयेऽग्रयउपर्यादित्यश्चेति यस्य स पञ्चतपाः। अभ्रावकाशग इति। अभ्रदर्शनवानवकाशोऽभ्रावकाशो गृहबाह्यश्चत्वरादिकस्तत्र गत इत्यर्थः॥ १०॥ उपस्पृश्यस्नात्वा। उपपूर्वःस्पृशिस्नानेप्रयुज्यते ‘त्रिषवणमुदकोपस्पर्शी’ चतुर्थकालपानभक्तः स्यादित्यादौ। वायुभक्षः पवनाहारः। तदशक्तौ पय प्रभृति शक्त्यनुसारेण कुर्यादित्यर्थः॥ स्‍मर्यते हि — ‘मूलंफलंपय आपो वायुराकाश इति। उत्तरमुत्तरं ज्यायः, इति, अब्दमध्यमे एकस्याब्दस्य संवत्सरस्यमध्ये सदा वायुमेव भक्षयन्नित्यर्थः। ११- १३॥ अधुना चतुर्थाश्रममाह। अथवाऽग्नीनित्यादि।

पयः पिबेच्छुक्लपक्षे कृष्णपक्षे च गोमयम्‌।
जीर्णपर्णाशनो वा स्यात्कृच्छ्रैर्वावर्तयेत्सदा॥ १२॥
योगाभ्यासपरो भूत्वा ध्यायेत्पशुपतिं शिवम्‌।
कृष्णाजिनी सोत्तरीयः शुक्लयज्ञोपवीतवान्‌॥ १३॥
अथवाऽग्नीन्‌ समारोप्य स्वात्मनि ध्यानतत्परः।
अनग्निरनिकेतः स्यान्मुनिर्मोक्षपरो भवेत्‌॥ १४॥
सदोपनिषद्भ्यासे यत्नवान्स्यात्समाहितः।
त्रिपुण्ड्रोद्धूलनं कुर्यात्‌ गृहस्थस्योक्तमन्त्रतः॥ १५॥
यदा वैराग्यमुत्पन्नं तदैव प्रव्रजेद्वनी।
बहूदके वा हंसे वा मुमुक्षुः परहंसके॥ १६॥
सर्वंसंग्रहरूपेण सम्यगुक्तं बृहस्पते।
तस्मात्सर्वप्रयत्नेन श्रद्धया विद्धिसुब्रत॥ १७॥

इति श्रीस्कान्दपुराणे सूतसंहितायां ज्ञानयोगखण्डे वानप्रस्थाश्रमविधिनिरूपणं नाम पञ्चमोऽध्यायः॥ ५॥

——————————————————————————————————————————————————

स्मर्यते हि — ‘आत्मन्यग्नीन्समारोप्य ब्राह्मणः प्रव्रजेद्गृहात् इति । “अनग्निरनिकेतः स्यादशर्माऽशरणो मुनिः” इत्यापस्तम्बोऽप्याह॥ १५४॥ गृहस्थस्येति। गृहस्थस्य य उक्तस्त्र्यम्बकमन्त्रःसप्रणवः पञ्चाक्षरश्च तेनेत्यर्थः॥ १५॥ यदेति। एषा च प्रव्रज्या सत्येव वैराग्ये कार्या। बहूदके वेति वचनात्प्राक्तनी कुटीचकविषया। कुटीचकबहूदकादिचातुर्विध्य॑ च वक्ष्यमाणतत्तद्धर्मानुष्ठानसामर्थ्यानुसारेण व्यवस्थया विकल्प्यते॥ १६॥ संग्रहरूपेणेति। संन्यासभेदानामुद्देशमात्रमत्र वनस्थेनानुष्ठेयतया वनस्थधर्माध्याये कथितम्‌। संन्यासधर्मप्रपञ्चस्त्वनन्तराध्याये वक्ष्यते॥ १७॥

इतिश्रीसूतसंहितातात्पर्यदीपिकायां ज्ञानयोगखण्डे

वानप्रस्थाश्रमविधिनिरूपणं नाम पञ्चमोऽध्यायः॥ ५॥

षष्ठोऽध्यायः॥

६. संन्यासविधिनिरूपणम्।

ईश्वर उवाच —

अथातः संप्रवक्ष्यामि संन्यासं मुनिसत्तम।
चतुर्विधास्तु विज्ञेया भिक्षवो वृत्तिभेदतः॥ १॥
कुटीचको मुनिश्रेष्ठ तथैव च बहूदकः॥

—————————————————————————————————————————————————

** **वनस्थप्रसङ्गेनोद्दिष्टमेव कुटीचकादिचतुष्टय॑ तद्धर्माभिधानाय पुनरनुवदति। अथात इति। अत उक्तमाश्रमत्रयं धर्मस्कन्धः सांसारिकफलविषय एव। श्रूयते हि — ‘त्रयो धर्मस्कन्धायज्ञोऽध्ययनं दानमिति। प्रथमस्तप एव। द्वितीयो ब्रह्मचार्याचार्यकुलवासी। तृतीयोऽत्यन्तमात्मानमाचार्यकुलेऽवसादयन्सर्वएते पुण्यलोका भवन्तीति’। अतस्ततो विरक्तस्यानन्तरमपुनरावृत्तिरूपब्रह्मप्राप्तये ज्ञानस्कन्धः संन्यास उच्यते। श्रूयते हि — “ब्रह्मसंस्थोऽमृतत्वमेति”इति। ब्रह्मणि संस्था सम्यङनिष्ठा यस्य चतुर्थाश्रमिणः स ब्रह्मसंस्थः स एवामृतत्वमपवर्गं प्राप्नोति। आश्रमान्तराणामपि ब्रह्मसंस्थात्वसंभवंप्रापय्य परिहृतंहि तत्त्वविद्भिः — ‘‘लोककाम्याश्रमी ब्रह्मनिष्ठामर्हति वा न वा। यथावकाशं ब्रह्मैव ज्ञातुमर्हत्यवारणात्‌॥ अनन्यचित्तता ब्रह्मनिष्ठाऽसौ कर्मिणे कथम्‌। कर्मत्यागी ततो ब्रह्मनिष्ठामर्हति नेतरः” इति। विवृत॑ चैतत्तैरेव त्रयो धर्मस्कन्धा इत्यत्नाऽऽश्रमानधिकृत्य “सर्वएते पुण्यलोका भवन्ति” इति। आश्रमानुष्ठायिनां पुण्यलोकमभिधाय “ब्रह्मसंस्थोऽमृतत्वमेति” इति मोक्षसाधनत्वेन ब्रह्मनिष्ठा प्रतिपाद्यते। सेयं ब्रह्मनिष्ठा पुण्यलोककामिन आश्रमिणोऽपि संभाव्यते। आश्रमकर्माण्यनुष्ठाय यथावकाशं ब्रह्मनिष्ठायाःकर्तुं सुकरत्वात्‌। न हि लोककामी ब्रह्म न जानीयादिति निषेधोऽस्ति। तस्मादस्ति सर्वस्याऽऽश्रामिणो ब्रह्मनिष्ठतेति प्राप्ते ब्रूमः — ब्रह्मनिष्ठा नाम सर्वव्यापारपरित्यागेनानन्यचित्ततया ब्रह्मणि समाप्तिः। न चासौ कर्मशूरे संभवति। कर्मानुष्ठानत्यागयोः परस्परविरोधात्‌। तस्मात्कर्मत्यागिन एव ब्रह्मनिष्ठेति। वृत्तिभेदत इति। आचारभेदतः॥ १॥ २॥ तत्र कुटीचकस्य वृत्तिमाह—

हंसः परमहंसश्च तेषां वृत्तिं वदामि ते॥ २॥
कुटीचकश्च संन्यस्य स्वे स्वे वेश्मनि नित्यशः।
भिक्षामादाय भुञ्जीत स्वबन्धूनां ग्रहेऽथवा॥ ३॥
शिखी यज्ञोपवीती स्यात्त्रिदण्डी सकमण्डलुः।
सपवित्रश्च काषायी गायत्रीं च जपेत्सदा॥ 8॥
सर्वाङ्गोद्धूलनं कुर्यात्त्रिपुण्ड्रं च त्रिसंधिषु।
शिवलिङ्गार्चनं कुर्याच्छ्रद्धयैव दिने दिने॥ ५॥
बहूदकश्च संन्यस्य बन्धुपुत्रादिवर्जितः।
सप्तागारं चरेद्भैक्षमेकान्नं परिवर्जयेत्‌॥ ६॥
गोवालरज्जुसंबद्धं त्रिदण्डं शिक्यमद्भुतम्‌।
पात्रं जलपवित्रं च कौपीनं च कमण्डलुम्॥ ७॥
आच्छादनं तथा कन्थांपादुकां छत्रमद्भूतम्‌।
पवित्रमजिनं सूचीं पक्षिणीमक्षसूत्रकम्‌॥ ८॥
योगपट्ट॑ बहिर्वस्त्रंमृत्खनित्रीं कृपाणिकाम्‌।
सर्वाङ्गोद्धूलनं तद्वत्त्रिपुण्ड्‌रं चैव धारयेत्‌॥ ९॥
शिखी यज्ञोपवीती च देवताराधने रतः।
स्वाध्यायी सर्वदा वाचमुत्सृजेद्ध्यानतत्परः॥ १०॥
संध्याकालेषु सावित्रीं जपन्कर्मसमाचरेत्‌।
हंसः कमण्डलुं शिक्यं भिक्षापात्रं तथैव च॥ ११॥

——————————————————————————————————————————————————

कुटीचकश्चेति॥३–५॥ बहूदकस्प वृत्तिमाह — बहूदकश्चेति॥ ६॥ जलपवित्रं जलशोधनवस्त्रम्‌॥ ७॥ ८॥ मृत्खनित्रीमीति। मृत्खन्यते यया स्नानाद्यर्थंतां कृपाणिकां कृपाणाकारतीक्ष्णलोहघटितां यष्टिम्‌॥ ९॥ स्वाध्यायीति। स्वाध्याय एवोत्सृजमानो वाचमित्यापस्तम्बः। १०॥ हंसस्य

कन्थां कौपीनमाच्छाद्यमङ्गवस्त्रंबहिःपटम्‌।
एकं तु वैणवं दण्डं धारयेन्नित्यमादरात्‌॥ १२॥
त्रिपुण्ड्रोद्धूलनं कुर्याच्छिवलिङ्गंसमर्चयेत्‌।
अष्टग्रासं सकृन्नित्यमश्नीयात्सशिखं वपेत्‌॥ १३॥
संध्याकालेषु सावित्रीजपमध्यात्मचिन्तनम्‌।
तीर्थसेवां तथा कृच्छ्रं तथा चान्द्रायणादिकम्‌॥ १४॥
कुर्वन्ग्रामैकरात्रेण न्यायेनैव समाचरेत्‌।
परहंसस्त्रिदण्डं च रज्जुंगोवालनिर्मिताम्‌॥ १५॥
शिक्यं जलपवित्रं च पवित्रं च कमण्डलुम्‌।
पक्षिणीमजिनं सूचीं मृत्खनित्रीं कृपाणिकाम्‌॥ १६॥
शिखां यज्ञोपवीतं च नित्यकर्म परित्यजेत्‌।
कौपीनाच्छादनं वस्त्रंकन्थां शीतनिवारिकाम्‌॥ १७।
योगपट्टं बहिर्वस्त्रंपादुकां छत्रमद्भुतम्‌।
अक्षमालांच गह्णीयाद्वैणवं दण्डमव्रणम्‌॥ १८॥
अग्निरित्यादिभिर्मन्त्रैःकुर्यादुद्धूलनं मुदा।
ओमोमिति च त्रिः प्रोच्य परहंसस्त्रिपुण्ड्रकम्‌॥ १९॥
मृत्पात्रंकांस्यपात्रं वा दारुपात्रं च वैणवम्‌।

——————————————————————————————————————————————————

वृत्तिमाह — हंसः कमण्डलुमिति॥ ११–१४॥ परमहंसस्याऽऽह — परहंसस्त्रिदण्डमिति॥ १५–१८॥ ओमोमिति। अजपासहितेन प्रणवेन त्रिरुक्तेन त्रिपुण्ड्रं कुर्यात्‌॥१९॥ हेयोपादेयविभागविवक्षया प्रथमंसाधारण्येन संभवत्पात्रजातमुद्दिशति — मृत्पात्रमिति। एतच्चालाबुपात्रस्याप्युपलक्षणम्। ‘मृत्पात्रमालाबुपात्रं दारुपात्रं वा’इत्यारुणिश्रुतेः। उद्दिष्टमध्य उपादेयमाह — दारुपात्रमिति। एतच्च कांस्यव्यतिरिक्तस्योक्तस्योपलक्षणम्‌। उपादेयमन्यदपि समुच्चि-

पाणिणत्रं च गृह्णीयादाचम्यैव तथोदरम्‌॥ २०॥
बहूदकानां हंसानां पाणिपात्रं तथोदरम्‌।
कांस्यपात्रं न विध्युक्तं मृत्पात्रामिति हि श्रुतिः॥ २१॥
माधूकरन्तथैवान्नं परहंसः समाचरेत्‌।
नात्यश्नतस्तु योगोऽस्ति न चैकान्तमनश्नतः॥ २२॥
तस्माद्योगानुगुण्येन भुञ्जीत परहंसकः।
अभिशस्तं समुत्सृज्यसार्ववर्णिकमाचरेत्‌॥ २३॥
उत्तरोत्तरलाभे तु पूर्वं पूर्वं परित्यजेत्‌।
गुरुशुश्रूषया नित्यमात्मज्ञानं समभ्यसेत्‌॥ २४॥
स्नानंशौचमभिध्यानं सत्यानृतविवर्जनम्।
कामक्रोधपरित्यागं हर्षरोषविवर्जनम्‌॥ २१५॥
लोभमोहपरित्यागं दम्भदर्पादिवर्जनम्‌।
चातुर्मास्यं च सर्वेषां वदन्ति ब्रह्मवादिनः॥ २६॥

—————————————————————————————————————————————————

नोति — तथोदरमिति॥ २०॥ एतच्च न केवलंपरमहंसानामेवेत्याह — बहूदकानामिति। पात्रान्तरमपि समुच्चिनोति —पाणिपात्रमिति। यथोदरं तथा पाणिपात्रं चेत्यर्थः। तथाचाऽऽरुणिश्रुतिः — ‘पाणिपात्रमुदरपात्रं च’ इति। उपादेयमभिधाय हेयमाह — कांस्यपात्रंनेति। मृत्पात्रमिति हि श्रुतिरिति। यथोदीरितारुणिश्रुतिः॥ २१-२४॥ सत्यानृतविवर्जनमिति। असत्यवत्सत्यमापि व्यवहारं शक्यंविवर्जयेत्‌। चित्तैकाग्र्यविरोधादित्यर्थः। श्रूयते हि — ‘तमेवैकं जानथ आत्मानमन्या वाचो विमुञ्चथ” इति। स्मर्यते च — “त्यजधर्ममधर्मं च उभे सत्यानृते त्यज। उभे सत्यानृते त्यक्त्वायेन त्यजसितत्त्यज”। इति॥ २५॥ चातुर्मास्यमिति। वर्षास्वेकत्रवासं चत्वारो मासाश्चातुर्मास्यम्‌। तद्धितार्थे द्विगुः। चतुर्वर्णादिभ्यः स्वार्थे’ इतिष्यञ्‌॥ २६॥ सर्वेषां चतुर्विधानां यतीनां परमहंसव्यतिरिक्तस्य

कुटीचकाश्चहंसाश्चतथैव च बहूदकाः।
सावित्रीमात्रसंपन्नाः भवेयुर्मोक्षकारणात्‌॥ २७॥
प्रणवाद्यास्त्रयो वेदाः प्रणवे पर्यवस्थिताः।
तस्मात्प्रणवमेवैकं परहंसः सदा जपेत्‌॥ २८॥
संध्याकालेषु शुद्धात्मा प्रणवेन समाहितः।
षट्प्राणायामकं कुर्याज्जपेदष्टोत्तरं शतम्‌॥ २९॥
विविक्तदेशमाश्रित्य सुखासीनः समाहितः।
यथाशक्ति समाधिस्थो भवेत्संन्यासिनां वरः॥ ३०॥
क्रमाद्वाऽक्रमतो विद्वानुत्तमां वृत्तिमाश्रयेत्‌।
उत्तमां वृत्तिमापन्नो न नीचां वृत्तिमाश्रयेत्‌॥ ३१॥
उत्तमां वृत्तिमाश्रित्य नीचां वृत्तिं समाश्रितः।
आरूढपतितो ज्ञेयः सर्वधर्मबहिष्कृतः॥ ३२॥

—————————————————————————————————————————————————————————————

प्रधानं जप्यमाह — कुटीचका इति। मोक्षं प्रयोजनमुद्दिश्यसावित्र्यैव तत्त्वमनुसंदध्युरित्यर्थः॥२७॥परमहंसस्य प्रणवैकनिष्ठतां विवक्षुःप्रणवस्योत्कृष्टतामाह — प्रणवाद्या इति। ‘ओमिति ब्राह्मणः प्रवक्ष्यन्नाह ब्रह्मोपाप्नवानीति ब्रह्मैवोपाप्नोति इति श्रुतेः। प्रणवे पर्यवस्थिता इति। प्रणवस्य वेदत्रयसारत्वात्तत्प्रतिनिधित्वम्‌। तथात्वं च श्रूयते छन्दोगोपनिषदि बह्वृचब्राह्मणे च। लोकदेववेदव्याहृत्यक्षरत्रयसारत्वं प्रणवस्य। तैत्तिरीयोपनिषदि च ब्रह्मयज्ञप्रकरणे “ओमिति प्रपद्यत एतद्वै यजुस्त्रयीविद्यांप्रति” इति॥ २८॥ षडिति। षण्णां प्राणायामानां समाहारः षट्प्राणायामम्‌ पात्रादिभ्यः प्रतिषेधः” इति न ङीप्‌ स्वार्थे कप्रत्ययः॥ २९॥ ३०॥ क्रमादिति। “ब्रह्मचर्यं समाप्य गृही भवेद्गृहाद्वनी भूत्वा प्रव्रजेत्‌” इति जाबालश्रुतिः। अक्रमतो वेति। “यदि वेतरथा ब्रह्मचर्यादेव प्रव्रजेद्गृहाद्वा“इति तत्रैव॥ ३१॥

प्रव्रजन्तं द्विजं दृष्ट्वास्थानाच्चलति भास्करः।
एष मेमण्डलं भित्त्वा ब्रह्मलोकं गमिष्यति॥ ३३॥
रूपं तु द्विविधं प्रोक्तं चरं चाऽचरमेव च।
चरं संन्यासिनां रूपमचरं मृन्मयादिकम्‌॥ ३४॥
यस्याऽऽश्रमे यतिर्नित्यं वर्तते मुनिसत्तम।
न तस्य दुर्लभंकिंचित्त्रिषु लोकेषु विद्यते॥ ३५॥
दुर्वृत्तो वा सुवृत्तो वा मूर्खो वा पण्डितोऽपि वा।
वेषमात्रेण संन्यासी पूज्यः सर्वेश्वरो यथा॥ ३६॥
ब्रह्मचर्याश्रमस्थानां ब्रह्मादेवः प्रकीर्तितः।
गृहस्थानां च सर्वे स्युर्यतीनां तु महेश्वरः॥ ३७॥
वानप्रस्थाश्रमस्थानामादित्यो देवता मता।
तस्मात्सर्वेषु कालेषु पूज्यःसंन्यासिनां हरः॥ ३८॥
मृते न दहनं कार्यं परहंसस्य सर्वदा।
कर्तव्यं खननं तस्य नाशौचं नोदकक्रिया॥ ३९॥
अश्वत्थस्थापनं कार्यं तद्देशोऽध्वर्युणा मुने।
अश्वत्थे स्थापिते तेन स्थापितो हि महेश्वरः॥ ४०॥
दर्शनात्स्पर्शनात्तस्य सर्वं नश्यति पातकम्‌।
अन्येषामपि भिक्षूणां खननं पूर्वमाचरेत्‌॥ ४१॥
पश्चाद्गृही यथाशास्त्रंकुर्याद्दहनमुत्तमम्‌।
अश्वमेधफलंतस्य स्नानमात्राद्विशुद्धता॥ ४२॥

——————————————————————————————————————————————————

३९॥अश्वत्थे स्थापित इति। तेनाध्वर्युणा। तत्राश्वत्थस्य स्थापनमात्रेणापि शिवलिङ्गस्थापनेन यत्फलं तल्लभ्यत इत्यर्थः ।तस्य प्रकृतस्य तस्मिन्सथाने

सर्वमुक्तं समासेन तव शिष्यस्य धीमतः।
तस्मादेतद्विजानीहिवेदान्तार्थप्रकाशनम्‌॥ ४३॥

इति श्रीस्कान्दपुराणे सूतसंहितायां ज्ञानयोगखण्डे

संन्यासविधिनिरूपणं नाम षष्ठोऽध्यायः॥ ६॥

——————

सप्तमोऽध्यायः॥

७. प्रायश्चित्तविधिनिरूपणम्‌।

ईश्वर उवाच —

अथातः संप्रवक्ष्यामि प्रायश्चित्तं समासतः॥
दोषाणामपनुत्त्यर्थं सर्वभूतानुकम्पया॥ १॥
ब्रह्महा मद्यपः स्तेनस्तथैव गुरुतल्पगः॥
एते वेदविदां श्रेष्ठ महापातकिनः स्मृताः॥ २॥

——————————————————————————————————————————————————

स्थापितस्याश्वत्थस्य महेश्वरस्य वा दर्शनस्पर्शनाभ्यांसर्वपातकनाश इत्यर्थः॥४०—४२॥

इति श्रीसूतसंहितातात्पर्यदीपिकायां ज्ञानयोगखण्डे संन्यास

विधिनिरूपणं नाम षष्ठोऽध्यायः॥६॥

———

नित्यधर्माभिधानानन्तरंनैमित्तिकधर्माभिधानायाध्यायान्तरमारभ्यते — अथात इति। यत उक्तस्य विधिनिषेधात्मकस्य नित्यस्य धर्मस्य प्रमादादिना व्यतिक्रमे तन्निमित्तप्रायश्चित्तापेक्षाऽतोनित्यानन्तरं तदुच्यत इत्यर्थः॥ १॥ अपनोदनीयान्प्रधानदोषाननुक्रामति—ब्रह्महेति। तथा च छान्दोग्योपनिषदि \`स्तेनो हिरण्यस्य सुरां पिबँश्च गुरोस्तल्पमावसन्ब्रह्महा चैते पतन्ति चत्वारः पञ्चमश्चाऽऽचरंस्तैः' इति॥ २॥ वसेदिति वचनात्सहवासादिनैव संवत्सरात्पातित्यम्‌। याजनाध्यापनयौनसंबन्धैस्तु सद्यःपातित्यम्‌।

एभिः सह वसेद्यस्तु संवत्सरमसावपि।
ब्रह्महा निर्जनेऽरण्ये कुटीं कृत्वा वसेन्नरः॥ ३॥
द्वादशाब्दानि संतप्तः सर्वदा विजितेन्द्रियः।
भिक्षामाहृत्य भुञ्जीत स्वदोष॑ ख्यापयन्नृणाम्‌॥ ४॥
शाकमूलफलाशी वा कृत्वा शवशिरोध्वजम्‌।
संपूर्णे द्वादशे वर्षे ब्रह्महत्यां व्यपोहति॥ ५॥
अकामकृतदोषस्य प्रायश्चित्तमिदं मुने।
कामतश्चेन्मुनिश्रेष्ठ प्राणान्तिकमुदीरितम्॥ ६॥
अथवा मुनिशार्दूल पापशुद्ध्यर्थमात्मनः।
ग्रामादनलमाहृत्य प्रविशेत्परितापतः॥ ७॥
पश्चादनशनो भूत्वा धर्मयुद्धेऽथवाऽनले।
अप्सु वा मुनिशार्दुल महाप्रस्थानकेऽपि वा॥ ८॥
ब्राह्मणार्थेगवार्थे वा सम्यक्प्राणान्परित्यजेत्।
सुरापानादिदोषोऽपि नश्यत्येतेन सुव्रत॥ ९॥
अग्निवर्णां सुरांतप्तां प्राणविच्छेदनक्षमाम्‌।
पीत्वानष्टशरीरस्तु सुरापानात्प्रमुच्यते॥ १०॥
गोमूत्रं गोघृतं तोयं गोशकृद्रसमेव वा।
अतितप्तं पिबेत्तेन मृतो मुच्येत दोषतः॥ ११॥
सुवर्णस्तेयकृत्साक्षाद्राजानमभिगम्य तु।

——————————————————————————————————————————————————

यदाह याज्ञवल्क्यः — “संवत्सरेण पतति पतितेन सहाऽऽचरन्॥ याजनाध्यापनाद्यौनान्न तुपानाशनादितः” इति। ऊक्तनिमित्तानामुद्देशक्रमेण प्रायश्वित्तान्याह — ब्रह्महा निर्जन इत्यादि॥ ३॥ भुञ्जीतेति भुञ्जीयात्‌॥ ४॥ शवशिरोध्वजमिति। स्मर्यते हि — ‘शिरःकपालीध्वज-

स्वकर्मख्यापयन्ब्रुयान्मां भवाननुशास्त्विति॥ १२॥
आयसं मुसलंतीक्ष्णं गृहीत्वा स्वयमेव तु।
हन्यात्सकृत्प्रयोगेण राजा तं पुरुषाधमम्‌॥ १३॥
मुच्यते स्तेयदोषेण नास्ति राज्ञोऽपि पातकम्‌।
अवगूहेत्स्त्रियं तप्तामयसा निर्मितां नरः॥ १४॥
स्वयं वा शिश्नवृषणावुत्पाट्याऽऽधाय चाञ्जलौ।
दक्षिणां दिशभागच्छेद्यावत्प्राणविमोचनम्‌॥ १५॥
अनेन विधिना युक्तो मुच्यते गुरुतल्पगः।
तप्तकृच्छ्रंचरेत्तप्तः संवत्सरमतन्द्रितः॥ १६॥
महापातकिनां नृृणां संसर्गात्स विमुच्यते।
मातरं मातृसदृशीं भागिनेयीं तथैव च॥ १७॥
मातृष्वसारमारुह्यकुर्यात्कृच्छ्रातिकृच्छ्रकौ।
चान्द्रायणं च कुर्वीत तत्पापविनिवृत्तये॥ १८॥

——————————————————————————————————————————————————

वान्भिक्षाशी कर्मचोदयन्‌’ इति॥५—१३॥ अवगूहेदिति। आश्लिषेत्॥ १४॥ १५॥ तप्तकृच्छ्रमिति। तप्तकृच्छ्रलक्षणमुक्तंयमेन — `त्र्यहमुष्णं पिबेदम्भस्त्र्यहमुष्णं पयः पिबेत्‌। त्र्यहमुष्णं पिबेत्सर्पिर्वायुभक्षः परं त्र्यहम्‌॥ तप्तकृच्छ्रंविजनीयाच्छीते शीतमुदाहृतम्‌’इति॥ अम्भःप्रभृतीनां परिमाणमुक्तं पराशरेण — ‘षट्‌पलंतु पिबेदम्भस्त्रिपलं तु पयः पिबेत्‌॥ पलमेकं पिबेत्सर्पिस्तप्तकृच्छ्रंविधीयते इति॥१६॥१७॥ कृच्छ्रातिकृच्छ्रकाविति। द्विरावृत्तं कृच्छ्रातिकृच्छ्रकं कुर्यात्‌॥ तल्लक्षणमुक्तंयाज्ञवल्क्येन — “कृच्छ्रातिकृच्छ्रःपयसा दिवसानेकविंशतिम्‌ इति। एकभक्तनक्तायाचितदिवसेषु यो भोजनकालस्तस्मिन्नेव काले केवलमुदकेन वा वर्तनं कृच्छ्रातिकृच्छ्रोभवतीत्यर्थः॥१८॥ कृच्छ्रंसांतपनमिति। तल्लक्षणमाह याज्ञवस्क्यः — “गोमूत्रं गोमयंक्षीरं दधि सर्पिः शोदकम्‌। एकरात्रं चोपवसेत्कृच्छ्रंसांतपनं

स्वसारं मुनिशार्दूल गत्वा दुहितरं तु वा।
कृच्छ्रंसांतपनं कुर्याद्दोषशुद्ध्यर्थमात्मनः॥ १९५॥
भ्रातभार्यभिगमने चान्द्रायणचतुष्टयम्‌।
चरेत्पापविशुद्ध्यर्थं संतप्तो ब्राह्मणोत्तमः॥ २०॥
पैतृष्वसेयीगमने मातुल्यादुहितुस्तथा।
चान्द्रायणं चरेदेकं कामतोऽकामतोऽपि वा॥ २१॥
अवशिष्टासु सर्वासुद्विजस्रीषु महामुने।
गत्वा कृच्छ्रंचरेत्तप्तमेकं तद्दोषशान्तये॥ २२॥
क्षत्रियाणां च वैश्यानां स्त्रीषु गत्वाद्विजश्चरेत्‌।
कृच्छ्रमन्यासु बहुशो गत्वा कृच्छ्रंचरेद्विजः॥ २३॥
ब्रह्मचारी स्त्रियं गत्वा कामतो मुनिसत्तम।
संवत्सरं चरेद्भैक्षं वसित्वा गर्दभाजिनम्‌॥ २४॥
स्वपापकीर्तनं कुर्वन्स्नात्वा त्रिषवणं पुनः।
तस्मात्पापात्प्रमुच्येत षण्मासात्कामर्वजितः॥ २५॥
अग्निकार्यपरित्यागे रेतोत्सर्गे समाहितः।
स्नात्वा प्रणवसंयुक्तं व्याहृतींच तथैव च॥ २६॥
सावित्रींसशिरां मौनी जपेदयुतमादरात्‌।
यतीनामिन्द्रियोत्सर्गेस्नात्वा शुद्धःसमाहितः॥२०।
प्रणवं परमात्मानं जपेदयुतमादरात्‌।
द्विजस्त्रीगमने भिक्षुरवकीर्णिव्रतं चरेत्‌॥ २८॥
अन्यासु बुद्धिपूर्वं चेत्तप्तकृच्छ्रंसमाचरेत्‌।
हत्वा वैश्यं च राजानं ब्रह्महत्याव्रतं चरेत्‌॥ २९॥

क्रमान्मासत्रयं पूर्वं षाण्मासिकमनन्तरम्‌।
ब्राह्मणस्तु विमुच्येत शूद्धं हत्वाऽर्धमासतः॥ ३०॥
विहिताकरणे तद्वत्प्रतिषिद्धादिसेवने।
वेदविप्लावने चैव गुरुद्रोहेऽन्यकर्मणि॥ ३१॥
तप्तकृच्छ्रंचरेत्तेन मच्यते सर्वदोषतः।
अथ वा सर्वपापानां विशुद्ध्यर्थं समाहितः॥ ३२॥
कुर्वन्‌ शुश्रूषणं नित्यं वेदान्तज्ञानभाषिणाम्‌।
श्रद्धाविनयसंयुक्तः शान्तिदान्त्यादिसंयुतः॥ ३२॥
यावज्ज्ञानोदयं तावद्वेदान्तार्थं निरूपयेत्‌।
नास्ति ज्ञानात्परं किंचित्पापकान्तारदाहकम्‌॥ ३४॥
मासमात्राद्विनश्यन्ति क्षुद्रपापानि सुव्रत।
षण्मासश्रवणात्सर्वं नश्यत्येवोपपातकम्‌॥ ३५॥
महापातकसंधाश्च नित्यं वेदान्तसेवनात्‌॥
नश्यन्ति वत्सरात्सर्वेसत्यमुक्तं बृहस्पते॥ ३६॥
यः श्रद्धया युतो नित्यं वेदान्तज्ञानमभ्यसेत्‌।
तस्य संसारविच्छित्तिः श्रवणादिति हि श्रुतिः॥ ३७॥

——————————————————————————————————————————————————

भवेत्‌" इति॥ १९–३ ३॥ नास्ति ज्ञानादिति। उक्तं गीतासु — ‘‘यथैधांसि समिद्धोऽग्निर्भस्मसत्कुरुतेऽर्जुन। ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा” इति॥३४-३६॥ यः श्रद्धयेति। श्रवणाच्छब्दशक्तितात्पर्यावधारणन्यायानुसंधानमुखेन वेदान्तज्ञानमभ्यसेत्‌। तस्य संसारविच्छित्तिरित्यस्मिन्नर्थे श्रुतिरस्तीत्यर्थः। सा चेयम् —`वेदान्तविज्ञानसुनिश्चितार्थाःसंन्यासयोगाद्यतयः शुद्धसत्त्वाः। ते ब्रह्मलोके तु परान्तकाले परामृतात्परिमुच्यन्ति सर्वे’इति॥ ३७॥ एवमभ्यसत इति। अर्जुनं प्रति भगवतोक्तम्‌ — “प्राप्यपुण्यकृताल्लोँकानुषित्वा शाश्वतीःसमाः। शुचीनां श्रीमतां गेहे

एवमभ्यसतस्तस्य यदि विघ्नोऽभिजायते।
सर्वलोकान्क्रमाद्भुक्ता भूमौ विप्रोऽभिजायते॥ ३८॥
सर्वलक्षणसंपन्नः शान्तः सत्यपरायणः।
पुनश्च पूर्वभावेन विद्वांसं पर्युपासते॥ ३९॥
तत्संपर्कात्स्वमात्मानमपरोक्षीकृतो मुनिः।
स्वप्नादिव विमुच्येत स्वसंसारमहोदधेः॥ ४०॥
तस्मात्सर्वप्रयत्नेन स्वमुक्त्यर्थंबृहस्पते।
सर्वदा सर्वमुत्सृज्य वेदान्तश्रवणं कुरु॥ ४१॥

इति श्रीस्कान्दपुराणे श्रीसूतसंहितायां ज्ञानयोगखण्डे
प्रायश्चित्तविधिनिरूपणं नाम सप्तमोऽध्यायः॥ ७॥

—————

अष्टमोऽध्यायः

८. दानधर्मफलकथनम्‌ ।

ईश्वर उवाच —

अथातः संप्रवक्ष्यामि दानधर्मफलंमुने।
सर्वेषामेव दानानां विद्यादानं परं स्मृतम्‌॥ १॥

——————————————————————————————————————————————————

योगभ्रष्टोऽभिजायते” इति॥ ३८॥ पुनश्चेति। ‘पूर्वाभ्यासेन तेनैव ह्रियते ह्यवशोऽपि सः’इति। पर्युपासते पर्युपास्ते। शपो लुगभावश्छान्दसः॥ ३९॥अपरोक्षीकृत इति। संपदादित्वाद्भावेवि क्विप्‌। आत्मानं प्रति यदपरोक्षीकरणं तस्मादित्यर्थः॥४ ०॥ ४१।

इति श्रीसूतसंहितातात्पर्यदीपिकायां ज्ञानयोगखण्डे प्रायश्चित्तविधि-

निरूपणं नाम सप्तमोऽध्यायः॥ ७॥

उक्तप्रायश्चित्तैःपरिहृतप्रतिबन्धकपापजालस्यपुरुषस्य यैर्यैर्दानैर्धमैश्चयानि यानि फलानि प्राप्यन्तेतानि तानि वक्तुंप्रतिजानीते — अथात

विद्यया प्राणिनां मुक्तिस्तस्मात्तद्दानमुत्तमम्‌।
भूमिदानं च गोदानमर्थदानं तथैव च॥ २॥
कन्यादानं च मुख्यं स्यादन्नदानं तथैव च।
धनधान्यसमृद्धां यो भूमिं दद्याद्द्विजाय सः॥ २॥
इह लोके सुखी भूत्वा प्रेत्य चाऽऽनन्त्यमश्नुते।
अरत्निमात्रांवा भूमिं दद्याद्ब्रह्मविदे नरः॥ ४॥
सर्वपापविनिर्मुक्तः संसारमतिवर्तते।
विनीतायोपसन्नाय विप्राय श्रद्धया युतः॥ ५॥
यो दद्याद्वैदिकीं विद्यां न स भूयोऽभिजायते।
यतये श्रद्धया नित्यमन्नं दद्याद्यथाबलम्‌॥ ६॥
ब्रह्मलोकमवाप्रोति न पुनर्जायते भुवि।
मठंवा यतये दद्यान्न स भूयोऽभिजायते॥ ७॥
अमावास्यां मुनिश्रेष्ठ ब्राह्मणायानसूयवे।
अन्नं दद्यान्महादेव॑ समुद्दिश्य समाहितः॥ ८॥
सोऽक्षयं फलमाप्नोति महादेवसमो भवेत्‌।
यस्तु कृष्णचतुर्दश्यांश्रद्धाभक्तिसमन्वितः॥ ९॥

——————————————————————————————————————————————————

इति। यतः प्रतिबन्धकापगमे सत्येव साधनं स्वकार्येसमर्थमतः प्रायाश्चित्तानन्तरमित्यर्थः॥ २–४॥ विनीतायोपसन्नायेति। श्रूयते हि — “तस्मै स विद्वानुपसन्नाय सम्यक्प्रशान्ताचित्ताय शामान्विताय। येनाक्षरं पुरषं वेद सत्यं प्रोवाच तां तत्त्वतोब्रह्मविद्याम्‌” इति॥ विप्रायेति॥ त्रैवर्णिकोपलक्षणम्‌। विद्याग्रहणाधिकारविभागो हि गतखण्डसप्तमाध्याये“निवृत्तिधर्मनिष्ठस्तु ब्राह्मणः” इत्यत्रोपवर्णित इति॥ ५–७॥ तिथिदेवताविशेषेणान्नदानफलान्याह — अमावास्यामित्यादिना। अमावास्यायाम्‌। “कालाध्वनो-

आराधयेद्द्विजमुखे महादेवं स मुच्यते।
त्रयोदश्यांतथा स्नात्वाब्राह्मणं भोजयेन्मुदा॥ १०॥
ब्रह्मलोकमवाप्नोति ब्रह्मणा सह मुच्यते।
द्वादश्यांतु द्विजः स्नात्वा विष्णुमुद्दिश्यभक्तितः॥११॥
ब्राह्मणाय विनीताय दद्यादन्नं समाहितः।
सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति॥ १२॥
एकादश्यामुपोष्यैव द्वादश्यां पक्षयोरपि।
वासुदेवं समुद्दिश्यब्रह्मणान्भोजयेन्नरः॥ १३॥
सप्तजन्मकृतं पापं तत्क्षणादेव नश्यति।
दशम्यामिन्द्रमुद्दिश्य यो दद्याद्ब्राह्मणे शुचौ॥ १४॥
अन्न वा तण्डुलंवाऽपि स देवेन्द्रत्वमाप्युयात्‌।
नवम्यां धर्मराजानमुदिश्य ब्राह्मणे शुचौ॥ १५॥
अन्नंदद्याद्यथाशक्ति धर्मराजः प्रसीदति।
अष्टम्यां शंकरं पूज्य ब्राह्मणं भोजयेन्नरः॥ १६॥
सर्वपापविनिर्मुक्तः शिवसायुज्यमाप्नुयात्‌।
सप्तम्यां चन्द्रमुद्दिश्य ब्राह्मणान्भोजयेद्द्विजः॥ १७॥
चन्द्रलोकमवाप्नोतिनात्र कार्याविचारणा।
षष्ठ्यामादित्यमुद्दिश्यब्राह्मणानेव भोजयेत्‌॥ १८॥
सूयेलोकमवाप्नोति सुखमक्षय्यमश्नुते।
पञ्चम्यां पार्वतीं विप्रानुद्दिश्यान्नेन भोजयेत्‌॥ १९॥

—————————————————————————————————————————————————

रत्यन्तसंयोगे” इति द्वितीया॥ ८–१२॥ पक्षयोरपीति। यत्तु `शुक्लामेव सदा गृही’ इति तद्गृहस्थोऽपिशुक्लांशुद्धां कामानुपहतामिति

सर्वपापविनिर्मुक्तः सम्यग्ज्ञानमवाप्नुयात्‌।
चतुर्थ्यांब्राह्यणान्‌ शुद्धाल्लँक्ष्मीमुद्दिश्य भोजयेत्‌॥२०॥
दारिद्र्यंसकलंत्यक्त्वा महालक्ष्मीमवाप्नुयात्।
तृतीयायां द्विजः स्नात्वाब्राह्मणान्भोजयेत्सकृत्‌॥ २१॥
तस्य ब्रह्मा हरिश्चापि महादेवो वशोभवेत्‌।
द्वितीयायां विशुद्धायां ब्राह्मणान्भोजयेन्नरः॥ २२॥
तस्य वाचि सदा वेदा नृत्यन्ति स्म महामुने।
सर्वपापविनिर्मुक्तः सम्यग्ज्ञानमवाप्नुयात्॥ २३॥
प्रथमायां पवित्रायां परब्रह्मार्पणं द्विजः।
यो ब्राह्मणमुखे कुर्याच्छ्रद्धाभक्तिसमन्वितः॥ २४॥
स सर्वसमतामेत्य ब्रह्याप्येति सनातनम्‌।
ब्राह्मणाय मुदा दद्याच्छुक्लां गामुत्तमां नरः॥ २५॥
सर्वपापविनिर्मुक्तः साक्षाद्ब्रह्मस गच्छति।
यो दद्यात्कन्यकां शुद्धां ब्राह्मणाय विभूषिताम्‌।
सर्वपापविनिर्मुक्तः शिवलोक॑ स गच्छति॥ २६॥
येन केन प्रकारेण यं यं देवं समर्चयेत्।
तं तं देवं समाप्नोति नात्र कार्याविचारणा॥ २७॥

——————————————————————————————————————————————————

हि व्याचक्षते। यदाहुः - ‘`सकामानां गृहस्थानां काम्यव्रतनिषेधनात्‌” इति॥ १३-२४॥ स सर्वसमतामिति। “ सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु। साधुष्वपि च पापेषु समबुद्धिर्वीशिष्यते॥निर्दोषं हि समं ब्रह्म तस्माद्ब्र्ह्मणि ते स्थिताः” इति गीतासु॥ २५॥ २६॥ आत्मज्ञमिति हि श्रुतिरिति \। मुण्डकोपनिषदि — “यं यं लोकं मनसा संविभाति विशुद्युद्धसत्त्वः कामयते यांश्च कामान्‌। तं तं लोक॑ जायते तांश्च कामांस्त

यं यं कामयते लोकं तं समुद्दिश्य भक्तिमान्‌।
आत्मज्ञंह्यर्चयेन्नित्यमात्मज्ञमिति हि श्रुतिः॥ २८॥
कृमिकीटपतङ्गेभ्यःश्रेष्ठाः पश्चादयस्तथा।
पश्वादिभ्यो नराः श्रेष्ठा नरेभ्यो ब्राह्मणास्तथा॥ २९॥
ब्राह्मणेभ्योऽथ विद्वांसो विद्वत्सु कृतबुद्धयः।
कृतबुद्धिषु कर्तारस्तेभ्यः संन्यासिनो वराः॥ ३०॥
तेषां कुटीचकाः श्रेष्ठा बहूदकसमाश्रिताः।
बहुदकाद्वरो हंसो हंसात्परमहंसकः॥ ३१॥
परहंसादपि श्रेयानात्मविन्नास्त्यतोऽधिकः।
तस्मादात्मविदःपूज्याः सर्वदा सर्वजन्तुभिः॥ ३२॥
ब्रह्मवर्चसकामस्तु ब्रह्माणं पूजयेन्नरः।
आरोग्यकाम आदित्यं बलकामः समीरणम्‌॥ ३३॥
कीर्तिकामोऽनलंतद्वन्मेधाकामः सरस्वतीम्‌।
जानकामो महादेवं सिद्धिकामो विनायकम्‌॥ ३४॥
भोगकामस्तु शशिनं मोक्षकामस्तु शंकरम्‌।
वैराग्यकामो विद्वांसं पुष्टिकामः शचीपतिम्‌॥ ३५॥

——————————————————————————————————————————————————

स्मादात्मज्ञं ह्यर्चयेद्भूतिकामःइति॥ २८॥ तस्मादात्मविदः पूज्या इति यदुक्तं तत्र हेतुत्वेनाऽऽत्मविद्यायाःसर्वतः प्राशस्त्यमाह — क्रिमिकीटेत्यादिना। मनुरप्याह — `भूतानां प्राणिनः श्रेष्ठाः प्राणिनां बुद्धिजीविनः। बुद्धिमत्सु नराः श्रेष्ठा नरेषु ब्राह्मणास्मृताः॥ ब्राह्मणेषु च विद्वांसोविद्वत्सु कृतबुद्धयः कृतबुद्धिषु कर्तारः कर्तृषु ब्रह्मवादिनः॥ ब्रह्मविद्भयःपरं किंचिन्न भूतं न भविष्यति’ ॥२९.-३२॥ तिथिभेदेन देवताभेदाः प्रागुक्ताः। कामनाभेदेन तानाह — ब्रह्मवर्चसकाम इत्यादिना॥ ३३–३५॥ क्षीयन्तेऽस्येति हि

व्रतान्याचरतः श्रद्धाभक्तिभ्यां संयुतः शुचिः।
क्षीयन्ते पापकर्माणि क्षीयन्तेऽस्येति हि श्रुतिः॥ ३६॥
ज्योतिष्टोमादिकं कर्मयः कुर्याद्विधिपूर्वकम्‌।
स देवत्वमवाप्नोति नात्र कार्याविचारणा॥ २७॥
यः श्रद्धयायुतो नित्यं शतरुद्रियमभ्यसेत्।
अग्निदाहात्सुरापानादकृत्याचरणात्तथा॥ २३८॥
मुच्यते ब्रह्महत्याया इति कैवल्यशाखिनः।
शतशाखागतं साक्षाच्छतरुद्रियमुत्तमम्‌॥ ३९॥
तस्मात्तज्जपमात्रेण सर्वपापात्प्रमुच्यते।
चमकं च जपेद्विद्वान्सर्वपापप्रशान्तये॥ ४०॥
सहस्रशीर्षासूक्तं च दिवसंकल्पमेव च।
जपेत्पञ्चाक्षरं चैव सतारं तारणक्षमम्‌॥ ४१॥
त्रिसप्तकुलमुद्धृत्य शिवलोके महीयते।
तत्र नानाविधान्भोगान्भुक्त्वाकर्मपरिक्षयात्‌॥ ४२॥
भूलोके जायते पुण्यं पापं वा कुरुते पुनः।

——————————————————————————————————————————————————

श्रुतिरिति। कठवल्लीषु हि श्रुयते — `भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे’इति॥ ३६- ३८॥ कैवलशाखिन इति। श्रूयते हि कैवल्योपनिषदि — “यःशत्तरुद्रियमधीते सो ग्निपूतो भवति, सुरापानात्पूतो भवति, ब्रह्महत्यायाःपूतो भवति, कृत्याकृत्यत्पूतो भवति इति। सक्षात्प्रत्यक्षभूता याःशतसंख्याका अध्वर्युशाखस्तासुसर्वासु गतमित्यर्थः। शतं रुद्रा देवता अस्येत्यर्थेशतरुद्राद्धश्च इति घः। शतं सहस्रमित्यपरिमितपर्यायाः ‘सहस्राणि सहस्रशोये रु अधिभूम्याम्‌’इति हि श्रुयते॥ ३९॥ चमकं चेति। वसोर्धरि ‘अग्निविष्णू सजोषासा’ इत्यादिकम्‌॥ ४०॥ शिवसंकल्पम्‌ ‘येनेदं

यावज्ज्ञानोदयं तावज्जायते म्रियतेऽपि च॥ ४३॥
असुखे सुखमारोप्य विषयेऽज्ञानतो नरः।
करोति सकलंकर्मतत्फलं चावशोऽश्नुते॥ ४४॥
अहो मायावृतो लोकः स्वात्मानन्दमहोदधिम्‌।
विहाय विवशः क्षुद्रे रमते किं वदामि तम्‌॥ ४५॥
तस्मान्मायामयं भोगमसारमखिलंनरः।
विहाय विमलंनित्यमात्मानन्दं समाश्रयेत्‌॥ ४६॥
सर्वसंग्रहरूपेण सस्नेहं सम्यगीरितम्‌।
तस्मात्त्वं सकलंत्यक्त्वा स्वात्मानन्दे कुरुश्रमम्‌॥ ४७॥

इति श्रीस्कान्दपुराणे सूतसंहितायां ज्ञानयोगखण्डे

दानधर्मफलकथनं नामाष्टमोऽध्यायः॥ ८॥

——————

नवमोऽध्याय॥

९. पापकर्मफलनिरूपणम्‌ ।

ईश्वर उवाच —

अथातः संप्रवक्ष्यामि पापकर्मफलं मुने।
खरोष्ट्रसूकराजाविगजाश्वमृगपक्षिणाम्‌॥ १॥

——————————————————————————————————————————————————

भुवनं भविष्यत्’ इत्यादिकम्‌॥ ४१॥ ४२॥ यावज्ज्ञानोदयमिति। ज्ञानमुदेति यस्मिन्दिने तज्ज्ञानोदयंतद्यावदायाति तावदित्यर्थः॥ ५३॥ अज्ञानत इत्यारोपे हेतुः॥ ४४- ४७॥

इति श्रीस्कान्दपुराणे सूतसंहितातात्पर्यदीपिकायां ज्ञानयोगखण्डे

दानधर्मफलकथनं नाम अष्टमोऽध्यायः॥ ८॥

—————

चण्डालपुल्कसत्वं च प्राप्नोति ब्रह्महा क्रमात्‌।
दस्यूनां विड्भुजां योनिं पक्षिणां च तथैव च॥ २॥
कृमिकीटपतङ्गानां सुरापः प्राप्नुयाद्द्विजः।
राक्षसानां पिशाचानां चोरो याति सहस्रशः॥ ३॥
क्रव्याददंष्ट्रिणां योनिं तृणादीनां तथैव च।
ऋूरकर्मरतानां च प्राप्नोति गुरुतल्पगः॥ ४॥
ब्राह्मणस्य धनं क्षेत्रमपहृय नराधमः।
ब्रह्मराक्षसतां याति शतशोऽथ सहस्रशः॥ ५॥
धान्यचोरो भवेदाखुर्जलंहृत्वा प्लवो भवेत्‌।
कांस्यंहृत्वा भवेद्धंसः श्वारसं नकुलोघृतम्‌॥ ६॥
पयः काको भवेन्मांसं हृता गृध्रोभवेत्तथा।
चक्रवाकस्तु लवणं बकस्तैलापहारतः॥ ७॥
कौशेयं तित्तिरिः क्षौमं हृत्वा दर्दुरसंज्ञकः।
पत्रशाकापहारेण बर्हिणः स्युर्नराधमाः॥ ८॥
श्वाऽन्नं हृत्वा भवेत्पुष्पं मर्कटः स्यात्तथैव च।
यानापहरणादुष्ट्रःपशुं हृत्वा भवेद्नजः॥ ९॥

——————————————————————————————————————————————————

स्वर्गापवर्गसाधने विहिते धर्मज्ञाने उपादानायाभिधाय हानाय निषिद्धं कर्माभिघातुं प्रतिजानीते —अथात इति। यतो हि विहितकारिणामपि निषिद्धापरित्यागे नरकः। अतो विहिताभिधानानन्तरं हानाय निषिद्धमुच्यत इत्यर्थः। बहुतरनरकोपभोगानन्तरं शेषेण खरोष्ट्रादिजन्मप्राप्तिः॥ १–५॥ प्लव इति। प्लवोमण्डूकः। पचाद्यच्‌॥ ६॥ ७॥ दर्दुरो भेकः॥ ८॥ ९,॥ शवभक्षणको राजेति। योहि राजा न्यायेन प्रजाः परिपालयति स ब्रह्मणादनन्तरं प्रशस्यते। स्मर्यते हि — ‘श्रेयान्प्रतिग्रहो राज्ञो नान्येभ्यो

शवभक्षणको राजा वैश्यपूयाशनो भवेत्‌।
श्येनाशनो भवेच्छूद्रोजलूको रक्तपो भवेत्‌॥ १०॥
नैतावताऽलंविप्रेन्द्र पापकर्मफलोदयम्‌।
नरके वर्तनं चास्ति महाघोरेऽतिदारुणे॥ ११॥
हस्तद्वंद्वं दृढं बद्ध्वाततः शृङ्खलयातथा।
क्षिप्यते दीप्तवह्नौच ब्रह्महाऽऽचन्द्रतारकम्‌॥ १२॥
अतितप्तायसैर्दण्डैःपीड्यते यमकिङ्करैः।
प्राणिहिंसापरो गाढंकल्पकोटिशतं मुने॥ १३॥
तप्ततैलकटाहेषु बद्ध्वाहस्तौपदद्वयम्‌।
क्षिप्यते यमदूतेन तैलचौरो महामुने॥ १४॥
तप्तताम्रकटाहेषु क्षिप्य मिथ्याभिशंसिनम्‌।
जिह्‌वामुत्पाटयन्त्याशु बहुशोयमकिङ्कराः॥ १५॥
तप्तताग्रजलं तीक्ष्णैःपिबेत्युक्त्वाऽऽयसायुधैः।
छिद्यते यमदूतैस्तुसुरापानरतो नरः॥ १६॥

——————————————————————————————————————————————————

ब्राह्मणादृते` इति। यस्त्वन्यायकारी क्रूरो राजा स उच्यते शवभक्षणको राजेति। स हि सूनिचक्रिध्वजिवेश्याभ्योऽपि निकृष्टः स्मर्यत्ते — “प्रतिग्रहे सूनिचक्रिध्वजिवेश्यानराधिपाः। दुष्टा दशगुणंप्रोक्ताः पूर्वादेते यथाक्रमम्‌’ इति। तथा — “दशसूनिसमश्चक्रीदशचक्रिसमो ध्वजी। दशध्वजिसमा वेश्या दशवेश्यासमो नृपः” इति। एवं वेश्याश्रूद्रयोरपे निकृष्टयोरिहाभिधानम्‌। न्यायवर्ती तु शूद्रः साधुः स्त्रियः साधुरित्यादिदर्शनं विद्यते। वैश्योऽपिन्यायवर्ती तुलाधारस्तीर्थंसेविनोजाजलिब्राह्मणादुत्कृष्टःस्मर्यते। तस्य हि जाजलि प्रत्येतद्वाक्यम् — “जाजले तीर्थमात्मैव मास्म देशातिथिर्भव” इति॥ १०॥ पापकर्मणःफलमुदेति यस्मिन्वर्तने तदित्यर्थः। अधिकरणे एरच्‌। तद्वर्तनमेतावता नालमित्यन्वयः॥ ११–१४॥ मिथ्याभिशंसि-

छित्त्वा छित्त्वा पुनर्दग्ध्वा पिण्डीकृत्य पुनस्तथा।
क्षिप्यते पूयपूर्णेऽस्मिन्कटाहेगुरुतल्पगः॥ १७॥
मातरं पितरं ज्येष्ठं गुरुमध्यात्मवेदिनम्‌।
महादेवं तथा वेदं विष्णुं ब्रह्माणमेव च॥ १८॥
आदित्यंचन्द्रमग्निं च वायुं निन्दन्ति ये नराः।
कल्पकोटिशतं दिव्यं पच्यन्ते नरकालये॥ १९॥
यतिहस्ते जलं चान्नं न दत्तं यैर्नराधमैः।
इक्षुवत्संप्रपीड्यन्ते मुद्गरैर्मुनिसत्तम॥ २०॥
पादे चाऽऽस्ये तथा पार्श्वेनाभौशिश्नॆगुदेऽक्षिणि।
निखन्यन्ते महातप्तैःशंकुभिश्चार्थहारिणः॥ २१॥
अयसा निर्मितां कान्तां सुतप्तां झर्झरीकृताम्।
गाढमालिङ्ग्यते मर्त्यः परदारपरिग्रहः॥ २२॥
दुश्चारिण्यः स्त्रियश्चापि सुतप्तं पुरुषं तथा।
श्रौतस्मार्तविहीना ये निषिद्धाचरणे रताः॥ २३॥
पच्यन्ते नरके तीव्रेकल्पकोटिशतं सदा।
ये शिवायतनारामवापीकूपमठादिकम्‌॥ २४॥
उपद्रवन्ति पापिष्ठा नृपास्तत्र रमन्ति च।
व्यायामोद्वर्तनाभ्यङ्गस्नानपानान्नभोजनम्‌॥ २५॥
क्रीडनं मैथुनं द्यूतमाचरन्ति मदोद्धताः।
ते च तद्विविधैर्घोरैरिक्षुयन्त्रादिपीडनैः॥ २६॥
निरयाग्निषु पच्यन्ते यावच्चन्द्रदिवाकरम्‌॥

——————————————————————————————————————————————————

नमिति। अविद्यमानं दोषमारोपयन्तम्‌॥ १५–२५॥ आचरन्ति प्रकृते

वेदमार्गरताचार्यनिन्दां शृण्वन्ति ये नराः॥ २७॥
द्रुतताम्रादिभिस्तेषां कर्ण आपूर्यतेऽनघ॥ २८॥
घोराख्ये नरके केचित्पच्यन्ते पापकर्मतः।
सुघोराख्ये तथा केचिदतिघोरेच केचन।
महाघोराभिधे केचिद्घोररूपे च केचन॥ २९॥
करालाख्ये तथा केचित्तथा केचिद्भयानके॥
कालरात्रौमहापापास्तथा केचिद्भयोत्कटे॥ ३०॥
केचिच्चण्डाभिधे केचिन्महाचण्डाभिधे सदा।
चण्डकोलाहले केचित्प्रचण्डायां च केचन॥ ३१॥
तथा पद्याभिधायां च पद्यावत्यां च केचन।
तथा केचन भीमायां केचिद्भीषणसंज्ञिते॥ ३२॥
कराले तुतथा केचिद्विकराले च केचन।
वज्रेत्रिकोणसंज्ञे च पद्मकोणे च केचन॥ ३३॥
सुदीर्घेवर्तुलाख्ये च सप्तभौमे च केचन।
अष्टभौमे च दीप्तेच रौरवे चैव केचन॥३४॥
केचिदन्येषु पापिष्ठाः पच्यन्ते विवशाभृशम्‌।
अहो कष्टं महाप्राज्ञ पापकर्म फलोदयम्‌॥ ३५॥

——————————————————————————————————————————————————

देवालयादौ॥२६॥ निरया नरका एवाग्नयस्तेषु॥२७॥२८॥ घोरसुघोरादयो नरकविशेषाः॥२९॥ ३४॥ पापकर्मणां फलमुदेति यस्मिन्नरकजाते तत्पापकर्मफलोदयम्‌॥३५॥ इह जन्मनि जन्मान्तरेषु च कृतस्य पापराशेरुपशमोपायस्य दुर्ज्ञानत्वात्पातिम्विकप्रायश्चित्तकरणासंभवात्सकलपापानिर्हरणस्य सुकरमेकमुपायमाह — एवं पापेति॥ “परोक्षमत्मविज्ञानं शाब्दं देशिकपूर्वकम्‌॥ बुद्धिपूर्वकृतंपापं कृत्स्नं दहति

एवं पापफलं ज्ञात्वा मुने ज्ञानरतो भव।
ज्ञानाग्निःसर्वकर्माणि भस्मसात्कुरुते मुने॥ ३६॥
अहो ज्ञानं परित्यज्य मायया परिमोहिताः।
नरकेषु हि पच्यन्ते स्वप्नकल्पेषु दुःखिताः॥ ३७॥
एवं पापफलंभुक्त्वा महादेवप्रसादतः।
पश्चाद्भूमौ विजायन्ते मानुष्ये कर्मसाम्यतः॥ ३८॥

इति श्रीस्कान्दपुराणे सूतसंहितायां ज्ञानयोगखण्डे

पापकर्मफलनिरूपणं नाम नवमोऽध्यायः॥ ९॥

—————

दशमोऽध्यायः॥

१०. पिण्डोत्पत्तिकथनम्‌।

ईश्वर उवाच —

अथातः संप्रवक्ष्यामि देहोत्पत्तिं महामुने।
शृणुवैराग्यसिद्ध्यर्थमात्मशुद्ध्यर्थमेव च॥ १॥

——————————————————————————————————————————————————

वह्निवत्‌॥ अपरोक्षात्मविज्ञानं शाब्दं देशिकपूर्वकम्॥ संसारकारणाज्ञानतमसश्चण्डभास्करः”। इति वक्ष्यति॥ ३६॥ ३७॥ मानुष्ये मनुष्यलोके। कर्मसाम्यतः पुण्यपापकर्मणोरुभयोरपि युगपत्परिपाके। ‘समाभ्यांपुण्यपापाभ्यां मानुष्यं प्राप्नुयान्नरः’ इत्यग्रे वक्ष्यति॥ ३८॥

इति श्रीस्कान्दपुराणे सूतसंहितातात्पर्यदीपिकायां ज्ञानयोगखण्डे

पापकर्मफलनिरूपणं नाम नवमोऽध्यायः॥ ९॥

—————

एवमुत्तमाधिकारिणां वेदान्तवाक्यश्रवणमधमाधिकारिणां च कर्माणि ज्ञानसाधनमभिधाय कर्मभिः प्रक्षीणप्रतिबन्धकदुरितानामपि रजसा विक्षिप्तचेतसां सहसा मनस ऐकाग्र्यासंभवात्तदर्थं नाडीशुद्धिपुरःसरमष्टाङ्गयोगं वक्तुं

पुण्यैर्देवत्वमाप्नोतिपापैः स्थावरतामियात्‌।
समाभ्यां पुण्यपापाभ्यां मानुष्यं प्राप्नुयान्नरः॥ २॥
तत्राऽऽहुत्या रविर्नित्यं वर्धते मुनिसत्तम।
सूर्याद्वृष्टिर्विजायेत वृष्टेरोषधयः क्रमात्‌॥ ३॥
ओषधिभ्योऽन्नमन्नं च नित्यं भुङ्क्ते च मानवः।
पञ्चभूतात्मकं भुक्तं किट्टसारात्मना द्विधा॥४॥
पुनर्द्विधा भवेत्सारः स्थूलसूक्ष्मविभेदतः।
किट्टमूत्रपुरीषास्थिमेदस्नाय्वात्मना भवेत्‌॥ ५॥
पुरीषमूत्रे विसृजेदनिलःक्रमशो मुने।
सारयोः स्थूलभागस्य पञ्चभूतांशकैःक्रमात्॥ ६॥

——————————————————————————————————————————————————

प्रथमं पिण्डोत्पात्तिमाह — अथात इति। यत उक्तपापकर्मफलज्ञानवद्देहोत्पत्तिज्ञानमपि वैराग्योपयोगि, अतस्तदनन्तरमित्यर्थः। देहोत्पत्तिक्रमकथने हि गर्भक्लेशवर्णनाद्वैराग्यं जायते। अत एव च योगसाधनप्रवृत्तिद्वारा ब्रह्मज्ञानमपि सिध्यतीत्यर्थः॥ १॥ पुण्यैर्देवत्वमिति। ‘पुण्येन पुण्यं लोक॑ जयति पापेन पापमुभाभ्यामेव मनुष्यलोकम्‌’इति श्रुते॥२॥ तत्राऽऽहुत्येति। यदाहुः — “अग्नौप्रास्ताऽऽहुतिः सम्यगादित्यमुपतिष्ठते। आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः” इति॥ ३॥ पञ्चभूतात्मकं भूक्तमिति। श्रूयते हि — ‘अन्नमशितंत्रेधा विधीयते। तस्ययः स्थविष्ठो धातुस्तत्पुरीषं भवति, यो मध्यमस्तन्मासं, योऽणिष्ठस्तन्मनः। आपः पीतास्रेधा विधीयन्ते। तासां यः स्थविष्ठो धातुस्तन्मूत्रंभवति, यो मध्यमस्तल्लोहित॑, योऽणिष्ठः स प्राणः। तेजोऽशित॑ त्रेधा विधीयते। तस्य यः स्थविष्ठो धातुस्तदस्थि भवति, यो मध्यमः स मज्जा, योऽणिष्ठः स वागिति। अत्र च भुक्तानां स्थूलादीनामन्नादीनां मनआदिकं प्रत्युपचयमात्रहेतुत्वम्‌। उपादानत्वंतु सूक्ष्मभूतानामेवेति गतखण्डे एकादशाध्याये ‘हिरण्यगर्भं वक्ष्यामि’इत्यत्रोक्तम्‌॥ ४॥ ५॥ क्रमादिति। समनन्तरवक्ष्यमाणावकाशदानादिक्रमेणेत्यर्थः॥ ६॥ तमेव

वर्धन्ते धातवः सर्वे तेषां मध्ये महामुने।
आकाशाद्धातवः सर्वे वर्धन्ते वायुना बलम्‌॥ ७॥
अग्निना वर्धते मज्जा लोहितं वर्धते जलात्‌।
भुवा मांसस्य वृद्धिःस्यादित्थं धातुविवर्धनम्‌॥ ८॥ `
अवशिष्टो रसांशश्च द्विधा सत्त्वगुणेन च।
राजसेन गुणेनापि भवेत्सत्वं तपोधन॥ ९॥
तयोः सत्त्वप्रधानस्य भूमिभागान्महामुने।
घ्राणेन्द्रियस्यापानस्य वर्धकश्च सदा भवेत्‌॥१०॥
उपस्थस्यापि विप्रेन्द्रा जिह्वायाश्च जलांशकः।
अग्निर्वाक्चक्षुषोश्चर्महस्तयोरानिलस्तथा॥ ११॥
आकाशो वर्धकः पादश्रोत्रयोर्मुनिसत्तम।
सर्वांशोवर्धकश्चान्तःकरणप्राणसंज्ञयोः॥ १२॥

——————————————————————————————————————————————————

क्रममाह — आकाशाद्धातव इति। अवकाशदानद्वारा आकाशस्य वृद्धिहेतुता। व्यूहनद्वारा वायोः। पाकद्वारा आग्नेः\। क्लेदनद्वारा जलस्य। घनीभावद्वारा भुव इति द्रष्टव्यम्‌॥ ७॥ ८॥ अवशिष्टः सारयोः सूक्ष्मः। द्विधेति। सत्त्वरजोभेदेन॥९॥ तत्न सात्त्विकस्य सारस्य पञ्चभूतात्मकस्य यः पृथिव्यंशः स प्राणापानयोर्वर्धकः। एवमबाद्यंशा अपि चत्वारश्चतुर्णां ज्ञानकर्मेन्द्रिययुग्मानामित्यर्थः॥ १०॥ ११॥ सर्वांशोवर्धक इति। पृथिव्याद्यंशपञ्चकं सात्त्विकं मनः प्राणवाय्वोरुपष्टम्भकम्। विशेषॆण तु पृथिव्यबंशौ मनःप्राणयोः पाञ्चभौतिकयोरप्यन्नप्राणयोर्विशेषेणोपचयहेतुत्वादेव ‘अन्नमयं हि सौम्य मनः। आपोमयः प्राणः’ इति श्रुतिः, इति गतखण्डे कथितम्‌। ननु ज्ञानेन्द्रियपञ्चकं मनश्च प्रत्येव शक्तिद्वारा सत्त्वस्य हेतुत्वम्‌। कर्मन्द्रियपञ्चकं प्राणं च प्रति तु शक्तिद्वारारजस इति प्रागुक्तम्‌। इह तु मनःप्राणौ ज्ञानकर्मेन्द्रियदशकं च प्रति सत्त्वस्य कारणता कथमुच्यत इति। सत्यम्‌। सूक्ष्म-

विशेषेण महीभागो वर्धको मनसो भवेत्‌।
तोयं प्राणस्य वह्न्यंशो वदनस्य विशेषतः॥ १३॥
वाय्वंशः पाणिमूलस्य पादमूलस्य चाम्बरम्‌।
तथा रजोगुणग्रस्तो रसांशः कालकर्मतः॥ १४॥
भवेद्रक्तं महाप्राज्ञ रक्तान्मांसं भवेत्पुनः
मांसान्मेदस्ततः स्नायुस्तस्मादस्थि समुद्गतम्‌॥ १५॥
ततो मज्जोद्भवस्तस्माद्बलं पश्चात्समुद्गतम्।
बलाच्छोणितसंयुक्तात्प्रजा कालविपाकतः॥ १६॥
ऋतुकाले यदा शुक्रं निर्दोषं योनिसंगतम्।

——————————————————————————————————————————————————

भूतगतयोः सत्त्वरजसोर्मनःप्राणौज्ञानकर्मेन्द्रियाणि च प्रति विभागेनोपादानत्वं तत्रोक्तम्‌। इह तु स्थूलभूतसारतरांशगतस्य सत्त्वस्याविभागेनोपष्टम्भकत्वमुच्यत इति को विरोधः॥ १२॥ ननु तेजोवाय्वाकाशानां मनः प्राणावपि प्रति कारणत्वेतेजोमयी वागित्यादि वागादिमात्रकारणत्वव्यवहारः कथमित्याङ्क्यतदपि विशेषाभिप्रायमित्याह — वह्न्यंशो वदनस्येत्यादि।१३॥ सात्त्विकरसभागस्येन्द्रियमनःप्राणोपष्टम्भकतामभिधाय राजसरसभागस्य रक्तादिक्रमेण धातूत्पादकतामाह — तथा रजोगुणग्रस्तइति॥ १४॥ इन्द्रियाणां सर्गादावेवोत्पन्नत्वात्तानि प्रत्युपष्टम्भकत्वमात्रमत्रोक्तम्‌। धातूनां तु प्रतिशरीरमिदानीमेवोत्पत्तेस्तान्प्रत्युत्पादकत्वामिति विभागः। ‘त्वगसृङ्मांसमेदोस्थिमज्जाशुक्राणि धातवः’इति त्वगादयःशुक्रान्ताः सप्त धातवः कथ्यन्ते। तत्राऽऽद्याः षद्कोशत्वेनोच्यन्ते। मज्जास्थिस्नायवःशुक्राद्राक्तात्त्वङ्मांसशोणितानीति षट्कौशिक॑ नाम देहो भवति। इह त्वन्नरसादेव पच्यमानात्किदसारात्मना त्वग्रसयोरुत्पत्तिरोति किट्टभूतां त्वचमनादृत्य रस एव रक्तं भवतीतितदारभ्य मेदसश्चरमावस्थास्नायुपदेन पृथग्धात्वात्मना कोशात्मना च स्वीकृत्यकोशगतषट्संख्या धातुगतसप्तसंख्या चोति द्रष्टव्यम्‌॥१५॥ बलमिति। शुक्रम्‌। बलाच्छोणितसंयुक्तादिति। मातृबीजसहितात्पितृबी-

कदाचिन्मारुतेनैव स्त्रीरक्तेनैकतामियात्‌॥ १७॥
शुक्लशोणितसंयुक्तंकललंबुद्बुदं तथा।
पिण्डं भवेद्दृढंतद्वच्छिरः पश्चात्पदद्वयम्‌॥ १८॥
तथा पार्श्वंभवेत्‌ पश्चात्तथा गुल्फादिकं तथा।
तथाऽङ्गुल्यः कटी कुक्षिस्तद्वत्पृष्ठास्थिसंधयः।
चक्षुषी नासिका श्रोत्रे पश्चाज्जीवप्रकाशनम्‌॥ १९॥
अड्गप्रत्यङ्गसंपूर्णं भवेत्तत्क्रमशो मुने।
एकाहात्सप्तरात्रेण तथा पञ्चदशेन च॥ २०॥
एकद्वित्रिक्रमेणैव मासानां तद्विवर्धते।
इत्थं परिणतो गर्भः पूर्वकर्मवशान्मुने॥ २१॥
महद्दुःखमवाप्नोति रौरवे नरके यथा।

—————————————————————————————————————————————————————————————

जात्‌। कालविपाकत इति। स कललादिपरिणामक्रमेण॥१६॥ तदाह — ऋतुकाल इत्यादिना। निर्दोषमिति। धातुषु नित्यं स्थितानामपि वातपित्तश्लेष्मणां प्रतिकूलत्वे सत्येव दोषत्वम्‌। अनुकूलत्वे तु गुणत्वमेव। यदुक्तम्‌ — ‘कालेन जन्तुर्भवति दोषास्वनुगुणा यदि’इति। मारुतेनेति। तदुक्तमागमे — ‘स्वस्थानतश्च्युताच्छुक्राद्बिन्दुमादाय मारुतःः। गर्भाशय॑ प्रापयति यदा तुल्यंतदा परः॥ आर्तवात्मसमं बीजमादायास्याश्च मूलतः। यदा गर्भाशयं नेष्यत्यदः संमिश्रयेन्मरुत्‌` इति॥ १७– १९॥ ऊक्तकललादिपरिणामस्यकालपरिमाणमाह — एकाहात्सप्तरात्रेणेत्यादि। तदुक्तं गर्भोपनिषदि— एकरात्रोषितं कललंभवति, सप्तरात्रोषितं बुद्बुदं भवति, अर्धमास्ताभ्यन्तरेण पिण्डो भवति, मासाभ्यन्तरेण कठिनोभवति, मासद्वयेन शिरः कुरुते, मासत्रयेण पादप्रदेशो भवति। अथ चतुर्थे मासेऽङ्गुलिजठरकटिप्रदेशोभवति, पञ्चमे मासे पृष्ठवंशोभवति, षण्मासे नासाक्षिश्रोत्राणि भवन्ति, सप्तमे मासे जीवेन संयुक्तो भवति, अष्टमे मासे सर्वसंपूर्णो भवति’॥२०॥२१॥

तां पीडां च विजानाति तदा जातिस्मरो भवेत्‌॥२२॥
नानायोनिसहस्राणि पुरा प्राप्तनि वै मया।
आहारा विविधा भुक्ताः पीताश्च विविधाः स्तनाः॥२३॥
जातश्चैव मृतश्चैव जन्मचैव पुनः पुनः।
अहो दुःखोदधौमग्नोपश्यामि प्रतिक्रियाम्‌।
यदि योन्याः प्रमुञ्चामि तं प्रपद्ये महेश्वरम्‌॥ २४॥
अध्येष्यामि सदा वेदान्साङ्गाञ्शुश्रूषया गुरोः।
नित्यंनैमित्तिकं कर्मश्रद्धयैव करोम्यहम्‌॥ २५॥
कृतदारः पुनर्यज्ञान्करोम्यात्मविशुद्धये।
यज्ञैर्दग्धमलोभूत्वा ज्ञात्वासंसारहेयताम्‌॥ २६॥
वैराग्यातिशयेनैव मोक्षकामनया पुनः॥
निरस्य सर्वकर्माणि शान्तो भूत्वा जितेन्द्रियः॥२७॥
विरजानलंज भस्म गृहीत्वा चाग्निहोत्रजम्।
अग्निरित्यादिभिर्मन्त्रैःषड्भिराथर्वणैःक्रमात्‌ ॥२८॥
विमृज्याङ्गानि मूर्धादिचरणान्तानि सादरम्‌। `
समुद्धूल्य सदाऽऽचार्यं प्रणिपत्याऽऽत्मविद्यया॥ २९॥

——————————————————————————————————————————————————

जातिस्मर इति।कारणकर्मपरिज्ञानेन दुःखाभिवृद्धये तान्येवं कर्माणि पूर्वजन्मान्तराण्यपि स्मारयन्तीत्यर्थः। श्रूयते हि तत्रैव — ‘नवमे मासि सर्वलक्षणसंपूर्णो भवति, पूर्वजातीः स्मरति, कृताकृतं च कर्म भवति, शुभाशुभं च कर्मविन्दति’ इति॥ २२॥ गर्भोपनिषदर्थं संगृह्णाति —नानायोनीत्यादि । इत्थं हि श्रूयते — ‘नानायोनिसहस्राणि दृष्टाश्चैव ततो मया। आहाराविविधा भुक्ताः पीताश्च विविधाः स्तनाः॥ जातश्चैव मृतश्चैव जन्म चैव पुनः पुनः। अहो दुःखोदधौ मग्नो न पश्यामि प्रतिक्रियाम्‌ । यदि योन्याः प्रमुच्येऽहं सांख्यं

संसारसागरं घोरं लङ्घयाम्यहमात्मनः।
इत्थं गर्भगतः स्मृत्वा योनियन्त्रप्रपीडनात्‌॥ ३०॥
जायते वायुना याति विस्मृतिं वैष्णवेन च।
अज्ञाने सति रागाद्या धर्माधर्मौच तद्वशात्‌॥ ३१॥
धर्माधर्मवशात्पुंसां शरीरमुपजायते।
ज्ञानेनैव निवृत्तिः स्यादज्ञानस्य न कर्मणा॥ ३२॥
यद्यात्मा मलिनः कर्ताभोक्ता च स्यात्स्वभावतः।
नास्तितस्य विनिर्मोक्षः संसाराज्जन्मकोटिभिः॥३३॥
अत्माऽयं केवलःस्वच्छः शान्तः सूक्ष्मः सनातनः।
अस्ति सर्वान्तरः साक्षी चिन्मात्रसुखविग्रहः॥ ३४॥
अयं स भगवानीशः स्वयंज्योतिः सनातनः।
अस्माद्धिजायते विश्वमत्रैव प्रविलीयते॥ ३५॥
अयं ब्रह्मा शिवो विष्णुरयमिन्द्रः प्रजापतिः।
अयं वायुरयं चाग्निरयं सर्वाश्च देवताः॥ ३६॥
य एवंभूतमात्मानमन्यथा प्रतिपद्यते।

———————————————————————————————————————————योगं समाश्रये। अशुभक्षयकर्तारंफलमुक्तिप्रदायिनम्‌। यदि योन्याः प्रमुच्येऽहं तं प्रपद्ये महेश्वरम्‌’ इत्यादि॥२३—२९॥ इत्थं गर्भगत इति। तदाह सैवोपनिषत्‌—‘योनिद्वारेण संप्राप्तेयन्त्रेणाऽऽपीड्यमानो महता दुःखेन जातमात्रस्तु वैष्णवेन वायुनासंस्पृशति तदा न स्मरति’ इति॥३०-३२॥ यद्यात्मा मलिन इति। मलिनसत्त्वप्रधानमायोपाधिकत्वमात्मनो मालिन्यं तन्निबन्धनश्च भोग इति प्रागुक्तं तद्यदि स्वाभाविकं स्यात्तदा न मुक्तिरित्यर्थः॥३३॥ कथं तर्हिविनिर्मोक्षस्तत्राऽऽह—आत्माऽयं केवलइति। अनेन शोधितस्त्वंपदार्थो दर्शितः॥३४॥ तस्यतत्पदार्थतादात्म्यरूप॑ महावाक्यार्थमाह—अयं स भगवानिति॥ ३५॥ अयंब्रह्मेति। श्रुयते हि ‘स ब्रह्म शिवःस

किं तेन न कृतं पापं चौरेणाऽऽत्मापहारिणा॥ ३७॥
ब्राह्मण्यं प्राप्य लोकेऽस्मिन्नमूकोऽबधिरो भवेत्‌।
नापक्रामति संसारात्स खलु ब्रह्महा भवेत्‌ ॥ ३८॥
आत्मानं चेद्विजानीयादयमस्मीति पूरुषः।
किमिच्छन्कस्य कामाय शरीरमनु संज्वरेत्‌॥ ३९ ॥
भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः।
क्षीयन्ते चास्य कर्मणि दृष्टे ह्यात्मनि सुव्रत॥ ४० ॥
यतो वाचो निवर्तन्ते अप्राप्य मनसा सह।
ज्ञात्वाऽऽत्मानं परानन्दं न बिभेति कुतश्चन॥ ४१॥
तस्मात्सर्वप्रयत्नेन श्रद्धयागुरुभक्तितः।
उत्सृज्य प्राकृतं भावं शिवोऽहमिति भावयेत्‌॥४२॥
एतद्धिजन्मसाफल्यं ब्राह्मणानां विशेषतः।
प्राप्यैतत्कृतकृत्योहि द्विजो भवति नान्यथा॥ ४३॥
सर्ववेवेदान्तसर्वस्वं मया प्रोक्तं बृहस्पते।

———————————————————————————————————————————हरिः सेन्द्रः सोऽक्षरः परमः स्वराट्‌’इति॥३६॥३७॥ सत्यपि वेदान्तश्रवणसामर्थ्ये श्रवणमकुर्वतोदोषमाह—ब्राह्मण्यं प्राप्येति। अमूकः शास्त्राण्यध्येतुं शक्तः। अबधिरः श्रोतुं क्षमः। इत्थं ज्ञानसामग्रीसद्भावेऽपि, आलस्यादिना सच्चिदानन्दैकरसमात्मानमजानानः पुनः पुनः संसारे पातयति यः स ब्रह्मघातक इत्यर्थः॥३८॥ अविदुषः संसारप्राप्त्याऽऽत्मघातकतामुक्त्वा विदुषस्तद्विरहमाह—आत्मानं चेदिति॥३९॥ ज्ञानिनस्तापहेतुशरीरेन्दियादिसंबन्धविरहे कारणमाह—भिद्यतइति ॥४०॥ कुतश्चनेति। विहिताकरणादविहितकरणद्वेत्यर्थः। श्रूयते हि—‘एतं ह वाव न तपति किमहं साधु नाकरवं किमहं पापमकरवम्’ इति ॥४१-४३॥’ श्रद्धयैवेति। श्रद्धा हि समाधिलाभद्वारापुरुषार्थसा

श्रद्धयैव विजानीहि श्रद्धा सर्वत्र कारणम्‌॥ ४४॥

सूत उवाच—

इति श्रुत्वा मुनिश्रेष्ठा गिरां नाथः समाहितः।
स्तोतुमारभते भक्त्यादेवदेवं त्रियम्बकम्‌॥ ४५॥

बृहस्पतिरुवाच—

नमः शिवाय सोमाय सपुत्राय त्रिशूलिने।
प्रधानपुरुषेशाय सृष्टिस्थित्यन्तहेतवे॥ ४६॥
सर्वज्ञाय वरेण्याय शंकरायाऽऽर्तिहारिणे।
नमो वेदान्तवेद्याय चिन्मात्राय महात्मने॥ ४७॥
देवदेवाय देवाय नमो विश्वेश्वराय च।
ऋतं सत्यं परं ब्रह्म पुरुषं कृष्णपिङ्गलम्‌॥ ४८॥
ऊर्ध्वरेतं विरूपाक्षं विश्वरूपं नमाम्यहम्‌।
विश्वं विश्वाधिकं रुद्रं विश्वमूर्तिं वृषध्वजम्‌॥ ४९॥
नमामि सत्यविज्ञानं हृदयाकाशमध्यगम्।
चन्द्रः सूर्यस्तथेन्द्रश्च वह्निश्च यमसंज्ञितः॥ ५०॥
निर्ऋतिर्वरणो वायुर्धनदो रुद्रसंज्ञितः।
स्थूला मूर्तिर्महेशस्य तया व्याप्तमिदं जगत्‌॥ ५१॥
यस्य प्रसादलेशेन देवा देवत्वमागताः।
तं नमामि महेशानं सर्वज्ञमपराजितम्‌॥ ५२॥
नमो दिग्वाससे तुभ्यमम्बिकापतये नमः।
उमायाः पतये तुभ्यमिशानाय नमो नमः॥ ५३॥

———————————————————————————————————————————धनमुक्ता पातञ्जले ‘श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वक इतरेषाम्‌’ इति॥४४-५३॥

नमो नमो नमस्तुभ्यं पुनर्भूयो नमो नमः।
ओंकारान्ताय सूक्ष्माय मायातीताय ते नमः॥ ५४॥

नमो नमः कारणकारणाय ते
नमो नमो मङ्गलमङ्गलात्मने।
नमो नमो वेदविदां मनीषिणा-
मुपासनीयाय नमो नमो नमः॥ ५५॥

इति श्रीस्कान्दपुराणे सूतसंहितायां ज्ञानयोगखण्डे

पिण्डोत्पत्तिकथनं नाम दशमोऽध्यायः॥ १०॥

—————

एकादशोऽध्यायः॥

११. नाडीचक्रनिरूपणम्।

ईश्वर उवाच—

अथातः संप्रवक्ष्यामि नाडीचक्रमनुत्तमम्‌।
श्रद्धया गुरुभक्त्या च विद्धिवाचस्पतेऽधुना॥ १॥
शरीरं तावदेव स्यात्षण्णवत्यङ्गुलात्मकम्‌।
मनुष्याणां मुनिश्रेष्ठ स्वाङ्गुलीभिरिति श्रुतिः॥ २॥

—————————————————————————————————————————

ओंकारान्तायेति। ओंकारस्य ह्यन्तोनादस्तत्प्रतिपाद्यतया निष्कलः शिवोऽपि तथोच्यते॥५४॥५५॥

इति श्रीसूतसंहितातात्पर्यदीपिकायां ज्ञानयोगखण्डे पिण्डोत्पत्ति-

कथनं नाम दशमोऽध्यायः॥१०॥

—————

यतः शरीरसंस्थानज्ञानाधीनं नाडीज्ञानं तदधीनं च तच्छोधनविज्ञाानमतः शरीरोत्पत्तिकथनानन्तरं नाडीचक्राभिधानंप्रतिजानीते—अथात इति॥१॥ षण्णवत्यङ्गुलेति। अत्राङ्गुलीशब्देन स्वशरीरायामस्यषण्णवति-

देहमध्ये शिखिस्थानं तप्तजाम्बूनदप्रभम्‌।
त्रिकोणं मनुजानां तु सत्यमुक्तं बृहस्पते॥ ३॥
गुदात्तु द्व्यङ्गुलादूर्ध्वंमेढ्रात्तु द्व्यङ्गुलादधः।
देहमध्यं विजानीहि मनुष्याणां बृहस्पते॥ ४॥
कन्दस्थानं मुनिश्रेष्ठ मूलाधारान्नवाङ्गुलम्‌।
चतुरङ़्गुलमायामविस्तरं मुनिसत्तम॥ ५॥
कुक्कुटाण्डवदाकारं भूषितं च त्वगादिभिः।
तन्मध्यंनाभिरित्युक्तं मुने वेदान्तवेदिभिः॥ ६॥
कन्दमध्ये स्थिता नाडी सुषुम्नेति प्रकीर्तिता।
तिष्ठन्ति परितस्तस्या नाडयो मुनिसत्तम॥ ७॥
द्विसप्ततिसहस्राणि तासां मुख्याश्चतुर्दश।
सुषुम्ना पिङ्गला तद्वदिडा चैव सरस्वती॥ ८॥
पूषा च वारुणी चैव हस्तिजिह्वायशस्विनी।
अलम्बुसा कुहूश्चैब विश्वोदारा पयस्विनी॥ ९॥
शङ्खिनी चैव गान्धारी इति मुख्याश्चतुर्दश।
आसां मुख्यतमास्तिस्रस्तिसृष्वेका परा मुने॥ १०॥

———————————————————————————————————————————तमांशोऽभिधीयते॥२॥ तादृशानामंशानामप्यष्टचत्वारिंशत्तममधस्तादुपरिष्टाच्चपरित्यज्य मध्ये मूलाधारस्तमाह—देहमध्य इति। शिखिस्थानमग्निस्थानम्। तदाहुरागमिकाः—“षण्णवत्यंगुलोत्सेधोदेहः स्वाङ्गुलिमानतः॥ पाय्वन्तद्व्यङ्गुलादूर्ध्वंलिङ्गाच्च द्व्यङ्गुलादधः॥ मध्यमेकाङ्गुलंयच्च देहमध्यं प्रचक्षते” इति॥३॥४॥ कन्दस्थानमित्यादि। तदुक्तमन्यत्र—“नवाङ्गुलोर्ध्वतस्तस्मादस्तिकन्दोऽण्डसंनिभः। चतुरङ्गुलिविस्तार उत्सेधेनापि तत्समः॥ त्वगास्थिभूषितःकन्दस्तन्मध्यं नाभिरुच्यते” इति॥५॥६॥

ब्रह्मनाडीति सा प्रोक्ता मुने वेदान्तवेदिभिः।
पृष्ठमध्ये स्थितेनास्थ्ना वीणादण्डेन सुव्रत॥ ११॥
सह मस्तकपर्यन्तं सुषम्ना सुप्रतिष्ठिता।
नाभिकन्दादधः स्थानं कुण्डल्या द्व्यङ्गुलं मुने॥१२॥
अष्टप्रकृतिरूपा सा कुण्डली मुनिसत्तम।
यथावद्वायुचेष्टां च जलान्नादीनि नित्यशः॥ १३॥
परितः कन्दपार्श्वेषुनिरुध्यैव सदा स्थिता।

———————————————————————————————————————————
पवनस्य सुषुम्नाप्रवेशलक्षणं योगमग्रेविवक्षुः सुषुम्नाया नाड्यन्तरेभ्यः प्राधान्यमाह—कन्दमध्य इति॥७-१०॥ ब्रह्मनाडीति। ब्रह्मलोकप्राप्तिद्वारत्वात्‌। तथाचाऽऽथर्वणोपानिषदि—“शतं चैका च हृदयस्य नाड्यस्‍तासां मुर्धानमभिनिःसृतैका। तयोर्ध्वमायन्नमृतत्वमेति विष्वङ्ङन्या उत्क्रमणे भवन्ति” इति। अमृतत्वंह्यत्र ब्रह्मलोकप्राप्तिर्मता। “आभूतसंप्लवं स्थानममृतत्वं हि भाष्यते” इत्याहुः। उक्तानां नाडीनां संस्थानमभिदिधित्सुः प्रथमं सुषुम्नामाह—पृष्ठमध्य इति॥११॥ पवनोहि मूलाधारादुत्थितइडापिङ्गलाभ्यां बहिरस्तमेति। तदुक्तम्—“देहेऽपि मूलाधारेऽस्मिन्समुद्यति समीरणः। नाडीभ्यामस्तममभ्येति घ्राणतोद्विषडङ्गुले” इति। तत्र मूलाधारादुत्थितस्य वायोः स्वसंमुखावस्थितमध्यवर्तिसुषुम्नाद्वारपरित्यागेन पार्श्वेस्थितयोरिडापिङ्गलयोःसचारे कारणं सुषुम्नाद्वारस्य कुण्डल्या स्वफणाग्रेणापिधानमभिधातुं कुण्डल्याः स्थानं स्वरूपं व्यापारं च क्रमेणाऽऽह—नाभिकन्दादिति॥१२॥ अष्टप्रकृतीति। “मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त” इत्युक्ता अष्टौप्रकृतयः। तत्रमूलप्रकृत्यात्मिका कुण्डली तस्याः सुषुम्नावेष्टनानि महदादिसप्तप्रकृतिविकृत्यात्मकानीत्यष्टप्रकृतिरूपता। सा ह्यष्टधाकुण्डलीकृता तिष्ठति। यदाहुः—“कुण्डली परितस्तस्मादष्टधाकुण्डलीकृता। अष्टप्रकृतिरूपा सा सुप्तसर्पसमाकृतिः”इति। एवं स्वरूपमुक्त्वाव्यापारमाह—यथावदिति॥१३॥ मूलाधारदुत्थितस्य पवनस्यसाक्षात्स्वसंमुखसुषुम्नाद्वारसंचारादि यथावद्वायुचेष्ट-

स्वमुखेन सदाऽऽवेष्ट्यब्रह्मरन्ध्रमुखं मुने॥ १४॥
सुषुम्नाया इडा सव्ये दक्षिणे पिङ्गला स्थिता।
सरस्वती कुहूश्चैव सुषुम्नापार्श्वयोः स्थिते॥ १५॥
गान्धारी हस्तिजिह्वाच इडायाः पूर्वपार्श्वयोः।
पूषा यशास्विनी चैव पिङ्गलापृष्ठपूर्वयोः॥ १६॥
कुह्वाश्च हस्तिजिह्वाया मध्ये विश्वोदरीस्थिता।
यशस्विन्या कुहोर्मध्ये वारुणी सुप्रतिष्ठिता॥ १७॥
पूषायाश्च सरस्वत्यामध्ये प्रोक्ता पयस्विनी।
गान्धारायाः सरस्वत्या मध्ये प्रोक्ता च शङ्खिनी॥१८॥
अलम्बुसा स्थिता पायुपर्यन्तं कन्दमध्यतः।
पूर्वभागे सुषुम्नाया मेढ्रान्तं संस्थिता कुहूः॥ १९॥
अधश्चोर्ध्वंस्थिता नाडी वारुणी सर्वगामिनी।

———————————————————————————————————————————
तामियं निरुणद्धि। कोष्ठगतस्य ह्यशितपीतादेर्मूलाधारस्थज्वलनव्यवधायकत्वेन त्वरया पाकप्रतिबन्धो जलान्नादीनां निरोधः। स्वमुखेनेति। मुखेन सुषुम्नामूलरन्ध्रंपिधायाष्टधाकुण्डलीभावेन स्वग्रीवां परिवेष्ट्य शेषकायं बंशास्थिसंबन्धमुपरि नीत्वा पुच्छेन ब्रह्मरन्ध्रंपिदधातीत्यर्थः। तदुक्तम्‌—“कन्दनाभे रधोरन्ध्रेनिधाय स्वफणां दृढम्‌। संनिरुध्य मरुन्मार्गं पुच्छेन स्वमुखं तथा॥ ब्रह्मरन्ध्रंच संवेष्ट्यपृष्ठास्थ्ना सह सुस्थिता” इति॥१४॥ उद्घाटनीयद्वारायाः सुषुम्नायाःसंस्थानमभिधाय निरोद्धव्यद्वारयोरिडापिङ्गलयोराह—सुषुम्नायाइति। सरस्वतीत्यादिनाडीस्थानसंनिवे- शाभिधानस्य प्रयोजनं प्रमादात्तत्र प्रविष्टस्य पवनस्य प्रवेशमार्गेणैवापकृष्य सुषुम्नायोजनमिति। सरस्वतीति। सुषुम्नायाःपुरतः सरस्वती। तदुक्तम्‌—“सुषुम्नापूर्वभागस्था जिह्वान्तस्था सरस्वती। पृष्ठतश्च कुहूः” इति॥१५-१८॥पूर्वभागे सुषुम्नाया इति। पृष्ठत उत्पन्नाऽपि सुषुम्नायाःपूर्वभागं समागत्य मेढ्रान्तंगतेत्यर्थः॥१९॥

पिङ्गलासंज्ञिता नाडी याम्यनासान्तमिष्यते॥ २०॥
इडा चोत्तरनासान्तं स्थिता वाचस्पते तथा।
यशस्विनी च याम्यस्य पादाङ्गुष्ठान्तमिष्यते॥ २१॥
पूषा याम्याक्षिपर्यन्तं पिङ्गलायास्तु पृष्ठतः।
पयस्विनी तथा याम्यकर्णान्तं प्रोच्यते बुधैः॥ २२॥
सरस्वती तथा चोर्ध्वमाजिह्वायाः स्थिता मुने।
हस्तिजिह्वा तथा सव्यपादाङ्गुष्ठान्तमिष्यते॥ २३॥
शङ्खिनी नाम या नाडी सव्यकर्णान्तमुच्यते।
गान्धारी सव्यनेत्रान्ता प्रोक्ता वेदान्तवेदिभिः॥ २४॥
विश्वोदराभिधा नाडी तुण्डमध्ये व्यवस्थिता
प्राणोऽपानस्तथा व्यानः समानोदान एव च॥ २५॥
नागः कूर्मश्च कृकरो देवदत्तो धनञ्जयः।
एते नाडीषु सर्वासु चरन्ति दश वायवः॥ २६॥
तेषु प्राणादयः पञ्च मुख्याः पञ्च च सुव्रत।
प्राणसंज्ञस्तथाऽपानः पूज्यः प्राणस्तयोर्मुने॥ २७॥
आस्यनासिकयोर्मध्ये नाभिमध्ये तथा हृदि।
प्राणसंज्ञोऽनिलोनित्यं वर्तते मुनिसत्तम॥ २८॥
अपानो वर्तते नित्यं गुदमेढ्रोरुसंधिषु।

———————————————————————————————————————————
२०॥ याम्यस्य पादेति।याम्यस्य पादस्य योऽङ्गुष्ठस्तत्पर्यन्तमित्यर्थः॥२१॥—२५॥ दश वायव इति। तत्राऽऽद्या नव देहस्थितिहेतवः। दशमो धनञ्जयस्तु लोकिकः। यदाहुः—“धनंजयाख्यो देहेऽस्मिन्कुर्याद्बहुविधान्‌ रवान्‌। सतु लौकिकवायुत्वान्मृतं च न विमुञ्चति”इति॥२६।२७॥ व्यापिनामपि प्राणानां स्थानविशेषेषु कार्यभेदकरतामभिप्रेत्याऽऽहा।आस्यनासिकयोरिति॥२८॥

उदरेवृषणे कट्यां नाभौजङ्घेच सुव्रत॥ २९॥
व्यानः श्रोत्राक्षिमध्ये च कृकट्यङ्गुष्ठयोरपि।
घ्राणस्थाने गले चैव वर्तते मुनिपुङ्गव॥ ३०॥
उदानः सर्वसंधिस्थो विज्ञेयः पादहस्तयोः।
समानः सर्वदेहेषु व्याप्य तिष्ठत्यसंशयः॥ ३१॥
नागादिवायवः पञ्च त्वगस्थ्यादिषु संस्थिताः।
उद्गारादिगुणः प्रोक्तो नागाख्यस्य बृहस्पते॥ ३२॥
निमीलनादि कूर्मस्य क्षुतं तु कृकरस्य च।
देवदत्तस्य कर्मस्यात्तन्द्रीकर्ममहामुने॥ ३३॥
धनञ्ज्ञयस्य शोभादि कर्मप्रोक्तं बृहस्पते।
निःश्वासोच्छ्वासकासादि प्राणकर्मबृहस्पते॥ ३४॥
अपानाख्यस्य वायोस्तु विण्मूत्रादिविसर्जनम्‌।
समानः सर्वसामीप्यं करोति मुनिसत्तम॥ ३५॥
उदान उर्ध्वगमनं करोत्येव न संशयः।
व्यानो विवादकृत्प्रोक्तो मुने वेदान्तवेदिभिः॥ ३६॥
सुषुम्नायाः शिवो देव इडाया देवता हरिः।

———————————————————————————————————————————
ऊरुसंधिर्वङ्क्षणः॥२९॥३०॥ नागादिवायव इति। नागादीनां बाह्मकोशवर्तित्वं प्राणादीनामन्तःकोशवर्तित्वं चोक्तमन्यत्न—“एते प्राणादयः पञ्च मध्यकोशेषु संस्थिताः। त्वगादिपञ्चकोशस्थानागाद्या बाह्यवायवः”इति॥३२—३५॥ विवादकृदिति। विवादः प्राणापानयोः परस्परप्रतिबन्धादुभयाभावः। तदुक्तंछान्दोग्ये—“यद्वैप्राणिति स प्राणो यदपानिति सोऽपानोऽथयः प्राणापानयोःसंधिः स व्यानः यो व्यानः सा वाक्तस्मादप्राणन्ननपानन्वाचमभिव्याहरति” इत्यादि॥३६॥ उक्तनाडीनामधिष्ठातृदेवता

पिङ्गलाया विरिञ्चिः स्यात्सरस्वत्या विराण्मुने॥ ३७॥
पूषा दिग्देवता प्रोक्ता वारुणी वायुदेवता।
हस्तिजिह्वाभिधायास्तु वरुणो देवता भवेत्‌॥ ३८॥
यशस्विन्या मुनिश्रेष्ठभगवान्भास्करो मुने।
अलम्बुसाभिमान्यात्मा वरुणः परिकीर्तितः॥ ३९॥
कुहोः कुर्देवता प्रोक्ता गान्धारी चन्द्रदेवता।
शङ्खिन्याश्चन्द्रमास्तद्वत्पयस्विन्याः प्रजापतिः॥ ४०॥
विश्वोदराभिधायास्तुभगवान्पावकः पतिः।
इडायां चन्द्रमा नित्यं चरत्येव माहामुने॥ ४१॥
पिङ्गलायां रविस्तद्वन्मुने वेदविदां वर।
पिङ्गलाया इडायां तु वायोः संक्रमणं तु यत्‌॥ ४२॥

———————————————————————————————————————————

आह—सुषुम्नायाःशिव इत्यादि॥३७—४०॥ दिनरात्रिषु विषुवायन ग्रहणानि देहे दर्शयितुं तेषां चन्द्रसुर्यायत्तत्वात्तयोरेव तावद्देहेऽवस्थानमाह—इडायां चन्द्रमा इति। अत एवेडायां पवनस्योद्गमकालोरात्रिः। प्रवेशकालस्त्वहः। रात्रावहनि च परिपूर्णस्यचन्द्रस्योदयास्तमयनियमात्‌। पिङ्गलायां तुपवनस्योद्गमो दिनं प्रवेशो रात्रिः। तदुक्तं प्रपञ्चसारे— “देहेऽपि मूलाधारेऽस्मिन्समुद्यति समीरणः। नाडीभ्यामस्तमभ्येति घ्राणतोद्विषडङगुले। अहोरात्रमिनेन्दुभ्यामूर्ध्वाधोवृत्तिरिष्यते” इति॥४१॥ पिङ्गलाया इति। प्राङ्मुखस्थितस्य हि पुरुषस्य पिङ्गला दक्षिणदिशिभवति। इडा तृत्तरदिशि। मकरायनसमये च दक्षिणदिगवस्थितः सूर्यःकर्कटायनपर्यन्तं नित्यमुत्तरतो गच्छतीति तदुत्तरायणं यथा एवं पिङ्गलायां स्थितः पवनः सुर्यात्मायावत्साकल्येनेडां संक्रामति तावदुत्तरायणमित्यर्थः। इत्थं दक्षिणायनमपि द्रष्टव्यम्‌। तदुक्तं प्रपञ्चसारे—“वामदक्षिणनाडीभ्यां स्यादुदग्दक्षिणायनम्‌” इति। कालोत्तरे च—‘उत्तरं दक्षिणं प्रोक्तं वामदक्षिणसंज्ञितम्‌’

तदुत्तरायणं प्रोक्तं मुने वेदार्थवेदिभिः।
इडायाः पिङ्गलायां तु प्राणसंक्रमणं मुने॥ ४३॥
दक्षिणायनमित्युक्तं पिङ्गलायामिति श्रुतिः।
इडापिङ्गलयोःसंधिं यदा प्राणः समागतः॥ ४४॥
अमावास्या तदा प्रोक्ता देहे देहभृतां वर।
मूलाधारं यदा प्राणः प्रविष्टः पण्डितोत्तम॥ ४५॥
तदाऽऽद्यंविषुवं प्रोक्तं तापसैस्तापसोत्तम।
प्राणसंज्ञो मुनिश्रेष्ठ मूर्धानं प्रविशेद्यदा॥ ४६॥
तदाऽन्त्यं विषुवं प्रोक्तं धार्मिकैस्तत्त्वचिन्तकैः।
निःश्वासोछ्वासनं सर्वं मासानां संक्रमो भवेत्‌॥ ४७॥

———————————————————————————————————————————

इति॥४२॥४३॥ इडापिङ्गलयोरिति। अमावास्यायां हि चन्द्रार्कौ सहैवोदयंसहैवास्तं च प्रतिपद्येते। इडावर्ती प्राणश्चन्द्रःपिङ्गलावर्ती च सूर्यः संधिसमये चोभयत्र प्राणः सम एव वर्तमानः सहैवोदेति सहैव चास्तमेतीति साऽमावास्या॥४४॥मूलाधारमिति। सूर्योहि प्राणः। तथा च प्रश्नोपनिषदि— “आदित्यो ह वै प्राणो रयिरेव चन्द्रमाः” इति। स च प्राणो मूलाधारप्रवेशानन्तरमुदेति। मूर्धप्रवेशानन्तरंघ्राणतो द्विषडङ्गुलेचास्तमेति। देवानां चाऽऽद्यविषुवे मेषायने सूर्योदयः। विषुवान्तरे तुलायने चास्तमय इति॥४५॥ प्राणोदयास्तमयसमयौविषुवद्वयत्वेनोक्तौ। अत्रामावास्यात्वेनोक्तो यःसंधिसमयः स एव विषुवद्वयत्वेनोक्तौ। द्विशतिकालोत्तरे—“मध्ये तु विषुवं प्रोक्तं पुटद्वयविनिःसृतम्‌” इति। तत्र दक्षिणाद्वामगमनसमये यः संधिःस उत्तरायणमध्यवर्तित्वादाद्यविषुवकालः। इतरस्तु दक्षिणायनमध्यवर्तित्वात्‌ द्वितीयविषुबकाल इति॥४६॥ संक्रमकालमाह—निःश्वासेति। इडाचारिणां निःश्वासोच्छ्वासानां ततः सकाशाद्यः सुषुम्नाप्रवेशकालस्ततश्चपुनः पिङ्गलाप्रवेशकालस्ततः पुनः सुषुम्नाप्रवेशकालःपुनरिडाप्रवेशकाल इति। तेऽविशेषेण संक्रमकाला इत्यर्थः। तदुक्तं कालोत्तरे—‘संक्रान्तिःपुनरस्यैव स्वस्थानानिलयोगतः’

इडायाः कुण्डलीस्थानं यदा प्राणःसमागतः।
सोमग्रहणमित्युक्तं तदा तत्त्वविदां वर॥ ४८॥
तथा पिङ्गलया प्राणः कुण्डलीस्थानमागतः।
यदा तदा भवेत्सूर्यग्रहणं मुनिसत्तम॥ ४९॥
श्रीपर्वतः शिरस्थाने केदारं तु ललाटके।
वाराणसी महाप्राज्ञ भ्रुवोर्घ्राणस्य मध्यमे॥ ५०॥
भ्रुवोर्घ्राणस्य यः संधिरिति जाबालकी श्रुतिः।
कुरुक्षेत्रं कुचस्थाने प्रयागो हृत्सरोरुहे॥
चिदम्बरं च हृन्मध्य आधारः कमलालयः॥ ५१॥

———————————————————————————————————————————

इति। स्वस्यानिलस्य यानीडपिङ्गलासुषुम्नास्थानानि तेषां तद्योगत इत्यर्थः। तथा च स्पष्टीकृतं तत्रैव—“इडाच पिङ्गला चैव अमा चैव तृतीयका। सुषुम्ना मध्यमे ह्यङ्ग इडा वामे प्रकीर्तिता। पिङ्गला दक्षिणे ह्यङ्गएषु संक्रान्तिरिष्यते”इति। अमा सुषुम्ना। तत्र हि सूर्याचन्द्रमसोः सहैवोदयास्तमयौ भवत इति॥४७॥ इडाया इति। इडासंचरिणः प्राणस्य चन्द्रात्मकत्वात्तस्य सुप्तसर्पाकारकुण्डलीस्थानेऽन्तर्हितत्वात्स सोमग्रहणकालइत्यर्थः॥४८॥ तथा पिङ्गलयेति। पिङ्गलाचारिणः प्राणस्य सूर्यात्मकत्वातपूर्ववदेव तस्यापि ग्रहणम्‌॥४९॥ योगिनः शरीरगतस्थानभेदानामेवतत्तत्तीर्थविशेषतामाह—श्रीपर्वत इति॥५०॥ जाबालकी श्रुतिरिति। “अथ हैनमत्रिः पप्रच्छ याज्ञवल्क्यंय एषोऽनन्तोऽव्यक्त आत्मा तं कथमहं विजानीयामिति। स होवाच याज्ञवल्क्यःसोऽविमुक्तः उपास्यो य एषोऽनन्तोऽव्यक्त आत्मा सोऽविमुक्ते प्रतिष्ठित इति। सोऽविमुक्तः कस्मिन्प्रतिष्ठित इति वरणायां नास्यां च मध्ये प्रतिष्ठित इति। का वै वरणा का च नासीति सर्वानिन्द्रियकृतान्दोषान्वारयति तेन वरणाभवति सर्वानिन्द्रियकृतान्पापान्नाशयति तेन नासी भवतीति कतम चास्य स्थानं भवतीति भ्रुवोर्घ्राणस्य च यः संधिः स एष द्यौर्लोकस्य परस्य च संधिर्भवति” इति हि तत्र श्रूयते॥५१॥ उक्ततीर्थानां

आत्मस्थं तीर्थमुत्सृज्य बहिस्तीर्थानि यो व्रजेत्‌।
करस्थं स महारत्नंत्यक्त्वाकाचं विमार्गति॥५२॥
भावतीर्थं परं तीर्थं प्रमाणंसर्वकर्मसु।
अन्यथाऽऽलिङ्ग्यते कान्ता भावेन दुहिताऽन्यथा ॥५३॥
तीर्थानि तोयपूर्णानिदेवान्काष्ठादिनिर्मितान्‌।
योगिनो न प्रपद्यन्ते स्वात्मप्रत्ययकारिणः॥५४ ॥
बहिस्तीर्थात्परं तीर्थमन्तस्तीर्थं महामुने।
आत्मतीर्थं परं तीर्थमन्यत्तीर्थं निरर्थकम्‌॥५५ ॥
चित्तमन्तर्गतं दुष्टं तीर्थस्नानैर्नशुध्यति।
शतशोऽपि जलैर्धौतं सुराभाण्डमिवाशुचि॥५६ ॥
विषुवायनकालेषु ग्रहणे चान्तरे सदा।
वाराणस्यादिके स्थाने स्नात्वा शुद्धोभवेन्नरः॥५७ ॥
ज्ञानयोगपराणां तु पादप्रक्षालितं जलम्‌।

—————————————————————————————————————————
बाह्मतीर्थेभ्योविशेषमाह—आत्मस्थमिति। विमार्गति गवेषते॥५२॥ ननु बाह्यानि तीर्थानि प्रत्यक्षतो निरीक्ष्यन्ते आन्तराणि तु भावनामात्रसिद्धानीति कथं ततस्तेषामुत्कर्षइत्यत आह—भावतीर्थमिति। भावः शास्त्रप्रतिपादनेषु प्राकृततीर्थेष्वास्तिक्यबुद्धिःसा च संसारोत्तरणकारणतया तरन्त्यनेनेति तीर्थं तद्विषयीकृतस्यार्थस्प परमार्थत्वात्प्रमाणं च। बाह्यतीर्थस्नानदानादिषु सर्वेष्वपि कर्मसु सत्येव भावे फलसाधनता नान्यथेति तस्य सर्वत्र प्रमाणतेत्यर्थः। कर्मण एकरूपत्वेऽपि भावभेदस्यैवनिषेधानिषेधवैषम्यहेतुत्वमुदाहरति। अन्यथाऽऽलिङ्ग्यत इति॥५३॥स्वात्मप्रत्ययेति। स्वात्मन्येव शास्त्रोदीरिततीर्थादिविश्वासवन्त इत्यर्थः॥५४—५६॥अतः प्रागुक्तपुण्यकालेषु प्रागुक्ततीर्थस्नानेषु चित्तस्थापनलक्षणमेव स्नानं कार्यमित्याह—विषुवेति॥५७॥ उक्तयोगासमर्थानामपि लघु प्रशस्तं चोपायमाह—ज्ञानयोगेति॥

पापशुद्ध्यर्थमज्ञानां तत्तीर्थं मुनिसत्तम॥ ५८॥
तीर्थेदाने तपोयज्ञे काष्ठेपाषाणके सदा।
शिवं पश्यति मूढात्मा शिवो देहे प्रतिष्ठितः॥ ५९॥
सर्वत्रावस्थितं शान्तं न प्रपश्यन्ति शङ्करम्‌।
ज्ञानचक्षुर्विहीनत्वादहोमायाबलंमुने॥ ६०॥
आत्मस्थं यः शिवं त्यक्त्वा बहिस्थं यजते शिवम्।
हस्तस्थंपिण्डमुत्सृज्य लिहेत्कूर्परमात्मनः॥ ६१॥
शिवमात्मनि पश्यन्ति प्रतिमासु न योगिनः।
अज्ञानां भावनार्थाय प्रतिमाः परिकल्पिताः॥ ६२॥
अपूर्वानपरं ब्रह्म स्वात्मानं सत्यमद्वयम्‌।
प्रज्ञानघनमानन्दंयः पश्यति स पश्यति॥ ६३॥
सर्वभूतस्थमात्मानं विशुद्धज्ञानदेहिनम्‌।
स्वात्मन्यपश्यन्बाह्येषु पश्यन्नपि न पश्यति॥ ६४॥
देवतां महतीमन्यामुपास्ते स्वात्मनोऽन्यतः।
न स वेदपरं तत्त्वमथ योऽन्यामिति श्रुतिः॥ ६५॥

———————————————————————————————————————————
५८—६१॥ प्रतिमानामुपयोगमाह—अज्ञानामिति॥६२॥ अपूर्वं कारणरहितमनपरं कार्यरहितंनिष्कलमखण्डमद्वयं सच्चिदानन्दैकरसमित्यर्थः। स पश्यतीति। तदीयमेव दर्शनं फलवदित्यर्थः॥६३॥ अन्तर्योगाभावे केवलबहिर्योगस्य वैफल्यमाह—सर्वभूतेति॥६४॥ महतीं देवतां परशिवात्मिकां स्वात्मनः सकाशादन्यां य उपास्ते भेदेन स मृढः पशुरित्यर्थः। अथ योऽन्यामिति श्रुतिरिति। वाजसनेयके हि श्रूयते—“अथ योऽन्यां देवतामुपास्ते अन्योऽसावन्योऽहमस्मीति न स वेद यथा पशुरेवं स देवानां यथा ह वै बहवः पशवो मनुष्यंभुंज्युरेवमेकैकः पुरुषो देवान्भुनक्त्येकस्मिन्नेव पशावादीयमनेऽप्रियं भवति किमु बहुषु। तस्मादेषां तन्न प्रियंयदेतन्मनुष्या वि-

नडीपुञ्जं सदासारं नरभावंमहामुने।
समुत्सृज्याऽऽत्मनाऽऽत्मानमहमित्यवधारय॥ ६६ ॥
अशरीरं शरीरेषु महान्तं विभुमीश्वरम्‌।
आनन्दमक्षरं साक्षान्मत्वाधीरो न शोचति॥ ६७ ॥
विभेदजनकेऽज्ञाने नष्टे ज्ञानबलान्मुने।
आत्मनो ब्रह्मणो भेदमसन्तं कः करिष्यति॥ ६८ ॥
सर्वं समासतः प्रोक्तं सादरं मुनिसत्तम।
तस्मान्मायामयं देहं मुक्त्वा पश्य स्वमात्मकम्‌॥ ६९ ॥

सूत उवाच—

इति श्रुत्वा गिरां नाथो भक्त्या परवशः पुनः।
स्तोतुमारभते देवमम्बिकापतिमद्भुतम्‌॥ ७०॥

बृहस्पतिरुवाच—

जय देव परानन्द जय चित्सत्यविग्रह।
जय संसाररोगघ्नजय पापहर प्रभो॥ ७१ ॥
जय पूर्णमहादेव जय देवारिमर्दन।
जय कल्याण देवेश जय त्रिपुरमर्दन॥ ७२ ॥

———————————————————————————————————————————
द्युः’ इति॥६५॥ भेदेन चेन्नोपासनीयं तर्हिकथमित्यत आह—नाडीपुञ्जमिति। नर इति भावोऽहमभिमानो यस्मिंस्तं नाडीपुञ्जंअसारं तदुपलक्षितंशरीरत्रयमुपाधिभूतमात्मना समुत्सृज्य बुद्धया विविच्याऽऽत्मानमहमित्यवधारयपरमात्मानं प्रत्यक्तादात्म्येनानुसंधेहीत्यर्थः॥६६॥ उक्तेऽर्थेकाठकश्रुतिमर्थत उदाहरति—अशरीरमिति। श्रुतिपाठस्त्वेवम्‌—‘अशरीरं शरीरेष्बनवस्थेष्ववस्थितम्‌। महान्तं विभुमात्मानं मत्वा धीरे न शोचति’ इति। मत्वाज्ञात्वा॥६७॥ तावतैव शोकाभावे कारणमाह—विभेदेति। निरति-

जयाहङ्कारशत्रुघ्नजय मायाविषापह।
जय वेदान्तसंवेद्यजय वाचामगोचर॥ ७३॥
जय रागहरश्रेष्ठ जय द्वेषहराग्रज।
जय साम्ब सदाचार जय सर्वसमाद्भुत॥ ७४॥
जय ब्रह्मादिभिः पूज्य जय विष्णो परामृत।
जय विद्यामहेशान जय विद्याप्रदानिशम्‌॥ ७५॥
जय सर्वाङ्गसंपूर्णनागाभरणमभूषण।
जय ब्रह्मविदां प्राप्य जय भोगापवर्गद॥ ७६॥
जय कामहर प्राज्ञ जय कारुण्यविग्रह।
जय भस्म महादेव जय भस्मावगुण्ठित॥ ७७॥
जय भस्मरतानां तु पाशभङ्गपरायण।
जय हृत्पङ्कजे नित्यं यतिभिः पूज्यविग्रह॥ ७८॥

सूत उवाच—

इति स्तुत्वामहादेवं प्रणिपत्य बृहस्पतिः।
कृतार्थःक्लेशनिर्मुक्तो भक्त्यापरवशोऽभवत्‌॥ ७९॥
य इदंपठते नित्यंसंध्ययोरुभयोरपि।
भक्तिपारंगतो भूत्वा परं ब्रह्माधिगच्छति॥ ८०॥
गङ्गाप्रवाहवत्तस्य वाग्विभूतिर्विजृम्भते।
बृहस्पतिसमोबुद्ध्यागुरुभक्त्यामया समः॥ ८१॥
पुत्रार्थीलभते पुत्रं कन्यार्थी कन्यकामियात्‌।

———————————————————————————————————————————
शयानन्दपरशिवस्वरूपस्य हि जीवस्य तथात्वापरिज्ञाननिबन्धनो यो भेदः स एवसांसारिकसकलक्लेशहेतुरैकात्म्यज्ञानेन तादृगज्ञाननिवृत्तौब्रह्मणः सकाशा-

ब्रह्मवर्चसकामस्तु तदाप्नोति न संशयः॥ ८२॥
तस्माद्भवद्भिर्मुनयः संध्ययोरुभयोरपि।
जप्यं स्तोत्रमिदं पुण्यं देवदेवस्य भक्तितः॥ ८३॥

इति श्रीस्कान्दपुराणे सूतसंहितायां ज्ञानयोगखण्डे

नाडीचक्रनिरूपणं नामैकादशोऽध्यायः॥११॥

——————

द्वादशोऽध्यायः॥

१२. नाडीशुद्धिनिरूपणम्।

ईश्वर उवाच—

अथातः संप्रवक्ष्यामि नाडीशुद्धिंसमासतः।
विध्युक्तकर्मसंयुक्तः कामसंकल्पवर्जितः॥ १॥
यमाद्यष्टाङ्गसंयुक्तः शान्तः सत्यपरायणः।
गुरुशुश्रूषणरतः पितृमातृपरायणः॥ २॥
स्वाश्रमे संस्थितः सम्यग्ज्ञानिभिश्च सुशिक्षितः।
पर्वताग्रे नदीतीरे बिल्वमूले वनेऽथवा॥ ३॥

———————————————————————————————————————————दात्मनो जीवस्य तन्निबन्धनभेदाभावान्निर्हेतुकः संसारशोक इत्यर्थः॥६८-८३॥

इति श्रीसूतसंहितातात्पर्यदीपिकायां ज्ञानयोगखण्डे नाडीचक्र

निरूपणं नामैकादशोऽध्यायः॥ ११॥

—————

यतो नाडीचक्रज्ञानाधीनं तत्र चित्तप्रणिधानपूर्वकंनाडीशोधनमतस्तदनन्तरं तत्कथनमिति प्रतिजानीते—अथात इति। पापनिबन्धनस्यशोधन समये नाडीस्स्वलनस्य परिहारायाऽऽह—विध्युक्तेति। चित्तविक्षेपनिबन्धनस्य परिहारायाऽऽह—कामेति॥१॥२॥ ज्ञानिभिरिति। शोधनेऽनुभवपर्यन्तं ज्ञानवद्भिः। ऐकाग्र्यानुकूलंदेशमाह—पर्वताग्र इत्यादि॥३॥ पावनत्वाय

मनोरमे शुचौ दशे वेदघोषसमन्विते।
फलमूलैःसुसंपूर्णैर्वारिभिश्व सुसंयुते॥ ४॥
सुशोभनं मठं कृत्वासर्वरक्षासमन्वितम्‌।
त्रिकालस्नानसयुंक्तः श्रद्दधानः समाहितः॥ ५॥
विरजानलजं भस्म गृहीता वाऽग्निहोत्रजम्‌।
अग्निरित्यादिभिर्मन्त्रेर्जाबालैःसप्तभिर्मुने॥ ६॥
षड्भिर्वाऽऽथर्वणैर्मन्त्रैःसमुद्धूल्य ततः परम्‌।
तिर्यक्त्रिपुण्ड्रमुरसा शिरसा बाहुमूलतः॥ ७॥
धारयेत्परया भक्त्या देवदेवं प्रणम्य च।
सरस्वतीं सुसंपूज्य स्कन्दं विघ्नेश्वरं गुरुम्‌॥ ८॥
चन्द्रमादित्यमनिलंतथैवाग्निंमहामुने।
आरुह्यचाऽऽसनं पश्चात्प्राङ्मुखोदङ्मुखोऽपिवा॥९॥
समग्रीवशिरःकायः संवृतास्यः सुनिश्चलः।
नासाग्रे शशभृद्बिम्बंबिन्दुमच्च तुरीयकम्‌॥ १०॥
स्रवन्तममृतं पश्येन्नेत्राभ्यां सुसमाहितः।

———————————————————————————————————————————वैदिकाधिष्ठितं देशमाह—वेदघोषेति। नतु योगाभ्याससमये वेदघोषापेक्षा। “समे शुचौशर्करावह्निवालुकाविवर्जिते शब्दजलाश्रयादिभिः। मनोनुकूले नतु चक्षुपीडने गुहानिवाताश्रयणे प्रयोजयत्‌” इति श्वेताश्वतरश्रुतेः॥४—९॥ समग्रीवेति। तथाच गीतासु—“समंकायशिरोग्रीव धारयन्नचलंस्थिरः। संप्रेक्ष्यनासिकाग्रंस्वं दिशश्चानवलोकयन्‌। प्रशान्तात्मा विगतभीर्ब्रह्मचारिव्रते स्थितः। मनः संयम्य मच्चित्तोयुक्त आसीत मत्परः” इति। नासाग्र इति। नासग्रेचन्द्रबिम्बं तत्र यत्तुरीयकं यकाराच्चतुर्थं वकारं सबिन्दुकममृतस्राविणं स्मरन्नेत्राभ्यामपि तमेव देशं पश्यन्नित्यर्थः। तदुक्तमागमे “नासाग्रेमण्डलंचान्द्रं ज्योत्स्नाजाकसमन्वितम्‌। नादबिन्दुयुतं मध्ये वका-

इडया प्राणमाकृष्य पूरयित्वोदरस्थितम्‌॥ ११॥
ततोऽग्निंदेहमध्यस्थंध्यायन्‌ ज्वालावलीमयम्।
बिन्दुनादसमायुक्तमग्निबीजं विचिन्तयेत्‌॥ १२॥
पश्चाद्विरिचयेत्प्राणं मन्दं पिङ्ल्या बुधः।
पुनः पिड्गलयाऽऽपूर्यबह्निबीजमनुस्मरेत्॥ १३॥
पुनर्विरेचयेद्धीमानिडयैव शनैः शनैः।
त्रिचतुर्वत्सरं वाऽथ त्रिचतुर्मासमेव वा॥ १४॥
षट्कृत्व आचरेन्नित्यं रहस्येवं त्रिसंधिषु।
नाडीशुद्धिमवाप्नोति पृथक्चिह्नोपलक्षिताम्‌॥ १५॥
शरीरलघुता दीप्तिवेह्नेर्जठरवर्तिनः।
नादाभिव्यक्तिरित्येतच्चिह्नं तत्सिद्धिसूचकम्‌॥ १६॥
यावदेतानि संपश्येत्तावदेवंसमाचरेत्‌।
अथवैतत्परिलत्यज्य स्वात्मशुद्धिं समाश्रयेत्‌॥ १७॥
आत्मा शुद्धाःसदा नित्यः सुखरूपः स्वयंप्रभः।

———————————————————————————————————————————रेण विराजितम्‌॥ ध्यायन्प्रपूरयेद्वायुम्” इति॥१०॥११॥ बिन्दुनादसमायुक्तमिति। बिन्दुरनुस्वारः। नादस्तदनुगतो ध्वनिः॥ १२—१५॥ नादाभिव्यक्तिरिति। अनाहतनादः स्फुरतीत्यर्थः॥१६॥ विवेकज्ञानाधिकारवतस्तु तदेव पर्याप्तं नाडीशुद्धयादिभिर्नप्रयोजनमित्याह—अथवैतदिति। पूर्वोक्ता विशुद्धिर्नाडीगतपित्तश्लेष्मादिशोषणेन देहशुद्धिमात्रे हेतुः। विवेकज्ञानं तु नाडीपरिवृतं स्थूलं देहं तत्र व्याप्तं लिङ्गशरीरं तदुभयोपादानं चाविद्यामात्मनःसकाशात्परिशोध्य विविक्तं सच्चिदानन्दैकरसमात्मतत्त्वंव्यवस्थापयतीति पूर्वस्मादिदं प्रशस्ततरमित्यर्थः ॥१७॥ वस्तुभूतश्लेष्मादिमलनिरसनं हि वस्तुभूतेनैव पवनेन भवति। नित्यशुद्धस्वप्रकाशचिदानन्दैकरस आत्मा त्वविद्यामलेनैव मलिनइति विद्यया तन्निरासे स्वाभाविकी तस्य

अज्ञानान्मलिनो भाति ज्ञानाच्छुद्धोविभात्ययम्‌॥१८॥
अज्ञानमलपङ्कं यः क्षालयेज्ज्ञानतोयतः।
स एव सर्वदा शुद्धो नाज्ञः कमेरतो हि सः॥ १९॥
न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम्‌।
कर्मकर्तव्यमित्येवंबोधयेत्तान्‌ बुधः सदा॥ २०॥

इति श्रीस्कान्दपुराणे सूतसंहितायां ज्ञानयाोगखण्डेनाडीशुद्धिनिरूपणं नाम द्वादशोऽध्यायः॥ १२॥

—————

त्रयोदशोऽध्यायः॥

१३. अष्टाङ्गयोगे यमविधिनिरूपणम्।

ईश्वर उवाच—

अथातः संप्रवक्ष्यामि तवाष्टाङ्गानि सुव्रत।
यमश्च नियमश्चैव तथैवाऽऽसनमेव च॥ १॥
प्राणायामस्तथा विप्र प्रत्याहारस्तथा परः।
धारणा च तथा ध्यानं समाधिश्चाष्टमो मुने॥ २॥

**———————————————————————————————————————————**शुद्धिर्व्यवातिष्ठत इत्याह—आत्मा शुद्ध इति॥१८॥१९॥ इयमेव यदि प्रशस्ता किमिति तर्हि भूतपूर्वाशुद्धिः शास्त्रैरुपदिश्यत इत्यत आह—न बुद्धिभेदमिति। अज्ञो हि कर्मणि सक्तो ज्ञानानाधिकृत इति तस्य कृते साऽपि शुद्धिर्वक्तव्येत्यर्थः॥२०॥

इति श्रीसूतसंहितातात्पयेदीपिकायां ज्ञानयोगखण्डे नाडीशुद्धिनिरूपणं नाम द्वादशोऽध्यायः॥१२॥

—————

यत उक्तनाडीशोधनसापेक्षाणि यमादीन्यष्टौ योगाङ्गान्यतस्तदनन्तरं तदभिधानमिति प्रतिजानीते—अथात इति॥१॥ २॥ उद्देशक्रमेण

अहिंसा सत्यमस्तेयं ब्रह्मचर्यं दयाऽऽर्जवम्‌।
क्षमा धृतिर्मिताहारः शौचं चेति यमा दश॥ ३॥
वेदोक्तेन प्रकारेण विना सत्यंतपोधन।
कायेन मनसा वाचा हिंसा हिंसा न चान्यथा॥४॥
आत्मा सर्वगतोऽच्छेद्य अदाह्य इति या मतिः।
सा चाहिंसा परा प्रोक्ता मुने वेदान्तवेदिभिः॥ ५॥

———————————————————————————————————————————यमस्य लक्षणमाह—अहिंसेत्यादि॥३॥ “न हिंस्यात्सर्वभूतानि” इति निषेधः स रागनिबन्धनाया एवं हिंसायाः। अतः “अग्नीषोमीयं पशुमालभेत” इति विधिनिबन्धना हिंसा न निषिध्यत इत्याह—वेदोक्तेनेति। अग्नीषोमीयस्य हि सोमयागाङ्गत्वात्तद्धिंसा विधिनिबन्धना। “श्येनेनाभिचरन्यजेत” इत्यत्रापि श्येनयागाङ्गभूतपशुहिंसा विधिनिबन्धनैवन निषिध्यते। या तु तेनाभिचारयागेन शात्रुवधात्मिका हिंसा सा द्वेषनिबन्धनैवेति विध्यसं स्पर्शान्निषिध्यते। शारीराहिंसाया एवं हिंसात्वंन पुनर्वचिकमानसयोरितिभ्रमनिरासाय तद्भेदानाह—कायेनेति। साऽप्येकैका त्रिविधा। स्वयं कृता अन्येन कारिता क्रियमाणाकेवलमनुमोदिता चति नवधा। तत्राप्येकैका त्रिविधा। लोभमूला क्रोधमूलाऽज्ञानमूलाचेति सप्तविंशतिधा। सोऽप्येकैका त्रिविधा। मृदुमात्रामध्यमात्राऽधिकमात्रा चेत्येकाशीतिर्हिहिंसाभेदा वितर्कनामानस्त्यक्तव्याः। तत्त्यागोपायश्व तेषां निरतिशयदुःखहेतवस्तत्त्वज्ञानप्रतिबन्धकाश्चेति प्रणिधानम्‌। एतच्च सत्यवचनादिवितर्कान्तरेष्वापि द्रष्टव्यम्। तदुक्तं योगशास्त्रे—“वितर्कबाधने प्रतिपक्षभावनम्‌!” ‘वितर्काहिंसादयः कृतकारितानुमोदिता लोभक्रोधमोहपूर्वका मृदुमध्याधिमात्रादुःखाज्ञानानन्तफला इति प्रतिपक्षभावनम्‌’इति॥४॥ कायिकादिहिंसाया बर्जनमुक्त्वाऽऽत्महिंसाया वर्जनमाह—आत्मा सर्वगत इति। “अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एवच। नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः” इति। उक्तस्याऽऽत्मस्वरूपस्याज्ञानमात्महिंसा। यदाहुः—“योऽन्यथा सन्तमात्मानमन्यथा। प्रतिपद्यते। प्रायश्चित्तं न पश्यामि येन शुध्येत्स

यत्त्वदुष्टेन्द्रियैर्दृष्टंश्रुतं वेदविदां वर।
तस्यैवोक्तिर्भवेद्विप्रसत्यता नान्यथा भवेत्‌॥ ६॥
सर्वंसत्यंपरं ब्रह्म न चान्यदिति या मतिः।
तत्सत्यं परमं प्रोक्तं वेदन्तज्ञानभावितैः॥ ७॥
अन्यदीये तृणे रत्नेकाञ्चने मौक्तिकेऽपि वा।
मनसाऽपि निवृत्तिर्यातदस्तेयं विदुर्बुधाः॥ ८॥
आत्मनोऽनात्मभावेन ह्यपहारविवर्जनम्।
यत्तदस्तेयमित्युक्तमात्मविद्भिर्महात्मभिः॥ ९॥
कायेन मनसा वाचा नारीणां परिवर्जनम्‌।

———————————————————————————————————————————आत्महा” इति। अतोज्ञानेन तन्निरासः परमाऽहिंसेत्यर्थः॥५॥ अहिंसावत्सत्यमपि परमपरं चेति द्विविधम्‌। तत्रापरमाह—यत्त्वदुष्टेति—भ्रमदृष्टाभिधानं प्रमाणदृष्टस्यापि रागादिभिरन्यथाभिधानं चासत्यमित्यर्थः॥६॥ परमं सत्यमाह—सर्वं सत्यमिति। सर्वंवस्तु ब्रह्मस्वरूपेणैव सत्यंपृथक्त्वे नासत्यमिति यज्ज्ञात्वाऽभिधानं तत्सत्यमित्यर्थः॥ ७॥ अस्तेयमपि द्विविधम्‌। तत्राऽऽद्यमाह—अन्यदीय इति। मृदुमध्याधिकमात्रा इत्युक्तभेदोपक्षणत्वेन तृणादिविभागकथनम्‌॥८॥ द्वितीयमस्तेयमाह—आत्मन इति। अनात्मा देहन्द्रियादिस्तद्रुपतयैवाऽऽत्मनो यत्परिज्ञानं स आत्मापहारः। “योऽन्यथा सन्तमत्मानमन्यथा प्रतिपद्यते। किं तेन न कृतं पापं चोरेणाऽऽत्मापहारिणा” इत्युक्तम्‌। तद्विवर्जनं देहेन्द्रियादिव्यतिरिक्तात्मानुसंधानंपरममस्तेयमित्यर्थः॥९॥ अपरं ब्रह्मचर्यमाह—कायेनेति। अनुरागपुरःसराणि नारीणां स्पर्शनभाषणचिन्तनान्यब्रह्मचर्यम्‌। उक्तं हि—‘स्मरणंकीर्तनं केलिःप्रेक्षणंगुह्यभाषणम्‌। संकल्पोऽध्यवसायश्च क्रिया निर्वृत्तिरेव च॥ एतन्मैथुनमष्टाङ्गं प्रवदन्ति मनीषिणः। विपरीतं ब्रह्मचर्यम्‌” इति। ऋतौस्वभार्यासेवा। तु ब्रह्मचर्यमेव। ऋताबिति विहितकालोपलक्षणम्‌। श्रूयते हि—“प्राणं वा एते प्रस्कन्दन्ति ये दिवारत्या संयुज्यन्ते। ब्रह्मचर्य-

ऋतुसेवां विना स्वस्यां ब्रह्मचर्यं तदुच्यते॥ १०॥
ब्रह्मभावे मनश्चारं ब्रह्मचर्यं परं तथा।
आत्मवत्सर्वभूतेषु कायेन मनसा गिरा॥ ११॥
अनुकम्पा दया सैव प्रोक्ता वेदान्तवेदिभिः।
पुत्रे मित्रेकलत्रे च रिपौस्वात्मनि संततम्‌॥ १२॥
ऐकरूप्यं मुने यत्तदार्जवं प्रोच्यते मया।
कायेन मनसा वाचा शत्रुभिः परिपीडिते॥ १३॥
चित्तक्षोभनिवृत्तिर्यक्षमा सा मुनिपुङ्गव।
वेदादेव विनिर्मोक्षः संसारस्य न चान्यथा॥ १४॥
इति विज्ञाननिष्पत्तिर्धृतिः प्रोक्ता हि वैदिकैः।
अहमात्मा न मर्त्योऽस्मीत्येवमप्रच्युता मतिः॥ १५॥

———————————————————————————————————————————मेव तद्यद्रात्रौ रत्यासंयुज्यते” इति॥१०॥ ब्रह्मभाव इति। ब्रह्मात्मैकत्वेमनसश्चरणं ब्रह्मचर्यम्‌। श्रूयते हि—“येषां तपो ब्रह्मचर्यं येषु सत्यंप्रतिष्ठितम्‌। तेषामसौ विरजो ब्रह्मलोकोन येषु जिह्ममनृतंन माया च”इति। अत्र परमपरं ब्रह्मचर्यं विवक्षितम्‌॥ आत्मवदिति। अनुकम्पा रक्षाभिमुखी बुद्धिः। यदुक्तमागमे—“रोगार्तस्यरिपोर्वाऽपि मित्रस्यान्यस्यवापुनः। तद्रक्षाभिमुखी बुद्धिर्दयेषा भाषिता बुधैः" इति। पुत्रेमित्र इति। तदुक्तं गीतासु—“सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु॥ साधुष्वपि च पपिषु समबद्धिर्विशिष्यते” इति॥११॥१२॥ कायेनेति। त्रिभिरपि करणैः पीडने चित्तविक्षेप विरहः क्षमा॥१३॥ वेदादेवेति। वेदविप्लावकवचनेषुसत्स्वपि वेदविरुद्धधर्मपरिहारेण वैदिकधर्मेषु स्थैर्यमपरमा धृतिः॥१४॥ परमामाह—अहमात्मेति। उक्ता हि धृतिर्देहद्विविक्तासमविषयेति परमा धृतिः॥ १५॥ अल्पेति। अल्पाशने तु धातुसंक्षोभः। अधिकेऽर्जीर्णंनिद्राऽऽलस्यादि वा। अतो मिताहारो योगाङ्गमिति। उक्तं च—“अन्नेन कुक्षेर्द्वावंशौपानेनैकंप्रपूरयेत्‌।

या सा प्रोक्ता धृतिः श्रेष्ठा मुने बेदान्तवेदिभिः।
अल्पमिष्टाशनाभ्यां तु नास्ति योगः कथंचन॥१६॥
तस्माद्योगानुगुण्येन भोजनं मितभोजनम्‌।
स्वदेहमरनिर्मोक्षो मृज्जलाभ्यांमहामुने॥ १७॥
यत्तच्छोचं भवेद्बाह्यंमानसं मननं विदुः।
अहं शुद्ध इति ज्ञानं शोचं वाञ्छन्ति पण्डिताः॥१८॥
अत्यन्तमलिनो देहो देही चात्यन्तानिर्मलः।
उभयोरन्तरं ज्ञात्वा कस्य शौचं विधीयते॥ १९॥
ज्ञानशौचं परित्यज्यबाह्ये यो रमते नरः।
स मूढः काञ्चनं त्यक्त्वा लोष्टं गृह्णाति सुव्रत॥२०॥
ज्ञानाम्भसैव शुद्धस्य कृतकृत्यस्य योगिनः।
कर्तव्यं नास्ति लोकेऽस्मिन्नस्ति चेन्न स तत्ववित्‌॥२१॥
लोकत्रयेऽपि कर्तव्यं किंचिन्नास्त्यात्मवेदिनाम।
इहैव जीवन्मुक्तास्त इह चेदिति हि श्रुतिः॥ २२॥
तस्मात्सर्वप्रयत्नेन मुनेऽहिंसादिसाधनैः।

———————————————————————————————————————————प्रणसंचरणार्थं तु चतुर्थमवशेषयेत्‌॥ गुरूणामर्धसौहित्यंलघूनां नातितृप्तता’ इत्यादि वैद्यशास्त्रोक्तं द्रष्टव्यम्‌॥ १६॥ स्वदेहेति। “शौचं तु द्विविधं प्रोक्तं बाह्यमाभ्यन्तरं तथा। मृज्जलाभ्यांभवेद्बाह्मंभावशुद्धिस्तथान्तरम्‌”। इति स्मरणत्‌॥१७॥ अहं शुद्ध इति। “स्थानाद्बीजादुपष्टम्भान्निष्पन्दा न्निधनादपि। कायमाधेयशौचत्रात्पण्डिता ह्यशुचिं विदुः” अतस्तदविवेक एवाशौचं तद्विवेकज्ञानं शौचमित्यर्थः॥१८॥विवेकज्ञानस्यैव शौचत्वेहेतुमाह—अत्यन्तमलिन इति॥१९—२१॥ किंचिदिति। किमपि नास्ति। इहैव जीवन्मुक्तत्वे श्रुतिमुदाहरति—इह चेदिति। “इह चेदवेदीदथ सत्यमस्ति न चेदिहवेदीन्महती विनष्टिः” इति तलवकारोपनिषदीत्यर्थः॥२२॥

आत्मानमक्षरं ब्रह्म विद्धिज्ञानात्तु वेदजात्‌॥ २३॥

इति श्रीस्कान्दपुराणे सूतसंहितायां ज्ञानयोगखण्डे यमविधिनिरूपणं नाम त्रयोदशोऽध्यायः॥ १३॥

चतुर्दशोऽध्यायः॥

१५. नियमविधिनिरूपणम्‌।

ईश्वर उवाच—

अथातः संप्रवक्ष्यामि नियमान्मुनिसत्तम।
तपः संतोषमास्तिक्यं दानमीश्वरपूजनम्‌॥ १॥
सिद्धान्तश्रवणंचैव ह्नीर्मतिश्र जपो व्रतम्‌।
एते च नियमाः प्रोक्ता योगविद्भिर्महात्मभिः॥ २॥
तानहं क्रमशो वक्ष्ये शृणु श्रद्धापुरःसरम्‌।
वेदोक्तेन प्रकारेण कृच्छ्रचान्द्रायणादिभिः॥ ३॥
शरीरशोषणं यत्तत्तप इत्युच्यते बुधैः।
कोऽहं मोक्षः कथं केन संसारं प्रतिपन्नवान्‌॥ ४॥
इत्यालोचनमर्थज्ञास्तपः शंसन्ति पण्डिताः।

———————————————————————————————————————————वेदजादिति औपनिषदाज्ज्ञानात्‌ आत्मानं ब्रह्म जानीहीत्यर्थः॥२३॥

इति श्रीसूतसंहितातात्पर्यदीपिकायां ज्ञानयोगखण्डे अष्टाङ्गयोगे यमविधिनिरूपणं नाम त्रयोदशोऽध्यायः॥१३॥

——————

यतो यमवन्नियमा अपि योगाङ्गन्यतस्तदनन्तरं तान्वक्तुं प्रतिजानीते—अथात इति॥१॥२॥ अपरं तप आह—वेदोक्तनेति। कृच्छ्रचान्द्रायणादिस्वरूपं प्रागुक्तम्‌॥३॥ परमं तप आह—कोऽहमिति। उक्तं हि—“मनसश्चेद्रियाणां च ऐकाग्र्यंपरमं तपः। तज्ज्यायः सर्वधर्मेभ्यः स धर्मः

यदृच्छालाभतो नित्यं प्रीतिर्याजायते नृणाम्‌॥ ५॥
तत्संतोषं विदुः प्राज्ञाः परिज्ञानैकतत्पराः।
ब्रह्मादिलोकपर्यन्ताद्विरक्तस्य परात्मनि॥ ६॥
प्रियं यत्तन्महाप्राज्ञाः संतोषं परमं विदुः।
श्रौते स्मार्ते च विश्वासो यत्तदास्तिक्यमुच्यते॥ ७॥
न्यायार्जितं धनं चान्नं श्रद्धया वैदिके द्विजे।
अन्यद्वायत्प्रदीयेत तद्दानं प्रोच्यते मया॥ ८॥
अवैदिकाय विप्राय दत्तं यन्मुनिपुङ्गव।
नोपकाराय तत्तस्य भस्मनीव हुतंहविः॥ ९॥
ब्रह्माणं विष्णुमीशानं वैश्यक्षत्रियबाडबैः।
यथाशक्त्यर्चनं भक्त्या यत्तदीश्वरपूजनम्‌॥ १०॥
रागाद्यपेतं हदयं वागदुष्टाऽनृतादिना।
हिंसाविरहितः काय एतच्चेश्वरपूजनम्‌॥ ११॥
सत्यं ज्ञानमनन्तं च परानन्दंध्रुवं परम्‌।
प्रत्यगित्यवगत्यन्तं वेदान्तश्रवणं बुधाः॥ १२॥
सिद्धान्तश्रवणं प्राहुर्द्विजानां मुनिसत्तम।
शूद्राणां च विरक्तानां तथा स्त्रीणां महामुने॥ १३॥
सिद्धान्तश्रवणं प्रोक्तं पुराणश्रवणं बुधैः।

———————————————————————————————————————————परमो मतः” इति॥ ४॥ ५॥ परमं संतोषमाह—ब्रह्मादीति। श्रूयते हि—“ते ये शतं बृहस्पतेरानन्दाः स एकः प्रजापतेरानन्दः, श्रोत्रियस्य चाकामहतस्य’ इति॥६—९॥ ब्रह्माणमिति। वैश्यैर्ब्राह्माणं क्षात्रियैर्बिष्णुम्। बाडवा ब्राह्मणस्तैरीशानंस्वीकृत्य यदर्चनं तदित्यर्थः॥ १०॥ ११॥ प्रत्यगिति।अवगतिरापरोक्ष्यम्‌॥१२॥ तथा स्त्रीणामिति। त्रैवर्णिकस्त्रीणां

वेदलौकिकमार्गेषु कुत्सितं कर्म यद्भवेत्‌॥ १४॥
तस्मिन्भवति या लज्जाह्रीस्तु सैवेति कीर्तिता।
वैदिकेषु हि सर्वेषु श्रद्धा या सा मतिर्भवेत्‌॥ १५॥
गुरुणा चोपदिष्टोऽपि तन्त्रसंबन्धवर्जितः।
वेदोक्तेनैव मार्गेण मन्त्राभ्यासो जपः स्मृतः॥ १६॥
कल्पसूत्रेऽथ वा वेदे धमेशास्त्रे पुराणके।
इतिहासेऽनुवृत्तिर्यास जपः प्रोच्यते मया॥ १७॥
या वेदबाह्याः स्मृतयो याश्च काश्च कुदृष्टयः।
सर्वास्ता निष्फलाः प्रोक्तास्तमोनिष्ठा हि ताः स्मृताः॥
श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात्।
स्वधर्मेनिधनं श्रेयः परधर्मो भयावहः॥ १९॥
तस्मात्सर्वप्रयत्नेन वेदमन्त्रंसदा जपेत्‌ ।
जपश्च द्विविधः प्रोक्तो वाचिको मानसस्तथा॥ २०॥
वाचिकोपांशुरुच्चैश्चद्विविधः परिकीर्तितः।
मानसो मननध्यानभेदाद्द्वैविध्यमास्थितः॥ २१॥
उच्चैर्जपादुपांशुश्चसहस्रगुण उच्यते।
मानसश्च तथोपांशोःसहस्रगुण उच्यते॥ २२॥

———————————————————————————————————————————तु श्रौते विकल्प उक्तः॥ १३—१५॥ उपदिष्टोऽपीति। न पुनः पुस्तकपाठादिमात्रेण ज्ञात इत्यर्थः। तन्त्रसंबन्धोति। कापालं लाकुलंवाममित्यादिवेदविरुद्धागमसंस्पर्शरहित इत्यर्थः॥१६॥१७॥वेदविरुद्धतन्त्रसंबन्धत्यागे कारणमाह—या वेदबाह्यः इति॥१८॥ वेदोक्तधर्मसम्यगनुष्ठानाशक्तस्यापि यथाशक्ति तदनुष्ठानमेव न तु विरुद्धतन्त्रार्थानुष्ठानामित्याह—श्रेयान्स्वधर्म इति॥१९॥२०॥ वाचिकोपांशुरिति। संधिश्छान्दसः॥ २१॥ २२॥

उच्चैर्जपस्तु सर्वेषां यथोक्तफलदो भवेत्‌।
नीचैः श्रुतो न चेत्सोऽपि श्रुतश्चेन्निष्फलो भवेत्‌॥ २३॥
ऋषिं छन्दोऽधिदैवं च ध्यायमानो जपेन्नरः।
प्रसन्नगुरुणा पूर्वमुपदिष्टं त्वनुज्ञया॥ २४॥
धर्मार्थमात्मशुद्ध्यर्थमुपायग्रहरणं व्रतम्‌।
अथवाऽऽथर्वणैर्मन्त्रैर्गृहीत्वा भस्म पाण्डुरम्‌॥ २५॥
सर्वाङ्गोद्धूलनं यत्तद्व्रतं प्रोक्तं मनीषिभिः।
एतद्वेदशिरोनिष्ठाः प्राहुःपाशुपतं मुने॥ २६॥
केचिच्छिरोव्रतं प्राहुः केचिदत्याश्रमं विदुः॥
केचित्तद्व्रमित्यूचुः केचिच्छांभवमैश्वरम्‌॥ २७॥

———————————————————————————————————————————उच्चैजपादुपांशुजपः फलेन सहस्रगुण उक्त उच्चैर्जपस्तु कियत्फलइत्यत आह—उच्चैर्जपस्तु सर्वेषामिति। यो मन्त्रजपो यावतः फलस्य साधनत्वेन शास्त्रे कथितः स तावत्फलस्तत्सहस्रगुणस्तन्मन्त्रोपांशुजप इत्यर्थः। उच्चैर्जपोऽपि यथा नीचैर्म्लेच्छैर्नश्रूयते तथाऽरण्यादौविविक्तदेशे क्रियते चेदुक्तफलो भवति। प्रमादात्तैः श्रुतश्चेत्तस्य यथोक्तमपि फलं नास्तीत्याह—नीचैरिति॥२३॥दशमं नियमव्रतमाह—प्रसन्नेति। प्रतिबन्धकपापनिरासद्वारौचित्तशुद्धये पुण्योपचयद्वारा फलानुकूल्याय च गुर्वनुज्ञया क्रियमाणमुपवासादिकं व्रतमित्यर्थः॥२४॥ व्रतशब्दस्यार्थान्तरमाह—अथवेति॥२५॥ एतद्वेदेति॥अथर्वशिरासि—“अग्निरित्यादिना भस्म गृहीत्वा निमृज्याङ्गानि संस्पृशेद्व्रतमेतत्पाशुपतम्‌” इत्युक्तमित्यर्थः॥ २६॥ व्रतपदस्यमतभेदेनार्थान्तराण्याह—केचिदिति। “शिरोव्रतं विधिवद्यैस्तुचीर्णम्‌” इत्यार्थर्वणिका आहुरित्यर्थः। केचिदिति। “अत्याश्रमिभ्यःपरमं पवित्रम्‌" इति श्वेताश्वतरशाखिनो व्यवहरन्तीत्यर्थः। ‘व्रतमेतच्छांभवमिति, कालाग्निरुद्रशाखिनः। अन्ये तथा जाबालाद्याःऐश्वरमित्यपरे कथयन्तीत्यर्थः। अथवा यथोक्तपाशुपतव्रतमेवशिरोव्रतात्याश्रमशांभवैश्वरशब्दैराथर्वणिकादिभिरभिधीयत इत्यर्थः॥२७॥

अस्य व्रतस्य माहात्म्यमागमान्तेषु संस्थितम्‌।
सर्वपापहरं पुण्यं सम्यग्ज्ञानप्रकाशकम्‌॥ २८॥
यः पशुस्तत्पशुत्वं च व्रतेनानेन न त्यजेत्‌।
तं हत्वा न स पापीयानिति वेदान्तनिश्चयः॥ २९॥
सर्वमुक्तं समासेन नियमं मुनिसत्तम।
अनेन विधिना युक्तो भस्मज्योतिर्भविष्यति॥ ३०॥

इति श्रीस्कान्दपुराणे सूतसंहितायां ज्ञानयोगखण्डे नियमविधिकथनं नाम चतुर्दशोऽध्यायः॥१४॥

पञ्चदशोऽध्यायः॥

१५. आसनविधिनिरूपणम्‌।

ईश्वर उवाच—

आसनानि पृथग्वक्ष्येशृणु वाचस्पतेऽधुना।
स्वस्तिकं गोमुखं पद्मं वीरं सिंहासनं तथा॥ १॥

———————————————————————————————————————————

आगमान्तेष्वपरेष्वपि बहुषु वेदान्तेषु॥२८॥ यः पशुरिति। सुकरसर्वभोगोपकरणं परमपुरुषार्थसाधनं चैतत्पाशुपतव्रतम्‌। अमुना व्रतेन यः पशुः स्वात्मनः पशुत्वंन जहाति स आत्मघातकत्वादाततायी। अतः—“आततायिवधे दोषो हन्तुर्नास्त्येव कश्चन” इति वेदविदः स्मरन्तीत्यर्थः॥२९॥ भस्मज्योतिरिति। भस्मैवोक्तरीत्यातत्त्वावबोधहेतुत्वाज्ज्योतिर्यस्य स तथोक्तः॥३०॥

इति श्रीसूतसंहितातात्पर्यदीपिकायां ज्ञानयोगखण्डे नियमविधिकथनं नाम चतुर्दशोऽध्यायः॥१४॥

——————

यमनियमानुक्त्वाक्रमप्रात्तमासनं बृहस्पतिं प्रति वक्तुमीश्वरः प्रतिजानीते—आसनानीति। तानि नव तावदुद्दिशति—स्वस्तिकमिति॥ १॥ २॥

भद्रं मुक्तासनं चैव मयूरासनमेव च।
सुखासनसमाख्यं च नवमं मुनिपुङ्गव॥ २॥
जानूर्वोरन्तरे विप्र कृत्वा पादतले उभे।
समग्रीवशिरस्कस्य स्वस्तिकं परिचक्षते॥ ३॥
सव्ये दक्षिणगुल्फं तु पृष्ठपार्श्वेनिवेशयेत्।
दक्षिणेऽपि तथा सव्यं गोमुखं तत्प्रचक्षते॥ ४॥
अङ्गुष्ठावपि गृह्णीयाद्धस्ताभ्यां व्युत्क्रमेण तु।
ऊर्वोरुपरिविप्रेन्द्र कृत्वा पादतलद्वयम्‌॥
पद्मासनं भवेदेतत्पापरोगभयापहम्‌॥ ५॥
दक्षिणोत्तरपादं तुसव्य उरुणि विन्यसेत्‌।
ऋजुकायः सुखासीनो वीरासनमुदाहृतम्‌॥ ६॥
गुल्फौच वृषणस्याधः सीवन्याः पार्श्वयोः क्षिपेत्‌।

———————————————————————————————————————————स्वास्तिकस्य लक्षणाह—जानूर्वोरिति। दक्षिणजानूरुमध्ये वामपादतलं वामजानूरुमध्ये दक्षिणपादतलं च विन्यस्यऋजुकाय उपविशेदेतत्स्वस्तिकासनमित्यर्थः॥३॥ सव्येवामे तस्मिन्पृष्ठपार्श्वेदक्षिणगुल्फं दक्षिणे च पृष्ठपार्श्वे सव्यंवामं विन्यसेदेतेद्गोमुखासनम्‌॥४॥ अङ्गुष्ठावपीति। दक्षिणस्योरोरुपरि वामपादतलं वामजानुरूमध्ये दक्षिणपादतलंच विन्यस्य तदीयमङ्गुष्ठं पश्चिमपथा गतेन वामहस्तेन गृह्णीयात्‌। एवं वामस्योरोरुपरि न्यस्तस्य दक्षिणपादतलस्याङ्गुष्ठंपश्चिमपथा गतेन दक्षिणहस्तेनेत्येतत्पद्मासनमुक्तफलमित्यर्थः॥५॥ दक्षिणमुत्तरपादं नाम पादाग्रं सव्ये वाम ऊरौविन्यसेत्‌। एतच्चोपलक्षणम्‌। सव्यं वामंदक्षिण ऊरावेतद्वीरासनमित्यर्थः। दक्षिणोत्तरपादं तु दक्षिणोरुणि विन्यसेदिति पाठान्तरम्‌। आगमे चोभयसुक्तम्‌—‘ऊर्वोरुपरि कुर्वीत पादौ वीरासनन्तु तत्‌’ इति॥६॥ सिंहासनमाह—गुल्फा-

दक्षिणं सव्यगुल्फेन वामं दक्षिणगुल्फतः॥ ७॥
हस्तौ च जान्वोः संस्थाप्य स्वाङ्गुलीश्च प्रसार्यच।
नासाग्रं च निरीक्षेत भवेत्सिंहासनं हि तत्‌॥ ८॥
गुल्फौच वृषणस्याधः सीवन्याः पार्श्वयोः क्षिपेत्‌॥९॥
पार्श्वपादौच पाणिभ्यां दृढ़बद्ध्वासुनिश्चलः।
भद्रासनं भवेदेतद्विषरोगविनाशनम्‌॥ १०॥
निपीड्य सीवनीं सूक्ष्मां दक्षिणोत्तरगुल्फतः।
वामं याम्येन गुल्फेन मुक्तासनमिदं भवेत्‌॥ ११॥
मेढ्रोपरे विनिक्षिप्य सव्यगुल्फं ततोपारि।
गुल्फान्तरं च संक्षिप्य मुक्तासनमिदं भवेत्‌॥ १२॥
कूर्पराग्रैमुनिश्रेष्ठ निःक्षिपेन्नाभिपार्श्वयोः।
भूम्यां पाणितलद्वंद्वंनिःक्षिप्यैकाग्रमानसः॥ १३॥
समुन्नतशिरःपादो दण्डवद्व्योम्नि संस्थितः।
मयूरासनमेतत्स्यात्सर्वपापप्रणाशनम्‌॥ १४॥

———————————————————————————————————————————विति। सीवन्या वामपार्श्वेदक्षिणगुल्फं दक्षिणपार्श्वेच वामगुल्फं प्रसारिताङ्गुलिहस्तौजानुमूर्ध्नोर्विविन्यस्य नासाग्रदर्शनं सिंहासनम्‌॥७॥८॥ भद्रासनमाह—गुल्फौचेति। सीवन्या वामपार्श्वेवामगुल्फो दक्षिणपार्श्वे दक्षिणगुल्फोयथा भवति तथा पादतले परस्पराभिमुखे सीवन्या अधस्ताद्विनिषेश्य दक्षिणोरुंदक्षिणपाणिना वामोरुंच वामपाणिना सम्यङ्निष्पीड्यावस्थानं भद्रासनमित्यर्थः॥९॥१०॥ सीवन्या अधस्ताद्वामो गुल्फस्तस्याधस्ताद्दक्षिणः। अथवा मेढ्रस्योपरि सव्योगुल्फस्तस्योपरि दक्षिण इति द्वेधा मुक्तासनमित्याह—निपीड्य सीवनीमिति॥११॥१२॥ कूर्पूराग्राविति। तथा चाऽऽगमे—“भुवि पाणितले कृत्वाकूर्परौ नाभिपार्श्वगौ। समुन्नताशिरःपादंदण्डवद्व्योमसंश्रयम्‌॥ कुर्याद्देहमिति प्रोक्तं मायूरं पापनाशनम्‌” इति॥१३॥

येन केन प्रकारेण सुखं धैर्यं च जायते।
तत्सुखासनमित्युक्तमशक्तस्तत्समाश्रयेत्‌॥ १५॥
आसनं विजितं येन जितं तेन जगत्त्रयम्‌।
आसनं सकलं प्रोक्तं मुने वेदविदां वर॥ १६॥
अनेन विधिना युक्तः प्राणायामं सदा कुरु॥ १७॥

इति श्रीस्कान्दपुराणे सूतसंहितायां ज्ञानयोगखण्डे आसनविधिनिरूपणं नाम पञ्चदशोऽध्यायः १५॥

——————

षोडशोऽध्यायः॥

१६. प्रणायामविधिनिरूपणम्‌।

ईश्वर उवाच—

अथातः संप्रवक्ष्यामि प्राणायामं यथाविधि।
प्राणायाम इति प्रोक्तो रेचपूरककुम्भकेः॥ १॥
वर्णत्रयात्मकाः प्रोक्ता रेचपूरककुम्भकाः।

———————————————————————————————————————————१४॥ येन केनेति। तथा च पातञ्जलं सूत्रम—“स्थिरसुखमासनम्”इति॥१५॥जगत्त्रयमिति। आसनजयस्य चित्तैकाग्र्यहेतुत्वात्‌। शीतोष्णादिद्वंद्वैरनुपघाताच्च। आह पतञ्जलिः—“ततो द्वंद्वानभिघातः” इति॥१६॥ अननेति। आसनवतैव हि प्राणायामः कर्तव्यः इत्याह—विधिनेति। श्वासप्रश्वासयोर्गतिविच्छेदः प्राणायाम इति॥१७॥

इति श्रीसूतसंहितातात्पर्यदीपिकायां ज्ञानयोगखण्डे आसनविधिनिरूपणं नाम पञ्चदशोऽध्यायः॥१५॥

—————

यतो जितासनस्यैव प्राणायामो निरुपद्रवः सिध्यति, अतस्तदनन्तरं

स एवप्रणवः प्रोक्तः प्राणायामश्च तन्मयः॥ २॥
इडया वायुमाकृष्य पूरयित्वोदरस्थितम्‌।
शनैः षोडशाभिर्मात्रैरकारं तत्र संस्मरेत्‌॥ ३॥
पूरितं धारयेत्पश्चाच्चतुःषष्ट्यातु मात्रया।
अकारमूर्तिमत्रापि संस्मरन्प्रणवं जपेत्‌॥ ४॥
यावद्वाशक्यते तावद्धारयेज्जपसंयुतः।
पूरितं रेचयेत्पश्चान्मकारेणानिलंबुधः॥ ५॥
शनैःपिङ्गलयाविप्र द्वात्रिंशन्मात्रया पुनः।
प्राणायामो भवेदेष ततश्चैवं समभ्यसेत्‌॥ ६॥
पुनः पिङ्गलयाऽऽपूर्य मात्रैः षोडशाभिस्तथा।
मकारमूर्तिमत्रापि स्मरेदेकाग्रमानसः॥ ७॥
धारयेत्पूरितं विद्वान्प्रणवंविंशतिद्वयम्‌।
जपेदत्रस्मरेन्मूर्तिमुकाराख्यां तु वैष्णवीम्‌॥ ८॥
अकारं तु स्मरेत्पश्चाद्रेचयेदिडयाऽनिलम्‌।
एवमेव पुनः कुर्यादिडयाऽऽपूर्यबुद्धिमान्‌॥ ९॥
एवं समभ्यसेन्नित्यं प्राणायामं यतीश्वरः।
अथवा प्राणमारोप्य पूरयित्वोदरस्थितम्‌॥ १०॥
प्रणवेन समायुक्तां व्याहृतीभिश्च संयुताम्‌।

———————————————————————————————————————————ततप्रतिजानीते। अथात इति॥ १॥ २॥ उक्तं वर्णात्मकत्वंविवृणोति—इडयेति। मात्रैर्मात्राभिः। तल्लक्षणमुक्तम्—‘कालेन यावता स्वीयो हस्तःस्वं जानुमण्डलम्‌। पर्येति मात्रा सा तुल्यास्वयैकश्वासमात्रया’ इति। अकारं ब्रह्मात्मकम्‌॥ ३॥ उकारमूर्तिंविष्णुमूर्तिम्‌॥ ४॥ ६॥ मकारमूर्तिं रुद्रम्‌ ॥७—९॥ प्रणवव्याहृतिपुर्विकां गायत्रींवा कुम्भके जपित्वेत्याह—

गायत्रीं संजपेच्छुद्धःप्राणसंयमने त्रयम्‌॥ ११॥
पुनश्चैवं त्रिभिः कुर्याद्गृहस्थश्चत्रिसंधिषु।
ब्रह्मचर्याश्रमस्थानां वनस्थानां महामुने॥ १२॥
प्राणायामो विकल्पेन प्रोक्तो वेदान्तवित्तमैः।
द्विजवत्क्षत्रियस्योक्तः प्राणायामो महामुने॥ १३॥
विरक्तानां प्रबुद्धानां वैश्यानां च तथैव च।
शूद्राणां च तथा स्रीणां प्राणसंयमनंमुने॥ १४॥
नमोन्तंशिवमन्त्रंवा वैष्णवंवा न चान्यथा।
नित्यमेवं प्रकुर्वीत प्राणायामांस्तु षोडश॥ १५॥
ब्रह्महत्यादिभिः पापैर्मुच्यते मासमात्रतः।
षण्मासाभ्यासतो विप्रावेदनेच्छामवाप्नुयात्‌॥१६॥
वत्सराद्ब्र्ह्मविद्वान्स्यात्तस्मान्नित्यं समभ्यसेत्‌।
योगाभ्यासरतो नित्यं स्वधर्मनिरतश्च यः॥ १७॥
प्राणसंयमनेनैव ज्ञानान्मुक्तो भविष्यति।
बाह्यादापूरणं वायोरुदरेपूरको हि सः॥ १८॥
संपूर्णकुम्भवद्वायोर्धारणं कुम्भको भवेत्‌।
बहिर्विरेचनं वायोरुदराद्रेचकः स्मृतः॥ १९॥
प्रस्वेदजनको यस्तु प्राणायामेषु सोऽधमः।
कम्पनं मध्यमं विद्यादुत्थानं चोत्तमं विदुः॥ २०॥

———————————————————————————————————————————अथवेति॥१०—१२॥ विकल्पेनेति। उक्तविकल्पेनेत्यर्थः। क्षत्रियवैश्ययोरपि बैदिकमन्त्राधिकाराद्विप्रवदेव प्रणवगायत्रीभ्यांप्राणायाम इत्याह—द्विजवदिति॥१३॥ शद्राणामिति। वेदानधिकारात्‌॥ १४॥ १६॥ योगाभ्यासोति। यः स्वधर्मनिरतः संन्योगाभ्यासरतो भवति तस्यप्राणायाम

पुवं पूर्वं प्रकुर्वीत यावदुत्तमसंभवः।
संभवत्युत्तमे प्राज्ञः प्राणायामे सुखी भवेत्‌॥ २१॥
प्राणायामेन चित्तं तु शुद्धं भवति सुव्रत।
चित्ते शुद्धः मनः साक्षात्प्रत्यग्ज्योतिष्ववस्थितम्‌॥२२॥
प्राणश्रित्तेन संयुक्तः परमात्मनि तिष्ठति।
प्राणायामपरस्यास्य पुरुषस्य महात्मनः॥ २३॥
देहश्चोत्तिष्ठते तेन किंचिज्ज्ञानाद्विमुक्तता।
रेचकं पूरकं मुक्त्वा कुम्भकं नित्यमभ्यसेत्‌॥ २४॥
सर्वपापविनिर्मुक्तः सम्यग्ज्ञानमवाप्नुयात्।
मनोजयत्वमाप्नोति पलितादि च नश्यति॥ २५॥
प्राणायामैकनिष्ठस्य न किंचिदपि दुर्लभम्।
तस्मात्सर्वप्रयत्नेन प्राणायामं समभ्यसेत्‌॥ २६॥
विनियोगान्प्रवक्ष्यामि प्राणायामस्य सुव्रत।
संध्ययोर्ब्राह्मकाले वा मध्याह्ने वाऽथवा सदा॥ २७॥

———————————————————————————————————————————एवोक्तरीत्या ज्ञानद्वारा मोक्षसाधनमित्यर्धः॥ १७—२१॥ प्राणायामेन चित्तमिति। आह—पतञ्जलिः"ततः क्षीयते प्रकाशावरणं धारणासु योग्यता मनसः” इति॥ २२॥ २३॥ किंचिज्ज्ञानादिति। प्राणायामो हि सत्त्वशुद्धिं जनयति। तया ज्ञानं भवति। श्रूयते हि—“ज्ञानप्रसदेन विशुद्धसत्त्वस्ततस्तु तं पश्यते निष्कलंध्यायमानः” इति॥२४—२७॥ नासाग्रं नाभिमध्यं पादाङ्गुष्ठं च चिन्तयतस्तत्रचित्तं धृतं भवति तेन च प्राणो जीयत इत्यर्थः। एतद्योगप्रकारः सविशेषमन्यत्रोक्तः— “इडया वायुमाकृष्य पूरयित्वोदरे दृढम्‌। वामाङ्घ्र्यङ्गुष्ठके नाभौनासाग्रे धारयेत्स्थिरम्‌। पुनः पिङ्गलयाऽऽपूर्यदक्षाङ्घ्र्यङ्गुष्ठकेऽनिलम्‌। नाभौनासाग्रके प्राग्वद्धारयेद्धयानसंयुतः पुटाभ्यामथवा वायुं पूरितं धारयेत्स्थिरम्‌। अनेनाभ्यासयोगेन्‌ प्राणवायुर्जितो

बाह्यप्राणं समाकृष्य पूरयित्वोदरेऽनघ।
नासाग्रे नाभिमध्ये च पादाङ्गुष्ठे च धारयेत्‌॥ २८॥
सर्वरोगविनिर्मुक्तो जीवेद्वर्षशतं नरः।
नासाग्रधारणाद्वायुर्जितो भवति सुव्रत॥ २९॥
सर्वरोगविनाशः स्यान्नाभिमध्ये च धारणात्‌।
शरीरलघुता विप्र पादाङ्गुष्ठनिरोधनात्॥ ३०॥
जिह्वया वायुमाकृष्य यः पिबेत्सततं नरः।
श्रमदाहविनिर्मुक्तो भवेन्नीरोगतामियात्‌॥ ३१॥
जिह्वयावायुमाकृष्य जिह्वामूले निरोधयेत्‌।
पिबेदमृतमव्यग्रं सकलंसुखमाप्नुयात्‌॥ ३२॥
इडया वायुमाकृष्य भ्रुवोर्मध्ये निरोधयेत्‌।
यः पिबेदमृतं शुद्धं व्याधिभिर्मुच्यते हि सः॥ ३३॥
इडया वेदतत्त्वज्ञ तथा पिङ्गलयाऽपि च।
नाभौनिरोधयेत्तेन व्याधिभिर्मुच्यते नरः॥ ३४॥
मासमात्रं त्रिसंध्यायां जिह्वयाऽऽरोप्य मारुतम्‌।
अमृतं च पिबेन्नाभो मन्दं मन्दं निरोधयेत्‌॥ ३५॥
वातपित्तादिजा दोषा नश्यन्त्येव न संशयः।
नासाभ्यां वायुमाकृष्य नेत्रद्वंदे निरोधयेत्‌॥ ३६॥
नेत्ररोगा विनश्यन्ति तथा श्रोत्रनिरोधनात्‌।
तथा वायुं समारोप्य धारयेच्छिरसि स्थिरम्‌॥ ३७॥

———————————————————————————————————————————भवेत्‌ इति॥२८॥ धारणात्रयस्य पृथक्फलमाह—नासाग्रेति॥२९॥३०॥ जिह्वामूले निरोधयेच्चित्तं धारयेत्‌।तमेवात्यन्तशीतलममृतमयं वायुमव्यग्रशनैः पिवेत्‌॥ ३१—३४॥ जिह्वयाऽऽरोप्येति। जिह्वाग्रसंस्पर्शी यथा वायुर्भवति

शिरोरोगा विनश्यन्ति सत्यमुक्तंबृहस्पते।
स्वस्तिकासनमास्थाय समाहितमनास्तथा॥ ३८॥
अपानमूर्ध्वमाकृष्य प्रणवेन शनैः शनैः।
हस्ताभ्यां बन्धयेत्सम्यक्कर्णादिकरणानि वै॥ ३९॥
अङ्गुष्ठाभ्यामुभे श्रोत्रेतर्जनीभ्यां तु चक्षुषी।
नासापुटावथान्याभ्यां प्रच्छाद्य करणान वै॥ ४०॥
आनन्दाविर्भवं यावत्तावन्मूर्धनि धारयेत्‌।
प्राणः प्रयात्यनेनैव ब्रह्मरन्ध्रं महामुने॥ ४१॥
ब्रह्मरन्ध्रे गते वायौनादश्चोत्पद्यतेऽनघ।
शङ्खध्वनिनिभश्चाऽऽदौ मध्ये मेघध्वनिर्यथा॥ ४२॥
शिरोमध्यगते वायौभिरिप्रस्वणं यथा।
पश्चाच्चित्तं महाप्राज्ञ साक्षादात्मोन्मुखं भवेत्‌॥ ४३॥

———————————————————————————————————————————तथा काकचञ्चुवदोष्ठौ कृता मन्दं मन्दं पवनमाकर्षन्नाभौचित्तं धारयेदित्यर्थः॥३५—३७॥ संमुखीकरणयोगमाह —स्वस्तिकसनमित्यादि॥३८॥ ऊर्ध्वमाकृष्याऽऽकुंच्य शनैः शनैः। त्वरया हि कृते नाड्यन्तरप्रवविष्टःपवनो व्यथयेत्‌॥३९॥ वामदक्षिणहस्ताङ्गुष्ठाभ्यांश्रोत्रे। तजर्नीभ्यां चक्षुषी। मध्यमाभ्यां च नासापुटौ च निरुध्य यावदानन्दाविर्भावो भवति तावद्ब्रह्मरन्ध्रे चित्तं धारयतः प्राणः सुषुम्नां प्रविशतीत्यर्थः॥४०॥४१॥ नादश्चोत्पद्यत इति। तद्भेदा हंसोपानिषादिदशधा कथिताः। चिणीति प्रथमः। चिणिचिणीति द्वितीयः। घण्टानादस्तृतीयः। शङ्खनादश्चतुर्थः। पञ्चमस्तन्त्रीनादः। षष्ठस्तालनादः। सप्तमो वेणुनादः। अष्टमो भेरीनादः। नवमो मृदङ्गनादः। दरामो मेघनाद इति॥ ४२॥४३॥ उत्कर्षप्राणायाममाह—दक्षिणोत्तरेति। वामेन गुल्फेन सीवनीं पीडयित्वा जान्वोरधःस्थित्तं तमेव वामगुल्फसधिंदक्षिणगुल्फेन पीडयित्वा शिवविनायकवागीशान्स्मरल्लिँङ्गनालं समाकृष्य निरुध्य निरुद्धस्य पवनस्य नाड्यन्तरप्रवेशपरिहारार्थ-

पुनस्तज्ज्ञाननिष्पत्तिस्तया संसारनिह्नुतिः।
दक्षिणोत्तरगुल्फेन सीवनीं पीडयेच्छिराम्‌॥ ४४॥
सव्येतरेण गुल्फेन पीडयेद्बुद्धिमान्नरः।
जान्वोरधः स्थितं संधि स्मृत्वा देवं च त्र्यम्बकम्‌॥४५॥
विनायकं च संस्मृत्यतथा वागीश्वरीं पुनः।
लिङ्गनालात्समाकृष्य वायुमव्यग्रतो मुने॥ ४६॥
प्रणवेनाग्नियुक्तेन बिन्दुयुक्तेन बुद्धिमान्‌।
मूलाधारस्य विप्रेन्द्र मध्यमे तु निरोधयेत्‌॥ ४७॥

———————————————————————————————————————————माकुञ्चितोल्बणबन्धंकृत्वा रेफविन्दुयुक्तं प्रणवमनुस्मरन्मूलाधारपवनं निरोधयेत्‌। मूलाधाराकुञ्चनलक्षणं मूलबन्धं कुर्यादिर्त्यः। अयमुत्कर्षप्राणायामयोग आगमे सविशेषोदर्शितः—“अथोत्कर्षाभिधानस्य प्राणायामस्य संयमः। इडाधः सीवनीं सूक्ष्मां पीडयेद्वामगुल्फतः॥ तद्गुल्फोपरि निक्षिप्य दक्षगुल्फं समं स्थिरम्‌। ञ्जङ्घोरुसंधिंनिच्छिद्रां बद्ध्वाऽऽसीत समाहितः॥ मूलाधारे चतुष्पत्रे रक्तकिञ्जल्कशोभिते। मनसा प्रणवं ध्यायन्दक्षगुल्फं विलोकयन्‌॥ यावन्मनोलयस्तस्मिस्तावद्वायुं निरोधयेत्‌। अपानोऽनेन योगेन वह्निस्थानं व्रजेत्तदा॥ आग्नेये मण्डले रक्ते त्रिकोणे देहधारकः। वैश्वानरो वसत्यग्निरन्नपानादिपाचकः॥ अपानमग्निना सार्धं प्राणं तत्रैव निश्चलम्‌। धारयेत्प्रणवं ध्यायन्यावदग्निर्जितो भवेत्‌॥ जतिऽग्निविजये सम्यगूर्ध्वं तद्बह्निमण्डलात्‌। कन्दनाभेरधस्ताच्च स्वधिष्ठानेच षड्दले॥ प्राणापानौसमारोप्य निश्चलंवह्निना सह। नाभिं विलोकयन्दृष्ट्या मनसा प्रणवंस्मरन्‌॥ यावन्मनोलयस्तस्मिंस्तावदायुं निरोधयेत्‌। ततोऽग्निना सवातेन प्रबोधं याति कुण्डली। प्रबुद्धा कुण्डली कन्दनाभिरन्ध्रात्फणं स्वकम्‌। अपाकरोति तेनैतसुषुम्नामूलरन्ध्रकम्‌॥ विवृतंभवति क्षिप्रं तस्मिन्वायुं प्रपूरयेत्‌। शनैःसाग्निंसुषुम्नायामा मूर्ध्नैःप्रणंव स्मरेत्‌॥ धारयेन्मारुतं साग्निंसुषुम्नारन्‍ध्रमूर्धनि। मरुताऽऽपूरिते देहे सर्वाङ्गे सह वह्निना॥ तदात्मा दृश्यते मृर्ध्नि यथाऽऽकाशेप्रभा-

निरुद्धवायुना दीप्तो वह्निर्दहति कुण्डलीम्‌।
पुनः सुषुम्नया वायुर्वह्निना सह गच्छति॥ ४८॥
एवमभ्यसतस्तस्य जितो वायुर्भवेद्ध्रुवम्‌।
प्रस्वेदः प्रथमः प्रश्चात्कम्पनं मुनिसत्तम॥ ४९॥
उत्थानं च शरीरस्य चिह्नमेतज्जितेऽनिले।
एवमभ्यसतस्तस्य मूलरोगो विनश्यति॥ ५०॥
भगंदरं च नष्टं स्यात्तथाऽन्ये व्याधयो मुने।
पातकानि विनश्यन्ति क्षुद्राणि च महान्ति च॥ ५१॥
नष्टे पापे विशुद्धं स्याच्चित्तदर्पणमुत्तमम्‌।
पुनर्ब्रह्मादिलोकेभ्यो वैराग्यं जायते हृदि॥ ५२॥
विरक्तस्य तु संसाराज्ज्ञानं कैवल्यसाधनम्।
तेन पाशापहानिः स्याज्ज्ञात्वादेवमिति श्रुतिः॥ ५३॥
अहो ज्ञानामृतं मुक्त्वा मायया पारिमोहिताः।
परिभ्रमन्ति संसारे सदाऽसारे नाराधमाः॥ ५४॥
ज्ञानामृतरसो येन सकृदास्वादितो भवेत्‌।
स सर्वकार्यमुत्सृज्यतत्रैव परिधावति॥ ५५॥
ज्ञानामृतरसः प्रायस्तेन नाऽऽस्वादितो भवेत्‌।
यो वाऽन्यत्रापि रमते तद्विहायैव दुर्मतिः॥ ५६॥

———————————————————————————————————————————करः” इति॥ ४४—५१॥ अनेन योगेन न केवलमारोग्यंकिंतु समाधानं ज्ञानमप्यपवर्गफलं भवतीत्याह—पुनर्ब्रह्मादीति॥५२॥ ज्ञात्वा देवमिति। “ज्ञात्वा देवं सर्वपाशापहानिः क्षीणैःक्लेशैर्जन्ममृत्युप्रहाणिः” इति श्वेताश्वतरोपनिषदित्यर्थः॥५३॥५४॥ असारसंसारपरिभ्रमणं ज्ञानामृतरसापरिज्ञानादित्युक्तम्‌। तत्परिज्ञानवतस्तु तद्विरहमाह—ज्ञानामृ-

ज्ञानस्वरूपमेवाऽऽहुर्जगदेतद्विचक्षणाः।
अथेस्वरूपमज्ञानात्पश्यन्त्यन्ये कुदृष्टयः॥ ५७॥
यज्ञैर्देवत्वमाप्नोति तपोभिर्ब्रह्मणः पदम्‌।
दानैर्भोगानवाप्नोति ज्ञानाद्ब्रह्माधिगच्छति॥ ५८॥
कर्मणा केचिदिच्छन्ति कैवल्यं मुनिसत्तम।
ते मूढा मनिशार्दूल प्लवा ह्येत इति श्रुतिः॥ ५९॥
आत्मैवेदं जगत्सर्वमिति जानन्ति पण्डिताः।
अज्ञानेनाऽऽवृता मर्त्यान विजानन्ति शङ्करम्‌॥६०॥
अज्ञानपाशबद्धत्वादमुक्तः पुरुषः स्मृतः।
ज्ञानात्तस्य निवृत्तिः स्यात्प्रकाशात्तमसो यथा॥६१॥
आत्मस्वरूपविज्ञानादज्ञानस्य परीक्षया।
क्षीणेऽज्ञाने महाप्राज्ञ रागादीनां परिक्षयः॥ ६२॥
रागाद्यसंभवे प्राज्ञ पुण्यपापोपमर्दनम्‌।
तयोर्नाशे शरीरेण न पुनः संप्रयुज्यते॥ ६३॥

———————————————————————————————————————————तेति॥५५॥५६॥ चराचरजगज्जातस्य परशिवेपरिकल्पितत्वेन वस्तुतस्तन्मयतां तत्त्वविदःपश्यन्तीत्याह—ज्ञानस्वरूपमिति। “सद्धीदंसर्वंसत्सदिति। चिद्धीदं सर्वंकाशतेकाशते च” इति तापनीयश्रुतिः। ज्ञानात्पृथगर्थस्य पारमार्थिकत्वाभिमानस्त्वविद्यैकनिबन्धन इत्याह -अर्थेति॥५७॥५८॥प्लवा ह्येत इति॥ “प्लवा ह्येते अदृढा यज्ञरूपा अष्टादशाक्तमवरं येषु कर्म।एतच्छ्रेयो येऽभिनन्दन्ति मूढा जरामृत्युं ते पुनरेवापियन्ति”इति मुण्डकश्रुतिरपवर्गस्य कर्मसाध्यतां प्रतिक्षिपतीत्यर्थः॥५९—६१॥ ज्ञानान्मिथ्याज्ञाननिवृत्तौ तन्निबन्धनरागाद्यभावेन धर्माधर्मप्रवृत्तिविरहे तदुभयफलभोगनिमित्तस्य शरीरपरिग्रहस्याभावा दुःखात्यन्तनिवृत्तिरपवर्गो भवतीत्याह—आत्मस्वरूपेति। तथा च गौतमसूत्रम्‌ “दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञा-

अशरीरो महानात्मा सुखदुःखैर्नबाध्यते।
क्लेशमुक्तः प्रसन्नात्मा मुक्त इत्युच्यते बुधैः॥ ६४॥
तस्मादज्ञानमूलानि सर्वदुःखानि देहिनाम्‌।
ज्ञानेनैव निवृत्तिः स्यादज्ञानस्य न कर्मभिः॥ ६५॥
नास्ति ज्ञानात्परं किंचित्पवित्रं पापनाशनम्‌।
तदभ्यासादृते नास्ति संसारच्छेदकारणम्‌॥ ६६॥
सर्वमुक्तं समासेन तव स्नेहान्महामुने।
गोपनीयस्त्वयैवैष वेदान्तार्थो महामुने॥ ६७॥

इति श्रीस्कान्दपुराणे सूतसंहितायां ज्ञानयोगखण्डे प्राणायामविधिनिरूपणं नाम षोडशोऽध्यायः॥ १६॥

———————

सप्तदशोऽध्यायः॥

१७. प्रत्याहारविधिनिरूपणम्‌।

ईश्वर उवाच—

अथातः संप्रवक्ष्यामि प्रत्याहारं महामुने।
इन्द्रियाणां विचरतां विषयेषु स्वभावतः॥ १॥

———————————————————————————————————————————नानामुत्तरोत्तरापाये तदनन्तरापायादपवर्गः इति॥ ६२—६६॥ गोपनीयइति। ज्ञानस्यैव हेतुत्वं कर्मणामहेतुत्वंच यद्यपि सकलवेदान्तार्थस्तथाऽऽपि मूर्खेषु न न प्रकाशनीयः। ‘न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम्‌। जोषयेत्सर्वकर्माणि विद्वान्युक्तः समाचरन्‌’ इति गीतासु भगवतोक्तमित्यर्थः॥६७॥

इति श्रीसूतसंहितातात्पर्यदीपिकायां ज्ञानयोगखण्डे प्राणायामविधिनिरूपणं नाम षोडशोऽध्यायः॥ १६॥

———————

यतो जितप्राणस्यैवेन्दियनियमनहेतुप्रत्याहारसंभवः, अतस्तदनन्तरं स

बलादाहरणं तेषां प्रत्याहारः स उच्यते।
यद्यत्पश्यति तत्सर्वं ब्रह्म पश्येत्समाहितः॥ २॥
प्रत्याहारो भवत्येष ब्रह्मविद्भिःपुरोदितः।
यद्यच्छुद्धमशुद्धंवा करोत्यामरणान्तिकम्‌॥ ३॥
तत्सर्वं ब्रह्मणे कुर्यात्प्रत्याहारोऽयमुच्यते।
अथवा नित्यकर्माणि ब्रह्माराधनबुद्धितः॥ ४॥
काम्यानि च तथा कुर्यात्प्रत्याहारः स उच्यते।
अथवा वायुमाकृष्य स्थानात्स्थाने निरोधयेत्‌॥ ५॥
दन्तमूलात्तथा कण्ठे कण्ठादुरसि मारुतम्‌।
उरोदेरात्समाकृष्य नाभिकन्दे निरोधयेत्‌॥ ६॥
नाभिकन्दात्समाकृष्य कुण्डल्यां तु निरोधयेत्।

_______________________________________________________________________________उच्यत इत्याह—अथात इति। लक्षणमाह—इन्द्रियाणमिति। आह—पतञ्जलिः—‘स्वविषयासंप्रयोगे चित्तस्वरूपानुकार इवेन्द्रियाणां प्रत्याहारः’ इति॥१॥ ज्ञेयप्रपञ्चस्य सर्वस्य ज्ञानादव्यतिरेकानुसंधानमिन्द्रियनियमनादपि प्रशस्तः प्रत्याहार इत्याह—यद्यदिति। “ब्रह्मैवेदममृतंपुरस्ताद्ब्रह्म पश्चाद्ब्रह्म दक्षिणतश्चोत्तरेण। अधश्चोर्ध्वं च प्रसृतं ब्रह्मैवेदंविश्वमिदं वरिष्ठम्” इति हि मुण्डकोपनिषत्‌॥२॥ सर्वव्यापारजातस्य ब्रह्मणि समर्पणलक्षणमपरं प्रत्याहारमाह—यदि शुद्धमिति। “यत्करोषि यदश्नासि यज्जुहोषि ददासि यत्‌। यत्तपस्यसि कोन्तेय तत्कुरुष्व मदर्पणम्‌॥ शुभाशुभफलैरेवं मोक्ष्यसे कर्मबन्धनैः” इति हि गीतामु॥३॥ निषिद्धानि वर्जयित्वा नित्यानां काम्यानां च फलानभिसंधानेन भगवदाराधनबुद्धयाऽनुप्ठानलक्षणमपरंप्रत्याहारमाह—अथवा नित्येति॥४॥ दन्तमूलात्पादाङ्गुष्ठपर्यन्तं प्राणस्यापकर्षणरूपमपरं प्रत्याहारमाह–अथवा वायुमिति। पूर्वस्थानादपरं स्थानं प्रति वायुमाकृष्यैकैके स्थाने यावदखिलोऽपि प्राण आगत्य स्थिरो भवति तावच्चित्तं धारयेत्‌। अनन्तरमवस्थानान्तरं नयेदित्यर्थः॥५॥ तानि धारणास्थानान्यवरोहेणाऽऽह—दन्तमूलादिति॥

कुण्डलीदेशतो विद्वान्मूलाधारे निरोधयेत्‌॥ ७॥
तथाऽपाने कटिद्वंद्वेतथोरुद्वयमध्यमे।
तथा जानुद्वये जङ्घेपादाङ्गुष्ठे निरोधयेत्‌॥ ८॥
प्रत्याहारोऽयमित्युक्तः प्रत्याहारपरैः पुरा।
एवमभ्यासयुक्तस्य पुरुषस्य महात्मनः॥ ९॥
सर्वपापानि नश्यन्ति भवरोगाश्च सुब्रत।
अथवा तव वक्ष्यामि प्रत्याहारान्तरं मुने॥ १०॥
नाडीभ्यां वायुमाकृष्य निश्चलः स्वस्तिकासनः।
पूरयेदनिलंविद्वानापादतलमस्तकम्‌॥ ११॥
पश्चात्पादद्वये तद्वन्मूलाधारे तथैव च।
नाभिकन्दे च हृन्मध्ये कण्ठमूलेच तालुके॥ १२॥
भुवोर्मध्ये ललाटे च तथा मूर्धनि धारयेत्‌।
अकारं च तथोकारं मकारं च तथैव च॥ १३॥
नकारं च मकारं च शिकारं च वकारकम्‌।

———————————————————————————————————————————६—८॥ प्रयाहारोऽयमिति। दन्तमूलमारभ्योक्तस्थानक्रमेण प्राणस्य पादाङ्गुष्टप्रत्याहरणं प्रत्याहारः॥९॥ पवनस्य पादद्वयमारभ्योऽऽरोहरूपंप्रत्याहारान्तरमाह—अथवातवेति। पादद्वयादिस्थाननवके पूर्वपूर्वस्थानजयानन्तरमुत्तरोत्तरस्थानक्रमेणाकारादिवर्णनव्रकेन सह चित्तस्य धारणमित्यर्थः। एष च पवनधारणरूपः प्रत्याहारआगमे दर्शितः—“चित्तात्म्यैक्यधृतस्य प्राणस्य स्थानसंहतिः स्थानात्‌। प्रत्याहारो ज्ञेयश्वैतन्ययुतस्य सम्यगनिलस्य” इति। धारणास्थानानि तु तत्र कानिचिदधिकानि—“अङ्गुष्ठगुल्फजानुद्वितयानि गुदं च सीवनी मेढ्रम्‌। नाभिर्हृदयं ग्रीवासलम्बिकाग्रं तथैवनासा च। भ्रूमध्यललाटाग्रंसुषुम्नाद्वादशान्तमित्येवम्‌॥ उत्क्रान्तौपरकायप्रवेशने चाऽऽगतौपुनः स्वतनौ॥ स्थानानि धारणायाः प्रोक्तानि मरुत्प्रयोगविधिनिपुणैः”

यकारं च तथोङ्कारं जपेद्बुद्धिमतां वर॥ १४॥
प्रत्याहारोऽयमित्युक्तः पण्डितैः पण्डितोत्तम।
अथवा मुनिशार्दुल प्रत्याहारं वदामि ते॥ १५॥
देहाद्यात्ममतिं विद्वान्समाकृष्य समाहितः।
आत्मनाऽऽत्मनि निर्द्वंद्वेनिर्विकल्पे निरोधयेत्‌॥ १६॥
प्रत्याहारः समाख्यातः साक्षाद्वेदान्तवेदिभिः।
एवमभ्यसतस्तस्य न किंचिदपि दुलेभम्॥ १७॥
तस्य पुण्यं च पापं च नहि सत्यंबृहस्पते।
अय ब्रह्मविदां श्रेष्ठः साक्षाद्देवेश्वरः पुमान्‌॥ १८॥
प्रत्याहारः समाख्यातः संक्षेपेण महामुने।
गोपनीयस्त्वया नित्यं गुह्याद्गुह्यतरो ह्ययम्‌॥ १९॥

इति श्रीस्कान्दपुराणे सूतसंहितायां ज्ञानयोगखण्डे प्रत्याहारविधिनिरूपणं नाम सप्तदशोऽध्यायः॥ १७॥

———————————————————————————————————————————इति॥१०—१४॥ विषयादिभ्यः प्रत्याहृत्यबुद्धेरात्मनि धारणरूपंप्रत्याहरान्तरमाह—अथवामुनिशार्दुलेति॥१५॥ आत्मना बुद्धया॥ १६॥ १७॥ तस्य पुण्यं चेति। पापवद्भोगकारणं पुण्यमपि संसारावहतया हेयमेव ‘तदा विद्वान्पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति’इति मुण्डकश्रुतिः॥१८॥ गृह्यात्पवनप्रत्याहारादपि विमर्शरूपस्य प्रत्याहारस्य विशेषमाह—गोपनीय इति॥१९॥

इति श्रीसूतसंहितातात्पर्यदीपिकायां ज्ञानयोगखण्डे प्रत्याहारविधाननिरूपणं नाम सप्तदशोऽध्यायः॥१७॥

अष्टादशोऽध्यायः॥

१८. धारणाविधिनिरूपणम्।

ईश्वर उवाच—

अथातः संप्रवक्ष्यामि धारणाः पञ्च सुव्रत।
देहमध्यगते व्योम्नि बाह्याकाशं तु धारयेत्‌॥ १॥
प्राणे बाह्यानिलंतद्वज्ज्वलने चाग्निमौदरे।
तोयं तोयांशके भूमिं भूमिभागे महामुने॥ २॥
हयरवलकाराख्यं मन्त्रमुच्चारयेत्क्रमात्‌।
धारणैषा मया प्रोक्ता सर्वपापविशोधिनी॥ ३॥
जान्वन्तः पृथिवीभागो ह्यपां पाय्वन्त उच्यते।
हृदयान्तस्तथाऽग्न्यंशो भ्रूमध्यान्तोऽनिलांशकः॥ ४॥
आकाशान्तस्तथा प्राज्ञ मूर्धान्तः परिकीर्तितः।
ब्रह्माणं पृथीवीभागे विष्णुंतोयांशके तथा॥ ५॥
अग्न्यंशेच महेशानमीश्वरं चानिलांशके।
आकाशांशे महाप्राज्ञ धारयेत्तुसदाशिवम्‌॥ ६॥

——————————————————————————————————————————— यतः प्रत्याहारेण वशीकृतस्य चित्तस्य धारणासुयोग्यता, अतस्तदनन्तरं ता उच्यन्त इति प्रतिजानीते—अथात इति। तत्र शरीरान्तर्वतिषु वियदादिषु हयरवलवर्णैर्भूतबीजैः सह बाह्यविषयादितादात्म्येन बुद्धिर्धारयितव्या। एषाच धारणा सह फलेन श्वेताश्वतरोपनिषदि वर्णिता—‘पृथ्व्यप्तेजोनिलखे समुत्थिते पञ्चात्मके योगगुणे प्रवृत्ते। न तस्य रोगो न जरा न मृत्युःप्राप्त्यस्य योगाग्निमयं शरीरम्’ इति॥१—३॥ उक्तानां वियदादीनां शरीरे धारणावस्थानविशेषात्सह तत्तद्देवताभिराह—जान्वन्त इति॥४।५॥ महेशानं रुद्रं पञ्चधा विभक्तेषु पादादिषु शरीरप्रदेशेषु पृथिव्यादिपञ्चभूतात्मकतां तेषु

अथवा तव वक्ष्यामि धारणां मुनिपुङ्गव।
मनसीन्दुंदिशः श्रेत्रेकान्ते विष्णुं बलहरिम्‌॥७॥
वाच्यग्निंमित्रमुत्सर्गे तथोपस्थे प्रजापतिम्‌।
त्वचि वायुंतथा नेत्रे सूर्यमूर्तिं तथैव च॥ ८॥
जिह्वायां वरुणं घ्राणे भूमिदेवीं तथैव च।
पुरुषे सर्वशास्तारं बोधानन्दमयं शिवम्‌॥ ९॥
धारयेद्बुद्धिमान्नित्यं सर्वपापविशुद्धये।
एषा च धारणा प्रोक्ता योगशास्रार्थवेदिभिः॥ १०॥
ब्रह्मादिकार्यरूपाणि स्वे स्वे संहृत्य कारणे।
सर्वकारणमव्यक्तमनिरूप्यमचेतनम्‌॥ ११॥
साक्षादात्मनि संपूर्णे धारयेत्प्रयतोनरः।
धारणैषा परा प्रोक्ता धार्मिकैर्वेदपारगेः॥ १२॥
इन्द्रियाणि समाहृत्य मनसाऽऽत्मनि धारयेत्।
कंचित्कालंमहाप्राज्ञ धारणैषा च पूजिता॥ १३॥

———————————————————————————————————————————च ब्रह्मविष्णुरुद्रेश्वरसदाशिवरूपतां च सदा भावयेदित्यर्थः॥६॥ अथवा तवेति। मनःप्रभृत्याध्यात्मिकशरीरभागेषु चन्द्रादीन्याधिदैविकरूपाणि तादात्म्येन भावयेत्‌। क्रान्ते क्रमणेनोपलक्षिते पादे। हरिमिन्द्रम्॥७॥ उत्सृजत्यनेनेत्युत्सर्गोऽपानं तत्र मित्रम्‌॥८॥ पुरुषे जीवे। सर्वशास्तारं परमात्मानम्‌। ‘अन्तः प्रविष्टःशास्ता जनानां सर्बात्मा इति श्रुतेः॥९॥१०॥ धारणान्तरमाह—ब्रह्मादीति। ब्रह्मादीनामपि चिदंशाः स्वस्वकारणपरंपरया मायायां लीयन्ते। माया च परमात्मनि। ब्रह्मादयस्तुपरमात्मरूपेणैव व्यवतिष्ठन्त इति भावयेदित्यर्थः। अव्यक्तमनभिव्यक्तम्‌। नामरूपानिरूप्यमानिर्वचनीयम्‌। अचेतनं जडम्‌॥ ११॥ १२॥ धारणान्तरमाह—इन्द्रियाणीति। मनसैव विषयेभ्य इन्द्रियाणि व्यावृत्यमन आत्मनि धारयेदित्यर्थः। इयं

वेदादेव सदा देवा वेदादेव सदा नराः।
वेदादेव सदा लोका वेदादेव महेश्वरः॥ १४॥
इति चित्तव्यवस्था या धारणा सा प्रकीर्तिता।
ब्रह्मैवाहं सदा नाहं देवो यक्षोऽथवा नरः॥ १५॥
न देहेन्द्रियबुद्ध्यादिर्नमाया नान्यदेवता।
इति बुद्धिव्यवस्थाऽपि धारणा सेति हि श्रुतिः॥ १६॥
सर्वं संक्षेपतः प्रोक्तं सर्वशास्त्रविशारद।
आगमान्तैकसंसिद्धमास्थेयं भवता सदा॥ १७॥

इति श्रीस्कान्दपुराणे सूतसंहितायां ज्ञानयोगखण्डेधारणाविधिनिरूपणं नामाष्टादशोऽध्यायः॥१८॥

—————

———————————————————————————————————————————च कठवल्लीषु सविशेषं दर्शिता—‘यच्छेद्वाङ्मनसी प्राज्ञस्तद्यच्छेज्ज्ञान आत्मनि। ज्ञानमात्मनि महति नियच्छेत्तद्यच्छेच्छान्त आत्मनि’इति॥१३॥वेदादेवेति। देवादयः सर्वे वेदशब्देभ्य एवसृष्टाः। “एते असृग्रमिन्दवस्तिरः पवित्रमाशवः” इति। अत्र मन्त्रेएत इति वै प्रजापतिर्देवानसृजत। असृग्रमितिमनुष्यान्‌। इन्दव इति पितन्‌। तिरः पवित्रमित्यन्याः प्रजा इति श्रुतेः। “ऋषीणा नामधेयानि कर्माणि च पृथक्पृथक्‌। वेदशब्देभ्य एवाऽऽदौ निर्ममे स महेश्वरः”इति स्मृतावपि ऋषिपदस्यसर्वस्रष्टव्योपलक्षणार्थत्वात्‌। महेश्वरोऽपि वेदादेव ज्ञातव्यः “नावेदविन्मनुते तं बृहन्तं सर्वानुभुमात्मानं संपराये” इति॥१४॥ ब्रह्मैवाहमिति ‘अयमात्मा ब्रह्म’ इति श्रुतावात्मनः परमात्मतादात्म्याभिधानेनैव तदितरसमस्तवस्त्वात्मकत्वावगमादित्यर्थः॥१५—१७॥

इति श्रीसूतसंहितातात्पर्यदीपिंकायां ज्ञानयोगखण्डे धारणाविधि निरूपणं नामाष्टादशोऽध्यायः॥१८॥

एकोनविंशोऽध्यायः॥

१९. ध्यानविधिनिरूपणम्‌।

ईश्वर उवाच—

अथातः संप्रवक्ष्यामि ध्यानं संसारनाशनम्‌।
आकाशेनिर्मलंशुद्धं भासमानं सुशीतलम्‌॥ १॥
सोममण्डलमापूर्णमचलं दृष्टिगोचरम्‌।
ध्यात्वा मध्ये महादेवं परमानन्दविग्रहम्‌॥ २॥
उमार्धदेहं वरदमुत्पत्तिस्थितिवर्जितम्‌।
शुद्धस्फटिकसंकाशं चन्द्ररेखावतंसकम्‌॥ ३॥
त्रिलोचनं चतुर्बाहुंनीलग्रीवं परात्परम्‌।
ध्यायेन्नित्यं सदा सोऽहमिति ब्रह्मविदां वर॥ ४॥
अथवाऽऽकाशमध्यस्थे भ्राजमाने सुशोभने।
आदित्यमण्डले पूर्णे लक्षयोजनविस्तृते॥ ५ ॥

——————————————————————————————————————————— यतो धारणाभ्यासेन पारित्यक्तचापलस्य मनसोध्यानयोग्यता, अतस्तदनन्तरं तदुच्यत इत्याह—अथात इति। तच्च सगुणनिर्गुणलक्षणविषयभेदेन द्विविधम्‌। तत्र सगुणध्यानान्याह—आकाश इत्यादि। आकाशे वर्तमानमुक्तलक्षणं सकललोकदृष्टिगोचरंचन्द्रमण्डलं प्रथमतो ध्यात्वा तन्मध्ये “विज्ञानमानन्दं ब्रह्म” इति श्रुत्युक्तं सच्चिदानन्दैकरसं परमेव ब्रह्मोमासहायत्वादियथोक्तलक्षणं स्वीकृतलीलावतारं शिवमात्मत्वेन ध्यायेदित्यर्थः। तथा च वाजसनेयके—बालाक्यजातशत्रुसंवादे“य एवासौ चन्दे पुरुष ऐतमवहं ब्रह्मो पासे”इति बालाकिनोक्ते नैतन्निष्कलशिवस्वरूपंकिंतु स्वीकृतलीलावतारं सकलमिदं रूपमित्यभिप्रायवताऽजातशत्रुणोक्तम्‌ “मामैतस्मिन्संवदिष्ठा बृहन्पाण्डरवासाः सोमो राजेति वा अंहमेतमुपासे”इति॥१-४॥ चन्द्रमण्डलबत्‌ आदित्यमण्डल्मप्याकाशे ध्यात्वा तत्र स्वीकृतदिव्यावतारं परशिवेमवं ध्यायेदि-

सर्वलोकविधातारं हेमरूपिणमीश्वरम्‌।
हिरण्यश्मश्रुकेशं च हिरण्मयनखं तथा॥ ६॥
कप्यास्यासनवद्वक्त्रं नीलग्रीवं विलोहितम्‌।
आगोपालप्रसिद्धंतमम्बिकार्धशरीरिणम्‌॥ ७॥
सोऽहमित्यनिशं ध्यायेत्संध्याकालेषु वा नरः।
अथवा वैदिके शुद्धेऽप्यग्निहोत्रादिमध्यगे॥ ८॥
आत्मानं जगदाधारमानन्दानुभवं सदा।
गङ्गाधरं विरूपाक्षं विश्वरूपं वृषध्वजम्‌॥ ९॥
चतुर्भुजं समासीनं चन्द्रमौलिं कपर्दिनम्‌।
रुद्राक्षमालाभरणमुमायाः पतिमीश्वरम्‌॥ १०॥
गोक्षीरधवलाकारं गुह्याद्गुह्यतरं सदा।
अत्यद्भूतमनिर्द्वंद्वमहंबुद्ध्याविचिन्तयेत्‌॥ ११॥

———————————————————————————————————————————त्याह—अथवाऽऽकाशेति॥५॥हेमरूपिणमिति। उद्गीथविद्यायामादित्यस्थस्य पुरुष्यस्य कतिचिदिहोक्ता हेमरूपत्वादिगुणाः श्रुयन्ते ‘य एषोऽन्तरादित्येहिरण्मयः पुरुषो दृश्यतेहिरण्यश्मश्रुर्हिरण्यकेश आप्रणखात्सर्वएव सुवर्णप्तस्ययथाकप्यासं पुण्डरीकमेवमक्षिणी’इति॥६॥ कप्यास्यासानवदिति। कपीनां हि के पांचिदास्यमासनं च रक्तवर्णं तथा रक्तवणं मुखमित्यर्थः। आगोपालमिति। श्रूयतेहि रुद्राध्याये “उतैनंगोपा अदृशन्नदृशन्नुदहार्यः। उतैनं विश्वा भूतानि स दृष्टो मृडयाति नः” इति॥७॥ उक्तलक्षणं परशिमग्नौ वा स्वीकृतवक्ष्यमाणादिव्यावतारं ध्यायेदित्याह—अथवा वैदिक इति। परब्रह्म सगुणमग्नावुपस्यत्वेनोक्तं हि बालाकिनैव—“य एवायमग्नौपुरुष एतमेवाहं ब्रह्मोपासे” इति।उक्ताश्चन्द्रादित्याग्नयः शिवमूर्तित्वेनाऽऽगमेष्वपि प्रसिद्धाः—“क्ष्मावह्नियजमानार्कजलवातेन्दुखानि च॥ कीर्तिता मूर्तयो ह्यष्टौ” इति॥८—११॥ आदित्यमूर्तिवद्विष्णुमूर्तावपि परशिवस्य वक्ष्यमाणलीलावतारस्य

अथवाऽहं हरिसाक्षात्सर्वज्ञः पुरुषोत्तम।
सहस्रशीर्षापुरुषः सहस्राक्षः सहस्रपात्‌॥ १२ ॥
विश्वो नारायणो देवः अक्षरः परमः प्रभु।
इति ध्यात्वापुनस्स्वस्य हृदयाम्भोजमध्यमे॥ १३॥
प्राणायामैर्विकसिते परमश्वरमन्दिरे।
अष्टैश्वर्यलोपेतेविद्याकेसरसंयुते॥ १४ ॥
ज्ञाननालमहाकन्दे प्रणवेन प्रबाोधिते।
विश्वार्चिषं महावह्निं ज्वलन्तं विश्वतो मुखम्‌॥ १५॥

———————————————————————————————————————————स्वात्मनादात्म्येन ध्यानमाह—अथवेति। तत्र प्रथमतो विष्णुमूर्तेरपि स्वात्मतादात्म्यानुसंधानमाह—अहं हरिरिति। सहस्रशीर्षा।ब्रह्मादिपिपीलिकान्तसर्वप्राणिषु वर्तमानानि सहस्राण्यनन्तानि शीर्षाणि शिरांसि यस्येति स तथोक्तः। पुरुषः पूर्णः। सहस्राक्षः सहस्राण्यनन्तानि प्रजासंबन्धीन्यक्षाणीन्द्रियाणीति सहस्राक्षः। एवं सहस्रपादिति॥१२॥ विश्वो विश्वत्वेन स्थितः। नारायणः ‘नृृ नये’ पचाद्यच्‌। नरो नेता सर्वस्य स्वामी। तस्यापत्यानि नाराः सर्वे चेतना अचेतनाश्च। अपत्येऽण्‌। तेषामयनमधिष्ठानत्वेनाऽश्रयभूतंजलचन्द्राणां विम्बचन्द्रवत्कलधौतादीनां शुक्तिकादिवदिति। नारायणः पूर्वपदात्संज्ञायामितिणत्वम्‌। देवो देवनशीलः। अक्षरोन क्षरतीति सर्वमश्नुत इति वाऽक्षरः। अशेःसरप्रत्ययेऽक्षरम्‌। परमः सर्वोत्कृष्टः। यद्वाऽक्षरः परमः परमाक्षरः परमव्यापको व्यापकानामपि व्यापकः। प्रभुः सर्वेषां प्रकर्षेण भरणक्षमः। तदात्मकस्य स्वात्मनो हृदयाम्भोजमध्ये“पद्मकोशप्रतीकाशं हृदयं चाप्यधोमुखम्‌” इतिश्रुत्युक्ते॥१३॥ रेचकप्राणायामेन विकासीकृत्य, ऊर्ध्वमुखीकृतपरमेश्वरमन्दिरे। तत्र हि परमेश्वरोध्यातव्यत्वेन वक्ष्यते। अणिमादीन्यष्टैश्वर्याणि दलानि तैरुपेते तत्त्वविद्यारूपैः केसरैर्युते ॥१४॥ शास्त्रविषयं ज्ञानं नालंयस्य तस्मिन्महत्तत्वमेव कन्दो यस्य तस्मिन्प्रणवेन प्रबोधिते प्रागुक्तविकासे प्रणवदिवाकरस्यकारणतोच्यते। उक्तहृदयकमलमध्यगतसुषुम्नायामन्तर्व-

वेश्वानरं जगद्योनिं शिखातन्विनमीश्वरम्‌।
तापयन्तं स्वकं देहमापदातलमस्तकम्‌॥ १६॥
निर्वातदीपवत्तस्मिन्दीपितं हव्यवाहनम्‌।
नीलतोयदमध्यस्थं विद्युल्लेखेव भास्वरम्‌॥ १७॥
नीवारशूकवद्रुपं पीताभासं विचिन्तयेत्‌।
तस्य बह्नेःशिखायां तु मध्मे परमकारणम्‌॥ १८॥
परमात्मानमानन्दं परमाकाशमीश्वरम्‌।
ऋतं सत्य परं ब्रह्म साम्बं संसारभेषजम्‌॥ १९॥
उर्ध्वरेतं विरूपाक्षं विश्वरूपं महेश्वम्‌।
नीलग्रीवं स्वमात्मानं पश्यन्तं पापनाशनम्‌॥ २०॥
ब्रह्मविष्णुमहिशानैर्ध्येयं ध्येयविवर्जितम्।
सोहमित्यादरेणैव ध्यायेद्योगी महेश्वरम्‌॥ २१॥
अयं मुक्तेर्महामार्ग अगमान्तैकसंस्थितः।
अथवाऽहं मुनिश्रेष्ठ ब्रह्मा लोकपितामहः॥ २२॥

———————————————————————————————————————————क्ष्यमाणवह्निशिखायाः कारणभूतं मृलाधारस्थं वैश्वानरमाह—विश्वार्चिषमिति। विश्वार्चिषं सर्वतः प्रसरज्ज्वालम्। विश्वतोमुखं विश्वावकाशोदीर्णमुखसामर्थ्यम्‌॥१५॥ जगद्योनिम्‌। यद्धि जगदुपादानं परमात्मज्योतिस्तत्प्रतीकत्वेन तदात्मकमिदं मृलाधारस्थं ज्योतिस्तेन जगद्योनिरित्युच्यते। तत्प्रतीकत्वं च श्रूयते छान्दोग्ये “अथ यदतः परो दिवो ज्योतिर्दीप्यते” इत्यारभ्य“इदं वाव तद्यदिदमन्तः पुरुषे ज्योतिः” इति। शिखां तनोतीति शिखा तन्विनम्‌। औणादिको विनिप्रत्ययः। तापयन्तमिति। श्रूयते च तैत्तिरीयोपनिषदि—“संतापयातिस्वं देहमापादतलमस्तकम्‌” इति॥ १६॥१७॥ तस्यवह्नेरिति। श्रूयते च—‘तस्याः शिखाया मध्ये परमात्मा व्यवस्थित’इति॥१८—२०॥ स्वयं ब्रह्मादिभिर्ध्येयं स्वात्मना ध्यातव्येनान्येन वर्जितम्‌॥२१॥

इति स्मृत्वास्वहृन्मध्ये शिवं परमकारणम्‌।
साक्षाद्वेदान्तसंवेद्यंसाम्बं संसारभेषजम्‌॥ २३॥
अहंवुद्ध्या विमुक्त्यर्थं ध्यायेदीशानमव्ययम्‌।
अथवा सत्यमीशानं ज्ञानमानन्दमद्वयम्‌॥ २४॥
अनन्तममलंनित्यमादिमध्यान्तवर्जितम्‌।
तथाऽस्थूलमनाकाशमसंस्पृश्यमचक्षुषम्‌॥ २५॥
न रसं न च गन्धाख्यमप्रमेयमनूपमम्‌।
सर्वाधारं जगद्रूपममूर्तं मूर्तमव्ययम्‌॥ २६॥

———————————————————————————————————————————ध्यानस्य मोक्षहेतुत्वेश्रुतिः प्रमाणमित्याह—आगमान्तेति। “ओमित्येवं ध्यायथ आत्मानं स्वस्ति वः पाराय तमसः परस्तात्‌” इति श्रूयते। विष्णुमूर्तिरिव स्वयं ब्रह्ममूर्तिर्भूता स्वहृदये शिवंध्यायेदित्याह—अथवाऽहमिति॥२२॥२३॥ सर्वाधारत्वजगत्कारणत्वादिविशिष्टवाचकस्य स इति पदस्य बुद्ध्यादिविशिष्टप्रत्यक्चैतन्यवाचकस्याहंपदस्य च सामानाधिकरण्ये सत्यखण्डैकरसे लक्ष्ये यत्र वाक्यार्थेपर्यवसानमतः सोहमिति महावाक्येनानुसंदध्यादिति। निष्कलविषयं ध्यानमाह—अथवा सत्यमिति॥ २४॥ २५॥ तत्राहपदवाच्यस्य बुद्ध्यादिविशिष्टप्रत्यक्चैतन्यस्य सकललोकप्रत्यक्षत्वेऽपि स इत्येतत्पदवाच्यस्य परोक्षत्वेनाप्रसिद्धत्वात्सर्वाधारमित्यादिना पदजातेन तन्निर्देशः। ततः प्राक्तनेन च सत्यमित्यादिना लक्ष्यस्याखण्डैकरसप्रदर्शनं सोऽहमिति च लक्षणाबीजस्य सामानाधिकरण्यनिर्देश इति विभागः। तत्राद्वयमस्थूलमनाकाशमित्यादयोद्वैतादिनिषेधमुखेन लक्ष्ये पर्यवस्यन्ति। सत्यादयस्तु स्वार्थार्पणप्रणाल्येति विशेषः। तदुक्तमाचार्यः—“तत्नानन्तोऽन्तवद्वस्तुव्यावृत्त्यैव विशेषणम्‌। स्वार्थार्पणप्रणाल्यातु परिशिष्टे विशेषणम्‌” इति। बाजसनेयश्रुतिरप्यतद्वयावृत्तिमुखेनैवैतदेव लक्ष्यंनिर्दिशति “एतद्वै तदक्षरं गार्गि ब्राह्मणा अभिवदन्त्यस्थूलमनण्वहस्वमदीर्घमलोहितमस्नेहमच्छायमतमोऽवाय्वनाकाशमसङ्गमस्पर्शमगन्धमरसमचक्षुष्कमश्रोत्रम्‌” इत्यादि। प्रकृत्याऽमूर्तमपि मायया

अदृश्यंदृश्यमन्तस्थं बहिष्ठं सर्वतोमुखम्।
सर्वतः पाणिपादं च सर्वकारणकारणम्‌॥ २७॥
सर्वज्ञत्वादिसंयुक्तं सोऽहमित्येव चिन्तयेत्‌।
अयं पन्था मुनिश्रेष्ठ साक्षात्संसारनाशने॥ २८॥
अथवा सच्चिदानन्दमनन्तं ब्रह्म सुव्रत।
अहमस्मीत्यभिध्यायेद्ध्येयातीतंविमुक्तये॥ २९॥
इदंतया न देवेशमभिध्यायेन्मनागपि।
ब्रह्मणः साक्षिरूपत्वान्नेदं यदिति हि श्रुतिः॥ ३०॥
एवं ध्यानपरः साक्षाच्छिव एव न चान्यथा।
अनेन सदृशोलोके नहि वेदविदां वर॥ ३१॥
प्रक्षीणाशेषपापस्य ज्ञाने ध्याने भवेन्मतिः।
पापोपहतबुद्धीनां तद्वार्ताऽपि सुदुर्लभा॥ ३२॥
अथवा विष्णुमव्यक्तमाधारं देवनायकम्‌।
शङ्खचक्रधरं देवं पद्महस्तं सुलोचनम्‌॥ ३३॥

———————————————————————————————————————————मूर्तम्‌॥२६॥ एवमदृश्यंदृश्यमव्ययं तत्त्वावबोधपर्यन्तमनिवृत्तोपाधिकम्‌। अन्तस्थमिति। “अन्तर्बहिश्च तत्सर्वंव्याप्य नारायणः स्थितः”इति हि श्रुतिः॥ २७॥ २८॥ उक्ते वाच्यार्थपूर्वकलक्ष्यानुसंधानेक्षणे सति वाच्यानुसंधानमपि त्यक्त्वालक्ष्य एवार्थोऽनुसंधेय इत्याह—अथवा सच्चिदिति। सच्चिदानन्दादयःशब्दा लक्षणयाऽखण्डैकरसमेव स्वरूपं समर्थयन्ति॥२९॥ प्रत्यक्तादात्म्येनैवानुसंधाननियमे कारणमाह—इदंतयेति। नेदं यदिति हि श्रुतिरिति। “यच्चक्षुषा न पश्यति येन चक्षूँषि पश्यति। तदेव ब्रह्म त्वंविद्धि नेदं यदिदमुपासते’ इति तल्वकरोपनिषत्पराक्त्वेन ब्रह्मणोऽनुसंधानं प्रत्याचष्ट इत्यर्थः॥३०—३२॥ सकलनिष्कलात्मकस्य शिवस्य तादात्म्यानुसंधानध्यानन्युक्तवा विष्ण्वादीनामपि सकलध्यानान्याहू—अथवा विष्णु-

किरीटकेयूरधरं पीताम्बरधरं हरिम्‌।
श्रीवत्सवक्षसं विष्णुं पूर्णचन्द्रनिभाननम्‌॥ ३४॥
पद्मपुष्पदलाभोष्ठं सुप्रसन्नं शुचिस्मितम्‌।
शुद्धस्फटिकसंकाशमहमित्येव चिन्तयेत्‌॥ ३५॥
एतच्च दुर्लभं प्रोक्तं योगशास्त्रविशारदेः।
अथवा देवदेवेशं ब्रह्माणं परमेष्ठिनम्‌॥ ३६॥
अक्षमालाधरं देवं कमण्डलुकराम्बुजम्‌।
वरदाभयहस्तं च वाग्देव्या सहितं सदा॥ ३७॥
कुन्देन्दुसदृशाकारमहमित्येव चिन्तयेत्‌।
अथवाऽग्निंतथाऽऽदित्यंचन्द्रं वा देवतान्तरम्‌॥ ३८॥
वेदोक्तेनैव मार्गेण सदाऽहमिति चिन्तयेत्‌।
एवमभ्यासयुक्तस्य पुरुषस्य महात्मनः॥ ३९॥
क्रमाद्वेदान्तविज्ञानं विजायेत न संशयः।
ज्ञानादज्ञानविच्छित्तिः सैव तस्य विमुक्तता॥ ४०॥
सर्वमुक्तं समासेन मया वेदान्तसंग्रहम्‌।
मत्प्रसादाद्विजानीहि मा शङ्किष्ठाः कदाचन॥ ४१॥

इति श्रीस्कान्दपुराणे सूतसंहितायां ज्ञानयोगखण्डे ध्यानविधिनिरूपणं नामैकोनविंशोऽध्यायः॥१९॥

———————————————————————————————————————————मित्यादि। निष्कलं तु विशेषाभावात्तदेवभविष्यतीति न पृथगुक्तम्॥३३—३८॥ अत्र सगुणध्यानानि चित्तैकाग्र्यद्वारापापक्षयद्वारा वा निष्कलसाक्षात्कारे कारणम्‌। निष्कलंध्यानं त्वव्यववानेनेत्याह–एवमभ्यासेति॥३९—४१॥

इति श्रीसूतसंहितातात्पर्यदीपिकायां ज्ञानयोगखण्डे ध्यानविधिनिरूपणं नामैकोनविंशोऽध्यायः॥१९॥

विंशोऽध्यायः॥

२०. समाधिनिरूपणम्।

ईश्वर उवाच—

अथातः संप्रवक्ष्यामि समाधिं भवनाशनम्।
समाधिः संविदुत्पत्तिः परजीवैक्यतां प्रति॥ १॥
यदि जीवः पराद्भिन्नः कार्यतामेति सुव्रत।
अचित्त्वंच प्रसज्येत घटवत्पण्डितोत्तम॥ २॥
विनाशित्वं भयं च स्याद्द्वितीयाद्वाइति श्रुत्तिः।
नित्यः सर्वगतोह्यात्मा कूटस्थो दोषवर्जितः॥ ३॥
एकः स भिद्यते भ्रान्त्यामायया न स्वरूपतः।
तस्मादद्वैतमेवास्ति न प्रपञ्चो न संसृतिः॥ ४॥
यथाऽऽकाशोघटाकाशोमहाकाश इतीरितः।
तथा भ्रान्तैर्द्विधा प्रोक्तो ह्यात्मा जीवेश्वरात्मना॥ ५॥
नाहं देहो न च प्राणो नेन्द्रियाणि तथैव च।
न मनोऽहं न बुद्धिश्चनैव चित्तमहंकृतिः॥ ६॥

——————————————————————————————————————————— यतः साधनभूतध्यानस्वरूपज्ञानायत्ता तत्फलसंविदः समाधिपर्यायाया उत्पत्तिः। अतस्तदनन्तरं तदभिधानमिति प्रतिजानीते—अथात इति। महावाक्यलक्ष्यस्वरूपसाक्षात्कार एव समाधिरिह विवक्षित इत्यर्थः॥१॥ ध्यानफलभूतत्त्वविमर्शस्वरूपफलमाह—यदिजीव इति। ‘कस्माद्धयभेष्यद्द्वितीयाद्वैभयंभवति” इति वाजसनेयश्रुतिरित्यर्थः॥ २॥ ३॥ स भिद्यत इति। माययाऽज्ञानेन जनिता या भ्रान्तिर्विपरीतज्ञानं तथा भेदो गृह्यते। प्रमेयभेदग्रहणस्य“नेह नानास्ति” इति श्रुतिबाधितत्वेन भ्रान्तित्वादित्यर्थः॥ ४॥ ५॥ अविद्ययाऽऽत्मतादात्म्येनाध्यस्तस्य देहेन्द्रियमनःप्राणदेर्विमर्शजानितेन विवेकज्ञानेन निरासमभिनयेन दर्शयति—नाहं देह इति॥

नाहं पृथ्वीन सलिलं न च वह्निर्नचानिलः।
न चाऽऽकाशोन शब्दश्च न च स्पर्शस्तथा रसः॥ ७॥
नाहं गन्धो न रूपं च न मायाऽहं न संसृतिः।
सदा साक्षिस्वरूपत्वाच्छिव एवास्मि केवलः॥ ८॥
इति धीर्यामुनिश्रेष्ठ सा समाधिरिहोच्यते।
अथवा पञ्चभूतेभ्यो जातमण्डं महामुने॥ ९॥
भूतमात्रतया दग्ध्वा विवेकेनैव वह्निना।
पुनः स्थूलादिभूतानि सूक्ष्मभूतात्मना तथा॥ १०॥
विलाप्यैवं विवेकेन ततस्तान्यपि बुद्धिमान्‌।
मायामात्रतया दग्ध्वामायां च प्रत्यगात्मना॥ ११॥
सोऽहं ब्रह्म न संसारी न मत्तोऽन्यत्कदाचन।
इति विद्यात्स्वमात्मानं स समाधिः प्रकीर्तितः॥ १२॥
अथवा योगिनां श्रेष्ठ प्रणवात्मानमीश्वरम्‌।
वर्णत्रयात्मना विद्यादकारादिक्रमेण तु॥ १३॥

———————————————————————————————————————————६॥ यथा भूतकार्यस्यदेहादेर्विवेक एवं तत्कारणस्यपृथिव्यादिभूतजातस्यचेत्याह—नाहं पृथ्वीति॥ ७॥ ८॥ सकारणाद्भुतभौतिकप्रपञ्चादात्मानं बुद्ध्यैव विविच्य विविक्ते तस्मिन्तमाधिरुक्तः। अधुना तं प्रपञ्चंबुद्ध्यैब प्रविलाप्यपरिशिष्टे तस्मिन्नद्धितीये समाधिमाह—अथवा पञ्चेति। “तदनन्यत्वमारम्भणशब्दादिभ्यः” इति न्यायेन भौतिक ब्रह्माण्ड पञ्चीकृतभूतात्मना तानि च भूतान्यपञ्चीकृतभूतात्मना॥ ९॥ १०॥ तान्यपीति। “पर्यायेणानुक्रमोऽत उपपद्यते च” इति न्यानेन पृथिव्यादिक्रमेण मायायां तामप्यात्मनि बुद्ध्यैव प्रविलाप्यपरिशिष्टेऽद्वितीये केवलमात्मनि स्वात्मतादात्म्येनानुसंधानं समाधिरित्यर्थः॥ ११॥ १२ ॥ वाच्यवाचकप्रपञ्चस्यब्रह्मणि परिकल्पितत्वात्प्रणववाच्यस्थलसूक्ष्मप्रपञ्चस्यसकारणस्योपसंहारद्वारा निष्कल-

ऋग्वेदोऽयमकाराख्य उकारो यजुरुच्यते।
मकारः सामवेदाख्यो नादस्त्वाथर्वणी श्रुतिः॥१४॥
अकारो भगवान्ब्रह्मा तथोकारो हरिः स्वयम्‌।
मकारो भगवान्‌ रुद्रस्तथा नादस्तु कारणम्‌॥१५॥
अग्नयश्र तथा लोकाअवस्थावसथास्रयः।
उदात्तादिस्वराः कालाश्चैते वर्णत्रयात्मकाः॥१६॥

———————————————————————————————————————————ब्रह्मणि समाधिमभिधाय वाचकप्रणवावयवानामकारोकारमकारार्धमात्रारूपाणां सकारणानां प्रविलापनं ब्रह्मणि समाधिमिदानीमाह—अथवायोगिनामिति। “प्रणवो ह्यपरं ब्रह्म प्रणवश्च परं स्मृतम्‌। एवं हि प्रणवं ज्ञात्वा व्यश्नुते तदनन्तरम्‌” इति ह्युक्तम्‌॥१३॥ अकारोकारमकारनादानां वेद चतुष्टयात्मकत्वमामाह—ऋग्बेद इति॥१४॥ तेषामेव ब्रह्मविष्णुरुद्रतत्कारणात्मकतामाह—अकार इति॥१५॥ तेषामेव गार्हपत्यदक्षिणाहवनीय- संवर्तकाग्निरूरूपात्मकतामाह—अग्नय इति। लोका इति तु पृथिव्यन्तरिक्षद्युसोमलोकात्मकतां दर्शयति। अवस्था इति जाग्रत्स्वप्नसुषुप्ततुरीयात्मकतामाह। आवसथा इति नाभिहृदयकण्ठमूर्धात्मकतामाह। त्रय इति संवर्तकादीनां चतुर्थानामुपलक्षणम्‌। उदात्तादीति उदात्तानुदात्तस्वरितैकश्रुत्यात्मकतामाह। कालाइति भूतभविष्यद्वर्तमानसाधारणकालतामाह। वर्णत्रयेति नादस्यप्युपलक्षणम्‌। ऋग्वेदाद्यात्मकता चाकारादीनां श्रूयते—तस्य ह वै प्रणवस्य या पूर्वा मात्रा पृथिव्यकारः स ऋग्भिर्ऋग्वेदोब्रह्मा वसवो गायत्रीगार्हपत्यः। द्वितीयाऽन्तरिक्षं स उकारः स यजुर्भिर्यजुर्वेदो विष्णुरुद्रास्त्रिष्टुब्दक्षिणाग्निः। तृतीया द्योः स मकारः स सामभिः सामवेदो रुद्रा आदित्या जगत्याहवनीयो याऽवसानेऽस्य चतुर्थ्यर्धमात्रा सा सोमलोक ओङ्कारः साऽऽथर्वणैर्मन्त्रैरथर्ववेदः संवर्तकोऽग्निर्मरुतो विराडेक ऋषिः” इति। तथा—“जागरिते ब्रह्मा स्वप्ने विष्णुःसुषुप्तौ रुद्रस्तुरीयमक्षरम्‌” इति च। तथाऽन्यत्र—नाभिर्हृदयंकण्ठो मूर्धा चेति॥१६॥ उक्तरूपोपेतमकारं तथाविध उकारे तं च तथाविधे मकारे तं नादे तं मायायां तां च तद्रूपा-

इति ज्ञात्वा पुनः सर्वमक्षरत्रयमात्रतः।
विलाप्याकारमद्वंद्वमुकाराख्ये विलापयेत्‌॥ १७॥
उकारं च मकाराख्ये महानादे मकारकम्‌।
तथा मायात्मना नादं मायां जीवात्मरूपतः॥ १८॥
जीवमीश्वरभावेन विद्यात्सोऽहमिति ध्रुवम्‌।
एषा बुद्धिश्च विद्वद्भिःसमाधिरिति कीर्तिता॥ १९॥
यथा फेनतरङ्गादि समुद्रादुत्थितं पुनः।
समुद्रे लीयते तद्वज्जगन्मय्येव लीयते॥ २०॥
तस्मान्मत्तःपृथङ्नास्ति जगन्माया च सर्वदा।
इति बुद्धिः समाधिः स्यात्समाधिरिति हि श्रुतिः॥ २१।
यस्यैवं परमात्माऽयं प्रत्यग्भूतः प्रकाशितः।
स याति परमं भावं स्वकं साक्षात्परामृतम्‌॥ २२॥
यदा मनसि चैतन्यं भाति सर्वत्रगं सदा।
योगिनोऽव्यवधानेन तदा संपद्यते स्वयम्‌॥ २३॥
यदा सर्वाणि भूतानि स्वात्मन्येवाभिपश्यति।
सर्वभूतेषु चाऽऽत्मानं ब्रह्म संपद्यते तदा॥ २४॥
यदा सर्वाणि भूतानि समाधिस्थो न पश्यति।
एकीभूतः परेणासौतदा भवति केवलः॥ २५॥

———————————————————————————————————————————धिके जीवे तं च परमात्मनैकीकृत्य तद्रूपेणावतिष्ठत इत्यर्थः॥१७—२०॥ इति हि श्रुतिरिति। “इदं सर्वंयदयमात्मा” इति हि श्रूयते॥२१॥ उक्तसमाधिनिष्ठस्य फलमाह—यस्यैवमिति। परमं भावमित्येतद्गतखण्डे तृतीयाध्याये निरूपितम्‌॥२२॥ योगिन इति। व्यवधायकस्याज्ञानस्य निरासात्स्वयं ब्रह्म संपद्यत इत्यर्थः॥२३—२५॥ यदा सर्वइति। तज्ज्ञाने-

यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि स्थिताः।
तदाऽसावमृतीभूत्वा क्षेमं गच्छति पण्डितः॥ २६॥
यदा भूतपृथग्भावमेकस्थमनुपश्यति।
तत एव च विस्तारं ब्रह्म संपद्यते तदा॥ २७॥
यदा पश्यति चाऽऽत्मानं केवलंपरमार्थतः।
मायामात्रं जगत्कृत्स्नंतदा भवति निर्वृतः॥ २८॥
यदा जन्मजरादुःखव्याधिनामेकभेषजम्‌।
केवलं ब्रह्मविज्ञानंजायतेऽसौ तदा शिवः॥ २९॥
तस्माद्विज्ञानतो मुक्तिर्नान्यथा कर्मकोटिभिः।
कर्मसाध्यस्य नित्यत्वं न सिध्यति कदाचन॥ ३०॥
ज्ञानं वेदान्तविज्ञानमज्ञानमितरन्मुने॥
अहो ज्ञानस्य महात्म्यं मया वक्तुं न शक्यते॥ ३१॥
अत्यल्पोऽपि यथा दीपः सुमहन्नाशयेत्तमः।
ज्ञानाभ्यासस्तथाऽल्पोऽपि महत्पापं व्यपोहति॥ ३२॥
यथा वह्निर्महादीप्तः शुष्कमार्द्रं च निर्दहेत्‌।
तथा शुभाशुभं कर्मज्ञानाग्निर्दहति क्षणात्॥ ३३॥

———————————————————————————————————————————नाज्ञाननिरासात्तत्कार्यनिवृत्तौ “योऽकामो निष्काम आप्तकामआत्मकामो नतस्यप्राणा उत्क्रामन्त्यत्रैव समवलीयन्ते”“ब्रह्मैबसन्ब्रह्माप्येति”इति श्रुत्युक्तं ब्रह्म संपद्यत इत्यर्थः॥२६॥ यदा भूतेति। भूतानां पृथिव्यादीनां यः पृथग्भावोभेदः स सर्वएकस्मिन्नेवब्रह्मणि प्रलयदशायां तादात्म्येन स्थित्वा पुनः सृष्टौतत एव विस्तारं प्रतिपद्यत इति यः पश्यति स ब्रह्म संपद्यतइत्यर्थः। श्रुतिपुराणयोरयं समानः पाठः॥२७॥ निर्वतस्तृप्तो मुक्त इत्यर्थः॥२८—३२॥ शुष्कमार्द्रंचेति। परस्पराबिरो

(यथा मन्त्रबलोपेतः क्रीडन्सर्पैर्न दश्यते।
क्रीडन्न लिप्यते ज्ञानी तद्वदिन्द्रियपन्नगैः॥)
पद्मपत्रं यथा तोयैःस्वस्थैरपि न लिप्यते।
तथा शब्दादिभिर्ज्ञानी विषयैर्नहि लिप्यते॥ ३४॥
मन्त्रौषधिबलैर्यद्वज्जीर्यते भक्षितं विषम्‌।
तद्वत्सर्वाणि पापानि जीर्यन्ते ज्ञानिनः क्षणात्‌॥ ३५॥
पश्यञ्शृण्वन्स्पृशञ्जिघ्रन्नश्नन्गच्छन्स्वपन्श्वसन्‌।
प्रलपन्विसृजन्गृह्णन्नुन्मिषन्निमिषन्नपि॥ ३६॥
अकर्ताऽहमभोक्ताऽहमसङ्गः परमेश्वरः।
सदा मत्संनिधानेन चेष्टते सर्वमिन्द्रियम्॥ ३७॥
इति विज्ञानसंपन्नः सङ्गं त्यक्त्वा करोति यः।
लिप्यते न स पापेन पद्मपत्रमिवाम्भसा॥ ३८॥
ये द्विषन्ति महात्मानं ज्ञानवन्तं नराधमाः।
पच्यन्ते रौरवे कल्पमेकान्ते नरके सदा॥ ३९॥
दुर्वृत्तो वा सुवृत्तो वा मूर्खःपण्डित एव वा।
ज्ञानाभ्यासपरः पूज्यः किं पुनर्ज्ञानवान्नरः॥ ४०॥
निरपेक्षं मुनिं शान्तं निर्वैरं समदर्शिनम्‌।
अनुव्रजाम्यहं नित्यं पूयेयेत्यङ्घ्रिरेणुभिः॥ ४१॥

———————————————————————————————————————————धिनोःशुभाशुभयोरेकरूपेण ज्ञानेन दाहे निदर्शनम्‌॥३३—३९॥ ज्ञानाभ्यसपर इति। ज्ञानसाधनयोगाङ्ग्यमाद्यभ्यासवानपि पूज्यः किं पुनर्ज्ञानीत्यर्थः॥४०॥ निरपेक्षमिति। विवेकविज्ञानातिरिक्तस्य निष्फलत्वाबधारणाद्विवेककिज्ञानस्य प्राप्तत्वात्क्कचिदप्यपेक्षारहितमित्यर्थः। समदर्शिनमिति। तथाच भगवतोक्तम्‌—‘‘सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्पबन्धुषु। साधुष्वपि च

यथा राजा जनैः सर्वैः पूज्यते मुनिसत्तम।
तथा ज्ञानी सदा देवैर्मुनिभिः पूज्य एव हि॥ ४२॥
यस्य गेहं समुद्दिश्य ज्ञानी गच्छति सुव्रत।
तस्य क्रीडन्ति पितरो यास्यामः परमां गतिम्‌॥ ४३॥
यस्यानुभवपर्यन्ता बुद्धिस्तत्त्वे प्रवर्तते।
तद्दृष्टिगोचराः सर्वे मुच्यन्ते सर्वकिल्बिषैः॥ ४४॥

कुलंपवित्रं जननी कृतार्था

विश्वंभरा पुण्यवती च तेन।

अपारसच्चित्सुखसागरेऽस्मिन्‌

लीनं परे ब्रह्मणि यस्य चेतः॥ ४५॥

महात्मनो ज्ञानवतः प्रदर्शनात्सुरेश्वरत्वं झटिति प्रयाति।
विहाय संसारमहोदधौ नरा रमन्ति ते पापबलादहो मुने॥

महानिधिं प्राप्य विहाय तं वृथा

विचेष्टते मोहबलेन बालकः।

यथा तथा ज्ञानिनमीश्वरेश्वरं

विहाय मोहेन चरन्ति मानवाः॥ ४७॥

अहो महान्तं परमार्थदर्शिनं

विहाय मायापरिमोहिता नराः।

———————————————————————————————————————————पापेषु समबुद्धिर्विशिष्यते इति॥४१—४५॥ महात्मन इति। श्रूयते हि मुण्डकोपनिषदि—“यंयं लोकं मनसा संविभाति विशुद्धसत्त्वःकामयते यांश्च कामान्‌। तं तं लोकं जयते तांश्च कामांस्तस्मादात्मज्ञंह्यर्चयेद्भूतिकामः” इति। इत्थंसकलश्रेयोमूलस्य तस्य परित्यागेनान्यत्र प्रवृत्तिःसंचितदुरितैक-

हिताय लोके विचरन्ति ते मुने

विषं पिबन्त्येव महामृतं विना॥ ४८॥

बहुनोक्तेन किं सर्वंसंग्रहेणोपपादितम्‌।
श्रद्धया गुरुभक्या त्वं विद्धिवेदान्तसंग्रहम्‌॥ ४९॥
यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ।
तस्यैते कथिता ह्यर्थाःप्रकाशन्ते न संशयः॥ ५०॥

सूत उवाच—

इत्येवमुक्त्वा भगवांस्तूष्णीमास्ते महेश्वरः।
वक्तव्याभावमालोक्य मुनयः करुणानिधिः॥ ५१॥
बृहस्पतिश्च मुनयो वेदान्तश्रवणात्पुनः।
आनन्दाक्लिन्नसर्वाङ्गआत्मानन्दवशोऽभवत्‌॥५२॥
भवन्तोऽपि महाप्राज्ञा मत्तः प्राप्तात्मवेदनाः।
अभवन्कृतकृत्याश्चमा शङ्किध्वंकदाचन॥ ५३॥
स्थापयध्वमिमं मार्गंप्रयत्नेनापि हे द्विजाः।
स्थापिते वैदिके मार्गे सकलंसुस्थितं भवेत्‌॥ ५४॥
यो हि स्थापयितुंशक्तो न कुर्यान्मोहतो नरः।
तस्य हन्ता न पापीयानिति बेदान्तनिर्णयः॥ ५५॥
यः स्थापयितुमुद्युक्तः श्रद्धयैवाक्षमोऽपि सः।
सर्वेपापविनिर्मुक्तः साक्षाज्ज्ञानमवाप्नुयात्‌॥ ५६॥

———————————————————————————————————————————हेतुकेत्याह—विहायेति॥४६—४९॥ गुरुभक्तेस्तत्र कारणत्वेश्वेताश्वतर श्रुतिमुदाहरति—यस्य देव इति॥५०॥ सूतो मुनीन्संबोध्याऽऽह—इत्येवमुक्त्वेति॥५१—५४॥ कृतकृत्यस्य किं स्थापनप्रवृत्त्याऽपीत्यत आह-

यः स्वविद्याभिमानेन वेदमार्गप्रवर्तकम्।
छलजात्यादिभिर्जीयात्स महापातकी भवेत्‌॥ ५७॥
य इमं ज्ञानयोगाख्यं खण्डंश्रद्धापुरःसरम्‌।
पठते सुमुहूर्तेषु न स भूयोऽभिजायते॥ ५८॥
ज्ञानार्थी ज्ञानमाप्नोति सुखार्थी सुखमाप्युयात्‌।
वेदकामी लभेद्वेदं विजयार्थी जयं लभेत्‌॥ ५९॥
राज्यकामो लभेद्राज्यं क्षमाकामः क्षमां लभेत्।
यद्यदिच्छेच्च मनसा तत्तदेव फलंलभेत्‌॥ ६०॥
तस्मात्सर्वेषु कालेषु पठितव्यो मनीषिभिः॥
गुणान्विताय शिष्याय प्रदेयोऽयं प्रयत्नतः॥ ६१॥

इति श्रीस्कान्दपुराणे सूतसंहितायां ज्ञानयोगखण्डे समाधिनिरूपणं नाम विंशोऽध्यायः॥२०॥

———————————————————————————————————————————योहि स्थापयितुमिति। स्वयं कृतकृत्येनापि परमकारुणिकेन शत्रोरपि भवदल्पमप्यनिष्ठं न सोढव्यंकिमुत सकललोकस्य प्राप्तं विद्यासंप्रदायोच्छेदलक्षणं महत्तरमनिष्टमित्यर्थः॥५५—६१॥

संहितायाश्च सूतस्य व्याख्यांतात्पर्यदीपिकाम्‌।
सुस्थिरामनुगृह्णातु विद्यातीर्थमहेश्वरः॥ १॥

इति श्रीमत्कशीविलासश्रीक्रियाशक्तिपरमभक्तिश्रीमत्र्यम्बकपादाब्जसेवापरायणेनोपनिषन्मार्गप्रवर्तकेन श्रीमाधवाचार्येण विरचितायां श्रीसूतसंहितातात्पर्यदीपिकायां ज्ञानयोगखण्डे सामाधिनिरूपणं नाम विंशोऽध्यायः॥२०॥

समाप्तमिदं ज्ञानयोगखण्डम्‌।

—————

॥ श्रीः॥

अथ तृतीयं मुक्तिखण्डम्‌॥

१. मुक्तिमुक्त्युपायमोचकमोचकप्रदचतुर्विधप्रश्नाः।

सौम्यं महेश्वरं साक्षात्सत्यविज्ञानमद्वयम्‌।
वन्दे संसाररोगस्य भेषजं परमं मुदा॥ १॥
यस्य शक्तिरुमा देवी जगन्माता त्रयीमयी।
तमहं शङ्करं वन्दे महामायानिवृत्तये॥ २॥
यस्य विघ्नेश्वरः श्रीमान्पुत्रः स्कन्दश्च वीर्यवान्‌।
तंनमामि महादेवं सर्वदेवनमस्कृतम्‌॥ ३॥
यस्य प्रसादलेशस्य लेशलेशलवांशकम।
लब्ध्वा मुक्तो भवेज्जन्तुस्तं वन्दे परमेश्वरम्‌॥ ४॥
यस्य लिङ्गार्चनेनैव व्यासः सर्वार्थवित्तमः।
अभवत्तं महेशानं प्रणमामि घृणानिधिम्‌॥ ५॥
यस्य मायामयं सर्वंजगदीक्षणपूर्वकम्‌।
तं वन्दे शिवमीशानं तेजोराशिमुमापतिम्‌॥ ६॥
यः समस्तस्य लोकस्य चेतनाचेतनस्य च।
साक्षी सर्वान्तरः शंसुस्तं वन्दे साम्बमीश्वरम्‌॥ ७॥
यं विशिष्टा जनाः शान्ता वेदान्तश्रवणादिना।

——————————————————————————————————————————— एवं ज्ञानोपायमभिधाय ज्ञानफलभूताया मुक्तेः परमप्रयोजनत्तस्याः सोपकरणाया अभिधानारम्भे सपरिवारशिवप्रणिधानप्रणामलक्षणं मङ्गलाचरणं कृतमुपनिबध्नाति व्यासःश्लोकाष्टकेन सौम्यमित्यादिना॥ सकलकल्याणगुणगणनिधेरपि भगवते मुक्तिप्रदानावसरे तदुपाधिकगुणविशिष्टतयैव प्रणिधानमुचितम्‌ “तं यथा यथोपासते तथैव भवति” इति श्रुतेरिति सौम्य-

जानन्त्यात्मतया वन्दे तमहं सत्यचित्सुखम्‌॥ ८॥
हरभक्तो हिरण्याक्षः शैवपूजापरायणः।
अम्बिकाचरणस्नेह ईश्वराङ्घ्रिपरायणः॥ ९॥
क्लान्तः क्लेशहरः क्लीब ईशपूजापरायणः।
ओङ्कारवल्लभोलुब्धो लोलुपो लोललोचनः॥ १०॥
महाप्राज्ञो महाधीमान्महाबाहुर्महोदरः।
शक्तिमाञ्शक्तिदः शंकुः शंकुकर्णः शनैश्चरः॥ ११॥
भगवान्भग्नपापश्च भवो भवभयापहः।
भग्नदर्पोभवप्रीतो भवज्ञोभङ्गुराशुभः॥ १२॥
अग्निवर्णो जपावर्णो बन्धूककुसुमच्छविः।
विरक्तो विरजो विद्वान्वेदपारायणे रतः॥ १३॥
समचित्तः समग्रीवः समलोष्टाश्मकाञ्चनः।
शाकाशी फलमूलाशी शत्रुमित्रविवर्जितः॥ १४॥
कालरूपः कलामाली कालतत्त्वविशारदः।
अणिमाण्डो मुनिः सोमः सोमनाथः प्रियः सुधीः॥१५॥
वेदविद्वेदविन्मुख्यो विद्वत्पादपरायणः।
विशालहृदयो विश्वोविश्ववान्विश्वदण्डधृत्‌॥ १६॥
पवित्रःपरमः पङ्गुः पङ्कजारुणरोचनः।
लम्बकर्णो महातेजा लम्बपिङ्गजटाधरः॥ १७॥
ग्राह्मायणसुतो ग्रीष्मो ग्राहभङ्गपरायणः।

———————————————————————————————————————————त्वसत्यज्ञानत्वसंसारवैद्यत्वगुणानामुपन्यासः॥१—८॥ मुक्तेः परमप्रयोजनत्वेन तत्राऽऽदरातिशयजननाय जिज्ञासूनां हरभक्तादीनां मुनीनां भूयसामुपन्यासः।

लोकाक्षितनयोद्भूतो लोकयात्रापरायणः॥ १८॥
जैगीषव्यस्य पुत्रश्च प्रातःस्नायी जितेन्द्रियः।
वत्सपुत्रो मुनिश्रेष्ठो वंशकाण्डप्रभो मुनिः॥ १९॥
उर्ध्वरेता उमाभक्तो रुद्रभक्तश्च वल्कली।
आश्वलायनसूनश्चब्रह्मविद्यारतो मुनिः॥ २०॥
मुकुन्दो मोचको मुख्यो मुसली मूलकारणः।
सर्वज्ञः सर्ववित्सर्वःसर्वप्राणिहिते रतः॥ २१॥
अत्युग्रोऽतिप्रसन्नश्च प्रमाणज्ञानवर्धकः।
आरुणेयोमहावीर आरुण्युपनिषत्परः॥ २२॥
आत्मविद्यारतः श्रीमान्‌ श्वेताश्वतरपुत्रकः।
श्वेताश्वतरशाखायाः श्रद्धयैव प्रवर्तकः॥ २३॥
शतरुद्रसमाख्यश्च शतरुद्रियभक्तिमान्।
पञ्चप्रस्थानहेतुज्ञः श्रीमत्पञ्चाक्षराप्रियः॥ २४॥
शिवसङ्कल्पभक्तश्च शिवसूक्तप्रवर्तकः।
लिङ्गसूक्तप्रियः साक्षात्कैवल्योपनिषत्प्रियः॥ २५॥
जाबालाध्ययनध्वस्तपापपञ्जरसुंदरः।
पुराणः पुण्यकर्माच पुरुषार्थप्रवर्तकः॥ २६॥
मैत्रायणश्रुतिस्नेही महामैत्रायणो मुनिः।
बाष्कलाध्ययनप्रीतः शाकलाध्ययने रतः॥ २७॥
सर्वशाखारतः श्रीमान्संगमादिमहर्षयः।
द्विसप्ततिसहस्राणि सह द्वादशसंख्यया॥ २८॥
सर्वे शमदमोपेताःशिवभक्तिपरायणाः।

अग्निरित्यादिभिर्मन्त्रैर्भस्मोद्धूलितविग्नहाः॥ २९॥
रुद्राक्षमालाभरणास्त्रिपुण्डाङ्कितमस्तकाः।
लिङ्गार्चनपरा नित्यं शम्भोरमिततेजसः॥ ३०॥
सत्रावसाने संभूय मेरुपार्श्वेविचक्षणाः।
परस्परं समालोच्य श्रद्धया सुचिरं बुधाः॥ ३१॥
मुक्तिं मुक्तेरुपायं च मोचकं मोचकप्रदम्‌।
तपश्चेरूर्महाधीराः शंकरं प्रति सादरम्‌॥ ३२॥
प्रसादादेव रुद्रस्य शिवस्य परमात्मनः।
व्यासशिष्यो महाधीमान्सूतः पौराणिकोत्तमः॥ ३३॥
आविर्बभूव सर्वज्ञस्तेषां मध्ये महात्मनाम्‌।
मुनयश्च महात्मानमागतं रोमहर्षणम्‌॥ ३४॥
दृष्ट्वोत्थायातिसंभ्रान्ताः संतुष्टा गद्गदस्वराः।
प्रणम्य बहुशो भक्त्या दण्डवत्पृथिवीतले॥ ३५॥
पादप्रक्षालनाद्यैश्चश्रद्धयाऽऽराध्य सत्तमम्‌।
समाश्वास्य चिरं कालंप्रसन्नं करुणार्णवम्‌॥ ३६॥
सर्वज्ञं सर्वजन्तूनां वाञ्छितार्थप्रदायिनम्‌।
पप्रच्छुः परमां मुक्तिं मुक्त्युपायं च मोचकम्‌॥ ३७॥
मोचकप्रदमन्यच्च विनयेन सह द्विजाः।
श्रुत्वा मुनीनां तद्वाक्यं लोकानां हितमुत्तमम्‌॥ ३८॥
सूतः पौराणिकः श्रीमान्ध्यात्वा साम्बं त्रियम्बकम्‌।

———————————————————————————————————————————हरभक्त इत्यादिमहर्षय इत्यन्तेन॥९—३०॥ ते च परस्परमनुज्ञाप्य मुक्त्यादिकं सत्रमालोच्योद्दिश्यतं जिज्ञासवः शंकरं प्रति तपश्वेरुः॥३१—३६॥

वेदव्यासं च वेदार्थपरिज्ञानवतां वरम्‌॥ ३९॥
प्रणम्य दण्डवद्भूमौ भक्त्या परवशः पुनः।
वक्तुमारभते सर्वं सर्वभूतहिते रतः॥ ४०॥

इति श्रीसूतसंहितायां मुक्तिखण्डे मुक्तिमुक्त्युपायमोचकमोचकप्रदचतुर्विधप्रश्ननिरूपणं नाम प्रथमोऽध्यायः॥१॥

—————

द्वितीयोऽध्यायः॥

२. मुक्तिभेदकथनम्‌।

सूत उवाच—

शृणुध्वं वेदविन्मुख्याः श्रद्धया सह सुव्रताः।
पुरा नारायणः श्रीमान्सर्वभूतहिते रतः॥ १॥
किरीटकेयूरधरो रत्नकुण्डलमण्डितः।
पीतवासा विशालाक्षः शङ्खचक्रगदाधरः॥ २॥
कुन्देन्दुसदृशाकारः सर्वाभरणमूषितः।
उपास्यमानो मुनिभिर्देवगन्धर्वराक्षसैः॥ ३॥

———————————————————————————————————————————मुक्तिः सायुज्यादि। तदुपायो ज्ञानम्‌। मोचकः शिवः। तत्प्रदस्तज्ज्ञापक आचार्यः। अन्यच्चेति च षष्ठाध्यायादिषु वक्ष्यमाणं ज्ञानाऽनुत्पत्ति कारणादि॥३७—४०॥

इति श्रीसूतसंहितातात्पर्यदीपिकायां मुक्तिखण्डे मुक्तिमुक्त्युपायमोचकमोचक्रप्रदचतुर्विधप्रश्ननिरूपणं नाम प्रथमोऽध्यायः॥१॥

——————

पर्यनुयुक्तः सूतो मुनिभ्यो वक्तुमारभमाणोवक्तव्यस्य मुक्त्यादिचतुष्टयस्यात्यन्तदुर्लभत्वेन तत्र तेषां श्रद्धातिशयजननाय स्वगर्वपरिहाराय यथावदुपसन्नाय जिज्ञासमानाय विष्णवे शिवेनोक्तैरेव वचनैस्तच्चतुष्टयं प्रतिपादयितुमाह—शृणुध्वमित्यादिना॥१—३॥ उत्तरकैलासमिति। क्षेत्राविशेष-

श्रीमदुत्तरकैलासं पर्वतं पर्वतोत्तमम्‌।
स्मरणादेव सर्वस्य पापस्य तुविनाशकम्‌॥ ४॥
अनेकजन्मसंसिद्धैःश्रोतस्मार्तपरायणैः।
शिवभक्तैर्महाप्राज्ञैरेव प्राप्यं महत्तरम्‌॥ ५॥
अवैदिकैश्चपापिष्ठैर्वेदनिन्दापररैपि।
देवतादूषकैरन्येरप्राप्यमतिशोभनम्‌॥ ६॥
अनेककोटिभिः कल्पैर्मया मद्गुरुणा तथा।
ब्रह्मनारायणाभ्यां वा न शक्यं वर्णितं बुधैः॥ ७॥
प्राप्य साक्षान्महाविष्णुः सर्वलोकेश्वरो हरिः।
तताप परमं घोरं तपः संवत्सरत्रयम्‌॥ ८॥
ततः प्रसन्नो भगवान्भवो भक्तहिते रतः।
सर्वलोकजगत्सृष्टिस्थितिनाशस्य कारणम्‌॥ ९॥
सर्वज्ञः सर्ववित्साक्षी सर्वस्य जगतः सदा।
परमार्थपरानन्दः परज्ञानघनाद्वयः॥ १०॥
शिवः शंभुर्महादेवो रुद्रो ब्रह्म महेश्वरः।
स्थाणुः पशुपतिर्विष्णुरीशईशान ईश्वरः॥ ११॥
परमात्मा परः पारः पुरुषः परमेश्वरः।
पुराणः परमः पूर्णस्तत्त्वं काष्ठा परा गतिः॥ १२॥

———————————————————————————————————————————कृतेन तपसा क्षपितकल्मषाणामेव यथोक्तविषय उपदेशः क्रियमाणः फलपर्यन्तो भवतिनान्यथेति विवक्षया तदुपन्यासः॥४—९॥ परमार्थ इति विषयानन्दवन्नाभिमानमात्रसिद्धः परमानन्दः। परज्ञानघन इत्यखण्डैकरसत्वम्॥ १०॥ ११॥ काष्टेति। ‘पुरुषान्न परं किंचित्सा काष्ठा सा परा गतिः इति काठकश्रुतेः॥१२॥ महाव्यास इति। महाननवच्छिन्नोव्यासोवि-

पतिर्देवो हरो हर्ताभर्तास्रष्टा पुरातनः।
महाव्यासो महाधारः अत्ता विश्वाधिकः प्रभुः॥ १३॥
महर्षिर्भूतपालोऽग्निराकाशो हरिरव्ययः।
प्राणो ज्योतिः पुमान्भीमः अन्तर्यामी सनातनः॥१४॥
अक्षरो दहरः साक्षादपरोक्षः स्वयंप्रभुः।
असङ्ग आत्मा निर्द्वंद्वःप्रत्यगात्मादिसंज्ञितः॥ १५॥
उमासहायो भगवान्नीलकण्ठस्त्रिलोचनः।
ब्रह्मणा विष्णुना चैव रुद्रेणापि सदा हृदि॥ १६॥
उपास्यमानः सर्वात्मा सर्ववस्तुविवर्जितः।
कृपया केवलंविष्णुं विश्वमूर्तिर्वृषध्वजः॥ १७॥
अनुगृह्याब्रवीद्विप्रा देवो मधुरया गिरा।
किमर्थं तप्तवान्विष्णो महाघोरं तपश्चिरम्‌॥ १८॥

———————————————————————————————————————————स्तारो यस्य सः। महाधार इति। स्वात्मनि परिकल्पितस्य मायातत्कार्यजातस्य रज्जुरिव सर्पादेराश्रयः। अत्तेति। ‘यस्य ब्रह्म च क्षत्रंच उभे भवत ओदनः। मृत्युर्यस्योपसेचनं क इत्था वेद यत्र सः’ इति काठकश्रुतिः॥१३॥ भूतपाल इति। “एष भूतपालएष सेतुर्विधरण एषां लोकानामसंभेदाय’इति काण्वश्रुतिः। अग्निरिति। ‘तेजो रसो निरवर्तताग्निः’ इति हि श्रूयते। आकाश इति। ‘आकाशो ह्येवैभ्यो ज्यायानाकाशः परायणः’ इति च्छान्दोग्यम्‌। प्राण इति। ‘प्राणोऽस्मिप्रज्ञात्मा तं मामायुरमृतमुपास्व’ इति कौषीतकीश्रुतिः। ज्योतिरिति। “तद्देवा ज्योतिषां ज्योतिरायुर्होपासतेऽमृतम्‌, इति माध्यंदिनश्रुतिः। अन्तर्यामीति। “एषोऽन्तर्याम्येष योनिः सर्वस्य’इति माण्डूक्योपनिषत्‌॥१४॥ अक्षर इति। “एतद्वै तदक्षरं गार्गिब्राह्मणा अभिवदन्ति"इति वाजसनेयश्रुतिःदहर इति। “दहरोऽस्मिनन्तराकाशः’

अत्यन्तं प्रीतवानस्मि तव तद्वदमेऽनघ।
इत्युक्तः शंकरेणासौविष्णुर्विश्वजगन्मयः॥ १९॥
प्रदक्षिणत्रयं कृत्वा दण्डवत्पृथिवीतले।
प्रणम्य बहुशः श्रीमान्भक्त्या परवशोहरिः॥ २०॥
साम्बं शैवं महानन्दसमुद्रं पुरुषोत्तमः।
नेत्राभ्यामागलंपीत्वा कंचित्कालं द्विजर्षभाः॥ २१॥
प्रमत्तः शङ्करादन्यं न किंचिद्वेदसुब्रताः।
ततः प्रबुद्धो भगवान्प्रसन्नः कमलेक्षणः॥ २२॥
अप्रच्छद्देवमीशानं कृपामूर्तिं जगत्पतिम्‌।

विष्णुरुवाच—

भगवन्भूतभव्यज्ञभवान्या सह शङ्कर॥ २६॥
मुक्तिं मुक्तेरुपायं च मोचकं मोचकप्रदम्‌।
तथैवान्यच्च मे ब्रूहि श्रद्दधानस्य शङ्कर॥ २४॥

सूत उवाच—

एवं पृष्टो महादेवो विष्णुना विश्वयोनिना।
विलोक्य देवीमाह्लादादम्बिकामखिलेश्वरीम्‌॥ २५॥
प्रहस्य किंचिद्भगवान्भवानीसहितो हरः।
प्राह सर्वामरेशानोविष्णवे मुनिसत्तमाः॥ २६॥

———————————————————————————————————————————इतिच्छान्दोग्योपनिषत्‌॥१५—२१॥ प्रमत्तः प्रकर्षण हृष्टः। ततः प्रबुद्ध इति हृर्षपारवश्यंमुक्त्वा प्रकृतिस्थः॥२२॥ प्रष्टव्यपरमकाष्टामसौ विष्णुःपृच्छति—भगवन्निति॥ २३॥ २४॥ बिलोक्योति। देव्यालोकनाभिप्रायः। आह्लादात्‌। ‘ह्लादिसुखे च”। आह्लादत इत्याह-

ईश्वर उवाच—

भद्रं भद्रं महाविष्णो त्वया पृष्टं जगद्धितम्।
वदामि संग्रहेणाहं तच्छृणु श्रद्धया सह॥ २७॥
बहुधा श्रुयते मुक्तिर्वेदान्तेषु विचक्षण।

———————————————————————————————————————————लादः। पचाद्यच्‌॥२५—२७॥ बहुधा श्रूयत इति। सालोक्यसामीप्यसारूप्यप्तायुज्यस्वरूपावस्थालक्षणाःपञ्च मुक्तयः। वेदान्तेष्विति—“तपःश्रद्धे ये ह्युपवसन्त्यरण्ये शान्ता विद्वांसो भैक्षचर्यांचरन्तः। र्सूयद्वारेण ते विरजाः प्रयान्ति यत्रामृतः स पुरुषो ह्यव्ययात्मा” इति मुण्डकश्रुतिः। तत्र हि सूर्यद्वारेणेति सूर्योपलक्षितेनार्चिरादिमार्गेण गत्वायत्र सत्यलोके स पुरुषो ब्रह्मा वर्तते तत्र यान्तीति सामीप्यमेतदूर्ध्वरेतसां स्वाश्रमेषु यथोक्तधर्मानुष्ठानवताम्‌। सालोक्यसारूप्यसायुज्यरूपासु तिसृषु मुक्तेषु “एतासामेव देवतानां सायुज्यँू साष्टितांँसमानलोकतामापप्नोति” इति तैत्तिरीयकश्रुतिः। अत्रहि प्रतिमादिषु विष्ण्वादिदेवतानामिव तत्समानलोकत्वंसालोक्यम्‌। अन्तरेणैव प्रतीकं स्वात्मनः पृथक्त्वेनैश्वर्यविशेषविशिष्टतया देवताया उपासकस्य सार्ष्टिता समानरूपता सारूप्यम्‌। सगुणं देव- तारूपमहंग्रहेणोपासनीयस्योपास्यदेवतातादात्म्यंसायुज्यम्‌। एताश्चतस्रोमुक्तयः कर्मफलभूता अनित्याःसातिशयाश्च। या तु ज्ञानफलभूता नित्यनिरतिशयानन्दाभिव्यक्तिलक्षणा सा पञ्चमी। तत्रापि “य एवं विद्वानुदगयने प्रमीयते देवानामेव महिमानं गत्वाऽऽदित्यस्य सायुज्यं गच्छत्यथ यो दक्षिणे प्रमीयते पितृणामेव महिमानं गत्वाचन्द्रमसः सायुज्यँसलोकतामाप्नोयेतौ वै सूर्याचन्द्रमसोर्महिमानौब्राह्मणो विद्वानभिजयति तस्माद्ब्रह्मणो महिमानमाप्नोति” इति तैत्तिरीयके। अत्रहि केबलकर्मिणां चन्द्रलोकप्राप्तिरुक्ता। य एवं विद्वानिति विद्वच्छब्दाभिहितप्रतीकाद्युपासनात्रयवतोदेवानामेव महिमानमिति सालोक्यसारूप्यसायुज्यलक्षणास्तिस्रो मुक्तय उक्ताः। ब्राह्मणो विद्वानिति ब्रह्मनिष्ठस्तत्त्वज्ञानवानुच्यते। एतौ कर्मोपासनाप्राप्यत्वेनोक्तौसूर्याचन्द्रमसोर्महिमानौ। एतौ वै, एतादृशौ खलु सातिशयत्वावृतत्वानित्यत्वादिदो-

एका सालोक्यरूपोक्ता द्वितीया कमलेक्षण॥२८॥
सामीप्यरूपा सारूप्या तृतीया पुरुषोत्तम।
अन्या सायुज्यरूपोक्ता सुखदुःखविवर्जिता॥ २९॥

———————————————————————————————————————————षोपेतत्वात्‌। “द्वितीयाद्वैभयं भवाति” “स एको मानुष आनन्दः” “तद्यथेह कर्मचितो लोकः क्षीयते” “प्लवाह्येते अदृढा यज्ञरूपाः” ‘अतोऽन्यदार्तम्‌’ “वाचारम्भणं विकारः’ “ते तंभुक्त्वास्वर्गलोकम्‌” “कामात्मानः स्वर्गपराः” क्षरन्ति स्वर्गं वैदिक्योजुहोतियजतिक्रियाः” “आ ब्रह्मभुवनाल्लोकाः’ “स्वर्गोऽपि यच्चिन्तने विघ्नोयत्र निवेशितात्ममनसो ब्राह्मोऽपि लोकोऽल्पकः” यावद्विकारं तु विभागो लोकवत्‌ “इत्यादिश्रुतिस्मृतिन्यायप्रसिद्धौ महिमानौबुद्ध्वाब्राह्मणो विद्वान्प्रकृतिप्राकृतमलैरनास्कन्दितं परं ब्रह्माऽऽत्मतया तद्भावं गतो ब्राह्मणोऽभिजयत्यभितः पराकरोति। यद्वा, एतौमहिमानौ सूर्योचन्द्रमसोर्ज्ञानादैश्वर्यविर्भावलक्षणो विद्वान्ब्राह्मणोंऽभिजयत्यात्मत्वेन प्राप्नोति। स्वात्मानं ज्ञानातिशयत्वत्तयोरानन्दादिमहिम्नोः स्वात्मन्येव पश्याति। ’ एतस्यैबाऽऽनन्दस्यान्यानिभूतानि मात्रामुपजीवन्ति’इति। सोऽश्नुते सर्वान्कामान्सह’ ‘तमेवभान्तमनुभाति सर्वम्‌’ “एष उ एव वामनीः’ “एष उ एव भामनीः’ “यद्यद्विभूतिमत्सत्वम्‌’ “यावानर्थउदपाने’ इत्यादिश्रुतिस्मृतिभ्यः। तस्माद्ब्राह्मणो महिमानमाप्नोति। येन सम्यगज्ञानेनावच्छेदकविश्वादिसर्वोपाधीनमात्ममात्रतया प्रविलाप्य तदुपहितज्ञानानन्दादीनन्‍स्वात्ममात्रतया पश्यति विद्वान्। तस्माद्ब्रह्मात्मैकत्वज्ञानाद्ब्रह्मणो निरस्तसमस्तोषप्लवानन्तसत्यपरमानन्दबोधैकतानस्यपरमात्मनः स्वरूपभूतमहिमानं महत्त्वमपास्तसमस्तातिशयपरमानन्दैकतानलक्षणं स्वात्मत्वेनाऽऽप्रोति। एकत्वज्ञानेन व्यवधायिकाविद्यानिवृत्तिरेवाऽऽप्नोतीत्युपचर्यते। ‘ब्रह्मैबसन्ब्रह्माप्येति” इत्यादिश्रुतिभ्यः। तत्र प्रतीकोपासकस्य मुक्तिमाह —एका सालोक्येति॥२८॥ उर्ध्वरेतसां स्वाश्रमेषु यथोक्तधर्मानुष्ठानवतांमुक्तिमाहसामीप्येति। अन्तरेणैब प्रतीकं स्वात्मनः पृथकत्वेन विविधैश्वर्योपेतदेवतोपासकस्य मुक्तिमाह—सारूप्येति। अहंग्रहोपासकस्य मक्तिमाह—अन्या सायुज्येति। इत्थं चतस्रःकर्मफलभूता मुक्तय उक्ताः। ज्ञानफलमुक्तिमाह—

षड्भावविक्रियाहीना शुभाशुभविवर्जिता।
सर्वद्वंद्वर्विनिर्मुक्ता सत्यविज्ञानरूपिणी॥ ३०॥
केवलं ब्रह्मरूपोक्ता सर्वदा सुखलक्षणा।
न हेया नाप्युपादेया सर्वसंबन्धवर्जिता॥ ३१॥
न दृष्टा न श्रुता विष्णो न चाऽऽस्वाद्या न तर्किता।
सर्वावरणनिर्मुक्ता न विज्ञेया निराश्रया॥ ३२॥

———————————————————————————————————————————सुखदुेःखति। अन्येत्यनुवर्तते। दुःखेन क्षयातिशयवता वैषयिकसुखेन च वार्जितम्‌।नित्यनिरतिशयपरानन्दलक्षणात्वाद्विद्याफलस्यमुक्तेरित्यर्थः॥२९॥ वैषयिकसुखदुःखविरहे तदयोग्यत्वंकारणमाह—षड्भावेति। जायतेऽस्ति विपरिणमते विवर्धतेऽपक्षीयते विनश्यतीति षड्भावविकाराः। वैषयिकसुखप्राप्तौ वा दुःखनिवृत्तौ वा, एते स्युः। “उपयन्नपयन्धर्मो विकरोति हि धर्मिणम्‌” इति न्यायान्नित्यनिरतिशयानन्दस्वरूपस्याऽऽत्मनः स्वरूपाभिव्यक्तिरूपायां मुक्तौ नैतत्संभवइत्यर्थः। वैषयिकसुखदुःखविरहे कारणमाह—शुभाशुभेति। विहितं यागादि शुभम्‌। प्रतिषिद्धं हिंसायद्यशुभम्‌। तदुभयं विदुषो नासि “नैनं कृताकृते तपतः” इत्यादिश्रुतिभ्यः।द्वंद्वान्तरविरहस्याप्युपलक्षणमित्याह—सर्वेति। रागद्वेषौ मानावमानौशीतोष्णावित्यादिद्वंद्वैर्नस्पृश्यत इत्यर्थः॥३०॥ आत्मानः स्वरूपत्वेन हातुमशक्यत्वादहेया। अतएव नित्यप्राप्तत्वान्नोपादेवाऽपीत्याह—न हेयेति॥३१॥ न दृष्टेति। “अदृष्टो द्रष्टाऽश्रुतः श्रोताऽमतो मन्ताऽविज्ञातोविज्ञाता, एष तआत्माऽन्तर्याम्यमृतः’इत्यादिश्रुतिभ्यः। ननु महावाक्यात्मिकया श्रुत्या लक्षणया वेद्यत्वात्कथमश्रुतत्वमित्यत आह—सर्वावरणेति। अविद्ययाऽऽवृतस्यैव स्वरूपस्याऽऽवरणनिरासाय लक्षणया वाक्यजन्यज्ञानविषयत्वान्निरस्तसमस्तोपाधिकस्य त्वावरणेन लक्ष्यत्वेन श्रुतिजन्यज्ञानेन च नास्त्येव संबन्धः। तथाविधस्वरूपश्चेह मुक्तिरित्युच्यते। “यद्वाचाऽनभ्युदितम्‌” इत्यादिभिर्ज्ञानाविषयस्यैव वस्तुत्वेन व्यवस्थापनात्‌। नन्वेवं तस्यौपनिषदज्ञानविषयत्वेऽवस्तुत्वादवस्तुनि नोपनिषदां प्रामाण्यमविषयत्वे च सुतरामिति कथमौपनिषदत्वं वस्तुन

वाच्यवाचकनिर्मुक्ता लक्ष्यलक्षणवर्जिता।
सर्वेषां प्राणिनां साक्षादात्मभूता स्वयंप्रभा॥ ३३॥
प्रतिबन्धविनिर्मुक्ता सर्वदा परमार्थतः।
अविचारदशायां तु प्रतिबद्धास्वमायया॥ ३४॥
एषैव परमा मुक्तिः प्रोक्ता वेदार्थवेदिभिः।
अन्याश्च मुक्तयः सर्वाअवराः परिकीर्तिताः॥ ३५॥
जन्मनाशाभिभूताश्च तारतम्येन संस्थिताः।
स्पर्धयोपहता नित्यं परतन्त्राश्च सर्वदा॥ ३६॥

———————————————————————————————————————————उच्यते “तं त्वौपनिषदं पुरुषं पृच्छामि” इति। सत्यम्‌। वस्तु ज्ञानाविषय एव। ‘यतोवाचो निवर्तन्ते। अप्राप्य मनसा सह” इति वाङ्मनसातीतस्यैव वस्तुत्वेन व्यवस्थापनात्‌। औपनिषदत्वंतु, उपनिषद्विचारजन्यान्तःकरणवृत्या स्वात्मानमप्यविषयीकुर्वत्या वस्तुतत्त्वमात्राकारया प्रतिबन्धकाज्ञाननिवृत्तौ स्वरूपभूतस्फूरणेनैववस्‍तुनोऽवभासमभिप्रेत्योक्तमिति न दोषः। तदिदमुक्तं स्वयंप्रमेति॥ ३२॥ ३३॥ स्वरूपातिरिक्तस्यप्रतिबन्धस्याङ्गीकारे तेनैव द्वैतापत्तिस्तन्निवृत्तये कर्मापेक्षा च स्यात्‌। नहि वस्तुज्ञानेन निवर्तते यतो ज्ञानमज्ञानस्यैव निवर्तकमित्यत आह—प्रतिबन्धेति। अज्ञानस्यैव प्रतिबन्धकत्वाभिधानाद्वास्तवप्रतिबन्धकानङ्गीकारान्न यथोक्तदोष इत्यर्थः॥३४॥ प्राक्तनमुक्तिचतुष्टये तर्हिप्रतिबन्धकस्याज्ञानस्यानिवृत्तेः कथं ता मुक्तय इत्यत आह—एषैवेति। इयमेव मुख्या मुक्तिः। अन्यास्तु क्रियत्यः कियतोऽपि दुःखस्योपरमान्मुक्तित्वेनोपचरिता इत्यर्थः॥३५॥तासाममुख्यत्वेकारणमाहजन्मेत्यादि। दुःखसंपृक्तत्वेनाविशुद्धत्वात्क्षयित्वात्सातिशयत्वाच्चन ता मुख्या मुक्तयः। इयमेव च तद्विरहान्मुख्या। यदुक्तम्‌—‘दृष्टवदानुश्रविकः स ह्यविशुद्धिक्षयातिशययुक्तः। तद्विपरीतः श्रेयान्व्यक्ताव्यक्तज्ञविज्ञानात्‌” इति॥ जन्मना शेति विनाशित्वम्‌। तारतम्येनेति सातिशयत्वम्‌। सातिशयत्वस्य दोषता-माह-स्पर्धयेति। उपकरणपारतन्त्र्यादपि तासां न मुख्यत्वमित्याह—परतन्त्रा

सुखोत्तरा अपि श्रेष्ठा दुःखमिश्राश्च सर्वदा।
एताश्च मुक्तयोऽन्येषां केषांचिदधिकारिणाम्‌॥ ३७॥
विश्रान्तिभूमयः साक्षान्मुक्तेः प्रोक्ताः क्रमेण वै।
अत्यन्तशुद्धचित्तानां नृणामेता विमुक्तयः॥ ३८॥
भवन्ति विष्णो भोगार्थं स्वर्गवत्ताश्च नश्वराः।
एताश्च बहुधा भिन्ना विद्धिपङ्कजलोचन॥ ३९॥
काश्चिच्छङ्करसारूप्यरूपाः प्रोक्ता विमुक्तयः।
काश्चिन्मुकुन्दसारूप्यरूपाः काश्चिज्जनार्दन॥ ४०॥
ब्रह्मसारूप्यरूपाश्च तथा काश्चिद्विमुक्तयः।
ब्रह्मविष्णुमहेशानामर्वाग्रूपसमाः स्मृताः॥ ४१॥
काश्चित्सदाशिवादीनां रूपेण सदृसा हरे।
काश्चिदन्यसमा विष्णो मुक्तयः परिकीर्तिताः॥ ४२॥
काश्चिच्छङ्करसामीप्यरूपाः प्रोक्ता विमुक्तयः।
विष्णुसामीप्यरूपाश्च काश्चिद्विष्णोविमुक्तयः॥ ४३॥

———————————————————————————————————————————इति॥३६॥ अविशुद्धिमाह—सुखोत्तरा अपीति। कथं तर्ह्येता मुक्तित्वेन पारिगणिता इत्याशङ्क्य मन्दाधिकारिविषयत्वेनेत्याह—एताश्चेति। साक्षान्मुक्तेरर्वाचीना एताः क्रमेण तारतम्पेनोपेता विश्रान्तिभूमित्वसाम्यान्मुक्तय इत्युपचरिता इत्यर्थः। आसां मुक्तित्वमुपचरितमित्यपिविवेकिन एव जानन्ति।अविवेकिनस्तु स्वर्गवद्भोगभूमीरेता एव मुक्तित्वेनाभिमन्यन्ते कर्मिणो हि स्वर्गमपि मुक्तित्वेन व्यवहरन्ति। “आपम सोमममृता अभूमागन्म ज्योतिरविदाम देवान्‌” इति। तदीयाभिमानस्य भ्रममूलत्वंमुण्डकादिषु श्रूयते—“अविद्यायां बहुधा वर्तमाना वयं कृतार्थाइत्यभिमन्यन्ति बालाः। यत्कर्मिणो न प्रवेदयन्ति रागात्तेनाऽऽतुराः क्षीणलोकाश्च्यवन्ते” इत्यादि॥३७॥३८॥ भ्रममुक्तीनां स्वरूपभेदं विवेकिभिस्तासां हानाय व्युत्पादयति—एताश्च

ब्रह्मसामीप्यरूपाश्चतथा काश्चिद्विमुक्तयः।
विभूतिरूपसामीप्यरूपाः काश्चिद्विमुक्तयः॥ ४४॥
शिवसालोक्यरूपाश्चप्रोक्ताः काश्चिद्विमुक्तयः।
विष्णुसालोक्यरूपाश्च काश्चिद्विष्णो विमुक्तयः॥ ४५॥
ब्रह्मसालोक्यरूपाश्च तथा तेषां जनार्दन।
विभूतिरूपसालोक्यरूपा ज्ञेया विमुक्तयः॥ ४६॥
एवं बहुविधा ज्ञेया मुक्तयः पुरुषोत्तम।
एतास्वशुद्धाचित्तानामिच्छा नित्यंप्रजायते॥ ४७॥
नृणां विशुद्धचित्तानां क्रममुक्तौजनार्दन।
वाञ्छा विजायते तेषां सिध्यत्येव परा गतिः॥ ४८॥
अतीव शुद्धचित्तानां प्रसादादेव मे हरे।
इच्छा सायुज्यरूपायां मुक्तौसम्यग्विजायते॥ ४९॥
प्रसादहीनानां साक्षान्मुक्तौनेच्छा विजायते।
वेदमार्गैकनिष्ठानां मद्भक्तानां महात्मनाम्‌॥ ५०॥
श्रद्धा प्रवृत्तिपर्यन्ता साक्षान्मुक्तौविजायते।
सायुज्यरूपा परमा मुक्तिर्जीवपरात्मनोः॥ ५१॥
पारमार्थिकतादात्म्यरूपाऽप्यज्ञाननाशतः।

———————————————————————————————————————————बहुधेति॥३९—४६॥ त्रिविधा ह्यधिकारिणः अविशुद्धचित्ता विशुद्धचित्ता अतीव शुद्धचित्ताश्चेति। आद्या भ्रममुक्तिमिच्छति। द्वितीया क्रममुक्तिम्‌। तृतीयाः साक्षान्मुक्तिमित्यधिकारिभेदेन मुक्तिर्विभज्यते—एतास्वशुद्धेति॥४७॥४८॥ सायुज्यरूपायामिति। अत्र सायुज्यपदेन निर्गुणब्रह्मात्मभाव एव विवक्षितो न देवतातादात्म्यमिति॥४९॥५०॥ विवृणोति—सायुज्यरूपा परमेति॥५१॥वेदान्तोति। “ब्रह्मविदाप्नोति परम्” “व्रह्म वेद ब्रह्मैव भवति’इत्यादिश्रुतिषू॥

**मुमुक्षोर्व्यज्यते सम्यगिति वेदान्तनिर्णयः॥५२॥
यस्य स्वभावभूतेयं मुक्तिः साक्षात्परा हरे।
अभिव्यक्ता स एवाहमिति मे निश्चिता मतिः॥५३॥
यस्य मुक्तिरभिव्यक्ता स्वात्मसर्वार्थवेदिनी।
तस्य प्रारब्धकर्मान्ता जीवन्मुक्तिः प्रकीर्तिता॥ ५४॥
स्वतःसिद्धात्मभूताया मुक्तेरज्ञानहानतः। **

———————————————————————————————————————————४२॥ तादात्म्यस्य स्वाभाविकत्वेनाविद्यामात्रनिबन्धना तदप्राप्तिर्विद्यया तन्निवृत्तिः। प्राप्तिरेवाभिव्यक्तेत्युक्तम्‌॥ ५३॥ ज्ञानेनाविद्यानिवृत्तौ तत्कार्यप्राणदेहधारणलक्षणजीवनस्यासंभवात्कथंलोकवेदयोर्जीबन्मुक्तिरिति व्यवहार इत्यत आह—यस्य मुक्तिरिते। द्विविधो ह्यविद्याव्यापारः। दृश्यस्यावभासकत्वं तस्य वस्तुत्वाभिमानजनकत्वं चेति। तत्र यस्मिञ्शरीरे विद्योदयस्तदारम्भककर्मावसाने जाता विद्या देहाभासजगदवभासावपि निवर्तयति। या त्वारम्भककर्मशेषे सत्येव विद्या जायते सा तेन कर्मणा प्रतिबद्धा जाताऽपि दृश्यस्यवस्तुत्वाभिमानमेव व्यवच्छिनत्ति न स्वरूपावभासं सा जीवन्मुक्तिः। स्वात्मन्यध्यस्तं सर्वंस्वरूपप्रकाशेनैव वेत्तीति स्वात्मसर्वर्थवेदी तस्य च मुक्तिः स्वरूपभूतैव। यदाहुः—“निवृत्तिरात्मा मोहस्य ज्ञातत्वेनोपलक्षितः। उपलक्षणहानेऽपि स्यान्मुक्तिःपाचकादिवत्‌’इति॥ अतः सा सर्वार्थवेदिनीत्यभिव्यक्तेति चोच्यते। प्रारब्धकर्मणोऽन्तोऽवसानं तदवधिक। जीवन्मुक्तिरित्यर्थः। श्रुयते हि—’ तस्याभिध्यानाद्योजनात्तत्त्वभावाद्भूयश्चान्ते विश्वमायानिवृत्तिः’ इति। तिस्रोहि मायावस्थाः। दृश्यस्य वास्तवत्वाभिमानात्मिका प्रथमा। सा युक्तिशात्रजनितविवेकज्ञानान्निवर्तते। तन्निवृत्तावपि प्रागिव साभिनिवेशव्यवहारहेतुर्द्वितीया। सा तत्त्वसाक्षात्कारान्निवर्तते तन्निवृत्तावपि देहाभासजगदवभासहेतुरूपा तृतीया। सा प्रारब्धकर्मावसानेनिवर्तत इत्यर्थः। “स्वतःसिद्धात्मरूपिणी”इति पाठान्तरम्‌॥५४॥ दग्धवस्त्रंप्रावरणादिव्यवहारजननाक्षममपि तदाकारप्रतिभासमात्रेण यथा वस्त्रमित्युच्यते। एवं ज्ञानाग्निना दग्धप्रपञ्चःप्रागिवाभिनिवेशजनकोऽपि, अवभासमात्रेण बद्ध इत्युच्यते।

अभिव्यक्तेर्महाविष्णो बद्धत्वं दग्धवस्त्रवत्‌॥ ५५॥
प्रपञ्चस्य प्रतीतत्वाज्जीवनं पुरुषोत्तम।
फलोपभोगात्प्रारब्धकर्मणः संक्षयो हरे॥ ५६॥
प्रतिभासो निवर्तेत प्रपञ्चस्य न संशयः।
यस्य दृश्यप्रपञ्चस्य प्रतिभासोऽपि केशव॥ ५७॥
निवृत्तः स्वप्नवत्सोऽयं मुक्त एव न संशयः।
भूतपूर्वानुसंधानान्मुक्त इत्युच्यते मया॥ ५८॥
स न मुक्तो न बद्धश्च न मुमुक्षुर्नचापरः।
य एवमात्मनाऽऽत्मानं सुदृढंवेद केशव॥ ५९॥
स एवपरमज्ञानी नेतरो माययाऽऽवृतः।
एवं जानामि सुदृढमिति यो वेत्ति केशव॥ ६०॥

———————————————————————————————————————————अभिनिवेशाभावादेव चाऽऽत्मनो मुक्तत्वमित्यर्थः॥५५॥५६॥ इयंचेज्जीवन्मुक्तिः का तर्हिपरमा मुक्तिरित्यत आह—यस्य दृश्येति॥५७॥ बन्धश्चेदवस्तुत्वेन न न कदाचिदप्पस्ति तर्हिन तस्य निवृत्तिरिति कथं तन्निवृत्तिरूपा मुक्तेरित्युच्यत इत्यत आह—भूतपूर्वेति। यथा वस्तुतोऽसतोऽपि बन्धस्थाऽऽविद्यकं सत्वमेवं तन्निवृत्तेरपीत्यर्थः। न च निवृत्तेरवस्तुत्वेनिवर्त्यमवतिष्ठत इति वाच्यम्‌। यथाऽऽहु—“मिथ्याभावेन भूतं किं मिथ्यानाशान्न नश्यति” इति॥५८॥ वस्तुतस्तर्हिकथमित्यत आह—स न मुक्त इति। तदुक्तमाचार्यैः—“न निरोधो न चोत्पत्तिर्न बद्धो न च साधकः। न मुमुक्षुर्न वैमुक्त इत्येषा परमार्थता” इति। य एवमिति। नित्यनिवृत्ताया मायायाः निवृत्तिमात्मस्वभावभूततां स्वरूपप्रकाशेनैवं वेद, एवं जानीयात्‌॥५९॥ इतरस्तु ज्ञानविषयतामविषयस्याऽऽत्मनो मन्यमान अत्मानमजानन्नेव जानामीति व्यवहाराद्वञ्चकइत्यर्थः। उक्तं तलवकारोपनिषदि—“यस्यामतं तस्य मतं मतं यस्य न वेद सः। अविज्ञातं विजानतां विज्ञातमविजानताम्‌” इति६०॥ मुक्तिस्वभाव इति। मुक्तेरात्मस्वरूपत्वात्तस्यच वाङ्मनसोरगोचरत्वा-

स मूढ एवसंदेहो नास्ति विज्ञानवञ्चकः।
मुक्तिस्वभावो वेदान्तैर्मया च परिभाषितुम्‌॥ ६१॥
अशक्यः स्वानुभूत्या च मौनमेवात्र युज्यते।
मुक्तिरुक्ता मया विष्णो महत्या श्रद्धया तव॥ ६२॥
त्वमपि श्रद्धया विद्धिश्रेयसे भूयसे सदा।

सूत उवाच—

एवं निशम्य भगवान्विष्णुर्वेदाथेमुत्तमम्‌॥ ६२॥
सर्वज्ञं सर्वभूतेशं सर्वभूतप्रिये रतम्‌।
प्रदक्षिणत्रयं कृत्वा भवानीसहितं हरम्‌॥ ६४॥
प्रणम्य दण्डवद्भक्त्या भवं भवहरं शिवम्‌।
स्तोत्रैःस्तुत्वा महादेवंपूजयामास सुव्रताः॥ ६५॥

इति श्रीस्कान्दपुराणे सूतंसंहितायां मुक्तिखण्डे मुक्तिभेद

कथनं नाम द्वितीयोऽध्यायः॥ २॥

——————

तृतीयोऽध्यायः॥

३. मुक्त्युपायकथनम्‌।

ईश्वर उवाच—

अथातः संप्रवक्ष्यामि मुक्त्युपायं समासतः।

———————————————————————————————————————————न्मौनमेव तत्र शोभत इत्यर्थः। श्रूयते हि—‘’

अवचनेनैव प्रोवाच’ इति॥६१—

६५॥

इति श्रीसूतसंहितातात्पर्यदीपिकायां मुक्तिखण्डे मुक्तिभेदकथनं नाम द्वितीयोऽध्यायः॥२॥

———————

यतउपेयाभिधानानन्तरं तदुपायजिज्ञासाऽतस्तदनन्तरं स उच्यत

श्रद्धया सह भक्त्या च विद्धिपङ्कजलोचन॥ १॥
आत्मनः परमा मुक्तिर्ज्ञानदेव न कर्मणा।
ज्ञानं वेदान्तवाक्यानां महातात्पर्यनिर्णयात्‌॥ २॥
उत्पन्नायां मनोवृत्तौ महत्यामम्बुजेक्षण।
अभिव्यक्तं भवेदेतद्ब्रह्मैवाऽऽत्मा विचारतः॥ ३॥
अनेनैवाऽऽत्मनोऽज्ञानमात्मन्येव विलीयते।
विलीने स्वात्मनोऽज्ञाने द्वैतं वस्तु विनश्यति॥ ४॥
द्वैतवस्तुविनाशेन शोभनाऽशोभना मतिः।

———————————————————————————————————————————इति प्रतिजानीते—अथात इति॥१॥ ज्ञानादेवेति। यद्यपि ज्ञानमेव मुक्तिसाधनं न कर्मादिकमिति प्रथमखण्डे सप्तमाध्यायेऽप्युक्तं तथाऽपि साधनभूतस्यतस्य ज्ञानस्य च स्वरूपं यथा च तस्य साधनत्वंस प्रकारः सकलो वर्णनीय इत्ययमारम्भः। महातात्पर्येति। तत्त्वंपदार्थयोरेकैकस्य स्वरूपे “सत्यं ज्ञानमनन्तं ब्रह्म’‘योऽयंविज्ञानमयः प्राणेषु हृद्यन्तर्जोतिः पुरुषः” इत्यादेरवान्तरवाक्यस्य यत्तात्पर्यंतदवान्तरतात्पर्यम्‌। शोधितपदार्थद्वयस्य तादात्म्येऽखण्डैकरसरूपेतत्त्वमस्यादिवाक्यस्य यत्तात्पर्यं तन्महातात्यर्यंतन्निर्णीयते। येन वेदान्तमीमांसान्यायसन्दर्भण तन्निर्णयस्तस्मादित्यर्थः॥२॥ विषयस्याखण्डैकरसस्य परमपुरुषार्थत्वेन तद्विषया मनोबृत्तिर्महती विचारत उत्पन्नायामिति सम्बन्धः॥१॥ अनेनैवेति। यद्यपि ब्रह्म स्वात्मन्यध्यस्तस्य मायातत्कार्यजातस्य स्वरूपस्फुणेनैव प्रकाशकमत एव यः सर्बज्ञः सर्वविदित्यप्युच्यते तथाऽपि तदेव ब्रह्म यथोक्तरूपायांवृत्तौप्रतिबिम्बितंसत्तस्यैव मायातत्कार्यजातस्य विनाशकंभवति। एकस्याप्यवस्थाभेदेन तत्प्रकाशकत्वंतन्निवर्तकत्वंचाविरुद्धम्‌। तथा हि— ‘प्रकाशयति भा भानोर्यैव तूलतृणादिकम्‌। सा सूर्यकान्तसंक्रान्ता तद्दहन्त्युपलभ्यते’इति॥ अज्ञानबिनाशे तत्कार्यत्वेन द्वैतवस्तुनो विनाशः॥४॥ यथोक्ततत्त्वज्ञानेनाज्ञाननिवृत्तावुपादाननाशादेव संचितस्य धर्माधर्मादेर्नाशः। नूतनस्य तु निरुपादानत्वादनुत्पत्तिरेव। रागद्वेषौवि-

क्षीयते मतिनाशेन रागद्वेषो विनश्यतः॥ ५॥
तयोर्नाशेमहाविष्णो धर्माधर्मौ विनश्यतः।
धर्माधर्मक्षयद्देहो विषयाणीन्द्रियाणि च॥ ६॥
नश्यन्त्येव न संदेहो ज्ञात्वादेवमिति श्रुतिः।
घटज्ञानाद्धटाज्ञानं यथा लोके विनश्यति॥ ७॥
तथाऽऽत्मज्ञानमात्रेण नश्यत्यज्ञानमात्मनः।
रज्ज्वज्ञानविनाशेन रज्जुसर्पोविनश्यति॥ ८॥
तथाऽऽत्माज्ञाननाशेन संसारस्यविनश्याति।
तस्मादज्ञानमूलस्य संसारस्य क्षयो हरे॥ ९॥
आत्मनस्तत्त्वविज्ञानात्तत्वं ब्रह्मैव केवलम्।
यथा सर्पेदमंशस्य तत्त्वं दण्डादि केवलम्॥ १०॥

———————————————————————————————————————————नश्यत इत्यादौनाशशब्दौविनेत्युच्यते॥५॥६॥ ज्ञात्वेति। “ज्ञात्वा देवंमुच्यते सर्वपाशैः”इति श्वेताश्वतरश्रुतिरित्यर्थः। ज्ञानस्यज्ञाननिवर्तकत्वे घटज्ञानं दृष्टान्तः॥७॥ अज्ञाननाशाद्भ्रमनिवृत्तौ रज्जुसर्पन्यायः॥ ८॥ ९॥ ननु कथमात्मज्ञानादज्ञानतत्कार्यनिवृत्तिः संसारदशायामहंकर्ताऽहं भोक्तेत्यादावहमित्यात्मनि भासमने सत्येव तत्राऽऽरोपितसंसारावभासादित्यत आह—आत्मनस्तत्त्वेति। अज्ञानं हि निरंशमप्यात्मानमंशवन्तमिव कृत्वा तत्रैकमंशमावृणोति नेतरम्‌। यन्नाऽऽवृणोति स बिभ्रमदशायामहमित्यवभातो भ्रमतत्कारणयोरधिष्ठानम्‌। तन्मात्रावभासो भ्रमस्य हेतुरेव न निवर्तकः। यंपुनरावृणोति निरतिशयानन्दरूपमद्वितीयंतदज्ञानस्य विषयमात्मनस्तत्त्वंब्रह्मैव तज्ज्ञानदज्ञानादज्ञानस्य निवृत्तिर्नाधिष्ठानज्ञानमात्रादित्यर्थः। अधिष्ठानज्ञानस्य भ्रमानिवर्तकत्वेविशेषज्ञानस्यच निवर्तकत्वे निदर्शनमाह—यथा सर्पेति। अथं सर्प इति विभ्रमेऽवभासमनो दण्डस्य तनुदीर्घत्वादिसाधारणाकारोऽधिष्ठानम्‌। आवृतस्तु दण्डत्वादिरसाधारणाकारोविषयश्चेदमंशस्य पारमार्थिक रूपंतेन रूपेण दण्डस्य ज्ञानाद्विभ्रमनिवृत्तिर्यथेत्यर्थः॥१०॥ दार्ष्टान्तिके

अस्य संसारिणस्तत्त्वंंतथा ब्रह्मैव केवलम्‌।
अज्ञानमूलं कर्त्रादिकारकग्रामनिर्मितम्‌॥ ११॥
अज्ञानबाधकं कर्मभवेदम्बुजेक्षण।
कर्मणा परमा मुक्तिर्यदि सिध्यति केशव॥ १२॥
सा विनश्यत्यसंदेहः स्वर्गलोको यथा तथा।
तस्मान्न कर्मणा मुक्तिः कल्पकोटिशतैरपि॥ १३॥
कर्मणैवापरा मुक्तिर्नज्ञानादेव केवलात्‌।
तत्र कर्मद्विधा विष्णो विजानीहि विचक्षण॥ १४॥

———————————————————————————————————————————योजयति—अस्येति। कर्मणः संसारनिवर्तकत्वेन तन्मूलाज्ञानान्निवर्तकत्वं कारणमाह—अज्ञानेति॥११॥ नकेवलं कर्मणः स्वमूलत्वादज्ञानं प्रत्यनिवर्तकत्वंनिवर्तकत्वेऽज्ञाननिवृत्तिरूपायामुक्तेः कर्मजन्यत्वेन स्वर्गवदनित्यत्वप्रसङ्गादपि तदनिवर्तकत्वमित्याह–कर्मणेति। ‘कर्मणैवहि संसिद्धिमास्थिता जनकादयः’। इत्यादिभिरपि न कर्मणोमुक्तिहेतुतोच्यते। किंतु सम्यक्सिध्यत्यनया मुक्तिरिति विद्या संसिद्धिपदेनोच्यते।तत्प्रतिबन्धकपापनिराकरणद्वारा परमुक्तौ साधनता कर्मणोऽभिधीयत इति मन्तव्यम्‌॥१२॥१३॥ कर्मणः साक्षात्परममुक्तावसाधनत्वे वैयर्थ्यमेव प्राप्तमिति चेन्न। विचित्रं हि कर्मतत्र किंचित्साक्षादसाधनमपि ज्ञानद्वारा परमुक्तौ साधनम्‌। किंचित्पुनरपि परिपक्वज्ञानासहकृतमपरमुक्तौ। किंचित्तु केवलंभोगसाधनमित्यादिप्रकारभेदेन तदुपयोगसंभवादित्याह—कर्मणैवापरेत्यादिप्रपञ्चेन। कर्मणा सहैव ज्ञानादुपासनारूपादपरिपक्वात्मज्ञानाद्वा तयोरन्यतरलाभमात्रेण कर्मत्यागेनाकरणनिभित्तप्रत्यवायात्तदुपायमपि प्रतिबध्येत परिपक्वात्मज्ञानं पुनरनादिभावपरंपरोपार्जितं संचितमपि निर्दहेत्‌। न केनचित्प्रतिबध्यते। श्रूयते हि—“एतँहवाव न तपति।किपहँसाधु नाकरवम्‌। किमहं पापमकरवमिति। स य एवं विद्वानेते आत्मानँस्मृणुते’ इति। स्मर्यते च–‘ज्ञानाग्निःसर्वकर्माणि भस्मसात्कुरुतेऽर्जुन”। “नहि ज्ञानेन सदृशं पवित्रमिह विद्यते” इति। विभागेनोप-

एकं कर्माऽऽन्तरं बाह्यमपरं पङ्कजेक्षण।
वाचिकं कायिकं बाह्यं कर्ममानसमान्तरम्‌॥ १५॥
तत्र सर्वं परं ब्रह्म न चान्यदिति यः पुमान्‌।
उपास्ते श्रद्धया नित्यं स सम्यग्ज्ञानमाप्नुयात्‌॥१६॥
यः पुमान्देवदेवेशं त्रिनेत्रं चन्द्रशेखरम्‌।
उमार्धविग्रहं शुद्धंनीलग्रीवं महेश्वरम्‌॥ १७॥
ब्रह्मविष्णुमहादेवैरुपास्यं गुणमूर्तिभिः।
उपास्ते तस्य विज्ञानं जायते पारमेश्वरम्‌॥ १८॥
अथवा चित्तकालुष्याच्छिवसारूप्यमच्युत।
लब्ध्वा भुक्त्वा महाभोगानन्ते विज्ञानमैश्वरम्‌॥ १९॥
लब्ध्वा तेन महाविष्णो प्राप्नोति परमां गतिम्‌।
यः शिवं गुणमूर्तीनामुपास्ते श्रद्धया सह॥ २०॥
सलब्ध्वा रुद्रसारूप्यं क्रमाज्ज्ञानेन मुच्यते।
यो रुद्रस्यापरां मूर्तिमुपास्ते श्रद्धया सह॥ २१॥
स लब्ध्वा रुद्रसारूप्यं भुक्त्वा भोगानतिप्रियान्‌।
चित्तपाकानुगुण्येन शिवसारूप्यमेव च॥ २२॥

———————————————————————————————————————————योगं दर्शयितुं कर्म विभजते—तत्र कर्मेति॥१४॥१५॥आन्तरस्य कर्मणः फलमाह—तत्र सर्वमिति॥१६॥ तस्यैव विषयभेदेन फलान्तरमाह—यः पुमानिति॥१७॥ पारमेश्वरमिति। परमेश्वरस्य सकलरूपविषयसाक्षात्कारक्रमेण निष्कलरूपविषयं चेत्यर्थः॥१८॥ रागाद्यनुपहताचित्तस्योक्तम्‌। तदुपहतचित्तस्य पुनराह—अथवा चित्तेति॥१९॥ गुणमूर्तीनामिति। ब्रह्मविष्णुरुद्राणां मध्ये यो रुद्रमुपास्त इत्यर्थः॥२०॥ अहंग्रहादिवैचित्र्येण सायुज्यादिव्यवस्थाप्रागुक्तरीत्याद्रष्टव्या॥२१॥२२॥ अत्यन्ता-

शिवसायुज्यमाप्नोति शिवज्ञानेन केशव।
अत्यन्तापरमां मूर्तिं यः पुमानीश्वरस्य तु॥ २३॥
उपास्ते रुद्रसालोक्यं स लब्ध्वा पुरुषोत्तम।
भुक्त्वा भोगान्क्रमाद्विष्णो रुद्रसारूप्यमेव च॥ २४॥
रुद्रसामीप्यमन्यद्वासायुज्यं विद्ययाऽऽप्नुयात्‌।
अथवा विष्णुलोकादीनवाप्य पुरुषोत्तम॥ २५॥
तत्र तत्रमहाभोगानवाप्य कमलेक्षण।
पृथिव्यां जायते शुद्धे ब्राह्मणानां कुलेनरः॥ २६॥
यः पुमान्‌ श्रद्धया नित्यं त्वामुपास्ते जनार्दन।
स शुद्धचित्तस्त्वां विष्णो प्राप्य कालेन मामपि॥२७॥
भुक्त्वा भोगान्पुनर्ज्ञानं लब्ध्वा मुक्तो भवेन्नरः।
अथवा चित्तवैकल्याद्विष्णुसारूप्यमेव वा॥ २८॥
विष्णुसामीप्यमन्यद्वाविष्णुसालोक्यमाप्नुयात्।
यस्तवापरमां मूर्तिमुपास्ते श्रद्धया नरः॥ २९॥
तव सामीप्यमाप्नोति क्रमेणैव स मुच्यते।
अत्यन्तापरमां मुर्तिं य उपास्ते तवाच्युत॥ ३०॥
स लब्ध्वा तव सालोक्यं पुनः सामीप्यमेव वा।
सारूप्यं वा पुनाश्चित्तपरिपाकानुकूलतः॥ ३१॥
मामवाप्य परिज्ञानं लब्ध्वा तेन प्रमुच्यते।

———————————————————————————————————————————परमामिति। प्रतीकमत्यन्तापरमं फलार्थम्‌। तत्तद्गुणविशिष्टमपरमम्‌॥२३॥ ॥२४॥ स्वाभाविकं परमं प्रतीकोपासकः क्रमात्स्वरूपोपासनं लभत इत्याह—विद्ययेति॥२५॥२६॥ विष्ण्वादिप्रतीकादिष्वाह—यः पुमानिति। अनन्तरोक्तमिदं च निष्कामसकामविषयमिति द्रष्टव्यम्‌ ॥२७॥ वैकल्या-

अथवा चित्तकालुष्याद्ब्रह्मादिभवनं गतः॥ ३२॥
तत्र भुक्त्वा महाभोगान्क्रमाद्भूमौविजायते।
यः पुमान्हृदये नित्यं ब्रह्माणं पङ्कजेक्षण॥ ३३॥
अक्षमालाधरं शुभ्रं कमण्डलुकराम्बुजम्‌।
वरदाभयहस्तं च वाचा सहितमीश्वरम्‌॥ ३४॥
उपास्ते ब्रह्मसारूप्यं स याति पुरुषोत्तम।
विशुद्धचित्तश्चेन्मर्त्यस्त्वामवाप्य ततः परम्‌॥ ३५॥
प्राप्य मामद्वयं ज्ञानं लब्ध्वा तेन प्रमुच्यते।
अथवाऽपक्वचित्तश्चेद्ब्रह्मलोके महासुखम्‌॥ ३६॥
भुक्त्वा भूमौ महाप्राज्ञः सदाचारवतां कुले।
जायते पूर्वभावेन ब्रह्मध्यानरतो भवेत्‌॥ ३७॥
ब्रह्मणः परमां मूर्तिं य उपास्ते जनार्दन।
ब्रह्मसामीप्यमाप्नोति नात्र कार्याविचारणा॥ ३८॥
विशुद्धहृदयो मर्त्यःक्रमान्मामाप्नुयाद्धरे।
अविशुद्धो विजायेत क्रमेण वसुधातले॥ ३९॥
अत्यन्तापरमां मूर्तिं ब्रह्मणः परमेष्ठिनः।
य उपास्ते स सालोक्यं याति शुद्धस्तु मुच्यते॥४०॥
अशुद्धो जायते भूमौ क्रमाद्भूक्त्वा महासुखम्‌।
यो देवतान्तरं नित्यमुपास्ते श्रद्धया सह॥ ४१॥
चित्तपाकानुगुण्येन मूर्त्युत्कर्षबलेन च।
सालोक्यादिपदं लब्ध्वा पुनर्ब्रह्मपदं हरे॥ ४२॥
लब्ध्वा विष्णुपदं चाऽपि मम रूपं महत्तरम्‌।

मत्तो लब्ध्वा मम ज्ञानं तेन मुच्येत बन्धनात्‌॥४३॥
अथवा मलिनस्तत्रभुक्त्वा भोगाननेकशः।
भूमौ विजायते मर्त्यःसत्यमेव न संशयः॥ ४४॥
सर्वमूर्तिषु मां बुद्ध्वाश्रद्धया परया सह।
य उपास्ते महाविष्णोमूर्त्यत्कर्षक्रमेण तु॥ ४५॥
चित्तपाकानुगुण्येन हरे शीघ्रं क्रमेण तु।
अवाप्य परमां मूर्तिं मम सर्वोत्तमां नरः॥ ४६॥
लब्ध्वा मत्तः शिवज्ञानं तेन याति परां गतिम्‌।
एवमेव क्रमाद्विष्णो नरो बाह्येन कर्मण॥ ४७॥
मामवाप्य शिवज्ञानं लब्ध्वा तेन प्रमुच्यते।
अविशुद्धोऽपि बाह्येन कर्मणा तत्र तत्र तु॥ ४८॥
सालोक्यादि पदं लब्ध्वा पुण्यकर्मक्षये पुनः।
भूमौविजायते पश्चात्कुरुते कर्मपूर्ववत्‌॥ ४९॥
बाह्येन कर्मणा मुक्तिः क्रमात्कालेन सिध्यति।
आन्तरेणाचिरादेव कर्मणा मुक्तिरच्युत॥ ५०॥
यथाऽऽन्तरोपचारेण नराणां वल्लभाःस्त्रियः।
तथाऽऽन्तरेण ध्यानेन वल्लभामम जन्तवः॥ ५१॥
बाह्यं कर्ममहाविष्णो ज्ञानेच्छोत्पादकं भवेत्‌।
त्यागश्च कर्मणां तद्वन्महाविष्णो शमादयः॥ ५२॥
इहैव सम्यग्ज्ञानाङ्गमित्येषा शाश्वती श्रुतिः।

———————————————————————————————————————————दिति। रागादियोगात्‌॥ २८—४६॥ मानसकर्मोक्तन्यायं वाचिककायिकर्कमणोरतिदिशति—एवमेव क्रमादिति॥ ४७—५०॥ मानसस्य बाह्याद्विशेष निदर्शनमाह—यथाऽऽन्तरेति॥ ५१॥ ५२॥ शाश्वती श्रुतिरिति।

वाराणस्यादिके स्थाने विशिष्टे पारमेश्वरे॥ ५३॥
वर्तनं केवलंविष्णो नराणां मरणात्परम्‌।
सम्यग्ज्ञानप्रदं दिव्यं सत्यमुक्तं जनार्दन॥ ५४॥
नित्यं द्वादशसाहस्रं प्रणवं यो जपत्यसौ।
मत्प्रसादान्मम ज्ञानं मरणादूर्ध्वमाप्नुयात्‌॥ ५५॥
श्रीमत्पञ्चाक्षरं मन्त्रं प्रणवेन षडक्षरम्‌।
नित्यं द्वादशसाहस्रं यो जपेच्छ्रद्धया सह॥ ५६॥
स पुनर्मरणादूर्ध्वं मम ज्ञानं महत्तरम्‌।
मत्तो लब्ध्वा परां मुक्तिं तेन याति न संशयः॥ ५७॥
यः पुमान्‌ शतरुद्रीयं जपति श्रद्धया सह।
दिने दिनेमहाविष्णो मरणादूर्ध्वमैश्वरम्‌॥ ५८॥
ज्ञानं लब्ध्वा स विज्ञानादेव याति परां गतिम्‌।
यानि कर्माणि बाह्यानि मरणादूर्ध्वमच्युत॥ ५९॥
मम ज्ञानप्रदानीति कथितानि मया तव।
तानि कल्याणवृत्तस्य विद्धिनान्यस्य कस्यचित्‌॥६०॥
पापिष्ठानामपि श्रद्धाविहीनानां जनार्दन।
मुक्तिदं मरणादूर्ध्वं शिवक्षेत्रैकवर्तनम्‌॥ ६१॥

———————————————————————————————————————————कर्मणो ज्ञानेच्छामात्रजनकत्वे “तमेतंवेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन” इत्यादिश्रुतिः। शमादीनां ज्ञानं प्रत्यन्तरङ्गत्वे“शान्तो दान्त उपरतस्तितिक्षुःसमाहितो भूत्वाऽऽत्मन्येवाऽऽत्मानं पश्येत्‌” इति श्रुतिः। त्यागस्य तुत्यागेनैके अमृतत्वमानशुः”इति। संन्यासवद्वाराणस्यादौशरीरत्यागः प्रणवदिमन्न्रजपोऽपि साक्षाज्ज्ञानसाधनमित्याह—वाराणस्यादिक इति॥५३—५९॥ जपादिभ्यःशिवक्षेत्राणां विशेषमाह—तानिकल्याणवृत्तस्येति॥६०—

पुरा कोलाहलो नाम्नावृषलोविधिचोदितः।
कामेन पीडितः स्वस्य पितरं पङ्कजेक्षण॥ ६२॥
हत्वा मातरमादाय गत्वा मोहेन केशव।
वेदारण्ये यथाकामं चरित्वा मरणं गतः॥ ६३॥
तत्र वर्तनमात्रेण स पुनः पुरुषाधमः।
प्रनष्टपापः शुद्धात्मा वेदारण्यवतो मम॥ ६४॥
प्रसादादेव वेदान्तज्ञानं लब्ध्वाऽमृतोऽभवत्‌।
तस्माद्विमुक्तिकामानां विशिष्टेषु जनार्दन॥ ६५॥
शिवक्षेत्रेषु मद्भक्त्या वर्तनं केवलंपरम्‌।

सूत उवाच—

एवं महेश्वरेणोक्तं निशाम्य पुरुषोत्तमः॥ ६६॥
प्रणम्य परया भक्त्यापप्रच्छेदं पुनर्द्विजाः।

विष्णुरुवाच—

वेदारण्यस्य माहात्म्यं श्रोतुमिच्छामि शङ्कर॥ ६७॥
तदद्य भगवन्‌ ब्रूहि मम कारुण्यविग्रह।

ईश्वर उवाच—

वदामि तव विष्णो श्रीवेदारण्यस्य वैभवम्‌॥ ६८॥
अतीव श्रद्धया सार्धं शृणु सर्वजगद्धितम्‌।
श्रीमद्वल्मीकसंज्ञस्य मम स्थानस्य दक्षिणे॥ ६९॥
समुद्रतीरे मद्भक्तैरखिलैरावृतं सदा।
पुरा सर्गेमहाविष्णो प्रलयेविलयंगते॥ ७०॥

———————————————————————————————————————————६९॥कल्पादौवेदानां शरीरिणं प्रथमावतारस्थानत्वेन तस्यैव वेदारण्य-

मयि संस्काररूपेण स्थिता वेदाः सनातनाः।
कल्पादौ पूर्ववन्मत्तः प्रवृत्ता विमलाः पुनः॥ ७१॥
समस्तलोकरक्षार्थं हरे भूत्वा शरीरिणः।
श्रद्धया सहिताः श्रीमद्वेदारण्यं महत्तरम्‌॥ ७२॥
अवाप्य वेदतीर्थाख्ये समुद्रे संस्थिते हरे।
अर्धयोजनविस्तीर्णेपादयोजनमायते॥ ७३॥
स्नानं कृत्वाऽर्कवारे च सदा पर्वणि केशव।
पूजयामासुरीशानं श्रीवेदारण्यनायकम्‌॥ ७४॥
श्रीवेदारण्यनाथोऽपि सह देव्या जनार्दन।
प्रसादमकरोत्तेषां वेदानामम्बिकापतिः॥ ७५॥
स्कन्दश्च मत्सुतस्तस्मिंस्तीर्थे स्नात्वा महत्तरे।
श्रीवेदारण्यनाथाख्यं समाराध्य प्रसादतः॥ ७६॥
निहत्यतारकं विष्णो महावीर्यपराक्रमम्‌।
प्रददौ सर्वलोकानां परमं सुखमच्युत॥ ७७॥
नारदो मुनिरत्रैव स्नात्वा पर्वणि शङ्गरम्‌।
श्रीवेदारण्यनाथाख्यं श्रद्धया परया सह॥ ७८॥
समाराध्याऽऽत्मविज्ञानं संसारच्छेदकारणम्‌।
सनत्कुमारात्सर्वज्ञादाप्तवानम्बुजेक्षण॥ ७९॥
याज्ञवल्क्यो मनिस्तत्र स्नात्वा तीर्थे महत्तरे।
वेदारण्येश्वरं भक्त्या प्रातःकालेसमाहितः॥ ८०॥
पर्वण्याराध्य तस्यैव प्रसादादेव केवलात्‌।
योगीश्वरोऽभवद्धीमानचिरादेव केशव॥ ८१॥

तथा गार्गीच मैत्रेयी तत्र तीर्थे महत्तरे।
वेदतीर्थाभिधेस्नानं कृत्वा पर्वणि केशव॥ ८२॥
श्रीवेदारण्यनाथाख्यं शङ्करं लिङ्गरूपिणम्‌।
प्रदक्षिणत्रयं कृत्वाप्रणम्य वसुधातले॥ ८३॥
प्रसादादेव तस्यैव ज्ञानयोगं विमुक्तिदम्‌।
अचिरादेव सर्वज्ञाद्याज्ञवल्क्यादवापतुः॥ ८४॥
श्वेतकेतुर्मुनिस्तत्र स्नानं कृत्वाऽम्बुजेक्षण।
प्रदक्षिणत्रयं कृत्वावेदारण्याधिपं हरम्‌॥ ८५॥
प्रणम्य दण्डवद्भूमो भक्त्या परमया सह।
पितुरुद्दालकात्साक्षादात्मविज्ञानमच्युत॥ ८६॥
अवाप सर्वसंसारकारणाज्ञाननाशकम।
वरुणो वेदतीर्थेऽस्मिन्‌ पर्वणि श्रद्धया सह॥ ८७॥
स्नानं कृत्वा महादेवं श्रीवेदारण्यनायकम्‌।
समाराध्य प्रसादेन प्राप्तवानात्मदर्शनम्‌॥ ८८॥
तस्य पुत्रो भृगुस्तस्मिंस्तीर्थे स्नात्वा महत्तरे।
वेदारण्याधिपं देवं वेदवेदान्तनायकम्‌॥ ८९॥
दृष्ट्वाप्रदक्षिणीकृत्यश्रद्धयाऽऽराध्यशंकरम्‌।
प्रसादात्तस्य विज्ञानं ब्रह्मात्मैक्यप्रकाशकम्‌॥ ९०॥
अपरोक्षं पितुर्लेभेवरुणादृषिसत्तमः।
त्रिशङ्कुर्वेदतीर्थेऽस्मिन्‌ श्रद्धया सह पर्वणि॥ ९१॥
स्नानं कृत्वा महादेवं वेदारण्याधिपं हरम्‌।
प्रदक्षिणत्रयं कृत्वा प्रणम्य वसुधातले॥ ९२॥

लेभे परमविज्ञानं सुदृढं सर्वदःखनुत्।
बहवो वेदतीर्थेऽस्मिन्वेदारण्येऽतिशोभने॥ ९३॥
स्नानं कृत्वाऽम्बिकानाथं श्रीवेदारण्यनायकम्‌।
दृष्ट्वाप्रदक्षिणीकृत्य ब्रह्मविज्ञानमच्युत॥ ९४॥
अवापुर्वेदजं तस्य प्रसादादेव मुक्तिदम्‌।
अत्र भूमिप्रदः साक्षाद्रुद्रलोके महीयते॥ ९५॥
आवासभूमिदो रौद्रं पदमाप्नेत्यसंशायम्‌।
धनधान्यप्रदो मर्त्योधनदेन समो भवेत्‌॥ ९६॥
अन्नदानपरः श्रीमानरोगी भवति ध्रुवम्‌।
तिलदानान्महापापान्मुच्यते नात्र संशयः॥ ९७॥
कन्यादानप्रदानेन पार्वतीलोकमाप्नुयात्‌।
वस्त्रदानेन देवेन्द्रो भवत्येव न संशयः॥ ९८॥
विषुवायनकालेषु ग्रहणे सोमसूर्ययोः।
व्यतीपातेतथा पर्वण्यार्द्रायामिन्दुवासरे॥ ९९॥
स्नात्वा यो वेदतीर्थेऽस्मिन्‌ श्रद्धया परया सह।
प्रदक्षिणत्रयं कृत्वावेदारण्याधिपं शिवम्‌॥ १००॥
प्रणम्य दृण्डवत्तस्मैप्रदत्त्वादीपमच्युत।
निष्कमात्रं धनं दत्त्वा श्रद्धया शिवयोगिने॥ १॥
उपवासं करोत्यत्र स मुक्तो नात्र संशयः।
सुमुहूर्तेषु यस्तत्र स्नात्वा दृष्ट्वामहेश्वरम्‌॥ २॥
शिवयोगिकरे दत्त्वा पणमात्रं धनं मुदा॥
ब्रह्महत्यादिभिः पापैर्मुच्यते नात्रसंशयः॥ ३॥

अत्रैव मरणं प्राप्तो विमुक्तो भवति ध्रुवम्‌।
सर्वरोगहरं स्थानमिदं भक्तिमतां नृणाम्‌॥ ४॥
मया च मम देव्या च मम भक्तैर्महत्तमैः।
पूजितं पुण्यदंस्थानमेतद्भुक्तिविमुक्तिदम्॥ ५॥
मुक्त्युपायो मया प्रोक्तः सर्ववेदान्तसंग्रहः।
श्रद्धाहीनाय मर्त्याय न देयोऽयं त्वयाऽच्युत॥ ६॥

सूत उवाच—

इति माहेश्वरं वाक्यं निशम्य कमलेक्षणः।
प्रणम्य देवमीशानं परितृप्तोऽभवद्धरिः॥ १०७॥

इति श्रीस्कान्दपुराणे सूतसंहितायां मुक्तिखण्डे मुक्त्युपायकथनं नाम तृतीयोऽध्यायः॥२॥

——————

चतुर्थोऽध्यायः॥

४. मोचककथनम्‌।

ईश्वर उवाच—

अथातः संप्रवक्ष्यामि मोचकं पुरुषोत्तम।
श्रद्धया च महाभक्त्या विद्धिवेदैकदर्शितम्‌॥१॥

———————————————————————————————————————————मिति प्रसिद्धिरित्याह—पुरा सर्गइत्यादि॥७०॥ मत्तो मत्सकाशात्‌। स्पष्टोऽध्यायशेषः॥७१ —१०७॥

इतिश्रीसूतसंहितातात्पर्यदीपिकायां मुक्तिखण्डे
मुक्त्युपायकथनं नाम तृतीयोऽध्यायः॥

_____________

यतो मुक्तिस्वरूपतदुपरायपरिज्ञानानन्तरं मुक्तेप्रदातरि जिज्ञासा, अतस्तदनन्तरं तत्कथनं प्रतिजानीते—अथात इति। वेदकैदर्शितामिति॥१—

पुरा सरस्वती देवी सर्वविद्यालया शुभा।
अकारादिक्षकारान्तैर्वर्णैरत्यन्तानिर्मलैः॥ २॥
आविर्भूतस्वरूपा श्रीर्ज्ञानमुद्राधरा परा।
अक्षमालाधघरा हैमकमण्डलुकराम्बुजा॥ ३॥
सर्वज्ञानमहारत्नकोशपुस्तकधारिणी।
कुन्देन्दुसदृशाकारा कुण्डलद्वयमण्डिता॥ ४॥
प्रसन्नवदना दिव्या विचित्रकटकोज्वला।
जटाजूटधरा शुद्धा चन्द्रार्धकृतशेखरा॥ ५॥
पुण्डरीकसमासीना नीलग्रीवा त्रिलोचना।
सर्वलक्षणसंपूर्णासर्वाभरणभूषिता॥ ६॥
उपास्यमाना मुनिभिर्देवगन्धर्वराक्षसैः।
मामपृच्छदिदं भक्त्या प्रणम्य भुवि दण्डवत्‌॥ ७॥
अहं च परया युक्तः कृपया पुरुषोत्तम।
अवोचं मोचकं देव्यैहितायाखिलदेहिनाम्‌॥ ८॥
ब्रह्माद्याः स्थावरान्ताश्च पशवः परिकीर्तिताः।
तेषां पतिरहं देवः स्मृतः पशुपतिर्बुधैः॥ ९॥
मायापाशेन बध्नामि पशूनेतान्सरस्वति।
तेषां पशुनां सर्वेषां मोचकोऽहं सुलोचने॥ १०॥

———————————————————————————————————————————७॥बन्धहर्तृत्वंविमोचकत्वम्‌! तदुक्तमुत्तरतापनीये—स्वात्मबन्धहर इति। गर्भोपनिषद्यपि—“अशुभक्षयकर्तारं पाशमुक्तिप्रदायिनम्‌। यदि योन्यां प्रमुञ्चामि तं प्रपद्ये महेश्वरम” ॥८॥ पशुपाशविमोचनकर्तारंमोचकं वक्तुं बद्धान्‌ पशूनाह—ब्रह्माद्या इति। कर्मपरिपाकात्प्राग्भोगप्रदानेन कर्मपरिपाकानन्तरं मोक्षप्रदानेन च पाति पशूनतः स्वयं पशुपतिरित्याह—तेषां पतिरिति॥९॥

मामेव मोचकं प्राह श्रुतिः साध्वी सनातनी।
श्रुतिर्बलीयसी प्रोक्ता प्रमाणानां सुलोचने॥ ११॥
स्वतश्च परतो दोषो नहि तस्याः कदाचन।
अन्येषामक्षजादीनां प्रमाणानामविद्यया॥ १२॥
दोषसंभावनाऽस्त्येव ततस्तेषां सुलोचने।
विरोधे वेदवाक्येन प्रामाण्यं नैव सिध्यति॥ १३॥
स्मृतयश्च पुराणानि भारतादीनि सुन्दरि।

———————————————————————————————————————————बन्धनिवर्तकमात्मानमुक्त्वा बन्धकारणमाह—मायेति॥१०॥ ननु विहितकरणादकरणनिमित्तपापानुदयात्काम्यकर्माकरणेन च भोगहेतुपुण्यानुदयात्पूर्वकृतपुण्यपापयोश्च भोगेन प्रक्षयादयत्नसिद्धा विमुक्तिः किं तत्र मोचकेन। यद्यवश्यंमोचकेन भवितव्यं तथाऽपि शिव एवेति कुतः। अन्योऽपि हि यः कश्निद्ब्रुयात्स्वयमेवेति तत्रकुतो निश्चय इत्यत आह—मामेवेति। श्रुतिस्त्वशुभक्षयेत्यादिका समनन्तरोदाहृता गर्भोपनिषत्‌। आप्तवचनादिभ्यःश्रुतेः प्राबल्ये विशेषमाह—श्रुतिर्बलीयसीति। ज्ञानस्य स्वतःप्रमाण्यान्न स्वतःश्रुतेरनादित्वेन कारणाभावान्न कारणदोषादप्यप्रामाण्यमित्यर्थः॥१२॥ श्रुतिव्यतिरिक्तेषु प्रत्यक्षादिषु कारणदोषसंभवश्चेत्कथं तर्हितत्र प्रामाण्यव्यवहार इत्यत आह—अन्येषामिति। अविद्याकार्यत्वेनावस्त्वेवविषयीकुर्वतामेषां व्यावहारिकमेव प्रामाण्यम्‌। उपनिषदस्तु वस्तुविषयत्वात्तत्त्वावेदनलक्षणं प्रामाण्यम्‌। यदाहुः—“प्रत्यक्षादिप्रमाणानां प्रामाण्यं व्यावहारिकम्‌। आश्रित्यायंप्रपञ्चः स्यादलीकोऽपि प्रमाणवान्‌॥ अद्वैतागमवाक्यंतु तत्वावेदनलक्षणम्‌। प्रमाणभावंभजतां बाधवैधुर्यहेतुतः” इति। तथा सुंदरपाण्ड्यबार्तिकमपि— “देहात्मप्रत्ययोयद्वत्प्रमाणत्वेन संमतः। लौकिकं तद्वदेवेदं प्रमाणंत्वात्मनिश्चयात्‌” इति॥ १२॥ १३॥ स्मृतिपुराणादीनां तु वेदाविरोधेनैव प्रामाण्यमिति प्रथमखण्डस्य प्रथमाध्याये वर्णितम्‌। अनुमितवेदमूलानां स्मृतिपुराणादीनां यावन्मूलोपलम्भनं प्रत्यक्षश्रुतिविरोधेनाननुष्ठानलक्षण-

वेदमूलान्यतस्तेन विरोधे मूलिनामपि॥ १४॥
न सिध्यत्येव सुश्रोणि प्रामाण्यं सूक्ष्मदर्शने।
पाञ्चरात्रादिमार्गाणां वेदमूलत्वमास्तिके॥ १५॥
नहि स्वतन्त्रास्ते तेन भ्रान्तिमूला निरूपणे।
तथाऽपि योंऽशो मार्गाणां वेदेन न विरुध्यते॥१६॥
सोंऽशः प्रमाणमित्युक्तं केषांचिदधिकारिणाम्‌।
अत्यन्तमलिनानां तुभ्रष्टानां वेदमार्गतः॥ १७॥
पाञ्चरात्रादयो मार्गाःकालेनैवोपकारकाः।
तान्त्रिकाणामहं देवि न लभ्योऽव्यवधानतः॥ १८॥
कालेन देवताप्राप्तिद्वारेणैवाहमास्तिके।
लभ्यो वेदैकनिष्ठानामहमव्यवधानतः॥ १९॥
तत्रापि कर्मनिष्ठेभ्यो ज्ञाननिष्ठस्य सुन्दरि।

———————————————————————————————————————————मप्रामाण्यमुक्तम्‌॥१४॥ पाञ्चरात्रादीनां तैः स्वयवेव वेदमूलतानङ्गीकाराद्वेदविरुद्धानेकार्थोपदेशाच्चस्मृतिपुराणादिवन्न यावन्मूलोपलम्भंकिंतु सर्वथैवाप्रामाण्यामेत्याह–पाञ्चरात्रेति॥१५॥ वेदमूलत्वंनहि किन्तु स्वतन्त्रा। हिशब्दो वेदमूलत्वविरहे तदीयशास्त्रप्रसिद्धिमाह। आपाततः प्रमाणवदाभासेऽपि निरूपणे भ्रान्तिमूला एवेत्यर्थः। वेदाविरुद्धांशे प्रामाण्यं किं न स्यादित्याशङ्क्य तद्भवत्येवाधिकारिविशेषंप्रतीत्याह—तथाऽपि य इति॥१६॥ तानेवाधिकारिण आह—अत्यन्तेति॥१७॥ तेषामप्युपकारकत्वे श्रुतिसाम्यमेव तर्हीत्यत आह—तान्त्रिकाणामिति। अव्यवधानेन न लभ्यःकिंतु व्यवधानेनैव॥१८॥ तदेव व्यवधानमाह—कालेनेति॥१९॥ कर्मनिष्ठेभ्यइति। तेषां कर्मभिः पापक्षये ज्ञाननिष्ठद्वारेणैव लभ्यःज्ञाननिष्ठेभ्यो जिज्ञासुभ्यःसकाशाज्ज्ञानिनां विशेषमाह—न ज्ञानिनामिति। तेषामात्मत्वेनलब्धत्वान्न लब्धव्य इत्यर्थः। अन्येषामात्मभूतोऽप्यज्ञानेन व्यवहितत्वाल्लभ्यएव न तु लुब्धः॥२०॥

लभ्यो न ज्ञानिनां लभ्यस्तेषामात्मैव केवलम्‌॥ २०॥
सर्वेषामात्मभूतोऽहमेव संसारमोचकः।
न मत्तोऽन्यः पुमानज्ञइत्येषा शाश्वती श्रुतिः॥ २१॥
मामृते साम्बमीशानं मोचकोऽन्यो न विद्यते।
अहमप्राप्तसंसारः सर्वज्ञश्च स्वभावतः॥ २२॥
मदन्ये त्वात्मविज्ञानविहीना माययाऽऽवृताः।
सदा संसारिणो मोच्याः प्रकृतिः केवलंजडा॥ २३॥
तस्मात्पशूनां सर्वेषामहं संसारमोचकः।
न मत्तोऽन्यः पुमान्सत्यमित्येषा शाश्वती श्रुतिः॥ २४॥
एवं निशम्य मद्वाक्यं महाविष्णो सरस्वती।
पूजयामास मां भक्त्याजगन्माता त्रयीमयी॥ २५॥
त्वमप्यत्यन्तकल्याणो मद्भक्तश्च विशेषतः।

———————————————————————————————————————————व्यवधानाव्यवधानाभ्यांमोचनीयपशुवैचित्र्यवन्मोचकेन वैचित्र्यमित्याह—सर्वषामिति॥२१॥ तव तर्हिको मोचक इति तत्राऽऽह—अहम-प्राप्तेति। तथा च मृगेन्द्रे—“अथानादिमलापेतः सर्वकृत्सर्वदृविशवः। पूर्वंव्यत्यासितस्याणोः पाशजालमपोहति” इति॥२२॥ शिवादन्यस्यमोचकत्वंसंसारिणो वा प्रकृतेर्वेति। नाऽऽद्य इत्याह—मदन्य इति। स्वयं बद्धाः कथमन्यं मोचयेयुरित्यर्थः। ननु मोच्यत्वं मोचकत्वंच प्रकृतेरेवेति सांख्याः। यदाहुः—“रूपेः सप्तभिरेवं बध्नात्यात्मानमात्मना प्रकृतिः। सैब च पुरुषस्यार्थे विमोचयत्येकरूपेण इति॥ तत्राऽऽह—प्रकृतिरिति॥२३॥ नित्यमुक्तः शिवस्तद्विलक्षणानां जीवानां भोगमोक्षलक्षणस्वाभिमतपुरुषार्थप्रापक इति काठके कथितमित्याह—शाश्वती श्रुतिरिति एवंहि ‘नित्यो नित्यानां चेतनश्चेतनानामेको बहूनां यो विदधाति कामान्‌। तमात्मस्थंयेऽनु पश्यन्ति धीरस्तेषां शान्तिः शाश्वती नेतरेषाम्‌” इति॥

त्वया नास्ति समः कश्चिल्लोके विष्णो महामते॥२६॥
तस्मादेव मया प्रोक्तस्तव संसारमोचकः।
वेदमार्गैकनिष्ठानां धार्मिकाणाममानिनाम्॥ २७॥
मद्भक्तानां विशुद्धानां द्विजानामम्बुजेक्षण।
मयोक्तोऽर्थस्त्वयादेयो न देयो यस्य कस्यचित्‌॥२८॥

सूत उवाच—

एवं निशम्य पुरुषोत्तम आत्मभूत-

मम्बासहायममलेन्दुकलावतंसम्‌।

सर्वामरैरखिल्योगिभिरर्चनीयं

संसारमोचक इति प्रतिपद्य भक्त्या॥ २९॥

नत्वा परापरविभागविहीनबोध-

सत्यामृताद्वयशिवाभिधसर्वनाथम्‌।

स्तुत्वा गिरा परवशोऽभवदम्बुजाक्षः

शिष्टादृतं शिवकरं शिवमादरेण॥ ३०॥

शृणुध्वमन्यद्वक्ष्यामि मोचकत्वप्रसाधकम्‌।
श्रद्धया सहिता यूयं मुनयो मतिमत्तमाः॥ ३१॥
पुरा कश्चिद्द्विजश्रेष्ठः श्रद्धया कर्मवैदिकम्‌।
कृत्वा प्रदग्धपापस्तुविशुद्धहृदयोभृशम्‌॥ ३२॥
भीतो जन्मविनाशाभ्यामतीव मुनिपुङ्गवाः।

———————————————————————————————————————————२४—२६॥ अमानिनामिति। निरहंकारिणां न देय इति। यदाहूर्नैरुक्ताः—‘विद्या ह वै ब्राह्मणमाजगाम गोपाय मा शेवधिष्टेहमस्मि। असूयकायानृजवे शठाय मा मा ब्रूयाद्वीर्यवती तथा स्याम्‌’ इति॥२७—३०॥ शृणु-

क्रमेण सकलान्देवान्स्वसंसारविमोचकान्‌॥ ३३॥
मत्वाऽऽराध्य पुनः सर्वाञ्जन्मनाशवृतानिमान्‌।
परित्यज्य विचारेण भगवन्तं त्रिलोचनन्‌॥ ३४॥
प्रलम्बितजटाबद्धंचन्द्ररेखावतंसकम्‌।
नीलग्रीवं शरच्चन्द्रचन्द्रिकाभिविराजितम्‌॥ ३५॥
गोक्षीरधवलाकारं चन्द्रबिम्बसमाननम्‌।
सुस्मितं सुप्रसन्नं च स्वात्मतत्त्वैकसंस्थितम्‌॥ ३६॥
गङ्गाधरं शिवं शान्तं लसत्केयूरपण्डितम्‌।
सर्वाभरणसंयुक्तंसर्वलक्षणसंयुतम्‌॥ ३७॥
वीरासने समासीनं वेदयज्ञोपवीतिनम्‌।
भस्मधाराभिरामं तं नागाभरणभूषितम्‌॥ ३८॥
व्याघ्रचर्माम्बरं शुद्धं योगपट्टवृतं शुभम्‌।
सर्वेषां प्राणिनामात्माज्ञानापस्मारपृष्ठतः॥ ३९॥
विन्यस्तचरणं सम्यग्ज्ञानमुद्राधरं हरम्‌।
सर्वविज्ञानरत्नानां कोशभूतं सुपुस्तकम्‌॥ ४०॥
दधानं सर्वतत्त्वाक्षमालिकां कुण्डिकामपि।
स्वात्मभूतपरानन्दपराशक्यर्धविग्रहम्‌॥ ४१॥
धर्मरूपवृषोपेतंधार्मिकैर्वेदपारगैः।
मुनिभिः संवृतं मायावटमूलाश्रितं शुभम्‌॥ ४२॥
ईशानं सर्वविद्यानामीश्वरेश्वरमव्ययम्‌।
उत्पत्त्यादिविनिर्मुक्तमोंकारकमलासनम्‌॥ ४३॥

_______________________________________________________________________________ध्वमिति। मोचकस्वरूपज्ञापकमाख्यानान्तरं वक्ष्यामीत्यर्थः॥३१—३८॥

स्वात्मविद्याप्रदानेन सदा संसारमोचकम्‌।
रुद्रं परमकारुण्यात्सर्वप्राणिहिते रतम्‌॥ ४४॥
उपासकानां सर्वेषामभीष्टसकलप्रदम्।
दक्षिणामूर्तिदेवाख्यंजगत्सर्गोदिकारणम्‌॥ ४५॥
समागत्य महाभक्त्यादण्डवत्पृथिवीतले।
प्रणम्य बहुशो देवं समाराध्य यथाबलम्॥ ४६॥
रुद्र यत्ते मुखं तेन दक्षिणं पाहि मामिति।
उक्त्वा पुनः पुनर्देवं पूजयामास भक्तितः॥ ४७॥
पुनर्देवो महादेवो दक्षिणामूर्तिरीश्वरः।
प्रदत्त्वा स्वात्मविज्ञानं तस्मैविप्राय सुव्रताः॥ ४८॥
तस्य संसारविच्छेदमकरोदम्बिकापतिः।
बहवो दक्षिणामूर्तिप्रसादादेव जन्तवः॥ ४९॥
अनायासेन संसाराद्विमुक्ताः परमर्षयः।
भवन्तोऽपि महादेवं महानन्दस्वरूपिणम्‌॥ ५०॥
संसारमोचकं बुद्ध्वाभजध्वं सर्वभावतः।
अस्यैव भजनादेव सर्वं सिध्यत्यसंशयम्‌॥ ५१॥
इति श्रुत्वा द्विजाः सर्वे श्रद्धया परया सह।
प्रणम्य सूतं सर्वज्ञं पूजयामासुरद्भतम्‌॥ ५२॥

इति श्रीस्कान्दपुराणे सूतसंहितायां मुक्तिखण्डे मोचककथनं नाम चतुर्थोऽध्यायः॥ ४॥

______________________________________________________________________________आत्माज्ञानेति। आत्मतत्तविषयं यदज्ञानं तस्यैव तत्त्वविद्याप्रातिबन्धकापस्माररूपेण प्राप्तस्य पृष्ठे वामपादं दधानमित्यर्थः॥ ३९—५२॥

इति श्रीसूतसंहितातात्पर्यदीपिकायां मुक्तिखण्डे मोचककथनं नाम चतुर्थोऽध्यायः॥ ४॥

___________________

पञ्चमोऽध्यायः॥

५. मोचकप्रदकथनम्‌।

ईश्वर उवाच—

अथातः संप्रवक्ष्यामि तवाहं मोचकप्रदम्‌।
अतीव श्रद्धया सार्धं श्रृणु पङ्कजलोचन॥ १॥
आचार्य एव संसारमोचकप्रद उच्यते।
आचार्यो नाम वेदान्तविचारेणाऽऽप्तवेदनः॥ २॥
तमप्यनेकधा विद्धिश्रद्धया पुरुषोत्तम।
उत्तमो मध्यमस्तद्वदधमश्चाम्बुजेक्षण॥ ३॥
उत्तमो ब्राह्मणः प्रोक्तो मध्यमः क्षत्रियस्तथा।
अधमो वेश्यइत्युक्तः सर्वशास्त्रर्थवेदिभिः॥ ४॥
अधमोऽच्युत वैद्यस्य शूद्रस्यापि गुरुर्भवेत्‌।
मध्यमो मध्यमस्यापि तथा वैश्यस्य केशव॥ ५॥
शूद्रस्यापि गुरुः प्रोक्तः शुश्रूषोरात्मवेदिभिः।
उत्तमो ब्राह्मणस्यापि क्षत्रियस्य तथैव च॥ ६॥
विशां शूद्रस्य शुश्रूषोर्गुरुरित्युच्यते मया।

______________________________________________________________________________ यत ईश्वरोऽप्याचार्योपदेशादवगत एव मोचको भवति। अतो मोचकाभिधानानन्तरं मोचकप्रदमाचार्यंवक्ष्यामीत्याह—अथात इति॥१॥आचार्यएवेति। ईश्वरः संसारमोचक इति यद्यपि श्रुतिस्मृतिपुरणादिभिरपि ज्ञातुंशक्यते तथाऽपि तत्स्वरूपमाचार्यमुखादेव ज्ञातं फलर्पयन्तं भवतीति तथैव ज्ञातव्यम्‌। श्रूयते हि—‘आचार्याद्धैव विद्या विदिता साधिष्ठं प्रापत्‌’ इति॥ २॥ ३॥ यद्यपि वर्णानां ब्राह्मणो गुरुरिति क्वचिद्ब्राह्मणस्यैव गुरुत्वं समर्यते तथाऽपि श्रुतिस्मृत्यन्तरपर्योलोचनया समनन्तरवक्ष्यमाणविभागेने-

शूद्राणां च तथा स्त्रीणां गुरुत्वं न कदाचन॥ ७॥
वैश्यस्यापि तथा राज्ञो विद्योत्कर्षबलेन च।
गुरुत्वं केचिदिच्छन्ति स्वोत्तमं प्रति केशव॥ ८॥
उत्तमः पञ्चधा प्रोक्तो गुरुर्ब्रह्मात्मवेदिभिः।
ब्रह्मचारी गृहस्थश्चवानप्रस्थश्च भिक्षुकः॥ ९॥
अतिवर्णाश्रमी चेति क्रमच्छ्रेष्ठाविचक्षण।
अश्रेष्ठानां हरे श्रेष्ठा गुरुवः परिकीर्तिताः॥ १०॥
ब्रह्मचारी गृहस्थस्य वनस्थस्य यतेरपि।
विद्योत्कर्षबलेनैव गुरुर्भवति नान्यथा॥ ११॥
गृहस्थोऽपि वनस्थस्य यतेरप्यम्बुजेक्षण।
विद्योत्कर्षबलेनैव गुरुर्भवति नान्यथा॥ १२॥
वानप्रस्थाश्रमस्थोऽपि तथा संन्यासिनां हरे।
विद्योत्कर्षबलेनैव गुरुर्भवति नान्यथा॥ १३॥
अतिवर्णाश्रमी प्रोक्तो गुरुः सर्वाधिकारिणाम्‌।

_______________________________________________________________________________तरेषामस्तीत्यभिप्रेत्योक्तम्‌। सर्वशास्त्रेति॥४—७॥ राज्ञो गुरुत्वंकेचिदिति। बृहदारण्यके दृप्तबालाकेर्ब्राह्मणस्य क्षत्रियमजातशत्रुंप्रति ‘स होवाच गार्ग्यउप त्वा यानि” इत्युपगमाभिधानदर्शनात्तथा कैकेयं क्षत्रियंप्रति प्राचीनशालादीनां षण्णां मुनीनां वैश्वानरविद्यालाभायोपगमप्रवृत्तिदर्शनात्‌, उत्तमं ब्राह्मणं प्रत्यपि विद्योत्कर्षेवतः क्षत्रियस्य गुरुत्वमस्तीति तेषामाशयः। अन्ये तु ‘प्रतिलोमं वै तद्यद्ब्राह्मणः क्षत्रियमुपेयात्‌ ब्रह्म मे वक्ष्यतीति। व्येव त्वा ज्ञापयिष्यामि’इति क्षत्रियेणाजातशत्रुणा गुरुत्वमङ्गीकृत्य गार्ग्यंप्रति विज्ञापनदर्शनात्तथा प्राचीनशालादीनपि कैकेयेन “तान्हानुपनीयैवैतदुवाच’ इति उपसदनमन्तरेणैववैश्वानरविद्याभिधानदर्शनादुत्तमेनाभिहितमापि गुरुत्वं क्षत्रियादिना नाङ्गीकर्तव्यमिति मन्यन्ते। अत उकं केचिदिति॥८—१३॥

न कस्यापि भवेच्छिष्यो यथाऽहं पुरुषोत्तम॥ १४॥
अतिवर्णाश्रमी साक्षाद्गुरूणां गुरुरुच्यते।
तत्समो नाधिकश्चास्मिल्ँलोकेऽस्त्येव न संशयः॥ १५॥
यः शरीरोन्द्रियादिभ्यो विभिन्नं सर्वसाक्षिणम्‌।
पारमार्थिकविज्ञानसुखात्मानं स्वयंप्रभम्‌॥ १६॥
परतत्त्वंविजानाति सोऽतिवर्णाश्रमी भवेत्‌।
यो वेदान्तमहावाक्यश्रवणेनैव केशव॥ १७॥
आत्मानमीश्वरं वेद सोऽतिवर्णााश्रमी भवेत्‌।
योऽवस्थात्रयनिर्मुक्तमवस्थात्रयसाक्षिणं॥ १८॥
महादेवं विजानाति सोऽतिवर्णाश्रमी भवेत्‌।
वर्णश्रमादयो देहे मायया परिकल्पिताः॥ १९॥

______________________________________________________________________________ब्रह्मचर्यादीनामाश्रममात्ररूपत्वात्स्वोत्तमं प्रत्यपि विद्योत्कर्षसंभवेगुरुत्वमङ्गीकृतम्‌। वर्णाश्रमातिक्रमस्तु निरतिश्यज्ञानोत्कर्षे एवेति तद्वन्तमपेक्ष्यकस्यापि विद्योत्कर्षाभावात्स गुरुरेव न शिष्य इत्याह—अतिवर्णाश्रमीति॥१४॥ १५॥ प्रतिज्ञातं तस्य सर्वोत्कर्षमुपपादयितुं तल्लक्षणमाह—यः शरीरेति॥१६॥ विजानाति विशेषेण जानाति साक्षात्करोतीत्यर्थः। इत्थंभूतो हि लोकसंग्रहाय वर्णाश्रमधर्मानाचरन्नानाचरन्वा सर्वोत्तमत्वेन गुरुरेवेत्यर्थः। तादृशस्यापि हि तदाचरणं भवति। “सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत। कुर्याद्विद्वांस्तथाऽसक्तश्चिकीर्षुर्लोकसंग्रहम्‌’ इति॥ यो वेदान्तेति। ‘तंत्वौपनिषदम् इति श्रुतेः॥१७॥ परतत्त्वसाक्षात्कारस्य मनननिदिध्यासनाङ्गनिबन्धनत्वाद्वेदानधिकृतानां भाषादिमुखेन ज्ञानमपि क्रमेण वेदाधिकारप्राप्तिद्वारेणैवोपकारकमिति हि प्रागुक्तम्‌—” अन्येषामपि सर्वेषां ज्ञानाभ्यासो बिधीयते। भाषान्तरेण कालेनतेषां सोऽप्युपकारकः’ इति। तमेवाऽऽत्मवेदनक्रममाहयोऽवस्थेति॥१८॥ देह इति। देहसंबन्धोपाधिनिबन्धना आत्मनि कल्पि-

नाऽऽत्मनो बोधरूपस्य मम ते सन्ति सर्वदा।
इति यो वेदवेदान्तैःसोऽतिवर्णाश्रमी भवेत्‌॥ २०॥
आदित्यसन्निधौलोकश्चेष्टते स्वयमेव तु।
तथा मत्सन्निधावेव चेष्टते सकलंजगत्‌॥ २१॥
इति यो वेद वेदान्तैः सोऽतिवर्णाश्रमी भवेत्‌।
सुवर्णेहारकेयूरकटकस्वस्तिकादयः॥ २२॥
कल्पिता मायया तद्वज्जगन्मय्येव सर्वदा।
इति यो वेद वेदान्तैः सोऽतिवर्णाश्रमी भवेत्‌॥२३॥
शुक्तिकायां यथा तारं कल्पितं मायया तथा।
महदादि जगन्मायामयं मय्येव कल्पितम्‌॥ २४॥
इति यो वेद वेदान्तैः सोऽतिवर्णाश्रमी भवेत्‌।
चण्डालदेहे पश्वादिशरीरे ब्रह्मविग्रहे॥ २५॥
अन्येषु तारतम्येन स्थितेषु पुरुषोत्तम।

_______________________________________________________________________________ताः॥१९॥ बोधात्प्राक्कल्पनया सन्तोऽपि वस्तुतो न सन्ति। बोधोत्तरकाले त्वनुभवतोऽपीति सर्वदेत्युक्तम्‌॥ २०॥ नन्‍वस्थात्रयाविरहे स्वस्याऽऽत्मनोऽकर्तृत्वादीश्वरस्य च जगत्कर्तृत्वात्कथमात्मानमीश्वरं वेदेति तत्राऽऽह—आदित्येति। य ईश्वरेऽपि वस्तुतो न कर्तातस्मिन्नधिष्ठाने सव्यापारस्य जगतःकल्पितत्वादेव तस्य जगत्कर्तृत्वव्यवहारः। यथाऽऽदित्यस्य संनिधौ लोकस्य प्रवृत्तिदर्शनादप्रवर्तकेऽप्यादित्ये प्रवर्तकत्वव्यवहारस्तद्वत्‌॥२१॥ परस्परव्यावृत्तं चेत्यं सर्वमनुवृत्तेचिद्रूपे कल्पितमित्यत्रनिदर्शनमाह—सुवर्ण इति श्रूयते हि—“चिद्धीदं सर्वं काशते काशते च’इति॥ २२॥ २३॥ महदादीनामपि सति प्रमातर्यबाध्यत्वेसत्यत्वमिति मन्यमानं प्रति सत्येव प्रमातरि बाध्यमानं शुक्तिरूप्यमुदाहराति—शुक्तिकायामिति॥२४॥ एकस्मिन्नेव रूपे विचित्रं वस्तुयथा कल्पितं तथा तदुपाधिकं तारतम्यमपीत्यत्र निदर्शन-

व्योमवत्सर्वदा व्याप्तः सर्वसंबन्धवर्जितः॥ २६॥
एकरूपो महादेवः स्थितः सोऽहं परामृतः।
इति यो वेद वेदान्तैः सोऽतिवर्णाश्रमी भवेत्‌॥ २७॥
विनष्टदिग्भ्रमस्यापि यथापूर्वंविभाति दिक्‌।
तथा विज्ञानविध्वस्तं जगन्मे भाति तन्नहि॥ २८॥
इति यो वेद वेदान्तैः सोऽतिवर्णाश्रमी भवेत्‌।
यथा स्वप्नप्रपञ्चोऽयं मयि मायाविजृम्भितः॥ २९॥
तथा जाग्रत्प्रपञ्चोऽपि परमायाविजृम्भितः।

________________________________________________________________________________________________

माह—चण्डालदेह इति॥२५॥ सूचीपाशादिसंबन्धेतदुपाधिकं तारतम्यमाकाशे यथा कल्पितं तद्वदित्यर्थः॥२६॥ २७॥ नन्वतिवर्णाश्रमस्य तत्त्वज्ञानेन सकार्यस्याज्ञानस्यनिवृत्तौशिष्यमपश्यतः कं प्रति गुरुत्वं शिष्यप्रतिभाने वा तत्कारणमज्ञानमनुभवन्नासौविद्वानिति चन्न। विदुषोऽपि बाधितानुवृत्तिसंभवादित्यभिप्रेत्य तत्र निदर्शनमाह—

विनष्टेति। तिस्रोह्यज्ञानस्यावस्थाः। एका तावदृश्यंसर्वं सत्यमित्यभिमानहैतुः। सा युक्तिशास्त्रजनिताद्विवेकज्ञानान्निवर्तते। तन्निवृत्तावपि यथापूर्वमभिनिवेशेन व्यवहारहेतुर्द्वितीया सा तत्त्वसाक्षात्कारान्निवर्तते। तन्निवृत्तावपि संस्कारमात्रेण देहाभासजगदवभासहेतुस्तृतीया बाधितानुवृत्तिरित्युच्यते। सा चरमसाक्षात्कारेण निवर्तते। एतदबस्थात्रयं क्रमेणैव श्रूयते—

“तस्याभिध्यानाद्योजनात्तत्त्वभावाद्भूयश्चान्ते विश्वमायानिवृत्ति” इति। तत्र तृतीयकक्षायां स्थितस्‍यातिवर्णाश्रमस्य विदुषोऽपि शिष्यादिदर्शनादुपदेशसंभवद्ग्रहनक्षत्रगत्यादिदर्शनान्नि वृत्तोऽपि दिङ्मोहः संस्कारमात्राद्यथा भासत एवमिह संस्कारमात्राच्छिष्या-दिभानादुपदेशोपपत्तिर्द्वैताभावस्य युक्तिशास्त्रानुभवैरवधृतत्वाद्विद्वत्ताऽपीत्यर्थः॥२८॥ ननु बाधितस्य कथमनुवृत्तिः। अनुवृत्तौवा कथं बाधः। अभावबोधो हि बाधः। न च भावेन सहाभावो बोधार्हइत्यत आह—यथा स्वप्नेति। बोधोत्तरकालंबाधितः स्वप्नप्रपञ्चःप्रागप्यसत्त्वेन प्रतीयमानोऽपि प्राक्कालसंबन्धितया स्मृत्या यथाविषयीक्रियते। एवं वर्तमनप्रपञ्चोऽसत्त्वे-

इति यो वेद वेंदान्तैःसोऽतिवर्णाश्रमी भवेत्‌॥३०॥
यस्य वर्णाश्रमाचारों गलितः स्वात्मदर्शनात्।
स वर्णानाश्रमान्सर्वानतीत्य स्वात्मनि स्थितः॥ ३१॥
योऽतीत्य स्वाश्रमान्वर्णानात्मन्येव स्थितः पुमान्‌।
सोऽतिवर्णश्रमी प्रोक्तः सर्ववेदान्तवेदिभिः॥ ३२॥
न देहो नेन्द्रियं प्राणो न मनो बुद्ध्यहंकृती।
न चित्तं नैव माया च न च व्योमादिकं जगत्‌॥
न कर्तानैव भोक्ता च न च भोजयिता तथा।
केवलंचित्सदानन्दब्रह्मैवाऽऽत्मा यथार्थतः॥ ३४॥
जलस्य चलनादेव चञ्चटत्वं यथा रवेः।
तथाऽहङ्कारसंबन्धादेव संसार आत्मनः॥ ३५॥
तस्मादन्यगता वर्णआश्रमा अपि केशव।
आत्मन्यारोपिता एव भ्रान्त्याते नाऽऽत्मवेदिनः॥३६॥
न विधिर्ननिषेधश्च न वर्जीवर्ज्यकल्पना।

______________________________________________________________________________नानुभूयमानोऽपि संस्कारवशात्तत्कालसंबान्धितया किं नभासेतेत्यर्थः॥२९॥३०॥ ननु वर्णाश्रमाचारातिक्रमश्चेदित्थमुत्कर्षकारणंजितं पाषण्डैरित्यत आह—

यस्य वर्णोश्रमेति। तत्त्वसाक्षात्करेण विगलितदेहाद्यात्मत्वाभिमानो देहेन सहैव तद्धर्माणां वर्णाश्रमाणामतिक्रमादतिवर्णाश्रमी। ईदृक्परमकाष्ठामप्राप्तोऽपि नास्तिकः प्रमादालस्यादिभिस्त्यजन्नकरणनिमित्तप्रत्यवायोपचयादधः पतति। अत एव हि प्रागत्रैवोक्तम्‌—“ वर्णाश्रमाचारवता पुरुषेण महेश्वरः। आराध्यते प्रसादार्थं न दुर्वृत्तेैःकदाचन” इति। प्राप्तप्रसादस्त्वतिवर्णाश्रमीति महद्वैषम्यम्‌॥ ३१॥ ३२॥ उक्तस्यातिवर्णाश्रमस्यानुभवं विशदयति—न देह इत्यादिना॥ ३३॥ ३४॥ तत्त्वविषयं तदीयमनुभवप्रकारमुक्त्वा दृश्यविषयमिदानीमाह—जलस्योति। आत्मनि कर्तृत्वभोक्तृत्वादिकं

आत्मविज्ञानिनामस्ति तथा नान्यज्जनार्दन॥ ३७॥
आत्मविज्ञानिनो निष्ठामीदृशीमम्बुजेक्षण।
मायया मोहिता मर्त्यानैव जानन्ति सर्वदा॥ ३८॥
न मांसचक्षुषां निष्ठा ब्रह्मविज्ञानिनामियम्‌।
द्रष्टुं शक्या स्वतःसिद्धा विदुषः सैव केशव॥ ३९॥
यत्त सुप्ता जना नित्यं प्रबुद्धस्तत्र संयमी।
प्रबुद्धा यत्र ते विद्वान्सुषुप्तस्तत्र केशव॥ ४०॥
एवमात्मानमद्वंद्वंनिर्विकल्पं निरञ्जनम्‌।
नित्यं शुद्धंनिराभासं संविन्मात्रंपरामृतम्‌॥ ४१॥
यो विजानाति वेदान्तैः स्वानुभूत्या च निश्चितम्।
सोऽतिवर्णाश्रमी नान्यः स एव गुरुसत्तमः॥ ४२॥
स एव वेदवित्तमः स एव मोचकप्रदः

———————————————————————————————————————————पश्यन्नप्यौपाधिकभ्रमकल्पितत्वादसत्त्वेनैव स पश्यतीत्यर्थः॥३५॥३६॥ वर्णाश्रमयोः कल्पितत्वेन तदुपजीविनोर्विधिनिषेधयोस्तदधीनयोर्हानोपादानयोश्चतथात्वमित्याह—न विधिरिति। तथा नान्यदिति। लौकिकव्यापारजातमपि॥३७॥ इत्थमियं निष्ठा प्रशस्ता चेत्किमिति सर्वैनोऽऽश्रियत इत्यत आह—आत्मविज्ञानिन इति। श्रूयते हि—

“इष्टापूतं मन्यमाना वरिष्ठं नान्यच्छ्रेयोवेदयन्ते प्रमूढाः। नाकस्य पृष्टे ते सुकृतेऽनुभूत्वेमंलोकंहीनतरं वा विशन्ति” इति॥३८॥ न मांसेति। यतो मायामोहितानां मांसमयंचक्षुर्दर्शनसाधनमियं तु निष्ठा स्वानुभवैकवेद्येत्यर्थः॥ ३९॥ यत्र सुप्ता इति। तत्त्वस्वरूपे जना नित्यं सुप्तास्तत्र संयमी नित्यं प्रबुद्धः। यत्र दृश्यप्रपञ्चे लोकाः प्रबुद्धास्तत्र विद्वान्सुषृप्तः उक्तं हि भगवता—“या निशा सर्वभूतानां तस्यांजागर्ति संयमी। यस्यांजाग्रति भूतानि सा निशा पश्यतो मुनेः” इति॥४०॥ निर्विकल्पंविक्षेपरहितं निरञ्जनमावरणरदहितम्‌॥४१॥ यस्य न शब्दज्ञानमात्रं किंत्वनुभवपर्यन्तमपीत्याह—स्वानुभूत्येति॥४२॥ वेदवित्तम इति कर्मज्ञानवन्तोऽपि—

स एव सर्वमोचकः स एव सर्वकारणम्‌।
स एव सत्यचिद्धनः स एव मुक्तिरुत्तमा
स एव सर्वमुक्तिदः स एव सर्वमच्युत॥ ४३ ॥
इति तव परमार्थः सर्ववेदान्तसिद्धः

सकलमुनिवराणां देवतानां नराणाम्‌।

परमपुरुष साक्षान्मुक्तिसिद्ध्यैमयोक्तः

परमकरुणयैव प्रार्थितेन त्वयैव॥ ४४ ॥

श्रीसूतः—

एवं निशम्य भगवान्वासुदेवो जगन्मयः।
स्वमूर्ध्निचरणद्वंद्वंशिवस्य परमात्मनः॥ ४५ ॥
विन्यस्य ब्रह्मविज्ञानं वेदान्तोक्तं विमुक्तिदम्‌।
लब्ध्वा भूमो महाभक्या विवशोगद्गदस्वरः॥४६॥
प्रणम्य बहुशः श्रीमान्सलिलार्द्रसुलोचनः।
कृतार्थोऽभवदीशानप्रसादादेव सुव्रताः॥ ४७ ॥

———————————————————————————————————————————वेदविदः। वेदवित्तमस्त्वौपनिषदतत्त्वज्ञानवानेव। यज्जगमूलकारणं तत्त्वज्ञानप्रदानेन मोचक ईश्वरो यश्च तमीश्वरं ज्ञापयति मोचकप्रद आचार्यस्त्रियविभागोऽप्याविद्वदृष्टयैत। विदुषस्तु भेदहेतोरज्ञानस्य विनाशात्सोऽपि विभागोऽपि नास्तीत्याह—स एव सर्वमोचक इत्यादि ॥४३॥ न केवलमस्य मायोपाधिकं जगत्कारणं किंतु मायातीतसच्चिदानन्दैकरसत्वमपीत्याह—स एव सत्येति। ननु मुक्तेरसत्यत्वेतदवाप्तेरपुरुषार्थत्वादन्यत्वे वा कथं स एव सत्यमित्युक्तमित्यत आह—स एव मुक्तिरिति। यद्यपि सालोक्यादिकमपि मुक्तिस्तथाऽपि तन्मायावस्थाविशेष एव। उत्तमा तु मुक्तिः स्वरूपमेव। यदाहुः—‘‘आत्मैवाज्ञानहानिर्वा? इति। अन्यत्रापि

—“निवृत्तिरात्मा मोहस्य ज्ञातत्वेनोपलक्षितः। उपलक्षणहानेऽपि स्यान्मुक्तिःपाचकादिवत्‌” इति॥ एवं तत्त्व-

भवन्तोऽपि द्विजा एवं श्रद्धया मोचकप्रदम्।
विदित्वा तस्य शुश्रूषां कुरुध्वं यत्नतः सदा॥ ४८॥
यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ।
तस्य प्रोक्ता द्विजा ह्यर्थःप्रकाशन्ते महात्मनः॥४९॥

इति श्रीस्कान्दपुराणे सूतसंहितायां मुक्तिखण्डे मोचकप्रदकथनं नाम पञ्चमोऽध्यायः॥५॥

______________

षष्ठोऽध्यायः॥

ज्ञानानुत्पत्तिकारणकथनम्‌।

ईश्वर उवाच—

अथातः संप्रवक्ष्यामि ज्ञानानुत्पत्तिकारणम्‌।
श्रुणु त्वं श्रद्धया युक्तः परिहाराय केशव॥ १॥
शिवद्रोहस्तु विज्ञानानुत्पत्तेर्मूलकारणम्‌।
शिवभक्तापराधश्चशिवज्ञानस्यदूषणम्‌॥ २॥
त्रिपुण्ड्रोद्धूलनद्वेषस्तदनुष्ठानवर्जनम्‌।
रुद्राक्षधारणाभावो ज्ञानानुत्पत्तिकारणम्‌॥ ३॥
तव द्रोहस्त्वदीयानां प्रद्वेषश्च जनार्दन।
त्वदीयधनवाञ्छा च ज्ञानानुत्पत्तिकारणम्‌॥ ४॥

———————————————————————————————————————————दृष्ट्याऽतिवर्णाश्रमस्य स्वरूपमुक्तम्‌। मायादृष्ट्या तुभोगप्रदत्वंभोक्तृभोग्यरूपता च तस्यैवेत्याह—स एव सर्वमिति॥४४—५०॥

इति श्रीसूतसंहितातात्पर्यदीपिकायां मुक्तिखण्डे मोचकप्रदकथनं नाम पञ्चमोऽध्यायः॥५॥

_______________

यदुपादेयमुक्त्यादिचतुष्टयस्वरूपज्ञानेऽपि प्रतिबन्धकरूपापरिज्ञाने त-

ब्रह्मद्रोहस्तदीयानां प्रद्वेषश्च जनार्दन।
तदीयधनवाञ्छा च ज्ञानानुत्पत्तिकारणम्‌॥ ५॥
कामः क्रोधश्च लोभश्च मोहो दम्भस्तथैव च।
आलस्यमपि मात्सर्यं ज्ञानानुत्पत्तिकारणम्‌॥ ६॥
धर्माधर्मेश्वरास्तित्वेसंदेहश्च तथैव च।
तेषामभावबुद्धिश्चज्ञानानुत्पत्तिकारणम्‌॥ ७॥
मातृसंरक्षणाभावो मातृद्रोहश्च केशव।
मातृसंतापकारित्वं ज्ञानानुत्पत्तिकारणम्‌॥ ८॥
वेदवेदान्तविद्वेषस्तदध्ययनवर्जनम्‌।
श्रोत्रियस्यापराधश्च ज्ञानानुत्पत्तिकारणम्‌॥ ९॥
वेदाङ्गानां च विद्वेषः स्मृतीनां च तथैव च।
पुराणानां च विद्वेषो भारतस्य तथैव च॥ १०॥
तेषामध्येतृविद्वेषस्तेषां बाधश्च केशव।
तेषामर्थापहारश्चज्ञानानुत्पत्तिकारणम्‌॥ ११॥
वामपाशुपतादीनामश्रोतानां परिग्रहः।
पाञ्चरात्राश्रयश्चापि ज्ञानानुत्पत्तिकारणम्‌॥ १२॥
शिष्टानामसदारोपः शिष्टसंसर्गवर्जनम्।
अशिष्टता च मद्भक्तेज्ञानानुत्पत्तिकारणम्‌॥ १३॥
दुर्वृत्तैरपि संसर्गो दुर्वृत्तानां च पोषणम्‌।
दुर्वृत्तत्वं च भूनाथ ज्ञानानुत्पत्तिकारणम्‌॥ १४॥

———————————————————————————————————————————त्परिहारो न शक्यः अतस्तदनन्तरं तदभिधानं प्रतिजानीते–अथात इति॥१—११॥ अश्रौतानामिति। श्रौतं हि पाशुपतंज्ञानोत्पत्तिकारणत्वेन महता प्रबन्धेन

पितृद्रोहश्चशुश्रूषाभावस्तस्य तथैव च।
पितृसंतापकारित्वं ज्ञानानुत्पत्तिकारणम्‌॥ १५॥
गवां संरक्षणाभावोगवां हिंसा तथैव च।
गोप्रचारभुवो बाधो ज्ञानानुत्पत्तिकारणम्‌॥ १६॥
प्राणिसंचारमार्गस्य निरोधस्तस्य बाधनम्‌।
तत्र कण्टकानिक्षेपो ज्ञानानुत्पत्तिकारणम्‌॥ १७॥
वृष्टिवातातपक्लेशैर्गृहप्राप्तस्य वर्जनम्‌।
तद्रक्षाकरणं चापि ज्ञानानुत्पत्तिकारणम्‌॥ १८॥
वापीकूपतटागादिबाधस्तज्जलदूषणम्‌।
तथा तज्जलचौर्यं च ज्ञानानुत्पत्तिकारणम्॥ १९॥
व्याघ्रचोरादिभीतस्य रक्षणाकरणं तथा।
साधूनां भयकारित्वं ज्ञानानुत्पात्तिकारणम्‌॥ २०॥
वश्याकर्षणविद्वेषस्तम्भोच्चाटनकारिता।
अभिचारक्रिया चापि ज्ञानाचुत्पत्तिकारणम्‌॥ २१॥
अक्षद्यूतविनोदश्च नृत्यगीतेषु मोहनम्‌।
अपशब्दप्रयोगश्च ज्ञानानुत्पत्तिकारणम्‌॥ २२॥
वर्णाश्रमविशिष्टानामवमानस्तथैव च।
तेषां शुश्रूषणाभावो ज्ञानानुत्पत्तिकारणम्‌॥ २३॥
पुत्रमित्रगृहक्षेत्रभ्रातृबन्धुजने रतिः।
अरतिर्गुरुपादे च ज्ञानानुत्पत्तिकारणम्‌॥ २४॥
अभक्ष्यभक्षणश्रद्धा तथाऽभक्ष्यस्य भक्षणम्‌।

———————————————————————————————————————————प्रपञ्चितम्‌॥ १२—२१॥ अपशब्दोति। “तस्माद्बाह्मणो न म्लेच्छितवै।

अभक्ष्यभक्षणस्पृष्टिर्ज्ञानानुत्पत्तिकारणम्‌॥ २५॥
परस्त्रीदर्शनश्रद्धापरस्त्रीगमने रतिः।
परस्त्रीगमनं चापि ज्ञानानुत्पत्तिकारणम्‌॥ २६॥
स्वस्त्रीदर्शनविद्वेषः स्वस्त्रीदर्शनवर्जनम्‌।
स्वस्त्रीबाधश्च कल्याण ज्ञानानुत्पत्तिकारणम्‌॥ २७॥
गुरोरनिष्टाचरणं गुरोरिष्टविवर्जनम्‌॥ २८॥
गुरोश्च सेवाऽकरणं ज्ञानानुत्पत्तिकारणम्‌
ईश्वरे च गुरौवेदे ज्ञाने चाभक्तिरच्युत।
तथा स्वगुरुसंताने ज्ञानानुत्पत्तिकारणम्‌॥ २९॥
स्वाचार्याय महाभक्या स्वदेहस्यानिवेदनम्‌।
निवेदनं तथाऽन्यस्मैज्ञानानुत्पत्तिकारणम्‌॥ ३०॥
आचार्ये बालबुद्धिश्चनरबुद्धिस्तथैव च।
अशिष्टबुद्धिर्भूनाथ ज्ञानानुत्पतिकारणम्‌॥ ३१॥
आचार्यनिन्दाश्रवणं तद्बाधस्य च दर्शनम्।
विवादश्च तथा तेन ज्ञानानुत्पत्तिकारणम्‌॥ ३२॥
आचार्येऽनीश्वरज्ञानमुपेक्षा च तथैव च।
तदुक्तविस्मृतिश्चापि ज्ञानानुत्पत्तिकारणम्‌॥ ३३॥
अशक्तानामरक्षा च तथाऽशक्तापराधनम्‌।
अशक्तानां च निन्दा च ज्ञानानुत्पत्तिकारणम्‌॥३४॥

———————————————————————————————————————————नापभीषितवैम्लेच्छो ह वा एष यदपशब्दः इति? हि श्रुयते॥ २२-३०॥ आचार्ये बालबुद्धिरिति। “शिव एव ह्याचार्यरूपेणानुगृह्णाति” इत्यागमेषु प्रसिद्धम्‌। यदाह—

“योजयाति परे तत्त्वेस दीक्षयाऽऽचार्यमूर्तिस्थः”इति। अन्यत्रापि—“गुरुदेवतानामात्मैक्यंसंभावयन्समाहितधीः” इति। अतः स

अर्थहीनस्य निन्दा च तथा तस्यापराधनम्‌।
तस्य संकोचसंतुष्टिर्ज्ञानानुत्पत्तिकारणम्‌ ३५॥
रूपहीनस्य निन्दा च तथा तस्यापराधनम्‌ ।
वैरूप्ये तस्य संतुष्टिर्ज्ञानानुत्पत्तिकारणम्‌॥ ३६॥

सूत उवाच—

एवं महेश्वराद्विष्णुर्ज्ञानानुतपत्तिकारणम्‌।
श्रुत्वाप्रणामं कृतवान्भक्त्या परमया सह॥ ३७॥
भवन्तोऽपि शिवज्ञानसिद्ध्यर्थंमुनिपुङ्गवा।
परिहृत्यैव वर्तध्वमेतानर्थानशेषतः॥ ३८॥

इति श्रीस्कान्दपुराणे सूतसंहितायां मुक्तिखण्डे ज्ञानानुत्पत्तिकारणकथनं नाम षष्ठोऽध्यायः॥६॥

___________

सप्तमोऽध्यायः॥

गुरूपसदनशुश्रूषणमहिमा॥

ईश्वर उवाच—

अथातः संप्रवक्ष्यामि तवाहं पुरुषोत्तम।
विद्वच्छुश्रूषणपरं शुणु श्रद्धापुरःसरम्‌॥ १॥

______________________________________________________________________________

मनुष्यबुद्ध्या न ग्राह्यः। अत एव वयसा कनीयानपि ज्यायस्त्वेनैव प्रतिपत्तव्यः। तस्य कृतकृत्यत्वेन वर्णाश्रमाविरहेण च कर्तव्याभावाद्विहिताकरणनिमित्तमशिष्टत्वमपि तस्मिन्न मन्तव्यमिदत्यर्थः॥३१—२८॥

इति श्रीसूतसंहितातात्पर्यदीपिकायां ज्ञानानुत्पत्तिकारणकथनं नाम षष्ठोऽध्यायः॥६॥

_____________

हातव्यत्वेन जिज्ञासिते विद्याप्रतिबन्धकारणे ज्ञाते सति यतो विद्योत्पत्ति-

पुरा कश्चिद्द्विजश्रेष्ठः शशिवर्णसमाह्वयः।
पाकयज्ञसमाख्यस्य तनयः पापकर्मकृत्॥ २॥
तमोभिभूतचित्तश्च ब्रह्मविज्ञानदूषकः।
वेदनिन्दापरः सर्वप्राणिहिंसापरोऽधमः॥ ३॥
शिवनिन्दापरः सर्वदेवतादूषकः सदा।
धर्मनिन्दापरस्तद्वद्धार्मिकस्यापराधकृत्‌॥ ४॥
वर्णधर्मविनिर्मुक्तस्तथैवाऽऽश्रमवर्जितः।
मातृहा पितृहा तद्वद्भ्रातृद्रोही यथाबलम्॥ ५॥
गोघ्नश्चैव कृतघ्नश्च महानास्तिक्यगर्वितः।
क्षेत्रदारहरस्तद्वदग्निदो गरदस्तथा॥ ६॥
चण्डा

स्त्रीपतिस्तद्वन्मधुमांसादिभक्षकः।
महाधीरो महापापी चचार प्रथिवीतले॥ ७॥
पितरस्तस्य मूर्खस्य ब्रह्मलोकगता अपि।
स्वर्गलोकगताश्चान्ये विवशानरकं गताः॥ ८॥
शशिवर्णोऽपि कालेन व्याधिभिः पीडितोऽच्युत।
अपस्मारपिशाचादिग्रहग्रस्तोऽभवद्भृशम्‌॥ ९॥
पाकयज्ञः पिता तस्य मम भक्तो महत्तरः।
निशम्य तनयक्लेशान्‌ निर्गतप्राणवत्सुधीः॥ १०॥
पतितो भूतले विष्णो रोदमानोऽतिदुःखितः।
तं दृष्ट्वादेवभक्ताख्यो मुनिः सर्वार्थवित्तमः॥ ११॥

———————————————————————————————————————————कारणे विद्वच्छुश्रूषादौप्रवृत्तिः स्वफलज्ञानायत्ता। अतस्तदनन्तरं तदाभिधानमिति प्रतिजानीते—अथात इति॥१—७॥ पितरस्तस्येति। विहिता-

कृपया पाकयज्ञाख्यं बभाषे वाक्यमुत्तमम्‌।
उत्तिष्ठोत्तिष्ठ मा भैषीः पाकयज्ञ भवत्प्रियम्॥ १२॥
त्वत्पुत्रस्यापि वक्ष्यामि श्रेयःप्राप्तेस्तु साधनम्‌।
श्रीमद्गोपर्वते पुण्ये शिवप्राप्त्यैकसाधने॥ १३॥
षोडशक्रोशविस्तीर्णे तावन्मात्रायते वरे।
शिवशक्तिरुमादेवी यत्र गोपर्वतेश्वरम्‌॥ १४॥
आराध्य श्रद्धया संज्ञां चकार परमेश्वरी।
शक्तीश्वर इति स्वस्य संज्ञया भवनाशिनी॥ १५॥
यत्र शक्तीश्वरं भक्त्या ब्रह्माऽऽराध्य यथाबलम्।
शक्तिमानभवत्सृष्टो जगतस्तत्प्रसादतः॥ १६॥
यत्र शक्तीश्वरं पूज्य प्रसादेन पुरंदरः।
अधिपः सर्वदेवानामभवत्तारकोऽसुरः॥ १७॥
यत्र शक्तीश्वरं पूज्य प्रबलोऽभून्महीतले।
उर्वशी यत्र शक्तीशं भक्त्यापूज्येन्द्रवल्लभा॥ १८॥
यत्र वाचस्पतिर्देवं शक्तीशाख्यं यथाबलम्।
समाराध्याभवत्सक्षाद्देवेन्द्रस्य पुरोहितः॥ १९॥
यत्र पूज्योऽभवच्छुक्रः शक्तीशाख्यं महेश्वरम्‌।
आर्द्रायां नेर्ऋते साक्षादसुराणां पुरोहितः॥ २०॥
यत्र पर्वणि देवेशं दृष्ट्वाशक्तीश्वरामिधम्।
प्रदत्त्वा धनमन्यद्वानरः साक्षाच्छिवंव्रजेत्‌॥ २१॥

———————————————————————————————————————————करणादिना हि पितृृणामधः।पतनं स्मर्यते—“अधर्माभिभवात्कृष्ण” इत्यारम्य “पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः” इत्यन्तेन॥८—५४॥

यत्र पुण्येषु कालेषु श्रद्धया परमेश्वरम्‌।
प्रणम्य शिवभक्तेभ्यः प्रदत्त्वा धनमुत्तमम्‌॥ २२॥
नरो मुक्तिमवाप्नोति शक्तीशस्य प्रसादतः।
यत्र दृष्ट्वामहादेवं शक्तीशाख्यं धनं मुदा॥ २३॥
दत्त्वाभोगानवाप्नोति विजयं चापि मानवः।
यत्र शक्तीश्वरं नित्यं दृष्ट्वासंकल्पपूर्वकम्‌॥ २४॥
प्रदत्त्वा मुष्टिमात्रं वा प्रस्थं वा सिक्थमेव वा।
तण्डुलंब्रह्मविद्धस्ते विमुक्तो मानवो भवेत्‌॥ २५॥
यत्र सर्वमहापापयुक्तोऽपि मरणं गतः।
नरो मुक्तिमवाप्नोति शक्तीशस्य प्रसादतः॥ २६॥
यत्र साक्षान्महायोगी सर्ववेदान्तपारगः।
महाकारुणिको नाम्नामहानन्दपरायणः॥ २७॥
आस्ते तं वेदविच्छ्रेष्टं पाकयज्ञ स्वसूनुना।
सह दृष्ट्वामहाभक्त्या प्रणम्य भुवि दण्डवत्‌॥ २८॥
तस्य शुश्रूषणं नित्यंकुरु तत्तारकं भवेत्‌।
इत्युक्तो देवभक्तेन मुनिना पङ्कजेक्षण॥ २९॥
पाकयज्ञः पिता पुत्रंशशिवर्णसमाह्वयम्‌।
अतीव प्रीतिमापन्नः श्रीमद्गोपर्वतं गतः॥ ३०॥
पुनः शक्तीश्वरं देवं मह पुत्रेण पर्वणि।
दृष्ट्वाप्रक्षिणीकृत्यश्रद्धयाऽष्टोत्तरं शतम्‌॥ ३१॥
प्रसादात्तस्य सर्वज्ञं जीवन्मुक्तं जगद्गुरुम।
अतिवर्णाश्रमं धीरं महानन्दपरायणम्‌॥ ३२॥

दृष्ट्वाहृष्टः स्वपुत्रेण सह भूमौमुहुर्मुहुः।
प्रणम्य दण्डवद्भक्त्यापाकयज्ञः कृताञ्जलिः॥ २२॥
सर्वं विज्ञापयामास पुण्डरीकदलेक्षण।
सोऽपि साक्षान्महायोगी महाकारुणिकोत्तमः॥ ३४॥
स्वात्मानन्दानुसंधानप्रमोदेन सहाच्युत।
विलोक्य पुत्रं पापिष्ठंशशिवर्णसमाह्वयम्‌॥ ३५॥
शिष्यत्वेनाग्रहीद्विष्णो ब्रह्मविद्याबलेन तु।
तस्यावलोकनादेव शशिवर्णस्य कानिचित्‌॥ ३६॥
विनष्टानि च पापानि तत्परिग्रहकारणात्‌।
कानिचित्कल्मषाण्यस्य सोऽपि निरोगतां गतः॥ २७॥
पुनः काष्ठं तृणं तोयं शाकमूलफलानि च।
दिने दिने समादाय गुरवेदत्तवान्मुदा॥ ३८॥
तस्यगोरक्षणं चापि शरिवर्णःसमाहितः।
अकरोत्तेन पापानि नष्टानि सुबहूनि च॥ ३९॥
पुनस्तद्गात्रशुश्रूषां पादमर्दनमच्युत।
तैलाभ्यङ्गंच वस्त्रादिशोधनं चाकरोन्मुदा॥ ४०॥
तेनैव हेतुनाऽप्यस्य शशिवर्णस्य केशव।
महत्तराणि नष्टानि पापानि सुबहूनि च॥ ४१॥
ततः प्रसन्नः सर्वज्ञो महायोगीश्वरेश्वरः।
स्वभुक्तशेषं कारुण्याद्ददौतस्मैप्रियेण सः॥ ४२॥
तद्भुक्तशेषामृतपानशान्त-

सर्वाघतापो गुरुमादरेण।

नत्वाऽथ शुश्रूषणमस्य शिष्य-

श्चक्रे सदाऽतीव महानुभावः॥ ४३॥

ततः प्रसन्नो गुरुरस्य विद्वा-

न्स्वशिष्यमेनं शशिवर्णसंज्ञम्।

प्रनष्टपापंपरिशुद्धचित्तं

प्रगृह्य भूत्या सितयाऽस्य देहम्‌॥ ४४॥

उद्धूल्यतस्मैप्रददौ महात्मा

वेदान्तविज्ञानसुनिश्चितार्थम्‌।

बुद्ध्वा हृषीकेशमम प्रसादा-

च्छिष्योऽपि मामात्मतयाऽपरोक्षम्‌॥ ४५॥

मुक्तोऽभवत्तस्य पिताऽपि विष्णो

श्रद्धा बलेनैव मम प्रसादात्‌।

शुश्रूषया तस्य विलक्षणस्य

विद्यामवाप्याऽऽशु विमुक्तिमाप॥ ४६॥

पितरस्तस्य परात्माविद्यया

नरकादेव समुद्धृता हरे।

कुलमप्यस्य पवित्रतां गतं

पृथिवी पुण्यवती विशेषतः॥ ४७॥

भुक्ता पुरा तेन महानुभाव

चण्डालकन्याऽपि दिवं प्रविष्टा।

नष्टा नरा भूधर नाकपृष्ठं

विद्याबलेनास्यसुखं प्रयाताः॥ ४८॥

श्रुणुष्व चान्यत्परया मुदा हरे

तवाहमद्याभिवदामि सद्गुरोः।

विलक्षणस्याऽऽत्मविदो महात्मनः

शरीरशुश्रूषणजं महाफलम्‌॥ ४९॥

पुरा महापापबलात्पुरातना-

न्निहत्य वेश्या सुभगाभिधा पतीन्‌।

धनानि तेषामभिवाञ्छया सदा

हरे समादाय सुहृज्जनैरपि॥ ५०॥

स्वदासवर्गैःसह पुत्रकैःस्वकै-

स्तथाऽम्बया भुक्तवती महासुखं।

पिशाचिकाभिः परिपीडिता पुनः

सदा महाव्याधिभिरप्यतीव सा॥ ५१॥

निद्राऽपि नाभूत्पुरुषोत्तमास्याः

कष्टां दशामाप सह खकीयैः।

तस्या गृहं चक्रधरातिविद्वा-

नक्षुत्पीडितो विवशःसंप्रपेदे॥ ५२॥

अनेकजन्मार्जितपुण्यकर्मणा

विलक्षणं ब्रह्मविदं गृहागतम्‌।

विलोक्य सा भूमितले समाहिता

प्रणम्य तत्पादसरोरुहद्वयम्‌॥ ५३॥

स्वान्तर्गृहे शीतलगन्धतोयैः

प्रक्षाल्य पादोदकमादरेण।

आदाय पीत्वा सुभगा विमुक्ता

पिशाचिकाभिश्च समस्तरोगैः॥ ५४॥

ततः प्रशान्तं सुभगाऽतिविस्मिता

महानुभावं परमार्थवेदिनम्‌।

अपूपशाल्योदनपूर्वकैर्वरैः

सुभोजितं चन्दनकुङ्कुमादिभिः॥ ५५॥

वस्त्रैःसुसूक्ष्मैश्चसुगन्धपुष्पै-

स्ताम्बूलल्लीदलपूर्वकैश्च।

आराध्य भक्त्यासह सुप्रसन्ना

तं प्रार्थयामास परात्मनिष्ठम्‌॥ ५६॥

त्वद्दर्शनेनैव समस्तरोगतो

विमुक्तदेहाऽहमतीव निर्मला।

अतश्चमामामरणादतिप्रभो

सुभुङ्क्ष्वदास्यं करवाणि ते सदा॥ ५७॥

इत्येवं प्रार्थितः सम्यक्तया प्रीतो जनार्दन।
प्ररब्धकर्मेणानीतस्तथा चक्रे मतिं बुधः॥ ५८॥
साऽपि नित्यं महाविष्णो श्रद्धया परया सह।
अतीव पूजयामास स्वात्मना च धनेन च॥ ५९॥
वत्सराणां त्रयंपूजां कृत्वातस्य महात्मनः।
सुभगा सा तथा ज्ञानं लब्ध्वा मुक्ताऽभवद्धरे॥ ६०॥

______________________________________________________________________________प्रशान्तं दृष्ट्वाअतः ‘शमोऽदर्शने” इति दर्शनपर्युदासान्न मित्त्वम्‌॥५५-६८॥ उक्तमर्थमुपसंहरति तस्मादात्मबिद इति।श्रूयते हि—“यंयं लोकं मनसा

तस्याः पुत्राश्चपोत्राश्चसुहृदो बन्धुबान्धवाः।
दासवर्गाश्चमाता च स्वर्गलोकंगता हरे॥ ६१॥
बहवो ब्रह्मविद्वांसं समाराध्य यथाबलम्‌।
तेन ब्रह्मात्मविज्ञानं वेदान्तार्थविमुक्तिदम्॥ ६२॥
अपरोक्षमवाप्याऽऽशु विमुक्ता भवबन्धनात्‌।
यत्र नित्यं वसेज्ज्ञानी तत्राहं सर्वदा स्थितः॥ ६३॥
सुदूरमपि गन्तव्यं यत्र माहेश्वरो जनः।
प्रयत्नेनापि द्रष्टव्यस्तत्राहं सर्वदा स्थितः॥ ६४॥
निमेषं वा तदर्धं वा यत्र ज्ञानी हरे स्थितः।
तत्र तीर्थानि सर्वाणि तिष्ठन्त्येव न संशयः॥६५॥
योऽनिष्टं ब्रह्मनिष्ठस्य करोत्यज्ञानतोऽपि वा।
विमूढः स ममानिष्ठंकरोत्येव न संशयः॥ ६६॥
अम्बिकायाः प्रियोऽत्यर्थं मम ज्ञानी सदा हरे।
बाहेष्ठाः सर्वदा सर्वे ज्ञानी त्वात्मैव मे सदा॥ ६७॥
आत्मनिष्ठं च मां विष्णो विभिन्नं प्रवदन्ति ये।
ते मूढा एव मनुजा नात्र कार्याविचारणा॥ ६८॥
तस्मादात्मविदः सर्वैःपूजनीया विशेषतः।
वेदवेदान्तवाक्यानां मयाऽर्थःसंग्रहेण ते।
कथितः सारभूतोऽयं शेषोऽन्यो ग्रन्थविस्तरः॥६९॥
शास्त्राण्यधीत्य मेधावी गुरोरभ्यस्य तान्यपि।
पलालमिव धान्यार्थीत्यजेद्ग्रन्थमशेषतः॥ ७०॥

_______________________________________________________________________________संविभाति विशुद्धसत्त्वःकामयते यांश्च कामान्‌। तं तं लोकं जयते तांश्च कामांस्तस्मादात्मज्ञं ह्यर्चयेद्भूतिकामः” इति॥ ६९॥ ७०॥यावानर्थ

यावानर्थउदपाने सर्वतः संप्लुतोदके।

तावान्सर्वेषु वेदेषु ब्राह्यणस्य विजानतः॥ ७१॥

दुर्लभंप्राप्य मानुष्यं तत्रापि ब्रह्मविग्रहम्‌।

ब्राह्मण्यं च महाविष्णो बेदान्तश्रवणादिना॥ ७२॥

अतिवर्णाश्रमं रूपं सच्चिदानन्दमद्वयम्‌।

यो न जानाति सोऽविद्वान्कदा मुक्तो भविष्यति॥ ७३॥

यदा चर्मवबदाकाशंवेष्टायिष्यन्ति मानवाः।

तदाऽविज्ञाय च शिवं दःखस्यान्तोभविष्यति॥ ७४॥

वहूनां जन्मनामन्ते महापुण्यवतां नृणाम्‌।

प्रसादादेवमेवाक्याज्ज्ञानं सम्यग्विजायते॥ ७५॥

यस्मिन्देहे दृढं ज्ञानमपरोक्षं विजायते।

———————————————————————————————————————————इति। सर्वस्मिन्भूमण्डलेजलप्लुते सति पिपासोरुदपाने कूपे यथा न किंचित्प्रयोजनमेवंतत्वविदां वेदैस्तत्प्रतिपादितकर्मभिर्वान किंचित्प्रयोजनमित्यर्थः॥७१॥ विद्यैव श्रेयसी चेत्किमिति वेदैःकर्माणि प्रपञ्चेन प्रतिपादितानि तेषामप्यर्थवत्त्वेवा कथं वैफल्यवचनमित्याशाङ्कय “तिलतैलमेव मिष्टं येन न दृष्टं धृतं क्वापि” इति न्यायेन विद्यानधिकृतानां सांसारिकसुखाय तात्कालिकदुःखपरिहाराय च कर्माणि कथितानि। अधिकृतस्य तु परमपुरुषार्थसाधनतया विद्यैव श्रेयसीत्याह—दुर्लभं प्राप्येति। “भूतानां प्राणिनः श्रेष्ठाः प्राणिनां बुद्धिजीविनः। बुद्धिमत्सु नराः श्रेष्टाः नरेषु ब्राह्मणादयः”। इत्युक्तदृशा मनुष्यत्वमेव तावदृुर्लभम्‌। तत्रापि ब्रह्मविग्रहमिति। ब्रह्म वेदस्तदहविग्रहं त्रैवर्णिकत्वं प्राप्येत्यर्थः। वेदान्तश्रवणादिना ब्राह्मण्यं ब्रह्मनिष्ठताम्‌। “मौनं चामौनं च निर्विद्याथ ब्राह्मणः” इति ब्रह्मनिष्ठता ब्राह्मण्यपदार्थत्वेन श्रुता॥ ७२॥ ७३॥ ज्ञानव्यतिरेकेण कर्मकोटिभिरपि मुक्तेरभावमाह—यदेति। अविज्ञायोति च्छेदः॥ ७४॥ विद्यानधिकृतानामपि निष्कामानां विद्यावाप्तिद्वारा कर्म कारणमस्तीत्याह बहूनामिति॥७५॥ नन्वज्ञानी विद्या-

तद्देहनाशपर्यन्तमेव संसारदर्शनम्‌॥ ७६॥
पुराऽपि नास्ति संसारदर्शनं परमार्थतः।
कथं तद्दर्शनं देहविनाशादूर्ध्वमप्युत॥ ७७॥
तस्माद्ब्रह्मात्मविज्ञानं दृढंचरमविग्रहे।
जायते मुक्तिदं शुद्धं प्रसादादेव मेऽच्युत॥ ७८॥

सूत उवाच—

इत्येवमुक्त्वा परमेश्वरो हर-

स्त्रयीमयोऽभीष्टफलप्रदो नृणाम्‌।

त्रिलोचनोऽम्बासहितः कृपाकरो

न किंचिदप्याह पुर्नाद्विजोत्तमाः॥ ७९॥

निशम्य वेदार्थमशेषमच्युतः

प्रणम्य शम्भुंशशिशेखरं हरम्‌।

प्रगृह्य पादाम्बुजमास्तिको हरिः

स्वमूर्ध्निविन्यस्य करद्वयेन सः॥८०

______________________________________________________________________________

मुपदेष्ठुंन शक्नोति। ज्ञानी तु मुक्तः सन्दृश्यमात्रंन पश्यति किमुत शिष्यादीन्‌। तत्कथं विद्यासंप्रदायप्रवृत्तिः। ज्ञानिनेऽपि वा संसारदर्शने केनेदानीं मुक्तिरित्यत आह—यस्मिन्देह इति। विद्वद्देहारम्भकव्यातिरिक्तकर्मणामेव हि विद्यया निवृत्तिः। आरम्भकाणां तु विदुषो जीवन्मुक्तस्य देहाभासजगदवभासौ जनयतामास्थाविरहिणा भोगाभासेनैव निवृत्तिः। उक्तं हि व्यासेन—“अनारब्धकार्ये एव तु पूर्वे तदवधेः” इति। “भोगेन त्वितरे क्षपयित्वा संपद्यते”इति च। श्रूयते च—“तस्य तावदेव चिरं यावन्न विमोक्ष्ये, अथ संपत्स्ये’ इति। अतो जीवन्मुक्तोऽतिवर्णाश्रमी विद्यासंप्रदायप्रवर्तक इत्यर्थः॥७६॥ देहनाशानन्तरं संसारादर्शने कैमुतिकन्यायमाहपुराऽपीति। पुरा विभ्रममात्रेण दर्शनं पश्चात्तुतदपि नस्तीत्यर्थः॥७७॥७८॥

अतिप्रसादेन शिवस्य केशवः

समस्तसंसारविवर्जितोऽभवत्‌।

प्रनृत्यदेवोऽपि मुकुन्दसंनिधौ

पुनः सुरेन्द्रैरखिलैःसमावृतः॥ ८१॥

पुण्डरीकपुरमाप शंकर-

स्तत्र सर्वगणनायकैःपुनः।

पुष्पराशिभिरहर्निशंमदा

पूजितश्च भगवान्सभापतिः॥ ८२॥

एवं सूतवचः श्रुत्वा मुनयो वेदवित्तमाः।
प्रणम्य सूतं सर्वज्ञं सर्वदा करुणाकरम्‌॥ ८३॥
तस्य शुश्रूषणे नित्यं मतिं चक्रुः समाहिताः॥ ८४॥

इति श्रीस्कान्दपुराणे सूतसंहितायां मुक्तिखण्डे गुरूपसदनशुश्रूषामहिमकथनं नाम सप्तमोऽध्यायः॥७॥

___________

अष्टमोऽध्यायः

८. व्याघ्रपुरे देवानामुपदेशः।

मुनय ऊचुः—

एवं महेश्वराज्ज्ञानं लब्ध्वा विष्णुः सनातनः।
ततः किमकरोद्विद्वन्वदकारुण्यविग्रह॥ १॥

———————————————————————————————————————————न किंचिदिति। वक्तव्यस्य परिपूर्णत्वाद्वक्तव्यान्तराभावाच्च॥७९—८४॥

इति श्रीसूतसंहितातात्पर्यदीपिकायां मुक्तिखण्डे गुरूपसदनशुश्रूषामहिमकथन॑ नाम सप्तमोऽध्यायः॥७॥

____________

तथा लब्धुंशक्याया अपि विद्याया देशिकाबिशेषनिबन्धनं क्षेत्रविशेषनिबन्धनं चोत्कर्षातिशयंवर्णयितुं पुण्डरीकपुरवासिनं शिवं प्रति जिज्ञासू-

सूत उवाच—

शृणुध्वंतत्प्रवक्ष्यामि मुनयः संशितव्रताः।
महादेवं नमस्कृत्य विष्णुर्व्याघ्रपुरं गतः॥ २॥
लौकिकैर्वैदिकैःस्तोत्रैः स्तुत्वाऽनुज्ञामवाप्य च।
आरुह्य गरुडं विप्रा अमरैरखिलैर्हरिः॥ ३॥
स्तूयमानो माहाविष्णुर्हृष्टो वैकुण्ठमाप सः।
ततस्तं सर्वलोकेशं शङ्खचक्रगदाधरम्‌॥ ४॥
श्रीपतिं भूपतिं विप्राः सुरा ब्रह्मपुरोगमाः।
प्रणम्य दण्डवद्भूमौभक्त्यापरमया सह॥ ५॥
कृताञ्जलिपुटा भूत्वा पप्रच्छुः पङ्कजेक्षणम्‌।

देवा ऊचुः—

भगवन्नीश्वरात्सर्वं भवता श्रुतमच्युत॥ ६॥
तत्सर्वं श्रोतुमिच्छामो ब्रूहि नः संग्रहेण तत्‌।

विष्णुरुवाच—

भवद्भिर्यच्छ्रुतंदेवास्तद्धितं सर्वदेहिनाम्‌॥ ७॥
तथापि नांह वक्ष्यामि शिव एव प्रवक्ष्यति।
भवन्तः श्रद्धया सार्धं पुण्डरीकपुराभिधम्‌॥ ८॥
स्वराट्संज्ञस्य देवस्य हृत्सरोरुहमध्यगम्‌।
दिने दिनेऽथवा पक्षे पक्षे वा मासि मासि वा॥ ९॥

_______________________________________________________________________________नां देवानां विष्णुना प्रस्थापनं विवक्षुस्तदर्थं मुनीनां प्रश्नमवतारयति—मुनय ऊचुरिति। एवं महेश्वरादिति॥१—८॥ स्वराट्संज्ञस्पेति। शिवो हि पञ्चीकृतभूतकार्यसमष्टिरूपस्थुलशरीरमभिमन्यमानो विराट्। तद्व्यापकापञ्चीकृतभूतकार्यसमष्टिरूपं सप्तदशकंलिङ्गशरीरमभिमन्यमानः स्वराट्‌। उभयकारणम-

षण्मासान्तेषु वाऽब्दान्तेष्वाशरीरविमोक्षणात्‌।
दृश्यते प्राणिना येन श्रद्धया तस्य मुक्तिदम्‌॥ १०॥
अचिरात्सर्वपापघ्नंभोगदं भोगकामिनाम्‌।
उपेत्य सुमहत्तीर्थं तपः कृत्वा सुदुश्चरम्‌॥ ११॥
श्रीमत्पञ्चाक्षरं मन्त्रं सतारं सर्वसिद्धिदम्‌।
सर्वमन्त्रवरं नित्यं शतरुद्रीयमध्यगम्‌॥ १२॥
जपित्वा लक्षमेकं वा श्रीमदभ्रसभापतिम्‌।
दृष्ट्वापञ्चाक्षरेणैव सतारेणास्तिकाः सुराः॥ १३॥
पूजयध्वं महादेवं युष्माकं करुणाकरः।
अम्बिकापतिरानन्दमहाताण्डवपण्डितः॥ १४॥
सर्वाधारवटच्छायानिषण्णो भूतिभूषणः।
सोमार्धशेखरः सोमः सोमसूर्याग्निलोचनः॥ १५॥
कपर्दी कालकण्ठश्रीर्वेदयज्ञोपवीतवान्‌॥
गङ्गाधरः सुप्रसन्नः सुस्मितो नागभूषणः॥ १६॥
दीर्घबाहुर्विशालाक्षस्तुङ्गस्कन्धविराजितः।
हारकेयूरकटकनूपुरादिविभूषितः॥ १७॥

_______________________________________________________________________________व्याकृतमभिमन्यमानः सम्राडिति प्रथमखण्ड एकादशाध्यायेवर्णितम्‌। तत्र स्वराटसंज्ञस्यदेवस्प हृत्सरोरुहं हृदयपुण्डरीकं तन्मध्ये वर्तमानं पुरं पुण्डरीकपुरम्‌। “हृद्ययमिति तस्माद्धृदयमिति। हृदि ह्येष आत्मा अथ यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म” “ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति” इति श्रुतिस्मृतिपर्यलोचनया यस्मिन्नेव शरीरैकदेशे शिवोनित्यं विशेषतः सन्निहितः स एव प्रदेशो हृत्पुण्डरीकम्‌। व्यापकस्य च स्वराट्‌शरीरस्य मध्ये व्याघ्रपुरेशिवो नित्यंसंनिहित इति तदेव स्वराजो हृत्सरोरुहं तन्मध्यगतमित्यर्थः॥९—

१७॥

भस्मधाराधरः श्रीमान्नागकुण्डलमण्डितः।
पवित्रपाणिर्भेगवान्पुण्डरीकत्वगम्बरः॥ १८॥
क्वर्णात्किंकिणिसंयुक्तकलकाञ्चीविराजितः।
सर्वाभरणसंयुक्तः सर्वलक्षणसंयुतः॥ १९॥
गोक्षीरधवलाकारः कुन्देन्दुसदृशप्रभः।
संसारभयभीतानामेकेनैवाभयप्रदः॥ २०॥
अन्येन पाणिना सर्वभक्तप्राणिपरिग्रहः।
तदन्यकरसंलग्नसम्यग्डमरुकध्वनिः॥ २१॥
वामभागोर्ध्वपाणिस्थमहादीप्तहुताशनः।
कृपयैवाऽऽत्ममायोत्थघोरापस्मारसंस्थितः॥ २२॥
स्वस्वरूपमहानन्दप्रकाशाप्रच्युतोहरः।
प्रसन्नः सर्वविज्ञानमुपदेक्ष्यति स प्रभुः॥ २३॥

सूत उवाच—

पुण्डरीकपुरमापुरास्तिकाः

श्रद्धयैव सह यत्र नृत्यति।

अम्बिकापतिरशेषनायक-

श्चन्द्रमौलिरखिलामरा मुदा॥ २४॥
ततः सुराश्चेरुरतीव सत्तमा
विलक्षणा भूतिविभूषिताश्चिरम्‌।

_______________________________________________________________________________पुण्डरीकत्वगम्बरोव्याघ्राजिनवसनः॥१८—

२०॥ सर्वान्भक्तान्प्राणिनोऽभिमतवरप्रदानेन परिगृह्णात्यनगृह्णातीति सर्वभक्तप्राणिपरिग्रहः। पचाद्यच्‌॥२१॥कृपयैवेति। स्वमाययोत्थितो यो घोरोऽपस्मारस्तं पादेनाऽऽक्रम्य वर्तत इति यत्तदपि तस्मिन्कृपयैव। पादस्पर्शेन स कृतार्थो भवत्वित्येव हेतुनेत्यर्थः॥ २२॥ यत एवं घोरापस्मारः पदेनाऽऽक्रान्तः। अतएव महानन्दप्रकाशादप्र-

व्रतानि दानानि तपांसि चाऽऽदरा-

न्मुनीश्वराः सर्वजगत्प्रिये रताः॥ २५॥

पञ्चाक्षरं परममन्त्रमशेषवेद-

वेदान्तसारमतिशोभनमादरेण।

जप्त्वासुराः प्रणवसंयुतमम्बिकेशं

दृष्ट्वासमापतिमशेषगुरुंप्रणम्य॥ २६॥

भक्याऽऽपूज्य महेश्वराख्यममलंभक्तिप्रदं मुक्तिदं
शक्त्या युक्तमतिप्रसन्नवदनं ब्रह्मेन्द्रपूर्वास्सुराः।
नित्यानन्दनिरञ्जनामृतपरज्ञानानुभूत्या सदा
नृत्यन्तं परमेश्वरं पशुपतिं भक्त्यैकलभ्यं परम्‌॥ २७॥

लौकिकेन वचसा मुनीश्वरा

वैदिकेन वचसा च तुष्टुबुः।

देवदेवमखिलार्तिहारिणं

** ब्रह्मवज्रधरपूर्वकाः सुराः॥ २८॥**

**______________________________________________________________________________**च्युतः॥२३—२६॥ नित्यानन्देति। आत्मनः स्वभावभूतोऽपि ह्यानन्दो दशाभेदेन द्विविधः। अनित्यो नित्यश्च। मायया नित्यमावृतःसञ्शुभकर्मोपस्थापितविषयेन्द्रियसंप्रयोगजनितवृत्त्यभिव्यक्तलक्षणःस्फुरन्व्यञ्जकबृत्तिविनाशे पुनस्तिरोभवन्ननित्य इत्यर्थः। परशिवस्वभावभूतस्तु निरतिशयानन्दः कदाचिदप्यनावृतत्वान्नित्यः। इत्थं ज्ञानमपि स्वभावभूतं मायया तिरोहिते सद्वृत्त्यभिव्यक्तमानित्यम्‌। शिवस्वरूपभूतं तु ज्ञानं मायापरनाम्नाऽञ्जनेनानावृतत्वान्न कदाचिदपि म्रियत इत्यमृतम्। क्षणिकेभ्यो वृत्तिज्ञानेभ्योनिरतिशयोत्कर्षात्तत्परं ज्ञानं नित्यमखण्डैकरसं वस्त्वत्यन्तानुकूल्येन परप्रेमास्पदत्वादानन्द इति स्वस्वेतरव्यवहारकारणप्रकाशतया ज्ञानमिति च व्यपादिश्यते। तस्य च स्वप्रकाशस्य स्वभावभूतो यः प्रकाशः स एवानुभूतिरनुभवो नृत्यस्य कारणमित्यर्थः।

मुनीश्वरा महेश्वरः समस्तदेवनायकः

सुरेश्वरान्निरीक्षणान्निरस्तपापपञ्जरान्‌।

अनुग्रहेण शंकरः प्रगृह्य पार्वतीपतिः

समस्तवेदशास्त्रसारभूतमुत्तमोत्तमम्‌॥ २९॥

प्रदर्शयन्नटेश्वरः समस्तदेवसंनिधौ

स्वनर्तनं विमुक्तिदं महत्तरं महेश्वरः।

समस्तलोकरक्षकं महात्मनां हृदि स्थितं

निरीक्षणार्हमीश्वरोऽकरोत्सभापतिः शिवः॥ ३०॥

पशुपतिताण्डवदर्शनात्सुराः

परममुदा विवशा विचेष्टिताः।

पुनरमला महेश्वरं प्रणम्य

प्रियवदनं विनयेन संयुताः॥ ३१॥

पप्रच्छुः परमेश्वरं पशुपतिं पार्श्वस्थिताम्बापतिं
सर्वज्ञं सकलेश्वरं शाशिधरं गङ्गाधरं सुन्दरम्‌।
विज्ञानं निखिलाः सुराः श्रुतिगतं संसारदुःखापहं
निर्द्वद्वोभगवाञ्शिवोऽखिलगुरुः प्रोवाच कारुण्यतः॥

ईश्वर उवाच—

वक्ष्यामि परमं गृह्यं विज्ञानं सुरसत्तमाः।
युष्माकं श्रद्धया सार्धं शृणुध्वं तत्समाहिताः॥ ३३॥
आत्मा तावत्सुरा अस्ति स्वसंवेद्योनिरास्पदः।

______________________________________________________________________________नृत्यस्य च परानन्दाभिनयात्मकत्वं वार्णितं प्रथमखण्डे द्वितीयाध्याये॥२७—२९॥ निरीक्षणार्हमिति। अनुग्राह्याणां देवानामपरोक्षज्ञानजननलक्षणफलाद्धेतोर्नृत्यमकरोदित्यन्वयः॥३०—३३॥ देहेन्द्रियादिव्यतिरिक्तस्याऽऽत्मनः

आनन्दः पूर्णचैतन्यः सदा सोऽहं न संशयः॥ ३४॥
तस्य काचित्सुराः शाक्तिर्मायाख्याऽस्ति विमोहिनी।
विचारवेलायां साऽऽत्मा भवत्येव न चान्यथा॥ ३५॥

**______________________________________________________________________________**सद्भावे हि बहवो विप्रतिपन्नाः। अत एव नचिकेता यमं प्रति व्यतिरिक्तात्मसद्भावसंशयमेव प्रथममुदाजहार— “येयं प्रेते विचिकित्सा मनुष्येऽस्तीत्येके नायमस्तीति चैके। एतद्विद्यामनुशिष्टस्त्वयाऽहम्‌” इति। यमोऽपि तस्य दुरधिगमतामेव प्रथममाह—“देवैरत्रापि विचिकित्सितं पुरा नहि सुविज्ञेयमणुरेष धमः” इति। तदस्तित्वमेव च प्रथमतो ज्ञातव्यमित्याह तैत्तिरीयकश्रुतिः ‘अस्ति ब्रह्मेति चेद्वेद, सन्तमेनं ततो विदुः इति। काठकेऽपि—“अस्तीत्येवोपलब्धस्य तत्त्वभावः प्रसीदति” इति। अतः परमेश्वरो देवान्प्रत्यात्मनः सद्भावमेव तावदाह—आत्मा तावदिति। अस्ति तावत्स्वतस्तस्य स्वरूपप्रमाणप्रकारविशेषा अप्यग्रत एवोच्यन्त इति तावच्छब्दार्थः। स्वमसाधारणं रूपमाह—निरास्यद इति। मायातत्कार्यजातंसकलमात्मास्पदम्‌। आत्मा तु ‘स भगवः कस्मिन्प्रतिष्ठित इति स्वेमाहिम्नि’ इति श्रुतेःस्वमहिमप्रतिष्ठितत्वादनन्यास्पद इति। तदेव तस्यासाधारणं रूपमित्यर्थः। प्रमाणमाह—स्वसंवेद्य इति। “यतो वाचो निवर्तन्ते। अप्राप्य मनसा सह इति वाङ्मनसविषयातिवर्तिनि तस्मिन्भगवति स्वभावभूतः प्रकाश एव मुख्यं प्रमाणमित्यर्थः। ज्ञानातिरिक्तस्य जडत्वेन ज्ञानस्यैव स्वयंप्रकाशत्वत्तस्य च क्षणिकत्वात्तद्रूपस्याऽऽत्मनोऽपि तथात्वमिति भ्रमंव्युदस्यति—पूर्णैचैतन्य इति। वृत्त्यवच्छेदेन हिचैतन्यं क्षणिकमिव भवति। तदनवच्छिन्नं तु परिपूर्णं तन्नित्यमित्यर्थः। इत्थं दूरधिगमस्य प्रयत्नतोऽधिगमे फलमाह—आनन्द इति। इत्थमुक्तरूपस्यज्ञातव्यस्य तत्त्वस्य ज्ञातुरात्मनः पृथक्त्वं वारयति—सोऽहमिति। प्राक्पृथग्भूतस्यैव जीवस्य शिवतादात्म्यमुपायैर्लभ्यमिति केचन भ्रान्ताः। यदाहुः—‘आ मुक्तेर्भेद एव स्याज्जीवस्य च परस्य च। मुक्तस्य तु न भेदोऽस्ति भेदहेतोरभावतः’ इति। तान्वारयति- सदेति। अत्रास्तीति सत्यत्वम्‌। स्वसंवेद्य इति ज्ञानत्वम्‌। पूर्ण इत्यनन्तत्वम्‌। आनन्द इति सुखत्वम्‌। सोऽहमिति प्रत्यक्त्वमिति रूपपञ्चकमुक्तम्। तेन सत्यज्ञानानन्तानन्दात्मत्वलक्षणेन रूपप-

तदभेदेन सोऽप्यात्मा प्रलये जगतः स्थितः।
तस्मिन्प्रपञ्चसंस्कारः स्थितः सर्वःसुरोत्तमाः॥ ३६॥
स्वभावादेव संक्षुब्धा वासना कर्मणा भवेत्‌।
ततस्तत्क्षोभयुक्तात्माऽविक्रियोऽपि स्वभावतः॥ ३७॥
क्षोभकः कालतत्त्वस्य पुनः कालेन संयुतः।
ईक्षणं पूर्ववत्कृत्वा पुनर्ब्रह्मादिकं जगत्‌॥ ३८॥

______________________________________________________________________________ञ्चेकेनानृतजडान्तवत्त्वदुःखानात्मत्वभ्रमव्युदासेनाखण्डैकरसं स्वरूपमुपदिष्टमिति द्रष्टव्यम्‌॥३४॥ इत्थमेकरसे तस्मिन्वस्तुनि कथं देहाभासजगदवभासाविति तत्राऽऽह—तस्य काचिदिति। तदाश्रितमायाविलासमात्रमेतत्तथात्वं च विचारजनितज्ञाननिवर्त्यत्वादित्यर्थः॥३५॥ प्राकृतप्रतिसंचरे तर्हिमायाया अपि नष्टत्वाकुतः पुनः प्रादुर्भाव इत्यत आह—तदभेदेनेति। ग्रस्तसमस्तप्रपञ्चा माया स्वप्रतिष्ठत्वादत्यन्तनिर्विकल्पकेन चैतन्येन विविच्यमानाऽपि तादात्म्भ्याध्यासात्त्प्रकाशेनैव प्रकाशमाना वर्तत एव। “अव्यक्तं पुरुषे ब्रह्मन्निष्कले संप्रलीयते” इत्यपि विवेकावभासविरहमात्राभिप्रायमेवेति प्रपञ्चितं प्रथमखण्डे पञ्चमाध्याये। तदवस्थाया मायाया यथापूर्वं जगदुत्पत्तौबीजमाह—तस्मिन्निति। परपक्वस्य कर्मणो भोगप्रदानेन क्षीणत्वादितरस्य चापरिपाकद्धोग्यः प्रपञ्चः सकलोऽपि मायाशबलिते तस्मिन्नात्मानिलीनः संस्काररूपेण वर्तमानः पुनः सर्गस्यबीजम्‌॥३६॥ संस्कारापरपर्यायवासनावशात्प्राप्तपरिपाकेन कर्मणा क्षुब्धाकार्याभिमुख्यंप्रापिता भवतीत्यर्थः। परिपक्वस्य हि कर्मणःस्वभाव एव स यद्वासनाक्षोभकत्वम्‌। कूटस्थनित्यतया स्वतोनिर्विकारेणापि विकृतवासनासंयोगद्विकारमिव प्राप्तेनाऽऽत्मना क्षोभं कार्याभिमुख्यंनीयत इत्याह—ततस्तत्क्षोभेति॥३७॥ “कालो मायात्मसंबन्धःइत्युक्तलक्षणः कालः। इर्क्षणमिति। कालकर्मयुक्तश्चाऽऽत्मा स ईक्षत लोकान्नु सृजा इति” इत्यादश्रुत्युक्तपरिपाठ्याप्राक्तनसर्गपरंपरासदृशमेव सर्गंकरोति। “सुर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत्। दिवं च पृथिवीं चान्तरिक्षमथो सुवः’ इति श्रुतेरित्यर्थः॥३८॥ सृष्टाऽनुप्राप्ये-

सृष्ट्वाऽनुप्राप्य तन्मोहात्सुराः संसारमण्डले।
ज्ञेयज्ञात्रादिकेऽशुद्धेःस्वप्नतुल्ये महत्तरे॥ ३९॥
अनाद्यन्तेऽवशोभूत्वासुराः कर्मनुरूपतः।
विचित्रां योनिमासाद्य सुखदुःखादिपीडितः॥ ४०॥
पूर्वजन्मार्जितात्पुण्यान्नरो भूत्वा महीतले।
मत्प्रसादेन वेदोक्तं कर्मकृत्वाविशुद्धधीः॥ ४१॥
विचार्यसर्वं दुःखाढ्यामनित्यं सारवर्जितम्‌।
विरक्तो मोक्षमाकाङ्क्षन्मोक्षोपायं महत्तरम्‌॥ ४२॥
वेदेन दर्शितं सम्यक्संपाद्यास्मतस्प्रसादतः।
आत्ममात्रां परां मुक्तिं प्राप्नोत्यत्मा स्वयं सुराः॥४२॥
सर्वेषामात्मविज्ञानादेव मुक्तिर्नचान्यतः।
ज्ञानादन्यत्सुराः सर्वं विज्ञानस्यैव साधनम्‌॥ ४४॥
तत्र शान्त्यादिकं सर्वमिहैव ज्ञानसाधनम्‌।
मम स्थाने मृतिः शुद्धे वाराणस्यादिके सुराः॥ ४५॥
अयोग्यानां च योग्यानां नराणां मरणात्परम्।
विशुदब्रह्मविद्यायाः साधनं सुरसत्तमाः॥ ४६॥

______________________________________________________________________________त्यादि। मायातीतः। परमात्मा प्राणिकर्मप्रेरणाजनितलीलासर्गप्रवृत्तो विशुद्धसत्त्वप्रधानमायोपाधिकः स्रष्टा भूत्वा राजसतामसमायामयं भोक्तृभोग्यलक्षणं प्रपञ्चं सृष्ट्वातत्तादात्म्याभिमानं तदनुप्रवेशं च विधाय सुखदुःखमयं संसारमनुभवति। “इदं सर्वमसृजत यदिदं किञ्च तत्सृष्ट्वातदेवानुप्राविशत्‌”इत्यादिश्रुतेरित्यर्थः॥३९॥४०॥ इत्थं संसरतो जीवस्यापवर्गप्रक्रियामाह—पूर्वजन्मेत्यादि॥४१—४३॥ ज्ञानकर्मणोरुभयोरुक्तत्वात्समसमुच्चयभ्रमनिवर्तनाय क्रमसमुच्चय इत्याह—सर्वेषामिति॥४४॥ विदुषामुपायमभिधाय

श्रीमत्पञ्चाक्षरो मन्तो मन्त्राणामुत्तमोत्तमः।
मार्गाणां वेदमार्गश्चप्राप्यानां मुक्तिरुत्तमा॥ ४७॥
देवतानामहं मुख्यः स्थानानां सुरसत्तमाः।
मम स्थानानि मुख्यानि तेषां वाराणसी तथा॥४८॥
श्रीकालहस्तिशैलाख्यं श्रीमद्वृद्धाचलाभिधम्‌।
पुण्डयीकपुरं तद्वच्छ्रीमद्वल्मीकमुत्तमम्‌॥ ४९॥
वेदारण्यसमाख्यं च स्थानं मुख्यं सरोत्तमाः।
एषां मुख्यतमा ख्याता श्रीमद्वाराणसी पुरी॥ ५०॥

पुण्डरीकपुरमप्यतिप्रियं

वित्त सर्वसुरसत्तमा मम।

भुक्तिमुक्तिकरमाशु देहिनां

भक्तिलभ्यमतिशोभनं सदा॥ ५१॥

अस्माभिः सुरसत्तमा अभिहितं विज्ञानमत्यद्भूतं
युष्माकं मुनिपुङ्गवैरपि तथा सर्वार्थपारंगतैः।
मद्भक्तैरतिशोभनं पुरवरं संसेवनीयं नरै-
र्मुक्यर्थं परमास्तिकौरीति परा साध्वी श्रुतिर्वक्ति हि॥५२॥

सूत उवाच—

एवं महेश्वरः साक्षाच्छ्रीमद्दभ्रसभापतिः।
देवदेवो जगन्नाथः पशुपाराविमोचकः॥ ५३॥
आम्नायान्तैकसंवेद्यः साक्षी सर्वस्य सर्वदा।
अम्बिकासहितः श्रीमान्प्रोवाच ज्ञानमुत्तमम्‌॥ ५४॥

______________________________________________________________________________विद्वदविद्वत्साधारणमुपायमाह—मम स्थान इत्यादि॥४५—५१॥ साध्वी

देवाश्च ब्रह्मविज्ञानं वेदान्तोत्थं विमुक्तिदम्।
श्रुत्वासर्वेश्वरं विप्राः प्रणिपत्य महीतले॥ ५५॥
लोकिकैर्वैदिकैःस्तोत्रैः स्तुत्वाभक्त्यासभापतिम्‌।
पूजां प्रचक्रिरे देवाः श्रीमत्पञ्चाक्षरेण वै॥ ५६॥

इति श्रीस्कान्दपुराणे सूतसंहितायां मुक्तिखण्डे व्याघ्रपुरेदेवोपदेशकथनं नामाष्टमोऽध्यायः॥८॥

नवमोऽध्यायः॥

९. ईश्वरनृत्तदर्शनम्‌।

मुनय उचुः—

भवता सर्वमाख्यातं संक्षेपाद्विस्तरादपि।
भवत्प्रसादादस्माभिर्विज्ञातं च विचक्षण॥ १॥
तथाऽपि देवदेवस्य शिवस्य परमात्मनः।
विश्वाधिकस्य रुद्रस्य ब्रह्मणः सर्वसाक्षिणः॥ २॥
नर्तनं द्रष्टुमच्छामः शङ्करस्याम्बिकापतेः।
अतः कारुण्यतोऽस्माकं तदुपायं वदाद्भूतम्‌॥ ३॥

———————————————————————————————————————————श्रुतिरिति। “स भगवः कस्मिन्प्रतिष्ठित इति वरणायाम्‌”इत्यादिकेत्यर्थः॥५२—५६॥

इतिश्रीसूतसंहितातात्पर्यदीपिकायां मुक्तिखण्डे व्याघ्रपुरे देवोपदेशकथनं नामाष्टमोऽध्यायः॥८॥

__________________

उक्तमुक्युपायजातमध्ये भगवन्नृत्यदर्नस्यैव सुकरत्वंसुलभत्वंमहाफलत्वंच निश्चिन्वतां मुनीनां तदुपायगोचरं प्रश्नमवतारयति—भवता सर्वामिति॥१—२॥ पृष्टमुपायंब्रुवाणः सूतस्तत्र प्रत्यवदार्ढ्याय पुरावृत्तमुदाहरति—

सूत उवाच—

श्रूणुध्व तत्प्रवक्ष्यामि श्रद्धया वेदवित्तमाः।
पुरा नन्दीश्वरं धीमानपृच्छच्छौनको मुनिः॥ ४॥
सोऽपि कारुण्यतः श्रीमान्नन्दी वेदविदां वरः।
शौनकायाब्रवीन्नत्वा महादेवं घृणानिधिम्‌॥ ५॥

नन्दिकेश्वर उवाच—

कैलासे संध्ययोः शंभुः करोत्यानन्दनर्तनम्।
ताच्छिवा केवलंपश्यत्यन्यस्तत्रन पश्यति॥ ६॥
पुण्डरीकपुरे रुद्रः शौनकाऽऽनन्दनर्तनम्‌।
श्रीमद्दभ्रसभामध्ये करोति भगवान्सदा॥ ७॥
तत्रापि शौनकाम्बाऽपि स्कन्दो विघ्नेश्वरोपि च।
क्षेत्रपालोमया सार्धं पश्यत्यन्यो न पश्यति॥ ८॥
येषां प्रसादो देवस्य शौनकास्ति महत्तरः।
ते प्रपश्यन्ति तत्रैव महानर्तनमैश्वरम्‌॥ ९॥
तस्मात्प्रसादसिद्ध्यर्थं शौनक श्रद्धया सह।
पुण्डरीकपुरं गत्वा रवौ चापस्थिते सति॥ १०॥
आर्द्रायां प्रातरवे त्वंशुचिर्भूत्वा समाहितः।
शिवगङ्गभिधे तीर्थेस्नानं कूत्वा महत्तरे॥ ११॥
यथाशक्ति धनं धान्यं दत्त्वाऽन्यद्वाऽनसूयवे।

———————————————————————————————————————————पुरेत्यादि॥४—६॥ कैलासे नित्यं सतोऽपि नर्तनस्य दर्शनं दुर्लभमिति यत्र स्थाने सुलभंतदाह–पुण्डरीकपुर इति॥७॥ अम्बाऽपि गौर्यपि॥ ८॥ पुण्डरीकपुरे दर्शनलाभोपायमाह—येषामिति॥९—२१॥ दण्डनर्तनमिति। दण्ड-

उपोष्य दिनमेकं वा श्रीमूलस्थाननायकम्‌॥ १२॥
भक्त्या प्रदक्षिणीकृत्य प्रणम्य भुवि दण्डवत्‌।
श्रीमत्पञ्चाक्षरं मन्त्रं जपित्वाऽयुतमादरात्‌॥ १३॥
दिने दिने मुनेऽब्दान्ते स्नानं कृत्वा यथा पुरा।
प्रणम्य देवमीशानं श्रीमूलस्थाननायकम्‌॥ १४॥
पुनर्नित्यं महाभक्त्या श्रीमद्दभ्रसभापतिम्‌।
प्रदक्षिणत्रयं कृत्वा प्रणम्य भुवि दण्डवत्‌॥ १५॥
श्रीमत्पञ्चाक्षरं मन्त्रं जपिता पूर्ववत्पुनः।
वत्सरान्ते यथाराक्ति धनं दत्त्वासभापतेः॥ १६॥
पूजां पञ्चाक्षरेणैव कुर श्रद्धापुरस्सरम्‌।
पुनः प्रसादस्ते तस्य भविष्यत्येव शौनक॥ १७॥
बहवो देवदेवस्य नृत्यमस्य प्रसादतः।
दृष्ट्वास्ववाञ्छितं सर्वंप्राप्तवन्तो मुनीश्वराः॥ १८॥

सूत उवाच—

एवं नन्दीशवचनं श्रुत्वाऽसौशौनको मुनिः।
सर्वं कृत्वा क्रमेणैव श्रद्धया मुनिसत्तमाः॥ १९॥
प्रसादेन महेशस्य नर्तनं सर्वसिद्धिदम्‌।
दृष्ट्वादभ्रसभामध्ये भवान्या सह शौनकः॥ २०॥
अतीव प्रीतिमापन्नः स्तोत्रैः स्तुता यथाबलम्‌।
भक्त्या परवशो भूत्वा किंचित्कालं महामुनि॥ २१॥
पुनश्च दृष्ट्वादेवेशं नृत्यन्तं देवनायकम्‌।
प्रमोदेन स्वयं विप्रा अकरोद्दण्डनर्तनम्‌॥ २२॥

देवदेवोऽपि संतुष्टः शौनकाय द्विजोत्तमाः।
प्राह गम्भीरया वाचा शौनक त्वं महामुने॥ २३॥
वेदानामादिभूतस्य ऋग्वेदस्य ममाऽऽज्ञया।
भव निर्वाहकस्तत्र शाकल्यस्य विशेषतः॥ २४॥
एवमाज्ञापितस्तेन शिवेन मुनिसत्तमः।
शौनकोभगवान्विप्रास्तथा निर्वाहकोऽभवत्‌॥ २५॥
तस्य शिष्यस्तु विप्रेन्द्रास्तद्वाक्यादाश्वलायनः।
पूर्वोक्तेनैव मार्गेण भगवन्तं त्रियम्बकम्‌॥ २६॥
श्रीमद्दभ्रसभामध्ये नृत्यन्तं देवनायकम्‌।
दृष्ट्वाप्रणम्य मेधावी प्रसादेन शिवस्य तु॥ २७॥
अभवत्सूत्रकृद्विप्राः शाकल्यस्य महामुनिः।
एवं पूर्वाक्तमार्गेण श्रद्धया बहवो जनाः॥ २८॥
दृष्ट्वादभ्रसभामध्ये नर्तनं शंकरस्य तु।
कृतार्था वेदविच्छ्रेष्ठा अभवन्नचिरेण तु॥ २९॥

तस्माद्भन्तोऽपि पुरोक्तवर्त्मना

शिवस्य नृत्तंशिवया निरीक्षितम्‌।

दृष्ट्वामहेशस्य हरस्य शूलिनः।

प्रसादमात्रेण विमुक्तिभागिनः॥ ३०॥

______________________________________________________________________________प्रणामैःसहितं हर्षोत्कर्षनिमित्तवशप्रवृत्तं नृत्तमित्यर्थः॥ २२॥ २३॥ भवनिर्वाहक इति। अत एव महाव्रते होतृप्रयोगस्य निर्वाहः शौनकेन कृतः। शाकल्यस्येति। शाकल्यकृतपदविभागानुसारेण हि शौनक ऋग्विधानबृहद्देवतामहाव्रतप्रयोगादिग्रन्थानकार्षीदित्यर्थः॥ २४॥ २५॥ न केवलं स्वयमकार्षीत्‌। किंतु स्वशिष्यमाश्वलायनमपि तथाकरणे नियुक्तवान्‌। स आश्वालायनोऽपि तथा कृतवानिदत्याह—तद्वाक्यादाश्वलायन इत्यादि॥२६॥

भवत परमत्त्वप्राप्त्युपायो मयोक्तः

सकलगुरुवराणामुत्तमो व्याससंज्ञः।

अवददतिरहस्यं मे पुरा श्रद्धयैव

प्रवरगणानिधानः पद्मनाभांशभूतः॥३१॥

एवमुक्त्वा मुनीन्देभ्यः सूतः पौराणिकोत्तमः।
कृष्णद्वेपायनं व्यासं सस्मार श्रद्धया सह॥ ३२॥

एतस्मिन्नन्तरे श्रीमान्महाकारुणिकोत्तमः।
कृष्णाजिनी सोत्तरीय आषाढेन विराजितः॥ ३३॥

भस्मोद्धूलितसर्वाङ्गः शुभ्रतिर्यक्त्रिपुण्ड्रधृत्‌।
रुद्राक्षमालाभरणो जपत्पञ्चाक्षरं मुदा॥ ३४॥

शिष्यैस्तादृग्विधैर्युक्तो महात्मा स्वयमागतः।
तं दृष्ट्वापरमप्रीत्याप्रमण्य भुवि दण्डवत्‌॥३५॥

सूतः स्वशिष्यैर्मुनिभिः सह सत्यवतीसुतम्‌।
तत्पादपङ्कजद्वंद्वंविधाय शिरसि क्रमात्‌॥ ३६॥

चक्षुषोर्हृदये चैव संतोषाद्गद्गदस्वरः।
पादप्रक्षालनं कृत्वा पवित्रं तज्जलंपुनः॥ ३७॥

पीत्वा यथार्हं संपूज्य व्यासं शिष्यगणावृतम्‌।
तद्वाक्यं वेदवत्सत्यं स्वशिष्यान्वेदवित्तमान्‌॥ ३८॥

श्रावयित्वा महाधीमान्सह तेनाखिलेरपि।
श्रीमद्व्याघ्रपुरं दिव्यमवाप पुरुषार्थदम्‌॥ ३९॥

———————————————————————————————————————————३२॥ आषाढेनेति। “आषाढोब्रतिनां दण्डः”इति हलायुधः॥३३–३७॥ तद्वाक्यं व्यासवाक्यम्‌॥३८॥ व्याघ्रपुरप्रभावेऽतिशयनक्षत्रम्‌। रौद्रेनक्षत्र

पुनः सर्वे मुनिश्रेष्ठा वेदव्यासपुरोगमाः।
चापि सूर्ये स्थिते रौद्रे नक्षत्रे श्रद्धया सह॥ ४०॥
स्नानं कृत्वामहातीर्थे शिवगङ्गाभिधे वरे।
यथाशक्ति धनं दत्त्वा ब्राह्मणानां मनीषिणाम्‌॥४१॥
उपोष्यैकं दिनंदृष्ट्वाश्रीमूलस्थाननायकम्‌।
प्रदक्षिणत्रयं कृत्वा प्रणम्य धरणीतले॥ ४२॥
षडक्षरेण मन्त्रेण श्रीमूलस्थाननायकम्‌।
समाराध्यायुतं नित्यं जपित्वा मन्त्रमुत्तमम्‌॥ ४३॥
वत्सरान्ते च तीर्थेऽस्मिन्‌ स्नानं कृत्वा महत्तरे।
प्रदत्त्वा पूज्य देवेशं श्रीमूलस्थाननायकम्‌॥ ४४॥
ततः सभापतिं नित्यं प्रणम्य भुवि दण्डवत्‌।
मन्त्रं षडक्षरं नित्यं जपित्वाऽयुतमादरात्‌॥ ४५॥
वत्सरान्ते धनंदत्त्वा ब्राह्मणानां यथाबलम्‌।
श्रीमत्पञ्चाक्षरेणैव सतारेण महेश्वरम्‌।
पूजयामासुरत्यन्तं श्रद्धयैव सभापतिम्‌॥ ४६॥

ततः प्रसन्नो भगवान्महेश्वरो

मुनीश्वराणामपि दृष्टिगोचरः।

प्रनृत्यमानोऽभवदम्बिकापतिः

समस्तवेदान्तसभापतिः शिवः॥ ४७॥

व्यासादयो वेदविदां वरा हरं

दिवाकराणां शतकोटिकोटिभिः।

समानतेजस्कमतीव निर्मलं

विशालवक्षस्थलमार्तिहारिणम्॥ ४८॥

दृष्ट्वाप्रमोदेन महत्तरेण ते

प्रणम्य सर्वे भुवि दण्डवत्पुनः।

प्रजल्प्यभक्त्या विवशाविचेष्टिता

निवृत्तबन्धा अभवन्प्रसादतः॥ ४९॥

पुष्पवृष्टिरभवन्महत्तरा

स्वस्तिमङ्गलपुरःसराऽपि च।

काहलादिरवपूरितं जग-

त्तोषिता अपि सुरासुरा जनाः॥ ५०॥

आगता अपि सुरासुरा जना

अप्सरोभिरखिलैरनुत्तमैः।

शंकरश्च भगवान्सभापतिः

सर्वलोकहितकाम्ययाऽम्बया॥ ५१॥

सह परिकरबन्धं वेदमन्त्रेण कृत्वा

निखिलभुवननाथो नीलकण्ठस्त्रिनेत्रः।

सकलजनसमूहैः सेव्यमानः स्वभक्तै-

स्तनययुगलयुक्तो नन्दिनाऽऽनन्दितेन॥ ५२॥

महोत्सवविनोदेन भगवान्परमेश्वरः।

पुण्डरीकपुरं दिव्यं प्रादक्षिण्यक्रमेण सः॥ ५३॥

चरित्वा शिवगङ्गायां शंभुस्ताण्डवमण्डितः।

स्नानं कृत्वा ददौ तीर्थं सर्वेषां प्राणिनां हरः॥ ५४॥

सुरासुरादयो यस्मिञ्शिवगङ्गाभिधे वरे।

श्रद्धया संनिधौ तस्य स्नानंकृत्वा यथाबलं॥ ५५॥

धनं धान्यं च वस्त्रं तिलंगां भूमिमुत्तमाम्‌।
प्रदत्त्वाशिवभक्तेभ्यःशंकरं शशिभूषणम्‌॥ ५६॥
नीलकण्ठं विरूपाक्षं तुष्टुवुश्र सुरादयः।
नमस्ते रुद्र मन्यव उतोत इषवे नमः॥ ५७॥
नमस्ते अस्तु धन्वने कराभ्यां ते नमो नमः।
या ते रुद्र शिवा तनूः शान्ता तस्यैनमो नमः॥
नमोऽस्तु नीलग्रीवाय सहस्राक्षाय ते नमः।
सहस्रपाणये तुभ्यं नमो मीढुष्टमाय ते॥ ५९॥
कपर्दिने नमस्तुभ्यं कालरूपाय ते नमः।
नमस्ते चाऽऽत्तशस्त्राय नमस्ते शूलपाणये॥ ६०॥
हिरण्यपाणये तुभ्यं हिरण्यपतये नमः।
नमस्ते वृक्षरूपाय हरिकेशाय ते नमः॥ ६१॥
पशूनां पतये तुभ्यंपथीनां पतये नमः।
पुष्टानां पतये तुभ्यं क्षेत्राणां पतये नमः॥ ६२॥
आतताविस्वरूपाय वनानां पतये नमः।
रोहिताय स्थपतये वृक्षाणां पतये नमः॥ ६३॥

———————————————————————————————————————————आर्द्रायाम्॥३९—५६॥ नमस्ते रुद्र मन्यव इति। रक्षायां साक्षादुपकरणत्वेन रुदसंबन्धिभ्यो मन्युधनुर्बाणहस्तेभ्योनमस्कारः। मन्युरिह स्वपरिपन्थिविषयः॥ ५७॥ ५८॥ मीढुष्टमाय श्रेष्ठतमाय॥ ५९॥ ६०॥ हरिकेशाय हरितवर्ण केशाय॥६१॥ पुष्टानामिति। भावे निष्ठा। पुष्टानां वाक्पुष्टिज्ञानपुष्ट्यादीनां दशपुष्टीनां पतये॥६२॥ आतताविस्वरूपायाऽऽततेना धिज्येन धनुषा जगदवतीत्याततावी।अवतेर्णिनिः। तस्मै। तिष्ठति पातीति स्थपतिस्तस्मै॥६३॥ कक्षाणां कक्षा गहना देशगहना भाषागहना धर्माधर्मा-

नमस्ते मन्त्रिणे साक्षात्कक्षाणां पतये नमः।
ओषधीनां च पतये नमः साक्षात्परात्मने॥ ६४॥
उच्चैर्घोषाय देवाय पत्तीनां पतये नमः।
सत्त्वानां पतये तुभ्यं धनानां पतये नमः॥ ६५॥
सहमानाय शान्ताय शङ्कराय नमो नमः।
आधीनां पतये तुभ्यं व्याधीनां पतये नमः॥ ६६॥
ककुभाय नमस्तुभ्यं नमस्तेऽस्तु निषङ्गिणे।
स्तेनानां पतये तुभ्यं कृत्रिमाय नमो नमः॥ ६७॥
तस्कराणां नमस्तुभ्यं पतये पापहारिणे।
वञ्चते परिवञ्चते स्तायूनां पतये नमः॥ ६८॥
नमो निचेरवे तुभ्यमरण्यपतये नमः।
उष्णीषिणे नमस्तुभ्यं नमस्तेपरमात्मने॥ ६९॥
विस्तृताय नमस्तुभ्यमासीनाय नमो नमः।
शायानाय नमस्तुभ्यं सुषुप्ताय नमो नमः॥ ७०॥
प्रबुद्धाय नमस्तुभ्यं स्थिराय परमात्मने।

———————————————————————————————————————————दिगहनास्तेषां पतये। यद्वागिरिनदीगह्वरगुल्मादयश्च कक्षास्तेषां स्वामिने तत्र स्थितानां वा रक्षकाय॥६४॥ उच्चैर्घोषाय। उच्छ्रितशब्दायोच्छ्रितस्तोत्राय। पत्तीनाम्‌ “एकेभैकरथा त्र्यश्वापत्तिः” इत्यमरः। तासां पतये। सत्त्वानां सह सीदतां महाप्रमथगणानां पतये॥ ६५॥ ६६॥ ककुभाय। ककुभो दिशो वासत्वेनास्य सन्तीत्यर्शआदित्वादच्‌ , तस्मै॥६७॥ वञ्चते गच्छते। वचिर्गत्यर्थः। परिवञ्चते परितः सर्वत्र गच्छते। स्तायूनाम्‌। छद्मचारिणो ये वस्रादीनपहरन्ति कपटसाधुवेषास्ते तायवः “उतस्मैनं वस्त्रमथिं न तायुम्‌” इत्यादौदर्शनात्‌। तत्र वा सकारलोपः। अत्र वा

सभारूपाय ते नित्यंसभायाः पतये नमः॥७१॥
नमः शिवाय साम्बाय ब्रह्मणे सर्वसाक्षिणे॥७२॥

सूत उवाच—

एवं सुरासुरैरन्यैःशङ्करोऽभिष्टुतः पुनः।
कृत्वा प्रसादं सर्वेषां तत्रैवान्तर्हितोऽभवत्‌॥७३॥
अस्य तीर्थस्य माहात्म्यं स्थानस्यास्य सभापतेः।
यो वेत्ति श्रद्धया मुक्तिः सिद्धा तस्य महात्मनः॥७४॥
यः पठेच्छृणुयाद्वाऽपि मुक्तिखण्डमिमं सदा।
स साक्षान्मुक्तिमाप्नोति प्रसादेन समभापतेः॥७५॥
नमो व्यासाय गुरवे मम विज्ञानदायिने।
नमः शिवाय सोमाय साक्षिणे प्रत्यगात्मने॥७६॥

इति श्रीस्कान्दपुराणे सूतसंहितायां मुक्तिखण्डे ईश्वरनृत्यदर्शनं नाम नवमोऽध्यायः॥९॥

मुक्तिखण्डः समाप्तः।

———

———————————————————————————————————————————सकारोपजनस्तेषां पतये॥६८॥ निचेरत्रे निभृते नितरां चरणशीलाय ॥६९—७६॥

इतिश्रीमत्काशीविलासश्रीक्रियाशक्तिपरमभक्तश्रीमत्र्यम्बकपादाब्जसेवापरायणेनोपनिषन्मार्गप्रवर्तकेन श्रीमाधवाचार्येण विरचितायां सूतसंहितातात्पर्यदीपिकायां मुक्तिखण्ड ईश्वरनृत्यदर्शनंनाम नवमोऽध्यायः। ९॥

इति मुक्तिखण्डः समाप्तः।

—————

॥ श्रीः॥

॥अथ चतुर्थंयज्ञवैभवखण्डम्‌॥

प्रथमोऽध्यायः॥

१. सर्ववेदार्थप्रश्ननिरूपणम्।

—————

ऐशमाद्यन्तनिर्मुक्तमतिशोभनमादरात्‌।
नमामि विग्रहं साम्बं संसारविषभेषजम्‌॥ १॥
सत्रावसाने संनद्धाः सर्ववेदार्थवेदने।
सर्वे लोकहिते युक्ताः सारासारविवेकिनः॥ २॥
स्वाध्यायाध्ययने युक्ताः स्वस्थचित्ताः सुनिश्चलाः॥
सर्वोपद्रवनिर्मुक्ताः सर्वशत्रुविवर्जिताः॥ ३॥
अभ्यागतानामार्तानामतिथीनां प्रियंवदाः।
मैत्र्याकरुणया युक्ताः कुमतावप्युपेक्षकाः॥ ४॥

———————————————————————————————————————————यद्यपि गतखण्डे ज्ञानस्वरूपं मुक्तिसाधनता चोक्ता तथाऽपि—‘‘यज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनम्‌। नायं लोकोऽस्त्ययज्ञस्यकुतोऽन्यः कुरुसत्तम” इत्यादिभगवद्वचनाद्यज्ञशब्दस्य क्रियाभेदे केवलप्रसिद्धिदर्शनात्तद्विरोधेन ज्ञाने माभूदनादर इति ज्ञानस्य यज्ञरूपता कर्मयज्ञेभ्यः श्रेयोरूपता च वक्तव्या। उक्ता च संग्रहेण भगवता— ‘श्रेयान्द्रव्यमयाद्यज्ञाज्ज्ञानयज्ञः परंतप’ इति। साऽपि निरूपयितव्येति यज्ञवैभवखण्डं चतुर्थमारभमाणो भगवान्बादरायणः प्रथमतः परापरशिवप्रणिधानमुपनिबध्नाति—ऐशमिति। अत्र प्रथमार्धेनित्यनिरतिशयानन्दरूपत्वेन निप्कलस्य प्रणिधानं। द्वितीये च परमपुरुषार्थप्रदत्वेन सकलस्य प्रणिधानं नमामीति त्रिकरणव्यापारस्य तत्र समर्पणं चोपनिबध्यते। यदैशं निष्कलंशरीरं स्वरूपं तदेव लोकानुग्रहाय स्वीकृतलीलावतारं सत्साम्बं नमामीति संबन्धः॥१॥ सर्ववेदा-

परपुष्टौमहाप्रीताः प्रज्ञामानविवर्जिताः।
गवां शुश्रूषणे युक्ता गुरुशुश्रूषणे रताः॥ ५॥
वृद्धसेवाभिसंपन्ना वेदवित्पूजने रताः।
ऋजवो मृदवः स्वस्थाः सर्वद्वन्द्वविवर्जिताः॥ ६॥
रुद्राक्षमालाभरणाः सितभस्मावगुण्ठिताः।
त्रिपुण्ड्रावलिभिर्दीप्ता जटावल्कलसंयुताः॥ ७॥
लिङ्गार्चनपरा नित्यं शिवस्यामिततेजसः।
शिवाभिमानसंपन्नाः शिवभक्तिपरायणाः॥ ८॥
शिवशब्दजपध्वस्तपापपञ्जरसुन्दराः।
संसारविषवृक्षस्य मूलच्छेदनतत्पराः॥ ९॥
श्रौतस्मार्तसमाचाराः सर्वे गोत्रर्षयो वराः।
व्यासप्रसादसंपन्नं विश्वज्ञानमहोदधिम्‌॥ १०॥
विश्वात्मवेदिनं साक्षाद्विध्वस्तभवकाननम्‌।
स्मृत्वाभक्त्यामहात्मानं तुष्टुवुः सृतमुत्तमम्‌॥ ११॥
एतस्मिन्नन्तरे श्रीमान्महाकारुणिकोत्तमः।
सर्वज्ञः सर्वभूतानामभीष्टफलदःप्रभुः॥ १२॥
प्रादुरासीन्महातेजा रात्रौ सूर्यइव स्वयम्‌।
तं दृष्ट्वामुनयः सर्वे विस्मिता गद्गदस्वराः॥ १३॥
प्रणम्य दण्डवद्भूमौदत्वा तस्याऽऽसनं वरम्‌।
पादप्रक्षालनं कृत्वाश्रद्धया परया सह॥ १४॥
गन्धपुष्पादिभिर्दिव्यैःपूज्य पुण्यवतां वरम्‌।
समाश्वास्य चिरं कालं प्रसन्नमुखपङ्कजम्‌॥ १५॥

पप्रच्छुः सर्ववेदार्थं प्रसन्ना भाग्यगौरवात्‌।
सोऽपि सूतः स्वमाचार्यंस्मृत्वा शंभुं जगद्गुरुम्‌॥१६॥
सर्वविद्यामयीमीशां साक्षाद्विघ्नविनायकम्‌।
षण्मुखं च सदा शुद्धं प्रणम्य भुवि दण्डवत्‌॥ १७॥
कृताञ्जरिपुटोभूत्वा मुनीनालोक्य सुव्रतान्‌।
वक्तुमारभते सूतः सर्ववेदार्थमुत्तमम्‌॥ १८॥
महेश्वरं सर्वजगद्विभासकं

दिवाकारादिप्रथितौजसामपि।

अगोचरं भक्तिपुरःसरं सदा

नमामि संसारमहाविषौषधम्‌॥ १९॥

परानुभूतिं भवपापनाशनीं

सदाशिवस्याप्यतिशोभनप्रदाम्‌।

उमाभिधामुत्तमचित्तवृत्तिदां

नमामि नानाविधलोकवैभवाम्‌॥ २०॥

इति श्रीस्कान्दपुराणे सूतसंहितायां चतुर्थे यज्ञवैभवखण्डेसर्ववेदार्थप्रश्नो नाम प्रथमोऽध्यायः॥१॥

———————————————————————————————————————————र्थेति। परवेदार्थवदपरवेदार्थस्यापि वेदने सूतमुखादुक्तक्रमेण परवेदार्थं ज्ञात्वा कृतकृत्यानामपि मुनीनां पुनरपरवेदार्थप्रश्ने प्रयोजनं परविद्यानधिकारिणां कर्मयज्ञद्वारा तदधिकारप्राप्तिसिद्धिर्यथा स्यादेति लोकानुग्रह एव प्रयोजनमित्याह—सर्वलोकहित इति। निगदव्याख्यातोऽध्यायशेषः॥२—२०॥

इति श्रीसूतसंहितातात्पर्यदीपिकायां चतुर्थे यज्ञवैभवखण्डे सर्ववेदार्थप्रश्नो नाम प्रथमोऽध्यायः॥१॥

————

हितीयोऽध्यायः।

२. परापरवेदार्थविचारः।

श्रीसूत उवाच—

अथ वक्ष्यामि वेदार्थं श्रुणुत श्रद्धया द्विजाः।
श्रद्धया रहितं सर्वंफलाय न कदाचन॥ १॥
परापरविभागेन वेदार्थो द्विविधः स्मृतः।
वेदार्थःपरमः साक्षात्परात्परतरं परम्‌॥ २॥
अपरो धर्मसंज्ञः स्यात्तत्परप्राप्तिसाधनम्‌।
अधर्मः परिहाराय वेदार्थत्वेन भक्तितः।
गीयते मुनिशार्दूलैःकदाचिन्न तु मुख्यतः॥ ३॥
अधर्मपरिहारेण धर्मस्त्वव्याकुलो भवेत्‌॥ ४॥
अव्याकुलेन धर्मेण श्रद्धयाऽनुष्ठितेन तु।
वेदार्थःपरमः साक्षात्सिध्यत्येव न संशयः॥ ५॥

——————————————————————————————————————————— मुनिप्रश्नानन्तर्यमथशब्दार्थः॥१॥ परापरविभागेनेति। उपनिषदर्थः परः। इतरस्त्वपरः। श्रूयते हि मुण्डकोपनिषरदि “द्वेविद्ये वेदितव्ये इति ह स्म यद्ब्रह्मविदो वदन्ति परा चैवापरा च। तत्रापरा, ऋग्वेदो यजुर्वेदः साम-वेदोऽथर्ववेदः शिक्षा कल्पोव्याकरणं निरुक्तं छन्दो ज्योतिषमिति। अथ परा यया तदक्षरमधिगम्यते “इत्यादि तदेवाऽऽह—वेदार्थः परम इति। परासकलादतिशयेन यत्परं निष्कलंतदुक्तद्वितयमध्ये परमो वेदार्थ इत्यर्थः॥२॥ अपरोऽपि द्विविधः। विहितो यज्ञादिधर्मः। प्रतिषिद्धो हिंसादिरधर्मश्च। तत्राऽऽद्यस्य प्रयोजनमाह—अपर इति। तत्परोति। ‘तमेतं वेदानुवचनेन’ इत्यादिश्रुतेरित्यर्थः। अननुष्ठेयस्याधर्मस्य किमुपदेशेन तत्राऽह—परिहारायेति। उक्तं हि शाबरभाष्ये—“अधर्मोऽपि जिज्ञास्यः परिहाराय” इति। न तु मुख्यत इति। मुखमिव प्रथमः श्रेयःसाधनत्वेनानुष्ठेयो धर्मोमुख्यः। तत्परिपन्थित्वेन हानाय जिज्ञास्यःसन्नधर्मो जघन्य इत्यर्थः॥३॥ अधर्मपरिहारेणेति–तद-

सोऽयं स्वपरया शक्त्या बद्धवत्प्रतिभासते।
एकैव परमा शक्तिर्माया दुर्घटकारिणी॥ ६॥
शिवस्यानन्तरूपा सा विद्यया तस्य नश्यति
या विनश्यति सा माया चिन्मात्रे परिकल्पिता॥ ७॥
अधिष्ठानावशेषो हि नाशः कल्पितवस्तुनः।
भावस्यैव ह्यभावत्वं नाशोऽभावस्य भावतः।
भावाभावस्वभावाभ्यामन्य एव हि कल्पितः॥ ८॥

———————————————————————————————————————————परिहारे धर्मस्यव्याकुलता कृष्णं प्रत्यर्जुनेन प्रपञ्चिता गीतासु—“अधर्माभिभवात्कृष्ण प्रदुष्यन्ति कुलस्त्रियः” इत्यादि॥ ४॥ ५॥ परमस्य वेदार्थस्य स्वप्रकाशस्य कथमसिद्धिः येन धर्मानुष्ठानेन तत्सिद्धिरुक्तेत्यत आह—सोऽयं स्वपरयेति। नित्यमुक्तोऽपि ह्यात्मा स्वाश्रितया मायाशक्त्या बद्ध इव भासते। बद्धानां संसारिणामसंख्यत्वाद्बन्धहेतुर्मायाऽप्यसंख्यातेति मतं वारयति—एकैवेति। एकयैवानन्तजीवनिर्भासस्येन्द्रजालवदुपपत्तौ नानेका सा कल्पनीयेति॥६॥ तस्या मायात्वंज्ञानाविनाश्यत्वेन समर्थयते—शिवस्येति। यथा—आश्रयाश्रयिभावे विषयविषयिभावेवा षष्ठी। शिवाश्रया शिवविषया च माया जगदुपादानम्‌। आश्रयत्वोपाधिना तस्य जीवत्वम्‌। विषयत्वोपाधिना च परत्वमिति हि स्थितिः। ननु सर्वज्ञे निरवद्ये शिवे नाज्ञानं संभवति न चाज्ञे जीवे मायाधीनो जीवविभागो जीवाश्रया च मायेत्यन्योन्याश्रयादिप्रसङ्गादित्यत आह—चिन्मात्रेति। इह भूतले घट इति हि निर्घटस्य भूतलस्य घटसंबन्धव्यापारात्स्वात्मनैवघटवति तस्मिंस्तत्संबन्ध आत्माश्रयाद्वितीये घटवत्यन्योन्याश्रयात्तृतीयादिस्वीकारे चक्रकाद्यापतेत्‌ घटतदभावसाधारणभूतलमात्रे घटस्य संबन्धः। एवं मायातदभावसाधारणे चिन्मात्रे मायाऽऽश्रितेति॥७॥ ननु विद्यया माया नश्याति चेन्माययाऽविद्वानिव तन्नाशेन मुक्तो विद्वानपि सद्वितीयः स्यादित्यत आह—अधिष्ठानेति। मायायाः कल्पितत्वेन तन्नाशस्तदधिष्ठानान्न व्यतिरिच्यत इत्यर्थः। ननुप्रागसतो घटस्य नाशोनाम जातःसन्घट एव। सतश्च घटस्य प्रध्वंसो नाम प्रध्वंसत्वेनासन्घट एव।

अधिष्ठानस्य नाशो न सत्यत्वादेव सर्वदा।
सर्वाधिष्ठानमीशानं पश्यन्नेव विमुच्यते॥ ९॥
ईशानविषयं ज्ञानं बेदान्तश्रवणादिना।
जायते परहंसस्य यतेर्मुख्याधिकारिणः॥ १० ॥
नाऽऽश्रमान्तरनिष्ठस्य क्रमात्तस्यापि जायते ॥ ११॥
ब्रह्मलोकमवाप्नोति वनस्थो नैष्ठिकोऽपि च।
गृहस्थः पितृलोकं च शिवज्ञानं तु भिक्षुकः॥ १२ ॥

———————————————————————————————————————————तत्रैव हि लोकस्य तस्प्रतीतिव्यवहारौ दृश्येते नाधिष्ठानमात्रे। तत्कथं नाशस्याधिष्ठानावशेषतेत्यत आह—भावस्यैवेति। सदसतोर्हिपरस्परोपमर्दकत्वेन तन्नाशयोरन्योन्यासद्रूपता। सदसद्विलक्षणत्वात्तु मायायास्तन्नाशस्य नाधिष्ठानादतिरेकः। न हि शुक्तिं साक्षात्कुर्वन्तस्तद्रूपातिरेकेण तत्र कल्पितरजतस्य नाशं प्रतियन्ति व्यवहरान्ति वेत्यर्थः। कल्पितनाशमधिष्ठानव्यतिरेकेण व्यवहरन्तमुपहसन्ति कवयः—‘एतत्तस्यमुखात्कियत्कमलिनीपत्रे कणंवारिणो यो मुक्तामणिरित्यमंस्त स जडः शृण्वन्नमुष्मादपि। अङ्गुल्यग्रलघुक्रियाप्राविरलेत्यादीयमाने शनैः कुत्रोड्डीय गतो ममेत्यनुदिनं निद्राति नान्तःशुचा’ इति। संप्रदायविदोऽप्याहुः ‘आत्मैवाज्ञानहानिर्वा’इति। तथा “निवृत्तिरात्मा मोहस्य ज्ञातत्वेनोपलक्षितः’इति ॥८॥ कल्पितवस्तुनो नाशश्चेदधिष्ठानावशेषः, अधिष्ठानस्य नाशस्तर्हिकिमवशेषः। न हि तस्याधिष्ठानान्तरमस्त्यनवस्थापातादित्यत आह—अधिष्ठानस्येति। प्रातीतिकं हि सत्यत्वं शुक्तिरूप्यादेः सत्येव प्रमातरि बाध्यमानस्य। सति प्रमातर्यबाध्यमानस्य घटादेस्तु व्यावहारिकंसत्यत्वम्‌। इहाधिष्ठानत्वेनाभिमतस्य ब्रह्मणस्तु पारमार्थिकं सत्यत्वमित्यभिप्रेत्य सर्वदेत्युक्तम्‌। यत ईशान एवैकः स्वेतरसमस्तकल्पितवस्तुजाताधिष्ठानम्‌ , अतस्तज्ज्ञानात्तदज्ञानविलासकल्पितस्य निवृत्तिरिति। यदुक्तम्‌ “विद्यया तस्य नश्यति” इति तत्फलतीत्याह—सर्वाधिष्ठानमिति। उक्तस्य परमपुरुषार्थज्ञानस्य करणमधिकारिणं चाऽऽह— ईशानविषयमिति ॥९—११॥ क्रमादित्युक्तंक्रममेवाऽऽह - ब्रह्मलोकमिति। क्रमाननुप्रविष्टस्यापि पितृलोकस्य

तत्रापि प्रथमो भिक्षुर्ज्ञानेच्छोदयबाधकात्‌।
महापापादयत्नेनमुच्यते मुनिपुङ्गवाः॥ १३॥
द्वितीयः शान्तिदान्त्यादिज्ञानाङ्गेच्छांमवाप्नुयात्‌।
तृतीयोऽखिलवेदान्तश्रवणेच्छामवाप्नुयात्‌॥ १४॥
चतुर्थो ज्ञानमाप्नोति वेदान्तश्रवणेन तु।
स एव कर्मसंन्यासी परहंससमाह्वयः।
अन्ये काम्यपरित्यागाद्भिक्षुका इति कीर्तिताः॥ १५॥
परोक्षं ब्रह्मविज्ञानं शाब्दं देशिकपूर्वकम्‌।
बुद्धिपूर्वकृतं पापं कृत्स्नंदहति वह्निवत्‌॥ १६॥
शाब्दं ब्रह्मात्मविज्ञानमपरोक्षं महत्तरम्‌।
संसारकारणाज्ञानतमसश्चण्डभानुवत्‌॥ १७॥
अतो विज्ञानलाभाय परहंसो भवेद्द्विजः॥ १८॥
कुटीचकाश्च हंसाश्च तथाऽन्ये च बहूदकाः।
ये भविष्यन्ति ते कुर्युःप्राजापत्येष्टिसंज्ञिताम्॥ १९॥

———————————————————————————————————————————वनस्थत्वानन्तरभाविगार्हस्थ्यफलत्वादत्रोपन्यासः। शिवज्ञानं तु भिक्षुक इति साक्षत्पारंपयोभ्याम्‌॥१२॥ चतुर्विधा हि भिक्षुकाः। कुटीचकबहूदकहंसपरमहंसाः। तत्राऽऽद्यस्य पारंपर्यप्रकारमाह—तत्रापि प्रथमो भिक्षुरिति। जिज्ञासाप्रतिबन्धकपापनिवृत्तिः कुटीचकाश्रमधर्मानुष्ठानफलम्॥१३॥ बहूदकधर्मानुष्ठानफलस्य तु शमदमादिलाभःफलम्‌। हंसधर्मस्यतु वेदान्तशुश्रूषा॥१४॥ श्रवणपुरःसरतत्त्वाज्ञानावप्तिश्चतुर्थाश्रमफलमित्यर्थः॥१५॥ श्रवणस्याप्यधिकारिभेदेन परोक्षापरोक्षज्ञानलक्षणफलविभागमाह–परोक्षं ब्रह्मेति॥१६॥१८॥ प्राजापत्येष्टीति। कुटीचकादिसंन्यासत्रयारम्भे प्राजापत्येष्टिः कार्या। स्मर्यते हि—“प्राजापत्यां निरुूप्येष्टिं सर्ववेदसदक्षिणाम्‌। आत्मन्यग्नीन्समारोप्यब्राह्मणः प्रव्रजेद्गृहात्‌”॥ इति। परहंसस्त्वग्नेर्याम्‌। केचित्तु सोऽपि

आग्नेयेष्टिं द्विजाः कुर्युःपरहंसाभिलाषिणः।
पश्चात्त्रैधातवीं कुर्युः सर्वे संयतमानसाः॥ २० ॥
येऽनाहिताग्नयो विप्रास्तेषां नेष्टिर्विधीयते।
स्वस्वमग्नौतु होमं ते कुर्युःश्रद्धापुरःसरम्‌।
विरजाख्यैर्महामन्त्रैराज्येन चरुणाऽपि च॥ २१॥
हुतशेषंचरं साज्यं प्राश्याऽऽचम्यैव सर्पिषा।
पूर्णाहुतिं पुनः कुर्युःप्रणवेनाग्निजायया॥ २२ ॥
सहाग्निंपुनराघ्राय अयं ते योनिर्ऋत्विजः।
इति मन्त्रेण कुर्युस्ते प्रैषोच्चारणमादरात्‌॥ २३ ॥
संन्यासाध्वर्युणा दत्तं दण्डं काषायमेव च॥ २४ ॥
परिगृह्य गुरोः पादं प्रणम्य श्रद्धया सह।
वेदान्तश्रवणं कुर्युर्ज्ञानार्थंभिक्षुकोत्तमाः॥ २५ ॥
काम्यकर्मफलेदोषं विदित्वा प्रतिषिद्धवत्‌।
काम्यकर्मत्यजंस्तुल्यो भिक्षुणा फलतो भवेत्‌॥ २६॥

———————————————————————————————————————————प्राजापत्यमेवेत्याहुस्तन्निरस्तं जाबालोपनिषदि—“तद्धैके प्राजापत्यामेवेष्टिं कुर्वन्ति तदु तथा न कुर्यादाग्नेयीमेव कुर्यादग्निर्हि प्राणः प्राणमेवैतया करोति” इति। त्रैधातवीमिति। चतुर्विधैरपि यथोक्तष्ट्यनन्तरं त्रैधातवीयेष्टिःकार्या। तत्स्वरूपमुक्तंतैत्तिरियके—“तस्मा एतं त्रिधातुं निर्वपेदिन्द्राय राज्ञेपुरोडाशमेकादशकपालंइन्द्रायाधिराजायेन्द्राय स्वराज्ञे” इति। उक्तेष्ट्यनन्तरं त्रैधातवीया जाबालेऽप्युक्त त्रैधातवीयामेव कुर्यादिति। कुर्यादेवेत्यर्थः॥ १९॥ २० ॥ अग्निजायया स्वाहाकारेण॥२१—२५॥ काम्यकर्मफलेदोषमिति। फलभोगेन हि तज्जातीये रागस्तेन तादृशस्य कर्मणः पुनरारम्भस्ततः फलंततो राग इति संसारादनिर्मोक्षलक्षणोदोषः। तत्त्यागिनस्तु नूतनफलानुदयात्पूर्बकृतस्य च भोगेन क्षयान्नित्यनैमित्तिककरणेन प्रत्यवायानुदयात्तत एव सत्त्वशुद्धया जिज्ञाासाश्रवणमननादिज्ञानसाधनसंपत्त्या भिक्षुतुल्यतैषामित्यर्थः॥२६॥

न सन्ति जप्या मन्त्राश्च परहंसस्य सर्वदा।
त्रयीसारमिमं मन्त्रं जपेन्नित्यं समाहितः।
प्रणवादपरं जप्त्वाकदा मुक्तो भविष्यति॥ २७॥
ओङ्कारः सर्वमन्त्राणामुत्तमः परिकीर्तितः।
ओङ्कारेण प्लवेनैव संसाराब्धिंतरिष्यति॥ २८॥
उमार्धविग्रहो देवो रुद्रः सत्यादिलक्षणः।
संसारतारकस्यास्य प्रणवस्यार्थउच्यते॥ २९॥
विष्ण्वादयोऽपि देवाश्च रुद्रस्यावयवेन तु।
कथंचित्प्रणवस्यार्थभविष्यन्ति न मुख्यतः॥ ३०॥
यतिभिर्ज्ञानसिद्ध्यर्थमविमुक्तंमहत्तरम्‌।
स्थानं संसेवनीयं स्याच्चिन्तनीयं तथैव च॥ ३१॥
अविमुक्ते महादेवः साक्षाद्विश्वेश्वरः प्रभुः।
उपास्यमानः सुप्रीतो ज्ञानं साक्षात्प्रयच्छति॥ ३२॥
अविमुक्तेमहादेवमनुपास्य विमुक्तये।
नरः किंचिद्विषं भुक्त्वा क्षुन्निवृत्तिं करिष्यति॥ ३३॥

———————————————————————————————————————————त्रयीसारमिति। “प्रजापतिर्लोकानभ्यतपत्‌” इत्यत्रहि लोकत्रयसारा अग्निवाय्वादित्यास्तत्सारा ऋग्यजुःसामवेदास्तत्सारा भूर्भुवः स्वरिति तिस्रोव्याहृतयस्तत्सारा अकारोकारमकारास्ते मिलित्वा प्रणव इत्युक्तम्‌ “अकार उकारो मकार इति तानेकधा समभरत्तदेतदोमिति’’ इति॥ २७॥ २८॥ उमार्धेति। द्विविधंहि शिवस्य स्वरूपं निष्कलं सकलं च। तत्र यन्निष्कलं सत्यादिलक्षणं स प्रणवस्य मुख्योऽर्थइत्यर्थः॥२९॥ कथंचित्प्रणवस्येति। विष्ण्वादिमूर्तयः सकला अपि निष्कलरूपानुगतत्वेनानुसंधीयमानां निष्कलपरस्य प्रणवस्य लक्षणया भवन्यर्थाः॥३०—३३॥ अधिभूते प्रतिमाब्रा-

तस्मान्मुमुक्षुभिर्भक्त्याज्ञानार्थमविमुक्तकम्‌।
अधिभूते तथाऽध्यात्मे सेवनीयं तथैव च॥ ३४॥
चिन्तनीयो महादेवस्तत्रोपास्यो न संशयः।
गृहस्थैश्च वनस्थैश्च तथा वैब्रह्मचारिभिः॥ ३५॥
शतरुद्रियसंज्ञस्तु मन्त्रो जप्यो महत्तरः।
रुद्रजापी विमुच्येत महापातकपञ्जरात्‌॥ ३६॥
सम्यग्ज्ञानं च लभते तेन मुच्येत बन्धनात्‌।
अनेन सदृशंजप्यं नास्ति सत्यं श्रुतो स्मृतौ॥ ३७॥
एषा पञ्चाक्षरी विद्या शतरुद्रियमध्यगा।
पञ्चाक्षरे महादेवः सर्वदा सुप्रतिष्ठितः॥ ३८॥
महादेवस्य सांनिध्याद्व्यष्टिभूताश्च देवताः।
तत्र प्रतिष्ठिता एव वृक्षे शाखा यथा स्थिताः॥ ३९॥
वृक्षस्य मूलसेकेन शाखाः पुष्यन्ति वैयथा॥ ४०॥
शिवे रुद्रजपात्प्रीते प्रीता एवान्यदेवताः।
अतो रुद्रजपादेव भुक्तिमुक्ती प्रसिध्यतः॥ ४१॥
माया माहेश्वरी शक्तिःसत्त्वादिगुणभेदतः।
जीवमाक्रम्य संसारे भ्रामयत्यनिशंद्विजाः॥ ४२॥

———————————————————————————————————————————ह्मणादी। अध्यासे स्वस्वरूपेच॥३४—३८॥ व्यष्टिभूता इति। निरस्तसमस्तोपाधिकः परमात्मा सर्वसाधारण्यात्समष्टिः। तस्यैवोपाधिपरिकल्पितभागा व्यष्टयः। समष्टिव्यष्टिरूपे निदर्शनमुक्तम्। बृक्षइति॥३९॥ समष्टिसेवया व्यष्टिफललाभे निदर्शनमाह—वृक्षस्य मुलेति॥ ४०॥ ४१॥ माया माहेश्वरीति। यदत्र वक्तब्यंतत्प्रथमखण्डे द्वितीयाध्याये “मन्मायाशक्तिसंक्लप्तम्‌”इत्यत्रोक्तम्‌। सत्त्वादिगुणभेदतोगुणवैचित्र्येण रजस्तमोमलिनस-

सत्त्वात्सुखं च ज्ञानं च वैराग्यं शौक्ल्यमेव च॥४३॥
दुःखं प्रवृत्तिः कामश्च लौहित्यंरजसो भवेत्‌।
मोहो भ्रान्तिस्तथाऽऽलस्यं कार्ष्ण्यंच तमसो भवेत्‌॥४४॥
एवमुत्तमरूपाश्च पदार्थाः सत्त्वसंभवाः।
तथा मध्यमरूपाश्च पदार्थाराजसाः स्मृताः।
निहीनास्तामसा एव पदार्थासंग्रहेण तु॥ ४५॥
अतो मायामयः साक्षात्संसारः सर्वदेहिनाम्‌।
स शिवज्ञानमात्रेण सद्य एव निवर्तते॥ ४६॥
ज्ञानयज्ञेन विप्राणामास्तिकानाममानिनाम्‌।
जायते परमं ज्ञानं नान्यथा मुनिपुङ्गवाः॥ ४७॥
यज्ञश्च द्विविधः प्रोक्तः स्थूलसूक्ष्मविभेदतः।
कर्मयज्ञः समाख्यातः स्थूलः सर्वार्थवित्तमैः\।
ज्ञानयज्ञो भवेत्सूक्ष्मः साक्षात्संसारबाधकः॥ ४८॥
कर्मयज्ञाभिधः स्थूलस्त्रिप्रकारो व्यवस्थितः।
कायिको वाचिकश्चैव मानसश्रेति सुव्रताः॥ ४९॥
नित्यनैमित्तिकाद्यस्तु कायिकः परिकीर्तितः।

———————————————————————————————————————————त्त्वाप्राधान्येनेत्यर्थः। आक्रम्येति। मायाक्रान्तो हि जीवइत्युक्तम्‌॥४२॥ सत्त्वदिगुणत्रयं कार्यद्वारा व्यवच्छिनत्ति—सत्त्वात्सुखंचेति॥४३—४५॥अतो मायामय इति। यतो मायागुणैः सत्त्वरजस्तमोभिरनुगतोऽत इत्यर्थः॥४६॥ ज्ञानयज्ञेनेति। ज्ञानयज्ञेन परं ब्रह्मज्ञानं साक्षाज्जायते। अन्यथा तु शब्दत एव बुध्यत इत्यर्थः॥४७॥ परमवेदार्थप्रसङ्गेन कथितस्य ज्ञानयज्ञस्योत्कर्षसूचनाय यज्ञान्तराणि विभागेनानुक्रामति—यज्ञश्चद्विविध इति। स्थूलफलत्वेन कर्मयज्ञस्य स्थौल्यम्‌। सूक्ष्मविषयत्वेन ज्ञानयज्ञस्य सौक्ष्म्यम्‌॥

मन्त्राणां जपरूपस्तुवाचिको वेदवित्तमाः॥ ५०॥
देवताध्यानरूपस्तुमानसः परिकीर्तितः।
कायिकादधिकः प्रोक्तो वाचिको मतिमत्तमैः॥ ५१॥
मानसो वाचिकाच्छ्रेष्ठोमानसो बहुधा स्मृतः।
ध्येयभेदेन सोऽप्येवमुत्तमाधमभेदतः॥ ५२॥
द्विविधस्तत्र देवस्य शिवस्य ध्यानमुत्तमम्‌।
विष्ण्वादीनां तु देवानां ध्यानं चाधममिष्यते॥ ५३॥
अतो मोक्षार्थिभिः प्राज्ञैः शिव एव शिवंकरः।
ध्येयः सर्वं परित्यज्य शिवादन्यत्तु दैवतम्‌॥ ५४॥
अस्मिन्नर्थेश्रुतिः साध्वी समाप्ता वेदवित्तमाः॥ ५५॥
अपक्वचित्तैर्मोक्षार्थं देवा विष्ण्वादयोऽपि च।
ध्येयाः पक्वैःशिवो ध्येयः साक्षात्संसारमोचकः॥५६॥
रुद्रं विश्वाधिकं विष्णुं ब्रह्माणं चान्यमेव वा।
समं संचिन्तयन्साक्षात्संसारे परिवर्तते॥ ५७॥
महापापवतां पुंसां पूवेजन्मसु सुव्रताः।
विष्णुः सर्वाधिको भाति न साक्षात्परमेश्वरः॥ ५८॥
विष्णुः सर्वाधिको नान्य इति चिन्तयतां नृणाम्‌॥

————————————————————————————————

४८—५४॥ अस्मिन्नर्थे श्रुतिरिति। समाप्ता पर्यवसिता “यदा चर्मवदाकाशं वेष्टयिष्यन्ति मानवाः। तदा शिवमविज्ञाय दुःखस्यान्तो भविष्यति"इति श्रुतिः शिवज्ञानमेव वदन्ती ध्यानमन्तरेण ज्ञानासंभवात्‌, ज्ञानस्य ध्यानद्वारस्य मुक्तिसाधनत्वे पर्यवसितेत्यर्थः॥५५॥५६॥रुद्रमिति। “विश्वाधिको रुद्रो महर्षिः” इति श्रुतिः। अनया श्रुत्यारुद्रस्य सर्वेभ्योऽप्याधिक्यस्योद्धोष्यमाणस्यापि कैश्चिदज्ञाने कारणमाह—महापापेति। सर्वाधिकोन

नास्ति संसारविच्छित्तिःकल्पकोटिशतैरपि।
तेषां नैव च मोक्षाशा कल्पकोटिशतैरपि॥ ६०॥
ब्रह्मादिदेवतानां च विश्वाधिक्यं वदन्ति ये।
अधोमुखोर्ध्वपादास्तेयास्यन्ति नरकार्णवम्‌॥ ६१॥
विष्णोर्वाब्रह्मणो वाऽपि तथैवान्यस्य कस्यचित्‌।
साम्यं वदन्ति ये तेषां न संसाराद्विमोक्षणम्‌॥ ६२॥
विष्णुप्रजापतीन्द्रादिदेवतासु मुनीश्वराः।
निहीनासु शिवं पश्यन्मुच्यते भवबन्धनात्‌॥ ६३॥
शिवरूद्रमहादेवब्रह्मेशानादिनामतः।
विष्ण्वादिदेवताः पश्यन्क्रमान्मुच्येत बन्धनात्॥ ६४॥
शिवं सर्वोत्तमं विप्राहरिविष्ण्वादिनामतः।
चिन्तयन्घोरसंसारे पतत्येव न संशयः॥ ६५॥
यथाऽमात्यादिबुद्धिस्तु राज्ञि बाधाय देहिनाम्‌।
तथा विष्ण्वादिबुद्धिस्तु रिते बाधाय देहिनाम्‌॥६६॥
अतः शिवः सदा ध्येयः प्राधान्येन मनीषिभिः।
ज्ञानयज्ञात्परो यज्ञो नास्तिनास्ति श्रुतौस्मृतो॥६७॥
ज्ञानयज्ञैकनिष्ठस्य न किंचिदपि दुर्लभम्‌।
महापापवतां नृृणां ज्ञानयज्ञो न रोचते॥ ६८॥
प्रत्युत ज्ञानयज्ञस्तु प्रद्वेष्योभासते स्वतः।
विशुद्धं ज्ञानमुत्पन्नं यस्य तस्य महात्मनः॥ ६९॥

————————————————————————————————

भातीत्यन्वयः॥ ५७–६२॥ उत्कृष्टेऽपकृष्टबुद्धिरनर्थाय। अपकृष्टे पुनरुत्कर्षबुद्धिःश्रेयसे च ब्रह्मदृष्टिरुत्कर्षादित्यतो विष्ण्वादिषु शिवबुद्धिर्युक्तेत्याह—

शिवरुद्रमहादेवब्रह्मेशानादिनामसु।

रुद्रमूर्तिषु सर्वासुशान्तिदान्त्यादिसाधने॥ ७० ॥

तिर्यक्त्रिपुण्ड्रेरुद्राक्षे तथा भस्मावगुण्ठने।

शिवस्य लिङ्गपूजायां शिवस्थानेषु सुव्रताः॥ ७१ ॥

प्रियबुद्धिः प्रजायेत स्वभावादेव सर्वदा।

यस्य विज्ञानिनस्तेषु प्रद्वेषो वाऽपि जायते।

उपेक्षा वा न स ज्ञानी पशुर्विज्ञानवञ्चकः॥ ७२॥

सर्वत्र नास्ति विद्वेषः साध्यसाधनपूर्वके।

साक्षाद्विज्ञानिनो विप्रा उपेक्षाबुद्धिरेव हि॥ ७३॥

तथाऽप्युक्तेषु सर्वेषु शैवेषु द्विजपुङ्गवाः।

प्रियबुद्धिःस्वतो भाति बाधिताकाररूपतः॥ ७४ ॥

___________________________________________________________

विष्णुप्रजापतीति॥६३—७२॥लौकिकक्रियाकलापवत्पूजाप्रपञ्चोऽपि चित्तैकाग्य्रविरोधेन ज्ञानप्रतिबन्धक इति तत्प्रद्वेषिणःकथं विज्ञानवञ्चकतेत्यत आह—सर्वत्र नास्तीति।लौकिकेऽपि हि क्रियाकलापे, उपयोगमपश्यतो ज्ञानिन उपेक्षैव न त्वभिवयोगेनानुष्ठानमित्येतावन्न तु प्रद्वेषः। न हि शिवः सर्वंजगदिति पश्यन्क्वचिदपि कथं प्रद्विष्यात्‌। अतो द्विषाणो विज्ञानवञ्चक एवेत्यर्थः॥७३॥ तत्कि शिवपूजास्तुत्यादावपि विदुष उपेक्षैव।नह्युपेक्षेत्याह—तथाऽपीति। उक्तेषु भस्मावगुण्ठनरद्राक्षधारणशिवपूजा-तन्मन्त्रजपादिषु तत्प्रसादबलादेव लब्धविज्ञानस्याकृतघ्नस्य तत्र कथं प्रियाबुद्धिर्नजायत इत्यर्थः। नहि शिवाद्वैतविज्ञानाविरोधःस्याद्द्वैतस्फुरणादिति चेत्तत्राऽऽह–बाधिताकारेति। रज्जुरियं नायंसर्पइति रज्जुतत्त्वंसाक्षात्कुर्वन्तं सर्पभ्रमनिवृत्तावपि संस्कार– बलाद्दग्धपटन्यायेन बाधितसर्पावभानानुवृत्तिर्यथा तत्त्वावबोधं न प्रतिबध्नाति, एवं प्राक्तनसंस्कारबलादनुवर्तमानस्यापि शिवपूजादेःशिवसाक्षात्कारं प्रति न प्रतिकूलतेत्यर्थः॥७४॥ शिवपूजादौयस्य बाधिताकारानुवृत्तिस्तस्य विद्यां प्रति केवलंन प्रातिकूल्यं प्रत्युताऽऽनुकूल्यमित्याह—बाधितकारतो

बाधिताकारतो वाऽपि यस्य बुद्धिः स्वतो न हि।
एष्वसौनैव विज्ञानी भ्रान्त एव न संशयः॥ ७५ ॥
कर्मावलम्बनेनैव केचिज्जीवन्ति मानवाः।
ज्ञानावलम्बनेनैव जीवन्त्यन्ये विमोहिताः॥ ७६ ॥
अनेककोटिभिः कल्पैर्ज्ञानयज्ञस्य वैभवम्‌।
मया मद्गुरुणाऽन्यैर्वान शक्यं परिभाषितुम्‌॥ ७७॥
तथाऽपि मुनयः श्रद्धामात्रामासाद्य केवलम्‌।
प्रशंसन्ति महाभाग्याज्ज्ञानयज्ञस्य वैभवम्‌॥ ७८ ॥
अशक्ता अपि विज्ञातुं ज्ञानयज्ञस्य वैभवम्‌।
श्रद्धया स्वाधिकारेण वदन्ति ज्ञानवैभवम्‌॥ ७९ ॥
पुनः कणादकपिलप्रभृतीनामपि स्वतः।
दोषो न विद्यते ज्ञाने विरोधेऽपि परस्परम्‌॥ ८० ॥

___________________________________________________________

वाऽपीति। एषु शिवपूजादिषु॥७५॥केचिदिति। अविदितज्ञानमार्गाजीवन्ति जन्मपरंपरासु न तु कदाचिन्मुच्यन्ते। श्रूयते हि—“अविद्यायां बहुधा वर्तमाना वयं कृतार्थाइत्यभिमन्यन्ति बालाः।यत्कर्मिणो न प्रवेदयन्ति रागात्तेनाऽऽतुराः क्षीणलोकाश्च्यवन्ते"इति। ज्ञानावलम्बनेनेति ज्ञानपरिपाकात्प्रागपरिपक्वमपि ज्ञानमेव पर्याप्तमिति मोहेन कर्मत्यक्तवन्त इत्यर्थः। श्रूयते हि—“ ततो भूय इव ते तमो य उ विद्यायाँरताः ” इति। तेषां हि काम्यकर्मत्यागान्न स्वर्गादिभोगः। नित्याद्यकरणनि मित्तप्रत्यवायप्रतिबन्धाद्विद्यापरिपाकानुदयाद्भोगमोक्षमार्गद्वयभ्रष्टास्तेभवंतीत्यर्थः। ७६—७९॥ अशक्तानपि श्रद्धया स्वाधिकारेण ज्ञानवैभवं वदतः पुरुषानुदाहरति—पुनः कणादेति। वस्तुनि विकल्पानुपपत्त्या परस्परविरोधिनोरुभयोः प्रामाण्यासंभवादन्यथा प्रमाऽवश्यंभाविन्यपि तद्वादिनां श्रद्धापूर्वमभिधानादेव न दोष इत्यर्थः॥८०॥ तर्हिकिंतदपि तत्त्वदर्शनं नेत्याह—तैस्तैरिति।

तैस्तैर्निरूपितं ज्ञानं वस्तुतो नैव दर्शनम्‌।
उपचारेण विज्ञानं श्रद्धापूततया द्विजाः॥ ८१ ॥
व्यासः साक्षाच्छिवज्ञानी शिवस्यैव प्रसादतः॥ ८२॥
तत्प्रसादादहं साक्षाच्छिवज्ञानी न संशयः।
मया तत्संग्रहेणैव प्रोक्तं युष्माकमादरात्‌॥ ८३ ॥
मत्प्रसादेन विज्ञानयज्ञवैभवमास्तिकाः।
ज्ञातवन्तः कृतार्थाश्च यूयं सत्यमिदं वचः॥ ८४ ॥
इतः पूर्वं मयाऽन्येषां नायमर्थोऽभिभाषितः।
व्यासो मम गुरुः पूर्वंरहस्येवाऽभ्यभाषत॥ ८५ ॥
सारात्सारतरः साक्षादयमर्थःप्रभाषितः।
गोपनीयस्त्वयं नित्यंभवद्भिःपरमास्तिकैः॥ ८६ ॥

इति श्रीस्कन्दपुराणे सूतसंहितायां यज्ञवैभवखण्डे

परापरवेदार्थविभागो नाम द्वितीयोऽध्यायः॥ २॥

तृतीयोऽध्यायः।

३. कर्मयज्ञवैभवनिरूपणम्‌।

सूत उवाच—________________________________________________________________________

विज्ञानमात्रं तु भवति न पुनरपवर्गोपयोगि ज्ञानमित्यर्थः। मोक्षेधीर्ज्ञानमन्यत्र विज्ञानं शिल्पशास्त्रयोः” इत्यमरः॥८२॥ कस्तर्हि ज्ञानवान्कथं वा तदीयज्ञानस्य कणादादिवन्नविज्ञानमात्रता तत्राऽऽह–व्यास इति॥८२—८५॥ अतत्त्वभूतः श्रद्धामात्रेणोक्तोऽपे न सारः। अयं तु तत्त्वभूतोऽपि सार इत्यर्थः॥८६॥

इति श्रीसूतसंहितातात्पर्यदीपिकायां यज्ञवैभवखण्डे परापरवेदार्थविभागोनाम द्वितीयोऽध्यायः॥ २ ॥

अथातः संप्रवक्ष्यामि कर्मयज्ञस्य वैभवम्‌।

कर्मयज्ञस्त्रिधा प्रोक्तो मुनिभिः सूक्ष्मदर्शिभिः॥ १ ॥

एकः काम्योऽपरो नित्यस्तथा नैमित्तिकोऽपरः।

प्राधान्येन फलंशुद्धिरार्थिकी काम्यकर्मणः॥ २ ॥

प्राधान्येनात्मनः शुद्धिर्नित्यस्य फलमार्थिकम्।

केवलंप्रत्यवायस्य निवृत्तिरितरस्य तु॥ ३॥

काम्यरूपेषु यज्ञेषु यतन्ते श्रद्धया सह।

मन्दभाग्या नरा विप्रा नित्यनैमित्तिकात्मके।

महाभाग्याः प्रवर्तन्ते तेषां मुक्तिरयत्नतः॥ ४ ॥

विध्युक्तमिति बुद्ध्याये वर्तन्ते श्रद्धया सह।

एषु यज्ञेषु सर्वेषु तेषां मन्दफलंभवेत्‌॥ ५ ॥

शिवाराधनबुद्ध्याया ये यजन्ते श्रद्धया सह।

एषु यज्ञेषु ते शीघ्रं विमुक्तिफलमाप्नुयुः॥ ६ ॥

**___________________________________________________________**उद्देशानन्तरंतत्क्रमेण यतः कर्मयज्ञो जिज्ञासितः, अतस्तद्वैभवंवक्तुं प्रतिजानीते—अथात इति॥ १ ॥ काम्यकर्मनिमित्तफलप्राप्तिःप्रधानम्‌। अर्थाच्चित्तशुद्धिरपि भवति। यदाहुः—“विड्वाहादिदेहेषु न ह्यैन्द्रं भुज्यते पदम्‌”इति। नित्यस्य तु सत्त्वशुद्धिरेव प्राधान्येन फलम्‌। नैमित्तिकस्य प्रायश्चित्तादेरुपात्तदुरितक्षयः फलमित्यर्थः॥२॥३॥ परंपरयाऽप्यपवगोनुपयोगिषु प्रत्युत तत्प्रतिबन्धकेषु काम्ययज्ञेषु ये प्रवृत्तास्तेमन्दभाग्या इत्याह—काम्यरूपेष्विति ये तु नित्यनैमित्तिकेषु परंपरयाऽपवगेयोगित्वमभिसंधाय प्रवर्तन्ते ते क्रमेण मुच्यन्त इत्याह—नियनेमित्तिक इति ॥ ४ ॥ ये तु तेष्वेवाभिसंधिमात्ररहिता विध्युक्तमिलयेव प्रवतन्ते ते मन्दफढभागिन इत्याह—विध्युक्तमिति॥ ५ ॥ ये तुतान्येवेश्वराराधनबुद्ध्या कुर्वन्ति तेऽत्यन्तनिष्कामतया बुद्धिशुद्ध्यतिशयवन्तस्त्वरया मुच्यन्त इत्याह—शिवाराधनेति॥ ६ ॥

अकर्ताऽहमभोक्ताऽहमसङ्गोऽहमहं शिवः।

इति विज्ञाय मानेन स्वात्मानं तर्कतोऽपि च॥ ७॥

कर्मयक्षेषु ये नित्यं यतन्ते श्रद्धयाऽन्विताः।

ते महादेवविज्ञानमपरोक्षमवाप्नुयुः॥ ८ ॥

यज्ञरूपं महाविष्णुं यज्ञे पश्यन्ति ये द्विजाः।

ते तुविज्ञानमासाद्य कैवल्यं ज्ञानमाप्नुयुः॥ ९ ॥

प्राधान्येन महादेवो यज्ञैरिज्यो न चापरः।

इति ज्ञात्वा यजन्ते ये तेऽपि विज्ञानमाप्नुयुः ॥ १०॥

विष्णुं ब्रह्माणमिन्द्रं वा देवतान्तरमेव वा॥ ११ ॥

प्रधानबुद्ध्याये यज्ञैर्यजन्ते मोहतोऽपि वा।

ते यान्ति नरकं घोरं यावदाभूतसंप्लवम्‌॥ १२ ॥

नामतश्चार्थतो यस्तु महादेवो महेश्वरः।

स एव साम्बः सर्वज्ञ इज्यः सवैमहामखैः॥ १३ ॥

यानि लोकेऽनिषिद्धानि कर्माण्यविहितानि च।

तानि शंभोर्महापूजेत्येतज्ज्ञानं महामखः ॥ १४ ॥

________________________________________________________________________

अकर्त्रादिरूपमौपनिषदमात्मतत्त्वंमानेन तदनुग्राहकतर्केण च विज्ञाय कर्मयज्ञं कुर्वतः शिवसाक्षात्कारः फलमित्यह—

अकर्तऽहमिति॥ ७ ॥ ८ ॥अथवा यज्ञात्मको विष्णुरित्यभिसंधाने विज्ञानं भवति॥ ९ ॥प्राधान्येन शिव एव यष्टव्यस्तदङ्गत्वेन ब्रह्मविष्ण्वादयः॥ १० ॥ शिवादन्यस्य त्‌ प्राधान्येन यष्टव्यत्वाभिसंधाने नरक एवेत्याह—

विष्णुमित्यादि ॥ ११ ॥ मोहतोऽपि वेति। मोहतः प्रमादादिना प्रमादात्तुच्छं कृत्वाझटिति तत्त्यागे न दोष इत्यर्थः॥ १२ ॥ इत्थंभावे कारणमाह—

नामत इति॥ १३ ॥यानि लोकेऽनिषिद्धानीति।अनिषिद्धान्याविहितानि च निमेषकण्डूयनादीन्यपि शिवाराधनबुद्ध्या कृतानि फलन्तीत्यर्थः॥ १४ ॥ किंच निषिद्धन्यप्येवमाह–यानि कर्माणीति॥

यानि कर्माणि सर्वाणि निषिद्धानि श्रुतौस्मृतौ।
तानि चाऽऽराधनं शंभोरिति ज्ञानं महामखः॥ १५ ॥
ईश्वरार्थधिया पापान्यपि कर्माणि सुव्रताः।
भवन्ति पूतान्यत्यन्तं सत्यमेव न संशयः॥ १६ ॥
आर्द्रकाष्ठंमहानग्निःशुष्कंकृत्वा दहेद्यथा।
तथेश्वरधिया पापं शुद्धविज्ञानदं भवेत्‌॥ १७ ॥
विध्युक्तकर्मनिष्ठानामिष्ठस्य करणं तु यत्‌।
सोऽपि साक्षान्महायज्ञः सम्यग्ज्ञानस्य कारणम्‌॥ १८॥
विध्युक्तकर्मनिष्ठानामनिष्टकरणं तु यत्।
तन्महापातकं प्रोक्तं संसारस्य प्रवर्तकम्‌॥ १९ ॥
दुराचारिषु सर्वेषु विना दोषस्य दर्शनम्‌।
उपेक्षाबुद्धिरुत्पन्ना सा तस्यायं महामखः॥ २० ॥
बुद्धार्हतादिमार्गस्थेदेवताप्रतिमासु च।
देवताबुद्धिमात्रं यत्सोऽपि यज्ञः प्रकीर्तितः॥ २१ ॥
वैदिकं तान्त्रिकं हित्वा मार्गं स्वप्रज्ञया द्विजाः।

**___________________________________________________________**१५ ॥ तत्र कारणमाह—

ईश्वरार्थेति॥ १६ ॥ तत्रोदाहरणमाह—

आर्द्रकाष्ठमिति॥ १७ ॥ यत्पुनर्वैधं कर्मतत्र किमु वक्तव्यमित्याह—

विध्युक्तेति॥ १८ ॥ विध्युक्तकर्मनिष्ठानां यदनिष्टं तत्करणकर्तृृणां संसारापादनमित्यर्थः॥ १९ ॥ दुराचारिष्वपि दोषदर्शनमकृत्वोपेक्षैव कार्या।उक्तं हि पतञ्जलिना “‘मैत्रीकरुणामुदितोपेक्षाणां सुखदुःखपुण्यापुण्यविषयाणां भावनातश्चित्तप्रसादनम्‌” इति। तदाह—

दुराचारिष्विति। यस्य यादृश्युपेक्षाबुद्धिः सा तस्य महामख इत्यर्थः॥ २० ॥ बुद्धार्हतादिमार्गस्थेपुरुषे तदीयदेवताप्रतिमास्वप्यादरमकृत्वा देवताबुद्धिमात्रं समबुद्धित्वादविरुद्धं “शुनि चेव श्वपाके च पण्डिताः समदर्शिनः इति न्यायेनेत्याह—

बुद्धेति॥ २१ ॥ वेदेष्वागमेषु वाऽनुक्तम–

यत्रयो देवताबुद्धिंकरोति श्रद्धया सह॥ २२ ॥

सोऽपि यज्ञ इति प्रोक्तो मया वेदार्थवित्तमाः।

श्रद्धया सहितं सर्वं श्रेयसे भूयसे भवेत्‌॥ २३ ॥

स्वबुद्ध्यावेदशास्त्रोक्ते तन्त्रोक्तेऽपि द्विजोत्तमाः।

आस्तिक्यं देवताबुद्धिरपि लाभाय देहिनाम्‌॥ २४ ॥

फलेषु तारतम्यं तु विद्यते सूक्ष्मदर्शने॥ २५॥

कायिकः कर्मयज्ञस्तुकथितः संग्रहेण तु।

भवन्तोऽपि महायज्ञं कायिकं कुरुत द्विजाः॥ २६ ॥

इति श्रीस्कान्दपुराणे सूतसंहितायां चतुर्थे यज्ञवैभवखण्डे

कर्मयज्ञवैभवनिरूपणं नाम तृतीयोऽध्यायः॥ ३ ॥

__________

चतुर्थोऽध्यायः।

४. वाचिकयज्ञनिरूपणम्‌।

श्रीसूत उवाच—

अथाहंवाचिकं यज्ञं वक्ष्यामि श्रद्धया सह।

परात्परतरात्तस्माच्छ्विाच्चैतन्यलक्षणात्‌॥ १ ॥

________________________________________________________________________

पि यत्किंचिदाराधनं यज्ञःकिमुत तन्त्रोक्तमित्याह—वैदिकं तान्त्रिकमिति ॥ २२ ॥ २३ ॥ स्वबुद्ध्यधीने प्रतिमादो शास्त्रोक्ते च श्रद्धया विहिते श्रेयसे भवति॥ २४ ॥ तावन्मात्रमपि पर्याप्तं चेत्किमिति प्रागुक्तनियमविशेषादेरित्यत आह—फलेष्विति॥ २५ ॥ २६ ॥

इति श्रीसूतसंहितातात्पर्यदीपिकायां चतुर्थे यज्ञवैभवखण्डे

कर्मयज्ञवैभवनिरूपणं नाम तृतीयोऽध्यायः ॥ ३ ॥

उद्देशक्रमानुसारेण कायिकयज्ञानन्तरंवाचिकयज्ञं वक्तुं प्रतिजानीते–

स्वशक्तिसहितादेव द्विजा ज्योतिर्मयः परः ।
शब्दः सूक्ष्मः स्वभावेन प्रादुरासीदखण्डितः ॥

___________________________________________________________

अथाहमिति।तत्र प्रथमतो वागुत्पत्तिमाह—परात्परेति यदस्मिन्नध्याये वक्तव्यंतत्सर्वं प्रथमस्य शिवमहात्म्यखण्डस्य पञ्चमे शक्तिपूजाध्याये “मातृका च त्रिधा प्रोक्ता” इत्यस्य श्लोकस्य व्याख्याने प्रपञ्चितं। तदवेह तत्रतत्र प्रत्यभिज्ञाप्यते। अधिकश्चांशोविवरिष्यते।विमर्शरूपतमोविषयभावनिरन्तरश्चिदंशः परो बिन्दुः स एवेश्वरः। तस्मात्परतरो मायातीतो निष्कलस्तस्मान्निष्कलात्परतराद्यथोदीरितरूपः स्वमायाशक्तिविशिष्टचैतन्यज्योतिरूपो बिन्दुपदाभि धेयः पर ईश्वरो जात इत्यर्थः। तदुक्तमागमे—“अथोत्पत्तिं प्रवक्ष्यामि जातायां सर्वसंहृतौ। एक एव शिवस्त्वास्ते परमानन्दलक्षणः॥ जगदुत्पत्तिहेत्वर्थंनिष्कलात्परमाच्छिवात्‌। समुद्भूतः परस्तस्मात्‌” इति। तस्मात्परबिन्दुशब्दाभिधेयादचिदंशोबीजं चेदचिन्मिश्रांशो नादश्चिदंशोऽपरो बिन्दुरिति त्रिधा विभागसमये सूक्ष्मःशब्दो जात इत्यह—शब्दःसूक्ष्म इति। अखण्डित इति। मूलकारणस्थ विभज्यमानस्य बिन्दोः सर्वगतत्वात्तदात्मकतया सर्वत्रानुस्यूत इत्यर्थः।तथा सर्वगतस्यापि वैखरीरूपशब्दवाक्ये श्रोत्राग्राह्यत्वमेव सूक्ष्मत्वम। इन्द्रियागोचरत्वेकथं तदवभास इत्यत आह—स्वभावेन प्रादुरासीदीति। स्वप्रकाशबिन्दुकार्यतया तदात्मकत्वेन स्वयमपि स्वप्रकाशत्वस्वभावेन प्रादुर्भावः। एषएव शब्दः स्वप्रकाशत्वात्सर्वगतत्वाज्जगत्कारणतादात्म्याच्च शब्दब्रह्मेत्युच्यते ॥ १ ॥ २ ॥ तस्यैव शब्दब्रह्मणःपरावाग्रूपलक्षणदशाविशेषमाह—स शब्द इति।तस्य सर्वगतस्यापि प्राणिनामर्थविवक्षाहेतुकप्रयत्नजनितपवनसंबन्धनिबन्धना मूलाधारलक्षणप्रदेशविशेषे याऽभिव्यक्तिःसा पिण्डीभावस्तयैवाभिव्यक्तस्वप्रकाशस्थापि तस्य यो वैशद्यातिशयोऽस्वप्रकाशरूपतासाम्याज्जडप्रकाशेन प्रसिद्धेन तप्तजाम्बूनदरूपेणोपमीयते तप्तेति। तत्रपिण्डीभावदशोपहितो मूलाधारस्थस्वप्रकाशो निस्पन्दःशब्दः परा वागित्युच्यते स एवमूलाधारादानाभि विमर्शरूपेण मनसाऽभिव्यक्तो वैशद्यातिशयदशापन्नसामान्यस्पन्दनरूपः पश्यन्ती वागित्युच्यते।एते परापश्यन्त्यौ स्वप्रकाशत्वमनोविषयत्वाभ्यां निस्पन्दत्वसामान्यस्पन्दत्वाभ्यां वा पृथ–

स शब्दः पुनराधारे प्राणिनामास्तिकोत्तमाः।

पिण्डीभूततयाऽऽभाति तप्तजाम्बूनदप्रभः॥ ३ ॥

स पुनर्ब्रह्मनाड्या तु प्रविश्य हृदयाम्बुजम्‌।

विभक्तः सूक्ष्मरूपेण भाति वह्निप्रभः स्वतः॥ ४ ॥

________________________________________________________________________

क्त्वेन क्वचिन्निर्दिश्येते। इह तु विशेषस्पन्दविरहसाम्येनैकीकृत्य पिण्डीभावजाम्बूनदप्रभाभवाभ्यां विशिष्टैकस्वरूपतया निर्दिश्येते इति मन्तव्यम्‌।अननैवाभिप्रायेण “मातृका च त्रिधा स्थूलेत्यत्रपरापश्यन्त्यौसूक्ष्मतररूपत्वेनैकीकृत्य त्रैविध्यं वर्णितमिति॥ ३ ॥ तस्यैवेदानीं नाभेर्हृदयं प्राप्तस्य निश्चयात्मिकया बुद्ध्या विषयाकृतस्य विशेषस्पन्दरूपस्य मध्यमावाग्रूपतामाह—स पुनर्ब्रह्मेति। ब्रह्मनाड्या सुषुम्नया विभक्त इति तत्तदर्थविशेषविषयशब्दरूपविशेषोखिन्या बुद्ध्या निश्चित्य विकल्पेते विशेषस्पन्दरूप इत्यर्थः।अनेन मध्यमायाः परापश्यन्तीभ्यां विशेषो वर्णितः। वैखरीतो विशेषमाह—सूक्ष्मरूपेणेति। परश्रोत्रग्रहणायोग्यत्वंसूक्ष्मत्वम्‌।स्वत इति स्वगोचरया निश्चयात्मिकया बुद्ध्येत्यर्थः। आत्मीयवाचकात्स्वशब्दाट्टबन्तात्तृतीयार्थे सार्वविभक्तिकस्ततिः। “तसिलादिष्वाकृत्वसुचः” इति पुंवद्भावः। वह्निप्रभ इति पश्यन्तीवाग्रूपादपि वैशद्यातिशयो मध्यमाया वाच उच्यते।वह्निप्रभा हि बाह्यतमोपहरणसमर्था। तदसमर्थं जाम्बूनदप्रभत्वमिति विशेषः॥ ४ ॥ वैखरीं वक्तुमारभते—ब्रह्मरन्ध्रमिति। प्रविश्येत्यनुषङ्गः। पुनरिति तुशब्दार्थे। मध्यमात्स्थानाद्धृभदयाद्वैखरीस्थानस्य ब्रह्मरन्ध्रस्य भेदमाह—शिवस्येति। शिवस्य साक्षात्स्थानमापरोक्ष्यस्थानम्‌। शिवो हि परमानन्दरूपो जगदुपादानतया सर्वगतोऽपि ब्रह्मरन्ध्र उपास्यमानोऽचिरादपरोक्षो भवति। हृदयभ्रूमध्यादिषूपासनास्थानान्तरेषु संभवत्स्वपि ब्रह्मरन्ध्रेऽचिरादानन्दाभिव्यक्त्यतिशयादुत्तममित्युक्तम्‌। तथात्वे चाम्यासवतामनुमवः श्रुतिस्मृती च प्रमाणम्‌। श्रूयतेहि—“सैषा विदृतिर्नाम द्वास्तदेतन्नान्दनम्‌” इति \। स्मर्यते—“मृर्ध्न्याधायाऽऽत्मनः प्राणमास्थितो योगधारणाम्‌। ओमित्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन्‌॥ यः प्रयाति स मद्भावं याति नास्त्यत्र संशयः” इति॥

ब्रह्मरन्ध्रंपुनः साक्षाच्छिवस्य स्थानमुत्तमम्‌।

पिण्डीभूततया प्राप्य प्रकाशानन्दलक्षणे॥ ५ ॥

तत्र संनिहिते शंभौविश्रान्तिं लभते स्वतः।

आधारे परशक्तेस्तु स्थाने शब्दः प्रकाशितः॥ ६ ॥

परमेकाक्षरं साक्षाद्भवत्यत्यन्तशोभनम्‌।

आज्ञासंज्ञान्महास्थानादूर्ध्वंयत्स्थानमुत्तमम्‌॥ ७॥

________________________________________________________________________

५–७॥ प्रविष्टस्य कृत्यमाह—तत्रस्थ इति। द्विविधं ह्यक्षराणां स्वरूपं स्थलं सूक्ष्मं च। तत्र स्थुलं परश्रोत्रग्रहणयोग्यं वैखरीरूपतामापन्नमकारदिक्षकारान्तवर्णतत्समभिव्याहारपद-वाक्यमन्त्राद्यात्मकमनेकम्‌। सूक्ष्मंतु मध्यमारूपपरित्यागेन वैस्वरीरूपप्राप्ताभिमुख्य-लक्षणमेकं नादात्मकं प्रणवरूपम्‌।प्रणवो हि कण्ठोष्ठाद्यभिव्यङ्गयो बाह्यः स्थूलो नादात्मकश्च।सकलशब्दोपादानभूतो मृर्धन्यभिव्यज्यमान आन्तरः सूक्ष्ममक्षरम्‌। तस्य चाक्षररूपप्राप्ताभिमुख्यस्य नादात्मकता शब्द इत्यनेनोक्ता। उक्तं हि साम्बेन—“ओमित्यन्तर्नदाति नियतं यः प्रतिप्राणशब्दोवाणी यस्मात्प्रभवति परा शब्दतन्मात्रगर्भा” इति। तस्य मूर्धनि प्राणेनाभिव्यज्यमानस्य सकलवर्णोपादानत्वं शबरस्वामिभिरुक्तम्‌।“नाभेरुत्थितः प्राण उरसि विस्तीर्णः कण्ठे परिवृतो मूर्धानमाहत्य परावृत्तो विविधाञ्शब्दान्‌ व्यनक्ति” इति।अत्रच प्राणस्य नादाभिव्यञ्चकत्वम्‌। तदभिव्यक्तस्य तु नादस्यैव परापश्यन्तीमध्यमारूपस्य वर्णोपादानता। अत एव प्राणः शब्दान्‌ व्यनक्तीत्युक्तंपुनः प्रस्थितः इति। उक्तो नादः प्रसूत इत्युक्तसाम्बेनैव—“या सा मित्रावरुणसदनादुच्चरन्ती त्रिषष्टिंवर्णानन्तः प्रकटकरणैः प्राणसङ्गात्प्रसूते॥ तां पश्यन्तीं प्रथममुदितां मध्यमां बुद्धिसंस्थां वाचं वक्त्रे करणविशदां वैखरींच प्रपद्ये” इति॥ पश्यन्तीमध्यमयोर्वैखरीकारणे नादात्मके प्रणवेऽनुगतिमाह—तृतीय इति। पश्यन्तीमध्यमस्थाननाभिहृदया पेक्षयोक्ताक्षरस्थानस्य ब्रह्मरन्ध्रस्य तृतीयत्वम्‌। भ्रूमध्याद्यपेक्षया वर्णितादुत्कर्षात्परमा-धारत्वम्‌। वैखरीकारणभावस्य तत्र परिपूर्णत्वात्पूरकत्वम्‌। सकलपुण्यफलपरमानन्दा-भिव्यक्तिस्थानत्वेन च पुण्यभाजनत्वम्‌। अक्षरद्वयस्य तत्रैकाका–

तत्रस्थोऽयं द्विजाः शब्दः सूक्ष्मैकाक्षरतामियात्‌।

तृतीये परमाधारे पूरके पुण्यभाजने।

एकाकारत्वमाप्नोति स्वभावेनाक्षरद्वयम्‌॥ ८ ॥

अयमाद्यः परो मन्त्रः सुप्रसिद्धःस्वभावतः॥

मननत्राणरूपत्वान्मन्त्र इत्यभिशब्दितः॥ ९ ॥

________________________________________________________________________

रता नाम पश्यन्तीमध्यमयोरनुगतिरेव स्वभावेन तदात्मकतया। अथवा नादात्मकस्य प्रणवस्य प्रभावोऽयमुपवर्ण्यते। इत्थं नामायं प्रणवो महाप्रभावः। यदिहैवोत्तरत्र वर्णयिष्यमाणमहिम्नोऽजपामन्त्रस्यावयवभूतं हमिति स इति चाक्षरद्वयमत्रैकाकारतामापन्नम्‌। तत्र हेतुःस्वभावेति।स्वस्मादुक्ताक्षरद्वया। त्मभावेनोत्पाद्येत्यर्थःतथा हि—लीलयापरिगृहीतार्धनारीश्वरावतारस्य परशिवस्य पुंभागोऽहमित्युच्यते। प्रकृतिभागःस इति। सा च प्रकृतिः पुंसा तादात्म्यमात्मनो यदाऽनुसंधत्ते तदाऽजपातः सोऽहमिति परमात्ममन्त्रो जातःतत्र च सकारहकारयोर्लोपे संधौ च कृते प्रणवो जात इति वर्णितं प्रपञ्चसारे–‘हकारश्च पुमान्प्रोक्तः स इति प्रकृतिर्मता। अजपेयं मता शक्तिस्तथाः दक्षिणवामतः। बिन्दुर्दक्षिणभागस्थो वामभागो विसर्गकः। तेन दक्षिणवामाख्यौभागौ स्त्रीपुंससज्ञितो॥ बिन्दुः पुरुष इत्युक्तो विसर्गःप्रकृतिर्मता।पुंस्प्रकृत्यात्मको हंसस्तदात्मकमिदं जगत्‌॥ पुंरूपं सा विदित्वा स्वंसोऽहंभागमुपागता। स एष परमात्माख्यो मनुरस्य महामनोः। सकारं च हकारं च लोपयित्वा प्रयोजयेत्‌। संधि च पूर्वरूपाख्यं ततोऽसौ प्रणवोभवेत’॥इति॥८॥इत उत्पत्त्या मातृकायास्तदुत्पत्त्या चान्येषां मन्त्राणां तदनुसंधानार्थमस्य तावदाद्यमन्त्रतामाह—अयमाद्य इति। सर्वकारणत्वात्परः। ताल्वादिव्यञ्जकस्थानानपेक्षत्वात्स्वभावतः सुप्रसिद्धः। अत्र मन्त्रपदंव्युत्पादयाति—मननेति। तत्त्वस्य प्रबोधनेनैव संसारभयात्परित्राणे च शूरत्वान्मुख्यत्वात्‌। उक्तं हि—‘‘मननात्तत्त्वपदस्य त्रायते महतो भयात्‌"इति मन्त्रत्वमुच्यत इति॥ ९॥ यदर्थमस्य मन्त्रत्वमुक्तमिदानीं ततो मातृकाया उत्पत्तिमाह—मातृकेति। मातकातो हि सर्वे मन्त्राउद्ध्रियन्त इति सामन्त्रमाता। सा कथमस्मादुत्पद्येत यद्येष महामन्त्रो न स्या–

मातृका परमा देवी मन्त्रमाता महेश्वरी।

अस्मादाद्यान्महामन्त्रादाविर्भूता स्वभावतः॥ १० ॥

अधोमुखी भवेदेका चेका दयध्वेमुखी भवेत्‌।

तस्माच्छ्रीमातृका शुद्धा चाऽऽद्यमन्त्रात्मिकी भवेत।११॥

आद्योऽयं परमो मन्त्रः सप्रसिद्धोऽपि सुव्रताः।

गुरूपदेशतो ज्ञेयो नान्यथा शास्त्रकोटिभिः ॥ १२ ॥

________________________________________________________________________

दित्यर्थः॥१०॥ ननूदाहृतशबरस्वामिग्रन्थेप्राणाभिव्यक्तस्यैव नादस्य वैखरीरूपवर्णेत्पादकतोक्ता। साम्बस्तोत्रे च–‘प्राणसङ्गात्प्रसूतइति। वैखरीरूपशब्दोत्पत्तिसमये च श्वासप्रश्वासात्मकस्य प्राणस्योपरमे व्यञ्जकप्राणाभावादनभिव्यक्तो नादः कथं वैखरीमुत्पादयेदित्यत आह–अधोमुखीति। त्रिविधं हि प्राणस्य स्वरूपम्‌। एकमधोमुखी भवेत्पूरकरूपमपानवृत्त्यात्मकम्‌। एकमूर्ध्वमुखी भवेद्रेचकरूपं प्राणात्मकम्‌। अनयोः प्राणापानयोः संधिः कुम्भकरूपं व्यानवृत्त्यात्मकं तृतीयम्‌। तत्र प्रथमद्वितीययोरभावेऽपि तृतीयेन व्यानवृत्यात्मकेन प्राणनाभिव्यक्तो नादो बैखरीं वाचंजनयति। तदुक्तं छान्दोग्ये—“यद्वैप्राणिति स प्राणो यदपानिति सोऽपानः। अथ यः प्राणापानयोः संधिः स व्यानः सा वाक्‌। तस्मादप्राणन्ननपानन्वाचमभिव्याहराति” इति। अक्षरार्थस्तु। एकं रूपमधोमुखी भवेत्‌। एकमूर्ध्वमुखी भवेत्‌। यत्तु नाधोमुखं नोर्ध्वमुखं व्यानात्मकं प्राणस्य रूपंतद्वैखरीं जनयतो नादस्याभिव्यञ्जकमिति हृदयम्‌। न मुख्यत्वमुभयोः। तदभिव्यक्तनादात्मकप्रणवस्य मूलमन्त्रस्यातिरहस्यत्वेन गुरुप्रसादैकलभ्यत्वाभिप्रायेणाऽऽद्येति। तथा चाग्रे विवरिष्यति। मन्त्रात्मिकीति च्व्यन्तम्‌। “अस्यच्चौ"इतीकारः। शुद्धा चेति। उक्तप्रणवकारणतया तदातत्मकत्वेन ज्ञातैव सती मातृका सर्वात्मना ज्ञातत्वेन परिशुद्धा नान्यथेत्यर्थः॥ ११ ॥ उक्तेनातिरहस्यत्वेन वैभवमेवास्यमन्त्रस्य ज्ञेयमित्याह—आद्य इति॥ १२॥ न केवलंरहस्य एव किंतु सुप्रसिद्धोऽपि “ओमिति ब्रह्म, ओमितीदँसर्वं सर्वे वेदाः प्रणवादिका ओमिति प्रतिपद्यन्ते” इति। “एतद्वैयजुस्त्रयीं विद्याम्‌। वाक्संतृण्णा„

सर्वेषामादिभूतस्य शिवस्य परमात्मतः।

स्वप्रकाशस्वरूपस्य वाचकोऽयं परो मनुः॥ १२॥

नास्त्यतः परमो मन्त्रो न समश्चास्य सुव्रताः।

सत्यं सत्यंपुनः सत्यमुद्धृत्य भुजमुच्यते॥ १४ ॥

त्रिचतुर्वत्सरं शिष्यं परीक्ष्य सततं पुनः।

ईश्वरादेशतो देयो मन्त्रोऽयं मन्त्रिसत्तमैः॥ १५ ॥

अपरीक्ष्य प्रदानेन शीघ्रं मृत्युमवाप्नुयात्‌।

अर्जितः पुरुषार्थोऽपि वृथा भवति तस्य तु॥ १६ ॥

अस्य मन्त्रस्य वैशिष्ट्यं मया वक्तुंन शक्यते।

मुनिभिश्चतथा देवैः सर्वज्ञेन शिवेन च॥ १७ ॥

मन्त्राणां मातृभूता च मातृका परमेश्वरी॥ १८ ॥

बुद्धिस्था मध्यमा भूत्वा विभक्ता बहुधा भवेत्‌।

सा पुनः क्रमभेदेन महामन्त्रात्मना तथा॥ १९ ॥

________________________________________________________________________

ओङ्कार एवेदं सर्वम्” इत्यादिषु सर्वासुशाखास्वसकृद्व्यवहारात्सुप्रसिद्धः। तर्हीत्थं प्रसिद्धस्य कथं रहस्यत्वमिति चेत्‌।यथोदीरितशब्दब्रह्मदशाभूतपरापश्यन्तीमध्यमारूपतयाऽ-वतीर्यव्यानभिव्यङ्ग्यतयासकलवर्णपदवाक्यात्मकशब्दोपादनभावेनाविद्वद्भिरिति दुरधिगमत्वादिति ब्रूमः। श्रूयतेहि—“चत्वारि वाक्परिमिता पदानि तानिविदुर्ब्राह्मणा ये मनीषिणः। गुहा त्रीणि निहिता नेङ्गयन्ति तुरीयं वाचो मनुष्या वदन्ति”॥ इति ॥ १४ ॥ प्रसिद्धस्याप्यस्य मन्त्रस्य यदुक्तरीत्याऽतिरहस्यत्वं तदिदानीमाविष्कतेति। त्रिचतुर्वत्सरमित्यादि शिवेन चेत्यन्तेन॥ १५—१७ ॥ परपश्यन्तीदशयोरैकरूप्येण स्थिताया मातृकाया बुद्धौमध्यमादशायां बहुधा विभावप्राप्तिमाह—बुद्धिस्थेति। क्रमभेदेनेति। प्रथमतो नादात्मकप्रणवरूपेण पश्चाद्व्यानरूपप्राणाभिव्यक्त्याकण्ठताल्वादिस्थानविशेषेषु वर्णपदवाक्याद्यात्मनाऽनुक्रम

मन्त्रात्मना च वेदादिशब्दाकारेण च स्वतः।

सत्येतरेण शब्देनाप्याविर्भवति सुव्रताः॥ २० ॥

यथा परतरः शंभुर्द्विधा शक्तिशिवात्मना।

तथैव मातृका देवी द्विधाभूता भवेत्स्वयम्‌॥ २१ ॥

एकाकारेण शक्तेस्तुवाचकश्चेतरेण तु।

शिवस्य वाचकः साक्षाद्विद्येयं पदगामिनी॥ २२ ॥

________________________________________________________________________

भेदः। महामन्त्रात्मना नादरूपप्रणवात्मना ॥ १८ ॥ १९॥ मन्त्रात्मना ऋग्यजुःसामदिरूपेण च ऋगादिकं च मुख्यो मन्त्रः “अहेबुध्निय मन्त्रं मे गोपाय। यमृषयस्त्रयिविदा विदुः। ऋचः सामानि यजूंषि”इति श्रुतेः। स्वतः स्वेनैव रूपेण शब्दोहि वर्णपदवाक्यात्मकः। वस्त्ववस्तुविषयाश्रिता तदितरथा भवत्युक्तरूपा वागेव तेनापि॥ २० ॥ नन्वकाराद्यात्मिकाया मातृकाया एकरूपाया एव कथं श्रीकण्ठादिशिवमूर्तिप्रतिपादकत्वं पूर्णोदयादिशिवशक्तिमृर्तिप्रतिपादकवत्वंच तत्राऽऽह—यथा परतर इति। उक्तात्परादपि परो निष्कलःयः स परतरः। स यथा स्वप्रतिष्ठेन रूपेण निष्कलःशिवः। कार्याभिमुखेन तु शक्यप्रतियोगिनिरूप्येण रूपेण शक्तिरिति द्विरूपो जातः। एवमियमक्षरात्मिका मातृकाऽपि स्वकारणतयास्वानुगतशिवप्राधान्येन शिवमूर्तीनां तथाविधशक्तिप्राधान्येन च शक्तिमूर्तीनामपि प्रतिपादिका किं न स्यादित्यर्थः॥ २१ ॥ २२ ॥ ननु सा मातृकावाङ्मनसातीतं शिवशक्त्यात्मकं परमशिवस्वरूपं कथं प्रतिपादयेदित्यत आह—अपदंपदमापन्नमिति। पद्यते प्राप्यत इति पदमिन्द्रियगोचरं वस्तु। अपदमविषयंवाङ्मनसातीतं सञ्चिदानन्दाखण्डैकरसं प्रागुदीरितंपरशिवस्वरूपम्‌ “अपदस्य पदैषिणः‚ अपि तर्हि पद्यते” इति श्रुतेः। तदेव स्वशक्तिमहिम्ना प्रागुक्तरीत्या परबिन्दुनादादिक्रमेण परा पश्यन्ती मध्यमा वैखरीत्येवमात्मकं पदं जातम्‌। पद्यते प्राप्यतेऽनेन परं तत्त्वमिति परमन्त्रात्मिका मातृकाविद्या परापश्यन्त्याद्यात्मिका सा मातृका परशिवस्वरूपं विदुषः पुरुषस्यापदं भवेत्‌। अपदस्यापदनीयस्य वाङ्मनसागोचरस्य प्रागुक्तपरशिवस्वरूपस्य दात्री प्रतिपादयित्री भवतीत्यर्थः।

अपदंपदमापन्नं पदंचाप्यपदं भवेत्‌।

पदापदविभागं च यः पश्यति स पश्यति॥ २३ ॥

पदस्थस्य जिता मन्त्रा भवेयुःपण्डितोत्तमाः।

पदाभ्यासपराणां तु न किंचिदपि दुर्लभम्‌॥ २४ ॥

अंश एकः पदस्यायमुपकाराय देहिनाम्‌।

भवेत्षोडशधा पूर्वं पञ्चधा च द्विधा पुनः॥ २५॥

________________________________________________________________________

अविषयमपि तत्स्वरूपमविद्योपाधिं विषयीकृत्य प्रकाशयन्ती मातृकाविद्या स्वविषयावरणभूतामविद्यांसमूलमुन्मूलयन्ती यथोदीरितपरशिवस्वरूपं विदुषः स्वात्मतया प्रापयतीत्यर्थः। यद्वाअपदं पदमिति, नादात्मकं शब्दब्रह्म परा पश्यन्ती मध्यमा वैखरीत्येवंरूपं सत्पदं जातम्‌। अस्ति हि परापश्यन्त्याद्यवस्थस्यापि पदाभिधेयता। श्रूयते हि—“चत्वारि वाक्परिमिता पदानि” इति तत्पद सम्यग्ज्ञातं सन्मूलभूतं शब्दब्रह्म स्वकारणत्वेनावगमयत्तत्प्राप्तिहेतुर्भवतीत्यर्थः। इत्थमुक्तं पदापदविभागं यो जानाति स एवपरशिवस्वरूप साक्षात्करोति ॥ २३॥ उक्तलक्षणे मातृकात्मके पदे तात्पर्येण परिशीलयन्यो वर्तते तस्यैव तत्प्रभेदा मन्त्राःसिध्यन्तीत्याह—पदस्थस्येति ॥ २४ ॥ परा पश्यन्तीमध्यमा वैखरीत्येवं चतुरवस्थस्य पदस्य यस्तुर्रायोंऽशो वैखर्यात्मकः स एव शरीरिणां प्रेषणाध्येषणादिव्यवहारहतुरित्याह—अंश एक इति। परश्रोत्रग्राह्यात्मकं वैखर्यात्मकमेव पदांशं मनुष्यादयोऽभिवदन्तीत्यर्थः “गुहा त्रीणि निहिता नेङ्गयन्ति तुरीयं वाचो मनुष्या वदन्ति„इति श्रुतेः। स च वैखर्यात्मकः शब्दः स्वत एवैकरूपोऽपि कण्ठताल्वाद्यभिव्यक्तिस्थानभेदात्स्वरव्यञ्जनादिभेदेन नानात्वं भजत इत्याह—भवेत्षोडशधेत्यादिना बहुविधं भवेदित्यन्तेन। अकारादिविसर्गान्तषोडशस्वरात्मना प्रथमं षोडशधा भवति। कचटतपादिपञ्चवर्गात्मना पञ्चधा भवति। पुनरन्तस्थोष्मभेदेन द्वेधा। षोडशस्वरात्मको यः पूर्वोऽशः स एव सानुनासिकनिरनुनासिकभेदेन द्विगुणितः सन्द्वात्रिंशद्भेदवान्भवति। पुनश्च काद्याःपश्चविंशतिर्यादयोहकारान्ता अष्टाविति। एवंच त्रयस्त्रिंशद्भेदवान्भवति। एवं स्वरव्यञ्जनभेदेनोक्तं वर्णजातं द्विविधं

पदस्यांशोऽपरः पूर्वोद्वात्रिंशद्भेदमाप्नुयात्‌।

त्रयस्त्रिंशत्पुनर्भेदं तथैव द्विविधं भवेत्‌॥ २६ ॥

एवं लोकोपकाराय पदं बहुविधं भवेत्‌॥ २७ ॥

एकैकाकारभूतश्चैकार्थसिद्धिर्भवेत्स्वतः।

वैदिकान्केचनाऽऽकारानुपजीवन्ति सिद्धये॥ २८ ॥

तान्त्रिकांश्च तथाऽऽकारानुपजीवन्ति केचन।

लौकिकानपि चाऽऽकारानुपजीवन्ति केचन॥ २९ ॥

यथा सर्वे महादेवमुपजीवन्ति सर्वदा।

यथा वा शक्तिमीशस्य यथा वा भूतपञ्चकम्‌।

तथा सर्वे पदाकारानुपजीवन्ति सवेदा॥ ६० ॥

मातृका परमा देवी स्वपदाकारभेदिता।

वैखरीरूपतामेति करणैर्विशदा स्वयम्‌॥ ३१ ॥

_________________________________________________________________________________________

भवेदित्यर्थः॥ २५—

२७ ॥ इत्थं स्वरव्यज्ञनात्मना ये पदस्याऽऽकारास्तेप्रत्येकं मन्त्रास्तेष्वेकेकस्प जपत्साधकस्याभिलषितसिद्धिर्भवतीत्याह—

एकैकाकारतश्चेति। अधिकारिभेदेन तानेवाऽऽकारभेदान्विभज्य विनियुङ्क्ते। वैदिकानित्यादिना। वेदार्थाभिज्ञाः केचिद्विद्वांसः, ऋग्यजुःसामात्मकानाकारान्स्वानुष्ठासिद्धयेउपजीवन्ति। आगमाभिज्ञास्त्वन्ये हुंफडादिलक्षणानागमेैकसमधिगम्यान्स्वानुष्टानसिद्धयेव्यवहरन्ति ॥ २८ ॥ २९॥ न केवलं यथोदीरितैःकैश्चिदेव पदाकारा उपजीव्या अपितुसर्वप्राणिभिरपीत्याह—

यथा सर्वइति। शिवशक्त्यात्मकं परशिवस्वरूपमुत्पत्तिस्थितिलयाधिष्ठानत्वेन यथोपजीव्यते कार्यप्रपञ्चेन यथा वा पृथिव्यादिभूतपञ्चकं देहाद्युपदानतयाऽवश्यमाश्रियते, एवमेव देवतिर्यङ्मनुष्यादयःपदाकारान्स्वस्वभाषानुरूपेण सर्वदोषजीवन्तीत्यर्थः॥ ३० ॥ नन्वेते पदाकारा वैखर्यात्मका एव परश्रोत्रेण गृह्यन्ते वैखर्यात्मकत्वंतु कुतो मातृकाया इत्यत आह—

मातृकापरमेति। परापश्यन्त्याद्यात्मनोद्गता नानावर्णात्मिका मातृका ताल्वादिस्थानेषु करणविशषैरभिव्यज्यमाना विस्पष्टरूपा सती वैखर्यात्मकतां प्रतिपद्यतइत्यर्थः॥ २१ ॥

स्थूला सूक्ष्मा सुसूक्ष्मा च त्रिविधा मातृकेश्वरी।

सा देवी शक्तिसंभिन्ना शिवस्यामिततेजसः॥ ३२ ॥

वाचामगोचराकारो मातृकायास्तथा परः॥ ३३ ॥

ब्रह्मविष्ण्वादिदेवानामचिन्त्यःसूक्ष्मताविधिः।

चिन्मयः परचिद्रूपः शिवासंभिन्न एव हि॥ ३४ ॥

बुद्ध्वामन्त्रजपं कुर्यादेवं मन्त्रस्य वैभवम्‌।

आचार्यमुखतः प्राज्ञाः सिध्यत्येवाचिरेण तु।

आचार्यरहितो मन्त्रःपुंसोऽनर्थस्य कारणम्‌॥ ३५ ॥

इति श्रीस्कान्दपुराणे सूतसंहितायां चतुर्थेयज्ञवैभवखण्डे

वाचिकयज्ञविवरणं नाम चतुर्थोऽध्यायः ॥ ४॥

___________________________________________________________

वैखरीव्यतिरेकेण पराप्श्यन्त्याद्यात्मिका मातृका नैवास्तीति न भ्रमितव्यमितिप्रागुक्तं मातृकत्रैविध्यं स्मारयति—स्थूला सूक्ष्मेति। एतच्छक्तिपूजाविधौ “मातृका च त्रिधा स्थूला इत्यत्र सम्यक्प्रपञ्चितम्‌। एवंत्रिविधाऽपि मातृका शक्त्यवस्थस्य शिवस्य प्रतिपादिकेत्याह—सा देवीति। शक्यप्रतियोगिकंपरशिवस्वरूपमेव शक्तिरितिप्रक्प्रतिपादितं तत्संभिन्ना प्रतिपाद्यप्रतिपादकभावेन तत्स्वरूपाविष्ठेत्यर्थः॥ ३२ ॥ परापश्यन्त्याद्यवस्थातः प्राक्‌, बिन्दुनादाद्यात्मकं यन्मातृकायाः सूक्ष्मं रूपंतत्स्वप्रतिष्ठस्यपरशिवस्वरूपस्य प्रतिपादकं सत्तदात्मकेमेव भवतीत्याह—वाचामगोचरेति। वाङ्मनसयोरगोचरं ब्रह्मविष्ण्वादिभिरप्य-चिन्तनीयं बिन्दुनादात्मकं यत्सूक्ष्मतरं रूपं मातृकायास्तत्स्वप्रकाशो परशिवस्वरूप-चैतन्येऽध्यस्तत्वाच्चिन्मयं चिद्व्याप्तंपरमार्थतस्तत्स्वरूपानतिरेकाच्चिद्रूप एवंभूतस्सूक्ष्मो मातृकाकारः शिवासंभिन्नःस्वप्रतिष्ठस्य निष्कलपरशिवस्वरूपस्य प्रत्यायक इत्यर्थः॥ ३३ ॥ ३४ ॥ इत्थमुक्तमाचार्यमुखाद्यो वेद तस्यैव मन्त्रःपुरुषार्थसाधको नान्यस्येति ब्रुवन्नुपसंहरति -बुद्ध्वेति ॥ ३५ ॥

इति श्रीसूतसंहितातात्पर्यदीपिकायां यज्ञवैभवखण्डे वाचिकयज्ञविवरणं

नाम चतुर्थोऽध्यायः ॥ ४ ॥

पञ्चमोऽध्यायः॥

५.प्रणवविचारनिरूपणम्‌।

सूत उवाच—

प्रणवं संप्रवक्ष्यामि समासेन न विस्तरात्‌।

परापरविभागेन प्रणवस्तु द्विधा मतः॥ १ ॥

परः परतरं ब्रह्म प्रज्ञानन्दादिलक्षणम्‌।

प्रकर्षेण नवं यस्मात्परं ब्रह्य स्वभावतः॥ २॥

अपरःप्रणवःसाक्षाच्छब्दरूपःसुनिर्मल।

प्रकर्षेण नवत्वस्य हेतुत्वात्प्रणवः स्मृतः।

परमप्रणवप्राप्तिहेतुत्वात्प्रणवोऽथ वा॥ ३ ॥

________________________________________________________________________

इत्थं सकलमन्त्रमूलभूतपश्चाशद्वर्णात्मिकां प्रणवावयवेभ्यश्चाकारोकारमकारबिन्दुनादेभ्यः पञ्चभ्यः पश्चाशत्कलारूपेणोत्थितां मातृकामभिधायाथ तत्कारणभूतं परापरब्रह्मात्मकं प्रणवं वक्तुमारभते–प्रणवमिति। “एतद्वै सत्यकाम परं चापरं च ब्रह्म यदोङ्कारः"इति श्रुतौयदुक्तं द्वैविध्यंतदभिपप्रेत्याऽऽह–परापर–विभागेनेति॥ १ ॥ तत्र कोऽसौ परः प्रणव इति तमाह—परःपरतरमिति। सत्यज्ञानानन्दैकरसं मायातत्कार्यासंस्पृष्टं यत्परशिवस्वरूपंस परः प्रणवः। कुतस्तस्य प्रणवशब्दाभिधेयतेत्याशङ्क्यनिर्वक्ति—प्रकर्षेणेति। यस्मात्तत्परशिवस्वरूपं कारणान्तरमनपेक्ष्य प्रकर्षेण नवमशेषविक्रियाविरहेण कूटस्थानित्यं सत्परमानन्दप्रकाशना-त्सर्वदाऽभिनवमतस्तथाविधस्वरूपस्य प्रणवशब्दाभिधेयतेत्यर्थः॥२॥ अपरप्रणवमाह—अपर इति। अस्यापि नामधेयानि ब्रूते—परकर्षेणेति। अनेन मन्त्रेण यथोक्तपरशिवस्वरूपं स्वात्मतया विदुषः पुंसोऽभिनवत्वप्राप्तिहेतुस्तत्प्रकर्षेण नवो भवत्यनेनेति व्युत्पत्त्या तत्प्रणवः। यद्वा यः प्रागुक्तः परमः प्रणवस्तद्वाचकत्वेन तत्प्राप्त्युपायत्वाच्छब्दात्मकस्यास्य प्रणवाभिधेयता ॥३॥ अथास्य सकलवेदसारात्मकत्वमाविष्कर्तुमैतरेयके-‘प्रजापतिरकामयत प्रजायेयं भूयान्स्याम्‌’ इत्यत्रपृथिव्यादीनामुत्तरोत्तरसारात्मना

पुरा प्रजापतिः साक्षाच्छ्रद्धया परया सह॥ ४॥

भस्मोद्धूलितसर्वाङ्गस्त्रिपुण्ड्राङ्कितमस्तकः॥

जितेन्द्रियो जितक्रोधो जटावल्कलसंयुतः॥ ५ ॥

सदा पञ्चाग्निमध्यस्थः साम्बध्यानपरायणः।

तताप परमं घोरं तपः संवत्सरत्रयम्‌॥ ६ ॥

स पुनः शंकरस्यास्य प्रसादादम्बिकापतेः।

पृथिवीमन्तरिक्षं च दिवं चासृजदास्तिकाः॥ ७ ॥

स तानभ्यतपल्लोकांस्तेभ्यो वेदविदां वराः।

त्रीणि ज्योतींष्यजायन्त पृथिव्या एव तत्र तु॥ ८॥

अजायताग्निर्वायुश्च ब्रह्मणाश्चान्तरिक्षतः

दिवो दिवाकरः साक्षाज्जगञ्चक्षुरजायत॥ ९॥

तानि चाभ्यतपज्ज्योतींष्यजस्तेभ्यो महाद्विजाः।

त्रयो वेदा अजायन्त वेदानां प्रथमोऽनलात्‌॥ १०॥

यजुर्वेदस्तथा वायोरादित्यात्सामसंज्ञितः।

वेदानभ्यतपत्तांश्चब्रह्मा तेभ्यो महाद्विजाः॥ ११ ॥

त्रीणि शुल्कान्यजायन्त तत्रब्रह्मविदां वराः।

ऋग्वेदादेव भूस्तद्वद्यजुर्वेदाद्भुवस्तथा॥ १२ ॥

सामवेदात्सुवस्तानि शुक्लान्यभ्यतपत्प्रभुः।

तथा तेभ्योऽभितप्तेभ्यस्त्रयो वर्णा द्विजोत्तमाः॥ १३ ॥

_________________________________________________________________________________________

या सृष्टिरुक्ता तामत्र सुखावबोधाय श्लोकैःसंगृह्णाति—

पुरा प्रजापतिरित्यादिना सुव्रता इत्यन्तेन। पृथिव्यन्तरिक्षद्युलोकानामग्न्यादयःसारात्मकाः। तेषामृग्वेदादयः। तेषां च व्याहृतयः। ताभ्यश्चाकारोकारमकाराः सर्वसारत्वेन

~~~~अजायन्त क्रमेणैवकोटिसूर्यसमप्रभाः।

अकारश्चतथोकारो मकारश्चेति सुव्रताः॥ १४ ॥

तानेकधा समभरदज ओमित्ययंप्रभुः।

तस्मिन्नेवशिवः साम्बः सर्ववस्त्ववभासकः।

प्रतिबिम्बितवांस्तेन प्रणवस्तस्य वाचकः॥ १५ ॥

तप्तलोहादिवच्छंभोरभेदात्प्रणवोऽपि सः।

सर्वावभासकोनित्यमभवत्पण्डितोत्तमाः॥ १६ ॥

ज्ञातार्थेज्ञातमित्येवं वक्तव्ये सति तद्विना।

ओमिति प्राह लोकोऽयंतेन ज्ञातस्य वाचकः॥ १७ ॥

_________________________________________________________________________________________

लौकिकप्रकाशाःप्रजापतिना निःसारिता इत्यर्थः ॥ ४—

१४ ॥ किमेतावता प्रणवस्य सर्वसारतेत्याह—

तानेकधेति। प्रजापतिस्तानेवाकारादीनेकत्वेन संयोजितवान्‌। तस्मात्‌ “आद्गुणः ” इति गुणे कृते, ओमिति मन्त्ररूपं निष्पद्यते। अथास्यमन्त्रस्यमन्त्रान्तराद्वैशिष्ट्यमाह—

तस्मिन्नेवेति। यदुक्तरीत्या पृथिव्यादिसर्वसारत्वेन निर्मलःप्रणवस्तस्मिन्नेव मन्त्रे, आदर्शे मुखमिव स्वप्रकाशचिद्रूपः परशिवः प्रतिबिम्बतया भासते। अतस्तस्य स प्रणवो वाचको जातः। तथा च पारमर्षं सूत्रं “तस्यवाचकः प्रणवः” इति॥ १५ ॥ तप्तायःपिण्डवत्प्रतिबिम्बितस्वप्रकाशपरशिवचैतन्येन सहैकीभावादतस्तत्प्रणवोऽपि सर्ववस्त्ववभासको जात इत्याह—

तप्तलोहादिवदिति॥ १६ ॥ इदमेव सर्वावभासकत्वमुपपादयति—

ज्ञातार्थ इत्यादिना ब्रह्मणा सदृशः स्मृत इत्यन्तेन। ज्ञाताज्ञातसंदिग्धेष्वर्थेप्वाकाशादिषु च पृष्टः सर्वो जनः किमिदं भवता ज्ञातमित्यादिप्रश्नस्य ज्ञातमित्यादिप्रतिवचनपरिहारेण यस्मादोमित्येव प्रतिब्रूते तस्माज्ज्ञाताज्ञातादिपदवदयमपि तत्तदर्थस्य पर्यायतया वाचकः। यथा घटकुड्यादिशब्दानां पृथुबुध्नोदरकारलक्षणोऽर्थःप्रातिस्विको वाच्य एवमस्याप्युक्तरीया सर्वेष्वर्थेषु प्रयोगस्यरूढत्वात्सर्वावभासकत्वम्‌। अत एवछन्दोगाः प्रणवस्यानुज्ञाक्षरत्वमामनन्ति “तद्वाएतदनुज्ञाक्षरं यद्धि किंचानुजाना–

अज्ञातार्थेतथाऽज्ञातमिति प्राप्तेतुवाचके।

ओमिति प्राह लोकोऽयं तेनाज्ञातस्य वाचकः॥ १८ ॥

संदिग्धार्थेतु संदिग्धमिति प्राप्ते तुवाचके।

ओमिति प्राह लोकोऽयं तेन संदिग्धवाचकः॥ १९ ॥

आकाशादिपदार्थानां ये शब्दा वाचका भुवि।

विना तानखिलाञ्शब्दाॅल्लोक ओमिति भाषते॥ २० ॥

अतः प्रयोगबाहुल्याद्घटकुड्यादिशब्दवत्‌।

आकाशादिपदार्थानां वाचकः प्रणवः स्मृतः॥ २१ ॥

सर्वावभासकत्वेन ब्रह्मणा सदृशःस्मृतः॥ २२ ॥

सर्वावभासकं मन्त्रमिमं जपति यो द्विजः।

सर्वमन्त्रजपस्योक्तं फलंस लभतेऽचिरात्‌।

अतः सर्वं परित्यज्य सदा मन्त्रमिमं जपेत्‌॥ २३ ॥

ऋषिर्ब्रह्माऽस्य मन्त्रस्य गायत्री छन्दउच्यते।

परमात्माभिधः शंभुर्देवता परिकीर्तिता॥ २४ ॥

अकारो बिन्दुसंयुक्तः शक्तिरस्य द्विजोत्तमाः॥ २५ ॥

_________________________________________________________________________________________

त्योमित्येव तदाह” इति ॥ १७—२२ ॥ इत्थं प्रणवस्य सर्वावभासकत्वमुपपाद्यतद्धेतुकं प्रणवजपतिशयं दर्शयति—सर्वावभासकंमन्त्रमिति। एतद्व्यतिरिक्तसकलमन्त्रजपाद्य-त्फलंतत्प्रणवजपनैवाऽऽप्नोतीत्यर्थः। प्रणवस्य सर्वमन्त्रात्मकत्वात्सर्ववेदसारत्वाच्च। श्रूयते हि—“यः प्रणवमधीते स सर्वमधीते”इति। ‘ओमिति प्रतिपद्यत एतद्वैयजुस्त्रयीविद्यां प्रत्येति’इति च॥ २३ ॥ऋष्यादिज्ञानपुरःसर एवमन्त्रो जपार्हइत्यभिप्रेत्य तदाह—ऋषिर्ब्रह्मत्यादि॥ २४ ॥ २५॥ अस्य मन्त्रस्य सर्वावभासकत्वात्स्वेतरसकलमन्त्रफलसाधन-त्वमुक्तम्‌। न केवलं तावदेव मोक्ष एवास्यासाधारणं फलमित्याह—

उकारश्चमकारश्च द्वयं बीजं प्रकीर्तितम्‌।

मोक्षार्थेविनियोगोऽस्य प्रोक्तो वेदान्तवेदिभिः॥ २६ ॥

अग्निश्चवायुः सूर्यश्च वर्णानां मुनयः क्रमात्‌।

गायत्री च तथा त्रिष्टुब्बृहती च यथाक्रमम्‌॥ २७ ॥

छन्दांसि ब्रह्मविच्छ्रेष्ठा वर्णानां च यथाक्रमम्‌।

ब्रह्मा विष्णुश्च रुद्रश्च वर्णानां देवताः क्रमात्‌॥ २८ ॥

रक्तं शुक्लंच कृष्णं च क्रमाद्वर्णाउदाहृताः।

जाग्रत्स्वप्नसुषुप्तिश्चावस्थाः प्रोक्ता यथाक्रमम्‌॥ २९ ॥

भूम्यन्तरिक्षस्वर्गाश्च स्थानानि क्रमशोविदुः।

उदात्तप्रमुखा विप्राः स्वराः प्रोक्ता मनीषिभिः।

ऋग्यजुःसामसंज्ञाश्चवेदाः प्रोक्ता यथाक्रमम्‌॥ ३० ॥

अग्नयो गार्हपत्याग्निर्दक्षिणाग्निस्तथैव च।

प्रोक्तश्चाऽऽहवनीयाग्निर्वर्णानां क्रमशो द्विजाः॥ ३१ ॥

प्रातर्मध्यंदिनं सायं काला उक्ता यथाक्रमम्‌।

रजः सत्त्वं तमश्चैव गुणा उक्ता यथाक्रमम्‌॥ ३२ ॥

सृष्टिः स्थितिश्च संहारः क्रियाः प्रोक्ता यथाक्रमम्‌।

उत्पत्तौ च स्थितौनाशेविनियोगा उदाहृताः॥ ३३ ॥

अङ्गुष्ठादिकनिष्ठान्तमङ्गुलीनां च संधिषु।

क्रमाद्वर्णत्रयन्यासः कर्तव्यः सिद्धिमिच्छता॥ ३४ ॥

_________________________________________________________________________________________

मोक्षार्थइति॥ २६ ॥ अथैतस्यावयवानामकारोकारमकाराणां जपकाले स्मर्तव्यानृष्याद्यानाह—

अग्निश्चेत्यादिना विनियोगा उदाहृता इत्यन्तेन॥२७—

३३ ॥ अङ्गुष्ठादीति। अकारादीन्यक्षराण्यङ्गुष्ठाद्यङ्गुलीनां त्रिषु संधिष्वङ्गुष्ठादिकनिष्ठान्तं प्रत्येकं न्यस्तव्यानीत्यर्थः ॥ ३४ ॥ एवं वर्णन्यासं कृत्वातास्वे

अड्गुलीषुच सर्वासु प्रणवन्यास ईरितः॥ ३५॥

भूरग्न्यात्मन इत्यादिमन्त्राश्च क्रमशो द्विजाः।

विन्यस्तव्याश्च सिद्ध्यर्थमङ्गुलीषु द्विजन्मना॥ ३६॥

क्रमाद्वर्णत्रयन्यासो नाभौहृदि च मूर्धनि।

कर्तव्यः सर्वयत्नेन प्रणवेन तथैव च॥ ३७॥

हृदयादिप्रदेशेषु क्रमेणैव द्विजोत्तमाः।

भूरग्न्यात्मन इत्यादिमन्त्राणां न्यास ईरितः॥ ३८॥

एवं न्यस्य विधानेन ध्यात्वा साम्बं त्रियम्बकम्‌।

जपेन्मन्त्रवंर भक्त्यालक्षाणां दशकं द्विजाः॥ ३९॥

ततः सिध्यति मन्त्रोऽयं सत्यमेव न संशयः।

षट्कर्माणि प्रसिध्यन्ति तथैवाष्टविभूतयः॥ ४०॥

अपवर्गः स्वतःसिद्धःपापैः सर्वैः प्रमुच्यते।

सर्वविद्यालयोभूत्वा यथेष्टं फलमाप्नुयात्‌॥ ४१॥

इति श्रीस्कन्दपुराणे सूतसंहितायां यज्ञवैभवखण्डे

प्रणवविचारो नाम पञ्चमोऽध्यायः॥ ५॥

_________________________________________________________________________________________

वाङ्गुलीषु तत्समुदायात्मकःप्रणवोऽपि न्यस्तव्य इत्याह—अङ्गुलीष्विति॥ ३५ ॥ भूरग्न्यात्मन इत्यादयोऽङ्गमन्त्रास्तेऽङ्गष्ठाद्यङ्गुलीषु न्यस्तव्याइत्यर्थः॥ ३६ ॥ पुनरकारादिवर्णत्रयं विभज्य नामिहृन्मूर्धसु प्रत्येकं न्यस्तव्यंततस्तेष्वेव स्थानेषु तत्समुदायस्य प्रणवस्य न्यासः कर्तव्य इत्याह—क्रमाद्वर्णेति॥ ३७ ॥ ततो हृदयादिदेशेषु भूरग्न्यात्मन इत्यङ्गमन्त्रान्न्यसेदित्याह—हृदयादीति। शिष्टं स्पष्टम॥ ३८—४१ ॥

इति श्रीसूतसंहितातात्पर्यदीपिकायां यज्ञवैभवखण्डे प्रणवविचारो

नाम पञ्चमोऽध्यायः॥ ५ ॥

__________

षष्ठोऽध्यायः।

६. गायत्रीविवरणम्‌

सूत उवाच—

सावित्रीमथ वक्ष्यामि व्याहृत्या शिरसा सह।

भूरादिव्याहृतीनां तु मुनयः परिकीर्तिताः॥ १ ॥

अत्रिर्भृगुश्च कुत्सश्चवसिष्ठो गौतमस्तथा।

कश्यपश्चाङ्गिराश्चेति क्रमेण मुनिपुङ्गवाः॥ २ ॥

व्याहृतीनां क्रमेणैव छन्दांसिकथितानि तु।

देवीगायत्रमाद्यं स्यादुष्णिहा तदनन्तरम्‌॥ ३ ॥

अनुष्टुब्बृहती पङ्क्तिस्रिष्टुप्च जगती तथा।

अग्निर्वायुस्तथाऽर्कश्च वागीशो वरुणस्तथा॥ ४॥

इन्द्रश्चविश्वेद्वेवाश्चक्रेमेणैव तु देवताः।

व्याहृतीनां तुसर्वत्र विनियोगः प्रकीर्तितः॥ ५ ॥

___________________________________________________________इत्थं त्रयीसारं प्रणवमभिधाय प्रकृत्यादिचतुर्विशतितत्त्वात्मिकां द्विजातीनां भुक्तिमुक्तिकरीं त्रयीमातरं सावित्रींप्रस्तौति—

सावित्रीमथेति। व्याहृतयो भूराद्याःसप्त।ओमापो ज्योतिरिति शिरः। अथैतासां व्याहृतीनामृष्याद्यानाह—

भूरादिव्याहृतीनामित्यादि क्रमेणैवतु देवता इत्यन्तेन॥ १—

३ ॥ वागीशो बृहस्पतिः॥ ४॥ ‘यद्यविज्ञाता सर्वव्यापकाद्वाभूर्भुवःसुवरिति सर्वाअनुसृत्याऽऽहवनीय एव जुहवीथ’इत्यैतरेयकश्रुतेः “सव्याहृतिं सप्रणवां गायत्रीं शिरसा सह” इत्यादिस्मरणाच्च यज्ञकर्मणि सर्वत्र प्राणायामादौचाऽऽसां विनियोगः स्पष्ट इत्याह—

व्याहृतीनां त्विति ॥ ५ ॥ अथ गायत्र्या ऋष्याद्यानाह—

विश्वामित्र इति। जन्मान्तरकृतोपासनामहिम्नायः सुर्यपदं प्राप्तस्तन्मडलाभिमानी जीवात्मना वर्तमानस्तत्रत्यां विभूतिमनुभुङ्क्तेस सूर्योऽस्या देवता। अन्तर्यामिरूपेण तस्यान्तर्वर्तमानस्तत्प्रेरको यःपरशिवः सो–

विश्वामित्रो मुनिश्छन्दोगायत्रं देवता रविः।

सावित्र्यावेदविच्छ्रेष्ठाःशिव एवाधिदेवता॥ ६ ॥

त्रिपदा सा तु सावित्री षड्भिर्वर्णैश्चतुष्पदा।

जपे सा त्रिपदा ज्ञेया पूजायां सा चतुष्पदा॥ ७ ॥

ओमापोज्योतिरित्यतद्गात्र्याःशिर उत्तमम्‌।

ऋषिर्ब्रह्माऽस्य मन्त्रस्य च्छन्दोऽनुष्टुप्प्रकीर्तितः॥ ८॥

देवता परमात्मैव प्रोक्तोवेदार्थवेदिभिः।

यथेष्टसाधने चास्य विनियोग उदाहृतः॥ ९ ॥

सावित्री त्रिपदा ज्ञेया षट्कुक्षिः पञ्चशीर्षका।

अग्निवर्णमुखाशुक्ला पुण्डरीकदलेक्षणा॥ १० ॥

_________________________________________________________________________________________

ऽस्य मन्त्रस्याधिदेवतेत्यर्थः॥ ६ ॥ अस्याः पादक्लृप्तिमाह—

त्रिपदेति। सावित्री सवितृदेवताका “तत्सवितुर्वरेण्यम्‌”एषा ऋगित्यादिरूपेणेति स्मरणात्‌। ण्यमित्येतस्याक्षरस्य णियमिति विभागे सति चतुर्विंशत्यक्षरा। अष्टभिरक्षरेःपादत्रयात्मिका षड्भिः पादचतुष्टयात्मिका “सैषा चतुष्पदा षड्विधागायत्री” इति श्रुतेः॥ ७ ॥ शिरसा संहति पूर्वंयदुक्तं तस्य शिरसः स्त्ररूपमाह—

ओमाप इति। अस्यर्ष्याद्यानाह—

ऋषिर्ब्रह्मेति। वेदार्थाभिज्ञैरस्यमन्त्रस्यार्थंन्यायतोऽवधार्य तदात्मकः परमात्मैवदेवतेति निर्णीतं “या तेनोच्यते सा देवता” इति न्यायात्‌ सोऽर्थ आचार्यैरित्थंनिरूपितः—

“आपो ज्योती रस इति सोमाग्न्योस्तेज उच्यते। तदात्मकं जगत्सर्वं रसस्तेजोऽद्वयात्मकम्‌॥अमृतं तदनाशित्वाद्बृहत्त्वाद्ब्रह्मउच्यते। यदानन्दात्मकं ब्रह्म सत्याज्ञानादिलक्षणम्‌॥ तद्भूर्भुवःस्वरित्युक्तंसोऽहमित्योमुदाहृतम्। एतत्तु वेदसारस्यशिरस्त्वाच्छिर उच्यते” इति॥ ८ ॥ ९ ॥ अथास्याः सावित्र्या जपकाले ध्यातव्यां विराडात्मिकां मूर्तिमाह—

सावित्री त्रिपदेति त्रयःपादा यस्याः सा तथा।एवंषट्‌कुक्षिः पञ्चशीर्षकेत्यत्रापि बहुव्रीहिः॥ १० ॥ के पुनस्ते पादा इत्याह—

ऋग्यजुरिति। त्रयो वेदाः सावित्रीमूर्तेःपादत्रयात्मना वर्तन्त

ऋग्यजुस्सामरूपाश्च पादा अस्याः प्रकीर्तिताः।

पूर्वा दिक्प्रथमा कुक्षिर्द्वितीया दक्षिणा मता॥ ११ ॥

पश्चिमा दिक्तृतीया च चतुर्थीचोत्तरा मता।

उर्ध्वा दिक्पञ्चमी कुक्षिः षष्ठ्यधो दिक्प्रकीर्तिता॥ १२ ॥

अष्टादश पुराणानि नाभिरस्या मुनीश्वराः।

जगच्छरीरं सावित्र्या आकाशमुदरान्तरम्‌॥ १३ ॥

स्तनौछन्दांसि हृदयं धर्मशास्त्रमकल्मषम्।

बाहवो न्यायशास्त्रंतु कर्णौसांख्यद्वयं तथा॥ १४ ॥

शिक्षाद्यङ्गानि शीर्षाणि वक्त्रमग्निर्महाद्युतिः।

मीमांसा लक्षणं तस्याश्चेष्टा चाऽऽथर्वणी श्रुतिः॥ १५ ॥

ब्रह्मा मूर्धा शिखा रुद्रो विष्णुरात्मा प्रकीर्तितः।

_________________________________________________________________________________________

इत्यर्थः। उक्तं हि सावित्रीहृदये—“ऋग्वेदोऽस्याःप्रथमः पादो भवाति यजुर्वेदो द्वितीयः सामवेदस्तृतीयः” इति। कुक्षिपट्कमप्येवं विभज्य दर्शयतिपूर्वा दिगित्यादिना॥ ११ ॥ १२ ॥ किं बहुना नामरूपात्मकं सर्वमपि जगद्विराडात्मिकायास्तन्मूर्तेरवयवत्वेन परिकल्पयति—अष्टादशेत्यादिना वेदान्तसंज्ञितमित्यन्तेन जगत्पृथिव्यादिभूतभौतिकात्मकं तस्याः स्थूलशरौरम्‌ ॥ १३ ॥ छन्दांसि गायत्र्यादीनि सप्त। धर्मशास्त्रंमन्वादिप्रणीतम्‌ सांख्याद्वयं निरीश्वरं सेश्वरं च॥ १४ ॥ शिक्षादीनिपञ्चाङ्गान्यस्याःशिरांसि। उक्तं हि सावित्रीहृदये—“व्यकारणमस्याः प्रथमं शिरो भवति शिक्षा द्वितीयं कल्पस्तृतीयं निरुक्तं चतुर्थं ज्योतिषामयनं पञ्चमम्‌” इति लक्ष्यतेऽनेनेति लक्षणं व्यावर्तकोऽसाधारणो धर्मः “अथातो धर्मजिज्ञासा”इत्यादिकंमीमांसाशास्त्रमस्यास्तटस्थलक्षणम्‌। अथर्वणा दृष्टा श्रुतिर्वेदो अस्याश्चेष्टात्मकः। उक्तं हि—लक्षणं मीमांसा अथर्व वेदो विचेष्टितम्‌„इति॥ १५ ॥ पञ्चस्वपि शिरस्सुब्रह्मैव शिरःकपालात्मनाऽस्थितः। रुद्रः केशात्मना। हृन्मध्येऽस्थितो जीवात्मा विष्णुरेव। “अथातो ब्रह्मजिज्ञासा”इत्यादिकं वेदान्तशास्त्रमस्याः

तस्याः सूक्ष्मशरीरंच शास्त्रं वेदान्तसंज्ञितम्‌॥ १६ ॥

अन्तर्यामी शिवः साक्षात्साम्बश्चन्द्रार्धशेखरः।

स्वशरीरे तु सावित्रीं विन्यसेदक्षरक्रमात्‌॥ १७ ॥

पादाङ्गुष्ठे च गुल्फे च जङ्घे जानुप्रदेशके।

ऊरुदेशे च गुह्ये च वृषणे च तथेव च॥ १८ ॥

कटिप्रदेशे नाभो च जठरे स्तनयोर्हृदि।

कण्ठे च वदने तालौ नासिकायां च चक्षुषोः॥ १९ ॥

भ्रुवोर्मध्ये ललाटे च पूर्ववक्त्रे तथैव च।

दक्षिणे पश्चिमे चैव तथैव ब्राह्मणोत्तमाः।

उत्तरे च तथा मृर्ध्निन्यासः सम्यक्प्रकीर्तितः॥ २०॥

प्रथमश्चम्पकाकारो द्वितीयः श्याम एव हि।

तृतीयः पिङ्गलः प्रोक्तो चतुर्थो मुनिसत्तमाः ॥ २१ ॥

इन्द्रनीलसमप्रख्यः पञ्चमः पावकप्रभः।

षष्ठो वह्निप्रभस्तद्वत्सप्तमश्चाग्निवर्णकः॥ २२ ॥

विद्युद्वर्णनिभः साक्षादष्टमः परिभाषितः।

नवमस्तारकावर्णो दशमः कृष्णवर्णकः॥ २३ ॥

तत्परो रक्तगौराभः श्यामस्तत्परमः स्मृतः।

________________________________________________________________________________________

सूक्ष्मशरीरम्‌॥ १६ ॥ एतावदीदृशं सर्वं नामरूपात्मकं भोक्तृभोग्यरूपं जगदस्या मृर्तित्वेन परिकल्पितं दृग्रूपःपरशिव एवैवंविधायाः सावित्रीमूर्तेरन्तर्यामित्वेन प्रेरक इत्याह—अन्तर्यामीति। उक्तप्रकारेण ऋष्यादिन्यासपुरःसरं सावित्रीमूर्तिं ध्यात्वा मन्त्रवर्णान्स्वशरीरे वक्ष्यमाणस्थानिषु न्यसेदित्याह—स्वशरीरेत्विति॥ १७॥ तान्येव चतुर्विंशतिस्थानानि दर्शयति–पादाड्गुष्ठेत्वित्यादिना॥ १८—२० ॥ अथैषामक्षरणां जपविधौध्यातव्यान्वर्णानाह–

शुक्लवर्णःपरो वर्णःपीतवर्णःपरः स्मृतः॥ २४ ॥

शुक्लवर्णःपरो वर्णःपद्मरागप्रभः परः॥ २५ ॥

तत्परः शशिसंकाशः पाण्डुरः परमो मतः।

तत्परो रत्नगौराभ इन्द्रनीलसमोऽथ वा॥ २६ ॥

गोरक्तसदृशश्चान्यस्तत्परः सूर्यसंनिभः।

नीलोत्पलदलप्रख्योवर्णस्तत्परमस्तथा॥ २७ ॥

शङ्खकुन्देन्दुवर्णाभः साक्षाद्वर्णस्ततः स्मृतः।

तत्परो दीपसंकाशः क्रमाद्वर्णाः प्रकीर्तिताः॥ २८ ॥

केचिद्वर्णास्तु सावित्र्या महापातकनाशनाः।

उपपातकपापानां वर्णाः केचन बाधकाः।

केचन क्षुद्रपापानां नाशकाः स्युर्नसंशयः॥ २९ ॥

नान्नतोयसमं दानं न चाहिंसापरं तपः।

न सावित्रीसमं जप्यं न व्याहृतिसमं हुतम्‌॥ ३० ॥

_________________________________________________________________________________________

प्रथमश्चम्पकाकार इत्यादिना क्रमाद्वर्णाः प्रकीर्तिता इत्यन्तेन॥ २१—२८ ॥ एवंविधस्य वर्णज्ञानस्य प्रयोजनमाह—केचिद्वर्णास्त्विति। महापातकोपपातकानुपातकरूपाणि त्रिविधानि पातकानि तान्यक्षरवर्णज्ञानान्नश्यन्तीत्यर्थः॥ २९ ॥कथमस्य गायत्रीजपस्य महापातकादिसर्वपापप्रणाशहेतुतेत्याशङ्क्याऽऽह—नान्नतोयेति॥ ३० ॥ यतो जपविधौ जप्यमन्त्रार्थभूतदेवताप्रतिपत्त्यर्थमवश्यंमन्त्रार्थो ज्ञातव्योऽतस्तत्प्रतिपत्तये सावित्रीमन्त्रं संगृह्य व्याचष्टे—यो नोऽस्माकमित्यादिना मयाऽऽदरादित्यन्तेन।तृतीयपादे यच्छब्दश्रवणात्प्रतिपत्ति-सौकर्यार्थं तं पादं विवृणोति।अन्तर्यामितया स्थितो यो देवः स नोऽस्माकं धियो बुद्धीर्धर्मज्ञानादिषु प्रचोदयात्प्रेरयेत्‌।“चुद प्रेरणे” इत्येतस्माल्लेट्याडागमः। तस्य देवस्य द्योतमानस्य स्वयंप्रकाशचिद्रूपस्य सर्वप्राणिहृदबुजमध्यवर्त्यन्तःकरणादिसाक्षित्वेन वर्तमानस्य सवितुः प्रेरकस्य परशिवस्य

यो नोऽस्माकं धियश्चित्तान्यन्तर्यामिस्वरूपतः॥

प्रचोदयात्प्रेरयेच्च तस्य देवस्य सुव्रताः॥ ३१ ॥

दीप्तस्य सर्वजन्तूनां प्रत्यक्षस्य स्वभावतः।

सवितुः स्वात्मभूतं तु वरेण्यं सर्वजन्तुभिः॥ ३२ ॥

भजनीयं द्विजा भर्गस्तेजश्चैतन्यलक्षणम्‌।

तच्छब्दवाच्यं सर्वज्ञं जगत्सर्गादिकारणम्‌॥ ३३ ॥

स्वमायाशक्तिसंभिन्नं शिवरुद्रादिसंज्ञितम्।

नीलग्रीवं विरूपाक्षं साम्बमूर्त्युपलक्षितम्‌॥ ३४ ॥

आदित्यदेवतायास्तु प्रेरकं परमेश्वरम्‌॥ ३५ ॥

आदित्येनापरिज्ञातं वयं धीमह्युपास्महे।

सावित्र्याः कथितो ह्यर्थःसंग्रहेण मयाऽऽदरात्‌॥ ३६ ॥

एवमर्थं गुरोर्लब्ध्वा दत्त्वा तस्मै च दक्षिणाम्‌।

चतुर्विशतिकं लक्षं जपेदव्यग्रतः सुधीः॥ ३७ ॥

महापातकयुक्तोऽपि सिद्धमन्त्रो भवेद्द्विजः।

आज्येन जुहुयान्मन्त्री सहस्राणां चतुष्टयम्‌॥ ३८ ॥

_________________________________________________________________________________________

स्वरूपभूतं तत्सृष्टिस्थितिसंहारकारणतया प्रसिद्धं वरेण्यंसर्वप्राणिसेव्यंभर्गोभर्जनात्पापस्य भर्जकं सत्यज्ञानादिलक्षणं स्वमायाशक्तिवशेन शिवरुद्रादिसंज्ञामापन्नं सूर्यमण्डलमध्ये तत्प्ररकत्वेनावस्थितं वाङ्मनसातीतमीदृग्विधं यत्परं ब्रह्म तद्वयं धीमहि ध्यायेम। तदेवाहमस्मीति जानीमेत्यर्थः। “ध्यै चिन्तायाम्‌” इत्यस्माल्लिङि छान्दसं रूपम्‌। तदुक्तमाचार्यैः—“ध्यैचिन्तायां स्मृतो धातुर्निष्पन्नं धीमहीत्यतः”इति॥ ३१—३६ ॥ एतादृशमर्थं गुरुमुखाज्ज्ञातवत एव पुरश्चरणादिक्रियास्वधिकार इत्याह—एवमिति॥३७ ॥ उक्तार्थज्ञानमहिम्ना महापातकादिलक्षणमपि पापं नश्यतीत्याह–महापातकेति॥ ३८॥ ऐहिकामुष्मिकेषु सर्वेषु फलेष्वस्य मन्त्रस्य विनियोगानाह—विनियोगानथेत्या–

विनियोगानथानेन मन्त्रेणैव प्रसादयेत्‌।

स्नात्वाप्रातर्जपेन्नित्यं सहस्रंश्रद्धया सह॥ ३९ ॥

अपेक्षितार्थं सकलंलभते नात्र संशयः।

हुत्वा तु खादिरं सम्यग्घृताक्तं हव्यवाहने॥ ४० ॥

राहुग्रस्ते रवौविप्रा लभते धनमुत्तमम्‌।

राहुसूर्यसमावाप्तौतर्पयेद्भास्करं जलैः॥ ४१ ॥

सर्वकामसमृद्धिःस्यान्नात्र कार्याविचारणा।

करीषचूर्णतो हुत्वासर्पिषा सह मानवः॥ ४२ ॥

गवां गोष्ठेसहस्रंतु बहुक्षीरां लभेत गाम्‌।

शाल्यास्तण्डुलहोमेन कन्यासिद्धिर्भविष्यति॥ ४३ ॥

शालीबीजस्य होमेन प्रजामिष्टामवाप्नुयात्‌।

सावित्र्या जलमादय जप्त्वाचाष्टसहस्रकम्‌॥ ४४ ॥

अभिषेकं द्विजःकुर्याद्दुःस्वप्नादिनिवृत्तये।

क्षीराहारो जपेल्लक्षमपमृत्युविनाशने॥ ४५ ॥

घृताहारो जपेद्विद्यां लभते नात्र संशयः।

नाभिमात्रे जले स्थित्वाजपेल्लक्षंसमाहितः॥ ४६ ॥

अकण्टकमसौराज्यं लभते नात्र संशयः।

पलाशपुष्पहोमेन महतीं श्रियमश्नुते॥ ४७ ॥

वेतसैर्जुहुयादग्नौवृष्टिं शीघ्रवाप्नुयात्‌।

मधुहोमेन विप्रेन्द्रा राजानं वशमाप्नुयात्‌॥ ४८ ॥

पायसं मधुना हुत्वास्त्रीवश्यं लभतेऽचिरात्‌।

केवलं घृतहोमेन सर्वान्कामानवाप्नुयात्‌॥ ४९ ॥

अन्नस्य होमतश्चान्नं प्राप्नुयादचिरेण तु।

पञ्चगव्याशनो लक्षं जप्त्वा जातिस्मरो भवेत्‌॥ ५० ॥

जानुमात्रे जले स्थित्वा जपेत्प्रत्यर्थिदिङ्मुखः।

युद्धे विजयमाप्नोति सहस्रं क्रोधसंयुतः॥ ५१ ॥

अर्कस्य समिधो हुत्वातीक्ष्णतैलेन सादरम्‌।

सप्ताहान्मारयेच्छत्रुमृते विप्रं न संशयः॥ ५२ ॥

शत्रोः प्रतिकृतिं भूमावालिख्याऽऽख्यां च तद्धृदि।

तमाक्रम्य तु पादेन जपेच्छत्रुर्विनश्यति॥ ५३ ॥

सावित्री प्रतिलोमा स्यादभिचारेषुकर्मसु।

मारणे वर्णशः शत्रोर्ब्रह्मास्त्रं प्रतिलोमतः॥ ५४ ॥

गुरुप्रसादतो ज्ञेयमनर्थकरमन्यथा।

शान्तये जहुयादग्नौघृतेन पयसाऽपिवा।

पञ्चगव्येन वा हुत्वातिलैर्वा शान्तिमाप्नुयात्‌॥ ५५ ॥

आम्रपर्णस्य होमेन सर्वज्वरविनाशनम्‌।

उदुम्बरभवाश्वत्थैर्गोगजाश्वामयक्षयः॥ ५६ ॥

पयसाऽऽज्येन वा हुत्वा शान्तिः सर्वचतुष्पदाम्‌।

_________________________________________________________________________________________

दिना–जपेच्छत्रुर्विनश्यतीत्यन्तेन॥ ३९—५१ ॥ ऋते विप्रम्‌। ब्राह्मणं शत्रुंहित्वेत्यर्थः॥५२॥तद्धृदीति।तस्य प्रतिकृतेर्हृदय आख्यां शत्रोर्नामाक्षराणि लिखेदित्यर्थः॥ ५३ ॥ अथ मारणविधानस्य मन्त्रास्त्रक्लृप्तिमाह—सावित्रीप्रतिलोमेति मन्त्रवर्णानां प्रातिलोम्येन पाठोऽस्त्रम्। तदुक्तमाचार्यैः–‘प्रतिलोमपाठो वर्णानामस्त्रमाहुर्मनीषिणः’इति। वर्णशः प्रातिलोम्येन पठितोऽयं मन्त्रो ब्रह्मास्त्रंतदभिचारकर्मसु प्रयोक्तव्यमित्ययमर्थः॥ ५४ ॥ एतच्चगुरूपदेशव्यतिरेकेण प्रयोक्तुरनर्थावहमित्याह–गुरुप्रसादत इति। अस्य चास्त्रप्रयोगस्योपसंहारविधिमाह—शान्तय इति ॥५५॥ द्रव्यविशेषहोमाज्ज्वरस्योपशममाह–

शान्तये सर्वदोषाणां जानुमात्रेजले जपेत्‌॥ ५७ ॥

अभिमन्त्र्यसितं भस्म न्यसेद्भूतादिशान्तये॥ ५८ ॥

बहुनोक्तेन किं विप्रा जपेनास्याश्च होमतः।

अभीष्टं सर्वमाप्नोति नात्रसंदेहकारणम्‌॥ ५९ ॥

ज्ञानिच्छां तत्प्रसादेन लभते च द्विजोत्तमाः।

सावित्रीजपयज्ञेन ज्ञानयज्ञमवाप्नुयात्‌॥ ६० ॥

इति श्रीस्कान्दपुराणे सूतसंहितायां चतुर्थे यज्ञवैभवखण्डे गायत्रीविवरणं नाम षष्ठोऽध्यायः॥ ६ ॥

सप्तमोऽध्यायः।

७. हंसविद्याविवरणम्‌॥

श्रीसूत उवाच—

आत्ममन्त्रं प्रवक्ष्यामि समासेन न विस्तरात्‌।

ऋषिर्ब्रह्माऽस्य गायत्रं छन्द आत्मैव देवता।

शान्तान्तं शक्तिरस्योक्ता तदन्तं बीजमुच्यते॥ १ ॥

________________________________________________________________________

आम्रेति। स्पष्टमन्यत्‌॥ ५६—५९ ॥ ज्ञानेच्छामिति। “तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन” इति श्रुतेर्वेदानुवचनादिभिः परतत्त्वस्वरूपगोचरा विविदिषोत्पादनीया तां सावित्र्याःप्रसादादेव लभते। संततजपेन निर्मलचित्तः सन्परशिवस्वरूपगोचरं साक्षात्कारज्ञानमपि प्राप्नुयादित्यर्थः॥ ६० ॥

इति श्रीसूतसंहितातात्पर्यदीपिकायां चतुर्थेयज्ञवैभवखण्डे

गायत्रीविवरणं नाम षष्ठोऽध्यायः॥६ ॥

इत्थं सावित्र्युपासनेनोत्पन्नविविदिषस्य परशिवस्वरूपगोचरविद्योत्पत्तिसाधनं मन्त्रमाह —आत्ममन्त्रमिति। जाग्रदाद्यवस्थासाक्षिणोजीवात्मनः

विद्या शक्तिर्भवेद्बीजं शिव एव न चान्यथा।

तेनायं परमो मन्त्रः शिवशक्त्यात्मकः स्मृतः॥ २ ॥

एतद्बुद्ध्वाजपेन्मन्त्रं बीजशक्त्यात्मना बुधः।

ध्यायेत्साम्बं महादेवं संसारामयभेषजम्‌॥ ३ ॥

यस्तु द्वादशसाहस्रमिमं जपति नित्यशः।

_________________________________________________________________________________________

परमात्मरूपताप्रतिपादकत्वादात्ममन्त्र इत्यजपाऽभिधीयते। एतदुपरिष्टात्स्वयमेव प्रातेपादयिष्यति।अस्य मन्त्रस्य ऋष्याद्यानाह—ऋषिर्ब्रह्मेत्यादिनोच्यत इत्यन्तेन ॥ १ ॥ शान्तान्तमिति। शकारस्यान्तः षकारस्तस्यान्तः सकारः स इति शक्तिरित्यर्थः। तदन्तमितितच्छब्देन सकारः परामृश्यते। तस्यान्तो हकारः।हमित्यस्यमन्त्रस्य बीजमित्यर्थः। एवंबीजशक्त्यात्मना विभक्तस्य मन्त्रस्यशिवशक्तिवाचकत्वेन तदात्मकतां प्रतिपादयितुमर्थात्मके बीजशक्ती आह—विद्याशक्तिरिति। या परशिवस्वरूपसंविद्रूपिणी सैव शक्तिस्तत्प्रतिपाद्यंनिष्कलपरशिवस्वरूपंबीजमर्थस्वरूपमेतदुभयं शब्दात्मकेन शक्तिबीजरूपभागद्वयेन प्रतिपाद्यते। तथा हि–सत्यज्ञानादिलक्षणं निरस्तसमस्तोपाधिकं स्वप्रतिष्ठंसर्वप्रत्यग्भूतं चैतन्यं हि पराशिवस्वरूपंतत्प्रत्यगर्थवाचिनाऽहंशब्देन प्रतिपादयितुं शक्यते। तदेव शिवस्वरूपं स्वमायावशाच्छक्यप्रतियोगित्वेननिरूप्यमाणं तत्पराग्भूतं शक्तिः।साऽपि परागर्थवाचिना स इति पदेन प्रतिपाद्यत इत्युक्तं बीजशक्त्योःशिवशक्तिस्वरूपप्रतिपादकत्वम्‌। तस्मादयं बीजशक्तिसमुदायरूपो मन्त्रः शिवशक्त्यात्मक इत्यर्थः। तदुक्तमाचार्यैः—“हकारः पुरुषः प्रोक्तः स इति प्रकृतिर्मता।पुंस्प्रकृत्यात्मको हंसस्तदात्मकमिदं जगत्‌” इति॥ २ ॥ इत्थं मन्त्रस्यार्थमभिधाय जपसमयेऽस्य ध्यानं विधत्ते—एतद्बुद्ध्वेति। उक्तलक्षणं शिवशक्त्यात्मकं निष्कलपरशिवस्वरूपंस्वीकृतलीलाविग्रहमर्धनारीश्वरं ध्येयमित्यर्थः। तदुक्तमाचार्यैः—“अरुणकनकवर्णंपद्मसंस्थंच गौरीहरनियमितचिह्नंसौम्यतानूनपातम्‌। भवतु भवदभीष्टप्राप्तयेपाशटङ्काभयवरदविचित्रं रूपमर्धाम्बिकेशम्‌” इति॥ ३ ॥ उक्तध्यानविशिष्टजपस्य फलमाह—

तस्य सर्वाणि पापानि विनश्यन्ति न संशयः॥ ४ ॥

अथवा प्राणसंचारः सकारः परिकीर्तितः।

हकारोऽपानसंचारो देहे देहवतां सदा॥ ५ ॥

एवं यस्तु विजानाति मन्त्रमाचार्यपूर्वकम्‌।

सोऽजपन्नपि हंसाख्यं जपत्येव न संशयः॥ ६॥

ईदृशीमजपां विद्यामास्तिक्याद्गुरुभक्तितः॥ ७ ॥

यो विजानाति पापानि बुद्धिपूर्वकृतनि च।

तस्य नश्यन्ति सर्वाणि नात्र कार्याविचारणा॥ ८ ॥

_________________________________________________________________________________________

यस्त्विति॥ ४॥ इत्थं वक्ष्यमाणप्रकारमनुसंधातुमशक्तस्य मन्दप्रज्ञस्य ताल्वोष्ठपुटादिव्यापारनिर्वर्त्येजपविधिमभिधाय ततोऽपि संस्कृतचित्तस्य मध्ममाधि कारिणस्ताल्वोष्ठपुटव्यापारनैरपेक्ष्येण जपविधिं वक्तुं पूर्वोक्तयोर्बीजशक्त्यात्मनोर्मन्त्रभागयोरनुसंधाने प्रकारान्तरमाह—अथवेति। मुख्यप्राणस्य पराङ्मुखवृत्तिः प्राणः अन्तर्मुखवृत्तिरपानस्तथा सति स इत्येतत्पदं परागर्थवाचकम्‌। तस्यप्राणवृत्तेश्चपराक्त्वसंबन्धात्प्रमाणवृत्त्यात्मक एव स इति मन्त्रभागः। हंशब्दस्य च प्रत्यगर्थत्वादपानवृत्तेश्च प्रत्यड्मुखत्वात्प्रत्यक्त्वसाम्येनापानवृत्यात्मक एव हमिति मन्त्रभागः। एवमेतौ मन्त्रभागो प्राणापानवृत्त्यात्मना स्वदेहे सर्वदाऽनुवर्तेते इत्यनुसंधेयमित्यर्थः॥ ५ ॥ अस्त्वेवं मन्त्रभागयोः प्राणापानात्मकता तदनुसंधानस्य कोऽतिशय इत्यत आह—एवं यस्त्विति। एवमुक्तप्रकारेण प्राणापानात्मना वर्तमानं मन्त्रमाचार्यमुखाद्यो वेद स साधकोऽजपन्नपि ताल्वोष्ठपुटव्यापारनिर्वर्त्यजपमकुर्वन्नपि प्राणापानवृत्यात्मना मन्त्रस्यानु वृत्तेर्जपत्येव सर्वदा। अत एवेयं विद्याऽजपेत्याख्यायते॥ ६ ॥ भक्तिश्रद्धापुरःसरमुक्तमर्थमतिनैशित्येनानुसंधानस्यवाचिकजपादतिशयितं फलमाह—ईदृशीमजपामित्यादिना विचारणेत्यन्तेन॥७ ॥ अत्र बुद्धिपूर्वकृतानीति विशेषितत्वाद्यथोदीरितद्वादशसहस्रजपविधावज्ञानकृतस्य पापमात्रस्यक्षयः। अत्र तु ज्ञानकृतस्यापीति विशेषः॥ ८ ॥ इत्थं मध्याधिकारिणां मन्त्रानुसंधाने विशे

अथवा जीवमन्त्रोऽयं जीवात्मप्रतिपादकः।

अहंशब्दस्य रूढत्वाल्लोकेजीवात्मवस्तुनि।

शक्तिमन्त्रः सकाराख्यः परमेश्वरवाचकः॥ ९ ॥

प्रकृतार्थे प्रसिद्धत्वात्प्रसिद्धःपरमेश्वरः॥ १० ॥

महदाद्यणुपर्यन्तं जगत्सर्वं चराचरम्‌।

जायते वर्तते चैव लीयते परमेश्वरे॥ ११ ॥

_________________________________________________________________________________________

षमभिधायाथ ततोऽप्युत्कृष्टस्य श्रवणमननादिसंस्कृतचित्तस्योत्तमाधिकारिणो हंसमन्त्रानुसंधाने विशेषं वक्तुमारभते अथवा जीवेति। मन्तस्य पूर्वभागोऽहंशब्दोजाग्रदाद्यवस्थासाक्षिणो जीवात्मनोऽभिधायकः। यतस्तत्राहं सुख्यहं दुःखीत्यहंशब्दो रूढ्या लोके प्रयुज्यते। वेदे च ‘सोऽहमस्मीत्यग्रे व्याहरत्ततोऽहंनामाभव-त्तस्मादप्येतर्ह्यामन्त्रितोऽयमहमित्यवाग्र उक्त्वाऽन्यन्नाम प्रब्रूते’ इति। तस्मान्मन्त्रस्य पूर्वभागो जीवात्मप्रतिपादक इत्यर्थः। पूर्वंशक्तिप्रतिपादकतया व्याख्यातो यः स इति मन्त्रभागः सोऽपि सर्वशक्तिजगदुत्पत्तिस्थितिलयकारणं यत्पारमेश्वरं तत्त्वं तद्वाचक इत्यर्थः॥ ९ ॥ कुत इत्यत आह—प्रकृतार्थइति।प्रसिद्धप्रक्रान्तानुभूतास्तच्छब्दार्थाः। परमेश्वरश्च प्रसिद्धत्वादत्र प्रकृतोऽर्थः। सा पुनः प्रसिद्धिर्वियदादिपरमाण्वन्तस्य चराचरात्मकस्य जगतः सृष्टिस्थितिलयाधिकरणतयाऽधिगन्तव्या।तदधिकरणत्वंचैवमाम्नायते—‘यतो वा इमानि भूतानि जायन्ते।येन जातानि जीवन्ति।यद्प्रयन्त्यभिसंविशन्ति” इति।“आत्मन आकाशः संभूतः” इत्यादि च।तस्मात्कार्यप्रपञ्चस्य कारणतया प्रसिद्धः परमेश्वरस्तच्छब्देन स इति मन्त्रभागेनाभिधीयत इत्यर्थः॥१० ॥ ११ ॥ इत्थं पदार्थावभिधाय वाक्यार्थमाह—संसारित्वेनेति। गृहीतसंगतिकैःपदैरभिहितानां पदार्थानां पश्चादाकाङ्क्षासंनिधियोग्यता-वशाद्यः संसर्गः स एव वाक्यार्थ इत्यभिहितान्वयवदिनो योग्येतरपदार्थन्वितस्वार्थाभिधायकानि पदातीत्यन्विताभिधानवादिनो विशिष्टो वाक्यार्थः।तदुभयमत्र न संभवाति। ईश्वरस्वरूपव्यतिरिक्तस्य वस्त्वन्तरस्याभावात्‌। तस्माद्भ्रान्त्या भेदेन प्रातिपन्नस्य जीवस्य परमार्थातो यत्पराशिवतादात्म्यंस एवं वाक्यार्थः।ननु तमःप्रकाशवद्विरुद्धस्व–

संसारित्वेन भातोऽहं स एव परमेश्वरः।

सोऽहमेव न संदेहः स्वानुभूतिप्रमाणतः॥ १२॥

हंसयोः शबलंहित्वा पदयोः सद्वितीययोः।

________________________________________________________________________

भावयोः कथंतादात्म्यं घटते। तथाहि—

अहंशब्दस्य मालिनसत्त्वप्रधानमायाकार्यान्तः-करणावच्छिन्नं कर्तृत्वभोक्तृत्वादिविशिष्टं किंचिज्ज्ञंप्रत्यक्चैतन्यं वाच्योऽर्थः। स इत्यस्य च विशुद्धसत्त्वप्रधानमायोपाधिकं कर्तृत्वभोक्तृत्वादिसकलसंसारव्यवहारातीतं सर्वज्ञं जगज्जन्मादिकारणं ‘सदेव सोम्येदमग्र आसीत्‌’इत्यादिश्रुत्या परोक्षेण निर्दिष्टं चैतन्यंवाच्योऽर्थः। ईदृग्विधयोः कथमेकत्वसंभव इति। सत्यम्‌। अत एव लक्षणा प्रवर्तते। सा च वाच्यार्थद्वयविरुद्धांशपरित्यागेनाविरुद्धांशस्वीकाररूपभागत्यागलक्षणा। तथा हि—

ब्रह्मणस्तावत्सञ्चिदानन्दै-करसात्मकत्वं श्रुत्या प्रतिपादितम्‌। जीवस्य च जाग्रदाद्यवस्थासु व्यावर्तमानस्वैक्यरूपेणानुवृत्तेःसद्रूपत्वंतत्साक्षित्वेन चिद्रुपत्वं परप्रेमास्पदत्वेनाऽऽनन्द-रूपत्वं च स्वानुभवसिद्धम्। एवं किंचिज्ज्ञत्वसर्वज्ञत्वप्रत्यक्त्वपरोक्षापरोक्षत्वादिविरुद्धांश-मुभयत्र परित्यज्याविरुद्धयो सच्चिदानन्दादिलक्षणयोर्जीवश्वरस्वरूपयोः परस्परतादात्म्यं भागत्यागलक्षणया हंसमन्त्रःप्रतिपादयति। उक्तं हि—“

मानान्तरविरोधेतुमुख्यार्थस्य परिग्रहे। मुख्यार्थेनाविनाभूते प्रतीतिर्लक्षणोच्यते”॥ एतत्सर्वमभिप्रेत्योक्तम्‌”“संसारित्वेन भातोऽहं स एव परमेश्वरः” इति॥ अहं स एवेति शब्दशक्त्या जीवस्याखण्डब्रह्मतादात्म्ये प्रतिपदिते’अर्थाद्यद्ब्रह्मणःशोधिताहमर्थतादात्म्यंतद्व्यतिहारेण निर्दिशति–सोऽहमेवेति एतदेव तादात्म्यलक्षण एव वाक्यार्थोऽत्रेत्यस्य ज्ञापकम्‌। तथाचोक्तम्‌—“संसर्गो वा विशिष्टो वा वाक्यार्थो नात्र संमतः। अखण्डैकरसत्वेन वाक्यार्थो विदुषां मतः”। इति। इत्थं जीवेश्वरयोः परस्परतादात्म्येनाखण्डैकरसत्वेन वाक्यार्थे सिद्धे जीवस्याब्रह्मत्वसद्वितीयत्वादिभ्रमो-ऽपसरति। ईश्वरस्य च परोक्षत्वानात्मत्वादि निवर्तते। तदप्युक्तम्‌—“प्रत्यग्बोधो य आभाति सोऽद्वयानन्दलक्षः। अद्वयानन्दरूपश्च प्रत्यग्बोधैकलक्षणः॥ इत्थमन्योन्यतादात्म्यप्रतिपत्तिर्यदा भवेत्‌। अब्रह्मत्वं त्वमर्थस्य व्यावर्तेत तदैव हि॥ तदर्थस्यच पारोक्ष्यम्‌ तावदेव निवर्तते” इति। उक्तलक्षणे च हंसमन्त्रार्थे प्रमाणाभावादसंगतिमाश–

पूर्णोऽहमेवंजानीयाद्बोधमात्रस्वभावतः॥ १३ ॥

________________________________________________________________________

ङ्क्यतत्र विद्वदनुभवं प्रमाणयति—स्वानुभूतीति॥ १२ ॥ १३ ॥ सोऽप्यनुभवो विधुरपरिभावितकामिनीसाक्षात्कारवदर्थव्यवस्थापको नेत्याशङ्क्यश्रुतिं संवादयति—श्रुतिरपीति। साऽप्युक्तार्थविरुद्धमेव द्वा सुपर्णेत्यादौप्रतिपादयतीति विशिनष्टि—परमार्थेति। तत्र हि पारमार्थिकं जीवब्रह्मतादात्म्यंसमाने वृक्ष इत्युत्तरमान्त्रेण प्रतिपादयितुमविद्याकल्पितजीवेश्वरभेदप्रतिपादनाद्द्वासुपर्णेत्यादिकमपरमार्थिकप्रकाशकम्। अतः “तत्त्वमसि” “अहं ब्रह्मास्मि”इत्यादिकैव श्रुतिः परमार्थप्रकाशिनी। साऽप्युक्तमर्थं प्रतिपादयतीत्यर्थः। उक्तं जीवेश्वरतादात्म्यमुपपादायितुमीश्वरस्यनिरुपाधिकं रूपमाह—सत्यसंपूर्णेति। ननु “अस्थूल्मनण्वहस्वमदीर्धमशब्दमस्पर्शमरूपमव्ययम्‌” इत्यादिश्रवणाच्च परशिवस्वरूपं स्थुलत्वादिसकलधर्मरहितं सत्यत्वादिपवृत्तिनिमित्तकैः सत्यादिशब्दैःकथं प्रतिपादयितुंशक्यत इति। उच्यते। चन्द्रस्यैकत्वेऽपि वीचीतरङ्गाद्युपाधिबहुत्वेन बहुषु चन्द्रेषु कल्पितेष्वयं चन्द्रोऽयं चन्द्र इत्यनुवृत्तिप्रत्ययबलाच्चन्द्रत्वसामान्यं यथा कल्पते, एवं सद्रूपस्य परशिवस्यैकत्वेऽपि स्वमायावशेन स्वस्मिन्परिकल्पिताणुमहदादिव्यक्तिषु सन्धटः सन्पट इत्यद्यनुवृत्तव्यवहारबलात्सत्यत्वज्ञानत्वानन्दत्वादीनि परापरसामान्यानि परिकल्प्यन्ते। अत एवोक्तमाचर्यैः—आनन्दो विषयानुभवो नित्यत्वंचेति सन्ति धर्माः” इति। एवं च सत्यादिशब्दाः परापरसामान्यवाचिनस्तदाश्रयमखण्डं परशिवस्वरूयंलक्षणया प्रतिपादयन्ति। अत एवोक्तं “लौकिकान्येव सत्यादीन्यखण्डं लक्षयन्ति हि” इति। संपूर्णशब्देन देशकालवस्तुकृतत्रिविधपरिच्छेदराहित्यरूपमानन्त्यमभिधीयते। अनेन च सामान्यव्यक्तिभेदोऽपि वस्तुकृतो निषिद्धो भवति। न च सत्यादिपदेष्वेकेनैव परशिवस्वरूपे लक्षिते तदतिरिक्तस्य प्रमेयस्याभावात्पदान्तरानर्थक्यमिति शङ्कनीयम्‌। असत्यत्वजडत्वदुःखरूपत्वादयो यावन्तो भ्रान्त्या परशिवस्वरूपेऽध्यस्तास्तद्व्यात्तिपरत्वा-त्सत्याद्यनेकपदोपादानस्य। तदुक्तम्‌—“मिथ्यात्वादि यदध्यस्तं ब्रह्मण्येतस्य बाधनम्‌। नानापदैर्विना नेति ब्रह्म तैरुपलक्ष्यते” इति। श्रुतिरपि सत्यज्ञानादिरूपतां परशिवस्य दर्शयति—“सत्यंज्ञानमनन्तं ब्रह्म” “विज्ञानमा–

श्रुतिरप्येवमेवाऽऽह परमार्थप्रकारिनी।

सत्यसंपूर्णविज्ञानसुखरूपो महेश्वरः॥ १४ ॥

अहं चाव्यभिचारित्वात्सत्स्वभावो न संरायः।

अहमव्यभिचार्येव साक्षित्वाव्द्यभिचारिणाम्‌॥ १५ ॥

_________________________________________________________________________________________

नन्दं ब्रह्म” इति॥ १४ ॥ इत्थं परशिवस्य नैजं रूपममिधाय जीवस्यापि तादग्रूपपत्वं प्रतिपादयितुं तावत्सद्रूपतामाह—अहं चेति। जाग्रदादिषु व्यावर्तमानेष्वहमर्थस्य चैतन्यस्यैकरूपतयाऽनुवृत्तेरव्यभिचारित्सद्रूपतेत्यर्थः।असिद्धो हेतुरित्यत आह–अहमव्यभिचार्येवेति। व्यभिचारिणां व्यावर्तमानानां जाग्रदादिसाक्ष्याणां साक्षित्वात्स्वरूपाननुप्रवेशन साक्षादीक्षितृत्वादहमर्थस्याव्यभिचारिता। यथैकस्यैव दीपस्य घटपटादिषु बहुषु परस्परव्यभिचारिषु प्रकाश्यषु प्रकाशकस्प तस्य भेदाभावादव्यभिचारित्वंतद्वदित्यर्थः। एतदव्यभिचारित्वंतापनीयोपानिषद्योवमाम्नातम—“तं वा एतमात्मानं जाग्रत्यस्वप्नमसुषुप्तं स्वप्नेऽजाग्रतमसुषुप्तंसुषुप्तेऽजाग्रतस्वप्नम्‌। तुरीयेऽजग्रतमस्वप्नमसुषुप्तमव्यभिचारिणम्‌” इति॥ १५ ॥ इत्थमव्यभिचारित्वेनाहमर्थस्यसद्रूपत्वंनिर्धार्य चिद्रुपतामुपपादयति—ज्ञातमिति। ज्ञायतेऽनेनेति ज्ञानमन्तःकरणवृत्तिः, तया चक्षुरादिसंप्रयोगवशाद्बाह्यो घटादिविषयो यदा व्याप्यते तदा साक्षिचैतन्यं ज्ञानविषयीकृतं विषयं ज्ञातत्वेन प्रकाशयति तस्मिन्नेव समयेऽतिरिक्तं सर्वज्ञानक्रोडीकृतमज्ञातत्वेनैव प्रकाशयाति। तदुक्तमाचर्यैः—“सर्वं वस्तु ज्ञाततयाऽज्ञाततया वा साक्षिचैन्यस्य विषयः” इति। तदिदमुच्यते—ज्ञातमज्ञातमप्यर्थं सदाऽहं वेदेति। “न हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यते” इति श्रुतेर्ज्ञानस्य सनातनत्वम्‌। ननुवेदेति तिङा प्रमाश्रयः कर्ताभिधीयते। स च द्रव्यरूपः। ज्ञानं तस्य गुणः। अतः कुतोऽहमर्थस्य ज्ञानात्मकतेत्यत आह—केवलइति। अयो दहतीत्यत्र यथाऽग्नेरेव दग्धृत्वमेवमत्रापि प्राप्ताप्राप्तविवेकेन ज्ञानस्यैव प्रकाशकत्वम्‌। घटज्ञानं पटज्ञानमिति भेदप्रतीतिस्तु तत्तदन्तःकरणवृत्त्युपाधिकृता। अतस्तद्विषयविशिष्टान्तःकरणतद्वृत्तिसाक्षित्वेनावस्थित आत्मा केवलश्चिद्रूप एव। एतदेवोपपादयति—सोऽर्थ इति।

ज्ञातमज्ञातमप्यर्थं सदाऽहं वेद केवलः।
सोऽर्थो मां न विजानाति ततोऽविच्छिन्नचेतनः॥१६॥

चितोऽन्यशेषताभावाच्चितोऽचिच्छेषता न हि।

शरावादिपदार्थानां चेतनत्वप्रसक्तितः॥१७॥

चिच्छेषत्वं न चास्त्त्येव चितश्चिन्न हि भिद्यते।

भिद्यते चेदचिच्चित्स्याच्चितोऽचित्त्वंविरुध्यते॥१८॥

________________________________________________________________________________

यदि ज्ञानात्मको द्रव्यरूप आत्मा ज्ञाताज्ञातत्वाभ्यां विषयंप्रकाशयेत्तर्हि घटादिलक्षणपरागर्थोऽपि स्वप्रतियोगिभूतं प्रत्यगर्थं जानीयान्न च जानाति। तस्मादहमर्थःकेवलचिदात्मक एव ॥१६॥ ननु चिदाधारो द्रव्यरूपः कुत इत्यत आह—चित इति। अव्यभिचारिसाक्षिचैतन्यस्य व्यभिचारिसाक्ष्यशेषतानुपपत्तेरित्यर्थः। तथा हि—द्रव्यरूपस्याऽऽत्मनः शेषश्चिदिति वदन्वादी प्रष्टव्यः किमसावात्माऽचिदात्मकोऽथवा चिद्रूप आहोस्विच्चेतन इति त्रेधा विकल्प्याऽऽद्यं प्रत्याह—चितोऽचिच्छेषतेति। न हि प्रतिज्ञामात्रेण वस्तुसिद्धिरित्यत आह—शरावादीति। यदीयंचिज्जडस्याऽऽत्मनः शेषः स्याज्जडत्वाविशेषाच्छरावादीनामपि चिच्छेषत्वेन चेतनत्वप्रसङ्गः। तस्माज्जडस्याऽऽत्मनश्चिच्छेष इति तावन्न युक्तम्‌ ॥१७॥ नापि द्वितीय इत्याह—चिच्छेषत्वं चेति। अस्मिन्पक्षे चिद्रूपस्याऽऽत्मनश्चिच्छेष इत्युक्तं स्यात्‌। तच्च न युक्तम्‌। शेषशेषिभावो हि भेदसव्यपेक्षः। यतोऽत्र चितः सकाशाच्चिदन्तरस्य भेदो नास्ति।औपाधिकभेदव्यतिरेकेण प्रकाशात्मतयैकत्वावमगमात्‌। ननु चितश्चिदन्तरस्य पारमार्थिको भेदो दृश्यत एवेत्यत आह—भिद्यते चोदिति। यद्युपाधिसंपर्कव्यातिरेकेण चित्स्वत एव भिन्नास्याद्धटादिच्चितो भिन्नत्वेन तस्या अचित्वमापतेत्‌। इष्टपत्तिशङ्कां वारयति—चितोऽचित्वं विरुध्यत इति ॥१८॥ नापि तृतीयोन्याश्रयप्रसक्तेरित्याह—तया चिच्चेतनस्यापीति। यस्य चिच्छेषः स चेतनः। यश्चेतनस्तस्य चिच्छेष इत्यन्योन्याधीननिरूपणत्वेनैकतरस्याप्यसिद्धिरित्यर्थः। इत्थं

तथा चिच्चेतनस्यापि न शेषत्वमवाप्नुयात्‌।

शेषत्वे सति तत्सिद्धिस्तत्सिद्धौ शेषता चितः॥ १९ ॥

अतोऽन्यशेषता लोके चितो भ्रान्त्या प्रतीयते।

सुखस्वभाव एवाहं सदा प्रेमास्पदत्वतः॥ २० ॥

असुखस्य न हि प्रेमास्पदत्वं परिदृश्यते।

नाहमन्यस्य शेषो हि रोषी सर्वस्य सर्वदा॥ २१ ॥

________________________________________________________________________________

चितोऽन्यशेषत्वानिरूपणात्स्वप्राधान्येन केवलंचिदेवाहमर्थः॥ १९ ॥ ननु ज्ञातो घठः,अहं जानामीत्यादौ चिताऽन्यशेषत्वप्रतीतिः कथमित्याशङ्क्य भ्रान्तिरेवेत्याह—

अतोऽन्यशेषतेति। इत्थं जीवस्य चिद्रूपत्वमुपपाद्याऽऽनन्दरूपतामाह—

सुखस्वभाव इति। सदा भूतभविष्यद्वर्तमानलक्षणकालत्रयेऽपि परप्रेमास्पदत्वान्निरतिशयानन्दात्मक एवाहमर्थः।उक्तं हि—

“परप्रेमास्पदतया मा न भूवमहं सदा।भूयासमिति यो द्रष्टा सोऽहमित्यवधारय” इति।परप्रेमास्पदत्वंचैवमाम्नायते “न वा अरे पत्युः कामाय पतिः प्रियो भवत्यात्मनस्तु कामायपतिः प्रियो भवति” इत्यादिना “न वा अरे सर्वस्य कामाय सर्वं प्रियं भवत्यात्मनस्तु कामाय सर्वंप्रियं भवति” इत्यन्तेन।तथा हि लोके यो यच्छेषत्वेन प्रियः स ततोऽपि प्रियतमो दृश्यते। यथा पुत्रस्यभार्यादयः पुत्रशेषतया पितुः प्रियास्तेभ्योऽपि पुत्रः पितुः प्रियतमो भवति। एवमेव पतिजायापुत्रादयो यस्याऽऽत्मनः शेषतया प्रियाः स आत्मा सर्वस्मादपि प्रियतम इति गम्यते। तथा चोक्तम्‌—

“पुत्रवित्तादयो भावा यस्य शेषतया प्रियाः। द्रष्टासर्वप्रियतमः सोऽहमित्यवधारय” इति॥ तस्मान्निरतिशयप्रेमास्पदत्वादहमर्थस्य परमानन्दरूपत्वंसिद्धमित्यर्थः॥ २० ॥ हेतुरस्तु साध्यं मा भूत्किं विपक्षे बाधकमित्याशङ्क्य हेतूच्छित्तिप्रसङ्ग एव बाधकइत्याह—

असुखस्य न हीति। ननु सुखानात्मकस्य सुखसाधनस्य दुःखाभावस्य च प्रेमस्पदत्वं दृश्यते कथमनेनाऽऽनन्दरूपतासिद्धिरित्यतआह—

नाहमन्यस्येति। सुखसाधनदुःखाभावौहि सुखशेषतया प्रियौ,अहमर्थस्त्वननन्यशोषत्वेन स्वप्राधानतया प्रेमास्पदत्वात्परानन्दरूपः किं न स्यादित्यर्थः॥

पूर्णोऽहं सर्वसाक्षित्वात्सर्वदा परमार्थतः।

अपूर्णो युगपत्सर्वंन विजानाति कश्चन॥ २२ ॥

संसारवर्जितः साक्षात्सर्वदा परमेश्वरः।

अहं संसारसाक्षित्वात्तथा संसारवर्जितः॥ २३ ॥

_________________________________________________________________________________________

२१ ॥ पूर्णत्वमप्यैश्वररूपमहमर्थे योजयति—

पूर्णोऽहमिति। सर्वदा भूतभविष्यद्वर्तमानेषु कालेषु सर्वस्य जाग्रदाद्यवस्थासु सर्वदेशे वर्तमानस्य घटपटादिपदार्थस्य परमार्थतो बाह्याभ्यन्तरभेदराहित्येन स्वाविद्यापरिकल्पिततया साक्षादीक्षितृत्वादहमर्थःपूर्णः। देशकालवस्तुकृतावच्छेदरहित इत्यर्थः। उक्तप्रकारं साक्षित्वं परिच्छिन्नस्य न संभवतीत्याह—

अपूर्ण इति। युगपत्समसमयमेव सर्वं वस्तु ज्ञातत्वेनाज्ञातत्वेन च यस्मात्साक्षिचैतन्यं गोचरयति तस्मात्सर्वगतम्‌। अतथाविधं चेद्युगपत्सर्वंज्ञातुं नशक्नुयादित्यर्थः॥ २२ ॥ एवं पूर्वोक्तं पारमेश्वरं सत्यज्ञानादिलक्षणं रूपमहमर्थे योजयित्वा संसार्यसंसारित्वलक्षणो यो भेदभ्रमस्तमपि व्युदस्यति—

संसारवर्जित इति। विशुद्धसत्त्वप्रधानमायोपाधिकत्वादप्रतिहतज्ञानवैराग्यादिसंपन्नोजगत्कर्ता परमेश्वरः संसारवर्जितः। स्वमायाविजृम्भितस्य संसारस्य मिथ्यात्वावगतेः। असङ्गो न हि सज्जते” इत्यादिश्रुतेश्च। ननु विशुद्धसत्त्वप्रधानमायोपाधिकत्वाद्युक्तंपरमेश्वरस्य संसारवर्जितत्वं मलिनसत्त्वप्रधानमायाक्रान्तस्य जीवस्य कथं तद्राहित्यामित्यत आह—

अहं संसारेति। यः साक्षी स साक्ष्याद्भिन्नोदृष्टः। यथा घटात्साक्ष्यादटसाक्षी तथा संसारोऽपीतरवस्तुवत्साक्षिभास्यत्वात्साक्ष्यः तस्मात्संसारात्साक्षी विविक्त एवेत्यहमर्थोऽपि संसारवर्जित एव। यथा लोके विवदमानयोरेव जयपराजयौ।साक्षिणस्तुतटस्थतैव केवलम्‌। यस्तु कूटसाक्षी तयोर्मध्ये पुरुषाविशेषं स्वात्मतया पक्षी करोति स तदीयजयपराजयभागपि भवति।एवमेवान्तःकरणं स्वात्मतयाऽभिमन्यमानस्यैव चैतन्यस्थ तदीयसंसारः, न तु तदनुपहितस्याविक्रियस्य साक्षिचैतन्यस्येत्यर्थः॥ २३ ॥ इत्थं मन्त्रपदार्थयोर्जीवेश्वरयोः सारूप्यमुपपाद्य प्रागुक्तमेकत्वविज्ञानमुपसंहरति–एवमिति। वाक्यं प्रमाणत्वेन प्रागुदाहृतं तत्त्वमस्यादिकं हंसमन्त्रप्रतिपाद्य–

एवं वाक्यानुसारिण्या युक्त्याऽऽचार्यपुरःसरम्‌।

अहं स सोऽहमेवेतिविजानीयाद्विचक्षणः॥ २४ ॥

य एवमात्ममन्त्रेण जीवात्मपरमात्मनोः।

पारमार्थिकमेकत्वं सुदृढंपरिपश्यति।

स एव ब्रह्मविन्मुख्यो नेतरोऽज्ञानमोहितः॥ २५ ॥

एवं भूतं परिज्ञानं यस्य जातं यदा भुवि।

तदैव तस्य संसारविनाशो नास्ति संशयः॥ २६ ॥

_________________________________________________________________________________________

स्यार्थस्यान्यथात्वनिराकरणं यक्तेरनुसरणं नाम। उक्तं हि—“प्रत्यक्षादेःप्रमाणस्य तर्कोऽनुग्राहको भवेत्‌। पक्षे विपक्षजिज्ञासाविच्छेदस्तदनुग्रहः” इति। एवं युक्तिपुरःसरमाचार्यमुखाद्ब्रह्मात्मैक्यलक्षणं हंसमन्त्रार्थं जानीयादित्यर्थः॥ २४ ॥ इत्थं श्रवणमननाभ्यामर्थं निश्चित्य कृतनिदिध्यासनःसुदृढमसंभावनाविपरीतभावनारहितं यथा भवति तथा जीवपरमात्मनोर्वास्तवमेकत्वमनेन मन्त्रेण यः साक्षात्करोति स एव ब्रह्मविदां श्रेष्ठः। यस्त्वितरस्तद्विलक्षणोऽहमन्यः सोऽन्य इति जानाति नासौब्रह्मविदपि त्वज्ञानमोहितः। उक्तं हि भगवता—“अज्ञानेनाऽऽवृतं ज्ञानं तेन मुह्यन्ति जन्तवः”इति। श्रुतिश्च—“अथ योऽन्यां देवतामुपास्तेऽन्योऽसावन्योऽहमस्मीति न स वेद यथा पशुः”इति॥ २५ ॥ अथैतस्य साक्षत्कारज्ञानस्यफलमाह—एवमिति। ब्रह्मात्मैकत्वगोचरः साक्षात्कारो यदा जायते तदनन्तरक्षण एवसर्वानर्थमूलाविद्याया निवृत्तेस्तत्कार्यभूतः संसारोऽपि विदुषो निवर्तते। न तु स्वर्गादिफलवद्देशान्तरे कालान्तरे वा प्राप्तव्या मुक्तिः। यस्मात्प्रत्यगात्मनः स्वाभाविकं ब्रह्मात्मत्वं तदविद्यातिरोधानवशादप्राप्तमिव स्वरूपसाक्षात्कारपर्यन्तमासीत्‌। तत्साक्षात्कारे च ब्रह्माकारमनोवृत्त्यवच्छिन्नचैतन्येन तस्यामविद्यायां समूलं निवर्तितायामावरणापगमेन स्वाभाविकं ब्रह्मात्मत्वं तस्मिन्नेव क्षणे तत्रैवदेशे विदुषा प्राप्यते। श्रूयते हि—“भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः। क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टेपरावरे” इति। “न तस्य प्राणाउत्क्रामन्त्यत्रैव समवलीयन्ते” इति च॥ २६ ॥

हंसविद्यामविज्ञाय मुक्तौ यत्नंकरोति यः।

स नभोभक्षणेनैव क्षुन्निवृत्तिं करिष्यति॥ २७ ॥

हंसविद्या परा चैषा परमन्त्रप्रभेदिनी।

सर्वैश्वर्यप्रदा सर्वदेवतातृप्तिकारिणी॥ २८ ॥

अस्याश्च जपमात्रेण दीर्घायुष्यमवाप्नुयात्‌।

आरोग्यं विजयं विद्यामवाप्नोति संशयः॥ २९ ॥

बहुनोक्तेन किं विद्या हंसाख्या सर्वकामदा।

हंसहंसेति यो ब्रूयात्सर्वदा शिव एव सः॥ ३०॥

शिवेन विष्णुना चैव ब्रह्मणा सर्वदैवतैः।

आदृता हंसविद्येयमचिरादेव सिद्धिदा॥ ३१ ॥

रेचकं पूरकं मुक्त्वा कुम्भके सुस्थितः सुधीः।

नाभिकन्दे समौकृत्वा प्राणापानौ समाहितः॥ ३२ ॥

_________________________________________________________________________________________

ईदृशीमजपां विद्यांजानत एव मुक्तावधिकारो नान्यस्येति दर्शयति—

हंसविद्यामिति॥ २७ ॥ इत्थं मुमुक्षून्प्रत्यात्ममन्त्रस्य मुक्तिसाधनत्वमभिधाय, ऐहिकफलसाधनत्वमपि दर्शयति—हंसविद्या परेत्यादिना सर्वकामदेत्यन्तेन। परमन्त्रप्रभेदिनी। अभिचारार्थं परैःशत्रुभिः प्रयुक्ता ये मारणमन्त्रास्तानपि सम्यग्भिनत्त्येषा हंसविद्या॥ २८ ॥ प्राणपानात्मकत्वादस्य मन्त्रस्याऽऽयुर्वृद्धिहेतुत्तम्‌॥ २९ ॥ हंसहंसेति। यस्तूक्तमर्थमनुसंधातुमशक्तः सर्वदा हंसहंसेति यो ब्रूयात्सोऽपि कालक्रमेण शिव एवभवेदित्यर्थः॥ ३० ॥ अथास्य मन्त्रस्य शीघ्रफलसाधनत्वमाह—

शिवेनेति इत्थं नामैषा हंसाविद्या महाप्रभावा ब्रह्मविष्ण्वादयःसर्वे देवा अप्येनामाद्रियन्ते। अतोऽयं मन्त्रःप्रेप्सितं फलं शीघ्रं प्रयच्छतीर्थः ॥३१॥ अथ नित्यसाधनयोगंदर्शयतिरेचकमित्यादि। नाभिकन्द इति। नाभिमूले वर्तमानः कन्दो नाभिकन्दः। नाभिचक्रमिति यावत्‌। तस्य वामदक्षिणभागयोर्द्धेनाड्याविडापिङ्गलाख्ये।

_________________________________________________________________________________________

तयोर्मध्ये नाभिकन्दस्य मध्यादुत्थिता ब्रह्मरन्ध्रपर्यन्तं प्रसृताऽधोवक्त्रा नाडी सुषुम्ना नाम। ततोऽधस्तान्मूलाधारादुत्थितः पवनः सुषृम्नावक्त्रस्यपिहितत्वात्पार्श्वनाडीभ्यामेव प्राणात्मना निर्गच्छति। तदाहुराचार्याः—“उभयात्मिक्यधोवृत्ता नाडी दीर्घाभवेदृजुः। अवाङ्मुखी सा तस्याश्च भवेत्पक्षद्वये द्वयम्‌॥ तत्र या प्रथमा नाडी सा सुषुम्नेति कथ्यते। या वामेडेति सा प्रोक्ता दक्षिणा पिङ्गला मता॥ देहेऽपि मृलाधारेऽस्मिन्समुदृति समीरणः। नाडीभ्यामस्तमभ्येति घ्राणतो द्विषडङ्गुले”इति। एवं च रेचकपूरककुम्भकेषु प्राणायामेषु पिङ्गलेडासुषुम्नाख्याएतास्तिस्रोनाड्यःक्रमेण विनियुक्ताः। उक्तं हि—“रेचयेन्मारुतं दक्षया दक्षिणं पूरयेद्वामया मध्यनाड्या पुनः। धारयेदीरितं रेचकादित्रयं स्यात्कलादन्तविद्यख्यमात्रात्मकम्‌” इति। तथा रेचकपूरकाख्यं प्राणायामद्वयं मुक्त्वा पवनाभ्यासपाटवेन सुषुम्नामुखस्याऽऽवरणमुद्धाट्यमूलाधारादुत्थितं पवनं तस्यां प्रवेश्य कुम्भकप्राणायामे सुदृढमवस्थित इडापिङ्गलाभ्यां मूर्धोऽधोमुखभेदेन संचरन्तौप्राणापानौ नाभिकन्दे समौकृत्वा प्रवेशनिर्गमादिवैषम्यं यथा न भवति तथा तत्रैव निरोध्य समाहित एकाग्रचित्तो सुधीर्ध्येयगोचरशोभनज्ञानःसन्सुषुम्नया ब्रह्मरन्ध्रपर्यन्तं प्रसृतपवनप्रेरणेन द्रवीभूतद्वादशान्तस्थितचन्द्रण्डलात्सृतं सुषुम्नान्तर्गतममृतप्रवाहमेवंगुणविशिष्टध्यानेन स्वयं सादरं पीत्वाऽमृतमयदेहः सन्नाभिमध्यमे नाभिकन्दस्य मध्यादुत्थिते हृत्पद्मे स्थितं ज्वलन्तं प्रकाशयन्तं दीपाकारं दीपवत्स्वयंप्रकाशम्‌। अथ वा नाभिचक्रमध्यदेशवर्तिनो जाठराग्नेः शिखा हृदयकमलस्थाग्रतो यत्सुषिरं तन्मध्ये दीपशिखावदवतिष्ठते तदवच्छिन्नत्वात्परशिवोऽपि दीपाकारः। श्रूयते हि—“तस्यान्ते सुषिरं सूक्ष्मं तस्मिन्सर्वंप्रतिष्ठितम्‌। तस्य मध्ये महानग्निर्विश्वार्चिर्विश्वतोमुखः। सोऽग्रभुग्विभजंस्तिष्ठन्नाहारमजरः कविः। तिर्यगूर्ध्यमधःशायी रश्मयस्तस्य संतता॥ संतापयति स्वं देहमापादतलमस्तकम्‌। तस्य मध्ये वह्निशिखा अणीयोर्ध्या व्यवस्थिता। नीलतोयदमध्यस्थाविद्युल्लेखेव भास्वरा। नीवारशूकवत्तन्वी पीता भास्वत्यणूपमा॥ तस्याः शिखाया मध्ये परमात्मा व्यवस्थितः” इति॥ एवंभूतं हंसमन्त्रप्रतिपाद्यं परशिवमुक्तरीत्या हृदम्बुजमध्येऽमृतेनाऽप्लाव्य यो हंसमन्त्रं जपेत्तस्याजरामरत्वं भवति। आचार्यैरप्ययं योग उक्तः—“हंसाण्डाकारमेनं

मस्तकस्थामृतस्यन्दंपीत्वा ध्यानेन सादरम्‌।

दीपाकारं महादेवं ज्वलन्तं नाभिमध्यमे॥ ३३ ॥

अभिषिच्यामृतेनैव हंसहंसेति यो जपेत्‌।

जराममरणरोगादि न तस्य भुवि विद्यते॥ ३४ ॥

एवं दिने दिने कुर्यादणिमादिविभूतये।

ईश्वरत्वेमवाप्नोति सदाऽभ्यासतरः पुमान्‌॥ ३५ ॥

बहवोऽनेन मार्गेण प्राप्ता नित्यत्वमास्तिकाः।

हंसविद्यामृते लोके नास्ति नित्यत्वसाधनम्‌॥ ३६ ॥

यो ददाति महाविद्यां हंसाख्यां पारमेश्वरीम।

तस्य दास्यं सदा कुर्याच्छ्रद्धया परया सह॥ ३७ ॥

शुभं वाऽशुभमन्यद्वायदुक्तं गुरुणा भुवि।

तत्कुर्यादविचारेण शिष्यः सन्तोषसंयुतः॥ ३८ ॥

हंसविद्यामिमां लब्ध्वा गुरोः शुश्रूषया नरः।

आत्मानमात्मना साक्षाद्ब्रह्मबुद्ध्वासुनिश्चलः॥ ३९ ॥

_________________________________________________________________________________________

स्रुतपरमसुधं मूर्धचन्द्राद्गलन्तं नीत्वा सौषुम्नमार्गंनिशितमतिरथव्याप्तदेहोपगात्तम्‌। स्मृत्वा संजप्य मन्त्रं पलितविषशिरोदृग्ज्वरोन्मादभूतापस्मारादींश्चमन्त्री हरति दुरितदौर्भाग्यदारिद्य्रदोषान्‌” इति॥ ३२—

३४ ॥ उक्तप्रकारेणेमंमन्तयोगंप्रतिदिनं प्रयुञ्जानस्याणिमादिविभूतयोऽपि न दूर इयाह—

एवमिति॥ सर्वदाऽभ्यस्यत ईश्वरत्वप्राप्तिमाह—

ईश्वरेति॥ ३५ ॥ किं बहूनाऽनेन योगेन नित्यत्वं प्राप्यत इतोऽन्यन्नित्यत्वसाधनं नास्तीत्याह—

बहवोऽनेनेति॥ ३६ ॥ गुरुशुश्रूषाजनितादृष्टसहकृतैवैषा हंसाविद्या फलप्रदेत्यभिप्रत्याऽह—

यो ददातीति॥ ३७ ॥ गुरुवाक्यमपि सर्वदा न लङ्घनीयमित्याह—

शुभमिति॥ ३८ ॥ एवं गुरुशुश्रूषापरोऽनयैव विद्यया ब्रह्मभूयं प्राप्नोतीत्यह—

हंसविद्यामिति। आत्मानमन्तःकरणाद्युपाधिविविक्तं

देहजात्यादिसंबन्धान्वर्णाश्रमसमन्वितान॥ ४० ॥

वेदाञ्शास्त्राणि चान्यानि पादपांसमिव त्यजेत्‌।

न गुरुंसंत्यजेन्नित्यं जानन्नस्य कृतं नरः॥ ४१ ॥

गुरुभक्तिं सदा कुर्याच्छ्रेयसे भूयसे नरः।

गुरुरेव शिवस्तस्य नान्य इत्यब्रवीच्छ्रुतिः॥ ४२ ॥

श्रुत्या यदुक्तं परमार्थमेतन्न

संशयोऽन्यच्चततः समस्तम्‌।

श्रुत्याऽविराधे च भवेत्प्रमाणं

नो चेदनर्थाय न च प्रमाणम्‌॥ ४३ ॥

_________________________________________________________________________________________

प्रत्यक्चैन्यमात्मना ब्रह्मात्मैकत्वविषयेणान्तःकरणेन॥ ३९ ॥ इत्थमनया विद्यया प्रत्यगात्मनो ब्रह्मत्वं साक्षात्कृतवतो जगत्यन्यदुपादेयं नास्तीत्याह—देहजात्यादीति। वर्णा ब्राह्मणजात्यादयः। जात्यादीति जातिग्रहणेन तत्तद्देशोपाधिकावान्तरजातिर्विवक्षिता॥ ४० ॥ शास्त्राणि चान्यानीति। अन्यशास्त्राणीत्यर्थः।इत्थं सर्वपरित्यागस्योक्तत्वात्तन्मध्यपतितत्वेन गुरोस्तदुपदिष्टस्य च ज्ञानस्य त्यागप्रसक्तौतन्निवारयति—

न गुरुमिति॥ ४१ ॥ मुक्तिसाधनेषु गुरुभक्तिरत्यन्तमन्तरङ्गमित्यह—

गुरुभक्तिमिति। भूयसे श्रेयसे बहुतराय श्रेयसे। निःश्रेयसायेति यावत्‌॥ ४२ ॥ अत्र निःश्रेयसस्वरूपे बहवो विप्रतिपद्यन्ते। प्रमाणप्रमेयादिषोडशपदार्थानां तत्वज्ञानान्निःश्रेयसाधिगम इति नैयायिकाः। द्रव्यगुणादिषट्पदार्थानां साधर्म्यवैधर्म्यज्ञानान्निःश्रेयसाधिगम इति वैशेषिकाः। प्रकृतिपुरुषविवेकख्यतेः संसारविलयइति सांख्याः। एव मन्येऽपि स्वमतानुसारेणान्यथैव प्रतिपद्यन्ते, तत्कुतो ब्रह्मात्मैकत्वलक्षणो मोक्ष इत्याशङ्कयाऽऽह—

श्रुत्येति। श्रुत्या वेदान्तवाक्येन यद्ब्रह्मात्मैकत्वमुपक्रमोपसंहारादिषड्विधतात्पर्यलिङ्गसद्भावात्तात्पर्येण प्रतिपादितं तत्परमार्थमेव। तस्यान्यथाभावो न शङ्कनीयः। नाप्यस्मिन्नर्थे संशयः। यत एवंततः सर्वशास्त्रंश्रुत्या सहाविरुद्धंचेत्प्रमाणं नो चेत्तच्छास्त्रमप्रमाणमत एवानर्थहेतुश्च भवतीत्यर्थः॥ ४३॥

इति श्रीस्कान्दपुराणे सूतसंहितायां चतुर्थे यज्ञवैभवखण्डे हंसविद्याविवरणं नाम सप्तमोऽध्यायः॥ ७ ॥

___________

अष्टमोऽध्यायः॥

८. षडक्षरविचारः।

सूत उवाच—

षडक्षरंप्रवक्ष्यामि समासेन सुशोभनम्‌।

येन संसारविच्छित्तिर्ब्रह्मेन्द्रादिविभुतयः॥ १ ॥

ऋषिर्ब्रह्माऽस्य मन्त्रस्य गायत्रं छन्द उच्यते।

देवताऽस्य शिवः साक्षात्सत्यज्ञानसुखाद्वयः॥ २ ॥

शक्तिर्माहेश्वरी सा च भुवनेशाक्षरं भवेत्।

बीजं मायाविशिष्टस्तु शिवः पूर्वोक्तलक्षणः॥ ३ ॥

_________________________________________________________________________________________

इति श्रीस्कान्दपुराणे श्रीसूतसंहितातात्पर्यदीपिकायां यज्ञवैभवखण्डे हंसविद्याविवरणं नाम सप्तमोऽध्यायः॥७ ॥________________

इत्थं शिवशक्त्यात्मकंमुक्तिसाधनमात्ममन्त्रमभिधाय तथाविधं षडक्षरमन्त्रंवक्तुमारभते—

षडक्षरमिति। न केवलमेतन्मुक्तिसाधनं ब्रह्मत्वादिपदमप्येतेनैव प्राप्यत इत्याह—

येनेति॥ १ ॥ अथ ऋष्याद्यानाह ऋषिर्ब्रह्मेति॥२ ॥ शक्तिर्माहेश्वरीति। अस्य मन्त्रस्यार्थरूपा शक्तिरात्ममन्त्रवत्संविद्रूपिण्याया शक्तिरेव। सा च प्रतिपाद्यप्रतिपादकयोरभेदात्स्ववाचकशिवशब्दात्मकः सन्‌ शब्दात्मकवीजं भवेदित्यर्थः इत्थं बीजशक्तिं संस्मृत्याङ्गुष्ठाद्यङ्गुलीषु देहावयवेषु प्रणवसहितानि पञ्चाक्षराणि न्यसेदिव्याह—

न्यासः पञ्चाक्षरैरित्यादिना। पुनरे
भिरेवाक्षरैर्नेत्रवर्जितानिपञ्चाङ्गानि हृदयादिषु न्यसेदित्याह—

पुनः पश्चेति॥

सोऽपि तच्छब्द एव स्यान्न्यासः पञ्चाक्षरैःक्रमात्‌।

अङ्गुष्ठादिकनिष्ठान्तं विन्यसेदक्षरं क्रमात्‌॥ ४ ॥

मस्तके च ललाटे च हृदि नाभौपदद्वये।

पुनः पञ्चाक्षरेणैव पञ्चाङ्गं विन्यसेत्क्रमात्‌॥ ५ ॥

प्रणवं प्रथमं विद्यात्‌ द्वितीयं तु नकारकम्‌।

मकारं तत्परं विद्याञ्छिकारं तुततः परम्‌॥ ६ ॥

वकारं पञ्चमं विद्याद्यकारं षष्ठमेव च।

इत्थं षडक्षरं विद्याज्जाबालोपनिषद्गतम्‌॥ ७ ॥

मन्त्रःसाङ्गः समाख्यातो मन्त्रार्थःकथ्यतेऽधुना।

सत्यज्ञानपरानन्दस्वरूपस्य शिवस्य तु॥ ८ ॥

असंपृक्त्या शिवस्यायं शिवशब्दस्तु वाचकः।

नमःशब्दो नमस्कारवाचकः परिकीर्तितः॥ ९ ॥

________________________________________________________________________________

३—५॥ अथ स्वरूपपरिज्ञानार्थमक्षराण्यनुक्रामति—प्रणवमिति। न केवलमेतत्षडक्षरं मन्त्रमात्रमपित्वौपनिपदमात्मतत्वंप्रतिपादयितुमौपनिषत्स्वेवाऽऽम्नातम्‌। अतोऽस्य मन्त्रस्य प्रभावो निरवधिरित्यभिप्रेत्याऽऽह—जाबालोपानिषद्गतमिति। तत्र हि जाबलोपनिषद्येवमाम्नायते—“अथ हैनंब्रह्मचारिण ऊचुः किं जप्येनामृतत्वं ब्रूहीति। स होवाच याज्ञवल्क्यः शतरुद्रियेणेत्येतानि ह वा अमृतनामधेयान्येतैर्हवा अमृतो भवति”इति। शतरुद्रियनाम्नां जपस्यामृतत्वसाधनत्वमाम्नातम्‌। तेषु च नामसु“नमः शिवाय च शिवतराय च”इत्याम्नायते॥ ६ ॥ ७ ॥ इत्थं मन्त्रस्वरूपमभिधाय तदर्थं वक्तुंप्रस्तौति—मन्त्रः साङ्ग इति। तत मन्त्रावयवस्य शिवपदस्यार्थमाह—सत्यज्ञानेति॥ ८ ॥ ननु यथोदीरितं सत्यज्ञानादिलक्षणं परशिवस्वरूप वाङ्मनसागोचरं “यतो वाचो निवर्तन्ते। अप्राप्य मनसासह” इति श्रुतेस्तत्कथं शिवपदेनाभिधीयत इति तत्राऽऽह—असंपृक्त्येति। असपृक्त्या

प्रह्वतालक्षणः प्रोक्तो नमस्कारः पुरातनैः।

प्रह्वता नाम जीवस्य शिवात्सत्यादिलक्षणात्‌॥ १० ॥

भेदेन भासमानस्य मायया न स्वरूपतः।

संबन्ध एव तेनैव सोऽपि तादात्म्यलक्षणः॥ १२॥

नित्यसिद्धः शिवः साक्षात्स्वरूपः सर्वदेहिनाम्‌।

तस्माद्बुभुत्सोर्जीवस्य नोपदेयं हितं सदा॥ १२ ॥

____________________________________________________________________________________

असंपर्केण तादृक्स्वरूपमस्पृष्टै्ववशिवपदं लक्षणया प्रतिपादयतीत्यर्थः। अथ नमः पदार्थमाह—नमःशब्द इति॥ ९ ॥ नमस्कारस्वरूपमाह—प्रह्वतेति। “णम प्रह्वत्वे शब्दे च” इत्यस्मादसुनि नमःशब्दस्य निष्पत्तेरित्यर्थः। अस्य च प्रह्वीभावस्य पर्यवसानभूमिमाह—प्रह्वता नामेति। न्यग्भावेन नमस्कर्तव्यप्रत्यासत्ति प्रह्वत्वम्‌। तच्च मायया परशिवस्वरुपाद्भेदेन परिकल्पितस्य जीवस्य पुनस्तत्स्वरूपेण तादात्म्यलक्षणे संबन्धे विश्राम्यतीत्यर्थः॥ १० ॥ ११ ॥ इत्थं पदद्वयस्यार्थमभिधाय वाक्यार्थमाह—नित्यसिद्ध इति। उक्तविधं परशिवस्वरूपमुद्दिश्याहं जीवः प्रह्वोभवामि। तत्स्वरूपणैकीभूयतदात्मनाऽखण्डैकरसो भवामीत्यर्थः। तस्मात्सर्वेषां जीवानां नित्योदितं परशिवचैतन्यमेव साक्षात्स्वरूपम्‌। एतमेव वाक्यार्थमनुसंधानसौकर्याय प्रणवोऽभिधत्ते। जीवेश्वरतादात्म्यप्रतिपादकस्य सोऽहमिति परमात्ममन्त्रस्य सकारहकारयोर्लोपेनप्रणवोत्पत्त्यभिधानात्‌। तदुक्तमाचार्यैः—“सकारं च हकारं च लोपयित्वा प्रयोजयेत्‌। संधिवैपूर्वरूपाख्यंततोऽसौप्रणवो भवेत्‌” इति। एवंरूपस्यार्थस्योक्तप्रायत्वात्पुनरत्र नोक्तः। उक्तमर्थं हेतूकृत्य प्रकारान्तरेण मन्त्रं व्याख्यास्यन्नमःपदावयवस्य नकारस्यार्थमाह—तस्मादिति। यस्मात्परमार्थतो जीवःशिवस्वरूपानतिरिक्तस्तस्मात्स्वरूपजिज्ञासोर्जीवस्य सर्वदा वस्तुतः परमार्थत उपादेयं हितमपि नास्ति। हातव्यमहितमपि नास्ति। परशिवस्वरूपातिरिक्तस्य सर्वस्य मित्थत्वाद्धेयोपादेयविभागोनास्तीति। यत एव तत्प्रतीतितो न भवति। प्रातीतिकस्याविद्यमानत्वात्‌। तस्मात्परमार्थोपाधौहेयोपादेयौ सर्वदा न स्तइत्यर्थः। एतावता दृश्यप्रपश्चनिषेधो नकारार्थइत्युक्तो

न हेयमहितं तद्वद्वस्तुतोन प्रतीतितः।

एवं विद्यान्नकारार्थं मकारार्थ उदीर्यते॥ १३ ॥

मकारो ममशब्दार्थो लुप्तस्त्वेको मकारकः।

व्यावहारिकदृष्ट्य

ऽयं नमस्कारः प्रकीर्त्यते॥ १४ ॥

तस्माच्चतुर्थीशब्दस्तु प्रोच्यते न हि वस्तुतः।

ओङ्कारशब्दः सर्वार्थवाचकः परिकीर्तितः॥ १५ ॥

प्रयोगादेव सर्वत्र सर्वार्थःशिव एव हि।

तस्माच्छिवस्य पूर्णस्य प्रणवो वाचकः स्मृतः॥ १६ ॥

________________________________________________________________________________

भवति। उपसंहरति—एवं विद्यादिति॥ १२ ॥ १३ ॥ मकारार्थमाह—मकार इति। एकस्य मकारस्य च्छान्दसो लोपः। अतोममेति शब्दस्य योऽर्थः स एवमकारस्याप्यर्थः। ननु नमःशब्दो नमस्कारप्रतिपादकमव्ययंतद्योगात्‌ “नमःस्वस्तिस्वाहा” इति शिवशब्दाच्चतुर्थीतत्कथमुक्तोऽर्थः संगच्छत इति तत्राऽऽह—व्यावहारिकेति। न हि वस्तुत इति। न खलु परमार्थतो नमःशब्दस्य नमस्कारोऽर्थः। अपि तर्ह्यस्मदुक्त एवेत्यर्थः। ज्ञाताज्ञातादिसर्ववस्त्ववभासकत्वस्य प्रागेवोपपादितत्वात्प्रणवेनात्र दृश्यप्रपश्चलक्षणःसर्वोऽर्थः प्रतिपाद्यत इत्याह—ओङ्कारशब्द इति॥ १४ ॥ १५ ॥ कुत इत्यत आह—प्रयोगादिति। उक्तमेतत्‌ ‘ज्ञातार्थे ज्ञातम्‌’इत्यादिना। इत्थं पदार्थानुक्त्वा वाक्यार्थमाह—सर्वार्थःशिव एव हीति। प्रणवप्रतिपादितोयः सर्वोऽर्थोसौशिव एवहि यस्मादेवंतस्मान्मम हेयमुपादेयं वा किमपि नास्तीत्यर्थः। अयमभिप्रायः। यद्यदनुविद्धं भासते तत्तत्र परिकल्पितम्‌। यथा सर्पधारादयो रज्ज्वाइदमंशे तथैव सदनुविद्धं सर्वं दृश्यभासते। तस्मात्सद्रूपे ब्रह्मणि परिकल्पितस्य च भोक्तृभोग्यात्मकस्याऽऽरोप्यस्य प्रपञ्चस्याधिष्ठानयाथात्म्यज्ञानेन विलये सति स्वप्रतिष्ठमद्वितीयं परशिवस्वरूपमवावतिष्ठत इति। श्रुतिश्च “आत्मैवेदं सर्वम्‌” “इदं सर्वं यदयमात्मा” इत्यादिका परशिवस्य सार्वात्म्यमाह। यस्मादसौ सर्वार्थात्मकस्तस्मादेव सव–

वाच्यवाचकभावश्च लक्ष्यलक्षणताऽपि च।

अन्योन्यताऽपि नास्त्येव परमार्थनिरूपणे॥ १७ ॥

अभावादेव सर्वस्यशिवादन्यस्य सर्वदा।

अस्तिनास्ति मृषा भाति न भातीत्यादि मायया॥ १८ ॥

कल्पितं

चित्सुखानन्तपरमात्मशिवात्मनि।

मायातत्कार्यमप्यस्माच्छिवात्सत्यादिलक्षणात्‌।

प्रत्यक्षसिद्धान्नास्त्येव परमार्थनिरूपणे॥ १९ ॥

अथ किं बहुनोक्तेन शिवादन्यन्न विद्यते॥ २० ॥

शिवस्वरूपमेवाऽऽहुरिदं सर्वं विचक्षणाः।

सर्वस्वरूपमज्ञानादृृश्यते न तु वस्तुतः॥ २१ ॥

एष एव हि मन्त्रार्थःसत्यं सत्यं न चान्यथा।

________________________________________________________________________________

वस्त्ववभासकः प्रणवः परिणूर्णस्यवाचको जात इत्याह—

तस्मादिति॥ १६ ॥ ननु तत्स्वरूपस्यच वाङ्मनसातीतत्वात्प्रणवस्य कथं तद्वाचकत्वं लक्षकत्वंच तस्य वा कथं वाच्यत्वलक्ष्यत्वादयो धर्मा इति तत्राऽऽह—

वाच्येति। वाच्यवाचकत्वादयो व्यवहारदृष्ट्यैवपरमार्थतोन सन्तीत्यर्थः॥ १७—

१९॥ किंबहुना शिवस्वरूपातिरेकेण किमपि नास्तीत्याह। अथेति। श्रूयते हि—

“नेह नानाऽस्ति किंचन” इति॥ २० ॥ ननु प्रतीयमानमिदं जगत्कथमपलपितुं शक्यत इत्यत आह—

शिवस्वरूपमेवेति। इत्थमद्वितीये परशिवस्वरूपे यस्य जगतआरोपादन्यत्राभावउक्तस्तत्रापि शिवादन्यन्न विद्यत इत्यपोदितत्वात्सर्वस्य जगतो मिथ्यात्वमुक्तं भवति। तदुक्तम्—

“नान्यत्र कारणात्कार्यंन चेत्तत्र क्व तद्भवेत्‌” इति। एवं चाविद्यावशादेव दृश्यप्रपञ्चस्यानुभवो न परमार्थत इति॥ २१ ॥ षडक्षरवाक्यार्थमुपसंहरन्नुक्तस्यार्थस्यान्यथात्वशङ्कां निवारयति—

एष एवेति। श्रुतिस्मृतिपुराणादयोऽप्यस्मिन्नर्थे पर्यवस्यन्ति। इतोऽन्यथात्वंन शङ्कनीयमित्याह—

वेदाः सर्वे पुराणानि स्मृतयो भारतं तथा ॥ २२ ॥

________________________________________________________________________________

वेदा इत्यादिना। अन्न हि प्रपञ्चस्य मिथ्यात्वं जीवपरमात्मनोरेकत्वं तस्यचाऽऽत्मनः सच्चिदानन्दरूपत्वमद्वितीयंचेत्येतावन्मन्त्रार्थत्वेन प्रतिपादितमेतस्मिन्नर्थे तावद्वेदान्तानां तदनुसारिणां स्मृतीतिहासपुराणानां चैदमर्थ्येमविवादम्‌। अन्येषामपि तैर्थिकनामीदृग्विधव्यवहारमकुर्वतां प्रायेणैतदभिमतमेव। तथा हि—

तत्रसांख्यपातञ्जशैवास्तावदात्मनः सच्चिद्रूपत्वमङ्गीकुर्वन्ति। यद्यपि व्यवहारदशायां प्रकृतिप्राकृतलक्षणप्रपञ्चस्यसत्यत्वमात्मनानात्वंच व्यवहरन्ति तथाऽपि केवल्यदशायां स्वरूपप्रकाशव्यतिरेकेण तस्य सर्वस्यानवभानं वर्णयन्ति। आत्मयाथात्म्यज्ञानलक्षणायाःप्रकृतिपुरुषविवेकख्यातेर्हि कैवल्यम्‌। तथाविधज्ञानोत्तरकालं प्रकृतिप्राकृतार्थात्मकंजगत्सर्वथा न भातं चेत्तदस्तित्वंकथं निश्चीयेत। ज्ञेयसिद्धेर्ज्ञानाधीनत्वात्‌। अत आत्मयाथापत्म्यज्ञानेन निवर्तितमेव तत्तस्मात्प्रपञ्चस्याज्ञानस्य ज्ञाननिवर्त्यत्वेन मिथ्यात्वमवश्यमभ्युपगन्तव्यम्‌। ज्ञाननिवर्त्यानां शुक्तिरुप्यादीनां मिथ्यात्वदर्शनात्‌। किंच “कृतार्थं तं प्रति नष्टमप्यनष्टं तदन्यसाधारणत्वात्‌” इति पातञ्जलं सूत्रम्‌। अनेन च प्रकृतिप्राकृतिकात्मकं जगन्मुक्तापेक्षया नष्टं तदितरापेक्षया विद्यमानमेवेति पुरुषविशेषापेक्षया तस्याभावसद्भावो प्रतिपाद्येते। एतच्चतन्मिथ्यात्वेऽवकल्पते। पुरुषविशेषमपेक्ष्यैकस्यैव वस्तुनः सद्भावाभावयोः शुक्तिरूप्यादौ दर्शनात्‌। तत्र हि काचकामलादिदोषदूपितनेत्रः पुरुषः शुक्तौरूप्यसद्भावं प्रतिपद्यते। तदितरस्तु शुक्तिस्वरूपमेव जानंस्तत्र रूप्याभावमवगच्छति। न हि पारमार्थिकं घटादि पुरुषविशेषं प्रति सद्भावासद्भावौयुगपत्प्राप्नोति। तस्मत्स्वरूपज्ञानपर्यन्तमनुवर्तमानस्य तत ऊर्ध्वमप्रतिभासमानस्य प्रपञ्चस्य वेदान्तिनामिव सांख्यादीनामप्यविशेषान्मिथ्यात्वं सिद्धम्‌।अथापि कस्मान्न व्यवहरन्तीति चेत्‌। श्रोतुर्बुद्धिसमाधानार्थमिति ब्रूमः। स खलुप्रथमत एव सर्वंमिथ्येत्युक्ते कथमेतद्धटत इति व्याकुलितमनस्को भवेत्‌। तन्माभूदिति सत्यत्वव्यवहार एवकेवलम्‌। आत्मनानात्वंस्य जीवेश्वरभेदस्य च मुक्तावनवभातत्वेनैव प्रपञ्चवन्मिथ्यात्वं यदि व्यवहारदशायामेक एवाऽऽत्मेत्य—

भिधीयीत तदा तत्तदुपाधिपरिकल्पनेन जीवेश्वरव्यवस्था सुखदुःखादिव्यवस्था

_______________________________________________________________________________________

च प्रयाससमर्थनीया स्थादित्यभिप्रायेणैवतन्नानात्ववर्णनम्‌। मुक्तौ तु वेदान्तिनामिव सांख्यादीनामपि केवलात्मस्वरूरूपप्रतिभास एव संमत इति परमार्थतोऽद्वितीयत्वमत्मनः सिद्धम्‌। व्यवहारमात्र औपाधिकं स्वाभाविकमिति केवलं विवादः। आनन्दरूपत्वं च पतञ्जलसूत्रभाष्यकारोदाहृतत्वाजैगीषव्योपाख्यानादवगम्यते। जैगीपव्यो हि परमयोगीश्वरो योगमहिम्नाऽणिमाद्यष्टैश्वर्यंप्राप्य बहून्ब्रह्मसर्गान्संस्मृत्य तत्र सर्वत्नोपरतो दिव्यज्ञानेन साक्षात्कृतेस्वात्मतत्त्वेकृतप्रणिधानः परमर्षिभिर्योयोगिश्वर्यप्राप्तास्वणिमादिषु कि सुखमनुभूतं त्वयेति पृष्टे न किंचिदिति प्रत्युक्तवान्‌। अणिमाद्या विभूतिःकेवलसुखात्मिका कथमेवं वदसीति पृष्टःसन्नवोचत्‌। सत्यम्‌। सांसारिकसुखापेक्षयाऽणिमाद्येश्वर्यमधिकसुखावहम्‌। कैवल्यापेक्षया तु दुःखात्मकमेवेति। एवं चात्यन्तानुकूलवेद्यत्वमात्मन उक्तं भवति। एतदेवात्मन आनन्दरूपत्वंनाम। तथाऽप्यानन्दरूप इति न व्यवहरन्ति सुखेष्वेवाऽऽनन्दशब्दस्य व्युत्पत्तेः। इत्थं नैयायिकवैशेषिकादीनामपि मते ज्ञानान्मोक्षः, मुक्तस्य स्वव्यतिरिक्तानात्मलक्षणजगतोऽप्रतिपत्तिःसमानैवेति तैरपि सांख्यादिवदात्माद्वितीयत्वं प्रपश्चमिथ्यात्वंचावश्यमङ्गीकार्यम्‌। ब्रह्मेन्द्रादिपदादपि श्रेयस्त्वेन मुक्तेः प्रार्थ्यमानत्वादत्यन्तानुकूलवेद्यत्वंच। ननु ते नवगुणानामत्यन्तोच्छेदो मोक्ष इति मुक्तौज्ञानस्याप्यभावमिच्छन्ति। सत्यम्‌। आत्मस्वरूपचैतन्यस्यात्यान्तनिर्विकल्पत्वात्तेषामनवभानाभिमानः। अत एव शून्यवादिनोऽनवभानभात्मैव नास्तीति प्रतिपन्नाः शास्त्रज्ञदृष्ट्या प्रातर्गजाभावज्ञाने सत्येव यथा लौकिकजनस्यादर्शनाभिमानो ग्राहकविज्ञानस्यनिर्विकल्पकत्वात्‌। एवमेवाऽऽत्मस्वरूपचैतन्यस्यात्यन्तनिर्विकल्पकत्वाल्लौकिकज्ञानाभावविषयमेव मुक्तौ ज्ञानराहित्यवर्णनम्‌। शून्यवादेऽप्ययमेवाभिप्रायो योज्यः। विज्ञानवादिनस्तु क्षणिकज्ञानप्रवाहा आत्मेति वर्णयन्ति। तेषां मतेऽपि सांवृतस्य विषयोपप्लवस्य विद्यया या विनिवृत्तौविशुद्धज्ञानसंतानोदयो मुक्तिः। उक्त हि—“धीसंताति प्फुरति निर्विषयोपरागा”इति। संतानो नाम नानाव्यक्तिषु नैरन्तर्येण वर्तनम्‌। तच्चानुभवदशायां सैवेयंदीपज्वालेतिवदेकत्वेनानुभूयमानत्वम्‌। तथाचानुभवत आत्मन ऐक्ये सिद्धे युक्तया यत्तस्य क्षणभङ्गसमर्थनं

__________________________________________________________________________________

तद्बाह्मार्थक्षणिकत्वसाधनाय यत्सत्तत्क्षणिकमिति व्याप्तेरनैकान्तिकत्वपरिहारेण समर्थनार्थम्‌। न च प्रयोजनवशाद्वस्तुनोन्यथात्वंशास्त्रकर्ता कथं प्रतिपादयेदिति शङ्कनीयम्‌। यतो भाट्टाःस्वप्रकाशविज्ञानाकार एव घटादिर्न तु बाह्य इति बाह्यार्थास्तित्वमपलपतो बौद्धान्निराकर्तुंस्वानुभवसिद्धं ज्ञानस्य स्वप्रकाशत्वंपरित्यज्य नित्यानुमेयतामाहूः। तथासति ह्ययं घट इत्यादिज्ञानेषु ज्ञानव्यक्तेरप्रत्यक्षत्वात्प्रत्यक्षत्वेन प्रतीयमानो घटाद्याकारो बाह्यार्थस्तस्यैवति तेषामभिप्रायः। एवं विज्ञानवादिनोऽपि योऽहमद्राक्षं स एवेदानीं स्पृशामीति पूर्वोत्तरक्षणयोरेकत्वप्रतिसंधानेनाऽऽत्मनः स्थायित्वे स्वानुभवासिद्धे यत्क्षणभङ्गसमर्थनं तदुक्तप्रयोजनायैवेति। अस्मदुक्तार्थतात्पर्यंनैव व्याहन्यते। मीमांसकानां शास्त्रंतु भिन्नविषयत्वाद्यथोदीरितमात्मस्वरूपं न विरुणद्धि। तथा हि—वेदाप्रामाण्यवादिनो बौद्धान्निराकृत्य तत्प्रमाण्यंसमर्थयमाना भाट्टाःप्राभाकराश्चवेदोक्तं यागहोमादिकं निर्वर्त्यस्वर्गादौतत्फलमुपभोक्तुं देहातिरिक्तःकश्चिदात्मा कर्ता भोक्ताऽस्तीति तन्नास्तित्ववादिनश्चार्वाकादीन्निराचक्रुः। कर्तृत्वभोक्तृत्वविशिष्टात्मस्वरूपप्रतिपादनस्यैव स्वशास्त्रप्रतिपाद्ययागदानाद्यौपयिकत्वात्तावन्मात्रस्वरूपमात्मनस्तैःप्रतिपादितम्‌। न त्वैपनिषदं कर्तृत्वभोक्तृत्वादिसर्वविक्रियारहितंरूपम। तदवगमस्य स्वशास्त्रेप्रयोजनाभावात्‌। प्रत्युताकर्त्रात्मज्ञानेसति कर्मस्वधिकारभङ्गप्रसङ्गाच्च। तदुक्तं भगवद्भिर्भाष्यकारैः—“अनुपयोगादधिकारविरोधाच्च” इति। ननु कर्त्रात्मस्वरूपप्रतिपादनंतदतिरिक्तस्वरूपास्तित्वनिषेधपरं कस्मान्न भवति। तदस्तित्वाङ्गीकारादिति ब्रूमः। तत्र तावद्भट्टाचार्याः—“इत्याह नास्तिक्यनिराकरिष्णुरात्मास्तितांभाष्यकृदत्रयुक्त्या॥ दृढत्वमेतद्विषयश्चबोधः प्रयाति वेदान्तनिषेवणेन” इति। गुरुमतानुसारिणा भवनाथेनाप्युक्तमर्थवादाधिकरणे—“अथवा न वेदान्तानां चोदनैकवाक्यता। अथातो ब्रह्मजिज्ञासेति शास्त्रान्तरस्थितेरिति”। तस्मान्मीमांसकानामप्युपनिषदेकसमधिगम्यमद्वितीयब्रह्मात्मैकत्वमभिमतमेवेति तच्छास्त्रमप्यस्मदुक्ते-ऽर्थेपर्यवस्यति। एवंशास्त्रन्तरमागमान्तरं चास्मिन्नेवार्थेयोजनीयम्‌। किंच। सर्वैषामपि वादिनामात्मानात्मविवेकबोधोमुक्तिसाधनत्वेनाभिमतःस च बोधः सत्येव चित्तैकाग्र्यइति तत्सर्वथाऽभ्युपेयम्‌। तस्मिंश्च

अन्यान्यपि च शास्त्राणि तथा तर्काश्च सर्वशः।

शैवागमाश्च विविधा आगमा वैष्णवा अपि॥ २३ ॥

अन्यागमाश्च विदुषामनुभूतिस्तथैव च।

अस्मिन्नर्थे स्वसंवेद्ये पर्यवस्यन्ति नान्यथा॥ २४ ॥

बाध्यबाधकतां यान्ति व्यवहारे परस्परम्‌।

समुद्र इव कल्लोलाइति वेदार्थसंग्रहः॥ २५ ॥

मन्त्रार्थःकथितः कृत्स्नःपुरश्चर्याऽधुनोच्यते।

_____________________________________________________________________________________

सति यथाभूतं प्रत्यगात्मस्वरूपं स्वप्रकाशत्वेनावश्यमाविर्भवतीति न तत्र यतनीयमित्यह—अस्मिन्नर्थे स्वसंवेद्य इति। श्रुतेःप्रबलतरप्रमाणत्वात्तत्प्रतिपाद्यस्यार्थस्यान्यथात्वंन संभावनीयमित्याह—नान्यथेति॥२२—२४ ॥ ननुप्रमाणप्रमेयादिषोडशपदार्था इति नैयायिकाः। द्रव्यगुणादयःषट्पदार्थाइति वैशेषिकाः। अव्यक्तमहदहंकृतिप्रभृतीनि चतुर्विंशतिस्तत्त्वानीति सांख्याः। शिवशक्तिसदाशिवेश्वरविद्यातत्त्वप्रभृतीनि षट्त्रिंशत्तत्त्वानीति शैवाः। एवं बहुधा विप्रतिपन्नानां कथमेकस्मिन्नेवार्थे पर्यवसानमित्याशङ्क्याऽऽह—बाध्यबाधकतामिति। एकस्यैव दृश्यप्रपञ्चस्य प्रमाणप्रमेयादिबहुविधकल्पनया व्यवहार एव वादिनां परस्परं विप्रतिपत्तिः। जगत्कारणभूते परमेश्वरस्वरूपे सा नास्तीतीममर्थं प्रत्याययितुं समुद्र इव कल्लोलाइति दृष्टान्तोपादानम्‌। यथा ‘आत्मन आकाशः संभूतः’इति तैत्तिरीयकेवियत्प्रमुखा सृष्टिरुक्ता। छान्दोग्ये तु “तत्तेजोऽसृजत”इति तेज आदिका। “स प्राणमसृजत प्राणाच्छ्रद्धाम्‌” इति क्वचित्सृष्टौ प्राणप्राथम्यम्‌। एवं स्रष्टव्यविषयायांविप्रतिपत्तौ सत्यामपि स्रष्टुःपरमेश्वरस्यैकरूपत्वात्तस्मिन्विप्रतिपत्तिर्नास्ति। उक्तं हि—“कारणत्वेन चाऽऽकाशादिषु यथाव्यपदिष्टोक्तेः” इत्यत्र “सर्गक्रमविवादेऽपि नासौस्रष्टरि विद्यते”इति। एवमत्रापि दृश्यप्रपश्चव्यवहारविषये यद्यपि वैमत्यमस्तितथाऽपि तत्कारणभूते यथोदीरितस्वरूपे परशिवे विवादो नास्तीति युक्तं तत्र सर्वेषां शास्त्राणां शैवाद्यागमानां च पर्यवसानमित्यर्थः॥ २५ ॥

आचार्यमुखतो मन्त्रं ज्ञात्वास्यार्थं समाहितः॥ २६ ॥

यथाशक्ति धनं तस्मैप्रदत्त्वातदनुज्ञया।

स्नानं त्रिषवणं कृत्वा भस्मना शाकभोजनः॥ २७ ॥

फलमूलाशनो वाऽपि हविष्याशी यथाबलम्‌।

पर्वताग्रे नदीतीरे सागरान्ते शिवालये॥ २८ ॥

वने वा निर्भये शुद्धे प्राङ्मुखोदङ्मुखोऽपिवा।

समाहितमना भूत्वा सुखमासनमास्थितः॥ २९ ॥

प्राणायामत्रयं कृत्वामुनिं छन्दस्तथैव च।

देवतां च तथा शक्तिं बीजं स्मृत्वामनोरपि॥ ३० ॥

करन्यासं पुनः कृत्वा तथाऽङ्गन्यासमेव च।

पञ्चाङ्गमपि विन्यस्य गुरुं स्मृत्वाऽभिवन्द्यच॥ ३१ ॥

हृत्पुण्डरीकमध्ये तु सोमसूर्याग्निमण्डले।

विद्युल्लेखेव कल्याणं ज्वलन्तं वह्निरूपिणम्‌॥ ३२ ॥

शिवं ध्यात्वा जपेन्मन्त्रं लक्षाणां षट्समाहितः।

तर्पयेल्लक्षमेकं तु जुहुयात्तु सहस्रकम्‌॥ ३३ ॥

आज्येन पयसा वाऽपि पलाशकुसुमेन वा।

_______________________________________________________________________________________

मन्त्रार्थः कथित इत्यादि स्पष्टम्‌॥ २६—

३१ ॥ हृत्पुण्डरीकेति। हृदम्बुजमध्ये पीठं परिकल्प्य तन्मध्ये सूर्यसोमाग्निमण्डलानि यथाक्रमं द्वादशषोडशदशकलात्मकान्युत्तरोत्तरमान्तरत्वेन संचिन्तनीयानीत्यर्थः। अत्र तु सोमसूर्याग्निमण्डल इति पाठक्रमो न विवक्षितः।अस्मदुक्तक्रमस्यैवाऽऽगमैः प्रतिपादनात्‌। यदाहुरागमिकाः—

“दलाग्रं व्यापकं पूर्वं पूजयेत्सूर्यमण्डलम्। किञ्जल्कव्यापकं दक्षे पूजयेत्सोममण्डलम्‌॥ प्रतीच्यां कर्णिकाव्याप्तं पूजयेदग्निमण्डलम्‌” इति। प्रपञ्चसारेऽप्युक्तम—

मध्येऽनन्तं पद्ममस्मिश्च सूर्यं सोमं

ततः सिध्यति मन्त्रोऽस्य भुक्तिमुक्तिफलप्रदः॥ ३४ ॥

अथवा साम्बमीशानं श्रीसदाशिवमेव च।

नृत्यमानं तथा देवं ध्यात्वा मन्त्रं तुसाधयेत्‌॥ ३५ ॥

अथवा प्राकृतं भावं स्वीयमुत्सज्य सर्वदा।

शिवोऽहमिति संचिन्त्य साधयेदिदमुत्तमम्‌॥ ३६ ॥

मन्त्रस्य साधनं प्रोक्तं विनियोगः प्रकीर्त्यते।

नित्यं द्वादशसाहस्रं जपेद्भक्त्यासमाहितः॥ ३७ ॥

सम्यग्ज्ञानप्लवं लब्ध्वा संसाराब्धिं तरिष्यति।

लक्षपञ्चाशतं जप्त्वा कारणेश्वरमाप्नुयात्‌॥ ३८ ॥

लक्षाणां तु शतं जप्त्वासाक्षाद्रुद्रत्वमाप्नुयात्‌।

अशीतिलक्षं जप्त्वातु नरो विष्णुत्वमाप्नुयात्‌॥ ३९ ॥

षष्टिलक्षजपेनैव लभते ब्रह्मणः पदम्।

चत्वारिंशतिभिर्लक्षैर्विराडात्मानमाप्नुयात्॥ ४० ॥

विंशल्लक्षजपेनैव दीर्घमायुरवाप्नुयात।

षट्कर्माणि प्रसिध्यन्ति दशलक्षजपेन तु॥

विनियोगः समाख्यातः पूजा देवस्य कीर्त्यते॥ ४१ ॥

हृत्पद्मकर्णिकामध्ये मन्त्रेणानेन पूजयेत्‌॥ ४२ ॥

______________________________________________________________________________________

वह्निं तारवर्णैविभक्तैः’इति॥ ३२—३५ ॥ अथवा प्राकृतमिति। प्रकृतिरव्यक्तं तदुत्पन्नं प्राकृतमन्तःकरणादितादात्म्यलक्षणं भावंपरित्यज्यानवच्छिन्नस्य स्वप्रकाशचिदात्मनः शिवोऽहमित्यहंग्रहेण परशिवस्वरूपत्वंध्यायन्मन्त्रंजपेदित्यर्थः॥ ३६—४१ ॥ उत्तमाधिकारिणो बाह्यपूजातो मानसपूजैव श्रेयसीत्यभिप्रेत्य पूर्वं तामाह। हृत्पद्मेति। तत्रासमर्थस्य मध्यमाधिकारिणः शिवपूजाविधावाधारभेदमाह—अथवेति तत्राप्यसंस्कृतचित्तस्याऽऽह—प्रतिमायां

नीलग्रीवा त्रिनेत्राच प्रसन्नवदना शुभा।

वरदाभयहस्ता च विचित्रमुकुटोज्ज्वला॥ ४ ॥

सर्वलक्षणसंपन्ना सर्वाभरणभूषिता।

स्वस्वरूपानुसंधानप्रमोदादेव केवलात्‌॥ ५ ॥

महाताण्डवसंयुक्ता ब्रह्मविष्णुशिवादिभिः।

ध्येयाऽऽद्यन्तविनिर्मुक्ता या मूर्तिः श्रुतिदर्शिता॥ ६ ॥

सैवासाधारणा मृर्तिः परात्परतरस्य तु।

_______________________________________________________________________________________

क्त्वादपि ध्यानाविषयत्वमाह—आत्मत्वादिति। यथोदीरितनिरुपाधिकपरशिवस्वरूपं सर्वप्राणिहृदयेऽन्तःकरणादिभ्यः सर्वेभ्यः प्रत्यग्भूतं “य आत्मा सर्वान्तरः”। “अन्तः प्रविष्टः शास्ता जनानां सर्वात्मा”इति श्रुतेः। अन्तःकरणं च स्वभावतो बहिर्मुखं “पराञ्चि खानि व्यतृणत्स्वयंभूस्तस्मात्पराङ्पश्यति नान्तरात्मन्”इति श्रवणात्‌। अतः परागर्थैकविषयेणान्तःकरणेन सर्वप्रत्यग्भृतं निरुपाधिकं परशिवस्वरूपं कथं विषयी क्रियेत। तस्मादात्मत्वादपि तत्स्वरूपं न ध्यानगम्यमित्यर्थः। किंञ्च कर्मकर्तृभावविरोधादपि न ध्येयत्वमित्याह—विषयित्वत इति। विषयिणो ज्ञानस्य विषयत्वानुपपत्तेरित्यर्थः।ध्यानविषयो हि ध्येयं तच्चात्र ध्यातृस्वरूपभूतज्ञानानतिरिक्तम्‌। तथचैकस्यैव कर्मकर्तृभावलक्षणो विरोध आपद्येत। न चान्तःकरणाद्युपाधिविशिष्टस्य ध्यातृत्वं निरूपाधिकस्वरूपस्य ध्येयत्वमिति सांप्रतम्‌। विशेष्यांशे कर्मकर्तृभावविरोधस्य तादवस्थ्यात्‌॥ २ ॥ ननु ध्यातुर्जीवाद्ध्येय ईश्वरोऽन्य एव। तथा चोक्तदोषपारिहार इत्यत आह—भेदाभावादिति। “अयमात्मा ब्रह्म” “अहं ब्रह्मास्मि”इति वाक्यदैक्यप्रतिपत्तेरित्यर्थः। ननु प्रबलतरेण प्रत्यक्षेण भेदोऽनुभूयत एवेत्यत आह—भेदस्येति भेदावगाहिनो ज्ञानस्य सैवेयं ज्वालेति ज्ञानवद्भ्रमत्वमुपरितनाध्याये प्रतिपादयिष्यते। तस्मान्निरुपाधिकंपरशिवस्वरूपं मूर्त्यात्मनैव ध्येयं न तु स्वरूपेणेति सिद्धम्‌। तां सर्वजनसाधारणामुत्कृष्टांपरशिवमूर्तिं दर्शयति उमार्धेत्यादिना॥ ३—५ ॥ श्रुतिदर्शितेति। “उमासहायं परमेश्वरं प्रभुंत्रिलोचनं नीलकण्ठं प्रशान्तम्‌”

ये सदा परमां मूर्तिं ध्यायन्ति हृदयाम्बुजे।

इमां ते परमां भुक्तिं मुक्तिं च प्राप्नुवन्ति हि॥ ७ ॥

ज्ञानाज्ञानमहामायालक्षणाविद्यया सह।

अभेदेन स्थितं विप्राः परात्परतरं पदम्‌॥ ८ ॥

स्वप्रधानतयोपास्यंतथैवास्वप्रधानतः।

समप्रधानरूपेणाप्यादरेण मनीषिभिः॥ ९ ॥

स्वप्रधानतया तत्त्वमुपास्ते शुद्धमानसः।

तथैवापक्वचित्तस्तुपरतत्त्वं द्विजोत्तमाः॥ १० ॥

अस्वप्रधानरूपेण तथा मर्त्यस्तु मध्यमः।

समप्रधानरूपेण तत्त्वंध्यायन्ति सादरम्‌॥ ११ ॥

जाड्याकारस्तु यः शक्तेस्तेनाभिन्नं परं पदम्‌।

स्वप्रधानादिरूपेण त्रिधोपास्यं विचक्षणैः॥ १२ ॥

तथा शक्तेस्तु यो ज्ञानाकारस्तेनैकतां गतम्‌।

परतत्त्वं त्रिधोपास्यं परिज्ञानवतां वराः॥ १२ ॥

_______________________________________________________________________________________

इति। “सत्यं ज्ञानमन्तं ब्रह्म”इति च श्रुतिः॥ ६ ॥ ७ ॥ इत्थं करचरणादिविशिष्टमूर्त्यात्मनः परशिवरूपस्य ध्येत्वमभिधाय मूर्तिव्यतिरिक्तैरुपाध्यन्तरैरपि विशिष्टंतद्ध्येयमित्याह—ज्ञानाज्ञानेति। ज्ञायतेऽनेनेति ज्ञानं मायायाःसत्त्वपरिणामरूपान्तःकरणवृत्तिः।तथा तमःपरिणामरूपो जाड्याकारोऽज्ञानम्‌। स्वाश्रयव्यामोहकरी दुर्घटकारिणी माया सैव स्वाश्रयव्यामोहनसामर्थ्ययुक्ता चेदविद्या। एते चत्वारः परशिवस्वरूपस्योपाधयः॥८ ॥एतेष्वेकेन विशिष्टं परतत्वमुत्तममध्यमाधमाधिकारिभिःस्वप्रधानसमप्रधानास्वप्रधानरूपेण त्रिधोपास्यमित्याह—स्वप्रधानतयेत्यादिना॥९ ॥ स्वप्रधानतयेति उपधेयपरशिवस्वरूपप्राधान्येनेत्यर्थः॥१० ॥ अस्वप्रधानरूपेणेति। उपधेयपरशिवस्वरूपमुपसर्जनीकृत्य ज्ञानाज्ञानाद्युपाधिप्राधान्येनेत्यर्थः॥११ ॥

मायाकारैकतापन्नमपि तत्त्वं मनीषिभिः॥ १४ ॥

उपास्यं त्रिविधं प्रोक्तं तथैवाविद्ययैव तु।

अभेदेन स्थितं ब्रह्म त्रिधोपास्यं मनीषिभिः॥ १५ ॥

अन्ये च शक्तेराकारा ये विद्यन्ते विचक्षणाः।

तैरप्येकत्वमापन्नं तत्त्व तद्वन्मनीषिभिः॥ १६ ॥

उपास्यं त्रिविधंनित्यमतीव श्रद्धया सह।

ईक्षणोपाधिसपन्नं परतत्त्वमपि द्विजाः।

स्वप्रधानादिरूपेण त्रिधोपास्यमतिप्रियात्‌॥ १७ ॥

सत्त्वंरजस्तमश्चेति गुणा ये ब्रह्मशक्तिजाः।

तैरप्येकत्वमापन्नं परं ब्रह्म यथाक्रमम्‌॥ १८ ॥

_______________________________________________________________________________________

तानेवोपाधीन्विभज्य दर्शयति—जाड्याकार इत्यादिना मनीषिभिरित्यन्तेन॥ १२—१७ ॥ किंच ज्ञानाज्ञानादिव्यतरिक्ता इच्छाक्रियाद्याये शक्तेराकारविशेषास्तदुपाधिकमपि परशिवस्वरूपं यथोदीरितैरधिकारिभर्यथाक्रमं स्वप्रधानादिरूपेण त्रिधोपास्यमित्याह—अन्ये चेति। एवं वक्ष्यमाणेष्वपि सोपाधिकरूपेषु गतिनैशित्यानुसारेणाधिकात्स्वप्रधानादिरूपेणोपाधित्रैविध्यंसर्वत्रावगन्तव्यम्॥ १६ ॥ ‘स ऐक्षत लोकान्नुसृजै’इति ‘तदैक्षत बहु स्यां प्रजायेय’इति श्रवणात्स्वप्रतिष्ठस्य परशिवस्य प्राणिकर्मवशात्स्रष्टव्यपर्यालोचनात्मकमीक्षणं सिसृक्षापरपर्यायं तदुपाधिकमपि तत्त्वं ध्येयमित्यह—ईक्षणेति १७॥सत्त्वरजस्तमोगुणात्मिका या परशिवस्वरूपाश्रिता माया तस्याःप्रलयदशायामत्यन्तनिर्विकल्पकत्वात्तदीयगुणा अप्यविभागापन्नाएवभवन्ति। अत एव सांख्यौरुच्यते—“सत्त्वरजस्तमोगुणानां साम्यावस्था मुलप्रकृतिः” इति। परमेश्वरस्य सिसृक्षायां जातायां तत्परतन्त्रमायाया अपि विचिकीर्षाजायते। तदवयवभूताश्च सात्त्वाद्यागुणा अन्योन्यंप्रविभक्ताः सन्तः प्रकटी भवन्ति।तैस्त्रिभिरूपाधिभिर्विशिष्टंपराशिवस्वरूपंब्रह्मविष्ण्वादिसज्ञां लभते। अतस्तदुपाधिकमपिपूर्ववत्त्रिधोपास्यमित्यह—सत्त्वमिति॥ १८ ॥ किं

रुद्रः प्रजापतिर्विष्णुरिति भेदमुपैति च॥ १९ ॥

ते जगन्नाशसर्गादेः कर्तारः कार्यरूपिणः।

उपास्यास्त्रिविधा नित्यंतेऽपि स्वं स्वमुपाधिभिः॥ २० ॥

तैर्गृहीतास्तथा विप्रा मूर्तयस्त्रिप्रकारतः।

चित्तपाकानगुण्येन चिन्तनीया महात्मभिः॥ २१ ॥

अग्न्यादित्यादिदेवा ये निहीना मध्यमाः पराः।

ते च ब्रह्मात्मना नित्यमुपास्या एव सादरम्‌॥ २२ ॥

शब्दस्पर्शादिसंज्ञा ये पदार्थाः पञ्च तेऽपि च।

उपास्या ब्रह्मरूपेण महाप्राज्ञैर्मनीषिभिः॥ २३ ॥

आकाशादीनि भूतानि यानि तानि मनीषिभिः।

ब्रह्मरूपतया नित्यमुपास्यानि महात्मभिः॥ २४ ॥

भौतिका अण्डभेदाश्च ब्रह्मरूपेण सादरम्‌।

चिन्तनीयाश्च विद्वद्भिर्वेदवेदाङ्गपारगैः॥ २५ ॥

अण्डमध्ये स्थिता लोका एतेऽपि ब्रह्मवित्तमाः

______________________________________________________________________________________

बहुना ब्रह्मादिस्तम्बान्तं चराचरात्मकंजगत्सच्चिदानन्दे परशिवस्वरूपे परिकल्पितम्‌। तथा हि—यदनुविद्धं यदृश्यते तत्तत्र परिकल्पितं।यथा सर्पधारादयो रज्ज्वाइदमंशे सच्चिदनुविद्धं चेदमनुभूयते। तस्मात्सच्चिदानन्दात्मके पराशिवस्वरूपे परिकल्पितम्‌।आम्नायते च—“सद्धीदंसर्वं सत्सदिति।चिद्धीदं सर्वंकाशते काशते च” इति॥ १९ ॥ २० ॥ एवं चाधिष्ठानभूतसच्चिदादिलक्षणब्रह्मात्मनाऽविभागापन्नं ब्रह्मरुद्रादिचेतनाचेतनात्मकंसर्वं जगत्पूर्ववत्स्वप्रधानादिरूपेण त्रिधोपास्यमित्याह—तैर्गृहीता इत्यादिना वाक्यवेदिभिरित्यन्तेन॥२१॥ अग्न्यादित्यादीति। मनुष्यादीनामिवाग्न्यादिदेवानामप्यधिकारतारतम्याधीनाधम-मध्यमोत्तमभावेन त्रैविध्यमवगन्तव्यम्‌॥ २२ ॥शब्दस्पर्शादीति। आकाशादिभूतपञ्चकस्यकारणभूता पश्च तन्मात्रा शब्दस्पर्शादि–

ब्रह्मरूपतया नित्यमुपास्या एव सूरिभिः॥ २६ ॥

लोकान्तर्वर्तिनो देशा एतेऽपि द्विजपुङ्गवाः।

ब्रह्मरूपतया नित्यमुपास्या मुनिसत्तमैः॥ २७ ॥

मेरुमन्दपूर्वाश्चपर्वता विविधा द्विजाः।

ब्रह्मरूपतया नित्यमुपास्या वेदवित्तमाः॥ २८ ॥

नदीनदादयः सर्वे देवर्ष्यादिविनिर्मिताः।

ब्रह्मरूपतया नित्यमुपास्याः पुरुषोत्तमेः॥ २९ ॥

वापीकूपतडागाद्या अपि वेदपरायणाः।

ब्रह्मरूपतया नित्यमुपास्याः पुरुषाधिकैः॥ ३० ॥

वनानि यानि लोके तु विविधानि महत्तमाः।

तानि ब्रह्मतया नित्यमुपास्यानि तपोधनैः॥ ३१ ॥

समुद्राश्चसदा विप्राः समुद्रान्तर्गता अपि।

संगमा अपि सद्ब्रह्मध्यातव्या एव केवलम्‌॥ ३२ ॥

दिशश्च विदिशश्चैव दिवारात्रं तथैव च।

अनागतादयः कालाउपास्या ब्रह्मरूपतः॥ ३३ ॥

जरायुजाण्डजाश्चैव स्वेदजाश्चोद्भिजस्तथा।

ब्रह्मरूपतया नित्यमुपास्या मोहवर्जितैः॥ ३४ ॥

ब्राह्मणाः क्षत्रिया वैश्याःशूद्रा अपि च संकराः।

ब्रह्मरूपतया नित्यमुपास्या एव सूरिभिः॥ ३५ ॥

आश्रमा ब्रह्मचर्याद्यास्तदाचारा अपि द्विजाः।

ब्रह्मरूपतया नित्यमुपास्याः परमास्तिकैः॥ ३६ ॥

महापातकपूर्वाणि पापानि सुबहूनि च।

ब्रह्मरूपतया नित्यमुपास्यानि महत्तमैः॥ ३७ ॥

धर्मसंज्ञाश्च ये विप्रा उत्तमाधममध्यमाः।

तेऽपि ब्रह्मतया नित्यमुपास्याः पण्डितोत्तमैः॥ ३८ ॥

सुखं दुःखं तयोर्भोगः साधनं तस्य सुव्रताः।

ब्रह्मरूपतया सर्वमुपास्यं सत्यवादिभिः॥ ३९ ॥

कर्ताकारयिता कर्मकरणं कार्यमेव च।

ब्रह्मरूपतया सर्वमुपास्यं चेतनोत्तमैः॥ ४० ॥

प्रमाता च प्रमाणं च प्रमेयं प्रमितिस्तथा।

ब्रह्मरूपतया सर्वमुपास्यं मानमानिभिः॥ ४१ ॥

विधयश्च निषेधाश्च विद्याविद्येतथैव च।

ब्रह्मरूपतया सर्वमुपास्यं वेदवेदिभिः॥ ४२ ॥

अवन्ध्याश्च तथा वन्ध्या वादाश्च विविधा अपि।

ब्रह्मरूपतया सर्वमुपास्यं वाक्यवेदिभिः॥ ४३ ॥

यद्यदस्तितया भाति यद्यन्नास्तितयाऽपि च।

तत्तद्ब्रह्मतया नित्यमुपास्यं ब्रह्मवित्तमैः॥ ४४ ॥

इत्थं सर्वत्र यः साक्षाद्ब्रह्मोपास्ते सनातनम्‌।

_______________________________________________________________________________________

नोच्यन्ते ॥ २३—

४० ॥ मानमानिभिरिति। मानं प्रमाणं मान्तुं निर्णेतुं शालमेषां तैः। प्रमाणवेदिभिरित्यर्थः॥ ४१ ॥ ४२ ॥ अवन्ध्याः सफलाः। वन्ध्या निरर्थकाः॥ ४३ ॥ इत्थं भूतभौतिकात्मकं सर्वंजगद्ब्रह्मात्मनोपास्यमित्यभिधायानुक्तसंग्रहायाऽऽह—

यद्यदस्तितयेति। अस्तिप्रत्ययविषयत्वेन नास्तिप्रत्ययविषयत्वेन च यद्यत्‌ भासते तत्सर्वं ब्रह्मात्मत्वेन ध्येयमित्यर्थः। भावाभावात्मकस्यकस्यचिदपि वस्तुनोऽसत्त्वादुक्तव्यतिरिक्तस्यभावाभावात्मकस्य सर्वस्य संग्रहः॥ ४४ ॥ सर्वात्मकत्वेनोक्तं ब्रह्मोपासनमुपसंहरंस्तत्फलमाह—

स याति ध्यानयज्ञेन साक्षाद्विज्ञानमैश्वरम्॥ ४५ ॥

ध्यानयज्ञस्य माहात्म्यं कल्पानां कोटिकोटिभिः।

मया मत्तोऽधिकैरन्यैरपि वक्तुं न शक्यते॥ ४६ ॥

ध्यानयज्ञं विना मुक्तौ यतन्ते मोहिता जनाः।

पायसान्नं परित्यज्य भक्षयन्ति महाविषम्‌॥ ४७ ॥

ध्यानयज्ञं विना किंचित्कुर्वाणो मुक्तिसिद्धये।

अक्ष्णाऽपि शब्दं गृह्णाति विना श्रोत्रेण केवलम्‌॥ ४८ ॥

अश्वमेधादयो यज्ञा अशेषा वेददर्शिताः।

मुनीन्द्रा ध्यानयज्ञस्य कलां नार्हन्ति षोडशीम्॥ ४९ ॥

ध्यानयज्ञपरो मर्त्यःशिव एव न चापरः।

ध्यानयज्ञैकनिष्ठस्यन किंचिदपि दुर्लभम्‌॥ ५० ॥

ध्यानयज्ञपराणां तु प्रसादं कुरुते शिवः।

शिवोऽपि साक्षात्सर्वज्ञः संसारविनिवर्तकः॥ ५१ ॥

बहुनोक्तेन किं सर्वंसमासेन मयोदितम्‌।

कुरुध्वं वेदविन्मुख्या ध्यानयज्ञमशङ्किताः॥ ५२ ॥

इति श्रीस्कान्दपुराणे सूतसंहितायां चतुर्थे यज्ञवैभवखण्डे

ध्यानयज्ञविवरणं नाम नवमोऽध्यायः॥ ९॥

________________________________________________________________________

इत्थमित्यादिना।आरोपितस्य सर्वस्याधिष्ठानब्रह्मरूपताध्यानेन समासादितैकाग्र्येण मनसा सर्वाधिष्ठानभूतं तत्परशिवस्वरूपंसाक्षात्कुर्यादित्यर्थंः॥ ४५—४७ ॥यथा शब्दाद्युपलब्धौश्रोत्रादीन्द्रियमसाधारणं कारणमेवंज्ञानयज्ञं प्रति ध्यानयज्ञोऽसाधारणकारणमित्याह—ध्यानयज्ञमिति।सुगममन्यत्॥ ९ ॥

इति श्रीस्कान्दपुराणे श्रीसूतसंहितातात्पर्यदीपिकायां यज्ञवैभवखण्डे ध्यानयज्ञविवरणं नाम नवमोऽध्यायः॥ ९ ॥

दशमोऽध्यायः॥

१०. ज्ञानयज्ञविवरणम्‌।

सूत उवाच—

अथेदानीं प्रवक्ष्यामि ज्ञानयज्ञस्य वैभवम्‌।

ज्ञानयज्ञात्परो यज्ञो नास्ति विप्राः श्रुतौस्मृतौ॥ १ ॥

ज्ञानं बहुविधं प्रोक्तं वेदान्तज्ञानपारगैः।

स्वरूपमेकं विज्ञानं शिवस्य परमात्मनः।

तदेव मायातत्कार्यभेदेन बहुधा भवेत्‌॥ २ ॥

मायाकारेण संबद्धं जडशक्तेः शिवस्य तु॥ ३ ॥

ज्ञानमीश्वरसंज्ञं च नियन्तृ जगतो भवेत्‌॥ ४ ॥

_________________________________________________________________________________________

इत्थं कायिकवाचिकमानसैः कर्मभिः प्रक्षीणकल्मषस्य मुमुक्षोः परशिवस्वरूपावगमाय ज्ञानयज्ञं प्रस्तौति—अथेति।यज्ञान्तरादस्य वैलक्षण्यमाह—ज्ञानयज्ञादिति। श्रुतौतावत्‌ “ब्रह्म वेद ब्रह्मैव भवति” “ब्रह्मविदाप्नोतिपरम्‌”“तमेवंविदित्वाऽति मृत्युमेति”“तस्यैवाऽऽत्मा पदवित्तं विदित्वा न कर्मणा लिप्यते पापकेन” इति ज्ञानस्यान्यनैरपेक्ष्येणैव साक्षादपर्वगसाधनत्वमाम्नातम्‌। स्पृतावपि—“श्रेयान्द्रव्यमयाद्यज्ञाज्ज्ञानयज्ञः परंतप। सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते” इति॥ “क्षेत्रज्ञस्याऽऽत्मविज्ञानाद्विशुद्धिःपरमा मता” इति मनुस्मृतौ॥ १ ॥ सृष्टेः प्राक्स्वप्रतिष्ठितमद्वितीयंपरशिवस्वरूपभूतंस्वप्रकाशज्ञानं तदेव सृष्ट्युत्तरकालं मायातत्कार्योपाधिवशाज्जीवेश्वरादिभेदं भजत इत्याह—ज्ञानं बहूविधमित्यादिना॥ २ ॥ ३ ॥ तत्र जगन्नियन्तुरीश्वरस्प स्वरूपमाह—मायाकरेणेति। शक्यप्रतियोगिकंपरशिवस्वरूपमेव संविद्रूपिणी परशक्तिरित्युक्तंततो व्यावर्तयति—जडशक्तेरिति। वेदान्तिभिर्मायेति या गीयते सांख्यैरव्यक्तं प्रकृतिरिति साऽत्र परशिवस्य जडशक्तिः॥ ३ ॥ सा च गुणसाम्यं विहाय रजस्तमसोरत्यन्ताभिभवेन विशुद्धसत्त्वप्रधानमायाकारेण यदा परिणमते तदा तदुपाधिकं चैतन्यं सर्वज्ञो जग–

शक्तेरविद्याकारेण संबद्धं जीवसंज्ञितम्‌।

जीवसंज्ञं तु विज्ञानं द्विधा लोके व्यवस्थितम्‌।

अर्थतो मुख्यमेकं तु ज्ञानमन्यत्प्रतीतितः॥ ५ ॥

अविद्याबद्धविज्ञानमर्थतोमुख्यमुच्यते।

स्थूलसूक्ष्मशरीराभ्यामवच्छिन्नं प्रतीतितः॥ ६ ॥

स्वप्रचाराश्रयं चित्तं जीवरूपप्रकाशकम्‌।

ज्ञातृत्वहेतुर्जिवस्य दुःखित्वादेश्चकारणम॥ ७ ॥

_________________________________________________________________________

त्कर्तेश्वरो भवेदित्यर्थः॥ ४॥ मलिनसत्त्वप्रधानमाया स्वाश्रयव्यामोहकत्वादविद्येत्युच्यते। तदुपाधिकं यत्‌ तज्ज्ञानं जीवसंज्ञां लभत इत्यह—शक्तेरविद्येति। तस्यैव जीवसंज्ञस्य द्वैविध्यमाह—जीवसंज्ञमिति। तत्रैकमर्थतो मुख्यमन्यत्प्रतीतितो मुख्यम्‌॥ ५ ॥ एतदुभयं दर्शयति—अविद्याबद्धेति। जीवस्योपाधिभूता मलिनसत्त्वप्रधाना या मायाऽविद्यापरपर्याया सा स्थूलसूक्ष्मशरीरद्वयकारणत्वेन जीवस्य कारणशरीरमित्युच्यते। तत्संबद्धं तदुपहितं स्वरूपचैतन्यं परमार्थतः स्वपरव्यवहारहेतुः प्रकाशचिदात्मकत्वादर्थतोमुख्यमविद्याकार्यभूतं यत्स्थूलसूक्ष्मात्मकं शरीरद्वयं तेनावच्छिन्नं तत्रशरीरद्वये कारणत्वेनानुगतमायावयवभूतं स्वप्रकाशचैतन्याध्यासेन तदात्मकेनैवभूतंयदन्तःकरणं तद्वृत्त्युपादानभूतं सत्त्वंतदनुभवतश्चित्प्रकाशरूपत्वात्प्रतीतितो मुख्यंपरमार्थतस्तु तस्य सत्त्वस्यजडत्वमेवाग्निनाऽयःपिण्डवत्स्वरूपचैतन्येनैकीभूतत्वात्तस्य ज्ञानत्वव्यपदेशः॥ ६ ॥ एवंविधसत्त्वपरिणामरूपान्तःकरणतद्वृत्तिसंबन्धादेवाविद्योपहित जीवचैतन्यस्य ज्ञातृत्वकर्तृत्वभोक्तृत्वादिसकलव्यवहारसंबन्ध इत्याह स्वप्रचाराश्रयमिति। स्वशब्देन चित्त परामृश्यते। स्वस्य प्रचारा विषयाकारवृत्तयस्तत्संघातात्मकमित्यर्थः।तथाविधान्तःकरणतादात्म्याध्यासेन तदीयकर्तृत्वभोक्तृत्वादेश्चैतन्येऽध्यासादस्य जीवप्रकाशकत्वम्‌। सकलःसंसारोऽन्तःकरणस्यैव नाऽऽत्मनः पारमार्थिक इति श्रुयते ‘कामः संकल्पोविचिकित्सा श्रद्धाऽश्रद्धा धृतिरधृतिर्ह्नीर्धीर्भीरित्यतत्सर्वं मन एव” इति॥ ७ ॥ कथमन्तःकरणस्य कर्तृत्वभोक्तृत्वादिकारणत्व–

प्रमाणभ्रान्तिसंदेहाद्याकारेण मुनीश्वराः।

बहुरूपं भवेच्चित्तं कालकर्मविपाकतः॥ ८ ॥

तत्तदाकारसंभिन्नं विज्ञानं मुनिपुङ्गवाः।

प्रमाणभ्रान्तिसंदेहज्ञानमित्युच्यतेऽनघाः॥ ९ ॥

अदुष्टकरणोत्पन्नं विज्ञानं मुनिपुङ्ग्वाः।

प्रमाणज्ञानमित्युक्तं मुनिभिः सूक्ष्मदर्शिभिः॥ १० ॥

दुष्टकारणविज्ञानं भ्रान्तिज्ञानं प्रचक्षते।

कोटिद्वयावलम्बि स्यात्संदेहज्ञानमास्तिकाः॥ ११ ॥

इत्थमेवेदमित्येवंरूपं यत्स्फुरणं बुधाः।

स एवनिश्चयः प्रोक्तः सम्यग्दर्शनतत्परैः॥ १२ ॥

ज्ञानस्य तेन संबन्धः प्रामाण्यं कथितं मया।

_______________________________________________________________________________________

मित्याशङ्क्य तदुपपादयितुं प्रमाणादिवृत्त्यात्मना नानारूपतामाह—प्रमाणेति। कालकर्मविपाकत इति। कालोहि कर्मपरिपाकस्य हेतुः। कालवशात्सुखदुःखहेतुभूतानां पुण्यपापात्मनां प्राणिकर्मणां यः परिपाकः फलप्रदानोन्मुखत्वंतस्मादित्यर्थः॥ ८ ॥ तत्तद्विषयाकारवैचित्र्यादेव प्रमाणादिभेदव्यपदेश इत्याह—तत्तदिति। विज्ञानमिति। स्वरूपचैतन्यतादात्म्याध्यासेनैकीभूतमन्तःकरणकवृत्तिज्ञानमित्यर्थः॥९ ॥ तत्र प्रमाणस्य स्वरूपमाह—अदुष्टेति काचकामलादिदोषदूषितं चक्षुरादिकरणं शुक्तिरूप्यादिविभ्रमस्यानवधारणरूपस्य संशयस्य च जनकमिति ततो व्यावर्तयति—अदुष्टेति॥ १० ॥ भ्रान्तेर्लक्षणमाह—दुष्टेति। दुष्टकारणवशादतस्मिंस्तद्बुद्धिर्भ्रान्तिरित्यर्थः। संशयं लक्षयति—कोटिद्वयेति। स्थाणुर्वापुरुषो वेति विरुद्धानेककोटिद्वयालम्बि ज्ञानं संशय इत्यर्थः॥ ११ ॥ प्रमाणफलभूतस्य निश्चयस्य स्वरूपमाह—इत्थमिति। प्रमाणवृत्त्या व्याप्तरय विषयस्य स्वाधिष्ठानचैतन्येन वा स्वस्वानुकारवृत्त्यवच्छिन्नचैतन्येन वा यत्स्फुरणम्‌ तन्निश्चय इत्यर्थः॥ १२ ॥ ईदृक स्फुरणं यस्मिन्बुद्धिवृत्तिविशेषे तस्यैव प्रामाण्यमित्याह–

प्रमाणज्ञानसामर्ग्र्यः षण्मयाऽभिहिता बुधाः॥ १३ ॥

तत्रैकाऽभावविज्ञानसामग्री कथिता द्विजाः।

अन्या तु भावविज्ञानसामग्री परिकीर्तिता॥ १४ ॥

यद्योग्यानुपलब्ध्यैव जन्यं विज्ञानमास्तिकाः।

तत्स्यादभावविज्ञानं धार्मिका वेदवित्तमाः॥ १५ ॥

इन्द्रियोत्पन्नविज्ञानं प्रत्यक्षं परिभाषितम्‌।

व्याप्तिजन्यपरिज्ञानमनुमानमितीष्यते॥ १६ ॥

______________________________________________________________________________________

ज्ञानस्येति। एवं चायं घट इत्यादिवृत्तिज्ञानेषु स्वाकारसमर्पकघटादिविषयस्फुरणसद्भावात्तेषां प्रामाण्यम्‌। इदं रजतमित्यादिविभ्रमज्ञाने त्विदमाकारगोचरा मनोवृत्तिरेका तद्वृत्त्यवच्छिन्नचैतन्यस्थमायापरिणामरूपा शुक्त्यधिष्ठानचैतन्यस्थमायाविवर्तरजतगोचरापरा वृत्तिरिति वृत्तिद्वयम्‌। तदुभयमपि शुक्त्यधिष्ठानभाक्त्वेन वृत्त्यवच्छिन्नत्वेन चोभयत्रानुगतमेकमेतच्चैतन्यमभिव्यनक्ति। तच्चवृत्तिद्वयाभिव्यक्तत्वादारोप्याधिष्ठानलक्षणं विषयद्वयं संसृष्टत्वेन स्फोरयति। तथा च विशिष्टस्फुरणस्येदमाकारविषयमनोवृत्तेश्च संबन्धाभावात्तत्राप्रामाण्यम्‌। इदमाकारमात्रस्फुरणस्य च संबन्धात्तस्मिन्नंशेप्रामाण्यम्‌। उक्तं हि—‘सर्वं वस्तुज्ञानं धर्मिण्यभ्रान्तं प्रकारे तुविपर्ययःइति। तच्च प्रमाणं षड्विधमित्याह—प्रमाणज्ञानेति॥१३॥ भावाभावलक्षणविषयद्वैविध्येन तेषां प्रमाणानां द्वैविध्यमाह—तत्रैकेति॥१४ ॥ तत्राभावग्राहकप्रमाणमाह—यद्योग्येति। अनुपलम्भमात्रस्याभावज्ञानजनकत्वमतिप्रसक्तमिति विशिनष्टि—योग्येति। प्रतियोगिव्यातिरिक्तप्रतियोगिग्रहण-सामग्रीसत्त्वमनुपलब्धेर्योग्यत्वम्‌। तथाविधयाऽनुपब्ध्यायत्प्रमेयाभावगोचरं ज्ञानंजन्यते तदभावग्राहकंप्रमाणमित्यर्थः।तदुक्तं—‘प्रमाणपञ्चकंयत्र वस्तुरूपेण जायते। वस्तुसत्तावबोधार्थं तत्र भावः प्रमाणता’ इति॥ १५ ॥ भावग्राहकाणां मध्ये प्रत्यक्षं लक्षयति—इन्द्रियोत्पन्नेति। उक्तं हि—इन्द्रियार्थसंनिकर्षोत्पन्नंज्ञानमव्यभिचारिव्यवसायात्मकं प्रत्यक्षमिति। अनुमानस्वरूपमाह—व्याप्तीति नियतसंबन्धयोर्व्याप्यव्यापकयोर्धूमाग्न्योर्मध्ये व्याप्यदर्शनबलाद्व्यापकगोचरज्ञानं त–

सादृश्यहेतुजं ज्ञानमुपमानमुदाहृतम्‌।

अर्थापत्तिरिति प्रोक्तं विप्रा अनुपपत्तिजिम्‌॥ १७ ॥

तात्पर्योपेतशब्दोत्थज्ञानं शाब्दमुदाहृतम्‌।

शब्दस्तु ब्रह्मविच्छ्रेष्ठास्त्रिविधः परिकीर्तितः॥ १८ ॥

अक्षराणि तथा विप्राः पदानि च तथैव च।

वाक्यानि चेति तत्रापि केषांचिद्द्विजपुङ्गवाः॥ १९ ॥

अर्थानामक्षराण्येव वाचकानि तथैव च।

अर्थानामपि केषांचित्पदान्येव द्विजोत्तमाः॥ २० ॥

_______________________________________________________________________________________

दनुमानं व्याप्यदर्शनाद्व्यापके बुद्धिरनुमानमिति तत्त्वविदः॥ १६ ॥ उपमानं लक्षयति—

सादृश्येति। नगरे पूर्वमनुभूतगोपिण्डस्य वनमुपेयुषस्तत्र गवयं साक्षात्कुर्वतो नागरिकस्यानेन सदृशी मदीया गौरिति गवयनिष्ठसादृश्यहेतुकमसंनिहितगोगतसादृश्यविषयं यज्ज्ञानं तदुपमानमित्यर्थः। अर्थापत्तिस्वरूपमाह—

अर्थापत्तीति। अनुपपद्यमानार्थदर्शनादुपपादके बुद्धिरर्थापत्तिः। यथा जीवतो देवदत्तस्य गृहाभावो बहिःसत्तामन्तरेण नावकल्पत इति तत्सत्तामन्यत्र कल्पयति। बहिस्तद्भावगोचरं ज्ञानमर्थापत्तिरित्यर्थः॥ १७ ॥ अथाऽऽगमं लक्षयति—

तात्पर्योपेतेति। “उपक्रमोपसंहारावभ्यासोऽपूर्वता फलम्‌॥ अर्थवादोपपत्ती च लिङ्गं तात्पर्यनिश्रये’इत्येवंभूततात्पर्यलिङ्गोपेताच्छब्दाद्यदभिधेयगोचरं ज्ञानं तच्छब्दं प्रमाणमित्यर्थः। तस्याक्षरपदवाक्यभेदेन त्रैविध्यमाह—

शब्दस्त्विति। केषांचिदाचार्याणां मते वर्णानामेवार्थवाचकत्वमित्याह—

केषांचिदिति। यदाहुर्भाष्यकाराः—‘

वर्णा एव तु शब्द इति भगवानुपवर्षः इति। एकार्थप्रतिपादकत्वोपाधिपरिगृहीतानां वर्णानामेवार्थवाचकत्वंततोऽतिरिक्तः स्फोटापरपर्यायः शब्दोनास्तीत्येवकारार्थः॥ १८ ॥ १९ ॥ ततः स्फोटवादिमतमाह—

अर्थानामिति। केषांचिन्मतेऽर्थानां पदान्येव वाचकानि बहुषु वर्णेषुच्चारितेष्दिमेकं पदमिति या बुद्धिर्जायते तद्विषयभूतो वर्णाभिव्यङ्ग्य पदस्फोटः। तदुक्तं वाक्यपदीये—‘

नादैराहितबीजायां मध्येन ध्वनिना–

वाचकानि च वाक्यानि तथैव ब्रह्मवित्तमाः।

अर्थानामपि केषांचित्प्रमाणानि प्रदीपवत्‌॥ २१ ॥

भवन्त्येकाक्षराण्येव पदानि द्विजपुङ्गवाः।

अक्षराणि च संभूय पदानि स्युस्तथैव च॥ २२॥

पदानां समुदायस्तुभवेद्वाक्यं द्विजोत्तमाः।

प्रधानं गुणभूतं च द्विविधं वाक्यमीरितिम्‌॥ २३ ॥

महावाक्यमिति प्रोक्तं प्रधानं मुनिपुङ्गवैः।

गुणभूतं तु यद्वाक्यं तदवान्तरसंज्ञितम्‌॥ २४ ॥

उभयं चैकवाक्यं स्यादर्थैकत्वविवक्षया।

______________________________________________________________________________________

सह। आवृत्तपरिपाकायां बुद्धौशब्दो व्यवस्थितः’इति॥स एवार्थस्य वाचकः वर्णास्तु केवलं तदभिव्यक्तिहेतवो नार्थाभिधायका इत्यवधारणार्थः॥२० ॥ वाक्यस्फोटमाह—

वाचकानीति। केषांचिन्मते वाक्यस्फोट एवशब्दःस एवार्थास्यभिधायकः। पदानि पु तद्व्यज्जकत्वेन तत्स्वरूपे परिकल्पितार्नात्यर्थः। तदुक्तं कैयटकारेण—

“वाक्यमेव वाचकम्‌। वाक्यार्थएव वाच्यः। पदानि तु वर्णवदनर्थकान्येव” इति। वाक्यपदीयेऽप्युक्तम्—

“द्विधा कैश्चित्पदं भिन्नं चतुर्धापञ्चधाऽपि वा। अपोद्धृत्यैव वाक्येभ्यः प्रकृतिप्रत्ययादिवत्‌” इति॥ २१ ॥ एकाक्षरानेकाक्षरभेदेन पदानां द्वैविध्यमाह—

भवन्त्येकेति॥ २२ ॥ अथ क्रियाकारकपदसमुदायात्मकं वाक्यमाह—

पदानामिति। एकार्थावच्छेदकमाकाङ्क्षासंनिधियोग्यतावत्पदकदम्बकं वाक्यमित्यर्थः। तदुक्तं जैमिनिना—

अर्थैकत्वादेकंवाक्यं साकाङ्क्षं चेद्विभागे स्यादिति’। तस्य प्रधानगुणभावेन द्वैविद्धमाह—

प्रधानमिति॥२३ ॥ ते एवविभज्य दर्शयति—

महावाक्यमिति। यत्फलवदर्थावबोधकत्वात्प्रधानमनन्यशेषंवाक्यं तन्महावाक्यम्‌। यत्तुतच्छेषभूतार्थप्रतिपादकत्वेन गुणभूतं तदवान्तरवाक्यमित्यर्थः॥ २४ ॥ एवं पदैकवाक्यस्वरूपमभिधाय वाक्यैकवाक्यमपि लक्षयति। उभयमिति। प्रधानगुणभावेन वर्तमानं वाक्यद्वयमपि पुनरेकप्रयोजनपरिगृहीतत्वेनैकवाक्य–

पदानि शक्त्या स्वार्थानां वाचकानि तथैव च॥ २५ ॥

तात्पर्यादेव वाक्यानि स्वार्थानां बोधकानि च।

तात्पर्यं तु द्विधा विप्राः प्रोक्तं वाक्यविशारदैः॥ २६ ॥

_______________________________________________________________________________________

तां प्रतिपद्यते।तथा हि—‘

दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत’इति प्रधानवाक्यम्‌। ‘समिधो यजतिः’ इत्याद्यवान्तरवाक्यानि तानि फलभावनापेक्षितकरणेतिकर्तव्यताप्रतिपादनेन दर्शपूर्णमासवाक्येन कैमर्थक्यवशात्संबध्यन्ते तदेतद्वाक्येकवाक्यम्‌।तदुक्तं भट्टचार्यैः—

स्वार्थबोधे समाप्तानामङ्गाङ्गित्वाद्यपेक्षया।वाक्यानामेकवाक्यत्वंपुनः संहत्य जायते’ इति॥ पदार्थज्ञानपूर्वकत्वाद्वाक्यार्थज्ञानस्यतदर्थप्रतिपादनपुरःसरमभिहितान्वयवादिमतमाश्रित्य वाक्यार्थप्रतिपत्तिप्रकारमाह—

पदानीति।पदानि तावज्जातिगुणादिप्रवृत्तिनिमित्तकेष्वर्थेषु गृहीतसंगतिकान्येवार्थं प्रतिपादयन्ति \। तेषां तत्तदर्थप्रतिपादने यत्सामर्थ्यं सा पदशक्तिस्तया शक्त्या गामानयेत्यादिवाक्येषु गवानयनाद्यर्थानामभिधावृत्त्या प्रतिपादकानि गवादिपदानीत्यर्थः। तत्प्रतिपादकत्वंनाम संगतिग्रहणसमये सहचरितस्यार्थविशेषस्य स्मारकत्वम्।उक्तं ह—‘

पदमभ्यधिकाभावात्स्मारकान्न विशिष्यते’इति। तादृक्पदसमुदायात्मकानि वाक्यानि संगतिग्रहणमन्तरेणैव तात्पर्यतः स्वार्थस्य विशिष्टरूपस्यप्रतिपादकानि। तथा हि—

वाक्यं तावत्पदकदम्बकम्‌।तच्च गवानयनादिकर्तव्यतादिरूपस्य विरिष्टार्थस्य प्रत्यायनाय प्रयुज्यते। ‘विशिष्टार्थप्रयुक्ता हि समभिव्याहृतिर्जने’इति न्यायात्‌। तस्मात्तत्समभिव्याहारान्यथानुपपत्त्यापदस्मारितानामर्थानां संसर्गरूपो विशिष्टो वाक्यार्थः पदाभिहितैः पदार्थैर्लक्ष्यते।तादृक्पदार्थप्रत्यायनात्पदानामष्पेतस्मिन्विशिष्टे सामर्थ्यमस्तितदिदं तात्पर्यमुच्यते।यदाहुर्भट्टापादाः—‘

न विमुञ्चति सामर्थ्यं वाक्यार्थेऽपि पदानि नः। वाक्यार्थो लक्ष्यमाणो हि सर्वत्रैवेति च स्थितिः इति। तथाच विशिष्टस्य वाक्यार्थस्यैवावगमाय पदकदम्बके प्रयुक्ते तत्रत्यैःपदैरभिधावृत्त्ययत्स्वार्थप्रतिपादनं तदवान्तरव्यापार एव पर्यवसानवृत्त्या तात्पर्यापरपर्यायया तत्सर्वंपदकदम्बकमुक्तलक्षणवाक्यार्थस्यैवबोधकम्‌। तदुक्तं मीमांसावार्तिककारैः—“

साक्षा

महातात्पर्यमेकं स्यादवान्तरमथेतरत्‌।

महातात्पर्यशेषं स्यादवान्तरसमाह्वयम्‌॥ २७ ॥

तत्रैवं सति वाक्यानि कानिचित्पण्डितोत्तमाः।

निषेधरूपाण्येव स्युस्तथा विप्रास्तु कानिचित्‌॥ २८ ॥

विधिरूपाणि चान्यानि कानिचिद्द्विजपुङ्गवाः।

सिद्धार्थबोधकान्येव तत्रैवं सति बाडबाः॥ २९ ॥

कर्तव्यविषया एव निषेधा विधयोऽपि च।

सिद्धार्थबोधकं वाक्यं लौकिकं वैदिकं तथा॥ ३० ॥

_______________________________________________________________________________________

द्यद्यपि कुर्वन्ति पदार्थप्रतिपादनम्‌। वर्णास्तथाऽपि नैतस्मिन्पर्यवस्यन्ति निष्फले॥ वाक्यार्थमितये तेषां प्रवृत्त्यानान्तरीयकम्‌। पाके ज्वालेवकाष्ठानां पदार्थप्रतिपादनम्‌” इति॥ तदिदमुच्यते “तात्पर्यादेव वाक्यानि स्वार्थानां बोधकानि च” इति। उक्तप्रकारेण पदकदम्बकस्य वाक्यार्थंप्रत्यभिधायाकत्वाभावाद्बोधकत्वमेवेत्यर्थः। गुणप्रधानभावेन वाक्यस्य द्वैविध्यात्तदर्थावबोधोपायभूतंतात्पर्यमपि द्वेधा भिद्यत इत्याह—तात्पर्यं त्विति। प्रधानःवाक्येषु महातात्पर्यमवान्तरवाक्येष्ववान्तरतात्पर्यमित्यर्थः॥ २५—२७ ॥ इत्थं वाक्यं तदर्थप्रतिपादनप्रकारं च निरूप्य विधिनिषेधसिद्धार्थबोधकत्वेन तस्य वाक्यस्य त्रैविध्यमाह—तत्रैवमिति। ‘न कलञ्जं भक्षयेत्‌’इत्यादीनि निषेधरूपाणि वाक्यानि। “अग्रिहोत्रं जुहुयात्‌”इत्यादीनि विधिरूपाणि। ‘सत्यं ज्ञानमनन्तं ब्रह्मः” ‘पुत्रस्ते जातः’इत्यादीनिसिद्धार्थबोधकानि। बाड बा इति। ब्राह्मणा इत्यर्थःतथा चामरः—‘आश्रमोऽस्त्री द्विजात्यग्रजन्मभूदेवबाडवाः’इति॥ २८ ॥ २९॥ तत्र विधिनिषेधप्रतिपादकं वाक्यद्वयं क्रियाविषयमेव न तु वस्तुयाथात्म्यप्रतिपादनपरमित्याह—कर्तव्येति। सिद्धार्थबोधकमपि लौकिकवैदिकभेदेन द्विविधम्‌। तदपि पुनर्द्वेधाभवतीत्याह—सिद्धार्थबोधकमिति। हारेकण्ठदेशस्थे सत्यपि हारो नष्ट इति यस्तद्गवेषणाय प्रयतते तं प्रति कण्ठे हार इति यद्वाक्यं तत्पूर्वंप्राप्तस्यैव हारस्य पुनः प्राप

द्विप्रकारामिति प्रोक्तं मुनिभिः सूक्ष्मदर्शिभिः।

प्राप्तप्राप्तिपरंचैकमपरं पण्डितोत्तमाः॥

निवृत्तस्य स्वतः साक्षाद्दोषस्यैव निवर्तकम्‌॥ ३१ ॥

प्रत्यक्षादिप्रमाणानि पञ्च च ब्राह्यणोत्तमाः॥ ३२ ॥

कर्तव्यविषयं वाक्यमनात्मविषयाणि तु।

परागर्थैकनिष्ठत्वात्प्रत्यक्त्वादात्मवस्तुनः॥ ३३ ॥

अतः प्रत्यक्षपूर्वैस्तु प्रमाणैरखिलैरपि।

प्रत्यग्भूतः शिवो ज्ञातुंन शक्यः सर्वजन्तुभिः॥ ३४ ॥

प्रत्यगात्मा शिवः साक्षान्न परागर्थआस्तिकाः।

पराचीनस्य सर्वस्य ह्यनात्मत्वप्रदर्शनात्‌॥ ३५ ॥

सिद्धार्थबोधकं वाक्यं लौकिकं किंचिदास्तिकाः।

_______________________________________________________________________________________

कत्वात्प्राप्तप्राप्तिपरं पदवाक्यम्‌। बाल्यात्प्रभृति गृहान्निर्गतस्याऽऽत्मनो द्विजत्वमजानानस्य शुद्रोऽहमिति शूद्रत्वमभिमन्यमानस्यशूद्रस्त्वंभवसीति यच्छूद्रत्वनिवारकं वाक्यं तन्निवृत्तस्यैवदोषस्य पुनर्निवर्तनान्निवृत्तनिवर्तकम्‌॥ ३० ॥ ३१ ॥ इत्थं प्रत्यक्षादिप्रमाणानि सप्रपञ्चं निरूप्य सिद्धार्थबोधकोपनिषद्वाक्यैरेव वेद्यंयत्परशिवस्वरूपं तत्रतद्व्यतिरिक्तानां तेषां प्रामाण्यं नास्तीत्युपपादयति—

प्रत्यक्षादीति। प्रत्यक्षादीनि हि प्रमाणानि परागर्थैकविषयाणि। तत्र प्रत्यक्षस्य तावत्‌ ‘पराञ्चिखानिव्यतृणत्स्वयंभूस्तस्मात्पराङ्‌ पश्यति नान्तरात्मन्‌’इति परार्थैकविषयत्वं श्रुतम्‌। अनुमानादीनामपि बाधितविषयत्वेन परागर्थविषयत्वम्‌।‘नेह नानाऽस्ति किंचन’इति परागर्थस्यैव बाधात्‌। तस्मादात्मतया सर्वप्रत्यग्भूतः परशिवस्तैर्ज्ञातुं न शक्यत इत्यर्थः। ‘य आत्मा सर्वान्तरः’।‘अन्तः प्रविष्टः शास्ता जनानां सर्वात्मा इति च श्रुतेः॥ ३२—

३४ ॥ तस्य परशिवस्वरूपस्य सर्वप्रत्यक्त्वमिति ब्रुवन्विपक्षेऽनात्मत्वप्रसङ्गो बाधक इत्याह—प्रत्यगात्मेति॥३५॥ सिद्धार्थावबोधकानामपि मध्ये

अनात्मविषयं तेन शिवो ज्ञातुंन शक्यते॥ ३६ ॥

किंचित्सिद्धार्धकं वाक्यं लौकिकं श्रुतिपूर्वकम्‌।

प्रत्यग्रूपे शिवे साक्षात्प्रमाणं भवति द्विजाः।

वेदान्तानां महावाक्यं प्रत्यग्ब्रह्मैकतार्थगम्‌॥ ३७ ॥

भूमानन्दशिवप्राप्तिसाधनं परिकीर्तितम्‌।

तदेव भ्रान्तिसिद्धस्य संसारस्य निवर्तकम्‌॥ ३८ ॥

_______________________________________________________________________

यत्पुत्रस्ते जातइत्यादिक तदपि परशिवस्वरूपप्रत्यायकं प्रमाण न भवतीत्याह—

सिद्धार्थेति॥ ३६ ॥ यत्तु ब्रह्मात्मैक्यबोधकं तत्त्वमस्यादिवेदान्तवाक्यं तदनुसारि स्मृतिपुराणादिवाक्यं च तेनैत्र प्रमाणेन यथोदीरितमद्वितीयं परशिवस्वरूपमवगम्यत इत्याह—

किंचिदिति। सर्वप्रत्यग्भूते निष्प्रपञ्चे परशिवस्वरूपे उपनिषद्वाक्यमेवाव्यवधानेन प्रमाणम्‌। स्पृतिपुराणदिवाक्यं तु मूलभूतश्रुतिसापेक्षत्वाद्व्यवधानेन प्रमाणम्‌। अतस्तत्र साक्षात्प्रामाण्यमुपनिषद्वाक्यस्यैवेत्यर्थः। श्रूयते हि—

तत्वौपनिषद पुरुषं पृच्छामि’।‘नावेदविन्मनुते तं बृहन्तं सर्वानुभुमात्मानं संपराये’इति। उपनिषत्स्वेवाधिगत औपनिषदः, अत एव परस्मिन्ब्रह्मण्युपनिषद्वाक्यस्यैव प्रामाण्यमिति भगवान्व्यासः सूत्रयामास ‘शास्त्रयोनित्वात्‌’इति। अस्य सूत्रस्य द्वितीयवर्णकेब्रह्मणः शास्त्रप्रमाणकत्वमर्थतस्तदेतत्संगृह्योक्तम्‌—

अस्त्यन्यमेयताऽप्यस्य किंवा वेदैकमेयता। घटवत्सिद्धवस्तुत्वाद्ब्रह्मान्येनापि मीयते॥ रूपलिङ्गादिराहित्यान्नमानान्तरयोग्यता। तं त्वौपनिषदेत्यादौप्रोक्ता वेदैकमेयता’इति। सर्वप्रत्ययवेद्ये वा ब्रह्मरूपे व्यवस्थिते। प्रपञ्चस्य प्रविलयःशब्देन प्रतिपाद्यते’। इति यद्ब्रह्मणः सर्वप्रमाणवेद्यत्वं तत्प्रपञ्चरूपस्यैव न निष्प्रपञ्चस्येत्यविरोधः॥३७ ॥ प्राप्तप्राप्तिपरं निवृत्तनिर्वतकमिति यत्सिद्धार्थबोधकवाक्यस्थ भेदद्वयंतदुभयरूपं वेदान्तवाक्यं भवतीत्याह—

भूमानन्देति। निरतिशयानन्दपरशिवस्वरूपं मुमुक्षुणा पूर्वमात्मतया प्राप्तमेव पुनरविद्यावशात्तिरोहितमभूत्‌। प्राप्तस्यैव तस्य प्राप्तिः कण्ठगतचामीकरद्ब्रह्मविदाप्नोतीति प्रतिपाद्यते। तस्मिन्परशिवस्वरूपे स्वभावतो निवृत्तस्य संसारस्य भ्रान्त्याप्रसक्तस्यतत्स्वरूपयाथात्म्यप्रतिपादनेन निवर्तकत्वात्तत्त्वमस्यादिवाक्यंनिवृत्तनिर्वतकमित्यर्थः॥ ३८ ॥

आत्मा स्वभावतो बद्धो यदि स्याद्वेदवित्तमाः।

नैव मुच्येत संसाराज्जन्मान्तरशतैरपि॥ ३९ ॥

यस्य यो वेदविच्छ्रष्ठाः स्वतो धर्मो न चान्यथा।

धर्मिणा सह तन्नाशो भवत्येव न चान्यथा॥ ४० ॥

आत्मनो नैव नाशोऽस्ति कदाचिदपि सुव्रताः।

यतो घटादेर्नाशस्तु दृष्टा विप्रा अनात्मनः॥ ४१ ॥

आत्मभेदस्तथैवाऽऽत्मब्रह्मभेदश्च सुव्रताः।

उपाधिनैव क्रियते न स्वतो मुनिपुङ्गवाः॥ ४२ ॥

_______________________________________________________________________________________

भवेदेवं यद्यात्मनः संसारः कल्पितः स्यात्स तु तस्य स्वभावसिद्ध एवेत्यत आह—

आत्मेति। वस्तुस्वभावसिद्धस्योपायशतेनाप्यपनेतुमशक्यत्वादनिर्मोक्षप्रसङ्ग इत्यर्थः॥ ३९ ॥ ये त्वेवमात्मनःससारः स्वाभाविक इत्याहुस्तेषां घटादिधर्मस्यरूपादेर्धर्मिणा घटादिना सहैव नाशो दृष्ट इति धर्मभूतससारनि वृत्तौ धर्मिभृत आत्माऽप्युच्छिद्येतेत्याह—

यस्येति॥९० ॥ इष्टापत्तिरित्यत आह—

आत्मन इति। न खलु स्वानुभवसिद्धस्याऽऽत्मस्वरूपस्य नाशःसंभवति। ‘असद्ब्रह्मेति वेद चेत्’इत्यमत्त्वंनिराकृत्य ‘अस्ति ब्रह्मेति चेद्वेद सन्तमेनं ततो विदुः’ इति श्रुत्या तत्स्वरूपस्य सर्वदास्तित्वप्रतिपादनादत एव ‘नित्यो नित्यानां चेतनश्चेतनानाम्‌’ इति तस्य नित्यत्वव्यपदेशः।‘स पर्यगाच्छुक्रमकायमव्रणमस्नाविर शुद्धमपापविद्धम्‌’। ‘अस्थूलमनण्वहस्वमशब्दमस्पर्शमरूपमव्ययम्‌’ इत्यादिश्रुतिभिस्तस्य सर्वविक्रियारहितत्वंप्रतिपाद्यते। अतश्च तस्य नाशो न संभवति। यस्माद्विकारप्रपश्चस्यैव घटपटादेर्नाशो दृश्यत इत्यर्थः।एवं ह्यात्मनोनाशस्यासंभावनीयत्वात्तद्धर्मतया प्रतिपन्नस्य संसारस्य पारमार्थिकत्वे विद्ययाऽपनेतुमशक्यत्वादनिर्मोक्षप्रसक्तेरात्मनःसंसारो भ्रान्तिपरिकल्पित एवेत्यभ्युपगन्तव्यः॥ ४१ ॥ इत्थं परमशिवस्वरूपस्य प्रत्यगात्मनो बोधकं प्रमाणं परमार्थंतः संसारराहित्यं चोपपाद्य तन्नानात्वव्यवहारोजीवेश्वरभेदश्च न पारमार्थिक इत्याह—

आत्मभेद इति। उपाधिनैवेति।

घटाद्युपाधिसंपर्कादाकाशस्य भिदा यथा॥ ४३ ॥

एकमेवेति वेदान्तास्तात्पर्येण महेश्वरम्‌।

आहुश्चिद्रूपतो भेदश्चितो नास्त्येव सर्वथा॥ ४४ ॥

चैत्यरूपेण भेदस्तु चैत्यस्यैव चितो नहि।

आत्मभूतः शिवः साक्षाच्चिन्मात्रज्योतिरेव हि॥ ४५ ॥

_____________________________________________________________________________________

उपाधिरीश्चरस्य विशुद्धसत्त्वप्रधाना माया। जीवानां तु मलिनसत्त्वप्रधानाऽविद्या तत्कार्याण्यन्तःकरणानि। एवमुपाधिनानात्वादेकस्यैव परशिवचैतन्यस्यनानात्वभ्रम इत्यर्थः॥ ४२ ॥ एकस्यैवोपाधिवशान्नानात्वं दृष्टान्तेन दृढयन्स्वाभाविकमेकत्वं निगमयति—घटादीति। यथैकस्यैवाऽऽकाशस्य घटगृहाद्युपाधिसंबन्धवशाद्धटाकाशोगृहाकाश इति नानात्वपरिकल्पनं तद्वदेव जीवेश्वरनानात्वमित्यर्थः। श्रूयते हि—“एको देवः सर्वभूतेषु गूढः सर्वव्यापीसर्वभूतन्तरात्मा”। “एकएव तु भूतात्मा भूते भूते व्यवस्थितः। एकधा बहूधा चैव दृश्यते जलचन्द्रवत्‌”“सदेव सोम्येदमग्र आसीत्‌”“एकमेवाद्वितीयं ब्रह्म” “नेह नानाऽस्ति किंचन”—इत्यादिश्रुतिभिःस्वगतसजातीयविजातीयरहितस्य चिदात्मनस्तात्पर्येणैकत्वप्रतिपादनादित्यर्थः। किंचाऽऽत्मनानात्वं वदन्वादी प्रष्टव्यः किमात्मन स्वप्रकाशचिद्रूपेण नानात्वमुताहंप्रत्ययविषयान्तःकरणविशिष्टचैत्यरूपेणेति। नाऽद्यइत्याह—चिद्रूपतो भेद इति। देवदत्तादिप्रमातृविशेषेष्वहंप्रत्ययाविषयतया चैत्येषु च व्यावर्तमानेषु निष्कृष्टचिन्मात्रस्यैकरूप्येण सर्वत्रानुवृत्तेर्न तद्भेदकल्पनावकाशइत्यर्थः॥ ४३ ॥ ४४॥अस्तु तर्हिप्रमातृलक्षणेन चैत्यरूपेण भेद इति द्वितीयः कल्प इत्यत आह—चैत्यरूपेणेति। प्रमातृरूपेषु चैत्येषु व्यावर्तमानेषु चित्सर्वत्रानुवृत्तेस्ततो भिन्ना। अनुवृत्तं व्यावृत्तादन्यदिति जातिव्यक्त्यादौदृष्टत्वादतश्चैत्यरूपे णोच्यमानो भेदश्चैत्यस्यैव न चितः। न हि घटपटयोर्भेदो नभसो नानात्वमावहतीत्यर्थः। तर्हितथाविधचैतन्यरूप एवाऽऽत्मेत्याशङ्क्याऽऽह—आत्मभूत इति। चिन्मात्रज्योतिरिति। मात्रशब्देन सर्वप्रमातृषुचित्संवलितो नानाकारश्चैत्यांशोऽन्तःकरणपरिणामोऽहंकारो व्यावर्त्यते। अतस्तस्य नाना–

घटादीनां तु चैत्यानामनात्मत्वस्य दर्शनात्‌।

आत्मनोऽपि स्वतो भेदमाहुःकेचिन्मुनीश्चराः॥४६ ॥

तन्न संगतमेव स्यादात्मा भेदस्यसाधकः।

भेदसाक्षी शिवो ह्यात्मा कथं भिन्नो भवेद्द्विजाः॥ ४७ ॥

अत आत्मनि भेदस्तुभ्रान्तिसिद्धो न वस्तुतः।

एकस्य नभसो भेदो यथा भ्रान्त्या प्रतीयते॥ ४८ ॥

यस्य यत्स्वत एव स्यात्तदन्यत्तस्य सुताः।

_______________________________________________________________________________________

त्वेऽप्यनुगतचिदेकशरीरस्याऽऽत्मनो भेदोनाऽऽशङ्कनीय इत्यर्थः॥ ४५ ॥ विमतोऽहंकारो नाऽऽत्मा चिद्भास्यत्वाद्घटादिवदित्यभिप्रेत्याऽह—घटादीनामिति। इत्थं स्वमते चिद्रूपस्याऽऽत्मन एकत्वमुपपाद्यपरमतं दुषयितुमुपन्यस्यति—अत्मनोऽपीति। स्वत इति। स्वभावत एव नोपाधिवशादित्यर्थः। तथा च काणादं सूत्रम्‌—“नानात्मानो व्यवस्थातः”इति। सांख्याश्चाऽऽहुः—“जननमरणकरणानां प्रतिनियमादयुगपत्प्रवृत्तेश्च पुरुषबहुत्वं सिद्धं त्रैगुण्यविपर्ययाच्चैव” इति। आत्मन एकत्वेचैत्रमैत्रादिगात्रेषु सुखदुःखव्यवस्थाया अनुपपत्तेर्जननमरणादिप्रतिनियमादेश्चानुपपन्नत्वात्प्रतिशरीरेनानैवाऽऽत्मान इति तेषामभिप्रायः॥ ४६ ॥ आत्मन ऐक्येऽप्यौपाधिकभेदस्वीकारादप्येतत्सर्वमुपपद्यत इत्यभिप्रेत्यदूषयति—तदिति। आत्मनो भेदः स्वाभाविक इति यत्तन्न संगतमित्यर्थः। कुत इत्यत आह—आत्मेति। वियदादिभूतभौतिकप्रपञ्चस्तावदात्मनः सकाशान्निष्पद्यते “आत्मन आकाशःसंभूतः” इत्यादिश्रुतेः। भेदोऽपि प्रपञ्चान्तःपातित्वात्तस्मादेवोत्पद्यत इति वक्तव्यम्‌। तस्मादुत्पत्त्युत्तरकालीनो भेदस्ततः पूर्वमवस्थितस्यानादेरात्मनः कथं धर्मः स्याद्यद्योगादात्मा भिद्येत। तस्मद्भेदसाधकत्वादात्मनोनानात्वं न युक्तमित्यर्थः। विमतो भेद आत्मनः स्वाभाविको धर्मो न भवति चिद्भास्यत्वाद्घटादिवदित्यभिप्रेत्याऽऽह—भेदसाक्षीति॥ ४७ ॥ विपक्षे चित्स्वरूपवत्तस्य साक्षिभास्यत्वंहीयेतेत्यभिप्रेत्यौपाधिक एवाऽऽत्मगतो भेद इति स्वमतं सदृष्टान्तमुपसंहरति—

अन्योपाधिप्रयुक्तं स्यादिति लोके व्यवस्थितम्‌।

अतः स्वतोऽद्वितीयस्य भेदो भ्रान्तः परात्मनः॥ ४९ ॥

अङ्गीकृत्य घटादीनां भेद वेदार्थपारगाः॥ ५० ॥

निरस्तश्चाऽऽत्मभेदस्तु घटादीनां भिदाऽपि च।

भ्रान्तिसिद्धान सत्योक्ता तर्कतश्च प्रमाणतः॥ ५१ ॥

घटादीनां भिदा तावन्न भ्रान्त्यैव प्रतीतितः।

प्रतीत्यासत्यरूपैव व्यवहारे मुनीश्वराः॥ ५२ ॥

_______________________________________________________________________________________

अत इति॥ ४८ ॥ उक्तभेदस्यौपाधिकत्वं लोकिकन्यायप्रदर्शनेनोपपादयाति—यस्येति। यस्य खलुस्फटिकादेर्यच्छोक्ल्यादिकं स्वाभाविकं रूपं तस्य तद्विरुद्धरक्तिमादिरूपं जपाकुसुमाद्युपाधिप्रयुक्तमेव। यस्मदेवं लौकिकी व्यवस्थाऽतः कारणादात्मनःस्वभाविकाद्वितीयत्वविरोधी भेदोऽप्यन्योपाधिप्रयुक्त एवेत्यवश्यमभ्युपगन्तव्यम्‌। ननु रक्तस्फटिक इत्यत्र जपाकुसुमसंनिधानासंनिधानाभ्यां स्फटिकस्य रक्तिम्न औपाधिकत्वमवगन्तुं शक्यते न तथाऽत्मनो भेदस्येति तत्राऽह—भ्रान्त इति। अयमर्थः—आत्मचैतन्यस्याविद्यातत्कार्यान्तःकरणाद्युपाधिसंबन्धस्यानादिसिद्धत्वादुपाधिव्यतिरिकोनास्तीति तद्भेदस्यौपाधिकत्वंन ज्ञायते। अतः पीतः शङ्खइतिवदन्यदीयधर्मस्यान्यत्राऽऽरोपादात्मगतोभेदो भ्रान्तिसिद्ध एवेत्यर्थः॥ ४९ ॥ नन्वात्मनो भेद औपाधिक इति वदतोपाधिभूतस्यानात्मनो भेदः पारमार्थिक इत्यभ्युपगतं स्यात्तथा चाऽऽत्मनोऽद्वितीयत्वंस्वाभाविकमित्येतत्कथं सिध्येदित्यत आह—अङ्गीकृत्येति। घटात्पटो भिन्न इति योऽयमनात्मगतो भेदावभासः सोऽपि भ्रान्त एव न पारमार्थिकः प्रमाणतर्काभ्यांनिरूपयितुमशक्यत्वादित्यर्थः। प्रमाणतर्कौचाग्रे दर्शयिष्यते॥ ५० ॥ ५१ ॥ ननु घटपटादिगतो भेदो भ्रान्तिसिद्धश्चेत्तर्हितत्र प्रवर्तमानस्य पुरुषस्य व्यवहारे विसंवादः स्यात्‌। न हि भ्रान्तिसिद्धे शुक्तिरजतादौ प्रवृत्तो व्यवहरे संवाद्यत इत्यत आह—घटादीनामिति। घटादीनां परस्परं यो भेदःनासौशुक्तिरूप्यादिवद्व्यवहारदशायांभ्रान्तः सति

स्वरूपत्वेन वा विप्रा धर्मत्वेनैव वा भिदा।

अपि वर्षशतेनापि वस्तुतो न निरूप्यते॥ ५३ ॥

अन्यतोऽन्यस्य भेदः स्यान्नैकस्यैव सदा खलु।

अन्यत्वं वस्तुनो भेदे सिद्धे सिध्यति यौक्तिकम्‌॥ ५४ ॥

______________________________________________________________________________________

प्रमातर्यबाधितानुभवसिद्धत्वात्‌। शुक्तिरूप्यादिकं तु सत्येव प्रमातरि बाध्यत इति युक्तस्तत्र विसंवाद इत्यर्थः। सत्त्वं हि त्रिविधम्‌। प्रातीतिकं शुक्तिरूप्यादौ। व्यावहारिकं सत्त्वं घटपटादौ। सर्वदा बाधवैधुर्यलक्षणं पारमार्थिकं सत्त्वंब्रह्मणः। तत्र परामार्थिकसत्त्वाभावाभिप्रायेणानात्मप्रपश्चभेदस्य भ्रान्तिसिद्धत्वमुक्तम्‌। व्यावहारतस्तु सत्यरूप एवेत्याह—

प्रतीत्येति॥ ५२ ॥ स च व्यावहारिको भेदोवस्तुरूपत्वेन ततोऽतिरिक्तधर्मत्वेन च वादिभिरङ्गीकृत इत्याह—

स्वरूपत्वेनेति। तत्र तावत्प्राभाकरा घटात्पटोभिन्न इत्यत्र घटप्रतियोगिघटितं पटस्वरूपमेव भेदो न ततोऽतिरिक्त इत्यङ्गीकुर्वते। ततश्च स्वरूपस्यैव भेदत्वे तद्ग्रहणवद्भेदग्रहणस्यापि प्रतियोग्यनपेक्षत्वप्रसङ्ग इति। निर्विकल्पके वस्तुस्वरूपात्मना दृष्टस्य भेदस्य सविकल्पकव्यवहारे प्रतियोगिसापेक्षतोपपत्तेरयमनयोर्भेद इति प्रतिपत्तेर्वस्तुस्वरूपातिरिक्तो धर्मएवभेद इति वैशेषिकादयः। ननु व्यवहारविसंवादाभावाद्भेदःसत्य एवचेत्कृतमद्वितीयत्ववार्तयेत्यत आह—

अपि वर्षेति। भेदस्य यत्सत्यत्वंब्रह्मण इव न तत्परमार्थिकम्‌। वस्तुतो निरूपयितुमशक्यत्वात्‌ तथा हि—

स्वरूपभेदपक्षस्तावन्न युज्यते। निर्विकल्पकवत्सविकल्पकेऽपि प्रतियोग्यनपेक्षत्वप्रसङ्गात्‌। न हि वस्तुस्वरूपग्रहणं प्रतियोगिग्रहणमपेक्षते। किंच प्रतियोगिघटितभेदस्य स्वरूपत्वे भेदविशेषणतया प्रतियोगिनोऽपि स्वरूपेऽन्तर्भावात्प्रपश्चादात्मा भिन्न इत्यादावात्मनोऽपिद्वैतमापतेत्‌। किच। विदारणात्मको भेदो वस्तुनः स्वरूपं चेदभेदैकार्थसमवायिन एकत्वस्य विनाशात्स्वरूपभेदवादिनःकिमप्येकं वस्तुन सिध्येत्‌। तदुक्तं चित्सुखाचार्यैः—

सापेक्षत्वात्सावधेश्चतत्त्वे द्वैतप्रसङ्गतः। एकाभावादसंदेहान्न रूपं वस्तुनोभिदा’ इति॥ ५३ ॥ नाऽपि धर्मभेदपक्षोयुक्त इत्याह—

अन्यत इति। घटात्पटो भिन्नोऽयमनयोर्भेद इत्यादिविशिष्ट–

एकमेवाद्वितीयं सदित्याह श्रुतिरादरात्‌।

मायामात्रमिदं द्वैतमिति चाऽऽह परा श्रुतिः॥ ५५ ॥

_______________________________________________________________________________________

ज्ञानेनैव हि धर्मिप्रतियेगिघटितो भेदो गृह्यते। नैतद्युक्तं विकल्पासहत्वात्‌। तत्किं भेदमेव गोचरयेदुत वस्त्वपि। यदि वस्त्वापि तदाऽपि भेदपूर्वकं तद्गोचरयेत्तत्पूर्वकं वा भेदमाहोस्विद्युगपदेवोभयम्‌। नाऽऽद्यः। धर्मिप्रतियेागिवस्तुप्रतिपत्तिमन्तरेण भेदमात्रस्य प्रत्येतुमशक्यत्वात्‌। अत एवभेदपूर्वकोवस्तुग्रह इत्यपि परास्तः। प्रथमतो धर्मिप्रतियोगिलक्षणं वस्तु गृहीत्वा पश्चादद्भेदं गृह्णातीति तृतीयोऽपि न युक्तः। शब्दबुद्धिकर्मणां त्रिक्षणावस्थायित्वाद्विरम्यव्यापाराभावात्‌। नापि चतुर्थः। भेदज्ञानस्य धर्मिप्रतियोगिज्ञानं हि कारणम्‌। तस्य च नियतपूर्वक्षणसत्त्वनियमेनयौगपद्यायोगात्‌। किंचास्मादिदं भिन्नमिति भेदगोचरं विशिष्टज्ञानं विशेषणभूतधर्मिप्रतियोगिपुरःसरमेवेष्टव्यम्। दण्डी देवदत्त इत्यदेः सर्वस्यापि विशिष्टज्ञानस्यविशेषणविशेष्यतत्संबन्धिज्ञानपूर्वकत्वनियमात्‌। तदुक्तम्‌—“

विशेषणं विशेष्यंच संबन्धंलौकिकीं स्थितिम्‌। गृहीत्वा संकलय्यैतत्तथा प्रत्येति नान्यथा” इति॥ किंच विशेषणविशेष्यभावश्चभिन्नयोरेव।न ह्येकं वस्तुस्वयमेव विशेषणं विशेष्यं च भवति। तथा च येन भेदेन तौविशेषणभूतौधर्मिप्रतियोगिनौभिन्नौस किमयमेव भेदोभेदान्तरं वा। अयमेव चेदात्माश्रयः। भेदान्तरमपि भिन्नयोरेव धर्मिप्रतियोगिनोरिति तस्यापि भेदपुरःसरत्वम्‌। स चेत्प्रथम एव तदाऽन्योन्यश्रयता। अथ तृतीयस्त्वन्योभेदस्तदा चक्रकापत्तिः। यदि भेदव्यक्तिपरंपरा स्वीक्रियते तदाऽन्तिमस्यापि भेदस्यैवमेवोततदसिद्ध्यामूलभृतभेदपर्यन्तमसिद्धेरनवस्था मूलक्षयकरी स्यात्‌। तदुक्तं चित्सुखाचार्यैः—

युगपद्ग्रहणायोगादनवस्थाप्रसङ्गतः। परस्पराश्रयत्वाच्च धर्मभेदेऽपि नाक्षधीः”इति। एतत्सर्वमभिप्रेत्याऽऽह—

अन्यतोऽन्यस्येति। अक्षरार्थस्त्वन्यस्मात्खल्वन्यस्य भेदोघटात्पटो भिन्न इत्यादिना निरूप्यते। न ह्येकस्यैव भेदोनिरूपयितुंशक्यते भेदग्रहणस्य प्रतियोगिग्रहणपूर्वकत्वनियमात्। अन्यत्वं च भेदे सिद्धे सिध्यति। भेदश्च धर्मिप्रतियोगिनोरन्यत्वेसिद्धे पश्चाद्भेदःसिध्यतीत्यात्माश्रयान्योन्याश्रयचक्रकाद्यापत्तिरित्यर्थः॥ ५४ ॥ इत्थं तर्कतो भेद निरस्य तर्का–

एकत्वं पश्यतो मोहः कः शोक इति चाऽऽह हि।

द्वितीयाद्वै भंय नाल्पे सुखमित्यपि चाऽऽह हि॥ ५६ ॥

_______________________________________________________________________________________

नुग्राह्यं भेदाभावबोधकं प्रमाणमप्याह—एकमेवेत्यादिना। “सदेव सोम्येदमग्र आसीत्‌” इति। “एकमेवाद्वितीयम”इति च्छान्दोग्योपनिषत्‌। तत्रैकमिति स्वगतभेदो निवार्यते। एकमखण्डैकरसमित्यर्थः। एवकारेण सजातीयभेदनिरासः। अद्वितीयमिति विजातीयभेदोऽपि निरस्यते। परमार्थतः सद्रूपस्य परशिवस्वरूपस्याद्वितीयत्वेप्रमाणमुपन्यस्यानात्मनो भेदप्रपञ्चस्यमिथ्यात्वेऽपिश्रुतिः प्रमाणमित्याह—मायामात्रमिति। ‘मायामात्रमिदं द्वैतमद्वैतं परमार्थतः’इति माण्डुक्योपनिषदि श्लोकरूपं वाक्यम्‌। अयमर्थः। यदिदं पराग्रूपंदृश्यं जगत्तत्सर्वंमायामात्रं केवलं मायामयमेव। स्वप्रतिष्ठे ब्रह्मणि मायया परिकल्पितत्वात्‌। अधिष्ठानयाथात्म्यज्ञानेन मायायां निवर्तितायां तत्कार्यस्यापि निवृत्तेः परमार्थतोऽद्वितीयंब्रह्म परिशिष्यत इत्यर्थः॥५५ ॥ एवं मायया स्वस्मिन्परिकल्पितस्य प्रपञ्चस्य मिथ्यात्वंनिश्चित्य प्रत्यगात्मनः सर्वात्मकपरशिवस्वरूपज्ञाने यत्फलंतत्रापि श्रुतिं प्रमाणयति—एकत्वंपश्यत इति। वाजसनेयकमन्त्रोपनिषद्येवमाम्नायते—“यस्मिन्सर्वाणि भूतानि आत्मैवाभूद्विजानतः। तत्र को मोहः कः शोक एकत्वमनुपश्यतः” इति। अधिष्ठानब्रह्मयाथात्म्यज्ञानेनाविद्यातत्कार्यभूतप्रपश्चस्य विलपान्निरतिशयानन्दब्रह्मात्मैक्यंसाक्षात्कुर्वतो विदुषः शोकमोहयोःप्रसक्तिरपि नास्तीत्यर्थः। जगन्मिथ्यात्वानङ्गीकारेणाऽऽत्मनः सद्वितीयत्वस्वीकारे श्रुतिरेव बाधंप्रतिपादयतीत्याह—द्वितीयादिति। ‘द्वितायाद्वैभयं भवति’ इति वाजसनेयकम्‌। द्वैताङ्गीकारे ह्यन्यस्मादन्यस्य भीरवश्यं स्यात्‌। अतो द्वैतमेव भयावहमित्यर्थः। तैत्तिरीयके च ब्रह्मात्मसाक्षात्कारस्याभयसाधनत्वं भेददर्शनस्य भयसाधनत्वं चाऽऽम्नायते—‘

यदा ह्येवैष एतस्मिन्नदृश्येऽनात्म्येऽनिरुक्तेऽनिलयनेऽभयं प्रतिष्ठां विन्दते। अथ सोऽभयं गतो भवति। यदा ह्येवैष एतस्मिन्नदरमन्तरं कुरुते। अथ तस्य भयं भवति’इति एवं द्वैताङ्गीकारे श्रुत्यैवानिष्टापत्तिंदर्शयित्वेष्टहानिरपि श्रुत्यैव प्रतिपादितेति तामुदाहरति—

नाल्पे सुखमिति। छान्दोग्योपनिषदि सप्तमेऽध्याये सनत्कुमारेण नारदायोपदिष्टंवाक्यम्‌—

भूमात्वेव विजिज्ञासितव्यो

अतस्तर्कप्रमाणाभ्यां वस्त्वेकत्वं सुनिश्चितम।

विदुषामनुभूत्या च वस्त्वेकत्वं सुनिश्चितम्‌॥ ५७॥

वस्त्वेकत्वं महावाक्यादेव जानन्ति ये जनाः।

ते मुच्यन्ते हि संसाराद्यथा स्वप्नप्रबोधनात्‌॥ ५८॥

भेददर्शनमास्थाय मुक्तिं वाञ्छन्ति ये नराः।

ते महाघोरसंसारे पतन्त्येव न संशयः॥ ५९॥

सर्वभूतेषु चाऽऽत्मानं सर्वभूतानि चाऽऽत्मनि।

संपश्यन्नात्मयाजी स्यात्स्वाराज्यमधिगच्छति॥ ६०॥

सर्वभूतानि संपश्यन्नात्मन्येव मुनीश्वराः।

संसारसागरादस्मादुत्तीर्णः स्यान्न संशयः॥ ६१॥

_______________________________________________________________________________________

यो वै भूमा तत्सुखं नाल्पेसुखमस्ति’इति। यदपरिच्छिन्नं परशिवस्वरूपमद्वितीयं तदेव सुख निरतिशयत्वात्‌। सार्वभौमप्रभ्रृतिब्रह्मलोकान्ते परिच्छिन्नेयत्सुखमुत्तरोत्तरशतगुणितमवस्थितं तस्य सातिशयत्वात्क्षयिष्णुत्वाच्च सुखत्वमेवनास्ति। अतो नित्यनिरतिशयसुखात्मको भूमैव ज्ञेय इत्यर्थः॥ ५६ ॥ इत्थं श्रुतिभिरात्मनस्तात्पर्येणाद्वितीयत्वप्रतिपादानात्पूर्वोक्ततर्कबलात्तदर्थान्यथात्वशङ्काया अप्यनुदयादद्वितीयं परशिवस्वरूपमुपनिषदेकवेद्यमितिसिद्धमित्युपसंहरति—अत इति॥ ५७ ॥ वस्त्वेकत्वमिति। यथा स्वप्नप्रपञ्चो बोधमात्रान्निवर्तते न त्वन्यत्कर्मापेक्षते। एवमेव वेदान्तमहावाक्यजनिताद्ब्रह्मात्मैक्यसाक्षात्कार-ज्ञानादेवाविद्यामयप्रपञ्चोऽनायासेनैव निवर्तत इत्यर्थः॥ ५८ ॥ प्रमाणतर्काभ्यांनिर्णीतमभेदंपरित्यज्य भेदमेव स्वीकुर्वतो बाधमाह—भेदेति। “मृत्योः समृत्युमाप्नोति इह नानेव पश्यति’ इति श्रुतेरित्यर्थः॥ ५९ ॥ प्रतीतः सर्वात्मानुभव एव ज्ञानयज्ञो न ततोऽतिरिक्तः कश्चिदित्याह—सर्वभूतेष्विति। श्रूयते हि—‘यस्तु सर्वाणि भूतान्यात्मान्येवानुपश्यति। सर्वभूतेषु चाऽऽत्मानं ततो न विजुगुप्सते” इति॥ ६० ॥ अथान्वयव्यतिरेकाभ्यामुक्त–

श्रुत्याशिवेन वा विप्रा ज्ञानयज्ञस्य वैभवम्‌।

कथंचिच्छक्यते वक्तुंसत्यमेव न संशयः॥ ७३ ॥

इति श्रीस्कन्दपुराणे सूतसंहितायां चतुर्थे यज्ञवैभवखण्डे ज्ञानयज्ञविवरणं नाम दशमोऽध्यायः॥ १० ॥

_______________

एकादशोऽध्यायः।

११. ज्ञानयज्ञविशेषः।

सूत उवाच—

भूयोऽपि ज्ञानयज्ञं तु प्रवक्ष्यामि समासतः।

महाप्रीत्या मुनिश्रेष्ठाःश्रृणुताऽऽनन्दसिद्धये॥ १ ॥

धर्माधर्मास्तिताबुद्धिर्येषामस्ति मुनीश्वराः।

तेऽपि विज्ञानसंपन्ना इति मे निश्चिता मतिः॥ २ ॥

धर्माधर्मफलास्तित्वज्ञानं येषां हृदि स्थितम्‌।

तेऽपि विज्ञानसंपन्ना इति मे निश्चिता मतिः॥ ३ ॥

_______________________________________________________________________________________

विज्ञानस्यैव मुक्तिसाधनत्वं कर्मणस्तदसाधकत्वंचाऽऽह—सर्वभूतानीत्यादिना। अध्यायशेषःस्पष्टः॥ ६१—७३॥

इति श्रीसूतसंहितातात्पर्यदीपिकायां चतुर्थेयज्ञवैभवखण्डेज्ञानयज्ञविवरणं नाम दशमोऽध्यायः॥ १० ॥_______________

इत्थं प्रत्यगात्मनः परशिवस्वरूपत्वज्ञानमेव मुक्तिसाधनं तत्र वेदान्तवाक्यमेव प्रमाणं न तु मानान्तरमित्येतावत्प्रतिपादितम्‌। संसारित्वासंसारित्वादिविरुद्धस्वभावयोः कथमेकत्वंसंगच्छत इति तत्प्रतिपादयितुमध्याय आरभ्यते—भूयोऽपीति ॥१॥ तत्र प्रथमं पुरुषार्थसाधनं ब्रह्मात्मविज्ञानमास्तिक्ययुक्तस्यैवेति दर्शयति—धर्माधर्मास्तितेत्यादिना। व्यवहारतत्सिद्धप्रमाणभावाच्छास्त्रान्तराद्धर्मादीनामस्तित्वज्ञानं येषामस्ति तेषां यथोक्तपरतत्त्वज्ञानात्परं–

श्रुतिस्मृत्यादिविश्वासो येषामस्ति सदा हृदि।

तेऽपि विज्ञानसंपन्ना इति मे निश्चिता मतिः॥ ४॥

परलोकास्तित्वबुद्धिर्येषामस्ति मुनीश्वराः।

तेऽपि विज्ञानसंपन्ना इति मे निश्चिता मतिः॥ ५ ॥

यमतत्किंकरास्तित्वज्ञानं येषां हृदि स्थितम्‌।

तेऽपि विज्ञानसंपन्ना इति मे निश्चिता मतिः॥ ६ ॥

भूतप्रेतादिसद्भावज्ञानं येषां हृदि स्थितम्‌।

तेऽपि विज्ञानसंपन्ना इति मे निश्चिता मतिः॥ ७ ॥

यक्षरक्षादिसद्भावो येषां भाति प्रमाणतः।

तेऽपि विज्ञानसंपन्ना इति मे निश्चिता मतिः॥ ८ ॥

मुनीनामस्तिताबुद्धिर्येषामस्ति मुनीश्वराः।

तेऽपि विज्ञानसंपन्ना इति मे निश्चिता मतिः॥ ९ ॥

इन्द्रादिदेवतास्तित्वं येषां चित्ते प्रकाशते।

तेऽपि विज्ञानसंपन्ना इति मे निश्चिता मतिः॥ १० ॥

ब्रह्मा विशिष्टो देवानामिति जानन्ति ये जनाः।

तेऽपि विज्ञानसंपन्ना इति मे निश्चिता मतिः॥ ११ ॥

ब्रह्मणो विष्णुमुत्कृष्टंये जानन्ति प्रमाणतः।

तेऽपि विज्ञानसंपन्ना इति मे निश्चिता मतिः॥ १२ ॥

_______________________________________________________________________________________

परया तत्साधनभूतविज्ञानसंपत्तिरस्त्येवेत्यर्थः॥ २—१० ॥ अथ ब्रह्मादीनामप्युत्तरोत्तरसूक्ष्मत्वेनोत्कर्षप्रतिपादनद्वारा परशिवस्वरूपस्य निरतिशयोत्कर्षप्रतिपादनव्याजेन तत्पदार्थं शोधयाति—ब्रह्मा विशिष्ट इति। पृथिव्यादीनि पञ्चभूतान्युत्तरोत्तरं कारणत्वेनोत्कृष्टानि तेषामधिपा ब्रह्मविष्णुरुद्रेश्वरसदाशिवाः पञ्च ब्रह्ममूर्तयस्तेप्युत्तरोत्तरमुत्कृष्टा इत्यर्थः। वृथिव्यादीनां ब्रह्मादयोऽधिपतय

विष्णोर्विशिष्टं रुद्रं ये विजानन्ति प्रमाणतः।

तेऽपि विज्ञानसंपन्ना इति मे निश्चिता मतिः॥ १३ ॥

रुद्रादीश्वरमुत्कृष्टं ये जानन्ति सुनिश्चितम्‌।

तेऽपि विज्ञानसंपन्ना इति मे निश्चिता मतिः॥ १४ ॥

ईश्वरादधिको भाति येषां चित्ते सदाशिवः।

तेऽपि विज्ञानसंपन्ना इति मे निश्चिता मतिः॥ १५ ॥

सदाशिवादपि श्रेष्ठं ब्रह्माणं ये जना विदुः।

तेऽपि विज्ञानसंपन्ना इति मे निश्चिता मतिः॥ १६ ॥

ब्रह्मणः परमं साक्षाद्विष्णुं जानन्ति ये जनाः।

तेऽपि विज्ञानसंपन्ना इति मे निश्चिता मतिः॥ १७ ॥

विष्णोस्तु परमं साक्षाद्रुदं जानन्ति ये जनाः।

तेऽपि विज्ञानसंपन्ना इति मे निश्चिता मतिः॥ १८ ॥

ईक्षितारं परं रुद्राद्ये विजानन्ति मानवाः।

तेऽपि विज्ञानसंपन्ना इति मे निश्चिता मतिः॥ १९ ॥

______________________________________________________________________________________

इत्यागमैरुक्तम्‌—“पृथिव्यबनिलाकाशास्तेषामप्यधिपान्न्यसेत्‌। ब्रह्माणं च हरिंरुद्रमीश्चरं च सदाशिवम्‌” इति। स्वयमपि पश्चब्रह्माध्याये दर्शयिष्यति सदाशिवेश्वर इत्यादिना॥ १—१५ ॥ सदाशिवादपि श्रेष्ठमिति। आकाशाधिपात्सदाशिवादपि रजःसत्त्वतमोगुणोपाधिकाःमहाभूतसृष्टिस्थितिसंहृतिव्यापारा ब्रह्मविष्णुरुद्रा उत्तरोत्तरं श्रेयांस इत्यर्थः।पूर्वोक्तास्तु ब्रह्माद्या भौतिकसृष्ट्यादिहेतव इत्येषां भेदेनोपादनम्‌। एतदेव मृर्त्यष्टकंवायवीयसंहितायां नामाष्टकेनोपदिष्टम्‌—“शिवो महेश्वरश्चैव रुद्रोविष्णुःपितामहः। संसारवैद्यःसर्वज्ञः परमात्मेत्युदाहृतः” इति॥ १६—१८ ॥ ईक्षितारमिति। तमोगुणोपाधिकाद्रुद्रादपि ततः प्रागवस्थ “स ईक्षत लोकान्नु सृजै” इतीक्षणोपाधिविशिष्टं परशिवचैतन्यं श्रेष्ठमित्यर्थः। ईक्षणं हीषद्रजःसंस्पृष्टसत्त्वपरिणा–

ईक्षितुर्ये विजानन्ति सर्वज्ञं नितरां परम्‌।

तेऽपि विज्ञानसंपन्ना इति मे निश्चिता मतिः॥ २० ॥

कारणं ब्रह्म सर्वेषां विशिष्टमिति ये विदुः।

तेऽपि विज्ञानसंपन्ना इति मेनिश्चिता मतिः॥ २१ ॥

कारणत्वोपलक्ष्यं ये सर्वोत्कृष्टं शिवं विदुः।

तेऽपि विज्ञानसंपन्ना इति मे निश्चिता मतिः॥ २२॥

अस्ति जीवो न नास्तीति ये जानन्ति प्रमाणतः।

तेऽपि विज्ञानसंपन्ना इति मे निश्चिता मतिः॥ २३ ॥

देहादन्यतया जीवं ये जानन्ति प्रमाणतः।

_______________________________________________________________________________________

मरूपंस्रष्टव्यपर्यालोचनम्‌। ततः प्राक्कालीनं विशुद्धसत्त्वप्रधानमायोपाधिकं परशिवचैतन्यमेव सर्वज्ञः। स हि ब्रह्मविष्ण्वाद्यपेक्षया नितरां परः जगदाकारेण विवर्तिष्यमाणमायाधिष्ठानत्वेन तत्कारणं यत्स्वप्रतिष्ठं परशिवस्वरूपंप्रागुक्तानां ब्रह्मादीनां सर्वेषामपि कारणत्वाच्छ्रेष्टमित्यर्थः। तस्यापि कारणत्वोपाविशिष्टात्ततोऽपि कारणत्वोपलक्षितं सच्चिदानन्दैकरसं यत्परशिस्वरूपं तत्सोपाधिकात्सर्वस्मादप्युत्कृष्टमित्यर्थः॥ १९—२२ ॥ इत्थं सर्वोत्कृष्टप्रातिपादनव्याजेन “अस्थूलमनण्वहस्वमस्पर्शमरूपमव्ययम्‌” इत्यादिश्रुतिभिः सर्वेधर्मराहित्येनावगमितं निरूपाधिकं परं ब्रह्म “तत्त्वमासि” इति महावाक्ये तत्पदेन लक्ष्यं तद्वत्‌ व्युत्पदितम्‌। अथ त्वंपदलक्ष्यमपि स्वरूपं दर्शयति—अस्ति जीव इत्यादिना। नास्ति जीव इति शून्यवादी हि प्रपश्चवदात्मनोऽपि शून्यत्वं मनुते। तस्याप्यात्मनानात्वोपाधिजगत्प्रतीतिर्भ्रान्तिसिद्धेति मतम्‌। तथाच निरधिष्ठानभ्रमस्य निरवधिकबाधस्यसंभवात्तदधिष्ठानावधित्वेन किंचित्तत्वमेष्टव्यम्‌।जगत्प्रतीतिबाधयोरधिष्ठानत्वेनावधित्वेन च यद्वस्तु परिशिष्यते तदस्माभिरात्मेत्युच्यते। अतो भ्रमबाधान्यथानुपपत्त्या शून्यवादिनाऽप्यात्मास्तित्वमङ्गीकार्यमित्यर्थः॥ २३ ॥ अस्तु नाम यः कश्चिज्जीवात्मा स तु देहातिरिक्तोनास्ति। अचेतना नामपि भूतानां देहाकारेण मेलनवशाच्चैतन्याभिव्यक्तिरितिये विप्रतिपन्ना लोकाय–

तेऽपि विज्ञानसंपन्ना इति मे निश्चिता मतिः॥ २४ ॥

प्राणादन्यतयाऽऽत्मानं ये जानन्ति प्रमाणतः।

तेऽपि विज्ञानसंपन्ना इति मे निश्चिता मतिः॥ २५ ॥

इन्द्रियेभ्यः परं जीवंये जानन्ति प्रमाणतः।

तेऽपि विज्ञानसंपन्ना इति मे निश्चिता मतिः॥ २६ ॥

मनसोऽन्यतयाऽऽत्मानं ये जानन्ति प्रमाणतः।

तेऽपि विज्ञानसंपन्ना इति मे निश्चिता मतिः॥ २७ ॥

क्षणप्रध्वंसिविज्ञानादात्मानं ये परं विदुः।

तेऽपि विज्ञानसंपन्ना इति मे निश्चिता मतिः॥ २८ ॥

_________________________________________________________________________________________

तिकास्तान्निरकरोति—

देहादन्यतयेति। अयमभिप्रायः—सुखित्वदुःखित्वादिजगद्वैचित्रस्य पुण्यपापमूलत्वात्कर्तु-र्देहातिरिक्तस्यस्वर्गनरकादिसंचारिणोऽनङ्गीकारेतदसंभवाद्भौतिकादृश्यद्देहाद्द्रष्टुर्जीवस्य ब्यतिरेकावश्यंभावाद्देहातिरिक्तःपरलोकभाक्कश्चिदात्मा विद्यत इति प्रतिपत्तव्यम्‌। श्रुतिश्च—‘

अस्तीत्येवोपलब्धव्यः’इति तस्यास्तित्वंप्रतिपादयति। किंच जननमरणादियुक्तो देहःकथं तद्रहित आत्मा स्यात्तद्राहित्यंचाऽऽत्मनः श्रूयते—‘

न जायते म्रियते वा कदाचित्‌’‘अजो नित्यःशाश्वतोऽयं पुराणः’इति। अत एवं भगवान्बादरायणोऽपि ‘एक आत्मनः शरीरेभावात्‌’ इत्यधिकरणेन देहातिरिक्तात्मसद्भावं प्रतिपादयामास॥ २४ ॥ प्राणादिति। प्राणापानादिपञ्चवृत्त्यात्मकस्य प्राणस्य सुषृप्तौसद्भावेऽपि विशेषोपलब्ध्यभावात्तदतिरिक्त एवोपलब्धव्य इत्यर्थः॥ २५ ॥ इन्द्रियेभ्य इति। चक्षुरादीनां करणत्वात्तत्प्रेरकःकर्ताऽन्य एवेत्यर्थः॥ २६ ॥ २७ ॥ बुद्ध्यहंकारादीनामपि करणत्वादेव नाऽऽत्मत्वमित्याह—

क्षणप्रध्वंसीत्यादिना। आत्मस्वरूपभूतविज्ञानाद्व्यावर्तयितुं क्षणप्रध्वंसीति विशेषणम्‌। अत्रविज्ञायतेऽनेनेति करणव्युत्पत्त्या,निश्चयरूपा मनोवृतिः क्षणप्रध्वंसिनी विज्ञानशब्दार्थः। अत्मविषया

बुद्ध्यहंकारतो जीवं ये विदुर्भिन्नमास्तिकाः।

तेऽपि विज्ञानसंपन्ना इति मे निश्चिता मतिः॥ २९ ॥

चित्तादन्यतयाऽऽत्मानं ये जानन्ति प्रमाणतः।

तेऽपि विज्ञानसंपन्ना इति मे निश्चिता मतिः॥ ३० ॥

सर्वप्रत्ययिनो जीवं विभक्तं ये विदुर्बुधाः।

तेऽपि विज्ञानसंपन्ना इति मे निश्चिता मतिः॥ ३१ ॥

जाग्रत्स्वप्नसुषुप्त्याख्यं वेद धामत्रयं तु यः।

स एवाऽऽत्मा न तद्दृश्यं दृश्यं तस्मिन्प्रकल्पितम्‌॥ ३२ ॥

_________________________________________________________________________________________

तदविविक्ता मनोवृत्तिग्हंकारस्तन्मृलत्वात्संसारानर्थस्य दुःखरूपत्वम्‌। संशयितमर्थं निश्चेतुं तल्लीना या मनोवृत्तिस्तच्चित्तम्‌। एतच्च संकल्पविकल्पात्मकस्य मनसोऽप्युपलक्षणम्‌॥ २८—३० ॥ सर्वप्रत्ययिन इति। बुद्ध्यहंकराद्याःकामसंकल्पाद्याश्च प्रत्यया वृत्तयो यस्मिन्नन्तःकरणे तत्सर्वप्रत्ययीत्यार्थः। अन्तःकरणचतुष्टयस्वरूपमुक्तं प्रपञ्चसारे—‘परेण धाम्नासमनुप्रबुद्धा मनस्तदा सा च महानुभावा। यदा तु संकल्पविल्पवृत्त्यायदा पुनर्निश्चिनुते तदा सा॥ स्याद्बुद्धिसंज्ञा च यदा प्रवेत्ति ज्ञातारमात्मानमहंकृतिः स्यात्‌। तदा यदा सा त्वभिलीयते तच्चित्तं च निर्धारितमर्थमेषा’ इति॥ ३१ ॥ जाग्रदिति। एवं देहादिव्यातिरिक्तो यश्चिदात्मा जाग्रत्स्वप्नसुषुप्ताख्यान्स्थानविशषान्साक्षितया जानाति स एवाऽऽत्मा तस्याच जाग्रदादिस्थानविशेषसाक्षित्वमेवाऽऽम्नायते। “सोऽयमात्मा चतुष्पाज्जागरितस्थानो बहि प्रज्ञः स्वप्नस्थानोऽन्तःप्रज्ञः सुषुप्तिस्थान एकीभूतः इति। तस्य प्रतिपादकोऽयं श्लोक आचार्यकृतः—“त्रिषु धामसु यद्भोज्यं भोक्ता यश्च प्रकीतितः। वेदैतदुभयं यस्तु स भुञ्जानो न लिप्यते’ इति॥ ननु तध्याऽऽपमनः सद्भावे प्रमाणमस्ति न वा न चेच्छशविषाणतुल्यता। अस्तिचेद्विषयत्वाद्धटादिवहृश्यत्वापत्तिरित्यत आह—न तदृश्यमिति। उपनिषद्वाक्यजनितमनोवृत्तिविषयत्वेन वृत्तिव्याप्यत्वेसत्यपि स्वयंप्रकाशस्य साक्षिचैतन्यस्य फलव्याप्यत्वाभावान्न घटदिवद्दृश्यत्वमित्यर्थः। जगतस्तु

त्रिधामसाक्षिणंसत्यज्ञानानन्दादिलक्षणम्‌।
त्वमहंशब्दलक्ष्यार्थमसक्तं सर्वदोषतः॥ ३३॥
ज्ञाताज्ञातद्वयादन्यं ज्ञाताज्ञातस्य भासकम्‌।
प्रमाणभ्रान्तिवृत्तीनामगम्यं तत्प्रकाशकम्‌॥ ३४॥
स्वयंभातं निराधारं ये जानन्ति सुनिश्चितम्‌।
तेऽपि विज्ञानसंपन्ना इति मे निश्चिता मतिः॥ ३५॥


तत्स्वरूपेमायया परिकल्पितत्वादधिष्ठानप्रकाशेनैवप्रकाशत इति फलव्याप्यत्वस्यापि सद्भाबाद्दृशा व्याप्यंदृश्यमिति व्युत्पत्त्या दृश्यं भवेदित्यर्थः॥३२॥ त्रिधामसाक्षिणमिति। साक्षिचैतन्यस्यापि सत्यादिस्वरूपत्वमात्ममन्त्रार्थकथनप्रस्तावे’ अहं चाव्यभिचारित्वात्तत्सद्भावान्न संशयः’ इत्यादिना सम्यङ्निरूपितम्‌। ईदृग्विधंयच्चैतन्यंतदेव महावाक्येषु ‘तत्त्वमसि “अहं ब्रह्मास्मि” इत्यादावन्तःकरणादिविशिष्टं चेतन्यवाचकैस्त्वहमादिपदैर्लक्ष्यंवाच्यस्यार्थस्य वाक्यार्थत्वानुपपत्तेः। उक्तंहि— “वाच्यस्यार्थस्य वाक्यार्थेसंबन्धानुपपत्तितः। तत्संबन्धवशात्प्राप्तादन्‍वयाल्लक्षणाोच्यते’ इति। तच्च सर्वेष्वपि दोषेषु न सक्तम।” असङ्गोन हि सज्जते"इति श्रुतेः॥ ३३॥ ज्ञाताज्ञातेति। ज्ञातमन्तःकरणवृत्त्याविषयीकृतम्‌। अज्ञातं भावरूपाज्ञानेन क्रोडीकृतम्‌। तदुभयस्माद्विलक्षणम्। परमार्थतो निरविद्यस्प निरुपाधिकस्य स्वप्रकाशस्य तदुभयविषयत्वासंभवात्।अत एवमाम्नायते तलवकारोपानिषदि— “अन्यदेव तद्विदितादथो अविदितादधि " इति। स्वप्रकाशचिदात्मकत्वादेव तस्य ज्ञाताज्ञातद्वयस्यभासकत्वम्‌। उक्तं हि— ‘सर्वंवस्तु ज्ञाततयाऽज्ञाततया वा साक्षि चैतन्यस्य विषय एव’ इति। प्रमाणभ्रान्तीति। केनचिदुपहितस्यैवाऽऽत्मस्वरूपस्य प्रमाणविषयत्वान्निरुपाधिकस्य तद्विषयत्वम्‌। ‘नैव वाचा न मनस प्राप्तुं शक्यो न चक्षुषा’ इति श्रुतेः। प्रत्युत तत्प्रकाशकं तासां प्रमाणादिवृत्तीनां साक्षित्वेनभास्करम्‌। तदुक्तम्‌— अन्तःकरणतद्वत्तिसाक्षी चैतन्यविग्रहः’ इति॥२४॥ स्वयंभातामिति। ‘न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः। तमेव भान्तमनुमाति सर्वंतस्य भासा सर्वमिदं विभाति’इति

उक्तलक्षणमात्मानमुक्तलक्षणमीश्वरम्‌।
एकं पश्यन्ति ये विप्रास्तर्कतश्र प्रमाणतः॥ ३६॥
तथा स्वानुभवेनैव गुरूक्त्याच प्रसादतः।
त एव ज्ञानसंपन्नास्त्रिर्वःशपथयाम्यहम्‌॥ ३७॥
अतिरहस्यमिदं कथित मया
गुरुपरंपरया च समागतम्‌।
श्रुतिभिरीरितमात्मविशुद्धये
न पठितव्यमसज्जनसंसदि॥ ३८॥

इति श्रीस्कान्दपुराणे सूतसंहितायां यज्ञवैभवखण्डे
ज्ञानयज्ञविशेषो नामैकादशोऽध्यायः॥ ११॥

द्वादशोऽध्यायः।

१२. ज्ञानयज्ञविशेषः।

सूत उवाच—

भूयोऽपि ज्ञानयज्ञं तु प्रवक्ष्यामि समासतः।
मुनयः परया भक्या श्रृणुतातीव शोभनम्‌॥ १॥


श्रुतेः। स्वयंप्रकाशमानमित्यर्थः। निराधारमधाररहितम्‌। ‘स भगवः कस्मिन्प्रतिष्ठित इति स्वे महिम्निप्रतिष्ठित” इति श्रुतेः। एवं सम्यङ्निश्चितं देहान्तर्वर्तिनमात्मानं ये जानन्ति तेऽपीत्यादि पूर्ववत्‌॥ ३५॥ इत्थं शोधितौ तत्त्वंपदार्थौदर्शयित्वा तयोरैक्यं वेदान्तमहावाक्यैः प्रमाणैस्तदनुकूलैस्तर्कैश्चावगन्तव्यमित्याह— उक्तलक्षणामिति। सुगममन्यत्‌॥ ३६— ३ ८॥

इति श्रीस्कान्दपुराणे श्रीसूतसंहितातात्पर्यदीपिकायां यज्ञवैभवखण्डे

ज्ञानयज्ञविशेषो नाम एकादशोऽध्यायः॥ ११॥

पूर्वस्मिन्नध्याये दृश्यंतस्मिन्प्रकल्पितमिति दृश्यप्रपञ्चस्ययत्कल्पितत्वेन

ब्रह्म सत्यपरानन्दप्रकाशानन्तलक्षणम्‌।
अप्रच्युतात्मभावेन संथितं सर्वदैवतु॥ २॥
आत्मशक्तिसमायोगादनाद्यन्तादतर्कितात्।
अप्रतीतमिवाऽऽभाति स्वयंभातमपि द्विजाः॥ ३॥
सदप्यसदिव प्राज्ञः सदैकमपि भिन्नवत्।
तादृशाकारमापन्नः संसारीवावभासते॥ ४॥
ब्रह्मणोऽभिन्नरूपे तु चेतनाचेतनात्मकः।


मिथ्यात्वं सूचितं तदिदानीमद्वितीये परमशिवस्वरूपे प्रपञ्चस्याध्यारोपापवादाभ्यां प्रतिपादयितुमुपक्रमते —भूयोऽपीति॥ १॥ अधिष्ठानभूतस्यब्रह्मणस्तावन्निरुपाधिकं रूपमाह— ब्रह्येति। “सत्यं ज्ञानमनन्तं ब्रह्म” “विज्ञानमानन्दं ब्रह्म” इति श्रुतेः। अखण्डैकरसस्य ब्रह्मणः सत्यादिपदान्यनृतजडदुःखान्तवत्त्वनिरासेनलक्षकाणीति प्राक्प्रतिपादितम्। अप्रच्युतात्मभवेनेति। अपरिलुप्तप्रत्यगात्मत्वेनेत्यर्थः। अनेन च ब्रह्मणोऽनात्मत्वनिरासः। सर्वदैवत्विति। न केवलं तत्त्वज्ञानादूर्ध्वमेव ब्रह्मण आत्मभावः किंतु ततः प्रागपीत्यर्थः॥ २॥ ननु सितभास्वराकारेणसामान्यतो ज्ञातं नीलपृष्ठात्रिकोणत्वादिविशेषाकारेणाज्ञातंवस्तु रजताद्यारोप्यस्याधिष्ठानत्वेन दृष्टम्‌। ब्रह्म तु स्वप्रकाशत्वेन सर्वात्मना भातमिति कथं तस्याधिष्ठानत्वमित्यतआह—आत्मशक्तीति। आत्मनः शक्तिः स्वस्मिंश्चैतन्यमात्रआश्रिता माया न तु सांख्याभिमतप्रकृतिवत्स्वतन्त्रेत्यर्थः। आनाद्यन्तादिति। तथाविधमायाया आत्मनश्चानादित्वात्तदुभयाश्रितसंबन्धोऽप्यनादिः। तत्वज्ञानव्यतिरेकेण मायाया अप्यन्तवत्त्वराहित्यात्तत्संबन्धोऽनन्तश्च। कथमीदृङ्मायातत्संबन्धश्च कथं स्वप्रकाशे परशिवस्वरूपे संभवतीति तत्राऽह—अतर्कितादिति। विचारासहादित्यर्थः। तथाविधमायासंबन्धवशात्स्वप्रकाशमपि तद्ब्रह्माभातमिव भवति। आवरणशक्त्याऽऽवृतत्वात्।अत एव तद्रूपमप्यविद्यमानमिव भवद्यद्वितीयमपि नानाविधोपाधिसंबन्धवशान्नानाकारवद्भवति। स्वतोऽसंसारित्वेऽपि तत्तदन्तः

विभागः कल्पितः शक्त्यान स्वतः पण्डितोत्तमाः॥ ५॥
ब्रह्मणश्चैतनाकारे कल्पिता चेतनाभिदा।
सर्वज्ञत्वादिका स्तम्बपर्यन्ता माययैव तु॥ ६॥
उत्कर्षश्चापकर्षश्च मायया तेषु कल्पितः।
नियन्तृत्वनियम्यत्वाद्याकाराश्च प्रकल्पिताः॥ ७॥
ब्रह्मणोऽचेतनाकारे महामायाबलेन तु।
महदादिजगच्छून्यपर्यन्तं परिकल्पितम्‌॥ ८॥


करणतादात्म्याध्यासात्तदृक्त्वमापन्नं चिन्मात्रं संसारीव भवति। अत उक्तं हि वार्किकारैः— “ अक्षमाभवतः केयं साधकत्वप्रकल्पने। किं न पश्यसि संसारं तत्रैवाज्ञानकल्पितम्‌” इति॥ ३॥ ४॥ एवंच स्वप्रकाशेऽपि तस्मिन्मायाशक्तिवशात्सर्वमपि संभावयितुं शक्यमिति तस्याधिष्ठानत्वसंभवं प्रतिपाद्य चेतनाचेतनात्मकं द्विविधं जगदारोपयितुं तस्याधिष्ठानस्य मायावशाद्वैविध्यमाह— ब्रह्मण इति। अभिन्नेऽखण्ड एव ब्रह्मणो रूपे मायाशक्त्या सत्वगुणोपधानेन रजस्तमोगुणोपधानेन चचेतनाचेतनात्मकं भागद्वयं परिकल्पितंन स्वत इति। यत एतन्माययैवातो न स्वाभाविक इत्यर्थः॥ ५॥ अथैतयोर्ब्रह्याकारयोः कुत्र कस्य परिकल्पनमिति तदुभयं विभज्यदर्शयति— ब्रह्मणश्चेतनाकारो इत्यादिना। सत्त्वगुणस्य प्रकाशात्मकत्वात्तदुपाधिक आकारश्चेतनाकारो रजस्तमसोस्तद्विपरतित्वात्तदुपाधिक आकारोऽचेतनाकारः। तत्र चेतनाकारे विशुद्धसत्त्वप्रधानमायोपाधिकमीश्वरं सर्वज्ञमारभ्यस्तम्बपर्यन्तो भोक्तृप्रपञ्चोमायया परिकल्पितः। तत्र भोक्तृषु कर्मवशात्सुखित्वदुःखित्वादितारतम्यमीश्वरस्य च तेषां च नियन्तृत्वनियम्यत्वादयश्च धर्माः। एतत्सर्वं माययैव प्रकल्पितमित्यर्थः। अचेतनाकारे तु वियदादिभूतभौतिकं जगदभावपर्यन्तं भोग्यरूपं परिकल्पितम्‌। उक्तं हि— “तमः प्रधानः क्षेत्राणां चित्प्रधानश्चिदात्मनाम्‌॥ परः कारणतामेति भावनाज्ञानकर्मभिः’ इति। जगत्यपीति। यथा भोक्तृप्रपञ्चे तद्वज्जडप्रपञ्चेऽर्प्युत्कषापकर्षा-

उत्कर्षश्चापकर्षश्चजगत्यपिमुनीश्वराः।
कल्पितः सर्वतोद्रिक्तं व्यवहारे तुमायया॥ ९॥
वर्णाश्रमास्तथा विप्रा वर्णसांकर्यमेव च।
तद्धर्माश्च विभागेन माययैव प्रकल्पिताः॥ १०॥
नियोज्यत्वं च कर्तृत्वंभोक्तृत्वं च तथैव च।

वर्णाश्रमादिनिष्ठानां माययैव प्रकल्पितम्‌॥ ११॥
विधयश्च निषेधाश्च श्रुतिस्मृत्यादिरूपिणः।
मायया देवदेवस्य सत्यवत्परिकल्पिताः॥ १२॥
धर्माधर्मौ तयोर्विप्राः फलेतत्साधनान्यपि।
कल्पितानि महामोहाद्ब्रह्मणो न स्वभावतः॥ १३ ॥

_____________________________________________________________________________________________

दिकं सर्वंव्यवहारविषये मायया परिकल्पितमित्यर्थः॥ ६—९॥ एवं प्रपञ्चान्तर्गतानां वर्णाश्रमादीनामपि मायया परिकल्पितत्वेन मिथ्यात्वंसाधयति—वर्णाश्रमास्तथेत्यादिना। तद्धर्माइति वर्णधर्मा आश्रमधर्माश्चेत्यर्थः॥ १०॥ नियोज्यत्वं चेति। “दर्शपूर्णमासाम्भ्यांस्वर्गकामो यजेत” इति वाक्यश्रवणसमनन्तरमधिकारिणः पुरुषस्य मयेदं कर्तव्यमिति यन्नियोगबोद्धृत्वंतन्नियोज्यत्वम्‌। तदुक्तं शालिकानाथेन— ‘‘नियोज्यःस च कार्यं यः स्वकीयत्वेन बुध्यते” इति। गुरुमतेऽप्यपूर्वं लिङर्थः। तदेव कृत्युद्देश्यत्वेसति कृतिसाध्यत्वात्कार्यं स्वात्मनि पुरुषस्यनियोजनान्नियोग इति च व्यपदिश्यते। “कृतिसाध्यं प्रधानं यत्तत्कार्यमभिधीयते। कार्यत्वेननियोज्यं यः स्वात्मनि प्रेरयन्नसौ॥ नियोग इति मीमांसानिष्णातैरभिधीयते”। इति शालिकानाथेनोक्तत्वात्‌। कर्तृत्वंतु विषयाकारभावापन्नस्य धात्वर्थस्य निष्पादनद्वाराऽपूर्वनिर्वर्तकत्वम्‌। तज्जन्यफलभागित्वंभोक्तृत्वम्‌। अपि माहेश्वरमिति। महेश्वरो विशुद्धसत्त्वप्रधानमायोपाधिकः सर्वज्ञस्तस्ययत्सर्वगोचरं निरतिशयं ज्ञानं तदपि माययैव परिकल्पितंसत्त्वपरिणामित्वादित्यर्थः। अथवा महेश्वरो निरुपाधिकः परशिवस्तद्विषयं वेदान्तमहावाक्यजनितं यद्वृत्तिज्ञानं तदपि मायया

रागद्वेषादयो दोषाः शान्तिदान्त्यादयो गुणाः।
अपि माहेश्वरं ज्ञानं माययैव प्रकल्पितम्‌॥ १४॥
वैदिकास्तान्त्रिका मार्गाअपभ्रंशास्तथैव च।
स्वतन्त्रस्याम्बिकाभर्तुर्माययैवप्रकल्पिताः॥ १५॥
यद्यदस्तितया भाति यद्यन्नास्तितया तथा।
तत्तत्सर्वंमहादेवमायया परिकल्पितम्॥ १६॥
चेतनाचेतनाकारौब्रह्मणो यौप्रकल्पितौ।
तौशिवादन्यतोन स्तः सम्यगर्थनिरूपणे॥ १७॥
सर्वज्ञत्वादिका भेदाः स्तम्बान्ता ये प्रकल्पिताः।
ते शिवादन्यतो नित्यं न सन्त्येव निरूपणे॥ १८॥

_______________________________________________________________________________

परिकिल्पितं तद्धि परिकल्पितमपि स्वविषयावरणाविद्यांनिवर्तयत्स्वयमपि कतकरजोन्यायेन निवर्तते॥ ११—१४॥ अपभ्रंशाः कापालादयः ॥१५॥ यद्यदस्तीति। अवशिष्टं भावाभावात्मकं सर्वंजगदपि पराशिवस्वरूपे माययैव परिकल्पितं न तु पारमार्थिकं सदित्यर्थः॥१६॥ इत्थमद्वितीये परशिवस्वरूपे मायावशाच्चेतनाचेतनात्मकस्य प्रपञ्चस्य परिकल्पितत्वोक्तेःपरशिवस्वरूपव्यरितिक्ते कारणे तत्सत्ता निरस्ता। तत्रापि परिकल्पितत्वाभिधानाच्छुक्तिरूप्या दिवदपारमार्थिकत्वमप्युक्तम। अथ त्वबाधितव्यवहारविषयत्वात्तस्यमायाकल्पितत्वमसिद्धमित्याशङ्क्याधिष्ठान-परशिवस्वरूपयाथात्म्यज्ञानोत्तरकालं बाधदर्शनसाम्येन शुक्तिरूप्यादिवत्तस्यापि मायापरिकल्पितत्वमारोपक्रमेणैव समर्थयते—चेतनाचेतनेत्यादिना। सम्यगर्थनिरूपण इति। परमार्थपर्यालोचनायाम्‌"एकमेवाद्वितीयम्‌ " “ मायामात्रमिदं द्वैतं” “नेह नानाऽस्ति किंचन” इत्यादिश्रुतिबलात्परशिवस्वरूपस्याद्वितीयत्वेऽवगते तत्रचेतनाचेतनविभागो मायापरिकल्पित एवेष्टव्योन शिवस्वरूपादन्यत्वेन युक्त इत्यर्थः। एवं सर्वज्ञत्वादिका इत्यादौ सर्वत्र बाधदर्शनबलेन शिवस्वरूपान्यतया पारमार्थिकसत्त्वायोगात्सर्वज्ञत्वादिकमपि सर्वंचेतनाचेतनात्मकं जगत्तत्स्वरूपे मायया परि-

उत्कर्षश्चापकर्षश्चयस्तेषु परिकल्पितः।
सोऽपि नैवास्ति भेदेन शिवात्सम्यङ्निरूपणे॥ १९॥
ब्रह्मणोऽचेतनाकारे कल्पितं यज्जगद्बुधाः।
तच्च नैवास्ति भेदेन शिवात्सम्यङ्निरूपणे॥ २०॥
उत्कर्षश्चापकर्षश्चयो जगत्यपि कल्पितः।
सोऽपि नैवास्ति भेदेन शिवात्सम्यङ्निरूपणे॥ २१॥
वर्णाश्रमादयो भावा मायया ये प्रकल्पिताः।
तेऽपि शंभोर्नभेदेन सन्ति सम्यङ्निरूपणे॥ २२॥
नियोज्यत्वादयो भावा मायया ये प्रकल्पिताः।
तेऽपि शंभोर्नभेदेन सन्ति सम्यङ्निरूपणे॥ २३॥
विधयश्च निषेधाश्च मायया ये प्रकल्पिताः।
तेऽपि शंभोर्न भेदेन सन्ति सम्यङ्निरूपणे॥ २४॥
धर्माधर्मादिरूपेण मायया ये प्रकल्पिताः।
तेऽपि शंभोर्न भेदेन सन्ति सम्यङ्निरूपणे॥ २५॥
रागद्वेषादिरूपाश्च मायया ये प्रकल्पिताः।
तेऽपि शंभोर्नभेदेन सन्ति सम्यङ्निरूपणे॥ २६॥
वैदिकास्तान्त्रिका मार्गाअपभ्रंशाश्चये द्विजाः।
तेऽपि शंभोर्न भेदेन सन्ति सम्यङ्निरूपणे॥ २७॥
यद्यदस्तितया यद्यन्नास्ति वस्तु मुनीश्वराः।
तत्तच्छंभोर्न भेदेन विद्यते सृक्ष्मदर्शने॥ २८॥
अतश्च संक्षेपमिमंशृणुध्वं

जगत्समस्तं चिदचित्प्रभिन्नम्‌।

स्वशक्तिक्लृप्तं शिवमात्रमेव

न देवदेवात्पृथगस्ति किंचित्‌॥ २९॥

इति श्रीस्कान्दपुराणे सूतसंहितायां चतुर्थे यज्ञवैभवखण्डे
ज्ञानयज्ञविशषोनाम द्वादशोऽध्यायः॥ १२॥

—————

त्रयोदशोऽध्यायः।

१२. ज्ञानयज्ञविशेषः।

सूत उवाच—

भूयोऽपि ज्ञानयज्ञं तु प्रवक्ष्यामि समासतः।
गुह्याद्गुह्यतमं सूक्ष्मं श्रृणुत श्रद्धया द्विजाः॥ १ ॥
चिन्मात्राश्रयमायायाः शक्त्याकारे द्विजोत्तमाः।
अनुप्रविष्टा या सविन्निर्विकल्पा स्वयंप्रभा॥ २ ॥

———————————————————————————————————————————————————

कल्पितमेवेत्यर्थः॥१७—२८॥ एवं पारमार्थिकसत्त्वस्यापवादेन प्रपञ्चस्य मायामयत्वसिद्धेर्मिथ्यात्वंसिद्धमतःपरशिवस्वरूपादन्यन्नारतीत्यद्वितीयत्वं सिद्धमित्युपसंहरति— अतश्चेति। स्वस्मिन्नाश्रिता माया स्वशक्तिः॥ २९ ॥

इति श्रीसूतसंहितातात्पर्यदीपिकायांचतुर्थे यज्ञवैभवखण्डे
ज्ञानयज्ञविशेषो नाम द्वादशोऽध्यायः॥ १२ ॥

एवं मायातत्कार्यरूपप्रपञ्चस्य ज्ञाननिवर्त्यत्वेन मिथ्यात्वं प्रसाध्य संविद्रूपायाःपरशक्तेरपि परशिवादन्यत्वशङ्कया प्रसक्तं मिथ्यात्वं निरूपयितुमुपक्रमते—भूयोऽपीति॥ १ ॥ मायैवास्य परा शक्तिरिति भ्रमं व्युदसितुं परस्याः शक्तेः स्वरूपं दर्शयति—चिन्मात्रेत्यादिना। भोक्तृभोग्यात्मकस्यप्रपञ्चस्य सनियन्तृकस्य सृष्टेः प्राक्प्रलीनावस्थायां विकल्पहेतूनामभावात्परशिवस्वरूपमत्यन्तं निर्विकल्पकंस्वप्रतिष्ठंभवति तत्स्वरूपेऽध्यस्ता मायाऽपि विकल्परहितैवावतिष्ठते। सा च प्राणिकर्मपरिपाकवशादीषद्विकल्पिता सती शिवशक्तिविभागस्यापि तदानीमभावात्तदुभयसाधारणं चिन्मात्रमेवाऽऽश्रयतया स्वीकरो—

ति। चिन्मात्ररूपः परशिवोऽपि तत्संबन्धवशात्किञ्चित्स्वप्रतिष्ठतां विहाय तदभिखोभवति। नन्वसङ्गोदासीनस्यपरानन्दस्वरूपस्याविक्रियस्य परशिवस्य मायवष्टम्भेन कुतो जगत्सृष्ट्यादिहेतुत्वम। प्राणिकर्मणां परिपाकवशादिति चेन्न। तस्य स्वतन्त्रस्य तत्पारतन्त्र्यायोगात्‌। स्वभोगार्थमित्यपिन युज्यते। तस्याऽऽप्तकामत्वात्‌। न च लीलार्थमित्यपि युक्तम्‌। तथात्वे गिरिनदीसमुद्रादिवैचित्र्यस्य सुखित्वादिवैचित्र्यस्य च प्रतिनियमायोगात्‌। नैष दोषः। प्रतिनियमस्य परिपक्वप्राणिकर्मतारतम्यहेतुत्वात्‌। न चैतावता परशिवस्य कर्मपारतन्त्रयापत्तिः। स्वसंकल्पनिमित्तत्वात्‌। जगत्सृष्ट्यादिलीलोपक्रमावसरे निर्हेतुककार्योत्पत्तिरतिप्रसङ्गहेतुरिति पुण्यपापादीनां सुखदुःखादिहेतुत्वं तदुपभोगहेतुत्वेन प्रतिनियतप्रपञ्चनिर्माणं च संकल्प्प परशिवः स्वमायावशाल्लीलायां प्रववृते। तस्यच स्वसंकल्पस्य सत्यत्वाविघाताय सर्वेष्वपि ब्रह्मकल्पेषु समानाकारा एव सृष्ट्यादिलीलाःकरोति। अतो जगद्वैचित्र्यनिमित्तस्य पुण्यपापादेरापि स्वसंकल्वहेतुत्वाज्जगत्सर्गादिलीलायां प्रवृत्तस्यपरशिवस्य न स्वातन्त्र्यभङ्गः। अत एवमगवान्बादरायणः परमेश्वरस्य सृष्ट्यादिप्रवृत्तौ राजादिवत्केवलं लीलैव कारणमिति सूत्रयामास “लोकवत्तु लीलाकैवल्यम्” इति। तथा च शिवशक्त्युभयरूपसाधारणं चिन्मात्रमाश्रिता सा माया पुनर्द्विधा भवति। शाक्यप्रतियोग्यधीननिरूपणविषयत्वाकारेण तदनधीननिरूपणविषयत्वाकारेण च। एवमुपाधिद्वैविध्यादुपधेयचिन्मात्रमपि द्विधा भिद्यते। तत्र शक्यप्रतियोग्यधीननिरूपणा माया सा शाक्तिःसलिलपवनादिसमायोगपरवशादुच्छूनावस्थस्य बीजस्य यथाऽङ्कुरावस्था तथैव प्राणिकर्मपरिपाकवशादुपचितरूपाया मायाया जगत्कार्यहेतुभूताङ्कुरावस्था सेत्यर्थः। शक्यप्रतियोग्यनधीननिरूपणविषयोयो मायाया आकारस्तदुपहितं चैतन्यं शिवः। जगदङ्कुररूपिण्या शक्या यदवच्छिन्नंचैतन्यंतस्यया संविद्रूषिणी सा परा शक्तिरित्युच्यते। अतश्चोपाधिपरिच्छेदादेवैकस्यैव चिन्मात्रस्य शिवशक्त्यात्मना विभागः। परमार्थतस्तु चिन्मात्रतयैकत्वमेवेत्यर्थः। तदुक्तमागमिकैः—“चिदचिदनुग्रहहेतोरस्य सिसृक्षोर्यआद्यउन्मेषः। तच्छक्तित्वमभिहितमविभागापन्नमस्यैव” इति। तदिदमुच्यते—‘चिन्मात्राश्रयमायायाः’“शक्त्याकारेऽनु—

सदाकारा परानन्दा संसारोच्छेदकारिणी।
सा शिवा परमा देवी शिवाभिन्ना शिवंकरी॥ ३ ॥
जगत्कारणमापन्नः शिवो यो मुनिसत्तमाः।
सा तस्यापि भवेच्छक्तिस्तया हीनो निरर्थकः॥ ४ ॥
सवैज्ञत्वंगतो यस्तु शिवः साक्षादुपाधिना।
सा तस्यापि भवेच्छक्तिस्तया हीनो निरथेकः॥ ५ ॥

——————————————————————————————————————————————————

प्रविष्टा” इति। शिवमाहात्म्यखणडे तच्छक्तिपूजाविधौ विस्तरेण प्रपञ्चितम्। यतः परशिवस्वरूपमेव शक्यप्रतियोगिनिरूपणोपाध्यवच्छिन्नतया परा शक्तिस्तस्मात्साऽपि सच्चिदानन्दादिरूपैवेत्याह—निर्विकल्पेत्यादिना। विकल्पहेतुविशेषाणां निर्विशेषे वस्तुनि स्वभावतो विरहान्निर्विकल्पा। स्वयंप्रभाऽपराधीनप्रकाशा सच्चिदानन्दाखण्डैकरसेत्यर्थः॥ २ ॥ संसरोच्छेदकारिणीति। संसारस्योच्छेद उन्मृलनं तद्धेतुभूता। परमेश्वरः स्वशक्तिवशात्खलुमुमुक्षून्संसारान्मोचयति “शक्तौ यया स शंभुर्भुक्तौमुक्तौच पशुगणस्यास्य” इत्युक्तत्वात्‌। यद्वाब्रह्माकारमनोवृत्त्यवच्छिन्नैवसंवित्संसार-निवर्तिकेत्यर्थः। एवंगुणविदिष्टा सेवित्सैव शिवंकरी सर्वप्राणिनां सुखकारिणी। अत एव शिवा शिवशब्दाभिधेया। वक्ष्यमाणानां शक्तीनामुपादानभूतत्वात्परमा सर्वोत्कृष्टा। देवी शक्यप्रपश्चस्येश्वरी। शिवाभिन्नेति। अस्याः शिवस्य च परमार्थतःपूर्वोक्तचिन्मात्ररूपत्वाद्भेदोनास्तीत्यर्थः। तथाच शिवशक्त्योर्भेदावभास एव मिथ्या न तु प्रपञ्चवत्स्वरूपमपीत्यर्थः॥ ३ ॥ इत्थं सामान्यरूपिणीं परां शक्तिं निरूप्य सैव शक्यविशेषप्रतियोगिनिरूपिता सती तत्तद्विशेषशक्त्यात्मिका भवतीत्याह— जगदित्यादिना। जगत्कारणमिति भावपरोनिर्देशः। यः शिवो जगत्कारणत्वमापन्नो जगदङ्कुररूपशक्त्यवस्थाया ऊर्ध्वं जगदाकारविवर्तिप्यमाणमायाधिष्ठानत्वात्तस्यापि शिवस्य सा पूर्वोक्ता परा शक्तिरेव जगन्निर्माणशक्तिरूपा भवेत्‌। तया शक्त्या रहितः शिवोनिःशक्तित्वाज्जगन्निर्माणासमर्थइत्यर्थः। एवमुत्तरत्र सर्वत्र योज्यम्‌॥ ४ ॥ शिवस्य जगत्कारणत्वावस्थायामुपाधिभूता माया ज्ञानक्रियाशक्तिसाम्यवती। सा यदि विशुद्धसत्त्वप्र–

ईक्षितृत्वंगतो यस्तु शिवः साक्षादुपाधिना।
सा तस्यापि भवेच्छक्तिस्तया हीनो निरर्थकः॥ ६ ॥
यस्तु रुद्रत्वमापन्नः शिवः साक्षादुपाधिना।
सा तस्यापि भवेच्छक्तिस्तया हीनोनिरर्थकः॥ ७ ॥
यस्तु विष्णुत्वमापन्नः शिवः साक्षादुपाधिना।
सा तस्यापि भवेच्छक्तिस्तया हीनो निरर्थकः॥ ८ ॥

————————————————————————————————————————————————————

धाना ज्ञानशक्त्याऽधिका स्यात्तदातदुपाधिकः शिवःसर्वज्ञो भवति। यदा तु क्रियाशक्त्याऽधिका तदा तदुपाधिकः साक्ष च्छेवएव स्रष्टव्यपर्यालोचनात्मकस्येक्षणस्य कर्ताभवाति। एतदुक्तं भवति। एक एव परशिवः साक्षादुपाधिवशात्पञ्चधा भवति। अनुद्भृतज्ञानक्रियाशक्तिका या माया तदुपहितः शिवइत्युच्यते। तस्याः शक्यप्रतियेग्यधीननिरूपणो य आकारस्तदुपाधिकः शिवः शक्तिः। यदा सा मायोद्भृतसमप्रधानज्ञानक्रियाशक्तिका तदुपाधिकं परशिवस्वरूपंजगत्कारणम्‌। ज्ञानशक्त्याधिक्यात्सर्वज्ञः। क्रियाशक्त्याधिक्यादीक्षितेति। एवं च शिवस्यावस्थाभेदा आगमिकैःशुद्धतत्त्वानीतिव्यवह्रियन्ते। तदुक्तम्‌—“शुद्धानि पञ्च तत्त्वान्याद्यं तेषां वदन्ति शिवतत्त्वम्। शक्तिसदाशिवतत्त्वे ईश्वरविद्याख्यतत्त्वेच"इति॥ तेषां लक्षणमापेतैरेवोक्तम्‌— “शिवतत्त्वमथोवक्ष्येसर्वाद्यप्रभवंपरम्‌। अप्रमेयमनिर्देश्यमनौपम्यमनामयम्‌॥ सूक्ष्मं सर्वगतं नित्यंध्रुवमव्ययमीश्वरम्‌। शक्तितत्त्वं ततो जातं सिसृक्षोः परमात्मनः॥ उन्मेषः प्रथपस्तस्मादभिन्नंशिवतत्त्वतः। सदाशिवं ततस्तत्त्वं क्रियाज्ञानसमांशकम्‌॥ तत्त्वमीश्वरसंज्ञं स्यात्सर्वैश्वर्यसमावृतम्‌। क्रियाशक्त्या परिक्षीणं ज्ञानशक्त्याऽधिकावृतम्‌॥ विद्यातत्त्वमतश्चेशात्सर्वज्ञं मन्त्रनायकम्‌। क्रियाशक्त्यंशशबलं ज्ञानशक्त्यंशहीनकम्” इति॥ ईक्षितृत्वंपरशिवस्याऽऽम्नातम् “तदैक्षत बहु स्यां प्रजायेय” इति॥ ५ ॥ ६ ॥ तदीक्षणोत्तरकाल विचिकीर्षोर्मायायाःसत्त्वरजस्तमोगुणा विभक्ता भवन्ति तदुपाधिकः शिवो ब्रह्मविष्णुरुद्रसंज्ञां लभते। तत्र रुद्रस्य बहिस्तमोयुक्तसत्त्वगुण उपाधिः। सत्त्वेनाऽऽवृतं तमो विष्णोः। ब्रह्मणस्तु केवलं रजः।

यस्तु ब्रह्मत्वमापन्नः शिवः साक्षादुपाधिना।
सा तस्यापि भवेच्छक्तिस्तया हीनो निरर्थकः॥ ९॥
सदाशिवत्वंयः प्राप्तः शिवः साक्षादुपाधिना।
सा तस्यापि भवेच्छक्तिस्तया हीनो निरर्थकः॥ १०॥
ईश्वरत्वं गतो यस्तु शिवः साक्षादुपाधिना।
सा तस्यापि भवेच्छक्तिस्तया हीनो निरर्थकः॥ ११॥
हिरण्यगर्भत्वंयस्तु शिवः प्राप्त उपाधिना।
सा तस्यापि भवेच्छक्तिस्तया हीनो निरर्थकः॥ १२॥
सूत्रात्मत्वंतथा यस्तुशिवः प्राप्त उपाधिना।
सा तस्यापि भवेच्छक्तिस्तया हीनो निरर्थकः॥ १३॥
विराड्रूपं गतो यस्तु रिवः साक्षादुपाधिना।
सा तस्यापि भवेच्छक्तिस्तया हीनो निरर्थकः॥ १४॥

_________________________________________________________________________________

तत्तदुपाध्याधिक्याद्रुद्रःपरः सत्त्वमात्ररहिताद्ब्रह्मणः सकाशाद्बहिःसत्त्वोपाधिको विष्णुःश्रेष्ठः। एवमीदृग्रूपमुपाध्याधिक्यत्वंस्वयमेवोपदिष्टंसूतगीतायां प्रतिपादयिष्यति “यस्य मायागतं सत्त्वम्” इत्यादिना॥ ७— ९॥ सदाशिवत्वमिति। गुणप्रविभागानन्तरं शब्दस्पर्शतन्मात्ररूपाणि सूक्ष्मभूतानि क्रमेणोत्पद्यन्ते। तत्र शब्दतन्मात्रोपाधिकःसदाशिवः॥ १०॥ स्पर्शतन्मात्रोपाधिकः शिवः ईश्वरः। रूपरसगन्धतन्मात्रोपाधिकारुद्रविष्णुब्रह्माणः। रुद्रविष्णुब्रह्मणामेव मौतिकसृष्टावुपाधय इत्यत्रपृथङ्नोक्तम्‌। एकरूपाणामप्युपाधिवैचित्र्याद्भेदोविद्यत एवेत्यभिप्रेत्यैकादशाध्याय उत्कर्षप्रतिपादनसमये ब्रह्मादयो द्विरुपात्ता इ्युक्तम्‌॥ ११॥ हिरण्यगर्भत्वमिति। वियदादिसूक्ष्मभूतगतैःपञ्चभिःसत्त्वांशौरारब्धंसमष्ट्यन्तःकरणं हिरण्यगर्भस्योपाधिः॥१२॥ तत्रत्यैरजोंशैरारब्धः समष्टिरूपः प्राणःसूत्रात्मन उपाधिः॥ १३॥ विराड्रूपामति। पञ्चभूतेषुजातेषुतदारब्धोब्रह्माण्डादिलक्षणःस्थूलप्रपञ्चोविराज।

स्वराड्रूपं गतो यस्तु शिवः साक्षादुपाधिना।
सा तस्यापि भवेच्छक्तिस्तया हीनो निरर्थकः॥ १५॥
सम्राड्रूपं गतो यस्तु शिवः साक्षादुपाधिना।
सा तस्यापि भवेच्छक्तिस्तया हीनो निरर्थकः॥ १६॥
इन्द्रादिलोकपालानां रूपंयः प्राप्तवाञ्शिवः।
सा तस्यापि भवेच्छक्तिस्तया हीनो निरर्थकः॥ १७॥
देवादीनां गतो यस्तु रूपं शंभुरुपाधिना।
सा तस्यापि भवेच्छक्तिस्तया हीनो निरर्थकः॥ १८॥
मनुष्यत्वं गतो यस्तुशिवः साक्षादुपाधिना।
सा तस्यापि भवेच्छक्तिस्तया हीनो निरर्थकः॥१९॥
तिर्यगादिस्वरूपं यः शिवः साक्षादुपाधिना।
सा तस्यापि भवेच्छक्तिस्तया हीनो निरर्थकः॥ २०॥
ओषधीनां स्वरूपं यः शिवः प्राप्त उपाधिना।
सा तस्यापि भवेच्छक्तिस्तया हीनो निरर्थकः॥ २१॥
वनस्पतीनां रूपं यः शिवः प्राप्त उपाधिना।
सा तस्यापि भवेच्छक्तिस्तया हीनो निरर्थकः॥ २२॥
भक्ष्यभोज्यादिरूपं यः शिवः प्राप्त उपाधिना।
सा तस्यापि भवेच्छक्तिस्तया हीनो निरर्थकः॥ २३॥

_________________________________________________________________________________________________

उपाधिः॥ १४ ॥तदन्तर्गतलिङ्गशरीरसमष्टिः स्वराजः॥ १५ ॥ कारणत्वेन शरीरद्वयानुगतमव्याकृतंसम्राज उपाधिः। एतच्च शिवमाहात्म्यखण्डे एकादशेऽध्याये विस्तरेण प्रतिपादितम्‌॥ १६ ॥ इन्द्रादिलोकपालानामित्याद्या उपाधयः स्पष्टाः॥ १७ ॥ देवादीनामिति। आदिशब्दादसुरगन्धर्वादयः॥ १८ ॥ १९ ॥ तिर्यगादीति। आदिशब्देन पक्षिसरीसृ-

नदीनदादिरूपं यः शिवः प्राप्त उपाधिना।
सा तस्यापि भवेच्छक्तिस्तया हीनो निरर्थकः॥ २४॥
पर्वतादिस्वरूपं यः रिवः प्राप्त उपाधिना।
सा तस्यापि भवेच्छक्तिस्तया हीनो निरर्थकः॥ २५॥
समुद्ररूपं यः प्राप्त शिवः साक्षादुपाधिना।
सा तस्यापि भवेच्छक्तिस्तया हीनोनिरर्थकः॥ २६॥
विद्युद्रुपं गतो यस्तु शिवः साक्षादुपाधिना।
सा तस्यापि भवेच्छक्तिस्तया हीनो निरर्थकः॥ २७॥
सर्वाकारं गतो यस्तुशिवः साक्षादुपानिधा।
सा तस्यापि भवेच्छक्तिस्तया हीनो निरर्थकः॥ २८॥
एषा सा साक्षिणी शक्तिः शंकरस्यापि शंकरी।
शिवाभिन्ना तया हीनः शिवः साक्षान्निरर्थकः॥ २९॥
न शिवेन विना शक्तिर्नशक्तिरहितः शिवः।


पादयः॥ २०—२८ ॥ इत्यमेकस्या एवपरशक्तेर्नानाविधशक्यप्रतियोगिवैचित्र्यवशात्तत्तद्विशेष-शक्त्यात्मना। नानात्वमभिधाय परमार्थतोऽद्वितीयसच्चिदानन्दादिलक्षणैवेत्युपसंहरति—एषासेत्यादिना। एषा शक्तिर्जगत्कारणत्वाद्यात्मना नानाविधानुक्रान्ता एषापरमार्थतः साक्षिणी संविद्रुषिणी परा शक्तिरेव। यद्वासाक्षी साक्ष्यं नानुप्राविशति एवमियमपि साक्ष्यभूतविकारप्रपञ्चानन्तर्गतत्वात्साक्षिणी। उक्तरीत्या तत्तदुपाधिवशाज्जगत्कारणत्वाद्यापन्नस्य शंकरस्यपरशिवस्यापि तत्तन्निर्माणहेतुतया सुखकरी। यद्वा स्वीकृतलीलावतारस्य पार्वत्यात्मना सुखकरी। शिवशक्योरुभयोरपि परमार्थतश्चिन्मात्ररूपत्वाच्छिवस्वरूपादनतिरिक्ता चिन्मात्ररूपिण्यातया यदि शिवोहानिः स्यात्तदाचिन्मात्रातिरिक्तस्य सर्वस्य मिथ्यात्वात्तदतिरिक्तस्वरूपान्तराभावेन शिवो निःस्वरूपो भवेदित्यर्थः॥२९ ॥ अतः शिवशक्त्योश्चेन्मात्रकैशाररित्वात्परस्परमविनाभावमाह— न शिवेनेति।

उमाशंकरयोरैक्यं यः पश्यति स पश्यति॥ ३०॥
उमाशंकरयोर्भेदं ये पश्यन्ति नराधमाः।
अधोमुखोर्ध्वपादास्ते यास्यन्ति नरकार्णवम्‌॥ ३१॥
यथा मातापितृभ्यां तु वर्धन्ते मानवा भुवि।
तथैवाऽऽभ्यामिदं कृत्स्नं वर्धते नात्र संशयः॥ ३२॥
उपासते ये परमां सर्वलोकैकमातरम्।
तेऽभीष्टं सकलंयान्ति विद्यांमुक्तिप्रदामपि॥ ३३॥
पार्वती परमा देवी ब्रह्मविद्याप्रदायिनी।
विशेषेणैव जन्तूनां नात्र संदेहकारणम्‌॥ ३४॥
लक्ष्मीवागादिरूपैषा शिवा खलु मुनीश्वराः।
नर्तकीवानया सर्वमचिरादेव सिध्यति॥ ३५॥


एवं शिवशक्त्योश्चिन्मात्ररूपेणैकत्वंयः साक्षात्करोति स एव ज्ञानीत्यर्थः॥ ३० ॥ एतदेव व्यतिरेकमुखेन दृढयति—उमाशंकरयोरिति॥ ३१ ॥ तथैवाऽऽभ्यामिति। जगत्कारणत्वादिरूपेण सर्वत्रानुस्यूताभ्यांशिवशक्तिभ्यामिर्त्थः॥ ३२ ॥ तेऽभीष्टमिति। शक्तिप्रसादादेवैहिकफलोपभोगेनप्रातिबन्धककर्मक्षये सति मुक्त्युपायभूतां ब्रह्मविद्यामपितत्प्रसादतो लभन्त इत्यर्थः। तदुक्तमागमिकैः—“भोगेन कर्मपाकं विधायदीक्षां शिवः शक्त्या। मोचयाति पशूनखिलान्करुणैकनिधिःसदा शंभुः” इति॥ ३३ ॥ ब्रह्मविद्याप्रदायिनीति। वयंसर्वोत्कृष्टा इति कृताहङ्काराणामग्न्यादिदेवानां गर्वमपनेतुमाविर्भूतस्यपरब्रह्मणः स्वरूपं यथा देव्योपदिष्टं तस्मादेषा ब्रह्मविद्याप्रदायनी। श्रूयते हि तलवकारोपनिषदि—“ब्रह्म ह देवेभ्योविजिग्ये” इत्युपक्रम्य“स तस्मिन्नेवाऽऽकाशेमृस्रियमाजगाम बहुशोभमानामुमां हैमवतीं तां होवाच किमेतद्यक्षमिति”“ब्रह्मेति होवाच” इति॥ ३४ ॥ स्वरूपाविरोधेन लक्ष्मीवागादिनानारूपत्वस्वीकारस्योचितं निदर्शनमाह— नर्तकीवेति॥ ३५॥

अस्या एव प्रसादेन ब्रह्मेन्द्रादिविभूतयः।
अनया रहितं सर्वमसदेव न सद्भवेत्॥ ३६॥
एतामेव समाराध्य श्रद्धया सह वैदिकाः।
लभन्ते काङ्क्षितं सर्वं नान्यथा मुनिपुङ्गवाः॥ ३७॥
शैवा भागवतास्तेषामुपभेदावलम्बिनः।
अस्या आराधनेनैव लभन्तेऽभीप्सितंफलम्‌॥ ३८॥
दैगम्बरास्तथा बौद्धाअपभ्रंशावलम्बिनः।
अस्या आराधनेनैव लभन्तेऽभीप्सितंफलम्‌॥ ३९॥
यथा यथा शिवामेतां यो वा को वाऽऽदरेण तु।
आराधयति सोऽभीष्टं लभते फरमास्तिकाः॥ ४०॥
करुणासागरामेतां यः पूजयति शांकरीम्‌।
किं न सिध्यतितस्येष्टं तस्या एव प्रसादतः॥ ४१॥
शिवामेतामुमामेनां जडशक्तिं तथैव च।
जडकार्यं जगज्जीवं तेषां भेदं तथैव च॥ ४२॥


अनया रहितमिति। परमार्थसद्रुपिण्याऽनया यदि सर्वं जगद्रहितं स्यात्तदा सर्वमसदेव भवेत्तुच्छवत्स्वतः सत्त्वाभावात्‌। श्रुतिश्च सद्वस्तुविरहेऽसत्त्वंप्रतिपादयति “असन्नेव स भवति” “असद्ब्रह्मोति देव चेत्‌”इति॥ ३६ ॥ ३७ ॥ उपभेदावलम्बिन इति। शैवोपभेदाः पाशुपतादयः। भागवतोपभेदाः पाश्चरात्रवैखानसादयः॥ ३८ ॥ ३९ ॥ यथा यथेति। यद्यदुपाधिविशिष्टमेतां शक्तिं यः कोऽप्याराधयतितस्य तत्तदुपाधियोग्यं तत्तत्फलं सिध्यतीत्यर्थः। “तंयथा यथोपासते तदेव भवति” इति श्रुतेः। भगवताऽप्युक्तम—“यो यो यां यां तनुं भक्तः श्रद्धयाऽर्चितुमिच्छाति”इत्यादिना “लभते च ततः कामान्‌ ” इत्यन्तेन॥ ४० ॥ ४१ ॥ एवं परशक्तेर्महिमान प्रदर्श्यपरिपूर्णपरशिवस्वरूपेणैव सर्वमनुसन्धेयं मुमुक्षुणेति प्रतिपादयति—शिवमेतमित्या-

अन्यच्चास्तितया भातं तथा नास्तीति शब्दितम्‌।
सर्वं पूर्णं शिवं पश्यन्स्वयं पूर्णं शिवो भवेत्‌॥ ४३॥
पूर्णमेव स्वकं रूपमपूर्णंभाति मायया।
पूर्णरूपतया मायां पश्यन्पूर्णोभवेत्स्वयम्‌॥ ४४॥
स्वपूर्णात्मातिरेकेण जगज्जीवेश्वरादयः।
न सन्ति नास्ति माया च तद्विशुद्धात्मवेदनम्॥ ४५॥


दिना। चिन्मात्राश्रयमायाशक्त्यनुप्रविष्टा संविच्छिवासैवलीलाविग्रहधारिण्युमा जडवर्गस्य सर्वस्योपादानभूता चिन्मात्राश्रया या माया सा जडशक्तिः॥ ४२ ॥ सर्वमिति। प्रागुक्तं मायातत्कार्यरूपं चेतनाचेतनात्मकंयत्सर्वं जगत्परिपूर्णे परशिवस्वरूपे शुक्तौ रजतमिवाध्यस्तं रजतस्येव तस्य सर्वस्याधिष्ठानव्यतिरेकेणासत्त्वात्तदधिष्ठानमात्रमवशिष्यते। तथा चायमर्थः—यदिदं सर्वं न तत्सर्वमपि त्वनवच्छिन्नःपरशिव एवेति वेदान्तमहावाक्यजनितज्ञानेन साक्षात्कुर्वंस्तदानीमेव स्वयमप्यनवच्छिन्नःशिवोभवति ज्ञानसमकालमेव मुक्तिरिति। पश्यन्निति वर्तमानापदेशार्थः। श्रुतावपि विद्योदयसमकालमेव परब्रह्मप्राप्तिराम्नाता “तद्धैतत्पश्यन्नृषिर्वामदेवः प्रतिपेदेऽहं मनुरभवं सुर्यश्चेति” इति॥ ४३ ॥ एतदेवोपपादयति—पूर्णमेवेति। सच्चिदानन्दैकरसमाकाशवत्सर्वगतं परशिवस्वरूपमेव सर्वेषां जीवानां नैजं रूपम्‌। तदेव घटाद्युपाधिव शादाकाशमिव सत्त्वप्रधानमायया शक्त्याऽवच्छिन्नंसदसर्वगतामिव दृश्यते। यदा तु मुमुक्षुःस्वात्मनो नैजं रूपं गुरूपदेशतो वेदन्तमहावाक्यलक्षणात्प्रमाणादवगच्छति तदा भेदहेतुभूतां मायामप्यनवच्छिन्नात्मस्वरूपतयैव साक्षात्कुर्वन्नवच्छेदहेतोरभावान्मुमुक्षोः स्वकीयमपि रूपं परिपूर्णमेव भवेदियर्थः। श्रुतिरपि चराचरात्मकस्य सर्वस्य जगतः पूर्णावशेषत्वंदर्शयति—“पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते। पूर्णस्यपूर्णमादाय पूर्णमेवावशिष्यते”इति॥ ४४ ॥ ननु सन्घटः सन्पट इत्यादिभेदेन प्रतिपन्नस्य भेदस्य जगतो मायायाश्च कथं परिपूर्णशिवात्मकत्वंयेन स्वयमपि परिपूर्णःसज्शिवोभवेदिति तत्राऽऽह— स्वपूर्णेति। तद्रूपस्य स्वात्मनः कारणतयाऽनुप्रवेशात्स्वकीयमेव

स्वपूर्णात्मशिवानन्दनिष्ठमासाद्यमानवः।
तदैव लभते मुक्तिं स्वपूर्णात्मशिवात्मिकाम्‌॥ ४६॥
स्वपूणोत्मशिवानन्दप्रकाशाबलतः पुमान्‌।
स्वच्छन्दं वर्तते लोके को वा तस्य निवारकः॥ ४७॥
सार्वभौमो यथा राजा स्वच्छन्दं वर्तते भुवि।
स्वपूणोत्मशिवज्ञानी स्वच्छदं वर्तते तथा॥ ४८॥
प्रतीतमखिलंयस्य स्वात्मना भासते स्वयम्‌।
संसारस्तस्य मुक्तिर्वाकथं सिध्यति योगिनः॥ ४९॥
संसारो वा विमुक्तिर्वायस्य भाति मुनीश्वराः।
तस्यैव हि निषेधाश्च विधयश्च न योगिनः॥ ५०॥
स्पृश्यतेमृत्तिका विप्रैश्चण्डालैरपि केवला।
सैव कुम्भादिरूपेण नीचैर्न स्पृश्यते यथा॥ ५१॥
तथा ब्रह्मात्मना सर्वमनिन्द्यमपि योगिनः।
निन्द्यानिन्द्यतयाऽज्ञस्य भाति सर्वं स्वरूपतः॥ ५२॥
वैदिको लोकिकाश्चापि व्यवहारस्तुकल्पितः।
भेदविज्ञानिनो मोहाद्भासते न स योगिनः॥ ५३॥


सत्त्वमचेतने जगति जीवेश्वरादिभेदभिन्नेऽचेतनप्रपञ्चे मायायां चावभासते न ततोऽतिरिक्ता तेषां सत्ताऽस्तीत्यर्थः॥४५ ॥ निष्ठामिति। अन्यत्सर्वं परित्यज्य तत्स्वरूपानुसन्धानेनितरामवस्थितिः॥ ४६ ॥ एवमद्वितीयपरिपूर्णशिवात्मैक्यनिष्ठस्य जीवन्मुक्तस्य स्वात्मयाथात्म्यज्ञनेन भेदप्रपञ्चस्य विलीनत्वात्तदाश्रितो बद्धमुक्तादिव्यवहारोविधिनिषेधादिव्यवहारश्चनास्तीत्याह—स्वपूर्णात्मेत्यादिना। आनन्दप्रकाशबलतइति। निरतिशयानन्दस्वरूपाविर्भावस्तेन बलेन ब्रह्मेन्द्रादिपदमपि न गणयतीत्यर्थः॥ ४७—५० ॥ भेददर्शनदिव विधिनिषेधादिव्यवहारो न तु जीवन्मुक्तस्येत्यत्र सदृष्टान्तमुपपादयति—

आत्मविज्ञानिनो विप्रा लौकिकोन हि वैदिकः।
व्यवहारः स्वतः सर्वः स्वात्मना भाति केवलम्‌॥ ५४॥
आत्मविज्ञानसंज्ञस्य महायज्ञस्य वैभवम्‌।
कल्पकोटिशतेनापि मया वक्तुं न शक्यते॥ ५५॥
भवन्तोऽपि महाभाग्यान्महादेवप्रसादतः।
मत्तो लब्धपरिज्ञानाः कृतार्थाश्चन संशयः॥ ५६॥

इति श्रीस्कान्दपुराणे सूतसंहितायां चतुर्थे यज्ञवैभवखण्डे
ज्ञानयज्ञविशेषो नाम त्रयोदशोऽध्यायः॥

——————

चतुर्दशोऽध्यायः।

१४. ज्ञानयज्ञविशेषः।

सूत उवाच —

भूयोऽपि ज्ञानयज्ञं तु प्रवक्ष्यामि समासतः।
इतः पूर्वं मया नोक्तमपि कस्यचिदास्तिकाः॥ १ ॥
एक एव शिवः साक्षात्सत्यज्ञानादिलक्षणः।
विकाररहितः शुद्धः स्वशक्त्या पञ्चधा स्थितः॥ २ ॥


स्पृश्यत इत्यादिना। यथा घटशरावाद्युपादानभूताया मृत्तिकाया नीचस्पर्शाद्दोषाभावोघटशरावादिरूपेण विभक्तस्य तत्कार्यवर्गस्य स्पर्शे च दोष एवं कारणब्रह्मात्मनैकरूपं सर्वंवस्तु तस्यानिन्द्यमपि तत्त्वज्ञानरहितस्यभेददर्शिनो निन्द्यानिन्द्यात्मना भासत इत्यर्थः। निगदव्याख्यातमन्यत्‌॥ ५१— ५६॥

इति श्रीसूतसंहितातात्पर्यदीपिकायां चतुर्थे यज्ञवैभवखण्डे
ज्ञानयज्ञविशेषोनाम त्रयोदशोऽध्यायः॥ १३ ॥

——————

इत्थं शक्तेः परशिवस्वरूपानतिरिक्तत्वमुपपाद्यसद्योजातादिपञ्चब्रह्मरूपेण यो भेदावभासः सोऽपि न पारमार्थिक इति प्रतिपादयितुमुपक्रमतेभूयोऽपीति॥ १॥ एक इति स्वगतस्वातितिरिक्तभेदयोर्निरासः। सत्यज्ञाना—

ईशानश्चेति तत्पूर्वपुरुषश्चेति सुव्रताः।
अघोरश्चेति विप्रेन्द्रा वामदेव इति द्विजाः॥ ३ ॥
सद्योजात इति प्राज्ञा न स्वरूपेण भेदिनः
तत्रैवं सति शब्दस्तु साक्षादीशानसंज्ञितः॥ ४ ॥


दीति। आदिशब्देनाऽऽनन्त्यंसुखरूपता च विवाक्षिता। विकाररहित इति। उत्पत्तिपरिणामादिसर्वविक्रियारहितः कूटस्थनित्यइत्यर्थः। अत एव शुद्धो निर्मलः। य एवंलक्षणः साक्षात्परशिवः पर एवैकः सन्प्रागुदीरितस्वशक्त्याऽवस्थाभेदेनेशानाद्यात्मना पञ्चधाऽवस्थितः। तथा हि। सर्वशक्तिसामन्यरूपा या पराशक्तिःप्रागुदीरिता सृष्टिस्थितिसंहृतितिरोभावानु-ग्रहलक्षणैःशक्यविशेषैर्निरूप्यमाणा स्वयमपि सर्जनादिविशेषशक्त्यात्मना पञ्चधा विभक्ता भवति। अतः सर्जनशक्त्युपाधिकंपरशिवस्वरूपं चिन्मात्रमेव सद्योजातः। पालनशक्युपाधिकं वामदेवः। संहरणशक्त्युपाधिकमघोरः। तिरोभावश्क्त्युपाधिकं तत्पुरुषः। अनुग्रहशक्त्युपाधेकं चिन्मात्रमीशानः। एवमेक एव परशिवः पञ्चभिरुपाधिभिः पञ्चधा विभज्य स्थित इत्यर्थः। तदुक्तमागमिकैः—सोऽनादिमुक्त एको विज्ञेयः पञ्चमन्त्रतनुः। पञ्चविधं तत्कृत्यंसृष्टिस्थितिसंहृतितिरोभावा। तद्वदनुग्रहकरणं प्रोक्तं सततोदितस्यास्य"इति॥ २ ॥ पञ्चधाऽवस्थितस्य परशिवस्य सृष्टिक्रमेण नामोद्देशः क्रियते—ईशानश्चेत्यादिना। सर्वभूतानामीशितृत्वादीशानः। तदुक्तमागमे—“ईशे येन जगत्सर्वं गुणेनोपरिवर्तिना” इति। तत्पूर्वपुरुषश्चेति। तदिति पदं पूर्वं यस्य पुरुषपदस्य तत्तथा। तथा तस्य तस्य पूर्षु शरीरेषु वसतीति तत्पुरुषाभिधेय इत्यर्थः। तदुक्तम्‌—‘तस्य तस्य वपुर्यापूस्तस्यामुषति येन सः’ इति। घोरोन भवतीत्यघोरः। उक्तं च—‘तथाऽघोरः प्रशान्तोऽपि पापनिर्दाहकारकः’इति। यद्वा—अघौघं हरतीत्यघोरः। तदुप्युक्तम्‌—‘अर्चयेद्भुक्तिमुक्त्यर्थंदक्षेऽघौघहरे स्थितः’इति। धर्मार्थकामेभ्यः प्रशस्तत्वाद्वामः स चासौ देवश्च। तदप्युक्तम्‌—‘वामं त्रिवर्गवामत्वाद्रहस्यं च स्वभावतः इति॥ ३ ॥ यस्मात्परमेश्वराद्देवतिर्यङ्मनुष्याद्याः सद्य एव स्मरणमात्राज्जायन्ते स तथोक्त। तदुप्युक्तं—‘सद्योऽणूनां मूर्तयः

स्पर्शस्तत्पुरुषो रूपमघोरः परिकीर्तितः।
वामदेवोरसः प्रोक्तो गन्धः सद्य उदाहृतः॥ ५॥
सदाशिवेश्वरौरुद्रो विष्णुर्ब्रह्माच सव्रताः।
क्रमाच्छब्दादिभूतानां देवताश्च प्रकीर्तिताः॥ ६॥
ताश्चेशानादयः प्रोक्ताः क्रमेणैव मुनीश्वराः।
सर्वाण्येतानि विप्रेन्द्राः शिव एव न संशयः॥ ७॥
एतानि शिवरूपेण पश्यन्मुच्येत बन्धनात्‌।
आकाशाख्यं महाभूतमीशानः परिकीर्तितः॥ ८॥
वायुस्तत्पुरुषो ज्ञेयो वह्निश्चाघोर ईरितः।
अम्भो वामस्तथा भूमिः सद्योजातः प्रकीर्तितः॥ ९॥
अनन्तरिवसंज्ञश्च तथाऽनन्तेश्वराभिधः।
कालाग्निरुद्रो विप्रेन्द्रास्तथानारायणाभिधः॥ १०॥


संभवन्ति यस्येच्छातस्तेन सद्योभिधानः” इति। न स्वरूपेणेति। तस्याविक्रियस्वभावत्वादित्यर्थः। यस्मदेवं परशिवो यः शक्तिवशात्पञ्चधा विभज्य स्थितस्तस्मात्कार्यभूते प्रपञ्चे शब्दतन्मात्रादीनि यानि पञ्चसंख्यया विभक्तानि तानि सर्वाणि पञ्चव्रह्मात्मकान्येवेत्याह—तत्रैवमित्यादिना॥ ४ ॥ ५ ॥ शब्दादिभूतानामिति। तन्मात्ररूपाणामुदाहृतानां वियदादिसूक्ष्मनभूतानां सदशिवादयःक्रमेण देवता इत्यर्थः॥ ६ ॥ तेऽपीशानाद्यात्मका एवेत्याह—ताश्चेति। सर्वाण्येतानीति सदाशिवाद्यधिष्ठानशब्दतन्मात्राद्यात्मकानीशानादिपञ्चब्रह्माणिशिव एवतत्स्वरूपे मायाशक्तिवशात्परिकल्पितत्वान्न ततोऽतिरिक्तानीत्यर्थः॥ ७ ॥ एवमेतानि शिवात्मना साक्षात्कुर्वन्सद्य एव संसारान्मुक्तो भवेदित्यर्थः। एवमुत्तरत्रसर्वत्र योज्यम्‌। महाभूतमिति। स्वेतरपृथिव्यादिभूतपेक्षयाऽऽकाशास्य विस्तृतत्वात्तन्महामृतत्वम्‌। उक्तं हि—‘सूक्ष्मताव्यापिते ज्ञेये भृम्यादेरुत्तरोत्तरम’इति॥ ८ ॥ ९ ॥ अनन्तशिवेति। अनन्तशिवोऽपरिच्छिन्नशिवःसदाशिव इत्यर्थः।

ब्रह्मा चतुर्मुखः साक्षादाकाशादेस्तु देवताः।
एतानि शिवरूपेण पश्यन्मुच्येत बन्धनात्‌॥ ११॥
श्रोत्रमीशान एव स्यात्त्वक्च तत्पुरुषः स्मृतः।
चक्षुश्चाघोर एव स्याज्जिह्वावामः समीरितः॥ १२॥
घ्राणं सद्यःसमाख्यातः क्रमात्खानां मुनीश्वराः।
दिग्वाय्वादित्यवरुणपृथिव्याख्यास्तुदेवताः।
एतानि शिवरूपेण पश्यन्मुच्येत बन्धनात्‌॥ १३॥
पादईशान एव स्यात्पाणिस्तत्पुरुषः स्मृतः।
वागघोर इति प्रोक्ता ह्युपस्थो वाम ईरितः।
पायुः सद्य इति प्रोक्तः साक्षाद्वेदान्तपारगैः॥ १५॥


अनन्तशिवादयश्च स्थूलभूतानामधिष्ठातृदेवताः। तदुक्तं सर्वज्ञानोत्तरे—‘ब्रह्मा विष्णुश्च रुद्रश्चानन्तेशश्च सदाशिवः। पृथिव्यादिषु तत्त्वेषु क्रमात्तत्त्वाधिपाः स्थिताः’ इति। एतानीति। सर्वत्र पूर्ववद्योज्यम्‌॥ १० ॥ ११ ॥ श्रोत्रमीशान इति। वियदादिभूतपश्चकगतसत्त्वांशैरारब्धानिश्रोत्रादीनीन्द्रियणि तेषामधिपा दिगादयः। ‘दिश श्रोत्रं भूत्वाकर्णौप्राविशदादित्यश्चक्षुर्भूत्वाऽक्षिणी प्राविशत्‌’इत्यादि। अत एव तत्त्वसारेऽप्युक्तम्‌—‘श्रोत्रमध्यात्मं श्रोतव्यमधिभूतं दिशस्तत्राधिदैवतम्‌। त्वगध्यात्मंस्प्रष्टव्यमधिभूतंवायुस्तत्राधिदैवतम्‌। चक्षुरध्यात्मं द्रष्टव्यमधिभूतंसूर्यस्तत्राधिदैवतम्‌। जिह्वाऽध्यात्मं रसयितव्यमधिभूतंवरुणस्तत्राधिदैवतम्‌। घ्राणमध्यात्मंघ्रातव्यमधिभूतंपृथिवी तत्राधिदैवतम्’इति॥ १२ ॥ १३ ॥ पाद ईशान इति। पादपाणिवागुपस्थपायुरूपाणे पञ्च कर्मेन्द्रियाण्यकाशादिभूतपश्चकगतरजोशैःक्रमेणाऽऽरब्धत्वादीशानाद्यात्मकानीत्यर्थः। त्रिविक्रमादयस्तेषामधिदेवता “अग्निर्वाग्भूत्वा मुखं प्राविशत्‌”इत्यादिश्रुते। तत्त्वोपदेशसारेऽप्युक्तम्‌— “पादावध्यात्मं गन्तव्यमधिभूतं विष्णुस्तत्राधिदैवतम्। हस्तावध्यात्ममादातव्यमधिभूतमिन्द्रस्तत्राधि-दैवतम्। वागध्यात्मं वक्तध्यमधिभूतमग्निस्तत्राधिदैवतम्। गुह्ममध्यात्ममानन्दयितव्यमाधिभूतंप्रजा-

त्रिविक्रमस्तथा चेन्द्रो वह्निश्चैव प्रजापतिः।
मित्रश्च मुनिशार्दूलाःक्रमात्खानां च देवताः॥ १६॥
एतानि शिवरूपेण पश्यन्मुच्येत बन्धनात्‌॥ १७॥
मन ईशान एव स्याद्बुद्धिस्तत्पुरुषः स्मृतः।
अहंकारस्त्वघोरः स्याच्चित्तं वामः समीरितः॥ १८॥
एषां च कारणं विप्रा अन्तःकरणसंज्ञितम्।
सद्योजात इति प्रोक्तं सर्ववेदार्थपारगैः॥ १९॥
मनसो देवता चन्द्रो बुद्धेर्वाचस्पतिस्तथा।
अहंकारस्य कालाग्निरुद्रः कालहरोऽपि वा।
चित्तस्य देवता देवी शिवोऽन्तःकरणस्य तु॥ २०॥
हिरण्यगर्भो भगवान्देवता मुनिपुङ्गवाः।
एतानि शिवरूपेण पश्यन्मुच्येत बन्धनात्‌॥ २१॥
प्राण ईशान एव स्यादपानः पुरुषः स्मृतः।
व्यानोऽघोरस्तथोदानो वामदेवः समीरितः॥ २२॥
समानः सद्यएव स्यात्सूत्रात्मा कारणोऽनिलः।
विशिष्टो विश्वसृष्टिश्चविश्वयोनिरजो जयः॥ २३॥
क्रमेण देवताः प्रोक्ताः प्राणादीनां मुनीश्वराः।


पतिस्तत्राधिदवैतम्‌। पायुरध्यात्मं विसर्जयितव्यमधिभूतंमित्रस्तत्राधिदैवतम्‌’ इति॥ १४— १७ ॥ मन ईशान इत्यादि। मनआद्याश्चतस्त्रोऽन्तःकरणवृत्तयो वृत्तिमदन्तःकरणं चेत्येतान्यपीशानाद्यात्मकानि। तेषां चन्द्रादयोऽधिदेवताः “चन्द्रमा मनो भूत्वा हृदयं प्राविशत्‌” इत्यादिश्रुतेः। तत्त्वोपदेशसारेऽप्युक्तम्–‘मनोऽध्यात्मं मन्तव्यमधिभूतं चन्द्रस्तत्राधिदैवतम्‌। बुद्धिरध्यात्मंबोद्धव्यमधिभूतं ब्रह्मा तत्राधिदैवतम्। अहंकारोऽध्यात्ममहंकर्तव्यमधिभूतं रुद्रस्तत्राधि—

एतानि शिवरूपेण पश्यन्मुच्येत बन्धनात्‌॥ २४॥
पृथिव्यादिषु भूतेषु यो गुणः सत्वसंज्ञितः।
स क्रमेण निवृत्त्यादिकलासंज्ञामुपैति च॥ २५॥
भूमौ निवृत्तिर्विप्रेन्द्राः प्रतिष्ठा पयसि स्थिता।
विद्या वह्नौतथा शान्तिर्वायौ व्योम्नि मुनीश्वराः॥ २६॥
शान्त्यतीतकला चैता व्युत्क्रमेण मुनीश्वराः।
भवन्ति पञ्च ब्रह्माणि तथा भूतेषु पञ्चसु॥ २७॥
स्थितो रजोगुणो विप्रा आकाशादिक्रमेण च।
स्पन्दश्चैव परिस्पन्दः प्रक्रमः परिशीलनः॥ २८॥
प्रचार इति विद्वद्भिःकथिताः पञ्च च क्रियाः।
एतानि पञ्च ब्रह्माणि भवन्ति मुनिसत्तमाः॥ २९॥



दैवतम्‌” इत्यादि॥ १८— २५ ॥ भूमौ निवृत्तिरिति॥कर्मभोगो निवर्त्यतेऽनयेति निवृत्तिः। अचेतनानि तत्त्वान्यतिलघूनिपुरुषतत्त्वेप्रकर्षेण स्थाप्यन्तेऽनयेति प्रतिष्ठा मायातत्कर्याद्विविक्तमात्मानं यया वेत्तिसा विद्या। मलमायाकर्मलक्षणस्य पाशजालस्योपशमोयया सा शान्तिः। ईदृशींशान्तिमप्यतिक्रम्याद्वितीयसच्चिदानन्दैकरसपरशिवस्वरूपबोधहेतुत्वाच्छान्त्यतीता। तथा चोक्तमागमिकैः—“ययाऽऽदौपार्थिवे तत्त्वेकर्मभोगो निवर्त्यते। निवृत्तिः सा कला ज्ञेया प्रतिष्ठा कथ्यतेऽधुना॥ शिवरागानुरक्तात्मा स्थाप्यते पौरुषे यया। सा प्रतिष्ठा कला ज्ञेया ततो विद्या निगद्यते॥ मायाकार्यविवेकेन वेत्ति विद्यापदं यया। सा कला परमा ज्ञेया विद्याज्ञानक्रियात्मिका॥ मलमायाविकारौघशान्तिः पुंसः पुनर्यया। सा कलाशान्तिरित्युक्तासाधिकारास्पदं पदम्‌॥ शान्त्यतीतकलाद्वैतनिर्वाणानन्दबोधदा” इति। व्युत्क्रमेणेति। शान्त्यातीतादिक्रमेणेशानाद्यात्मका इत्यर्थः॥ २६ ॥ २७ ॥ स्पन्दश्चैवेति। स्पन्दश्चलनमात्रमुत्तरोत्तरमुपचितास्तदवस्थविशेषाः परिस्पन्दादयः॥ २८ ॥

तथा भूतेषु सर्वेषु संस्थितस्तु तमोगुणः।
छादकं बाधकं मुग्धं नोदकं भञ्जकं भवेत्‌॥ ३०॥
एतानि च तथा पञ्च ब्रह्माणि मुनिसत्तमाः।
एतानि शिवरूपेण पश्यन्मुच्येत बन्धनात्‌॥ ३१॥
अन्यानि यानि विप्रेन्द्राः पञ्चधा संस्थितानि च।
तानि च ब्राह्मणाः पञ्च ब्रह्माणि स्युर्नसंशयः॥ ३२॥
पञ्चब्रह्मतया भिन्नं जगत्सर्वंचराचरम्‌।
शिवरूपेण संपश्यन्मुच्यते भवबन्धनात्‌॥ ३३॥
माययैव शिवः साक्षात्पञ्चधा समवस्थितः।
सा शिवस्य सदा माया सर्वदुर्घटकारिणी॥ ३४॥
एवमात्मिकया ब्रह्म मायया कारणं भवेत्‌।
तत्सर्वं च तथाऽन्येषां नियन्तृ न निरूपणे॥ ३५॥


२९॥ छादकमिति। दृष्टिप्रतिबन्धमात्रंछादकं तस्यैव क्रमेणोपचितावस्था बाधकादयः॥ ३० ॥ ३१ ॥ अन्यानि यानीति। प्राणगत्यादीनि। एवं पश्चधाऽवस्थितस्य सर्वस्य जगतः पञ्चब्रह्मात्मकत्वादेकस्यैवपरशिवस्य स्वमायया पञ्चब्रह्मात्मनाऽवस्थानान्मायासहितं तत्सर्वंशिवस्वरूपानतिरेकेण साक्षात्कुर्वन्मुक्तो भवेदित्यर्थः॥ ३२ ॥ ३३ ॥ नन्वविक्रियासङ्गोदासीनः परशिवः सकथंमायावशात्पञ्चब्रह्मात्मना जगादात्मकः स्यादिति तत्राऽऽह—सेति। सर्वदुर्घटकारिणीति। यत्सर्वप्रकारेण दुर्घटं तद्धटनमेवास्याः शीलमतो नोक्तदोष इत्यर्थः॥ ३४ ॥ एवमात्मिकयेति। “यतो वा इमानि भूतानि जायन्ते”इति परशिवस्वरूपस्ययज्जगत्कारणत्वं ‘बहु स्यां प्रजायेय’ इति सर्वस्योपादानत्वेन यत्सर्वजगदात्मकत्वंविशुद्धसत्त्वप्रधानमायोपाधिवशाद्यज्जग-नियन्तृत्वंतत्सर्वमघटितघटनसामर्थ्याया मायाया संबन्धबलादेव। परमार्थनिरूपणे तु नैव किंचिदित्यर्थः॥ ३५ ॥ कुतो नेत्यत आह— वस्तुत इति।

वस्तुतः शंभुरानन्दः सत्यसंपूणचिद्धनः।
मायया मोहिता मर्त्यास्तं भेदेन विदुर्बुधाः॥ ३६॥
दासोऽहमिति समोहस्ततः सोऽहमिति भ्रमः।
अहं स इति संमोहस्तथा त्रीणि परित्यजेत्॥ ३७॥
निर्भेदे निर्मले नित्ये निराधारे निरञ्जने।
दासः सोऽहमहं सोऽपीत्यात्मन्येतत्कथंभवेत्‌॥ ३८॥
तस्मादज्ञानमायोत्थमिदं सर्वं जगद्बुधाः।
तद्विवेकप्रदीपेन शिवं पश्यन्विमुच्यते॥ ३९॥


शंभुरानन्दैकरस इत्यर्थः॥ ३६ ॥ दासोऽहमिति। भेदस्य मायामयत्वान्निवर्त्यतया तमपेक्षमाणः सोऽहमहं स इति जीवब्रह्मैक्यानुभवस्वरूपो यो मुमुक्षव्यवहारः सोऽपि दासोऽहमितिवदज्ञानपरिकल्पित एव। तस्मात्सर्वं परित्यज्य केवलंस्वात्माऽनुसंधेय इत्यर्थः॥ ३७ ॥ कुत इत्यत आह—निर्भेद इति। निर्गतो यस्माद्भेदः स निर्भेदः परशिवः। अतस्तस्मिन्भेदाश्रितव्यवहारोन युक्त इत्यर्थः। कुतो निर्भेद इत्यत आह— निर्मल इति। कुतश्चिद्धर्मिणो हि कश्चिद्धर्मीभिद्यते। यथा घटात्पटो भिन्न इति। नैवं तस्मिन्भेदहेतुर्मालिन्यापादको धर्मोऽस्ति “अस्थूलमनण्वहस्वम्‌”इति सर्वधर्मनिषधश्चुतेः। अतस्तस्मिन्हेतुरुक्त इत्यर्थः। भवेदेवं यद्यसौ निर्धर्मकः स्यात्तत्तु न युज्यत इत्यत आह—नित्य इति। सधर्मकत्वंहि नित्यत्वे नोपपद्यते “उपयन्नपयन्धर्मो विकरोति हि धर्मिणम्‌” इति न्यायात्‌। उपयदपयद्धर्मवतां घटपटादीनामनित्यत्वदर्शनात्‌। अत एव भगवान्बादरायण आकाशादीनामनित्यत्वं प्रतिपादयन्सूत्रयामा—“यावद्विकारं तु विभागो लोकवत्‌” इति। नित्यत्वं वा कथमित्यत आह—निराधार इति। यस्मात्परमेश्वरस्याऽऽधारान्तरं नास्ति “सभगवः कस्मिन्प्रतिष्ठित इति स्वेमहिम्नि” इति स्वमहिमप्रतिष्ठितत्वश्रुतेः। तस्मान्नित्यः। मृत्तन्त्वादित्तमवायिकारणलक्षण आधारान्तरे समवेतानामेव घटपटादीनामनित्यत्वदर्शनात्‌। यथैतत्सर्वं प्रपञ्चजातं मायावशात्स्वीक्रियत

विवेकालोकहस्तस्य ज्ञानमार्गेण गच्छतः।
स्वात्ममुक्तिगृहप्राप्तिःसिध्यत्येवाचिरेण तु॥ ४०॥
संसारार्णवमग्नानां जन्तूनामविवेकिनाम्‌।
अगतीनां गतिः साक्षाज्ज्ञानमेव हि केवलम्॥ ४१॥
स्वशक्तेः शत्रुभूतानां रागादीनां दुरात्मनाम्‌।
छेदने वेदनं शस्त्रंकेवलंखलु नेतरत्‌॥ ४२॥
संसारदुःखतप्तानामात्मज्ञानामृताम्भसा।
तापशान्तिर्नचान्येन सत्यमेव न संशयः॥ ४३॥
स्वतः सिद्धं स्वयं सर्वं जगत्स्वेन प्रकाशितम्‌।
स्वस्वरूपतया बुद्ध्वातदत्ति स्वात्मना स्वयम्‌॥ ४४॥


एवं परमेश्वरेऽपि स्वीक्रियतामिति तत्राऽऽह—निरञ्जन इति। अञ्जनं मायातत्कार्यंयस्मात्परमार्थतस्तद्रहितः परशिवस्तस्मात्तस्मिन्कश्चिदपि व्यव हारो न युक्त इत्यर्थः। श्रुयते हि—“निष्कलंनिष्क्रियं शान्तं निरवद्यं निरञ्जनम्” इति॥ ३८ ॥ अज्ञानमायोत्थमिति। स्वरूपाज्ञानात्मिकाया माया तस्याः सकाशादुत्थितमित्यर्थः॥ ३९—४१ ॥ स्वशक्तेरिति। स्वकीया चिच्छक्तिः स्वशक्तिः। हृन्मध्यवर्तिसाक्षिचैतन्यमिति यावत्‌। असङ्गोदासीने तस्मिन्संसारापादकत्वाद्दुरात्मानः शत्रवो रागादयस्तेषां छेदने वेदान्तवाक्यजनितं ज्ञानमेव केवलमायुधमित्यर्थः॥ ४२ ॥ ४३ ॥ स्वत इति। सर्वं जगत्स्वतः स्वात्मन ऐवोपादानकारणात्‌। निमित्तकारणमपि नान्यदित्याह—स्वयमिति। स्वात्मनेत्यर्थः। मायावशात्स्वयमेव स्वात्मनैव विभज्य सिद्धं निष्पन्नम्‌। परमेश्वरो हि सर्वस्य जगतो निमित्तमुपादानं च। ‘सोऽकामयत”इति स्रष्टव्यपर्यालोचनस्य श्रुतत्वात्कुलालवन्निमित्तकारणम्‌। “बहु स्यां प्रजायेय इति” स्वात्मन एव बहुवचनस्य श्रुतेरुपादानत्वम्‌। तदात्मानं स्वयमकुरुत” इति च श्रूयते। बादरायणोऽप्यभिन्ननिमित्तोपादानरूपत्वं ब्रह्मणः सूत्रयामास—प्रकृतिश्च प्रतिज्ञादृष्टन्तानुपरोधात्‌’ इति। तथा च

यथा सुवर्णं रुचकं सृजति ग्रसते स्वयम्‌।
तथा शंभुरिदं सर्वं सृजति ग्रसते स्वयम्‌॥ ४५॥
यथोर्णनाभिः सृजति तन्तुं गृह्णाति च स्वयम्‌।
तथा शंभुरिदं सर्वंसृष्ट्वाच ग्रसते स्वयम्‌॥ ४६॥
भूमिः सृजति गृह्णाति यथौषधिवनस्पर्तान्‌।
तथा शंभुरिदं सर्वं सृष्ट्वाच ग्रसते स्वयम्‌॥ ४७॥
स्वयमेव यथा स्वप्नंसृष्ट्वागृह्णाति चेतनः।
तथा शंभुरिदं सर्वं सृष्ट्वाच ग्रसते स्वयम्‌॥ ४८॥


स्वनिमित्तकं स्वोपादानकं जगत्प्रतीतिसमयेऽपि स्वरूपचैतन्येनैव प्रकाशितम्‌। एवंमायावशाच्चिन्मात्रस्वरूपे परमात्मनि प्रकल्प्यमानंजगत्स्वरूपतया बद्धवा स्वस्याऽऽत्मनः स्वरूपमेव सर्वं जगन्न ततोऽतिरिक्तमस्ति मायामयत्वादित्यवगम्य स्वयमेव स्वात्मना तत्सर्वमित्त्युपसंहरति। अममर्थः। स्वात्मनः स्वस्मात्स्वस्मिन्नेवाधिष्ठाने स्वाविद्यया सृष्टिसमये परिकल्पितं स्थितिसमयेऽपि स्वरूपप्रकाशेनैव प्रकाशितं सर्वंजगत्स्वस्वरूपतया स्वरूपयाथात्म्यज्ञानेन तदविद्यानिवृत्तावारोप्यस्य जगतोऽधिष्ठानावशेषोऽस्य स्वात्माना स्वयमेव ग्रसत इति व्यपदेशः॥ ४४ ॥ तत्र दृष्टान्तः—यथासुवर्णमिमिति।सुवर्णेनाऽरब्धस्यरुचककटकदेः पुनर्विलापने सति कारणभूतं सुवर्णमात्रमेव यथाऽवशिष्यते तद्वत्परमेश्वरोऽपि स्वस्माच्चेतनाचेतनात्मकमिदंसर्वंजगत्स्वयमेव सृजति स्वस्वरूपानतिरिक्तत्वेन विलापयति च॥ ४५ ॥ कारणान्तरनिरपेक्षात्परमेश्वराज्जगदुत्पत्तौनिदर्शनमाह—यथोर्णनाभिरिति॥ ४६॥ एकरूपात्परमात्मनो नानारूपकार्योत्पत्तौदृष्टान्तः—भूमिः सृजतीति। श्रुतिश्च भवति—“यथोर्णनामिः सृजते गृह्णते च यथा पृथिव्यामोषधयः संभवन्ति। यथा सतः पुरुषात्केशलोमानि तथाऽक्षरत्संभवतीह विश्वम्‌” इति॥ ४७ ॥ एवं सृष्टस्य जगतः स्वाविद्यामात्रमूलत्वेनमिथ्यात्वं प्रतिपादयति—स्वयमेव यथा स्वप्नमिति॥ ४८ ॥ तत्र निदर्शनम्‌—स्वस्वप्न इति।

स्वस्वप्नःस्वप्रबोधेन स्वात्ममात्रं यथा भवेत्‌।
तथैव स्वप्रपञ्चोऽपि स्वयं स्यात्स्वप्रबोधतः॥ ४९॥
स्वस्वरूपतया सर्वंवेद स्वानुभवेन यः।
स धीरः स तु सर्वज्ञः स शिवः स तु दुर्लभः॥ ५०॥
लोकवासनया जन्तोः शास्रवासनयाऽपि च।
देहवासनया ज्ञानं यथावन्नैव जायते॥ ५१॥
जायते पूर्णविज्ञानं केषांचित्पुण्यगौरवात्‌।
तथाऽपि प्रतिबद्धंस्यात्प्रसादेनविना कूतम्‌॥ ५२॥
प्रसादादेव रुद्रस्य ज्ञानं वेदान्तवाक्यजम्‌।
प्रतिबन्धविनिर्मुक्तं भवेत्तद्धिविमुक्तिदम्‌॥ ५३॥
शिवशंकररुद्राख्यः साम्बः सत्यादिलक्षणः।
परमात्मा हि विज्ञानप्रसादं कुरुते सदा॥ ५४॥


निद्रादोषेण स्वस्मिन्परिकल्पितःस्वप्नप्रपञ्चः स्वस्वप्नः स्वप्रबोधेनाऽऽत्मनः प्रबोधेन निद्रानिवृतौस्वात्ममात्रमेवभवति न ततोऽतिरेकेण दृश्यते। एवमेव स्वस्मिन्सच्चिदानन्दरूपेऽविद्यापरिकल्पितप्रपश्चोऽपि स्वात्मयाथात्म्यज्ञानेनस्वा विद्यानिवृत्तौ स्वात्मन्येवलीयते न ततोऽतिरिक्त इत्यर्थः॥ ४९ ॥ प्रत्यक्षभ्रमसिद्धः प्रपञ्चः प्रत्यक्षबाधकज्ञानान्निवर्तते न हीदं रजतमिति भ्रमोऽधिष्ठानशुक्तियाथात्म्यसाक्षात्कारमन्तरेण वाक्यशतेनाप्यपनेतुं शक्यत इत्यभिप्रेत्याऽऽहस्वानुभवेनेति। स्वात्मयाथात्म्यसाक्षात्कारेणेत्यर्थः॥ ५० ॥ लोकवासनयेति। स्वर्गादिकोकविषया पुण्यपापप्रयुक्ता वासना लोकवासना। श्रुतशास्त्रेष्वभिनि वेशः शास्त्रवासना। देहपोषणार्थं स्त्र्यन्नपानादि देहवासना॥ ५१ ॥ उत्पन्नेऽपि तत्वज्ञाने मुक्तिः कुतश्चित्कारणात्‌ प्रतिबध्यते। अत एवाह भगवान्बादरायणः। “अप्रस्तुतप्रतिबन्धे तद्दर्शनात्‌” इति। स च प्रतिबन्धः परमेश्वरप्रसादराहित्ये कुतस्तस्मिंस्तु सति तत्त्वज्ञानेन निष्प्रत्यूहं मुक्तिः प्राप्यत इत्यर्थः। उक्तं हि—“ईश्वरानुग्रहादेवपुंसामद्वैतवासना। महाभयकृतत्राणा द्वित्राणामुपजायते” इति॥ ५२ ॥ ५३ ॥ विज्ञानप्रसादामीति। विज्ञायतेऽ-

ज्ञानप्रसादं कुरुतेन विष्णुर्नपितामहः।
न चेन्द्रो न च तिग्मांशुर्नचन्द्रो नान्यदेवताः॥ ५५॥
विशुद्धमनसां नृृणां विष्णुपूर्वाश्च देवताः।
यथाधिकारं कृर्वन्ति प्रणाड्या सत्यमीरितम्‌॥ ५६॥
कलुषीकृतचित्तानां विष्णुब्रह्मपुरोगमाः।
यथाधिकारं कुर्वन्ति प्रसादंभुक्तिसिद्धये॥ ५७॥
अतो ज्ञानप्रसादार्थं शिवः साम्बः सनातनः।
उपासितव्यो मन्तव्यः श्रोतव्यश्च मुमुक्षभिः॥ ५८॥

——————————————————————————————————-

नेनेति विज्ञानमन्तःकरणं तस्य प्रसादो रागद्वेषादिकृतकालुष्यापनयेन नैर्मल्यापादनं तच्चाऽऽराधितः परमेश्वर एव करोति न विष्ण्वाद्याः सोपाधिका इत्यर्थः। श्रूयते हि — “ज्ञानप्रसादेन विशुद्धसत्त्वस्ततस्तु तं पश्यते निष्कलं ध्यायमान”इति॥ ५४ ॥ ५५ ॥ ननु तर्हिविष्ण्वाद्युपासनं निरर्थकमेवेति तत्राऽऽह—विशुद्धमनसामिति। द्विविधा ह्यधिकारिणः। यज्ञ दानादिभिः परमेश्वरार्पणबुद्ध्याऽनुष्ठितैः शुद्धान्तःकरणाः फलरागानुष्ठितैस्तैरेव कलुषीकृताचित्ताश्चेति। तत्र विशुद्धमनसां विष्ण्वादयः परमेश्वरप्रणाड्यैवोक्तं ज्ञानप्रसादं कुर्वन्ति न तु साक्षादित्यर्थः॥ ५६ ॥ कलुषीकृतचित्तानां तु भुक्यर्थं प्रसादं कुर्वन्ति। अतो न तदाराधनवैयर्थ्यमित्यर्थः॥ ५७ ॥ यस्मादेवं तस्मान्मुमुक्षुभिः साक्षाज्ज्ञानप्रदः परमेश्वर एवसेव्य इत्याह—अत इति। उपासितव्य इति। सच्चिदानन्दादिरूपस्याद्वितीयस्यपरशिवस्य स्वात्मैक्यज्ञानं हिपरमपुरुषार्थसाधनं तच्च वेदान्तश्रवणादेव जायते। श्रवणं नाम वेदान्तमहावाक्यानां शब्दशक्तितात्पर्यावधारणं न्यायानुसंधानंच। ततः परमेश्वरः श्रोतव्यः। श्रुतस्यार्थस्यासंभावनाविपरीतभावनानिरासेन मिथ्यात्वव्यवस्थापकन्यायानुसंधानं मननम्‌। युक्तिभिस्तथात्वेनावधृतस्य चित्तैकाग्र्येण साक्षात्करणार्थं विजातीयप्रत्ययानन्तरितसजातीय-प्रत्ययप्रवाहेण मनसा विषयीकरणमुपासनम्‌। एवं श्रवणोत्तरकालीनयोरपि मननोपासनयोरत्र प्रथमत उपा-

शिवप्रसादेन हि भुक्तिरुत्तमा।

शिवप्रसादेन हि मुक्तिरुत्तमा।

शिवप्रसादेन विना न भुक्तयः

शिवप्रसादेन विना न मुक्तयः॥ ५९॥

शिवप्रसादेन गुरुप्रसादतः

शिवप्रसादेनच शंभुभक्तितः।

विशुद्धविज्ञानदिवाकरः स्वयं

प्रदग्धपापस्य तमोविनाशकृत॥ ६०॥

शिवः समस्तं परमार्थतस्तथा

शिवः समस्तं व्यवहारतोऽपि च।

इति प्रजातं यदि वेदन नृणां

तरन्ति संसारमहोदधिं तु ते॥ ६१॥

इति श्रीस्कान्दपुराणे सूतसंहितायां यज्ञवैभवखण्डे
ज्ञानयज्ञविरोषो नाम चतुर्दशोऽध्यायः॥ १४॥


दानमेतदुभयसहकृतादेव वेदान्तमहावाक्यश्रवणात्परशिवात्मैकत्वसाक्षात्कारो जायते न तु केवलश्रवणामात्रादिति ज्ञापनार्थम्‌। अत एव—“आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्योनिदिध्यासितव्यः”इत्यात्मदर्शनमुद्दिश्यश्रवणादिकं तत्साधनत्वेन श्रुतिरुपदिशति। तत्र श्रवणमेव फलोद्देशेनाऽऽग्नेयादिवत्प्रधानत्वेन विधीयते। प्रयाजादिवन्मननादिकं तदनन्तरम्‌। उक्तं ह्याचार्यैः—“मननानिदिध्यासनाम्यांफलोपकार्यङ्गाभ्यां श्रवणं नामाङ्गिविधीयते” इति॥ ५८ ॥ ५९ ॥ शिवप्रसादेनेति। ईश्वरानुग्रहाद्गुर्वनुग्रहस्तस्मात् श्रुत्यर्थावगतिस्ततश्च शंभुभक्तिः। शं सुखमस्माद्भवतीति शंभुः परमानन्दरूपः परशिवः “एतस्यैवाऽऽनन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति” इति श्रुतेः। तद्भक्तिः सोऽहमस्मीति तत्तादात्म्यग्राहिणी ब्रह्माकारा मनोवृत्तिस्ततः सकाशादविद्यानिवृत्तिसमर्थं ज्ञानमाविर्भवतीत्यर्थः॥ ६० ॥ ६१ ॥

इति श्रीस्कन्दपुराणे श्रीसूतसंहितातात्पर्यदीपिकायां यज्ञवैभवखण्डे
ज्ञानयज्ञविशेषो नाम चर्तुदशोऽध्यायः॥ १४॥

पञ्चदशोऽध्यायः।

१५.ज्ञानयज्ञविशेषः।

सूत उवाच—

भूयोऽपि ज्ञानयज्ञं तु प्रवक्ष्यामि समासतः।
श्रृणुत श्रेयसे विप्राः श्रद्धया परया सह॥ १॥
घरकुड्यकुसूलादिपदार्थेषु मुनीश्वराः।
सत्ता या भासते सैका सत्ताकारतयवै तु।
सा विदेषेण रूपेण विभिन्नेति च केचन॥ २॥
तदसंगतभेवेति प्रवदन्ति मनीषिणः॥ ३॥
विशेषरूपस्याभावाद्भेदाभावेन हेतुना।


नन्‍वखण्डसच्चिदानन्दैकरसस्यमायावशात्सर्वात्मभावेन यदद्वितीयत्वमुपपादितंतदनुपपन्नम्‌। यत आत्मवद्धटपटादीनामपि सत्तासमावेशात्पारमार्थिकंसत्यत्वमस्तीतिप्रत्यवतिष्ठमानान्निराकृत्या-द्वितीयत्वमेव सिद्धान्तयितुमध्याय आरभ्यते—भूयोऽपीति॥ १ ॥ तत्रानिर्ज्ञातस्वरूपस्य परपक्षस्य निवारयितुमशक्यत्वात्तं दर्शयति—घटेति। सन्घटः सन्पटः सत्कुड्यमित्यनुवृत्तसद्व्यावहारा-स्पदत्वेनघटपटादिषु सर्वासु विशेषव्यक्तिष्वनुगतैकशरीरा काचित्सत्ताख्या जातिरङ्गीकार्या। यद्यपि सा सामान्याकारेणैका तथाऽपि घटपटादिविशेषाकरेण नानाकारा भवति। अत एव भाट्टा जातिव्यक्त्योस्तादात्म्यमेव संबन्धो न समवाय इति ब्रुवते॥ २ ॥ तदेतद्दूषयति— तदसंगतमित्यादिना। मनीषिण इति। तत्त्वविद इत्यर्थः। कुत इत्यत आह—विशेषेति। सत्ताया भेदहेतोर्घटपटादिलक्षणस्य विशेषरूपस्यैवाभावात्‌। ननु विशेषरूपो घटपटादिरनुभूयत एवेत्यत अह—भेदाभावेनेति। यस्माद्दशमेऽध्यायेपारमार्थिको भेदः सवेत्र प्रपञ्चे निरस्तोऽतः कारणाद्भेदैकार्थसमवायिनोविशेषरूपस्यासंभव इत्यर्थः। एतदेवोपपादयति—सति भेद इति। यदि क्वचिदपि

सति भेदे विशेषः स्यान्नाभेदे हि मुनीश्वराः॥ ४॥
भेदाकारस्तु सत्ताया विद्यते यदि वस्तुतः।
भेदाकारस्तुसत्ताया भिन्नश्चेच्छून्यतत्त्ववत्‌।
शून्यमेव भवेन्नैव भेदाकारो भवेद्द्विजाः॥ ५॥
भेदाकारः स सत्ताया अभिन्नश्चेत्स सैव हि॥ ६॥


घटपटादेः कुताश्चिद्भेदः स्यद्भेदव्याप्तविशेषत्वमापि तदैव तस्यस्यात्‌। न ह्येकं वस्तु स्वस्मादेव स्वयं विशिष्यते। अन्यस्मास्वत्वेननास्यविशेषः। अतो भेदस्य निरस्तत्वाद्भेदेऽसतिघटादिविशेषरूपत्वंपरमार्थतो न घटत इत्यर्थः॥ ३ ॥ ४ ॥ अथ सत्ताया भेदरूपं विकस्पासहत्वेनापि दुषयितुमनुवदति—भेदाकार इत्यादिना। भिद्यत इति भेदोविशेषस्तथाविध अकारोयस्मिन्घटपटादौ स भेदाकारः। स किं सत्तायाः सकाशाद्भिन्नोऽभिन्नो वा नाऽऽद्य इत्याह— भेदेति। याऽनुस्यूता सत्ता तस्याःसकाशाद्यदि भेदाकारोघटपटादिर्भिन्नः स्यात्तदा शशविषाणवदसन्नेवभवेत्‌। सत्तानात्मकत्वाविशेषात्‌। स्यदेतद्भिन्नस्यापि घटपटादेर्विषयस्यसत्तासंबन्धात्सत्त्वंन तु तत्संबन्धः शशविषाणस्यास्तीतितत्राऽऽह—नैवेति। सत्तासंबन्धात्प्रागपि किमिदं घटादिकमसत्सद्वा। असच्चेदसत्त्वाविशेषाच्छशविषाणेऽपि सा संबध्नीयात्‌। द्वितीयेऽपि तस्य सत्तावैशिष्ट्यादेववक्तव्यम्‌। तत्रापि किं सत्ता स्वात्मना विशिष्टे संबध्नीयात्सत्तान्तरेण वा। आद्येस्वात्माश्रयत्वम्। द्वितीयेऽप्यतिप्रसङ्गवारणाय तत्सत्तान्तरमपि सत्ताविरिष्ट एवाऽऽधारे वर्तत इति वक्तव्यम्‌। सा चेद्विशेषणभूता सत्ता प्रथमैव तदाऽन्योन्याश्रयत्वम्‌। अन्यैवचेच्चक्रकापत्तिः। अथैतद्दोषपरिजिहीर्षया सत्तापरंपरा स्वीक्रियेत तदा मूलक्षयकार्यनवस्था स्यादित्येवमादिदोषग्रस्तत्वाद्भेदाकारः सत्तायाः सकाशाद्भिन्नःशशविषाणवन्नैव भवेदित्यर्थः॥ ५ ॥ न द्वितीय इत्याह—भेदाकार इति। यदि विशेषाकारो घटः सत्तायाः सकाशादभिन्नःस्यात्तदा तत्स्वरूपान्तर्भावात्सत्ताद्वैतमेव पर्यवस्येदित्यस्माकं समीहितसिद्धिरत्यिर्थः। नन्वनयोर्भेदाभेदौ स्वीक्रियेते तत्र भेदसद्भावान्न विशेषाकारस्य सत्तान्तर्भावः। अभेदसद्भावान्न विशेषाकारस्य शशाविषाणवदसत्त्वामिति

भिन्नाभिन्नौयदि स्यातां दोषद्वयसमागमः।
तस्मात्सत्तातिरेकेण विशेषार्थोविद्यते॥ ७॥
विशेषार्थप्रतीतिस्तु भ्रान्तिसिद्धान संशयः।
अत एका सदा सत्ता सैव ब्रह्म परात्परम्‌।
सत्ताया यदि भिन्नं चेद्ब्रह्यासत्स्यान्नृश्रृङ्गवत्॥ ८॥


भेदाभेदवादी प्रत्यवतिष्ठते तं प्रत्याह— भिन्नाभिन्नाविति। यदि सत्ताविशेषाकारौभिन्नाभिन्नौस्यातां तदा भेदपक्षोक्तशुन्यत्वमभेदपक्षोक्तंसत्ताद्वैतं चोभयमपि तस्याऽऽपतेदित्यर्थः। तस्मादिति। यस्मादुक्तरीत्या भेदाकारोविचारासहस्तस्माद्धाटपटादिरूपो विशेषार्थः सत्तातिरेकेण नैव विद्यते॥ ६॥ ७॥ कथं तर्हितस्य सत्त्वप्रतीतिरित्यत आह—विशेषार्थेति। अपरिच्छिन्ने सद्रूपे ब्रह्माणि मायया परिकल्पितत्वादधिष्टानसत्त्वमेवाऽऽरोप्ये घटपटादिलक्षणे विशेषार्थेऽपि प्रतीयते सन्घटःसन्पटः सत्कुड्यामिति। यथा सर्पधारादिदोषारोपेष्वयं सर्प इयंधारेतीदमंशोऽवभासते। तद्वच्छ्रुतिरपि यदनुविद्धंयद्भासते तत्तत्र परिकल्पितमिति न्यायेनसदनुविद्धामिदं सर्वंसद्रूपे ब्रह्मणि परिकल्पितमितिदर्शयति “सद्धीदं सर्वंसत्सदिति चिद्धीदं सर्वं काशते काशतेच " इति। अतो जगत्सत्यत्वप्रतीतिर्भ्रान्तिसिद्धैवेत्यर्थः॥ अत इति। यत एवं विशेषार्थः पारमार्मिथिको नास्यतः कारणात्सा सत्ता सर्वदैकैव भवति न तु विशेषाद्भिद्यतइत्यर्थः। ननु सत्ता नाम बह्णीषुसद्व्यक्तिष्वनुवृत्तसद्व्यवहारास्पदतयाऽवस्थितो जातिलक्षणो धर्मविरोषः। यदि धर्मिभूताः सद्व्यक्तयो न स्युः स कथं निराश्रयोऽवतिष्ठत इति तत्राऽऽह— सैव ब्रह्मेति। भवेदेवंयदि सत्ता जातिःस्यान्न तु सा जातिः। विशेषार्थाभावेन तस्याजातित्वायोगात्‌। निर्विशेष न सामान्यमिति हि तत्त्वविदः। अतः सा सत्ता परात्परं ब्रह्मैव “सदेव सोम्येदमग्रआसीदेकमेवाद्वितीयम्‌ " इति श्रुतेस्तद्ब्रह्मसदेव। ननु सत्ता हि सतो धमः। यस्य गुणस्य हि भावद्रव्ये शब्दनिवेशस्तस्य भावस्त्वतलाविति स्मृतत्वादिति। नैष दोषः। सद्रूपं परं ब्रह्मैव सदेव स्वत्मिन्पारिकल्पितासु बह्नीषु व्यक्तिष्वधिष्ठानतयाऽनुवृत्तत्वा त्सत्तेत्युच्यते। यथैकस्यैव चन्द्रस्य जलतरङ्गोपाधिषुनानात्वे परिकल्पिते तत्र

तत्रैवं सति विप्रेन्द्रा ये पदार्थाघटादयः।
ते तु सत्तातिरेकेण न विद्यन्ते कथंचन॥ ९॥
ब्रह्मैवेदमितिप्राह श्रुतिरप्यतिनिर्मला॥ १०॥
विदुषामनुभूतिश्च तथैव हि न संशयः।
अतः सर्वमिदं शंभुरिति वित्त विचक्षणाः। ११॥
मृच्छरावादिरूपेण यथा भाति स्वभावतः।
तथा सर्वतया भाति शिवः सर्वावभासकः॥ १२॥


सर्वत्रानुव्यवहारबलोनानुवृत्तंचन्द्रस्वरूपमेव चन्द्रत्वं तद्वदित्यर्थः। यदा तु ब्रह्मस्वरूपसाक्षात्कारेण तदविद्यानिवृत्तौतत्कार्यस्यापि दृश्यप्रपञ्चस्यनिवृत्तिस्तदा तद्ब्रह्मसदित्युच्यतेन सत्ता। अनुगन्तव्याभावेन स्वरूपस्यानुगमाभवात्‌। न च तद्ब्रह्मानुवृत्तम्‌। व्यावृत्त्यवधेरन्यस्याभावात्‌। तदुक्तं वार्तिककारैः—“अव्यावृत्ताननुगतं वस्तु ब्रह्मगिरोच्यते” इति। ननु धर्मवाचकः सत्ताशब्दःकथमेवमन्यथा क्रियते। “सदेव सोम्य"इत्यत्राऽपि सत्तायोगि सदिति धर्मिधर्मवाचक एव स्वीकर्तव्य इत्यत आह—सत्ताया इति। यदि सत्तायाः सकाशाद्धर्मिभूतं तद्ब्रह्म भिन्नं स्यात्तदा पूर्वोक्तभेदाकारन्यायेन तद्ब्रह्यापि नरविषाणवदसदेवभवेत्तस्मात्तत्सत्तात्मकमेव परं ब्रह्म न धर्मिधर्मभावोयुक्त इत्यर्थः॥ ८॥ एवं विशेषार्थासत्त्वनिरूपणेन ब्रह्मणः सिद्धमद्वितीत्यत्वमुपसंहरति— तत्रैवमिति। यस्मात्सद्रूपेब्रह्मणि घटपटादयोऽध्यस्तास्त स्मात्तद्व्यतिरेकेण ते न सन्तीत्यर्थः॥ ९॥ इत्थं प्रतिपादिते सर्वस्य जगतोब्रह्मात्मकत्वेश्रुतिं संवादयदि— ब्रह्मैवदेमिति। “ब्रह्मैवेदममृतंपुरस्ताद्ब्रह्म पश्चाद्ब्रह्म दक्षिणतश्चोत्तरेण। अधश्चोर्ध्वंच प्रसृतं ब्रहैवेदं विश्वमिदं वारिष्ठम्” इति। प्रागादिषु सर्वादिक्षुपराग्रूपंयदिदं जगत्प्रसृतंभासते तत्सर्वंवरिष्ठं गुरुतमं विस्तीर्णतमं ब्रह्मैव। करणभूतात्तस्मादतिरिक्तं किमपि नस्तीत्यर्थः। अत इति। यतः सद्रूपाद्ब्रह्मणोऽतिरिक्तं किमपि वस्तु नास्ति तत्स्वरूपेपरिकल्पितत्वादतो यदिदं कार्यभूतं दृश्येजगत्तत्सर्वंकारणभूतपराशिवस्वरूपतो न व्यतिरिच्यत इत्यर्थः॥ १०॥ ११॥ एतदेव कार्यप्रपञ्चस्य कारणब्रह्मात्मकत्वं दृष्टा-

कटकादिविभेदेन यथा हेम प्रकाशते।
तथा सर्वतया भाति शिवः सर्वावभासकः॥ १३॥
शुक्तिका रजताकारा यथा भाति स्वभावतः।
तथा सर्वतया भाति शिवः सर्वावभासकः॥ १४॥
स्वप्नदृक्स्वप्नरूपेण यथा भाति स्वभावतः।
तथा सर्वतया भाति शिवःसर्वावभसकः॥ १५॥
अन्धकारः प्रकाशश्च यथाऽऽकाशे प्रकशते।
जडाजडमिदं सर्वं तथा भाति परात्मनि॥ १६॥


न्तैरुपपादयति— मृच्छरावेत्यादिना। यथा मृद्धटशरावादिनानाकार्यात्मनाऽवभासते तथा परशिवोऽपि मायोपाधिवशात्सर्वजगदात्मना भासते। श्रुतावपि सर्वकारणब्रह्मविज्ञानात्सर्वविज्ञानं प्रतिज्ञाय तदुपपादनार्थं मृदादयोदृष्टान्तत्वेनोपात्ताः“यथा सौम्यैकेन मृत्पिण्डेन सर्वंमृन्मयं विज्ञातंस्याद्वाचारम्भणं विकारो नामधेयंमृत्तिकेत्येव सत्यम्‌” इत्यादयः। बादरायणोऽपि कार्यस्य जगतः कारणब्रह्मानतिरिक्तत्वं सूत्रयामास “तदनन्यत्वमारम्भणशब्दादिभ्यः"इति॥ १२॥ १३॥ ननु मृल्लोहादिषु शरावादिकार्यंनाऽऽरोप्यते किंतु तैरारभ्यते। तच्च कारणमृदादिद्रव्याद्द्रव्यान्तरं भवतीति तार्किका विप्रति पद्यन्ते। तान्प्रति दृष्टान्तान्तरमाह— शुक्तिकेति। यथा शुक्तिका स्वाधिष्ठानचैतन्यस्य मायावशादरोप्यरजताकारेण भासते तथा परशिवोऽपि स्वाश्रितमायावशात्सर्वजगदात्मना भासत इत्यर्थः॥ १४॥ ननुशुक्तिरजतादावन्य स्मिन्नन्येनाऽऽरोप्यतेऽद्वितीये ब्रह्मणि तादृश आरोपः कथं संभवतीत्याशङ्क्य निदर्शनान्तरेणोपपादयति— स्वप्नदृगिति। यथा स्वप्नद्रष्टा तैजस आत्मोपा धिवशान्ननाविधस्वप्नपदार्थाकारोभवति तथाऽद्वितीय ईश्वरोऽपि स्वमायावशा न्नानाकारजगदात्मको भवतीत्यर्थः। स्वप्नद्रष्टुः स्वप्नपदार्थात्मकत्वमाम्नायते “सधीः स्वप्नो भूत्वेमं लोकमतिक्रामति मृत्यो रूपाणि “इति॥ १५॥ ननु निरवयवेऽद्वितीयेब्रह्माणि चेतनाचेतनलक्षणं विरुद्धस्वभावंजगत्कथमा-

वीचीतरङ्गफेनाद्या यथा भान्ति महोदधौ।
महदादिविशेषान्तं जगद्भाति तथाऽऽत्मनि॥ १७॥
भूतानि शंमुर्भुवनानि शंभुर्वनानि शंभुर्गिरयश्चशंभुः।
स एव सर्वं न ततोऽतिरिक्तं ततः स एकः परमार्थमेतत्॥ १८॥
इज्यश्चयज्ञैरयमेव शंभुर्लभ्यश्चदानैरखिलैस्तथैव।
जप्यश्चमन्त्रैरखिलैर्विशिष्टैर्मृग्यश्चदेवैरमरेन्द्रपूर्वैः॥ १९॥
तपोभिरुग्रैः सततं विशिष्टा महेशमेन परमप्रियेण।
प्रपूजन्त्येव मुनीन्द्रबृन्दा नमन्तिनित्यं वचसा स्तुवन्ति॥
यतीन्द्रबृन्दा हृदि संनिविष्टं गुरुप्रसादाच्च शिवप्रसादात्‌।
अहंपदप्रत्ययसाक्षिभूतंचिदात्मरूपं विदुरेनमेव॥ २१॥


रोपयितुं शक्यत इत्याशङ्क्य निदर्शनान्तरेणोपपादयति—अन्धकार इति। यथैकस्मिन्नेवनिरवयव आकाश उपाधिवशात्परिकल्पितभेदे विरुद्धस्वभावावपि तमःप्रकाशौ युगपद्भासेते तद्वदुपाधिपरिकल्पिते परशिवस्वरूपे चेतनाचेतनवि भागात्मकः प्रपञ्चोऽपि व्यवस्थितःसन्प्रकाशत इत्यर्थः॥ १६ ॥ सर्वस्यापि कार्यप्रपञ्चस्यकारणमात्रावशेषे स्पष्टं निदर्शनान्तरमाह—वीचीति। महानूर्मिर्वीचिः स एव वायुवशाद्भग्नकणो यथेकस्मिन्नेव समुद्रे वीचीतरङ्गबुद्‌बुदाद्याकारविरोषाः प्रतीतिसमय एव भासन्ते पुनस्तत्रेवलीयन्त एवं पराशिवस्वरूपेऽप्याकाशादिभूतभौतिकाद्यात्मका आकारविशेषाः स्वमायावशाद्भासन्ते तत्रैव लीयन्ते चेत्यर्थः॥ १७ ॥ यस्मादेवं परशिवस्वरूपे चेतनाचेतनात्मकस्य प्रपञ्चस्य मायया परिकल्पितत्वात्तस्य सर्वस्याधिष्ठानपरशिवस्वरूपानतिरिक्तत्वं तस्मात्तस्य सर्वजगदात्मकत्वमुक्तमेव प्रपञ्चयति—भूतानि शंभुरित्यादिना। न ततोऽतिरिक्तमिति। आरोप्यस्याधिष्ठानादन्यत्वासंभवादित्यर्थः॥ १८—२० ॥ हृदि संनिविष्टमिति। “अङ्गुष्ठमात्रः पुरुषोऽऽन्तरात्मा सदा जनानां हृदि सनिविष्ठः” इत्यादिश्रुतेरित्यर्थः। अहंपदप्रत्ययसाक्षिभूतमिति। अहमिति

शिवमशेषमिदं परिपश्यतः सकलजन्मजरामरणादयः।
निखिललोकगतिश्च निरङ्कुशंपरमरूपतयैव विभाति हि।
अमलबोधतया परमेश्वरं सकलवेदवचोभिरयत्नतः।
परमयोगबलेन च पश्यतः कथमशेषजगत्प्रतिभा भवेत्‌।
परमशिवमशेषं पश्यतामादिभूत हृदयकुहरमध्ये संचितं।
कर्मबृन्दम्‌ झटिति भवति दग्धं तूलवद्वह्नियुक्तं न फलनिकरभोगप्राप्तये तद्भवेच्च॥ २४॥
कर्मभिः सकलैरपि लिप्यते ब्रह्मवित्प्रवरश्चन सर्वथा।
पद्मपत्रमिवाद्भिरहो परब्रह्मवित्प्रवरस्य तुवैभवम्‌॥ २५॥
पुण्यपापतया यदि भासते कर्मजातमनात्ममतिस्तदा।
ब्रह्मरूपतयैव हि भाति चेद्ब्रह्मवेदनमेव तदुत्तमम्‌॥ २६॥


पदमहपदं तस्माद्यः प्रत्यप आत्मगोचरान्त करणवृत्तिरहङ्काराख्या तस्याः साक्षितयाऽवगतमित्यर्थः॥ २१—२३ ॥ परमशिवमिति। हृत्पुण्डरीकमध्पे सच्चिदानन्दरूपं परशिवंस्वात्मतया साक्षात्कुर्वतांसकलानर्थमूलभूताविद्याविनाशात्तत्कार्यभूतमनेकभवपरंपराप्रापकंसंचितं पुण्परूपंधर्माधर्मादिनिवृत्तं सञ्ज्ञानाग्निनादग्धं भवतीत्यर्थः। श्रुयते च—‘तद्यथेषीकातूलमग्नौ प्रोतंप्रदूयेतैवँहास्य सर्वे पाप्मानः प्रदूयन्ते’इति। मगवताऽप्युक्तम्‌—‘यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरतेऽर्जुन। ज्ञानाग्निःसर्वकर्माणि भस्मसात्कुरुते तथा’इति॥ बादरायणोऽपि परतत्त्वज्ञानात्संचितागामिकर्मणोर्विनाशाश्लेषौसूत्रयामास ‘तदधिगम उत्तरपूर्वाघयोरश्लेषविनाशौतद्वदपदेशात्‌’इति। एषच दाहः प्रारब्घव्यतिरिक्तस्यकर्मणः। प्रारब्धं तु भोगेन निवृत्तं स्यात्‌।”तस्य तावदेव चिरं यावन्न विमोक्ष्ये”इति श्रुतौ ज्ञानोत्तरकालमपि शरीरपातावधिपर्यन्तं विलम्बप्रतिपादनेन प्रारब्धकर्मणोभोगौकनिवर्त्यत्वप्रतिपादनात्‌।”अनारब्धकार्ये एव तु पूर्वेतदवधेः”इति तेनैव विशेषितत्वाच्च। अतः प्रारब्धकर्मणो भोगसमधे यद्यत्पुण्यपापादिकंकर्मोपार्ज्यते तस्याश्लेषमाह—कर्मभिरिति। श्रूयते हि—‘तद्यथा पुष्करपलाश आपो न श्लिष्यन्त एवमेवंविदि पापं कर्मन श्लिष्यते’

सर्पादिभावेन विभासमाना रज्जुर्नसर्पादि सदैव रज्जुः।
तद्वत्प्रपञ्चात्मतया विभाति शिवोन विश्वं शिव एव तत्स्वयम्‌॥ २७॥
यथैव तोयात्मतया महीमिमां नरो विजानन्नपि वेद
मेदिनीम्‌। तथैव विश्वात्मतयाऽभिपश्यन्नपि प्रपश्यत्यमलप्रबोधम्‌॥ २८॥
अतः प्रपञ्चानुभवः सदान हि स्वरूपबोधानुभवः सदा खलु। इतीव पश्यन्परिपूर्णवेदनो न बद्धमुक्तो न च बद्ध एव तु॥ २९॥
स्वस्वरूपतया स्वयमेव स प्रस्फुरत्यमलः परमेश्वरः।
न प्रपञ्चविभासनमस्त्यतः कस्यचिच्च न बन्धनमोचने॥


इति॥ २४—२६॥ सर्पेति। सपेधार। सपेधाराद्यात्मना मायया भासमाना रञ्जुः स्वयाथात्म्यज्ञानोत्तरकालं न सर्पाद्यात्मनाभासतेकिंतु पूर्वमपीयं रञ्जुरेव कदाचिदपि न सर्पादीत्येवं प्रतीयते यथैवं तद्वत्परशिवोऽप्यविद्यावशात्पूर्वंप्रपञ्चात्मतया भासमानोऽपि ज्ञानोत्तरकालंप्रागप्यसौपरशिवं एव सत्यो न प्रपञ्च इति प्रतीयते। तथा च नाभूदस्ति भविष्यतीति दृश्यप्रपञ्चस्य कालत्रयेऽप्यसत्त्वसिद्धेः सिद्धं मिथ्यात्वमित्यर्थः॥ २७ ॥ यथैवति। ‘अद्भ्यः पृथिवी’इति श्रुत्यापृथिव्या आपः कारणम्‌। यथा कार्यभूतां पृथिवींकारणभूतोदकात्मना जानन्नपि तां पृथिवीं वेदैव तथा करणभूतं परशिवंकार्यप्रपञ्चात्मतया जानन्नपि निरुपाधिकं तं पश्यत्येवेत्यर्थः॥ २८ ॥ न बद्धमुक्त इति। एवंसर्वत्र प्रपञ्चे परिपूर्णंतत्त्वमेव साक्षात्कृर्वन्न बद्धमुक्तः। परशिवस्वरूपातिरिक्तस्य बन्धस्यैवाभावात्‌। अत एवन बद्धश्च भेददृष्टौसत्यामेव हि बन्धमोक्षव्यवहार इत्यर्थः। तथाचोक्तम—“न निरोधो न चोत्पत्तिर्नबद्धो

इयं हि वेदस्य परा हि निष्ठा मुनीश्वराणामपि शंकरस्यतु।
इतोऽन्यथा ये विदुरन्धकूपे पतन्ति ते मोहफणी न्द्रदष्टाः॥ ३१॥

इति श्रीस्कान्दपुराणे सूतसंहितायां चतुर्थे यज्ञवैभवखण्डे
ज्ञानयज्ञविशेषो नाम पञ्चदराोऽध्यायः॥ १५॥


न च साधकः। न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थता’ इति॥ २९ ॥ स्वस्वरूपतयेति। निरवद्यः स्वप्रकाशकः परशिवः प्रत्यगात्मनः स्वरूपत्वेन स्फुरति यदा तदानीमविद्यानिवृत्त्या तत्कार्यप्रपञ्चस्यबन्धहेतुकत्वाभावान्न बन्धमोचनमित्यर्थः॥ ३० ॥ एवमुत्पन्नतत्त्वज्ञानस्य सच्चिदानन्दाखण्डैकरसब्रह्मस्वरूपेणावस्थानमेवमुक्तिः। सा च ज्ञानादेव लभ्या। तच्च ज्ञानं वेदान्तश्रवणादिवेत्येतावप्प्रतिपादितम्‌। तत्र विद्याफलस्य मुक्तिस्वरूपस्य स्वर्गादिफलवदतिशयित्वमाशङ्क्यनिरस्यति—इयं हीति। यत्प्रत्यगात्मनोऽद्वितीयब्रह्मरूपेणावस्थानमेषैववेदस्याभिमतोत्कष्टाऽऽत्मनिष्ठा। ‘ब्रह्म वेदब्रह्मैव भवति’ ब्रह्माविदाप्नोति परम्‌’ ‘ब्रह्मैैवेदममृतं पुरस्तात्‌’ ‘इदं सर्वं यदयमात्मा’ इत्यादिश्रुतेर्निर्विकारब्रह्मभवनरूपा मुक्तिरर्वाचीनानां मनुष्यादीनामुत्कृष्टानामृषीणां ततोऽप्युत्कृष्टस्येश्वरस्यापि समानैवेत्यर्थः। बादरायणोऽपि मुक्तेरेकरूपत्वं सूत्रयामास—‘एवं मुक्तिफलनियमस्तदवस्थावधृतेस्तदवस्थावधृतेः’इति। तच्चाधिकरणमेवं संगृहीतम्‌।‘मुक्तिः सातिशया नो वा फलत्वाद्ब्रह्मलोकवत्। स्वर्गवच्च नृभेदेन मुक्तिः सातिशयैव हि॥ ब्रह्मैव मुक्तिर्न ब्रह्म क्वचित्सातिशयं स्मृतम्‌। अत एकविधा मुक्तिर्वेधसो मनुजस्य च’इति। एवं मुक्तिस्वरूपमनङ्गीकुर्वतो बाधमाह—इतोऽन्यथेति। श्रूयते हि—‘अविद्यायामन्तरे वर्तमानाः स्वयं धीराः पण्डितंमन्यमानाः। दंद्रम्यमाणाः परियन्ति मूढा अन्धेनैव नीयमाना यथाऽन्धाः’इति॥ ३१ ॥

इति श्रीसूतसंहितातात्पर्यदीपिकायां चतुर्थे यज्ञवैभखण्डे
ज्ञानयज्ञविरोषो नाम पञ्चदशोऽध्यायः॥ १५ ॥

षोडशोऽध्यायः।

१६. ज्ञानोत्पत्तिकारणनिरूपणम्‌।

सूत उवाच—

अथातः संप्रवक्ष्यामि ज्ञानोत्पत्तेस्तु कारणम्।
विना येन शिवज्ञानं न जायेत कथंचन॥ १ ॥
मुमुक्षुरतिसंतुष्टः सिध्यत्येव गतिर्मम।
इति निश्चयबुद्धिस्तु प्रतिबन्धानिवृत्तये।
देवताः सकला नित्यं प्रार्थयेन्मतिमत्तमः॥ २॥
शं नो मित्रः शं वरुणःशं नो भवतु चार्थमा॥ ३॥
शं न इन्द्रश्च वागीशः शं नो विष्णुरुरुक्रमः।
नमोऽस्तु ब्रह्मणे वायो नमोऽस्त तव शोभनम्‌॥ ४॥


एवं वेदान्तवाक्यजनितात्परशिवस्वरूपसाक्षात्कारज्ञानादेव मुक्तिर्न कारणान्तरादीति प्रतिपादितम्‌। तच्च ज्ञानं कथमुत्पद्यतइति तदुत्पत्तेःकारणं वक्तमुपक्रमते—अथात इति। परशिवज्ञानस्यपरमपुरुषार्थत्वात्तत्रच प्रतिबन्धकपापनिमित्तप्रत्यूहबाहुल्यात्तन्नि-वृत्त्यर्थंवक्ष्यमाणमित्रादिदेवताप्रार्थनं मुमुक्षुणा नित्यं कर्तव्यमित्यर्थः॥ १ ॥ २ ॥ उक्ताविधप्रतिबन्धोपशमाय तैत्तिरीयोपनिषदि देवताप्रार्थनरूपमन्त्रात्मको योऽनुवाकआम्नातस्तदर्थप्रतिपत्तिसौकर्याय श्लेकेननिबध्नाति—शंनोमित्र इत्यादिना। मित्रादयोऽस्माकं विद्याप्रतिबन्धापनयनेन शं सुखहेतवोभवन्तु। वागीशो बृहस्पतिः ‘वागीशोबृहस्पतिः’ इति श्रुतेः। उरुक्रम इति। उरु विस्तीर्णं क्रमत इत्युरुक्रमः। सर्वव्यापीत्यर्थः। मित्रादीनामन्तर्यामित्वेनावस्थितं ब्रह्म तस्मैनमोऽस्तु। वायुः क्रियाशक्त्युपा धिकः सूत्रात्मा “वायुर्वै गोतम तत्सूत्रंवायुना वै गोतम सूत्रेणायं च लोकः परश्च लोकः सर्वाणि च भूतानि संदृब्धानिभवन्ति”इति श्रुतेः। हे वायो यदपरोक्षं परं ब्रह्म तदेवत्वमसि। तस्यैव जगद्धारणसमर्थाक्रियाशक्त्या च सवान्तरत्वात्‌। अतः साक्षात्परशिवस्वरूपं त्वामेव वदिष्यामि। मनसा

त्वमेव साक्षाद्ब्रह्मासित्वांवदिष्यामि शंकरम।
ऋतं च सत्यं चाहं सां वदिष्यामि विरोषतः॥ ५॥
तन्मामवतु कल्याणं तद्वक्तारं च रोभनम्‌।
मां भूयोऽवतु वक्तारमपि चावतु शोभनम्‌॥ ६॥
शान्तिः शान्तिः पुनः शान्तिर्दोषत्रयनिवृत्तये।
कृत्वैवं प्रार्थनामात्मज्ञानार्थं पुनरास्तिकाः॥ ७॥
जपेन्नित्यं गुरोर्लब्ध्वा मन्त्रंयश्छन्दसामिति।
मे गोपायेतिपर्यन्तमत्यन्तश्रद्धया सह॥ ८॥
संकोचो देहयात्रायां यदि ज्ञानार्थिनो भवेत्‌।
उपक्षीणा भवेद्बुद्धिस्तत्रतस्य न संशयः॥ ९॥
अतः संकोचहानाय विद्यार्थं तु दिने दिने।
आज्येनान्नेन चोभाभ्यामावहन्तीति मन्त्रतः॥ १०॥
जुहुयाच्छ्रद्धयासार्धं ब्रह्मचारी गृही वनी।
भिक्षुकस्तु जपेन्मन्त्रमनग्निःश्रद्धयासह॥ ११॥
नित्यमाचार्यशुश्रूषां प्रकुर्याद्भक्तिपूर्वकम्‌।
उत्थायोत्थाय षट्‌ त्रीणि प्रणामं द्वादशाथवा॥ १२॥


यथार्थसंकल्पनमृतं तथाविधस्यार्थस्यवाचोच्चारणं सत्यमुभयात्मकंत्वामेव वदिष्यामि। तद्वायूपाधिकं परं ब्रह्म मामवतु रक्षतु। चकारादाचार्यं च तद्रक्षतु। मां भूयइत्यादिकमुक्तस्यैवार्थस्प दार्ढ्यार्थम्। श्रुतावपि ‘अवतु माम्‌। अवतु वक्तारम्‌” इत्यनेनैवाभिप्रायेण व्यतिहारेणाऽऽम्नातम्‌॥ ३—६॥ दोषत्रयनिवृत्तय इति।आध्यात्मिकाधिदैविकाधिभौतिकदोषत्रितयनिवृत्त्यर्थं शान्तिशब्दस्य त्रिरुच्चारणं कर्तव्यमित्यर्थः। मेगोपायेतिपर्यन्तामीति। यश्छन्दसाप्तित्यारभ्य मे गोपायेतिपर्यन्तं जपेदित्यर्थः॥ ७ ॥ ८ ॥ संकोच इति।

कृत्वाऽऽचार्यं यथाशक्ति मुमुक्षुर्भुवि दण्डवत्‌।
वेदान्तश्रवणं कुर्यान्मननं च समाहितः॥ १३॥
नित्यं लिङ्गेमहादेवं पूजयेद्भक्तिपूर्वकम्।
शान्तो दान्तो भवेन्नित्यं विरक्तो भिक्षुको भवेत्॥ १४॥
शीतोष्णसुखदुःखेषु तथा मानापमानयोः।
सहिष्णुश्च भवेन्नित्यं तथैकाग्रमना भवेत्‌॥ १५॥
रुद्राक्षधारणं कुर्याद्रुद्रो रुद्राक्षधारणात्‌।
प्रतिबन्धकबाहुल्याल्लज्जानित्यं प्रजायते॥ १६॥
आलस्ये च क्षुते चैव तथाऽभक्ष्यस्य भक्षणे।
अदृश्यदर्शनादौच जपेत्प्राज्ञः षडक्षरम्‌॥ १७॥
षडक्षराणि वर्तन्ते जिह्वाग्रेयस्य संततम्‌।
संभाषणादिकं तेन कुर्यादेवाविचारतः॥ १८॥
संभाषणादिकं नीचैर्न कुर्यान्मोहतोऽपि वा।
यदि कुर्यात्प्रमादेन प्रायश्चित्तीभवेद्द्विजः॥ १९॥
स्वजातिविहिताचारैरन्याचारैस्तथैव च।
विशिष्टा अपि नीचाः स्युर्नसंभाष्या द्विजोत्तमैः॥ २०॥
अग्निहोत्रादिजं भस्म सितमादाय सादरम्‌।
अग्निरित्यादिभिर्मन्त्रैजार्बालोक्तैश्चसप्तभिः॥ २१॥


ज्ञानार्थिनः शुश्रूषांर्यदिदारिद्यंस्यात्तदा देहयात्रायां तस्यबुद्धिस्तत्र परिक्षीणा स्यात्‌।अतस्तन्निवृत्त्यर्थमावहन्तीत्यनुवाकशेषण प्रतिदिनमाज्येनान्नेन वा साग्निश्चेदग्नौजुहुयादनग्निस्तुतान्मन्त्रा-न्प्रतिदिनं जपेदित्यर्थः॥ ९—१५ ॥ रुद्रो रुद्राक्षधारणादीति। रुद्रस्याक्षिपरिणामी हि रुदाक्षस्तस्यापिधारणात्स्वयमपि रुद्रो भवेदित्यथेः॥ १६—२० ॥ अग्निरित्यादिभिरिति। तथाऽथर्वशिरसि

अभिमन्त्र्य महादेवंभावयित्वासमाहितः।
भस्मना तेन सर्वाङ्गंसमुद्धूल्य ततः परम्‌॥ २२॥
तिर्यक्त्रिपुण्ड्रमुक्तेन वर्त्मना मतिमत्तमः।
ललाटे च तथा स्कन्धे तथैवोरसि धारयेत्‌॥ २३॥
चिरंतनानि स्थानानि शिवस्यामिततेजसः।
प्रतिमासंविशेषेण सेवनीयानि भक्तितः॥ २४॥
शिवस्योत्सवसेवार्थं गच्छेच्छ्रद्धापुरःसरम्‌।
उत्सवं सेवमानस्य मुक्तिर्हस्तस्थिताभवेत्‌॥ २५॥
विशिष्टमन्नंभुञ्जीत+++++थमात्मनः।
निर्माल्यं च निवेद्यंच विशाणविवर्जयेत्‌॥ २६॥
रुद्रेण भुक्तं निर्माल्यं न तथा देवतान्तरैः।
निवेद्यंविष्णुना भुक्तमाहृतं चान्यदैवतैः॥ २७॥
गुरूच्छिष्टं पुरोडाशंभवत्येव न संशयः।
निर्माल्यंच निवेद्यं च भुक्त्वा चान्द्रायणं चरेत्‌॥ २८॥
वर्णाश्रमादिहीनानां कृर्यात्सेवां न मानवः।
सह वासं न तैः कुर्यात्सह संभाषणं तथा॥ २९॥
सह प्रमोदं संस्पृष्टिंसह पङ्क्तौतुभोजनम्‌।
सहैव गमनं सख्यं सह संबन्धमेव च॥ ३०॥


श्रूयते — ‘अग्निरिति भस्म। वायुरिति भस्म। जलमिति भस्म। स्थलमिति भस्म। व्योमेति भस्म। सर्वँह वा इदं भस्म। मन एतानि चक्षूंषि भस्मानि। अग्निरित्यादिना भस्म गृहीत्वानिमृज्याङ्गानि संस्पृशेत्‌’इति॥ २१— २५ ॥ निर्माल्यंच निवेद्यंचेति। तदुक्तमागमे सर्वज्ञानोत्तरे—“विसर्जितस्य देवस्य गन्धपुष्पनिवेदनम्‌। निर्माल्यं तद्विजानीयाद्वर्ज्यंवस्त्रविभूषणम्‌॥

देवानां च मनुष्याणां तथाऽन्येषां च लाञ्छनम्।
न कुर्यान्मोहतो वाऽपि यदि कुर्यात्पतत्यधः॥ ३१॥
कस्यचिल्लाज्छितो मर्त्योन साक्षी सर्वथा भवेत्‌।
श्रौतस्मार्तसदाचारे नाधिकारी च लाज्छितः॥ ३२॥
लाञ्छिता़श्चन संभाष्या न स्पृश्याश्चतथैव च।
न दर्शनीयास्तात्राजा देशाच्छीघ्रंप्रवासयेत्‌॥ ३३॥
अकुर्वन्नपि विध्युक्तं निषिद्धं परिवर्जयेत्।
निषिद्धपरिहारेण विहिते लभते मतिम्‌॥ ३४॥


अर्पयित्वा तु तंभूयश्चण्डेशाय निवेदयेत्‌’इति। तथा कालोत्तरेऽप्युक्तम्‌—‘स्थिरे चलेतथा रत्नेसिद्धलिङ्गे स्वयंभुवि। लोहे चित्रमये बाणे स्थितखण्डे नियामकः। सिद्धान्ते नोत्तरे तन्‍त्रे न वामे न च दक्षिणे। चण्डद्रव्यंगुरुद्रव्यं देवद्रव्यं तथैव च। रौरवेतेतु पच्यन्ते मनसा ये तु भुञ्जते”इति। एवमादिसिद्धान्तमतवचनपर्यालोचनया गन्धपुष्पादेर्नैवेद्यस्य चण्डद्रव्यत्वेन सर्वथा वर्ज्यत्वाव गतेस्तं न भुञ्जीतित्यर्थः। सिद्धान्तव्यतिरिक्तवामदक्षिणादितन्त्रान्तरमते तु यत्र चण्डाधिकारो नास्ति तत्र निर्माल्यस्वीकारेऽपि दोषो नास्तीति। तथा चोक्तमू— “बाणालिङ्गेचरे लोहे सिद्धलिङ्गे स्वयंभुवि। प्रतिमासु च सर्वासु न चण्डोऽधिकृतो भवेत्‌। अद्वैतभावनायुक्ते स्थण्डिलेऽथ विधावपि”इति। तत्र शैवागमे तु सिद्धान्तस्यैव प्राबल्यात्तन्मतानुसरेण सर्वेष्वपि लिङ्गेषु सर्वथा वर्जनीयमित्यभिप्रेत्याऽऽह— विशेषेणेति॥ २९—३३ ॥ अकुर्वन्नपीति। फलरागाभावान्मुमुक्षुः “स्वर्गकामो यजेत” इत्यादिविधिवाक्योक्तंयागादिकमकुर्वन्नपि ब्राह्मणो न हन्तव्योन कलञ्जंभक्षयेदित्यादिवाक्यैर्निषिद्धं सर्वथा परिवर्जयेदित्यर्थः। तद्वर्जनस्यफलरागप्रयुक्तत्वाभावात्‌। प्रत्युत निषिद्धाचरणे दोष एव रागतः प्रवृत्तिः। एवं निषिद्धपरिवर्जनेनप्रत्यवायानुदयाद्विरुद्धवासनानिरासाच्चफलप्रेप्सुनैव निर्वर्त्येविहिते नित्यकर्मणि विषये बुद्धिं लभत इत्यर्थः। एवं विहितानुष्ठानान्निषिद्धपरिहरणाच्चान्तःकरणमालिन्यापादकं पापं

सत्याद्धर्माच्च कुशलाद्भस्मनोद्धूलनादपि।
त्रिपुण्ड्रधारणाच्चापि स्वाध्यायाध्ययनादपि॥ ३५॥
दैवाच्चपित्र्यात्कार्याच्च मातापित्रादिपूजनात्‌।
तथान्येभ्यश्च कर्मभ्यः श्रौतेभ्यश्च तथैव च॥ ३६॥
स्मार्तेभ्यश्च मुमुक्षुश्चेत्सदा न प्रच्युतो भवेत्‌।
उक्तसाधनसंपन्नो ज्ञानाद्भस्माधिगच्छति॥ ३७॥
शिवस्वरूपं परमं भासनाद्भस्मसंमतम्‌।
तदेव स्वीयमायोत्थप्रपञ्चेजलसूर्यवत्‌॥ ३८॥
अनुप्रविष्टं तद्रूपं भस्मलेशमुदाहृतम्‌।
तेन लेशेन देवेशः प्रतिबिम्बेन भस्मना॥ ३९॥
स्वतन्त्रो बिम्बभूतस्तु सदैवोद्धूलितः शिवः। `
स एव पूजनीयस्तु ब्रह्मविष्णुसुरोत्तमैः॥ ४०॥
तत्प्रसादेन सर्वेषां देवत्वं न स्वभावतः।
स्वभावादेव देवत्वं देवदेवस्य शूलिनः॥ ४१॥
तं विदित्वा विमुच्यन्ते शान्ता दान्ता यतीश्वराः।
गृहस्थाश्च तथैवान्ये सत्यधर्मपरायणाः॥ ४२॥


नोत्पद्यत इत्यर्थः॥ ३४ ॥ तैत्तिरीयके—“सत्यान्न प्रमदितव्यंधर्मान्न प्रमदितव्यम्‌” इत्यादिना यानि सत्यादीनि नित्यं मुमुक्षुभिः सेव्यानीत्याम्नातं तानि दर्शयति—सत्यादित्यादिना न प्रच्युतो भवेदित्यन्तेन।कुशलादिति। कुशलं योगक्षेमः॥ ३५ ॥ मातापित्रादिपूजनादिति। आदिशब्देनाऽऽचार्यातिथिसंग्रहः। मातापितृपूजनानन्तरम्‌ ‘आचार्यदेवो भव। अतिथिदेवो भव’ इति तत्पूजाया उक्तत्वात्‌॥ ३६ ॥ ३७ ॥ शिवस्वरूपमित्यादि। स्वप्रकाशाचिदात्मतया भासमानं परशिवस्वरूपंमुख्यं भस्म। तज्जलसूर्यप्रति-

भस्मसंछन्नसर्वाङ्गास्त्रिपुण्ड्राङ्कितमस्तकाः।
रुद्राक्षमालाभरणाः श्रीमत्पञ्चाक्षरप्रियाः॥ ४३॥
नित्यंलिङ्गार्चनपरा यज्ञाद्यैर्दग्धकल्मषाः।
अतो ज्ञानार्थिभिर्ज्ञानसाधनानि मनीषिभिः॥ ४४॥
संपाद्यानि महायासाज्ज्ञानान्मुच्येत बन्धनात्‌।
ज्ञानं वेदान्तविज्ञानं ब्रह्मात्मैकत्वगोचरम॥ ४५॥
तस्माज्ज्ञातं विजानाति विमुक्तश्चविमुच्यते।
निवर्तते निवृत्तश्च श्रुत्यर्थस्यैष संग्रहः॥ ४६॥
अयमर्थो महादेवप्रसादरहितैर्नृभिः।
जात्यन्धगजदृष्ट्यैवकोटिशःपरिकल्प्यते॥ ४७॥


बिम्बवत्प्रपञ्चेऽनुप्रविष्टंसत्प्रतिबिम्बात्मनोपेयार्थं भस्मसंजातम्‌। प्रतिबिम्बस्य च बिम्बनिरूप्यत्वेन तत्संबन्धात्‌। यस्मात्सर्वदा बिम्बभूतः परशिवः प्रतिबिम्बरूपेण भस्मना लेपित एव वर्तत इत्यर्थः॥ ३८—४५ ॥तस्माज्ज्ञातमिति। स्वप्रकाशसाक्षिचैतन्यात्मना पूर्वमवगतमेवाऽऽत्मस्वरूपं वेदान्तवाक्यजनितेन विज्ञनेनोपाधिप्रतिहानद्वारापुन-र्विजानातीत्यर्थः। उक्तं हि—“सर्वप्रत्ययवेद्येवा ब्रह्मरूपे व्यवस्थिते। प्रपञ्चस्य प्रविलयः शब्देन प्रतिपाद्यते” इति। विमुक्तश्चेति। नित्यशुद्धबुद्धमुक्तस्वभावं हि परशिवस्वरूपं तदेव प्रागात्मनो नैजं रूपमतः स्वभावतो विमुक्त एवपश्चादप्यविद्यावशाद्बद्ध इव भासमानः स्वस्वरूपयाथात्म्यज्ञानेन पुनर्विमुच्यत इत्यर्थः। श्रुतिश्च“अनुष्ठाय न शोचति विमुक्तश्च विमुच्यते” इति। स्वभावतो निवृत्तोऽपि संसार उपाधिवशाद्भासमानः पुनर्विद्योदयेनोपाधिप्रलयान्निवर्ततइत्यर्थः॥ ४६ ॥ जात्यन्धगजदृष्ट्येति। यथा बहावो जात्यन्धाः संभूय गजस्य हस्तपादाद्यवयवविशेषान्स्पृशन्तस्तन्मात्र एव गजस्य साकल्यबुद्धिमासादयन्तः शूर्पस्तम्भाद्याकारतां कल्पयन्ति तथैवमुक्तविधमात्मस्वरूपमज्ञानमोहितास्तार्किकादयो बहुप्रकारं कल्पयन्तीत्यर्थः॥ ४७ ॥ गर्भस्थितोवेति। अत एवैतरेयके गर्भे-

ब्राह्मणो वाऽन्त्यजो वाऽपि तथा गर्भस्थितोऽपि वा।
महादेवप्रसादेन मुच्यते भवबन्धनात्‌॥ ४८॥
महादेवे महानन्दे महाकारुणिकोत्तमे।
प्रसन्ने सति कीटो वा पतङ्गोवा विमुच्यते॥ ४९॥
गुरूपदिष्टो वेदार्थःसंग्रहेण मयोदितः।
मदुक्तार्थे तु विश्वासं कुरुध्वंयत्नतोद्विजाः॥ ५०॥

इति श्रीस्कान्दपुराणे सूतसंहितायां यज्ञवैभवखण्डे

ज्ञानोत्पत्तिकारणवर्णनं ना षोडशोऽध्यायः॥ १६ ॥

सप्तदशोऽध्यायः।

१७. वैराग्योत्पत्तिप्रकारः।

सूत उवाच—

अथातः संप्रवक्ष्यामि वैराग्यं दुःखनाशनम्‌।
येन साक्षाच्छिवज्ञानं जायते मोक्षसाधनम्‌॥ १॥
प्रत्यग्ब्रह्मैकताज्ञानाद्द्वैतवस्तु समुद्गतम्‌।
द्वैतवस्तुनिविप्रेन्द्राः पूर्ववासनया तथा॥ २॥


नु सन्नन्वेषाम्‌’इति मन्त्रवाक्यतात्पर्यप्रतिपादकं वाक्यमाम्नायते ‘गर्भएवैतच्छयानो वामदेव एवमुवाच’इति॥ ४८—५० ॥

इति श्रीसूतसंहितातात्पर्यदीपिकायां चतुर्थेयज्ञवैभवखण्डे
ज्ञानोत्पत्तिकारणवर्णनं नाम षोडशोऽध्यायः॥ १६॥

—————

उक्तविधंपरशिवस्वरूपविषयं वेदान्तजनितज्ञानं साधनचतुष्टयसंपन्नस्यैवेति तत्संपत्तिरादौमुमुक्षुभिरेष्टव्या। तत्रज्ञानयोगखण्डे दशमेऽध्यायेपिण्डोत्पत्तिकथनेन देहधारणस्य दुःखात्मकत्वप्रतिपादनार्थं यद्वैराग्यं सूचितंतदिदानीं विस्तरेण प्रतिपादयितुमध्याय आरभ्यते—अथात इति॥ १ ॥ ननुविगतो विषयगोचरो रागो यस्माद्विरागस्तस्य भावोवैराग्यं तस्य प्रति-

आज्ञया देवदेवस्य कालपाकेन कर्मणाम्‌।
शोभनाशोभनभ्रान्तिः कल्पिता परमार्थवत्‌॥ ३॥
शोभनत्वेन संक्लृप्तेविषये वासनाबलात्‌।
इच्छा नित्यंप्रजायेत नराणां मूढचेतसाम्‌॥ ४॥
शोभनत्वेन संक्लृप्तेपदार्थो द्विविधः स्मृतः।
एक ऐहिक आख्यात इतरः पारलौकिकः॥ ५॥
ऐहिकानिन्द्रियैरर्थान्भुङ्क्ते देही निरन्तरम्‌।
पुनर्भुक्तेषु चार्थेषु तत्समानेषु मानवः॥ ६॥
करोति वाञ्छामवशः कल्पनामतिमोहितः।
शोभनत्वेन यः क्लृप्तः पदार्थः पारलौकिकः॥ ७॥
तत्र बुद्धिं नृणां शास्त्रमुत्पादयति निश्चितम्‌।
भ्रमात्तद्भोगवाञ्छा च जायते सर्वदेहिनाम्‌॥ ८॥

—————————————————————————————————————————
पादनं विषयसद्भावासद्भावयोर्दुर्निरूपम्‌।विषयस्य पारमार्थिकत्वे हि वचनशतादपि कथं ततः पुरुषो विरज्यते।आपरमार्थिकत्वे तु विषयाभावादेवायत्नसंपन्नं वैराग्यमिति न प्रतिपादनार्हमित्याशङ्क्याऽऽह—प्रत्यगित्यादिना।जीवब्रह्मणोरेकत्वाच्छादकभावरूपाज्ञानान्मायाविद्यापरपर्यायाद्द्वैतवस्त्वात्मकंजगत्समुत्पन्नम्‌। अविद्यापरिकल्पिते तस्मिन्द्वैतवस्तुनि जन्मान्तरशतेषु विषयोपभोगजनितया वासनया सुखदुःखफलहेतुभूतंपुण्यपापात्मकं परिपक्वं यत्कर्मेत्यमेवेति परमेश्वरस्याऽऽज्ञावशेन हेतुना किंचिद्धिशोभनं किंचिदशोभनमिति भ्रान्त्यापरमार्थवत्कल्प्यतइत्यर्थः॥२—४॥ एक इति। इह लोके विद्यमानोऽनुकूलवेदनीयः शब्दस्पर्शादिरौहिकोविषयः। सएवस्वर्गादिरकान्तरोपभोग्यः पारलौकिक इति॥ ५॥ पुर्नभुक्तेष्विति।उक्तं हि—“न जातु कामः कामानामुपभोगेन शाम्यति। हविषा कष्णवर्त्मेवभूय एवाभिवर्धते” इति॥ ६॥ ७॥ ननु पारलौकिकस्य

दृष्टानुश्राविकद्वारा बुद्धिसंतातिरात्मनः।
कल्पिते विषये नित्यं जायते वेदवित्तमाः॥९॥
तथा योऽशोभनत्वेन पदार्थः परिकल्पितः।
इह लोके परत्रापि द्वेषस्तत्र हि जायते॥१०॥
रागद्वेषार्गलाबद्धा धर्माधर्मवशंगताः।
देवतिर्यङ्मनुष्यादिनिरयं यान्ति मानवाः॥११॥
शुक्रं च शोणितं दृष्ट्वास्पृष्ट्वास्मृत्वा तुमानवः।
उद्गारं कुरुते तद्धि शरीरं चेतनस्य तु॥१२॥
तस्मिञ्शरीरेऽहं बुद्धिं सदा कः कुरुते जनः।
मूढोऽहंममबुद्धिभ्यामिदं गृह्णाति विग्रहम्‌॥१३॥
दृष्ट्वास्पृष्ट्वातथा स्मृत्वाचर्मभूमितले स्थितम्‌।
उद्गारं कुरुते मर्त्यःस्वयं तद्दोषदर्शनात्‌॥१४॥
तथैवाऽऽत्मतयाऽग्राह्येशरीरेचर्मयद्भवेत्‌।
तस्मिंश्चर्मण्यहंबुाद्धिंसदा कः कुरुते नरः १५॥

—————————————————————————————————————————

विषयस्येन्द्रियैरननुभूयमानत्वात्कथं तत्ररागसंभव इति तत्राऽऽह—तत्रबुद्धिमिति॥८॥ दृष्टानुश्राविकेति। दृष्टं प्रत्यक्षेणानुभूतं सुखम्‌। आनुश्राविकं श्रुतिबलादवगतं सुखम्‌। उभयद्वारेहलोकपरलोकयोरविद्यापरिकल्पिते साधनजाते विषये च बुद्धेरुत्पत्तिर्जायत इत्यर्थः॥९॥ एवं वैराग्यप्रतिपादनोपयोगित्वेन पुरुषस्यैहिकामुष्मिकविषयेषु भ्रमाद्रागसंभवमुपपाद्याशोभनत्वेनपरिकल्पिते वस्तुनि भ्रमवशादेव द्वेषोऽप्युत्पद्यत इत्याह—तथा य इति॥१०॥रागद्वेषावेवार्गला तस्यांबद्धाः पुण्यपापात्मककर्मपारवश्यंगताः सर्वे जन्तवोदेवतिर्यङ्मनुष्यादियोनिषु जन्मरूपं नरकमनुभवन्तीत्यर्थः॥११॥ नन्वधर्मादेव नरकप्राप्तिर्धर्मात्तुस्वर्गादिलोकसुखानुभव इत्याश्ङ्क्यपरशिवस्वरूपभूतसुखातिरिक्तस्यसर्वस्य वैषयिकसुखस्य दुःखात्मकत्वंप्रतिपादयितुं भोगायत-

मूढोऽहंममबुद्धिभ्यामिदं गृह्णाति संततम्‌।
दृष्ट्वास्पृष्ट्वातथा स्मृत्वा मांसं भूमितले स्थितम्‌॥१६॥
उद्गारंकुरुते मर्त्यःस्वयं तद्दोषदर्शनात्‌।
तथैवाऽऽत्मतयाऽग्राह्येदेहे मांसं तुयद्भवेत्‌॥१७॥
तस्मिन्मांसे त्वहंबुद्धिंसदा कः कुरुते जनः।
मूढोऽहंममबुद्धिभ्यामिदं गृह्णाति संततम्‌॥१८॥
दृष्ट्वास्पृष्ट्वातथा स्मृत्वाशिरां भूमितले स्थिताम्‌।
उद्गारंकुरुते मर्त्यःस्वयं तद्दोषदर्शनात्॥१९॥
तथैवाऽऽत्मतयाऽग्राह्या रारीरस्था च या शिरा।
तस्यामेव त्वहंबुद्धिं सदा कः कुरुते जनः॥२०॥
मूढोऽहंममबुद्धिभ्यामिदं गृह्णाति संततम्‌।
दृष्ट्वास्पृष्ट्वातथा स्मृत्वाचास्थि भूमितले स्थितम्‌॥२१॥
उद्गारंकुरुते मर्त्यःस्वयं तद्दोषदर्शनात्‌।
तथैवाऽऽत्मतयाऽग्राह्यंशरीरस्यास्थियद्भवेत्‌॥२२॥
तस्मिन्नेव त्वहंबुद्धिंसदा कः कुरुते जनः।
मूढोऽहंममबुद्धिभ्यामिदं गृह्णाति संततम्‌॥२३॥
दृष्ट्वास्पृष्ट्वातथा स्मृत्वा रोमपुञ्जंभुवि स्थितम्‌।
उद्गारं कुरुते मर्त्यःस्वयं तद्दोषदर्शनात्‌॥२४॥

—————————————————————————————————————————————

नदेहादौजुगुप्सितत्वंप्रतिपादयति—शुक्रंच शेणितमित्यादिना। पितुः शुक्रं मातुः शोणितं तदुभयं हि शारीरस्योपादानम्‌।तज्जातीययोः स्वदेहादन्यत्रदर्शनस्पर्शनादौयथाजुगुप्सैवतन्मये स्वशरीरेऽपि विवेकिनो जुगुप्सैवभवति न त्वहंबुद्धिरुदेति।अविद्यावशान्मूढो जनस्त्वहं मनुष्योममेदं शरीरमिति चाभिमन्यत इत्यर्थः। एवमुत्तरत्र सर्वत्रयोज्यम्‌॥१२- ४४॥

तथा देहस्थितं रोमनिचयं यद्द्विजोत्तमाः।
तस्मिन्नेव त्वहंबुद्धिंसदा कः कुरुते जनः॥२५॥
मूढोऽहंममबुद्धिभ्यामिदंगृह्णाति संततम्‌।
दृष्ट्वास्पृष्ट्वातथा स्मृत्वारक्तं भूमितले स्थितम्॥२६॥
उद्गारं कुरुते मर्त्यःस्वयं तद्दोषदर्शनात्‌।
तथैवाऽऽत्मतयाऽग्राह्यं रक्तं यद्देहसंस्थितम्‌॥२७॥
तस्मिन्नेव त्वहंबुद्धिं सदा कः कुरुते जनः।
मूढोऽहंममबुद्धिभ्यामिदं गृह्णाति संततम्‌॥२८॥
दृष्ट्वास्पृष्ट्वातथा स्मृत्वापूयं भूमितलेस्थितम्‌।
उद्गारंकरुते मर्त्यः स्वयंतद्दोषदर्शनात्‌॥२९॥
तथैवाऽऽत्मतयाऽग्राह्येपूयं यद्देहसंज्ञिते।
तस्मिन्नेव त्वहंबुद्धिं सदा कः कुरुते जनः॥३०॥
मूढोऽहंममबुद्धिभ्यामिदं गृह्णाति संततम्‌।
दृष्ट्वास्पृष्ट्वातथा स्मृत्वा श्लेष्मराशिंभुवि स्थितम्‌॥३१॥
उद्गारंकुरुते मर्त्यःस्वयं तद्दोषदर्शनात्‌।
तथैव पुरमध्यस्थे श्लेष्मराशौविचक्षणः॥३२॥
कः करोति त्वहंबुद्धिं मनुष्यः पण्डितोत्तमाः।
मूढोऽहंममबुद्धिभ्यामिदंगह्णाति संततम्‌॥३३॥
दृष्ट्वा स्पृष्ट्वातथा स्मृत्वा पित्तं भूमितले स्थितम्‌।
उद्गारं कुरुते मर्त्यःस्वयं तद्दोषदर्शनात्‌॥३४॥
तथा देहस्थितो पित्ते हेये वेदान्तपारगाः।
कः करोति त्वहंबुद्धिं मूढ एव करोति हि॥३५॥

दृष्ट्वास्पृष्ट्वातथा स्मृत्वा मूत्रं भूमितले स्थितम्‌।
उद्गारं कुरुते मर्त्यःस्वयं तद्दोषदर्शनात्‌॥३६॥
तथा देहस्थिते मूत्रे हेये वेदान्तपारगाः।
कः करोति त्वहंबुद्धिं मूढ एव करोति हि॥३७॥
दृष्ट्वास्पृष्ट्वातथा स्मृत्वा पुरीषं भूतलेस्थितम्‌।
उद्गारं कुरुते मर्त्यःस्वयं तद्दोषदर्शनात्‌॥३८॥
तथा देहस्थिते हेये पुरीषे मतिमत्तमाः।
कः करोति त्वहंबुद्धिंमूढ एव करोति हि॥३९॥
चन्दनागरुकर्पूरप्रमुखा अपि शोभनाः।
मलं भवन्ति यत्स्पर्शात्तत्कथं शोभनं वपुः॥४०॥
भक्ष्यभोज्यादयः सर्वेपदार्थाश्चातिशोभनाः।
मलंभवन्ति यत्स्पर्शात्तत्कथं शोभनं वपुः॥४१॥
सुगन्धि शीतलंतोयं मूत्रं यत्संगमाद्भवेत्।
तत्कथं शोभनं पिण्डं भवेद्ब्रूत द्विजोत्तमाः॥४२॥
अतीव धवलाः शुद्धाः पटा यत्संगमेन तु।
भवन्ति मलिना वर्ष्मकथं तच्छोभनं भवेत्‌॥४३॥
रक्तजाः क्रिमयोऽनन्ता मांसजाः क्रिमयस्तस्था।
क्रिमिकोशमिदं वर्ष्मदुःंखाय न सुखाय हि॥४४॥
गर्भं तु कललावस्थं कृमिभिर्भक्षितं भवेत्‌।
दुःखमेव तदा सौख्यं न किंचिदपिविद्यते॥४५॥
बुद्बुदाकारतापन्नं भक्षयन्ति कलेबरम्‌।

——————————————————————

कललावस्थमिति। मातुर्गर्भाशय एकरात्रोषितं शुक्रशोणितं कललम्॥४५॥

क्रिमयो दुःखमेवस्यात्तदा सौख्यं नकिंचन॥४६॥
जठराग्नौभवेत्तप्तं गर्भं मातुःसदैव तु।
दुःखमेव तदा तस्य सुखंकिंचिन्न विद्यते॥४७॥
जठरे वायुसंचारघूर्णिते गर्भतां गतः।
दुःखमेव तदा तस्य सुखं किंचिन्न विद्यते॥४८॥
पुरीषमूत्रसंपूर्णे जठरे गर्भतां गतः।
दुःखमेव सदा याति न किंचित्सुखमाप्नुयात्‌॥४९॥
जरायुमध्ये निश्छिद्रेनिमग्नो गर्भतांगतः।
दुःखमेव सदा याति न किंचित्सुखमाप्नुयात्॥५०॥
रौरवादिषु यद्दुखं नरकेषु निरन्तरम्।
गर्भेतत्कोटिगुणितं भवेद्दुःखं न संशयः॥५१॥
गर्भात्तुजायमानस्य दुःखं वक्तुं न शक्यते।
अहो दुर्वास एवास्य गर्भवासो मुनीश्वराः॥५२॥
बाल्येपीडा महातीव्रागणपीडा महत्तरा।
पिपीलिकादिपीडा च परिहर्तुंन शक्यते॥५३॥
व्याधिपीडा महातीव्राक्षुत्पीडा च दिनि दिने।
पिपासा च महापीडा कथं याति सुखं नरः॥५४॥
अक्षरग्रहणे पीडा पीडा च पठने तथा।
शब्दजालस्य दुःखाब्धेर्नपारो दृश्यते मया॥५५॥
श्रौतस्मार्तसदाचारे महापीडा च दारुणा।

——————————————————————

बुद्बुदाकारतापन्नमिति। तदेव सप्तरात्रोषितं बुद्बुदाकारम्‌॥४६—४९॥
जरायुमध्य इति।जरायुर्गर्भवेष्टनम्‌॥५०—५२॥गणपीडेति \। बाल-

निद्धिषपरिहारे च कथं याति सुखं नरः॥५६॥
यौवने च महादुःखं स्त्रीसंसर्गे महत्तरम्‌।
स्त्रीभोगाक्षमता दुःखं दुःखमेव विचारतः॥५७॥
स्त्रीणामाराधने दुःखं तासां संरक्षणेऽपि च।
तासां परिभवे दुःखं दुःखमेव विचारतः॥५८॥
वस्त्रसंपादने दुःखं भूषणानां तथैव च।
रक्षणे च तथा तेषां दुःखमेव विचारतः॥५९॥
गृहक्षेत्रधनादीनां दुःखं संपादने तथा।
रक्षणे च तथा दुःखं तेषामेव विचारतः॥६०॥

पुत्रमित्रादिजन्तूनां दुःखे दुःखं तथैव च।

जन्मनाशभयाद्दुःखं दुःखमेव विचारतः॥६१॥

राज्यभारे महद्दुःखममात्यत्वे महत्तरम्‌।

दासभावे महद्दुःखं दुःखमेव विचारतः॥६२॥

वेदमार्गेतरे मार्गे निष्ठा दुःखं तथैव च।

मार्गोत्कर्षपरिज्ञाने दुःखमेव विचारतः॥६३॥

स्वदारिद्र्येमहद्दुःखं परश्रीदर्शनेतथा।

परैःसाम्ये महद्दुःखं दुःखमेव विचारतः॥६४॥

वायुपीडाऽग्निपीडा च तोयपीडा तथैव च।

सर्पादिदंशने पीडा दुःखमेव विचारतः॥६५॥

भूतप्रेतपिशाचानां यक्षादीनां तथैव च।

पदप्राप्तौमहादुःखं दुःखमेव विचारतः॥६६॥

इन्द्रलोके महादुःखं प्राजापत्ये महत्तरम्‌।

विष्णुलोके च रौद्रे च दुःखमेव विचारतः॥६७॥

बहुनोक्तेन किं देहेऽहंममज्ञानवान्यदि।

दुःखमेव सदा याति सुखं याति न किंचन॥६८॥

दुःखं दुःखात्मना किंचिज्जानातेविवशः पुमान्‌।

सुखात्मना च जानाति भ्रमाद्दुःखंकदाचन॥६९॥

आत्मनस्तुस्वरूपं हि सुखं नान्यद्विचारतः।

तदज्ञानबलेनैव सुखप्रेप्सा नृणां बुधाः॥७०॥

तदज्ञाने निवृत्ते तु प्राप्तमेति सुखं स्वतः।

जहाति दःखमप्राप्तं स्वतः सत्यं मयोदितम्‌॥७१॥

अज्ञानस्य निवृत्तिश्च ज्ञानादेव न कर्मणा।

ज्ञानं नाम महादेवज्ञानं वेदान्तवाक्यजम्‌॥७२॥

——————————————————————

ग्रहपीडंत्यर्थः॥ ५३—६७॥दुःखमेव सदेति।उक्तरीत्या देहेऽहंममाभिमानवतःपुरुषस्यब्रह्मविष्णुरुद्रलोकान्ते संसारमण्डलेसुखलेशोऽपि नास्ति। विचारतस्तु सर्वंदुःखात्मकमेवेत्यर्थः॥६८॥ ननु वैषयिकं सुखमपि दुःखं चेद्दुःखमिति किमर्थं न जानातीत्यत आह—दुःखंदुःखात्मनेति। वस्तुतो दुःखमपि भ्रमवशात्सुखात्मना जानातीत्यर्थः॥६९॥ ननु रुद्रलोकावधि सर्वंदुःखात्मकं चेत्किं तर्हि सुखमित्यत आह—आत्मनस्त्विति।नन्वात्मनः स्वरूपमेव स्वप्रकाशसुखात्मकं चेत्तत्परित्यज्य विषयसुखलिप्सा पुरुषस्य कुत इत्यत आह—तदज्ञानबलेनेति॥७०॥ तदज्ञान इति। स्वरूपयाथात्म्यज्ञानेन तस्मिन्नज्ञाने निवृत्तेस्वस्वरूपत्वेन पूर्वप्राप्तमेवसुखं पुनः प्राप्नोति। अज्ञानावरणेनाप्राप्तप्रायत्वात्‌। शुद्धबुद्धमुक्तस्वभावत्वेन प्रागप्यप्राप्तमेवदुःखमज्ञानबलात्प्राप्तमिव प्रतिभासमानं पुनर्जहाति।ज्ञानेनाज्ञानस्य निवर्तनादित्यर्थः॥७१॥ इत्थं वैराग्यं सप्रपञ्चं निरूप्य तस्य वेदान्तवाक्यजनितज्ञानं प्रति साधनत्वमाह— विरक्तस्येति। उक्तविधवैराग्यसंपन्नस्यसर्वविषयविक्षेपोपशमनान्निर्वातनिष्कम्पदीपसदृशेनैकाग्र्येण मनसा सूक्ष्मतत्त्वं साक्षात्क्रियते

विरक्तस्य हि संसाराज्ज्ञानं नान्यस्य कस्यचित्‌।
यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि स्थिताः।
तदामर्त्योऽमृतो भवत्यत्र ब्रह्मसमश्नुते॥७३॥
वैराग्यहीनस्य न सत्यवेदनं

न मुक्तिसिद्धिर्न च बन्धनश्छिदा।

न धर्मसिधिश्चततः पुरातनै-

रिदंविशिष्टं कथितं कृपाबलात्॥७४॥

इति श्रीस्कान्दपुराणे सूतसंहितायां यज्ञवैभवखण्डे
वैराग्यविचारो नाम सप्तदशोऽध्यायः॥१७॥

अष्टादशोऽध्यायः।

१८. अनित्यवस्तुविचारः।

सूतउवाच—

अथानित्यं प्रवक्ष्यामि समासेन न विस्तरात्‌।

——————————————————————

नान्यस्य विक्षिप्तचित्तस्यत्येर्थ॥७२॥ अस्मिन्नर्थेप्रमाणभूतांश्रुतिमपिसंगृह्णाति—यदासर्वइति।श्रूयते हि—‘यदा सर्वेप्रमुच्यन्ते कामा येऽस्य हृदिश्रिताः। अथ मर्त्योऽमृतो भवत्यत्रब्रह्म समश्नुते’ इति॥ पुरुषस्यान्तः—करणावस्थितस्यस्वर्गादिसर्वभोगविषयस्य रागजातस्य प्रविलयोयदा भवत्यनन्तरमेव स मर्त्योमरणधर्मकाद्देहाद्विरक्तःसंस्तस्मिन्नेव देहे ब्रह्म भवतीत्यर्थः॥७३॥ न च बन्धनच्छिदेति। छिदा छेदः।भिदादित्वादङ्॥७४॥

इति श्रीस्कान्दपुराणे सूतसंहितातात्पर्यदीपिकायां चतुर्थेयज्ञवैभवखण्डे
वेराग्यविचारो नाम सप्तदशोऽध्यायः॥१७॥

एवंवैराग्यस्यज्ञानसाधनत्वंनिरूप्यनित्यानित्यवस्तुविवेकस्यापिवैराग्यजननद्वाराज्ञानोत्पत्तिसाधनत्वंप्रतिपादयितुं तावदनित्यंवस्तुविभ-

यज्ज्ञानेनैव संसाराद्वैराग्यंजायते हृदि॥१॥
अनात्मा जडरूपो यः स एवानित्यमुच्यते।
अनात्मनामनित्यत्वंघटादीनां जडात्मनाम्‌।
आबालपण्डितं दृष्टं यतोऽतः पण्डितोत्तमाः॥२॥
कार्यस्यैव ह्यनित्यत्वंवर्णयन्तीहकेचन।
न तद्युक्तमकार्यस्याप्यनित्यत्वप्रसिद्धितः॥३॥
अकार्यस्य घटादीनां प्रागभावस्य जन्तुभिः।
दृष्टमेव ह्यनित्यत्वंनादृष्टं पण्डितोत्तमाः॥४॥

——————————————————————

जते—अथानित्यमित्यादिना। यज्ज्ञानेनेति। ऐहिकामुष्मिकस्प विषयस्यनश्वरत्वेऽवगते हि नित्यनिरतिशयं स्वरूपसुखं प्राप्तुकामः पुरुषस्ततोविरज्यते।ततोऽनित्यत्वज्ञानात्तत्र वैराग्यं जायत इत्यर्थः॥१॥ विमतो जडवर्गोऽनित्योऽनात्मत्वाद्घटवदित्यभिप्रेत्याऽऽह— अनात्मेति। यो जडरूपो वियदादिभूतभौतिकोऽनात्मप्रपञ्चःस घटपटादिवदनात्मत्वसाम्यादनित्य इत्यर्थः। अनात्मत्वानित्यत्वयोर्व्याप्तिमुपपादयति—आबालेति॥२॥ उक्तानुमान उपाधिमाशङ्‌कते—कार्यस्येति। घटपटादेः कृतकत्वादनित्यत्वंन त्वनात्मत्वात्‌। अतोवियदादेरनित्यत्वं कथं स्यादित्यर्थः। अयमाशयः। अनित्यत्वलक्षणे साध्येकृतकत्वमुपाधिः। यत्रानात्मत्वं तत्रकृतकत्वमिति साधनव्याप्तिर्नास्ति। मायायां प्रागभावादिष्वनात्मत्वमस्ति कृतकत्वाभावात्‌। अतः साधनाव्यापकत्वंदृष्टान्ते सर्वत्र।यत्रानित्यत्वंतत्रकृतकत्वमिति व्याप्तिसद्भावात्साध्यव्यापकत्वम्‌। साधनाव्यापकत्वेसति साध्यस्य व्यापकत्वमिति हि तल्लक्षणम्‌।तस्मादनात्मकत्वादनित्यत्वंन भवतीत्यर्थः॥३॥ साध्यव्यापकत्वाभावेनोपाधिंदूषयति—न तद्युक्तमिति। घटप्रागभावस्यानित्यत्वे सत्यपि तस्यानादित्वेन कृतकत्वाभावात्साध्याव्यापकत्वमित्यर्थः। अक्षरार्थस्तु कार्यत्वादेवानित्यत्वमितियत्तन्न युक्तम्‌।अकार्यस्यापि क्वचिदनित्यत्वदर्शनात्‌। घटप्रागभावस्यहि घटोत्पत्तिनिवर्त्यस्यानित्यत्वंसर्वैरप्यनुभूयते। न चासौकृतकस्तस्यानादित्वा-

भावरूपस्य कार्यत्मनित्यत्वेप्रयोजकम्‌॥५॥
अपि सर्वस्य पूर्वोक्तमनात्मत्वंप्रयोजकम्‌।
दिक्कालाकाशपूर्वाणामनित्यत्वमनात्मनाम्‌॥६॥
श्रुतयोऽनित्यतामेषां प्रवदन्ति हि सादरम्‌।
श्रुत्यनुग्राहकस्तर्कोन स्वतन्त्र इति स्थितिः॥ ७॥

——————————————————————

दिति॥४॥अथ साध्यविशिष्टोपाधे; साध्यव्यापकत्वमुपपादयति—भावरूपस्येति। भावत्वेसत्यनित्यत्वंतत्कृतकत्वंन व्यभिचरतीति साध्यव्यापकं कृतकत्वमेवानित्यत्वेप्रयोजकमित्यर्थः॥५॥ एवमपि साधनव्यापकत्वाभावेनोपाधिंदूषयति—अपि सर्वस्येति। भावत्वे सत्यनित्यत्वस्ययद्यपि कार्यत्वंप्रयोजकम्‌।भावाभावात्मकस्य सर्वस्य प्रपञ्चस्यानात्मत्वादेवानित्यत्वं सेत्स्यतीत्यर्थः। अयमभिप्रायः। न तावत्कृतकत्वोपाधेः साधनाव्यापकत्वमुपपादयितुंशक्यम्‌। ब्रह्मस्वरूपातिरिक्तघटादिप्रागभाववियदादिषु ब्रह्मकार्यत्वश्रवणान्मायायाश्चो-पाधिवादिनाऽनङ्गीकारादतोऽनात्मत्वलक्षणसाधनवता हेतोः सर्वत्र व्याप्यवृत्तेर्नसाधनाव्यापकत्वमित्यर्थः।एषां ब्रह्मकार्यत्वमेवोपपादयति—दिक्कालेति। एषांदिक्कालादीनामनात्मनामेव श्रुतयो ब्रह्मकार्यत्वप्रातिपादनेनानित्य-त्वंप्रकटयन्ति।तस्मान्नित्यत्वंनोपपद्यत इत्यर्थः।श्रूयते हि— “पद्भ्यां भूमिर्दिशः श्रोत्रात्‌,“सर्वे निमेषा जज्ञिरे विद्युतः पुरुषादधि” “कला मुहूर्ताःकाष्ठाश्च, अहोरात्राश्च सर्वशः”“आत्मन आकाशः संभूतः” “इदं सर्वमसृजतयदिदं किंच ” इति।एवमादीनि वाक्यानि ब्रह्मणः सकाशाद्दिगादीनामुत्पात्तिंप्रतिपादयन्ति। ननु यद्याकाशादिकं घटादिवदनित्यं स्यात्तर्हितदेव स्वस्मान्न्यूनपरिमाणेन सजातीयद्रव्यान्तरेण स्थितं च स्यान्नच तथाविधमारम्भकम्।सजातीयद्रव्यान्तरेणाऽऽरब्धमपिच स्यान्नच तथाविधमारम्भकंद्रव्यान्तरमस्ति। तस्मादनित्यं न भवतीतत्यनित्यत्वाभावस्तर्कबलादावगम्यत इत्याशङ्क्याऽऽह—श्रुत्यनुग्राहक इति। श्रुत्यर्थानुसार्येव तर्कः प्रमाणम्‌।उक्तश्च तर्कस्तद्विरुद्धमेवार्थं स्वातन्त्र्येण प्रतिपादयतीति प्रमाणं न भवतीत्यर्थः॥६-७॥ननुतर्कस्यापि श्रतिवत्स्वातन्त्र्येण प्रमेयव्यवस्थापकत्वंकिं न स्यादि-

दृष्टसाम्येन वेदज्ञाः खलुतर्कोऽर्थसाधकः।
श्रुतिरन्यानपेक्षा हि द्विजेन्द्रा अर्थसाधिका॥८॥
प्रत्यक्षादिप्रमाणानां पञ्चानां पण्डितोत्तमाः।
अगम्यं ब्रह्म धर्मश्चाधर्मः श्रुत्यैव गम्यते॥९॥
अन्तरेण श्रुतिं बोद्धुंयतन्तेऽतीन्द्रियं पदम्‌।
ते करेणापि माधुर्यं जानन्त्येव सुनिश्चितम्॥१०॥
पुरा कश्चिन्महामूर्खःसंगिरो नाम बाडबः।
पूर्वजन्मकृतात्पापाद्वेदश्रद्धाविवर्जितः॥११॥
तर्कशास्त्रतःसाक्षाद्ब्राह्मातीन्द्रियमव्ययम्‌।
धर्माधर्मौच तर्केण केवलेन मुनीश्वराः॥१२॥
अक्लेशेन परिज्ञातुमकरोद्यत्नमुत्तमम्‌।

—————————————————————————————————————————

त्यतआह—दृष्टसाम्येनेति। आपाद्यापादकयोर्बहुशोऽनुभूतत्वात्तत्साम्येनतर्को। विप्रतिपन्नविषयेऽप्यापादको बलादापाद्यमर्थमुपस्थापयति। श्रतिस्तु दृष्टसाम्यंविनाऽपि मानान्तरानधिगतमर्थं स्वातन्त्र्येण प्रतिपादयति। अतोऽन्यसापेक्षत्तर्कादन्यानपेक्षा श्रुतिरेवार्थव्यवस्थापिका॥८॥ ननु श्रुतेरपिसंगतिग्रहणादौप्रत्याक्षादिप्रमाणान्तर-सापेक्षत्वादन्यानपेक्षत्वमसिद्धमित्याशङ्क्याऽऽह—प्रत्यक्षादीति।श्रुतिर्यद्यपि संगतिग्रहणादौप्रत्याक्षादिकं प्रमाणान्तरमपेक्षते। ‘शब्दो वृद्धान्विधेयांश्च प्रत्यक्षेणानुपश्यति। श्रोतुश्च प्रतिपन्नत्वमनुमानेन चेष्टयेत्‌’॥ इत्यादिना संगतिग्रहणसमये शब्दस्य तत्सापेक्षत्वस्यभट्टाचार्यैरुक्तत्वात्। तथाऽपि पदानामेव पदार्थैः संगतिग्रहणं न तु वाक्यानांवाक्यार्थे तेषामानन्त्याद्व्यभिचाराच्च। अतः श्रुतिवाक्यं प्रत्यक्षादिप्रमाणरैनधिगतं ब्रह्म धर्माधर्मादिकं च स्वातन्त्र्येणैव वाक्यार्थत्वेन प्रतिपादयति। न हितादृशोऽर्थस्तर्कशतेनापि प्रतिपादयितुं शक्यः॥९॥ ईदृग्विधेविषयेऽपि श्रुतिंविहाय प्रमाणान्तरैर्येजिज्ञासन्ते तानुपहसति—अन्तरेणेति॥१०॥ इत्थंश्रुत्यर्थविरोधिस्वतन्त्रतर्कस्य पुरुषार्थव्यवस्थापकत्वाभावमभिधायाथ तस्य प्रत्यु-

तर्को नानाविधस्तस्य पमरतिभातो मुनीश्वराः॥१३॥
तेन मोहावृतः सद्यः संगिरो मुनिपुङ्गवाः।
चकार दीक्षां पाषण्डमार्गे श्रद्धापुरःसरम्‌॥१४॥
पुनस्तर्काप्रतिष्ठानात्संगिरोऽतीव मोहितः।
चकार दीक्षां पाषण्डविशेषेषु यथारुचि॥१५॥
पुनस्तर्काप्रतिष्ठानान्मायया परिमोहितः।
त्यक्त्वा पाषण्डमार्गं च चचार च यथारुचि॥१६॥
पुनर्मोहावृतः साक्षात्स्वसारं मातरं तथा॥
गत्वा ममार कालेन संगिरः साहसी द्विजः॥१७॥
अत्युग्रा अतिसंनद्धा यमदूता भयंकराः।
संगिरं तु समादाय शीघ्रं विप्रायमं ययुः॥१८॥
यमस्तं संगिरं क्रुद्धोविलोक्याऽऽह भयंकरः।
यथाशक्ति भटा एष पीड्यतां मम संनिधौ॥१९॥
इति प्राह यमः सोऽपि संगिरोयमकिंकरैः।
अतीव पीडितो विप्रा अभवच्च विचेष्टितः॥२०॥
पुनश्च तीक्ष्णया वाचा यमः प्राह सुदारुणम्‌।
भिद्यतां संगिरो दुष्टश्छिद्यतां दह्यतामयम्‌॥२१॥
इक्षुयन्त्रादिषु ह्येष पीड्यतामनिशं भटाः।
अन्यैर्नानाविधैःक्रूरैरुपायैःपीड्यतामिति॥२२॥

———————————————————————————————————————

तानर्थहेतुत्वज्ञापकमितिहासमुपपादयति—पुरा कश्चिदित्यादिना॥ ११—१४॥पुनस्तर्काप्रतिष्ठानादिति। आगमनिरपेक्षस्य शुष्कतर्कस्य पुरुषोत्प्रेक्षामूलत्वात्तस्याश्चानवस्थितत्वात्तन्मूलस्तर्कोऽप्यनवस्थित इत्यर्थः। उक्तं हि—‘यत्नेनानुमितोऽप्यर्थः कुशलौरनुमातृभिः। अभियुक्ततरैरन्यैरन्यथैवोपपाधते” इति॥१५॥

संगिरोयमदूतैश्च क्रमेण नरकार्णवे।
यन्त्रैर्नानाविधैरन्यैरुपायैरतिदारुणैः॥२३॥
अतीव पीडितो विप्रा अभवत्कोटिवत्सरम्‌।
पुराकृतमहापुण्यपरिपाकबलेन च॥२४॥
प्रसादादेव रुद्रस्य शिवस्य परमात्मनः।
अकस्मादागतस्तत्र महातेजा महामतिः॥२५॥
शंभुभक्तः शतानन्दो नाम्ना शंभुरिवापरः।
स पुनः पीड्यमानं तं विलोक्य करुणाबलात्‌॥२६॥
प्राहोंनमः शिवायेति मन्त्रराजं षडक्षरम्‌।
तदैव नरकः साक्षात्स्वर्गलोकोऽभवद्द्विजाः॥२७॥

पुष्पवृष्टिरभवत्सुमङ्गला

सिद्धयक्षमुनयः सनातनाः।

तत्र नृत्तमतिशोभनंमुदा

चक्रुरग्निविमला विचक्षणाः॥२८॥

नृत्तगीतमुखरा अपि द्विजा

अप्सरोभिरतिशोभनाः सह।

यक्षकिंनरपुरःसरा भृशं

नृत्तगीतसुखभोगिनोऽभवन्‌॥२९॥

देवैरशेषैरमराधिपः स्वयं

सह प्रमोदेन ननर्तशोभनम्‌।

प्रजापतिश्चापि ननर्तभार्यया

श्रिया च विष्णुः सह मोदसंयुतः॥३०॥

यमोऽतिभीतः परमेश्वराज्ञया

प्रवर्तमानश्च कृताञ्जलिर्द्विजाः।

सह स्वकीयैरपि कम्पितः स्वयं

बहुप्रणामं शिवशङ्कयाऽकरोत्‌॥३१॥

यमं शतानन्दसमाह्वयो मुनि-

र्विलोक्य भीतं कृपयैव केवलम्‌।

विमुञ्चभीतिं यम शंकराज्ञया

प्रवर्तमानोऽभिभवः सुखावहः॥३२॥

अब्रवीदशुभप्रतिभापहः

शुद्धबोधसुखवस्तुनि स्थितः।

तद्वचःश्रवणभग्नसंशयो

निर्भयश्च तरसाऽभवद्यमः॥३३॥

पुनः शतानन्दसमाह्वयोमुनि-

र्यमंसमाहूय समस्तसंनिधौ।

इदं बभाषे वचनं सुखावहं

समस्तलोकस्य मुनीश्वरेश्वरः॥३४॥

शतानन्द उवाच—

विष्णुप्रजापतीन्द्रादिदेवताभ्यो महेश्वरम्‌।
विशिष्टं यो विजानाति तं त्वंपरिहर प्रभुम्‌॥३५॥
शिवरुद्रादिशब्दं यो विशिष्टं वेद मानवः।
नारायणादिशब्देभ्यस्तं त्वं परिहर प्रभुम्‌॥३६॥
उमया सहितां शुद्धां त्रिनेत्रांचन्द्ररोखराम्‌।

परस्य मूर्तिं यो वेदतं त्वं परिहर प्रभुम्॥३७॥
समस्तजगतो मूलंसमस्तस्यावभासकम्‌।
यो वेदाऽऽत्मतया नित्य तं त्वं परिहर प्रभुम्‌॥३८॥
त्रिपुण्ड्रंभस्मनोस्कन्धे ललाटे च तथा हृदि।
यो दधाति महाप्रीत्या तं त्वंपरिहर प्रभुम्‌॥३९॥
अग्निरित्यादिभिर्मन्त्रैर्भस्मनैवावगुण्ठितम्।
यः करोति स्वकं देहं तं त्वंपरिहर प्रभुम्‌॥४०॥
नित्यं लिङ्गेमहादेवं साक्षात्संसारमोचकम्।
आराधयति यो मर्त्यस्तं त्वंपरिहर प्रभुम्॥४१॥
रुद्राक्षं त्रीणि षड्वैकंपरया श्रद्धया सह।
दधाति नित्यं यो मर्त्यस्तं त्वं परिहर प्रभुम्‌॥४२॥
शान्तिदान्त्यादिसंयुक्तः शंकरे भक्तिसंयुतः।
यः सर्वकर्मसंन्यासी तं त्वं परिहर प्रभुम्‌॥४३॥
वेदान्तश्रवणं नित्यं मननं चिन्तनं तथा।
यः करोति महाप्रीत्या तं त्वं परिहर प्रभुम्॥४४॥
वेदवेदान्तनिष्ठस्य गुरोः शुश्रूषणे रतः।
यः करोतीह शुश्रूषां तं त्वंपरिहर प्रभुम्‌॥४५॥
यज्ञदानतपोहोमस्वाध्यायाध्ययनादिभिः।
यो रुद्रं यजते प्रीत्या तं त्वं परिहर प्रभुम्‌॥४६॥
श्रौतस्मार्तसदाचारैरन्यैरपि शिवार्चनम्‌।
यः करोति महाप्रीत्या तं त्वं परिहर प्रभुम्॥४७॥
उत्कर्षं सर्वदेवेभ्यः शिवस्य परमात्मनः।

यो न वक्ति सदा प्रीत्या तं त्वं घातय दुजनम्‌॥४८॥
महादेवसमं विष्णुं ब्रह्माणं चान्यमेव वा।
मनुते यः स्वमोहेन तं त्वंघातय दुर्जनम्‌॥४९॥
श्रौतस्मार्तसदाचाराञ्श्रद्धयैव दिने दिने।
यो नाऽऽचरति मोहेन तं त्वंघातय दुर्जनम्‌॥५०॥
मानुषं दैविकं चान्यत्स्वशरीरेऽङ्कनंनरः।
यः करोति भ्रमाद्वाऽपि तं त्वंघातय दुजनम्‌॥५१॥
ऊर्ध्वपुण्ड्रंत्रिशूलंवा वर्तुलंयस्तु वैदिकः।
दधाति मोहतो वाऽपि तं त्वंघातय दुर्जनम्‌॥५२॥
अश्रौताचारसंपन्नः श्रौताचारपराङ्मुखः।
गुरुद्रोही च यो मर्त्यस्तं त्वंघातय दुर्जनम्‌॥५३॥
उत्कर्षं वेदमार्गस्य यो न जानाति मानवः।
वेदादन्यस्य चोत्कर्षं तं त्वं घातय दुर्जनम्‌॥५४॥

सूत उवाच—

एवमुक्त्वा मुनिः श्रीमाञ्शतानन्दसमाह्वयः।
कैलासमगमद्रुद्रं तत्र स्तोतुंकुतूहलात्‌॥५५॥
यमोऽपि संगिरं विप्राः समाहूयाऽऽदरेण च।
विनैव वेदं तर्कस्य केवलस्यपरिग्रहात्‌॥५६॥
त्वया भुक्तं महादुःखमप्रसह्यमनेकशः।
पुराकृतेन पुण्येन महादेवप्रसादतः॥५७॥
षडक्षरमहामन्त्रश्रवणाच्च तथैव च।
दुःखादपि विनिर्मुक्तस्त्वं महात्मन्सुखप्रदम्‌॥५८॥

ब्राह्मण्यं प्राप्य वेदस्य विदित्वा वैभवं पुनः।
तदुक्तं धर्ममास्थाय पुनर्वेदान्तवाक्यजम्‌॥५९॥
शिवज्ञानमवाप्याऽऽशु विमुक्तो भव बन्धनात्‌।
इत्युक्वाऽऽशु यमः श्रीमानगमत्स्वपुरं प्रति॥६०॥
अतो वेदोदितो ह्यर्थः सम्यगर्थःसुनिश्चितः।
तर्कसिद्धोऽतिदुःस्थोऽर्थःप्रत्यवायस्य कारणम्‌॥६१॥
बहवः केवलंतर्कं समाश्रित्य विना श्रुतिम्‌।
रौरवादिषु संतप्ता अभवन्वेदवित्तमाः॥६२॥
हैतुकैः सह वासश्च सह पङ्क्तौतु भोजनम्‌।
स्पृष्टिस्तेषां नराणां तुनरकाय न संशयः॥६३॥
हैतुकस्तुमहापापी महापातकिना समः।
न तस्य निष्कृतिस्तस्माद्धैतुकं परिवर्जयेत्॥६४॥
तस्माद्वेदोदितेनैव प्रकारेण विचक्षणः।
विजानीयादनात्मानमनित्यमिति निश्चितम्‌॥६५॥
आत्मनोऽन्यस्य सर्वस्य यदनित्यत्ववेदनम्‌।
तद्धिसंसारवैराग्यजनकं नापरं द्विजाः॥६६॥
विरक्तस्य हि संसारात्किमन्यत्काङ्क्षितंभवेत्‌।
वैराग्ये सति संसारात्सर्वदुःखं न विद्यते॥६७॥

—————————————————————————————————————————————

१६—६४॥तस्मादिति। यस्माच्छुष्कतर्केणावधृतोऽर्थउक्तरीत्यामहादुःखहेतुस्तस्मादेव वाक्योक्तप्रकारेणैव वियदादिकं सर्वमनात्मप्रपञ्चमनित्यमिति जानीयात्‌॥६५॥ तस्य चानित्यत्ववेदनस्य वेराग्यजननद्वारा निःशेषदुःखनिवृत्तिनिरतिशयानन्दाभिव्यक्तिलक्षणहेतुत्वमाह—आत्मनोऽन्यस्येत्यादिना॥

रागेणैव हि संसारमहादुःखं तु देहिनाम्‌।
विरक्तस्य न रागोऽस्ति ततो वैराग्यतः सुखम्‌॥६८॥
तस्माद्वैराग्यलाभाय चराचरमिदं जगत्‌।
अनित्यमिति जानीयादनात्मानमशेषतः॥६९॥
घटादीनामनित्यत्वं स्वत एव प्रकाशते।
गृहप्रासादपूर्वाणामपि वेदविदां वराः॥७०॥
पुत्रमित्रकलत्रादिभोगो विद्युदिव स्वतः।
विनश्यति महामोहान्नित्यं तं मनुते जनः॥७१॥
मण्डलाधिपतिर्मर्त्योमहाभोगसमन्वितः।
विनाऽऽधिपत्यं तत्तूष्णींभूतो दृष्टः स्वभावतः॥७२॥
तथा राजा महाभूमेःस्वयमेकोऽधिपः सुखी।
विना राज्यसुखं दुःखी दृष्टः सर्वजनैरपि॥७३॥
एवं सत्यपि मोहान्धतमसा परिवेष्टितः।
ईहते सुखभोगाय त्वहो मोहस्य वैभवम्‌॥७४॥
परलोकसुखं चापि कर्मणासाध्यते यतः।
अतस्तदपि विप्रेन्द्रा नश्यत्येव न संशयः॥७५॥

——————————————————————

६६—६९॥ इत्थमनातमत्वहेतुना जडप्रपञ्चस्य सामान्येनानित्यत्वं प्रतिपाद्यविशेषतोऽपि प्रतिपादयति—घटादीनामित्यादिना॥७०—७४॥ऐहिकसुखवत्स्वर्गादिब्रह्मलोकान्तस्यपारलौकिकसुखस्याप्यनित्यत्वंप्रतिपादयति—परलोकेति।यागहोमादिक्रियासाध्यत्वात्स्वर्गलोकादिसुखमपिलौकिकक्रियासाध्यस्त्र्यन्नपानाद्युपभोगसुखवद-नित्यमेवेत्यर्थः। श्रूयते हि—“तद्यथेहकर्मचितो लोकः क्षीयत एवमेवामुत्र पुण्यचितो लोकः क्षीयते ” इति॥७५॥
अथ वियदादिक्रमेण सृष्टानां भूतानां विपरीतक्रमेण स्वस्वकारणेषु लयमाह—

महाभूमिरियं नष्टा भविष्यति महोदधौ।
प्रलयेतद्गता लोका अपिनश्यन्तिसर्वथा॥७६॥
समुद्राः सप्त विप्रेन्द्रा नश्यन्ति बडबानले।
बडबाच महावह्नौवह्निर्वायौविनश्यति॥७७॥
वायुर्नश्यति चाऽऽकाशेतथाऽऽकाशः स्वकारणे।
शब्दादीनि च भूतानि नश्यन्त्येव न संशयः॥७८॥
भूतानामपि नाशेन भौतिकान्यखिलान्यपि।
नश्यन्त्येव स्वभावेन किं नित्यं गम्यतेऽनघाः॥७९॥
ब्रह्मान्ताः स्तम्बपूर्वाश्च चेतना विविधा अपि।
नश्यन्त्येवस्वभावेन किं नित्यं गम्यतेऽनघाः॥८०॥
विष्णुर्विश्वजगद्योनिः प्रादुर्भावैःस्वकैःसह।
विनाशं प्रलये याति किं नित्यं गम्यतेऽनघाः॥८१॥

——————————————————————

महाभूमिरित्यादिना। विद्यमान एव कारणे भोक्तॄणामदृष्टवशात्कार्यस्य तत्र लयात्।न तुकारणद्रव्यनाशात्कार्यद्रव्यनाश इति वैशेषिकाद्यभिमतक्रमोयुक्त इत्यर्थः। कारणप्राप्तिर्हिकार्यस्य नाशोनाम मृत्कार्यस्य घटादेर्ध्वंसेपुनर्मृद्भावापत्तेर्दृष्टत्वात्‌। अतो विपरीतक्रमेणैव लयोन तु सृष्टिक्रमेणेत्यर्थः।स्मर्यते च—“जगत्प्रतिष्ठा देवर्षेपृथिव्यप्सुप्रलीयते।आपो ज्योतिषि लीयन्ते तेजो वायौप्रलीयते।वायुः प्रलीयतेव्योम्नितदव्यक्ते प्रलीयते।अव्यक्तं पुरुषे ब्रह्म निष्फलेसप्रलीयते” इति॥ बादरायणोऽपीममर्थमसूत्रयत्“विपर्ययेण तु क्रमोऽतउपपद्येच”इति।शब्दादीनांकारणानिशब्दतन्मात्राद्यात्मकान्याकाशादिसूक्ष्मभूतान्यपिविपरीतक्रमेण प्रलीयन्तइत्यर्थः॥७६–७९॥ब्रह्मान्ता इति।स्तम्बप्रभृतिचतुर्मुखान्ता ये जीवास्तेऽपि भूतकार्यस्वस्वोपाधिविलयेन लीयन्त इति नात्यन्तिको विलयस्तथासत्यागामिनि कल्पेपुनरन्येषामुत्पत्तौकृतनाशाकृताभ्यागमप्रसङ्गात्‌। अतो

अतः साक्षात्स्वयंज्योतिःस्वभावः परमेश्वरः।
एक एवद्विजा नित्यस्ततोऽन्यत्सकलंमृषा॥८२॥

अनात्मभूतं सकलंजडात्मकं

मृषेति पश्यञ्श्रुतितश्च युक्तितः।

क्रमेण शंभुं सततोदितं प्रभुं

प्रयाति सत्यं परिभाषितं मया॥८३॥

इति श्रीस्कान्दपुराणे सूतसंहितायामनित्यवस्तुविचारो
नामाष्टादशोऽध्यायः॥१८॥

————

एकोनविंशोऽध्यायः।

१९. नित्यवस्तुविचारः।

सूत उवाच—

अथातः संप्रवक्ष्यामि नित्यं वस्तु समासतः।
यज्ज्ञानेन शिवज्ञानं जायते सुदृढंद्विजाः॥१॥

——————————————————————

वासनाशेष एव जीवोपाधिप्रलय इत्यभिप्रायः।एक एवेति। निरुपाधिकःपरशिव एक एव परमार्थः। ब्रह्मविष्ण्वादिकः सर्वोऽपि सोपाधिकत्वान्मृषैवेत्यर्थः॥८०—८३॥

इति श्रीसूतसंहितातात्पर्यदीपिकायां चतुर्थे यज्ञवैभवखण्डे
अनित्यवस्तुविचारोनाम अष्टादशोऽध्यायः॥१८॥

——————

आत्मव्यतिरिक्तस्यभोक्तृभोग्यात्मकप्रपञ्चस्यानित्यत्वं प्रतिपाद्यसंभवच्छङ्कानिरासेनः नित्यत्वमात्मनः प्रतिपादयितुमध्याय आरभ्यते। अथात इति।यज्ज्ञानेनेति। यस्य नित्यवस्तुनो ज्ञानाच्छिवज्ञानं जायते तदनन्यत्वादित्यर्थः॥

य आत्मा केवलः शुद्धो निर्विकारो निरञ्जनः।
स एव नित्यश्चिन्मात्रःसाक्षी सर्वस्य सर्वदा॥२॥
अनित्यता जडस्यैव न चिद्रूपस्य वस्तुनः।
अनित्यता चितः कैश्चिन्न दृष्टा खलु सुव्रताः॥३॥
घटादिप्रत्ययस्यापि नानित्यत्वंविचारतः।
चित्तवृत्तिनिमित्ता हि प्रतीतिः प्रत्ययस्य तु॥४॥
प्रत्यये तु चिदाकारो वृत्त्याकारश्चसुव्रताः।

—————————————————————————————————————————

१॥ किं तन्नित्यवस्तु तदाह—य आत्मेति। निरञ्जनः। अञ्जनं मायातत्कार्यजातम्‌। यतस्तद्रहितोऽतो निर्विकारः सर्वविक्रियारहितः। अत एवशुद्धो निर्मलः। आत्मा सर्वप्रत्यग्भूतः।य एवंलक्षणः स एव नित्यः।एवंभूतस्य तस्य पारोक्ष्यं व्यावर्तयति—साक्षीति। यतः स आत्मा चिन्मात्रस्वरूपोऽतः सर्वदाऽतीतानागतादिसर्वेष्वपि कालेषुसर्वस्यापि साक्ष्यजातस्य साक्षीसाक्षाद्द्रष्टा।उक्तरीत्याऽनित्यत्वं जडप्रपञ्स्यैव न तु तत्साक्षिचैतन्यस्येत्यर्थः॥२॥ कुत इत्यत आह—अनित्यतेति। कैश्चिदपि साक्षिचैतन्यस्यानित्यत्वंच न दृष्टंतद्दर्शनसमयेऽपि तद्द्रष्टृत्वेनन साक्षिणः सद्भावावश्यंभावादित्यर्थः।एतत्स्वयमेवाग्रे प्रतिपादयिष्यति॥३॥ ननु मा भूत्साक्षिचैतन्यस्यानित्यत्वंतज्जातीयस्यायंघट इत्यादिविषयगोचरज्ञानस्यानित्यत्वं दृश्यतइत्याशङ्क्याऽऽह—घटादीति। विचारतः परमार्थतो निरूपणे घटादिगोचरस्य विज्ञानस्यानित्यत्वंनास्त्येवेत्यर्थः। नन्वयं घट इत्यादिज्ञानोदयसमये तत्पूर्वभाविघटगोचरं ज्ञानं नानुवर्तते कथं तस्य नित्यत्वमित्यत आह—चित्तवृत्तीति।चित्तं सत्त्वपरिणामरूपमन्तःकरणं तस्यार्थेन्द्रियसंप्रयोगवशाद्याघटादिविषयाकारा वृत्तिस्तस्या यदनित्यतत्वंतदेव तदभिव्यक्ते चैतन्येऽपि प्रतीयते स्फटिकेजपाकुसुमलौहित्यवन्न तु परमार्थत इत्यर्थः॥४॥ भवेदेवंयद्ययंघटइत्यादौज्ञानेस्फटिकजपाकुसुमादिवद्वृत्त्याकारश्चिदाकारश्चेतिविविक्तमाकारद्वयमनुभूयेत न तथाऽनुभूयत इत्यत आह—प्रत्ययइति। यद्यपिपरमार्थतोविविक्तमेवाऽऽकारद्वयंतथाऽप्यविद्यावशादग्न्ययःपिण्डवदेकाकारमेवावभासत

विद्यते मोहमाहात्म्यादेकाकारावभासनम्‌॥५॥
भावांशः करणांशश्चविद्यते प्रत्ययेऽपि च।
भावांशस्तु चिदाकारो वृत्त्यंशः करणांशकः॥६॥
वृत्त्यंश एव नष्टस्तु जडत्वात्कुम्भवस्तुवत्‌।
चिदंशो नैव नष्टः स्याददृष्टत्वात्तुकेनचित्‌॥७॥
अत्रापि ज्ञप्तिमात्रस्य विनाशो नैव दृश्यते।
वृत्तिग्रस्तस्य भावस्य खलु नाशः प्रकाशते॥८॥
अतो नाशप्रतीतिस्तु भ्रमो भावांशकस्य तु।
चित्तवृत्तावभिव्यक्तं चिदाकारं विमोहिताः॥९॥

—————————————————————————————————————————————

इति तत्रैकाकारो भ्रम इत्यर्थः॥५॥ एतदेवाऽऽकारद्वयमुपपादयति—भावांश इति। प्रतीयतेऽनेनेति प्रत्ययः। ‘एरच्‌’ इति करणार्थेऽच्प्र्त्ययः।एवं प्रत्ययशब्दस्य प्रकृतिप्रत्ययात्मकत्वात्तदर्थोऽपि प्रत्ययार्थ इति द्विधा भिन्नइत्यर्थः। तत्र यो भावांशोधात्वर्थभागः स चिदाकारः। यस्तु प्रत्ययार्थः सकरणांशः सोऽनित्योऽचिद्वृत्त्याकार इत्यर्थः॥६॥ अस्त्वेवं प्रत्ययस्याऽऽकारद्वैविध्यम्।तत्र करणांशस्यानित्यत्वंन तु प्रतीतेरित्यत्रकिं विनिगमनकारणमित्यतआह—वृत्त्यंशइति। अन्तःकरणपरिणामरूपो वृत्त्यंशोजडत्वाद्घटवदनित्यः।न तु चिदंशः। तन्नाशस्यकेनापि द्रष्टुमशक्यत्वान्नाशसाक्षितयाऽपि चितोऽवगतेरित्यर्थः॥ ७॥नन्वयं घट इति ज्ञानं पटज्ञानसमयेनास्ति यतस्तन्नाशोऽनुभूयत एवेत्यत आह—अत्रापीति। विषयाकारवृत्तिविशिष्टज्ञानस्यैव विशेषणभूतवृत्तिनाशान्नाशः प्रतीयतेतथा विशेषणभूतदण्डनाशेदण्डित्वनाशः।विशेष्यभूतज्ञप्तिमात्रस्य तु देवदत्तस्वरूपवन्नाशो नैवभवेदित्यर्थः॥८॥ यस्मादेवं विचारतो धात्वर्थस्यप्रतीत्यंशस्य विनाशोनास्त्यतः कारणात्तत्र विनाशप्रतीतिर्नाशवद्वृत्तितादात्म्याध्यासादेवेत्यर्थः।नन्वात्ममनःसंयोगादसमवायिकारणादात्मनि समवायिकारणे ज्ञानं जन्यते तच्चाऽऽशुतरविनाशीति वैशेषिकादयः संगिरन्ते तेषां किंमृलमित्याशङ्क्याऽऽह—

जातमित्यभिमन्यन्ते न विद्वांसः कदाचन।
वुत्तिनाशेन वृत्तिस्थं चिदाकारं मुनीश्वराः॥१०॥
अनभिव्यक्ततोऽज्ञानान्नष्टमेवेति मन्वते।
अतश्चैतन्यमात्रस्य नास्त्यनित्यत्वमास्तिकाः॥११॥
ज्ञाताज्ञातार्थजातस्य यः साक्षी भासते स्वयम्‌।
स एव साक्षाच्चिन्मात्रस्वभावात्मा न चापरः॥१२॥
तस्य जन्मविनाशौतु न विद्येते विचारतः।
जन्मकाले तु साक्षित्वाज्जन्मनो जनिरस्य न॥१३॥
विनाशे साक्षिणो नाशस्तथा नैव भविष्यति।
सत्ताकाले तु सत्त्वाच्च विनाशः सुतरां न हि॥१४॥

——————————————————————

चित्तवृत्ताविति। विषयसंप्रथोगानन्तरं तदाकारान्तःकरणवृत्तौजातायां तदभिव्यक्तं चैतन्यमप्यनाद्यविद्यापरिमोहिता जातमित्यभिमन्यन्ते। न तु विशेषज्ञाः॥९॥१०॥एवं भ्रमवशादेवभावांशकरणांशयोर्विवेकापरिज्ञानात्करणांशवृत्तिनाशे तदवच्छिन्नचैतन्यस्यापि तेषां नाशप्रतिभास इत्यर्थः॥११॥यद्येवमयं घट इत्यादिप्रत्ययेषु चिन्मात्रस्य नाशो नास्ति तर्हितेनैवाऽऽत्मनोऽद्वितीयत्वंविहन्यत इत्वत आह— ज्ञाताज्ञातेति। ज्ञातं ज्ञानेन विषयीकृतम्‌।अज्ञातमज्ञानक्रोडीकृतम्‌। तदुभयविधस्यार्थजातस्य यः साक्षी। सर्वं वस्तुज्ञाततयाऽज्ञाततया वा साक्षिचैतन्यस्य विषय एवेत्युक्तत्वात्‌। स एवसाक्षाच्चिन्मात्रस्वभावात्माघटपटाद्याकारवृत्तिविशेषेषु यदनुवृत्तंनित्यं निर्विशेषं चैतन्यंतच्च साक्षिस्वरूपंन ततोऽतिरिक्तमित्यर्थः॥१२॥अथ साक्षिचैतन्यस्यापिजन्मनाशौन स्त इति प्रतिपादयितुमुपक्रमते—तस्य जन्मेत्यादिना।साक्षिचैतन्यस्य जन्मसमये स्वजन्मनोभासकत्वेनावस्थानाभावेतदप्रतीतमेवस्यात्‌। प्रतीयते यस्मात्तदा तत्साक्षिसद्भावोऽङ्गीकर्तव्यः। तथा चास्याजनिरनुत्पत्तिरेवेत्यर्थः॥१३॥ एवं विनाशसमयेऽपि तत्प्रकाशनाय साक्षित्वेनावस्थाननियमान्नाशोऽप्यस्य नास्तीत्यर्थः।प्रतीतिसमये तु विद्यमानत्वादेवास्य

जन्मनाशप्रतीतिस्तु नान्तरेणैव साक्षिणम्‌।
जन्मनाशौमुनिश्रेष्ठाः स्वत एव न सिध्यतः॥१५॥
दृश्यत्वेन जडत्वाच्च घटकुड्यादिवस्तुवत्‌।
साक्षिणो जन्मनाशौ तुन चान्येनैव सिध्यतः॥१६॥
जडरूपेण चान्येन जन्मनाशौन सिध्यतः।
साक्षिरूपेण चान्येन जन्मनाशौन सिध्यतः।
अभावादेव चान्यस्य साक्षिरूपस्य सुव्रताः॥१७॥
साक्ष्याकारेण चैकत्वात्साक्षिभेदो न सिध्यति॥१८॥
साक्ष्यरूपेण भेदस्तुसाक्ष्यस्यैव न साक्षिणः।
साक्षिमात्रतया भेदाभावेऽप्यस्यैव साक्षिणः॥१९॥
विशेषाकारतो भेदं वदन्ति भुवि केचन।

——————————————————————

न नाश इत्यर्थः॥१४॥ ननु जन्मनाशसमये साक्ष्यवस्थानाभावेऽपि तत्तदाकारवृत्त्यवच्छिन्नचैतन्येनैव स्फुरणं संभाव्यतइत्यत आह—जन्मनाशेति।तद्वृत्त्यवच्छिन्नचैतन्यमेव साक्षीति जन्मनाशौसाक्षिणैव भास्येते इत्यर्थः।साक्षिणमन्तरेण प्रकाशमानौ जन्मनाशौकिं स्वप्रकाशत्वेन भासेते किंवाऽन्येन।तदाऽपि किं जडरूपेण साक्षिरूपेणेति विकल्प्याऽऽद्यं दूषयति—जन्मनाशाविति।साक्षिणमन्तरेण न सिध्यतः॥१५॥ घटादिवद्दृश्यत्वेन जडत्वनिर्धारणात्‌। नापि द्वितीये प्रथम इत्याह—जडरूपेणेति।न हि जडौजन्मनाशौजडेनान्येन प्रकाश्येते इति वक्तुंयुक्तम्‌। जडत्वाविशेषात्‌॥१६॥ नापि द्वितीयइत्याह। साक्षिरूपेणेति।एतत्साक्षिव्यतिरिक्तस्य साक्षिणोऽभावादित्यर्थः॥१७॥ननु घटसाक्षी पटसाक्षीति साक्षिभेदोऽनुभूयत एवेत्यत आह—साक्ष्याकारेणेति।साक्षित्वाकारेण सर्वत्र्यैक्यावगतेर्नतद्भेदशङ्कावकाशइत्यर्थः॥१८॥ ननुमा भूत्साक्षित्वाकारेण भेदः साक्ष्यरूपेण तद्भेदः किं न स्यादित्यत आह—साक्ष्यरूपेणेति।घटपटादिसाक्ष्यप्रयुक्तो भेदस्तु साक्ष्याणामेवतु तत्साक्षिणइत्यर्थः॥१९॥ विशेषाकारत इति। घटपटाद्याकारास्ते ज्ञानगता एवेति वदन्तो

ते महामोहसर्पेण दष्टाएव न संशयः॥२०॥
विशेषरूपं चिद्रूपं जडरूपं तु वा भवेत्‌।

न रूपान्तरमेव स्यात्तादृशस्यानिरूपणात्॥२१॥

चिद्रूपं साक्षिमात्रं स्यान्न चान्यत्परमार्थतः।

जडरूपं च नास्त्येव साक्षिणः परमार्थतः॥२२॥

चिद्रूपस्य जडाकारो विरोधान्नैव सिध्यति।

प्रकाशस्य तमो रूपं यथा लोके न सिध्यति

॥२३॥

अतो विशेषाकारेण भेदं ये सर्वसाक्षिणः।

वदन्ति ते महाभ्रान्ता निमग्नाश्च भवार्णवे॥२४॥

आत्मनः सर्वसाक्षित्वमेकत्वं च तथैव च।

नित्यत्वं चैव शुद्धत्वंभूमानन्दत्वमेव च।

ब्रह्मत्वं च द्विजा वेदा वदन्ति श्रद्धया सह॥२५॥

—————————————————————————————————————————

विज्ञानवादिनस्तत्तदाकारवशेनाऽऽत्मस्वरूपभूतस्यापि विज्ञानस्य नानात्वमिच्छन्तीत्यर्थः। तदेतन्निरस्यति—ते महामोहेति॥२०॥ किंतत्साक्षिणो विशेषरूपं चिदात्मकं जडं वेति विकल्पयति—विशेषरूपमिति॥२१॥ आद्यंनिरस्यति—चिद्रूपमिति। यदि विशेषरूपमपिचिदात्मकं स्यात्तदा साक्षिचैतन्यान्न व्यतिरिच्यत इत्यर्थः।द्वितीयं प्रत्याह—जडरूपमिति।साक्षिणो जडाकारो विशेषरूपोऽपि न युज्यते। तमःप्रकाशयोरिवचिज्जडयोरेकत्वविरोधादित्यर्थः॥ २२॥२३॥ अतो विशेषाकारेण साक्षिभेदवर्णनं भ्रान्तप्रलपितमित्युपसंहरति—अत इति॥२४॥ यथोदीरितसाक्षिसद्भावे श्रुतिंसंवादयति—वेदा वदन्तीत्यादिना। “साक्षी चेता केवलो निर्गुणश्च”इत्यात्मनः सर्वसाक्षित्वम्‌। तत्र हि साक्ष्यविशेषस्यानुपादानात्सर्वसाक्ष्यप्रतियोगित्वंसाक्षिणोऽवगम्यते। “एकमेवाद्वितीयं” “एको देवः सर्वभूतेषुगूढः” इत्येकत्वम्‌। नित्योनित्यानां चेतनश्चेतनानाम्‌” इति नित्यत्वम्‌। अस्नाविरूँ

स्मृतयश्च पुराणानि भारतादीनि चाऽऽस्तिकाः॥२६॥
महादेवश्च विष्णुश्च ब्रह्मा च मुनयस्तथा।
नित्यत्वं शुद्धबुद्धत्वमात्मनः प्रवदन्ति हि॥२७॥
तस्मादात्मैव विप्रेन्द्रा नित्यं वस्तु न चापरम्‌।
जिह्वायां परशुंतप्तं धारयामि न संशयः॥२८॥

इति श्रीस्कन्दपुराणे सूतसंहितायां चतुर्थे यज्ञवैभवखण्डे
नित्यवस्तुविचारो नाम एकोनविंशोऽध्यायः॥१९॥

विंशोऽध्यायः॥२०॥

॥ विशिष्टधर्मविचारः॥

सूत उवाच—

अथातः संप्रवक्ष्यामि विशिष्टं धर्ममादरात्‌।
शृणुतात्यन्तकल्याणं मुनयः परया मुदा॥१॥
पुरा वेदविदां मुख्याः कावषेया महर्षयः।
सत्रावसाने संभूय श्रद्धया परया सह॥२॥
विचार्यसुचिरं कालंविशिष्टं धर्ममास्तिकाः।

——————————————————————

शुद्धमपापविद्धम्”इति शुद्धत्वम्। “या वैभूमा तत्सुखम्‌” इति भूमात्मकत्वम्।“विज्ञानमानन्दं ब्रह्म” इत्यानन्दब्रह्मात्मकत्वं च श्रुतयः प्रतिपादयन्तीत्यर्थः॥२५॥ न केवलं श्रुतय एवतदर्थानुसारिस्मृतिपुराणेतिहासादयोऽपि साक्षिण उक्तरूपं प्रतिपादयन्तीत्याह—स्मृतयश्चेति॥२६—२८॥

इति श्रीस्कान्दपुराणे श्रीसूतसंहितातात्पर्यदीपिकायां यज्ञवैभवखण्डे
नित्यवस्तुविचारो नाम एकोनविंशोऽध्यायः॥१९॥

——

यस्मादुक्तरीत्याऽऽत्मस्वरूपमेवनित्यमतस्तद्गोचरंवेदान्तवाक्यमेवमुख्यंप्रमाणंतज्जनितंपरशिवात्मविषयंज्ञानमेव परमो धर्मइति प्रतिपादयितुमध्यायआरभ्यते—अथात इति॥१॥२॥ पुनः संशयमापन्ना इति। ईश्वरार्प-

पुनः संशयमापन्ना विषण्णा विवशाश्च ते॥३॥
गत्वा हिमवतः पार्श्वंत्रिकालस्नानसंयुताः।
भस्मोद्धूलितसर्वाङ्गास्त्रिपुण्ड्राङ्कितमस्तकाः॥४॥
रुद्राक्षमालाभरणा जटावल्कलसंयुताः।
लिङ्गार्चनपरा नित्यं शंभोरमिततेजसः॥५॥
तप्तवन्तस्तपः सर्वे वत्सराणां त्रयं महत्‌।
महादेवप्रसादेन महाकारुणिकोत्तमः॥६॥
शक्तिपाणिर्महातेजा द्वितीय इवशङ्करः।
स्कन्दः सर्वजगत्स्वामी प्रत्यक्षमभवत्स्वयम्॥ ७॥

तं दृष्ट्वामुनयः सर्वे प्रसन्नेन्द्रियमानसाः॥
भक्त्यापरमया युक्ता विवशा गद्गदस्वराः॥८॥
प्रणम्य दण्डवद्भूमावुत्थायोत्थाय सादरम्‌।
स्तोत्रैः स्तुत्वा महात्मानं समभ्यर्च्ययथाबलम्‌॥९॥
कृताञ्जलिपुटा भूत्वापप्रच्छुर्धर्ममुत्तमम्‌।
सोऽपि सर्वजगत्स्वामी तारकारिर्महाद्युतिः॥१०॥
सर्वविज्ञानरत्नानामाकरः करुणाकरः।

सुप्रसन्नः स्वयं प्राह मुनीनां धर्ममुत्तमम्‌॥११॥

स्कन्द उवाच—

शृणुध्वंमुनयः सर्वेमहाभाग्यसमन्विताः।
वदामि संग्रहेणाहं युष्माकं धर्ममुत्तमम्‌॥१२॥

—————————————————————————————————————————

णबुद्ध्याऽनुष्ठितैर्यागहोमादिभिःप्रक्षीणकल्मषाःकावषेयाः पुनःप्रतिबन्धकदुरितलेशावशेषेणनानाविधैरागमैर्बहुधोच्यमानंतत्त्वमिदमीदृगिति विचार्यनिश्वेतुमशक्ता; सन्तः संशयाविष्टा एवाभवन्नित्यर्थः॥३—१२॥ वेदा-

स्वमनीषिकयोत्पन्नो निर्मूलोधर्मसंज्ञितः।
श्रद्धया सहितो यस्तुसोऽपि धर्मउदाहृतः॥१३॥
निर्मूलोऽपि स्वबुद्ध्यैव कल्पितोऽपि महर्षयः।
देवताराधनाकारो धर्मःपूर्वोदिताद्वरः॥१४॥
देवताराधनाकारान्निर्मूलाद्बुद्धिकल्पितात्‌।
धर्माच्छ्रेष्ठः समाख्यातः समूलो धर्मआस्तिकाः॥१५॥
समूलेषु च धर्मेषु बुद्धागमसमन्वितः।
धर्मःश्रेष्ठ इति प्रोक्तो मया वेदार्थपारगाः॥१६॥
बुद्धागमोदिताद्धर्मादर्हागमसमीरितः।
धर्मःश्रेष्ठ इति प्रोक्तोधर्मतत्त्वविशारदैः॥१७॥
अर्हागमोदिताद्धर्मात्प्राजापत्यागमोदितः।
धर्मःश्रेष्ठ इति प्रोक्तः सर्वधर्मार्थवेदिभिः॥१८॥
प्राजापत्यागमप्रोक्ताद्धर्माद्वेदविदां वराः।
मया श्रेष्ठ इति प्रोक्तो धर्मो विष्ण्वागमोदितः॥१९॥
विष्ण्वागमोदिताद्धर्मादशेषादास्तिकोत्तमाः।

—————————————————————————————————————————————

न्तवाक्यजनितस्य च ज्ञानस्य परमधर्मत्वं सत्स्वेवापरधर्मेष्वित्यभिप्रेत्य तानुत्तरोत्तरमुत्कृष्टत्वेनप्रतिपादयति—स्वमनीषिकयेत्यादिना।शास्त्रादनवगम्यैवबुद्ध्युत्प्रेक्षामात्रेण यत्तपः क्रियते स धर्मो भवति। निर्मूलो मूलागमराहितः॥१३॥पुरुषोत्प्रेक्षामात्रनिबन्धनो धर्मोदेवताराधनरूपश्चेत्तदा पर्वोक्ताद्धर्माद्देवताराधनविलक्षणाच्छ्रेष्ठः। एवमुत्तरत्रापि योज्यम्‌॥१४॥ समूलइति। मूलभूतप्रमाणसहित इत्यर्थः॥१५॥ बुद्धागमेति। बुद्धप्रोक्ताआगमा बुद्धागमाः॥१६॥अर्हागमेति।क्षपणकागम इत्यर्थः॥९७॥ प्राजापत्यागमेति। ब्रह्मणा प्रोक्तोब्रहमविषयो वाऽऽगमः।विष्ण्वागमशैवागमशब्दयोरप्येवमेवार्थः॥१८—२०॥ उक्तधर्मस्य द्वैविध्यमाह—अधःस्रोतोद्भव

शैवागमोदितो धर्मो वरिष्ठ नैव संशयः।
शैवागमोदितो धर्मो द्विधा पूर्वमुदीरितः॥२०॥
अधःस्रोतोद्भवस्त्वेकऊर्ध्वस्रोतोद्भवोऽपरः॥२१॥
अधःस्रोतोद्भवाद्धर्मादूर्ध्वस्रोतोद्भवःपरः।
कामिकादिप्रभेदेन स भिन्नोऽनेकधा द्विजाः॥२२॥
अधःस्रोतोद्भवो धर्मोबहुधा भेदितस्तथा।
ऊर्ध्वस्रोतोद्भवाद्धर्मात्स्मार्ताधर्मामहत्तराः॥२३॥
स्मार्तेभ्यः श्रौतधर्माश्च वरिष्ठा मुनिसत्तमाः।
तेषां शान्त्यादयः श्रेष्ठास्तेषां भस्मावगुण्ठनम्‌॥२४॥
रुद्राक्षधारणं चापि शिवाद्याख्याभिभाषणम्‌।
शिवलिङ्गार्चनं भक्त्याशिवोऽहमिति भावना॥२५॥
शिवज्ञानैकनिषठस्य शुश्रूषा च विशिष्यते।
तेषां वेदान्तवाक्यानां तात्पर्यस्यनिरूपणम्‌॥२६॥

——————————————————————

इति। अधःस्रोतांसि लीलाविग्रहधारिणः परशिवस्य नाभेरधोभागस्तदुद्भवोधर्मोऽधःस्रोतोद्भवः।ऊर्ध्वस्रोतांसीशानतत्पुरुषादिपञ्चवक्त्राणितदुद्भवोधर्मऊर्ध्वस्रोतोद्भवःकामिकादिमेदेन बहुधा भिन्नः। उक्तं ह्यागमिकैः—‘सद्योजातमुखाज्जाताः पञ्चाऽद्याः कामिकादयः। वामदेवमुखाज्जाता दीप्ताद्याः पञ्चसंहिताः॥ अघोरवक्त्राद्भूताःपञ्चाऽऽप्तिविजयादयः। पुंवक्त्रादपिचोद्भूताः पञ्च वै रौरवादयः। ईशानवदनाज्जाताः प्रोद्गीताद्यष्ट संहिताः’ इति॥२१॥२२॥ अधःस्रोतोद्भव इति। अधःस्रोतोद्भवोऽपि धर्मःकापालादिमतभेदेन बहुधा भेदित इत्यर्थः। स्मार्ताधर्माइति। मन्वादिस्मृतिपुराणस्था इत्यर्थः॥२३॥ तेषामिति।श्रौतधर्माणां मध्ये ये प्रवृत्तिहेतवो यागहोमाद्यास्तेभ्योऽपि निवृत्तिहेतवःशन्तिदान्त्यादयः श्रेयांस इत्यर्थः॥२४—२६॥ उक्तानां धर्माणां

वरिष्ठं सर्वधर्मेभ्यो ज्ञानं मोक्षैकसाधनम्‌।
ज्ञानान्नास्ति परो धर्मइति वेदार्थनिर्णयः॥२७॥
पूर्वोदितेभ्यः सर्वेभ्यः सत्यधर्मपरायणाः।
ज्ञानाङ्गेभ्यःसमासेन भस्मैकं परमं मतम्‌॥२८॥
भस्मसाधननिष्ठानां साक्षाद्भस्म शिवाभिधम्‌।
प्रकाशते यथा शान्त्याशान्तं वस्तु परात्परम्‌॥२९॥
ज्ञानस्य कारणेभ्यस्तु श्रुतिरेव महत्तरा।
ज्ञानानां शंभुविज्ञानं वरिष्ठं नेतरद्भवेत॥३०॥
वेदवाक्यसमुत्पन्नंशिवज्ञानं निरूपणे।
सम्यग्ज्ञानं मयाऽऽख्यातमितरद्व्यवहारतः॥३१॥
चोदनालक्षणो धर्मो धर्मःसाक्षान्निरूपणे।
इतरो व्यवहारे तु धर्म इत्यभिशब्द्यते॥३२॥

—————————————————————————————————————————

पूर्वस्मात्पूर्वस्मादुत्तरोत्तरो धर्मो यथोत्कृष्यते एवंवेदान्तवाक्यजनिताज्ज्ञानादपि कश्चिदुत्कृष्टो धर्मोऽस्तीत्यत आह—ज्ञानान्नास्तीति॥२७॥ शान्तिदान्त्यादिभ्थोऽपि भस्मावगुण्ठनस्य वैशिष्ट्यमाह—पूर्वोदितेभ्यइति॥२८॥साक्षद्भस्मशिवाभिधमिति।तदुक्तं प्राक्‌—‘शिवस्वरूपं परमंभासनाद्भस्म संमतम्‌’इति॥२९॥ श्रुतिरेव महत्तरेति।ज्ञानसाधने सर्वाधिकेत्यर्थः। शंभुविज्ञानमिति। वेदान्तवाक्यजनितं यत्परशिवस्वरूपविषयं ज्ञानंतदेव विषययाथार्थ्यात्प्रत्यक्षादिप्रमाणजनितज्ञानानां मध्ये प्रशस्ततरमित्यर्थः॥३०॥३१॥ चोदनालक्षण इति। चोदना वेदवाक्यं तत्प्रतिपादितो धर्मः।तथा च जैमिनिसूत्रम्—“चोदनालक्षणोऽर्थो धर्मः” इति।यद्येवं तदतिरिक्तेष्वागमादिसिद्धेवु पूर्वोक्तेष्वर्थेषु धर्मशब्दप्रयोगः कथमित्यत आह—इतरो व्यवहार इत्यादि॥३२॥ आस्तिक्यान्वयमात्रेणेति। यथा श्रौतधर्मेष्वास्तिक्यं तथैव तदितरधर्माभासेऽपि तद्दर्शनात्तत्रधर्मशब्दप्रयोगोगौण

आस्तिक्यान्वयमात्रेण धर्माभासेऽपि सुव्रताः।
प्रयुक्तो धर्मशब्दस्तुमुख्यो धर्मस्तु वेदजः॥३३॥
यथा शंभुसमो देवो नास्तिपुण्यवतां वराः।
तथा वेदसमं मानं नास्ति तत्र न संशयः॥३४॥
यथा विप्रसमो मर्त्योनास्ति वेदविदां वराः।
तथा वेदसमं मानं नास्ति तत्र नसंशयः॥३५॥
यथैवान्नसमं भोज्यं नास्ति लोके विचक्षणाः।
तथा वेदसमं मानं नास्ति तत्र न संशयः॥३६॥
यथा गङ्गासमा पुण्या नदी लोके न विद्यते।
तथा वेदसमं मानं नास्ति तत्र न संशयः॥३७॥
यथा वाराणसीतुल्यापुरी लोके न विद्यते।
तथा वेदसमं मानं नास्ति तन्न न संशयः॥३८॥
यथा दभ्रसभातुल्यं स्थानं लोके न विद्यते।
तथा वेदसमं मानं नासि तत्र न संशयः॥३९॥
षडक्षरसमो मन्त्रो यथा लोके न विद्यते।
तथा वेदसमं मानं नास्ति तत्र न संशयः॥४०॥
यथा गुरूसमस्त्राता नास्तिसंसारसागरात्‌।
तथा वेदसमं मानं नास्तितत्र न संशयः॥४१॥
अतश्च संक्षेपमिमं वदामि वःश्रुतिः प्रमाणं शिव एव
केवलः। वरिष्ठ उक्तः सितभस्मगुण्ठनं विशुद्धविद्या
च न चेतरत्परम्‌॥४२॥

सूत उवाच—

एवमुक्त्वामुनीन्द्रेभ्यः श्रीमान्बर्हिणवाहनः।

जगत्स्वामी महातेजास्तत्रैवान्तर्हितोऽभवत्॥ ४३॥
कावषेया अपि श्रेष्ठा प्रसादात्तारकारिणः।
महादेवं महात्मानं ददृशुः स्वयमागतम्‌॥४४॥
तं प्रणम्य महादेवं सर्वज्ञमपराजितम्‌।
श्रीमत्पञ्चाक्षरेणैव पूजयामासुरादरात्‌॥४५॥
देवदेवो महादेवो देवानामपि देशिकः।
मुनिभ्यः कावषेयेभ्यः स्वात्मज्ञानं ददौ मुदा॥४६॥
मुनीन्द्रा अपि ते सर्वेविशुद्धज्ञानिनांवराः।
प्रणम्य देवमीशानं साम्बं संसारभेषजम्‌॥४७॥
प्रसादयित्वा देवेशं कृतार्थाआत्मवेदनात्‌।
निःस्पृहाः स्वात्मनोऽन्यत्र ययुर्हिमवतो गुहाम्‌॥४८॥

विशिष्टधर्मःकथितः समासतो

मयैव वेदार्थविचारणक्षमः।

इतोऽतिरिक्तं सकलंपलालव-

द्वृथा न लाभाय विशुद्धचेतसाम्‌॥४९॥

इति श्रीस्कान्दपुराणे सूतसंहितायां यज्ञवैभवखण्डे
विरिष्टधर्मविचारो नाम विंशोऽध्यायः॥२०॥

——————————————————————

इत्यर्थः॥३३॥ अथ बहुभिर्निदर्शनैःश्रुतिप्रमाणस्योत्कर्षं प्रतिपादयति—यथा शंभुसम इत्यादिना॥३४— ४७॥निःस्पृहाः स्वात्मनोऽन्यत्रेति।सच्चिदानन्दैकरसस्वस्वरूपानुसंधानादन्यस्मिन्धर्मेनिःस्पृहाः। श्रूयते ह्यैतरेयके—“एतद्ध स्म वैतद्विद्वांस आहुर्ऋषयः कावषेयाः किमर्था वयमध्येष्यामहेकिमर्थावयं यक्ष्यामहे”इति॥४८॥४९॥

इति श्रीस्कान्दपुराणे सूतसंहितातात्पर्यदीपिकायां विशिष्टधर्मविचारो

नाम विंशोऽध्यायः॥२०॥

——

एकविंशोऽध्यायः।

२१. मुक्तिसाधनकथनम्‌।

सूत उवाच—

अथातः संप्रवक्ष्यामि मुक्तिसाधनमास्तिकाः।
शृणुत श्रद्धया सार्धं साक्षाद्वेदान्तदर्शितम्‌॥१॥
पुरा श्वेता(देवा)दिऋष्यन्ता मुनयो मुनिसत्तमाः।
संख्या च शतमेतेषां सह द्वादशसंख्यया॥२॥
त एते भस्मदिग्धाङ्गास्त्रिपुण्ड्राङ्कितमस्तकाः।
रुद्राक्षमालाभरणा रुद्राराधनतत्पराः॥३॥
तपश्चेरुर्महातीव्रंपरया श्रद्धया सह।
श्रीमद्दक्षिणकैलासे साक्षात्संसारनाशके॥४॥
यस्य दर्शनमात्रेण पापानि सकलानि तु।
नश्यन्ति वह्निसंयुक्तं यथा तूलंप्रदह्यते॥५॥
यस्मिन्निवसतां नॄणामशेषाणां महेश्वरः।
ददाति परमां मुक्तिमचिरेण द्विजोत्तमाः॥६॥

——————————————————————

अथ मुक्तेरन्तरङ्गबहिरङ्गसाधनप्रतिपादनव्याजेन शमदमादिसाधनसंपन्नस्यैवतत्राधिकारो नान्यस्येति प्रतिपादयितुमुपक्रमते—अथात इति।वेदान्तदर्शितमिति। “शान्तो दान्त उपरतस्तितिक्षुः समाहितो भूत्वाऽऽत्मन्येवाऽऽत्मानंपश्येत्‌” इति वेदान्तवाक्यप्रतिपादितमित्यर्थः॥१॥तच्चोक्तसाधनमीश्वरानुग्रहेणैव लभ्यमिति ज्ञापयितुं पुरावृत्तमुदाहराति—पुरेति॥देवपदपूर्वकऋषिशब्दान्तिमशब्दवाच्याः देवर्षिसंज्ञका मुनयः सर्वधर्मज्ञा इत्यर्थः॥तेषामृषीणां द्वादसंख्यया सह शतंद्वादशशतसंख्याका मुनय इत्यर्थः॥२॥३॥ पुण्यक्षेत्रवासोऽपि मुक्तावुपायइत्याभिप्रेत्याऽऽह—श्रीमद्दक्षिण-

यत्र भस्मरतानां तु द्विजानां प्रतिवत्सरम्।
यथाशक्ति धनं दत्त्वा मुच्यते भवबन्धनात्‌॥७॥
यत्र प्रतिदिनं पुंसां भक्तानामीश्वरस्य तु।
मुष्टिमात्रप्रदानेन महापापाद्विमुच्यते॥८॥
यत्र साक्षाच्छिवज्ञाननिष्ठस्यातिप्रियेण तु।
भोजनं च तथा वस्रं दत्त्वा मुच्येत बन्धनात्‌॥९॥
यत्र जप्तं हृतं दत्त चिन्तितं च दिने दिने।
ब्राह्मणानां तथाऽन्येषामनन्तं भवति ध्रुवम्‌॥१०॥
तपसा शंकरस्तेषां प्रसन्नः करुणानिधिः।
सांनिध्यमकरोत्तंत्र शक्त्यापरमया सह॥११॥
तं दृष्ट्वासास्बमीशानं साक्षात्संसारभेषजम्‌।
प्रणम्य दण्डवद्भूमौ पप्रच्छुर्मृक्तिसाधनम्‌॥१२॥
देवोऽपि करुणाविष्टः साक्षात्संसारमोचकः।
मुनीनामुग्रतपसां बभाषे मुक्तिसाधनम्‌॥१३॥
वक्ष्यामि परमं गृह्यं मुक्तिसाधनमादरात्‌।
वर्णाश्रमसमाचारादेव मुक्तिर्नचान्यतः॥१४॥
स्वजातिविहितं धर्मं यः करोति प्रियेण तु।
स जायते कुले मुख्ये विप्राणामीश्वराज्ञया॥१५॥
स पुनर्जातकर्मादिसंस्कारैरपि संस्कृतः।

——————————————————————

कैलासइत्यादिना॥४—१४॥ स्वजातिविहितमिति। ब्राह्मणक्षत्रियवैश्यशूद्राणां मध्ये यस्य यो धर्मो विहितः स स्वजातिविहितः।ब्राह्मणस्य यजनादिकं क्षत्रियस्य राज्यपरिपालनादिकं वैश्यस्य कृषिगोरक्षादिकं शूद्रस्य द्विजशुश्रूषेत्येतस्वजातिविहिता धर्माः॥१५॥ वेदानधीत्य विधिवादिति। अने-

उपनीतो गुरोर्वेदानधीत्य विधिवत्पुनः॥१६॥
दारानाहृत्ययज्ञं च दानंच विविधं तथा।
तपश्च विविधं घोरं कृत्वाकामनया विना॥१७॥
प्रनष्टपापः शुद्धान्तःकरणो ज्ञानवाञ्छया।
विरक्तः सर्वलोकेभ्यो दोषाणां तुनिरूपणात्‌॥१८॥
चित्तपाकानुगुण्येन प्रव्रज्यांकुरुते पुनः।
तत्रामुमुक्षुःसंन्यासी प्रेरितः परमेश्वरात्‌॥१९॥
कुटीचकाभिधां वृत्तिं वृत्तिं वाऽथ बहूदकाम्‌।
हंसवृत्तिंतु वा नित्यं वाञ्छते मुनिसत्तमाः॥२०॥
मुमुक्षुर्भिक्षुको नित्यं परहंसाभिधां शुभाम्‌।
वृत्तिमिच्छति देवेशप्रसादेन द्विजोत्तमाः॥२१॥
कुटीचकादिवृत्तिस्थो मुक्तिमिच्छति चेद्द्विजाः।
परहंसाभिधां वृत्तिं प्राप्नुयाच्छंकराज्ञया॥ २२॥

——————————————————————

नैव ब्रह्मचारिणामनुष्ठानमुक्तम्‌॥१६॥ दारानाहृत्येत्यादिनागार्हस्थ्याश्रमधर्मप्रतिपादनम्‌। तपश्च विविधमिति वानप्रस्थाश्रमधर्माः। कामनया विनेति।फलानुसंधानविरहेणकेवलमोश्वरार्पणबुद्ध्यैवानुष्ठितावर्णाश्रमधर्माअघ्ययनादयःपापप्रणाशनेन चित्तशुद्धिद्वारा परंपरया मुक्तिसाधनत्वंप्रतिपद्यन्त इत्यर्थः।श्रूयते हि—“तमेतंवेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन” इति॥१७॥ एवमाश्रमत्रयानुष्ठितैःकर्मभिश्चित्तशुद्धौजातायांसंसारदोषदर्शनात्ततो वैराग्यं जायत इत्याह—विरक्त इति॥१८॥ प्रव्रज्यांकुरत इति। “यदहरेव विरजेत्तदहरेवप्रव्रजेत्‌” इति श्रुतेः॥१९॥२०॥वैराग्यजननानन्तरं चित्तैकाग्र्यलाभायसंन्यास एव कर्तव्य इत्याह—भिक्षुकइति।साधनचतुष्टयान्तर्वर्तियन्मुमुक्षुत्वंतदीश्वरप्रसादेन परमहंसस्यैवजायते नान्येषांकुटीचकादीनामित्यर्थः॥२१॥ कुटीचकादिभिरपि

सर्वेषामेव भिक्षूणां शान्तिर्दान्तिस्तितिक्षुता।
स्नानं शौचमहिंसा च मिथ्याभाषणवर्जनम्‌॥२३॥
अग्निरित्यादिभिर्मन्त्रैर्भस्मनोद्धूलनं तथा।
त्रिपुण्ड्रधारणं साक्षाद्ब्रह्मविष्णुशिवात्मकम्‌॥२४॥
लिङ्गे शिवार्चनं नित्यं धर्मःप्रोक्तः सनातनैः।
साक्षाद्वेदान्तवाक्यानां श्रवणं मननं तथा॥२५॥
निदिध्यासनमाचार्यपरिचर्याप्रियेण तु।
परहंसस्य धर्मोऽयं विशेषेण समीरितः॥२६॥
पूर्वपुण्यबलात्साक्षात्प्रसादाच्च शिवस्य तु।
ब्रह्मात्मविषयं ज्ञानं लभते भिक्षुकोऽचिरात्‌॥२७॥
ज्ञानाद्वेदान्तवाक्योत्थान्मुक्तिं भिक्षुरवाप्नुयात्‌।
विना ज्ञानेनमुक्तिस्तु न सिध्यति न सिध्यति॥२८॥

——————————————————————

यदा मुक्तिरन्विष्यते तदा तैरपि परमहंसाश्रम एव स्वीकर्तव्य इत्याह—कुटीचकादीति॥२२॥ अथ वेदान्तज्ञानोत्पत्तावन्तरङ्गसाधनभूतांस्तुरीयाश्रमधर्मानाह—सर्वेषामित्यादिना। शान्तिर्ज्ञानेन्द्रियाणाम्‌ निग्रहः। दान्तिः कर्मेन्द्रियाणां निग्रहः। तितिक्षुता शीतोष्णसुखदुःखादिद्वंद्वसहिष्णुत्वम्‌।शान्त्यादीनि द्वंद्वाद्युपघातकत्वेन परंपरयामुक्तिसाधनानि॥२३—२४॥वेदान्तवाक्यश्रवणादिकमव्यवधानेन मुक्तिसाधनमित्यर्थः। तत्र श्रवणंनाम वेदान्तवाक्यानामद्वितीये परशिवरूपे तात्पर्येण प्रतिपादनसामर्थ्यावधारणम्‌।श्रुतस्यार्थस्यासंभावनाविपरीतभावनानिरासाय युक्तिभिरनुचिन्तनंमननम्‌॥२५॥एवंश्रवणमननाभ्यामवधृतस्थार्थस्यसाक्षात्कारोपयोगिचित्तैकाग्र्यलाभायविजातीयप्रत्ययानन्तरितसजातीयप्रत्ययप्रवाहरूपेणध्यानं निदिध्यासनम्‌। एतेषां तत्साधनत्वं श्रूयते—“आत्मा वाअरे द्रष्टव्यः श्रोतव्यो मन्तन्यो निदिध्यासितव्यः” इति॥२६॥२७॥ज्ञानादिति। इत्थमध्ययनयजनशमदमाद्यन्तरङ्गबहिरङ्गसाघनकलापसहकृताद्वे-

मुक्तिसाधनमाख्यातं संग्रहेण मुनीश्वराः।
ज्ञाने यूयमपि श्रद्धांकुरुध्वं यत्नतः सदा॥२९॥

सूत उवाच—

इत्युक्त्वा भगवान्‌ रुद्रः साक्षात्संसारमोचकः।
आगमान्तैकसंवेद्यस्तत्रैवान्तर्हितोऽभवत्‌॥३०॥
भवन्तोऽपि प्रसदेन शिवस्य परमात्मनः।
मत्तो लब्धपरिज्ञाना अभवन्नचिरेण तु॥३१॥
श्रीमद्दक्षिणकैलासं सर्वस्थानोत्तमोत्तमम्।
वाञ्छितार्थप्रदं नॄणामिति वित्त विचक्षणाः॥३२॥
श्रीमद्दक्षिणकैलासमदृष्ट्वामुक्तिमिच्छतः।
नास्ति संसारविच्छित्तिः सत्यं सत्यंन संशयः॥३३॥
वर्णाश्रमसमाचारं विना कैवलस्यमिच्छतः।
नास्ति कैवल्यसंसिद्धिःसत्यं सत्यंन संशयः॥३४॥
विष्णुप्रजापतीन्द्रेभ्यः शिवस्याऽऽधिक्यमादरात्‌।
अविज्ञाय न संसारान्मुच्यते जन्मकोटिभिः॥३५॥
प्रत्यग्ब्रह्मैकताज्ञानं विना कैवल्यमिच्छताम्।
नास्ति कैवलस्यमित्येषाशाश्वती श्रुतिराह हि॥६६॥

——————————————————————

दन्तवाक्यश्रवणाद्यद्वाक्यजं ब्रह्मात्मैकत्वविषयं ज्ञानं जायते तदेवमुक्तिसाधनंनान्यदित्यर्थः॥ २८—३१॥ इति वित्त विचक्षणा इति। उक्तप्रकारेण वित्त जानीतेत्यर्थः॥३२॥ पुण्यक्षेत्रवासवर्णाश्रमधर्मादीनामुक्तं मुक्तिसाधनत्वंव्यतिरेमुखेन द्रढयति—श्रीमद्दक्षिणकैलासमिति॥३३–३५॥शाश्वती श्रतिराह हीति।‘ब्रह्म वेद ब्रह्मैव भवति’‘तरति शोकमात्मवित्‌’इति ब्रह्मात्मैकत्वविद एव मुक्तिं ब्रूते भेददर्शिनस्तु ‘अथ योऽन्यां देवतामु-

भगवानपि सर्वज्ञः शिवः कारुणिकोत्तमः।
विना वेदान्तविज्ञानं न मुक्तिरिति चाऽऽह हि॥३७॥
विष्णुप्रजापतीन्द्रादिदेवताश्च तथैव च।
विना ज्ञानं न कैवल्यमित्याहुर्वेदवित्तमाः॥३८॥
मुनयश्च महात्मानः सत्यसंधा जितेन्द्रियाः।
विना ज्ञानं न कैवल्यमित्याहुर्वेदवित्तमाः॥३९॥
अथ किंबहुनोक्तेन मुनीन्द्रा वेदवित्तमाः।
मुक्तिसाधनविज्ञानं वेदादेव न चान्यतः॥४१॥
वेदमार्गजनितं तु वेदनं दोषहीनमतिशोभनं सदा।
अन्यमार्गजनितं विचारतो वेदमार्गरुचिकारणं क्रमात्‌॥

इति श्रीस्कान्दपुराणे सूतसंहितायां चतुर्थे यज्ञवैभवखण्डे
मुक्तिसाधनविचारो नामैकविंशोऽध्यायः॥२१॥

द्वाविंशोऽध्यायः।

२२. मार्गप्रामाण्यवर्णनम्‌।

सूत उवाच—

अथातः संप्रवक्ष्यामि मार्गप्रमाण्यनिर्णयम्‌।
श्रद्धया सहिता यूयं शृणुध्वंमुनिपुङ्गवाः॥१॥

——————————————————————

पास्तेऽन्योऽसावन्योऽहमस्मीति न स वेद’इत्यज्ञत्वं प्रतिपादयतीत्यर्थः॥३६—४०॥अन्यमर्गेति। वेदव्यतिरिक्तैगमान्तरैः प्रतिपादितमर्थजातमुक्तरूपवेदान्तविज्ञाने परमपुरुषार्थेरुचिजननद्वारोपयुज्यतेनतुस्वातन्त्र्येणपुरुर्थसाधनपमित्यर्थः॥४१॥

इति श्रीस्कान्दपुराणे सूतसंहितातात्पर्यदीपिकायां चतुर्थे यज्ञवैभवखण्डे
मुक्तिसाधनविचारो नामैकविंशोऽध्यायः॥२१॥

ननु बौद्धार्हताद्यागमानां वेदविरुद्धार्थप्रतिपादकानां वेदैकसमधिगम्ये

वेदांश्च धर्मशास्त्राणि पुराणं भारतं तथा।
वेदाङ्गान्युपवेदांश्च कामिकाद्यागमानपि॥२॥
कापालंलाकुलंचैव तयोर्भेदान्द्विजर्षभाः।
तथा पाशुपतं सोमं भैरवप्रमुखागमान्‌॥३॥
तेषामेवोपभेदांश्च शतशोऽथ सहस्रशः।
विष्ण्वागमांस्तथा बाह्यान्बुद्धार्हाद्यागमानपि॥४॥
लोकायतं तर्कशास्त्रंबहुविस्तरसंयुतम्‌।
मीमांसामतिगम्भीरां सांख्ययोगौतथैव च॥५॥
अनेकभेदभिन्नानि तथा शास्त्रान्तराणि च।
निर्ममे शंकरः साक्षात्सर्वज्ञःसंग्रहेणतु॥६॥
प्रसादादेव रुद्रस्य ब्रह्मविष्ण्वादयः सुराः।
सिद्धविद्याधरा यक्षा राक्षसाद्यास्तथैव च॥७॥

——————————————————————

ब्रह्मात्मैकत्वविज्ञाने रुचिजनकत्वंनोपपद्यतेऽतो वैदिकमार्गव्यतिरिक्तानां सर्वेषामप्रामाण्यमेवेत्याशङ्क्यतत्प्रामाण्यं समर्थयितुमारभते—अथात इति॥१॥श्रुतिस्मृत्यादिभिः शैवपाशुपतबुद्धाद्यागमैः समये नानाविधा मार्गाः प्रतिपादितास्तेषामधिकारिभेदेन प्रामाण्यनिर्णयः क्रियत इत्यर्थः। उपवेदांश्चेति। आयुर्वेदधनुर्वेदादय उपवेदाः॥२—५॥निर्ममे शंकर इति। श्रतिस्मृतीतिहासपुराणादीनि वैदिकानिशास्त्राणितदर्थानुसारिशैवपाशुपताद्यागमान्बुद्धार्हतादिबहुभेदभिन्नान्वेदविरुद्धांश्च सर्वज्ञःशिव एव स्वशक्त्या निर्मितवानित्यर्थः।अतः सर्वज्ञेनशिवेनैव प्रणीतत्वदेषां मध्ये कस्यचिदप्यप्रामाण्यं नयुक्तमिति भवः॥६॥ ननु ब्राह्मवैष्णवबुद्धाद्यागमेषु ब्रह्मविष्ण्वादितत्तदागमप्रणेतारः पुरुषविशेषाः स्मर्यन्ते। तथा सांख्यतर्कादिशास्त्रेषुकपिलकणादजैमिनिप्रभृतयो निर्मातारः प्रसिद्धाः।अतः शिवस्यैव निर्माणमनुपपन्नमित्यत आह—प्रसादादेवेति। परमेश्वरानुग्रहादेवब्रह्मविष्ण्वादयस्तन्निर्मिता-

मुनयश्चमनुष्याश्चयथाभाग्यं द्विजोत्तमाः।
तान्येव विस्तरेणैव संग्रहेणैव वा पुनः॥८॥
कुर्वन्ति तानि नामानि कथितानि मनीषिभिः।
अधिकारिविभेदेन नैकस्यैवसदा द्विजाः।
तर्कैरेते हि मार्गास्तुन हन्तव्या मनीषिभिः॥९॥
यथा तोयप्रवाहाणां समुद्रः परमावधिः।
तथैव सर्वमार्गाणां साक्षान्निष्ठा महेश्वरः॥१०॥
येन येन प्रकारेण जनैरेभिरुपासितः॥११॥
तत्तन्मार्गानुगुण्येन साधकत्वं ह्युपैति सः।
तत्प्रसादात्क्रमान्मार्गान्विशिष्टानेति मानवः॥१२॥
तत्र तत्र स्थितो देवः प्रसादं कुरुतेऽस्य तु।

—————————————————————————————————————————

नागमान्स्वस्वव्यवहारसिद्धयेपुनः संग्रहविस्तराभ्यांकुर्वन्ति। कपिलकणभुग्जैमिनिप्रभृतयो मुनयश्च स्वशिष्यबुद्धिगुणानुसारेण परमेश्वरनिर्मितान्येव शास्त्राणि तत्प्रसादादेव पुनः संग्रहविस्तराभ्यांकुर्वन्तीत्यविरोधः॥७॥८॥ यद्यप्येवमीश्वरनिर्मितत्वात्सर्वेषां प्रामाण्यं तथाऽपि परस्परविरुद्धार्थप्रतिपादकत्वादप्रामाण्यमपिस्यादित्यतआह—अधिकारीति।यथा ‘उदिते जुहोति’‘अनुदिते जुहोति’इत्यादिविरुद्धार्थप्रतिपादकानां वाक्यानामधिकारिभेदाद्विरोधाभावेन प्रामाण्यमेवमत्रापीत्यर्थः। एवमेते मार्गाःशुष्कतर्कबलान्न बाध्या इत्यर्थः॥९॥साक्षान्निष्ठेति। सर्वेष्वपि मार्गेष्वस्तिकश्चिद्देव इति संमतत्वात्तस्यच परमेश्वरव्यतिरिक्तस्याभावात्तत्तदागमोक्तगुणवैशिष्ट्येन शिवःप्रतिपाद्यत इति भवतितस्मिन्सर्वेषां मार्गाणां पर्यवसानमित्यर्थः॥१०॥ येन येनेति। नानाविधागमोक्तेनयेन येनोपाधिना परमेश्वर उपास्यते तत्तदागमानुसरेण तत्तदुपाधियुक्तः परमेश्वरोभवतीत्यर्थः।तप्प्रसादादिति।तत्तदागमप्रतिपाद्यतयाऽवास्थितस्य शिवस्य प्रसादादेवोत्तरोत्तरमुत्कृष्टान्मार्गान्साधको लभत इत्यर्थः॥११॥१२॥सोपानक्रमत इति।तत्र तत्राऽऽगमेषुतत्तद्देवतारूपो देवः सोपानक्र-

सोपानक्रमतो देवा वेदमार्गस्य हेतवः।
वेदमार्गस्थितो देवः साक्षान्मुक्तेस्तुकारणम्‌॥१३॥
तत्रापि कर्मभागस्थो ज्ञानश्रद्धाप्रदो हरः।
ज्ञानभागस्थितः शंभुर्ज्ञानद्वारेणमोक्षदः॥१४॥
एकरूपा परा मुक्तिस्ततस्तद्विषया मतिः॥१५॥
एकरूपा भवेन्नैव नानारूपा भविष्यति।
वेदान्तः शंकरं साक्षान्निर्विशेषाद्वयात्मना॥१६॥
वक्ति मार्गान्तरान्नैंवं ततो विद्या तु वेदजा।
अतो मार्गान्तराज्जाता मतयो मुनिसत्तमाः।
अविद्या नैव विद्याः स्युरिति सम्यङ्निरूपणम्‌॥१७॥

————————————————————————————————————————

मेण वेदमार्गप्राप्तौकारणम्‌।स एव वेदमार्गप्रतिपादितः सन्मुक्तिहेतुर्भवतीत्यर्थः॥१३॥ कर्मभागस्थइति।कर्मकाण्डेस्थितो विविदिषाप्रद इत्यर्थः।उपनिषत्सु प्रतिपाद्यतया स्थितः शिवः स्वयाथात्म्यज्ञानजननेन मुक्तिप्रद इत्यर्थः॥१४॥ ननु मार्गान्तरज्ञानैरपि साक्षान्मुक्तिःकिंनस्यादित्याशङ्क्यतेषामवस्तुविषयत्वेनाविद्यात्वंप्रतिपादयन्नौपनिषदज्ञानस्य विद्यारूपतामाह—एकरूपेत्यादिना। मुक्तिस्वरूपस्य सर्वेष्वपि मार्गेषु परमपुरुषार्थत्वेन संमतत्वात्तस्यनित्यत्वमेष्टव्यम्‌।तच्च निर्विशेषस्यैवघटते। सविशेषस्य भेदसव्यपेक्षस्वाद्भेदस्य च निर्वक्तुमशक्यत्वात्तस्य प्रागुपपादितत्वात्कल्पितत्वेन ज्ञाननिवर्त्यत्वे सतिभेदसापेक्षं सविशेषं मुक्तिस्वरूपमपि निवर्तेत। तथा च तन्मुक्तिस्वरूपंसविशेषकं स्वर्गादिवदनित्यमेव स्यात्‌।अतो निर्विशेषमेव तदिति तद्गोचरंज्ञानमपि तथाविधम्‌। तदिदमुक्तं निर्विशेषाद्वयात्मनेति। “एकमेवाद्वितीयंब्रह्म” “अशब्दमस्पर्शमरूपमव्ययम्‌” “ब्रह्म वेद ब्रह्मैव भवति” इत्यादिश्रुतिरेवनिर्विशेषं मुक्तिस्वरूपंप्रतिपादयति।ततश्चाबाधितविषयत्वादुपनिषद्वाक्यजनितं ज्ञानमेव विद्या मार्गान्तरात्तुनैवं निर्विशेषमुक्तिस्वरूपमवगम्यते।जीवेश्वरादिभेदादिविशेषमेवभवति।तज्जनितज्ञानानां बाधितविषयत्वादविद्या-

तस्मान्मार्गान्तराणां तु प्रामाण्यं वेदवित्तमाः॥१८॥
मुक्तेरन्यत्र नात्रैव क्रमेणैवात्र मानता।
अतो वेदान्तभागस्थो महादेवोऽचिरेण तु॥१९॥
मुक्तिं ददाति नान्यत्र स्थितः सोऽपि क्रमेण तु।
ददाति परमां मुक्तिमियेषा शाश्वती श्रुतिः॥२०॥
अतो वेदस्थितो मर्त्योनान्यमार्गं समाश्रयेत्‌।
वेदमार्गैकनिष्ठानां किंचिदपि दुर्लभम्‌॥२१॥
अत्रैव परमा मुक्तिर्भुक्तयश्चात्र पुष्कलाः।
अतोऽधिकारिभेदेन मार्गा मानं न संशयः॥२२॥
ईश्वरस्य स्वरूपे च बन्धहेतौतथैव च।
जगतः कारणे मुक्तौज्ञानादौच तथैव च॥२३॥

—————————————————————————————————————————

त्वमतो न तेषां मुक्तिसाधनत्वमित्यर्थः॥१५—१७॥ यदिमार्गान्तरजनितामतयोऽविद्यास्तर्हितेषामप्रामाण्यमेवेत्याङ्क्याऽऽह—तस्मादिति।मुक्तेरन्यत्रेति। मुक्तिव्यतिरिक्त एवविषये मार्गान्तरस्य प्रामाण्यं न तुमुक्तौ। तत्रापि पूर्वोक्तसोपानक्रमेण वेदमार्गप्राप्तिद्वारा प्रामाण्यम्‌। नान्यत्रेति। वेदान्तवाक्यप्रतिपाद्यतया शिवः साक्षान्मुक्तिप्रदः।आगमान्तरे त्ववस्थितो न साक्षान्मुक्तिं ददाति।किंतूत्तरोत्तरविशिष्टमार्गप्राप्त्येति।“तंत्वौपनिषदं पुरुषं पृच्छामि” इत्यादावुपनिषत्स्वेवाधिगत औपनिषद इत्युपनिषदेकवेद्यस्य परशिवस्य परमपुरुषार्थप्रदत्वेन श्रुतत्वादित्यर्थः॥१८—२०॥नान्‍यमार्गंसप्राश्रयेदिति। वेदमार्गस्य साक्षान्मुक्तिप्रदत्वादित्यर्थः॥२१॥अतोऽधिकारीति।वेदमार्गानधिकृतान्बौद्धार्हताद्यधिकारिविशेषान्प्रति तत्तन्मार्गप्रामाण्यमस्त्येवेत्यर्थः॥२२॥ नन्वेषांमार्गाणां परस्परविरुद्धार्थप्रतिपादकानांप्रामाण्यंनोपपद्यते प्रबलतरश्रुतिप्रमाणविरुद्धार्थप्रतिपादकत्वादित्यतआह—ईश्वरस्येत्यादिना।तत्रेश्वर-रूपादौमार्गाणां विप्रतिपत्तिरस्ति।तथाहि—तत्र “ईश्वर एव नास्ति” इति सांख्या मीमांसकाश्च।अस्ति पुण्य-

मार्गाणां ये विरुद्धांशावेदान्तेन विचक्षणाः।
तेऽपि मन्दमतीनां हि महामोहावृतात्मनाम्‌।
वाञ्छामात्रानुगुण्येन प्रवृत्ता न यथार्थतः॥२४॥
दर्शयित्वा तृणं मर्त्योधावन्तीं गां यथाऽग्रहीत्‌॥२५॥
दर्शयित्वा तथा क्षुद्रमिष्टं पूर्वंमहेश्वरः।
पश्चात्पाकानुगुण्येन ददाति ज्ञानमुत्तमम्‌॥२६॥
तस्मादुक्तेन मार्गेण शिवेन कथिता अमी।
मार्गामानं न चामानं मृषावादी कथं शिवः॥२७॥
महाकारुणिको देवः सर्वज्ञो निर्मलःखलु।

————————————————————————————————————

पापाशयैरपरामृष्टः पुरुषविशेष”इति पातञ्जलाः। “नित्यज्ञानाधारः”इतितार्किकाः। तथा “प्रकृतिपरुषयोरविवेकात्क्षेत्रज्ञस्य संसारः” इति सांख्यादयः। “तस्यस्वार्जितपुण्यपापवशाद्बन्घ इति तत्कारणं प्रकृतिरिति प्रकृतिपुरुषयोर्विवेकज्ञानेन भ्रमापगमे स्वरूपेणावस्थानं मुक्तिः” इति सांख्यादयः। “बुद्धिसुखदुःखादिनवगुणानामनात्मपदार्थेभ्यःपुरुषान्याथाख्यातिविरहादत्यन्तोच्छेदो मुक्तिः” “इति तार्किकादयः। एवमन्येषामपि वादिनां मतेषुविषयेषु भूयस्यो विप्रतिपत्तय एवमाद्या वेदान्तविरुद्धा अन्यमार्गेषु दृश्यन्ते।तत्सर्वमर्थजातमनादिमायया मोहितानामत एवाल्पबुद्धीनां वेदानधिकृतानांबौद्धादीनां प्रथमत एवात्यन्तसूक्ष्मपरशिवस्वरूपग्रहणसामर्थ्याभावाद्वेदविरुद्धमपि प्रतिबन्धकपापक्षयार्थं तत्तल्लोकप्राप्तिरूपफलप्रदानेन वशीकरणार्थं चप्रथममीश्वरेणोपदिष्टंन परमार्थत इत्यर्थः॥२३॥२४॥ तत्र दृष्टान्तः दर्शयित्वोति।यथा गांजिघृक्षन्पुरुषः प्रथमं तृणादिकं दर्शयित्वा तांगह्णात्येवंपरमेश्वरोऽपि तत्तन्मार्गानुरूपमिष्टं प्रापयित्वा वशीकृत्य तत्तन्मार्गोक्तज्ञानेन प्रतिबन्धकपापक्षये सति तेषां चित्तपरिपाकानुसारेण निःश्रेयससाधनंपरमपुरुषार्थभूतं ज्ञानमपि क्रमेण प्रयच्छतीत्यथः॥२५॥२६॥ मार्गान्तराणामपि प्रतिपादितं प्रामाण्यमुपसंहरति—तस्मादिति। यस्मादुक्तप्र-

तथाऽपि वेदो मार्गाणामुत्तमः सर्वसाधकः॥२८॥
सर्वमुक्तं समासेन मार्गप्रामाण्यनिर्णयम्‌।
एवं बुद्ध्वाश्रुतौश्रद्धांकुरुध्वं यत्नतो द्विजाः॥२९॥

इति श्रीस्कान्दपुराणे सूतसंहितायां चतुर्थे यज्ञवैभवखण्डे
मार्गप्रामाण्यवर्णनं नाम द्वाविंशोऽध्यायः॥२२॥

त्रयोविंशोऽध्यायः।

२३. शङ्करप्रसादक्रमवर्णनम्‌।

सूत उवाच—

अथातः संप्रवक्ष्यामि प्रसादक्रममादरात्‌।
यस्य विज्ञानमात्रेण प्रसादः शांकरो भवेत्‌॥१॥
पुरा सनत्कुमाराख्यो मुनिः सत्यपरायणः।
ब्रह्माणं ब्रह्मसंपन्नमपृच्छदिदमादरात्‌॥२॥
सोऽपि सर्वजगद्धाता सह तेन मुनीश्वराः।
नारायणमनाद्यन्तमपृच्छदिदमुत्तमम्‌॥३॥

——————————————————————

कारेण शिवेनैवोपदिष्टाः सर्वे मार्गास्तस्मात्तत्सर्वंप्रमाणमेव। अन्यथा मृषावादित्वप्रसङ्गादित्यर्थः॥२७—२९॥

इति श्रीसूतसंहितातात्पर्यदीपिकायांचतुर्थेयज्ञवैभवखण्डे मार्गप्रमाण्य

वर्णनं नाम द्वाविंशोऽध्यायः॥२२॥

————

पूर्वास्मिन्नध्याये तत्र तत्र स्थितो देवः प्रसादंकुरुत इति तत्तदुपाधिविशिष्टस्येश्वरप्रसादकर्तृत्वप्रतिपादनात्तत्तत्प्रसादोऽप्युपाधिवशान्नानाविधइतिसूचितम्‌। ते च मुमुक्षुणा पुरुषेण संपादनीयास्तत्र [कीदृक्प्रसादानन्तरं]कीदृक्प्रसाद इत्ति क्रमजिज्ञासायां तन्निर्णयायाध्याय आरभ्यते—अथात इति॥

सोऽपि नारायणः श्रीमान्सह ताभ्यामुमापतिम्‌।
कैलासशिखरे रम्ये समासीनमतिप्रभुम्‌॥४॥
प्रणम्य दण्डवद्भक्त्यास्तुत्वारुद्रेण सुव्रताः।
अपृच्छद्देवदेवेशमिदं परमकारणम्‌॥५॥
देवदेवोऽपि सर्वज्ञः साम्बःसर्वफलप्रदः।
प्राह गम्भीरया वाचा विष्णवे मुनिपुङ्गवाः॥६॥
तच्छ्रुत्वा भगवान्‌ व्यासः साक्षात्प्रत्यक्षशङ्करात्‌।
सनत्कृमारात्सर्वज्ञादुक्तवान्ममसादरम्‌॥७॥
अहंभाग्यवतामद्य युष्माकं मुनिपुङ्गवाः।
केवलं कृपया वक्ष्ये तदेव परया मुदा॥८॥
नित्यकर्माद्यनुष्ठानात्पापनाशोभवत्यतः।
चित्तशुद्धिर्भवेज्जन्तो रुद्रस्यैव प्रसादतः॥९॥
तया संसारदोषस्य दर्शनं भवति स्वतः।
ततो विरक्तिः संसारात्पुनस्त्यागश्च कर्मणाम्‌॥१०॥
विरिञ्चस्य प्रसादेन ततः शान्त्यादिसाधनम्‌।

—————————————————————————————————————

१—८॥नित्यकर्मादीति। आदिशब्देन नैमित्तिकसंग्रहः। फलादिविरहेणेश्वरार्पणबुद्ध्यावर्णाश्रमादिविहितयोर्नित्यनैमित्तिकयोर्यदनुष्ठानं तेन तत्त्वज्ञानप्रतिबन्धकपापक्षयोभवति।अयं प्रथमः प्रसादः।अत इति। अस्मादेव पापक्षयात्मकात्प्रसादाच्चित्तशुद्धिर्भवति कालुष्यहेतोः पापस्य तदा प्रक्षीणत्वादित्यर्थः। रुद्रस्यैवेति। संहृतिव्यापारस्तमोगुणोपाधिकः शिवो रुद्रस्तत्प्रसादात्संहर्त्रीश्वरसाक्षात्कारेणात्र विरक्तिर्जायते पुनस्तत्प्रसादादेव वैराग्यवशाद्यज्ञदानादिकर्मत्यागलक्षण उत्तमाश्रमस्वीकारोभवतीत्यर्थः।रद्रोहि सर्वंसंहरत्यतस्तत्प्रसादादस्यापि प्रवृत्तिमार्गनिवर्तकत्वंयुक्तम्‌॥९॥१०॥

प्रसादाद्वैष्णवात्साक्षान्मुमुक्षुत्वंपुनः स्वतः॥११॥
विघ्नराजप्रसादेन गुरुपादपरिग्रहः।
तेन योगाभिधं ध्यानमैश्वरं ज्ञानसाधनम्‌॥१२॥
पुनः सांख्याभिधं ज्ञानं पार्वत्यास्तु प्रसादतः।
सांख्यस्योत्पत्तिवेलायां मोचकस्य शिवस्यतु॥१३॥
प्रसादो जायते तेन संसारस्य विमर्दनम्‌।
संसारमोचकः साक्षाच्छिव एव न चापरः॥१४॥
अन्याश्च देवताः सर्वाः प्रणाड्यैव हि मोचकाः।
अनेकजन्मसंसिद्धःश्रौतस्मार्तपरायणः॥१५॥
क्रमेणैव महादेवं मोचकं परमेश्वरम्‌।

————————————————————————————————————————

विरिञ्चस्येति। ततः कर्मत्यागानन्तरं सृष्टिव्यापारस्य रजोगुणोपाधिकस्यप्रसादेन शमादिकं ज्ञानात्पत्तावन्तरङ्गत्वेनान्त्याश्रमधर्मत्वेन विहितं साधनकलापंलभत इत्यर्थः।ब्रह्मणोरजोगुणवशात्प्रवर्तकत्वात्तत्प्रसादस्यापि शान्त्यादिसाधनेषुप्रवृत्तिहेतुत्वं युक्तम्‌।प्रसादाद्वैष्णवादिति। सत्त्वगुणोपाधिको विष्णुस्तदीयप्रासादाद्भवति मुमुक्षुत्वम्‌। दग्धार्धकायः पुरूषोविचारमन्तरेण झटितिजले निमज्जत्येवमेव संसारतप्तस्यपरुषस्य या मोक्षाविषया हठात्प्रवृत्तेच्छा सामुमुक्षुत्वं तद्विष्णोः प्रसादाज्जायत इत्यर्थः॥११॥एवंत्रिमूर्तिप्रसादेनसाधनचतुष्टयसंपन्नस्यगरूपसत्तिकरो विनायकप्रसाद इत्याह—विघ्नराजेति। योगाभिधमिति।गृरूपदिष्टेश्वरस्वरूपविषयं साक्षात्कारज्ञानसाधनंयोगाख्यं प्रत्यस्तमितविजातीयप्रत्ययसजातीयप्रत्ययप्रवाहरूपकंध्यानं गुरुप्रसादाल्लभत इत्यर्थः।सांख्याभिधमिति। सम्यक्ख्यायतेज्ञायतेऽनयेति साक्षात्कारज्ञानजननी बुद्धिःसंख्या तज्जन्यंसांख्यंतथाविधं ज्ञानं पार्वतीप्रसादाल्लभत इत्यर्थः।उक्तंहि—“पार्वती परमा देवी ब्रह्मविद्याप्रदायिनी” इति।संसारस्य विमर्दनमिति। साक्षात्कारज्ञानोत्पत्तिस्तमये जायमानः परशिवप्रसताद एव साक्षात्संसारस्यनिवृत्तिंकरोतीत्यर्थः॥१३॥१४॥ प्रणाड्यैवेति। उक्तरीया साक्षा-

प्राप्नुयादप्रमादेन मुमुक्षुरिति हि श्रुतिः॥१६॥
प्रसादहेतुभूतेषु प्रणवाख्योमहामनुः।
वरिष्ठः कथितः प्राज्ञैर्देवतासु विरोषतः॥१७॥
विष्णुर्मुख्य इति प्रोक्तस्तथा सकलधर्मतः।
रुद्राराधनमेवोक्तं वरिष्ठटमिति वैदिकेः॥ १८॥
ओंकारस्य प्रसादेन विष्णोश्चैव प्रसादतः।
रुद्राराधनवाञ्छा स्यात्तदाराधनतः पुनः॥१९॥
ज्ञानमानन्दमद्वैतं परं ब्रह्माधिगच्छति।
प्रसादादेव रुद्रस्य ज्ञानं मोक्षैकसाधनम्‌॥२०॥
देवयानाभिधा विष्णोर्गतिः स्रष्टुःप्रसादतः।
ब्राह्मण्यं कीर्तिरिन्दोश्च खेरारोग्यमेव तु॥२१॥
अग्नेरैश्वर्यमतुलं पितृयाणो यमस्य तु।
पुरंदरस्य सौभाग्यं बलंवायोः प्रसादतः॥२२॥
विघ्नराजस्य देवस्य कार्यसिद्धिरविघ्नतः।
षण्मुखस्य प्रसादेन सर्वसिद्धिरयत्नतः॥२३॥
भारत्याश्चप्रसादेन वाग्विभूतिरयत्नतः।

—————————————————————————————————————————

त्संसारमोचकोनिरुपाधिकः परशिव एव।सोपाधिकास्तु ब्रह्मविष्ण्वाद्या वैराग्यादिजननेन परंपरयैव मोचका इत्यर्थः॥ १५॥ अप्रमादेनेति। “प्रणवो धनुःशरो ह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते। अप्रमत्तेन वेद्धव्यं शरवत्तन्मयो भवेत्‌ ”इत्येषा श्रुतिः प्रमादरहितस्य सावधानस्य मुमुक्षोः परशिवप्राप्तिंप्रतिपादयतीत्यर्थः॥ १६॥वरिष्ठः काथित इति। ‘सर्वे वेदा यत्पदमामनन्तितपांसिसर्वाणि च यद्वदन्ति।यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं संग्रहेण ब्रवीम्योमित्येतत्” हति श्रुतेरित्यर्थः॥ १७—१९॥ज्ञानमानन्दमिति।

श्रीदेव्यास्तु प्रसादेन सर्वैश्वर्यमयत्नतः॥२४॥
दुर्गादेव्याः प्रसादेन सर्वत्र विजयो भवेत्‌।
कामिनां देवताः सर्वाःसांसारिकफलप्रदाः॥२५॥
कामनारहितानां तु शुद्धिद्वारेण देवताः।
महादेवप्रसादस्य हेतुभूताभवन्ति हि॥२६॥
महादेवप्रसादस्तु न हेतुः कस्यचिद्द्विजाः।
स्वयं भुक्तिकरः पुंसां कामिनामचिरेण तु॥२७॥
स्वयं मुक्तिकरः साक्षात्कामनारहितस्य तु।
चिरेणैव तु कालेन शिवस्यैवप्रसादतः॥२८॥
देवता भुक्तिदा एव मुक्तिदा न स्वतन्त्रतः।
महादेवप्रसादेन समः कश्चिन्नविद्यते॥२९॥
महादेवप्रसादेन खलुविष्णुपदं द्विजाः।
ब्रह्मेन्द्रादिपदं चापि न स्वतः सर्वदेहिनाम्‌॥३०॥
प्रसादे सति देवस्य शिवस्य परमात्मनः।
वैदिकानां तथाऽन्येषामपि मुक्तिर्हिसिध्यति॥३१॥
ब्राह्मणाश्च विमुच्यन्ते प्रसादेन शिवस्य तु।
क्षत्रियाश्च तथा वैश्याः शूद्रा अपि च संकराः॥३२॥
पाषण्डिनो विमुच्यन्ते प्रसादेन शिवस्य तु।

—————————————————————————————————————————

सत्यज्ञानानन्दैकरसमित्यर्थः॥२०—२४॥ कामिनामिति। फलकामनापुरःसरं देवताराधनं कुर्वतां विष्ण्वाद्या देवता यथोदीरितदेवयानप्राप्त्यादिरूपसांसारिकफलप्रदाः॥२५॥ निष्कामानां तु प्रतिबन्धकपापनिर्हरणेनचित्तशुद्धिजननद्वारा परमेश्वरप्रसादहेतव इत्यर्थः॥२६॥ एवंदेवतान्तरप्रसादस्य परशिवप्रसादहेतुत्वमभिधाय तत्प्रसादस्य महात्म्यं प्रपञ्चयति—

किं पुनर्वैदिका विप्राः स्त्रियः सर्वामुनीश्वराः॥३३॥
खरोष्ट्रतरवोऽपीशप्रसादेनैव केवलम्‌।
अयत्नेन विमुच्यन्ते नात्र संदेहकारणम्‌॥३४॥
गर्भस्थो मुच्यते कश्चिज्जातमात्रेण कश्चन।
बाल्ययौवनवार्धक्याद्यवस्थासुच कश्चन॥३५॥
पाषण्डाश्च विमुच्यन्ते प्रसादेन महेशितुः।
वैदिकाश्च खरोष्ट्रादिजातयश्च तथैव च॥३६॥
पांसवः पर्वतायन्ते पांसूयन्ते च पर्वताः।
शिवप्रसादयुक्तानामाज्ञयैव तु केवलम्‌॥३७॥
ब्रह्मनारायणाद्यास्तुदेवता अखिला अपि।
विजायन्ते च नश्यन्ति ह्याज्ञयैव प्रसादिनः॥३८॥
प्रसादस्य च माहात्म्यं शिवस्य परमात्मनः।
अपि देवा न जानन्ति श्रुतयश्च न संशयः॥३९॥
शंकरोऽपि महातेजाः शाङ्करी वा मुनीश्वराः।
शिवप्रसादमाहात्म्यं किंतुजानाति वा न वा॥४०॥
भवन्तोऽपि महादेवप्रसादाय मुनीश्वराः।
गुरुपादाम्बुजं नित्यं पूजयध्वं यथाबलम्‌॥४१॥
श्रीमद्व्याघ्रपुरे पुण्ये सर्वदेवसमावृते।
स्वस्वरूपानुसंधानप्रमोदेनैव केवलम्॥४२॥
साक्षाद्दभ्रसभामध्ये नृत्यन्तंदेवनायकम्‌।
अम्बिकासहितं नित्यं भजध्वंपरया मुदा॥४३॥

—————————————————————————————————————————

महादेवेत्यादिना॥२७—४०॥ तथाविधप्रसादलाभाय तत्साधनमुपदिशति-

श्रीकालहस्तिनाथस्य प्रणामालोकनादयः।
अपि शंभोः प्रसादाय भवन्ति द्विजपुङ्गवाः॥४४॥
वाराणस्यां महादेव्रप्रणामालोकनादयः।
अपि शंभोः प्रसादाय भवन्तिद्विजपुङ्गवाः॥४५॥

प्रसादलाभाय हि धर्मसंचयः

प्रसादलाभाय हि देवतार्चनम्‌।

प्रसादलाभाय हि देवता स्मृतिः

प्रसादलाभाय हि सर्वमीरितिम्‌॥४६॥

शिवप्रसादेन विना न भुक्तयः

शिवप्रसादेन विना न मुक्तयः।

शिवप्रसादेन विना न देवताः

शिवप्रसदेन हि सर्वमास्तिकाः॥४७॥

शिवप्रसादेन समो न विद्यते

शिवप्रसादादधिको नविद्यते।

शिवप्रसादेन शिवस्य सन्निधिः

शिवप्रसादेन विशुद्धताऽऽत्मनः॥४८॥

शिवप्रसादेन युतस्य वैदिकं

न विद्यते कर्मजनस्य सुव्रताः।

शिवप्रसादेन युतस्य तान्त्रिकं

न विद्यते कर्म तथैव किंचन॥४९॥

—————————————————————————————————————————

भवन्तोऽपीत्यादिना॥४१—४५॥न केवलं महादेवप्रसादलाभे गुरूपसत्तिपुरःसरं तदर्चनमेव कारणम्‌। अपि तु वर्णाश्रमविहितं यज्ञदानादिकं

शिवप्रसादेन युतस्य सुव्रता

न जन्मनाशौभवतः सदैव तु।

शिवप्रसादेन युतः स्वयं शिवः

शिवप्रसादस्तु शिवप्रसादतः॥५०॥

इति श्रीस्कान्दपुराणे सूतसंहितायां चतुर्थेयज्ञवैभवखण्डे
शंकरप्रसादक्रमवर्णनं नाम त्रयोविंशोऽध्यायः॥२३॥

अथ चतुर्विंशोऽध्यायः।

२४. प्रसादवैभवम्‌॥

सूत उवाच—

अथातः संप्रवक्ष्यामि प्रसादस्य तु वैभवम्‌।
अत्यन्तश्रद्धयोपेताः शृणुतातीव शोभनम्‌॥१॥
पुरा कश्चिन्महापापी दुर्घटो नाम नामतः।
जात्याशूद्रो महाक्रुद्धोमहासाहसिकोत्तमः॥२॥
अभूत्तेन महामोहाद्ब्राह्मणानां शतं हतम्‌।
गवां शतं हतं तेन दग्धं गेहशतं तथा॥३॥

—————————————————————————————————————————

देवतान्तरार्चनादिकं च यन्निष्कामेन क्रियते तत्सर्वमपि परंपरया शिवप्रसादसाधनमित्याह—प्रसादलाभायेत्यादिना॥४६—५०॥

इति श्रीस्कान्दपुराणे सूतसंहितातात्पर्यदीपिकायां चतुर्थेयज्ञवैभवखण्डे
शंकरप्रसादक्रमवर्णनंनाम त्रयोविंशोऽध्यायः॥२३॥

————

श्रीमद्व्याघ्रपुरादिस्थानेषुपरमेश्वरमुपासीनानामुक्तप्रभावः परशिवप्रसादोजायत इत्युक्तम्‌। तत्रापि श्रीमद्व्याघ्रपुरे परमेश्वरोपासनं महापातकादिदोषदूषितस्यापि शिवप्रसादहेर्तुभवतीति दर्शयितुमध्याय आरभ्यते—अथात इति॥

अथ चौर्यं कृतं तेन नराणामविचारतः।
बलात्परस्त्रियो भुक्ता बहुशो दृष्टिगोचराः॥४॥
वापीकूपतडागादिजलं तेनैव दूषितम्‌।
वर्णाश्रमसमाचारमर्यादा तेन भेदिता॥५॥
सहस्रजन्मतः पूर्वं दुर्घटेन मुनीश्वराः।
शिवयोगिकरे तेन सुवर्णं निष्कमुत्तमम्‌॥६॥
दत्तं तेन मतिस्तस्य जाता कालेन शोभना।
अहो मोहेन पापानि कृतानि सुबहूनि च॥७॥
मया तेषां न पश्यामि विनाशस्य तु कारणम्‌।
ब्राह्मणा वेदविद्वांसो वदन्ति नरकान्मम॥८॥
इति व्याकुलचित्तस्य दुर्घटस्य दुरात्मनः।
मतिप्रदानं कृतवान्ब्राह्मणः कश्चिदास्तिकः॥९॥

ब्राह्मण उवाच—

श्रीमद्व्याघ्रपुरं नाम स्थानमस्ति महीतले।
यत्र नृत्यतिविश्वात्मा शिवः संसारमोचकः॥१०॥
यस्य माहात्म्यविज्ञानाद्विष्णुर्विश्वजगन्मयः।
तताप परमं घोरं तपस्तत्रेश्वरं प्रति॥११॥
यस्य माहात्म्यविज्ञानाद्ब्रह्माविश्वामराधिपः।
तताप परमं घोरंतपस्तत्रेश्वरं प्रति॥१२॥
यस्य माहात्म्यविनज्ञानादिन्द्रः शस्त्रभृतां वरः।
तताप परमं घोरं तपस्तत्रेश्वरं प्रति॥१३॥
यस्य माहात्म्यविज्ञानाद्देवा यक्षाश्च किंनराः।

तप्तवन्तो महाघोरं तपस्तत्रेश्वरं प्रति॥१४॥
यस्य माहात्म्यविज्ञानान्मुनयोमुनिसत्तमाः।
तप्तवन्तो महाघोरं तपस्तत्रेश्वरं प्रति॥ १५॥
यत्र सर्वेश्वरं दृष्ट्वाप्रसादं लब्धवान्हरिः।
तत्र देवमुपास्स्वत्वं प्रनृत्यन्तमुमापतिम्‌॥ १६॥
यत्र सर्वेश्वरं दृष्ट्वाप्रसादं लब्धवानजः।
तत्र देवमुपास्स्व त्वंप्रनृत्यन्तमुमापतिम्‌॥ १७॥
यत्र वज्री हरं दृष्ट्वाप्रसादं लब्धवान्द्विजाः।
तत्र देवमुपास्व त्वंप्रनृत्यन्तमुमापतिम्‌॥ १८॥
यत्रदृष्ट्वाहरं देवा अशेषा आस्तिकोत्तमाः।
यक्षराक्षसगन्धर्वसिद्धविद्याधरादयः॥१९॥
प्रसादंलब्धवन्तस्तु स्वाधिकारानुरूपतः।
तत्रदेवसुपास्स्व त्वं प्रनृत्यन्तमुमापतिम्‌॥२०॥

सूत उवाच—

इत्येवं ब्राह्मणेनोक्तो दुर्घटः पुण्यगौरवात्‌।
श्रीमद्व्याघ्रपुरंगत्वा श्रद्धया परया सह॥२१॥
प्रदक्षिणत्रयं कृत्वा स्नात्वा नित्यमतन्द्रितः।
नमोन्तं शिवमन्त्रं तु जपित्वाऽष्टोत्तरं शतम्‌॥२२॥

—————————————————————————————————————————

१—२१॥ नमोन्तं शिवमन्त्रमिति। उक्तं हि शिवमाहात्म्यखण्डे चतुर्थेऽध्याये शिवपूजाविधौ—‘नमोन्तेन शिवेनैव स्रीणां पूजा विधीयते। विरक्तानांच शूद्राणामेवं पूजा प्रकीर्तिता’ इति। एवं चास्मिन्पुराणे शूद्रस्यशिवाय नम इत्येवं पञ्चक्षारमन्त्रः पूजादौ प्रयोक्तव्यत्वेनाभिमतः। पुराणन्तरे तु षडक्षरमन्त्रेण प्रणवं विहायावशिष्टेनपञ्चाक्षरेण शूद्रादीनामपि पूजादिकार्य-

श्रीमद्दभ्रसभामध्ये प्रनृत्यन्तमुमापतिम्‌।
दृष्ट्वाभूमौमहाभक्त्या दण्डवत्प्रणिपत्य च॥२३॥
रुद्रभक्ताय विप्राय भस्मनोद्धूलिताय च।
शिवज्ञानैकनिष्ठाय दत्त्वाधान्यं धनं मुदा॥२४॥
सत्यवाक्‌ शोचसंपन्नः कामक्रोधादिवर्जितः।
वत्सराणां त्रयंतत्र उवासातिप्रियेण सः॥२५॥
देवदेवो महादेवो महाकारुणिकोत्तमः।
प्रसादमकरोत्तस्य दुर्घटस्य दुरात्मनः॥२६॥

शिवप्रसादेन स दुर्घटः पुनः

समस्तलोकाधिपतिर्बभूव।

विमुक्तिमप्याप महत्तरामिमां

परप्रमातृप्रथनैकलक्षणाम्‌॥२७॥

इति श्रोस्कान्दपुराणे सूतसंहितायां चतुर्थे यज्ञवैभवखण्डे
प्रसादवैभवं नाम चतर्विंशोऽध्यायः॥२४॥

—————————————————————————————————————————

मित्युक्तम्‌। यथाऽऽह वसिष्ठः—‘ब्रह्मचारी गृहस्थश्च वानप्रस्थश्चभिक्षुकः।सदोंनमः शिवायेति शिवमन्त्रं समाश्रयेत्‌॥पञ्चाक्षरः सप्रणवो द्विजराज्ञोर्विधीयते।विट्शूद्रजन्मनां वाऽपि स्त्रीणां निर्बीजएवहि॥ सबीजः सस्वरःसौम्यो विप्रक्षत्रिययोर्द्वयोः। नेतरेषामितीशानः स्वयमेवाऽऽह शंकरः॥दुर्वृत्तोवृत्तहीनोवापतितोऽप्यन्त्यजोऽपि वा। जपेत्पञ्चाक्षरीं विद्यांजपेनैवाऽऽप्नुयाच्छिवम्‌’ इति॥२२—२६॥ परप्रमातृप्रथनैकलक्षणामिति। प्रमाताऽन्तःकरणोपदहितः साक्षीपरं निरतिशयं प्रमातुरुपाधिविलयेन यत्प्रथनंख्यापनं तदेकमेव लक्षणं यस्यास्तामित्यर्थः॥२७॥

इति श्रीस्कान्दपुराणे सूतसंहितातात्पर्यदीपिकायां चतुर्थेयज्ञवैभवखण्डे
प्रसादवैभवं नाम चतुर्विंशोऽध्यायः॥२४॥

पञ्चविंशोऽध्यायः।

२५. प्रसादवैभवम्‌॥

सूत उवाच—

भूयोऽपि देवदेवस्य प्रसादस्य तु वैभवम्‌।
प्रवक्ष्यामि समासेन शृणुत श्रद्धया सह॥१॥
पुरा कश्चिद्द्विजश्रेष्ठः सर्वलक्षणसंयुतः।
सत्यसंधाभिधःशुद्धोविष्णुभक्तो विशेषतः॥२॥
अभूत्तेन कृतं सर्वंश्रुतिस्मृत्युदितं मुदा।
प्रतिष्ठा चकृता विष्णोर्बहुशः पण्डितोत्तमाः॥३॥
आराधितश्चभगवान्विष्णुर्विश्वजगन्मयः।
दिने दिने महाभक्त्या सुगन्धकुसुमादिभिः॥४॥
वैष्णवा विविधा मन्त्रास्तेन जप्ता दिने दिने।
चिरन्तनानि स्थानानि विष्णोर्दृष्टानि सादरम्‌॥५॥
वैष्णवा मनुजास्तेन पूजिताश्च दिने दिने।
सर्वस्वं वैष्णवे दत्तं सत्यसंधेन सादरम्‌॥६॥
पुनर्नारायणः श्रीमाञ्शङ्खचक्रगदाधरः।
प्रत्यक्षमभवत्तस्य प्रसन्नः पङ्केजेक्षणः॥७॥
तं दृष्ट्वासत्यसंधस्तु प्रसन्नेन्द्रियमानसः।
प्रणम्यदण्डवद्भूमौभक्त्यापरमया सह॥८॥

—————————————————————————————————————————

त्रयोविंशेऽध्याये—“संसारमोचकः साक्षाच्छिव एव न चापरः। अन्याश्च देवताः सर्वाः प्रमाणाड्यैव हि मोचकाः” इति यदुकं तद्विष्णुनास्ववचनेनैव प्रतिपादितमिति समर्थयितुमध्याय आरभ्यते—भूयोऽपीति॥१-

गन्धपुष्पादिभिर्दिव्यैःसमाराध्य यथाबलम्‌।
स्तोतुमारभते विष्णुं विश्वलोकैककारणम्‌॥९॥

सत्यसंध उवाच—

विष्णवे विश्वलोकानां हेतवे विविधात्मने।
वेदवेदान्तनिष्ठानामात्मभूताय ते नमः॥१०॥
कृष्णाय क्लेशहन्त्रे चमम केनापि हेतुना।
प्रत्यक्षाय प्रबोधाय विदुषामात्मने नमः॥११॥
केशवायातिशुद्धायकेशिघ्नाय परात्मने।
केषांचिच्छुद्धचित्तानां प्रसन्नाय नमो नमः॥१२॥
मुञ्जकेशाय मुण्डाय मुण्डिनामार्तिहारिणे।
महामोहविनाशाय मन्त्ररूपाय ते नमः॥१३॥
श्रीवत्साङ्काय वर्याय वरदाय परात्मने।
वञ्चकानामगम्याय वस्तुभूताय ते नमः॥१४॥
श्रीपते भूपते तुभ्यं गोपते ममरूपिणे।
ममकारमहामोहविनाशाय नमो नमः॥१५॥
पीतवासाय पीताय पापपञ्जरहारिणे।
मौननिष्ठस्य मूर्खस्य मुक्तिदाय नमो नमः॥
पापकर्मपराणां तु भञ्जकाय नमो नमः॥१६॥
विष्वक्सेनाय विश्वाय विश्वोत्पत्त्यादिहेतवे।
विश्वविज्ञानरूपाय निर्मलाय नमो नमः॥१७॥

—————————————————————————————————————————

१२॥ मुञ्जाइवात्यायताः केशा यस्य स तथोक्तः।मुण्डिनामिति यतीनामित्यर्थः॥१३—१५॥ भञ्जकायेति। हिंसकायेत्यर्थः। “भञ्जनाशने”इति धातुः॥१६-

विश्वरूपाय विश्वासलभ्याय विदितात्मने।
विश्चोत्तीर्णाय विश्वस्य साक्षिरूपाय ते नमः॥१८॥
मुरारिणे मुहूर्ताय मुहूर्तस्य विधायिने।
मुहूर्तं भजतां नॄणां मुक्तिदाय नमो नमः॥१९॥
शौरिणे शार्ङ्गिणेतुभ्यं शङ्खकुन्देन्दुरूपिणे।
शाकमूलपराणां तु शान्तिदाय नमो नमः॥२०॥
पद्मनाभाय पद्मायाः पतये पद्मचक्षुषे।
हृत्पद्मकर्णिकामध्ये समासीनाय ते नमः॥२१॥
मुकुन्दाय मुकुन्दस्य महामूर्खस्य रक्षसः।
हर्त्रेभर्त्रे विशिष्टानामात्मने विदुषां नमः॥२२॥
गोविन्दाय गवां नित्यं पालकाय परात्मने।
नन्दगोपाय गुप्ताय नमः सर्वस्य गुप्तये॥२३॥
भूधराय भुजङ्गस्य महाकोपच्छिदेऽचिरात्।
भूतनाथाय भूतानामाधाराय नमो नमः॥२४॥
वैकुण्ठाय विशिशनां विशिष्टज्ञानदायिने।
विशिष्टाय विरिञ्चादिदेवेभ्यश्च नमो नमः॥२५॥
क्षीरोदशायिने साक्षात्क्षीरोदस्यापि हेतवे।
निराधाराय नित्याय नित्यानन्दाय ते नमः॥२६॥
यज्ञरूपाय यज्ञस्य फलप्राप्त्येकहेतवे।

————————————————————————————————————

२१॥ मुकुन्दस्येति।मुकुन्दो नाम कश्चिद्राक्षसोऽप्यास्तितस्य हन्त्र इत्यर्थः॥२२॥ नन्दगोपायेति। भीमसेनो भीम इतिवन्नन्दगोप एव नन्दस्तं गोपायतीति नन्दगोपः श्रीकृष्णः॥२३॥ भुजङ्गस्येति। यमुनामध्यवर्तिनः कालि-

यज्ञानां पतयेतुभ्यं यज्ञगम्याय ते नमः॥२७॥
जनार्दनाय दैत्यानां शत्रवे शक्तिदायिने।
स्वभक्तानां विशुद्धानां विशेषेण नमो नमः॥२८॥
वासुदेवाय वस्वादिदायिने वासवादिभिः।
पूजिताय पुराणाय पुंसे पूर्णात्मने नमः॥२९॥
दामोदराय देवानां शत्रुनाशैकहेतवे।
जनस्य दान्तचित्तस्य रक्षकाय नमो नमः॥३०॥
अच्युतायाखिलस्यास्य साक्षिणेऽच्युतवस्तुभिः।
असक्ताय सुसक्ताय स्वसंवेद्याय ते नमः॥३१॥
हरये हारकेयूरकटकादिविभूषणैः।
अलंकृताय कल्याणशरीराय नमो नमः॥३२॥
हृषीकेशाय हेमादिधनधान्यप्रदायिने।
हृदि चिन्तयतां नित्यंनमः सत्यपरात्मने॥३३॥
नारायणाय नरकार्णवतारणाय

नानाविधस्य जगतः स्थितिकारणाय।

मोहावृतस्य निखिलस्य जनस्य सद्यः

श्रेयस्कराय पुरुषाय नमः परस्मै॥३४॥

सूत उवाच—

एवं भक्त्याहरीं स्तुत्वा सत्यसंधो महाद्विजः।
प्रसादंकुरु मे देव मुच्येयं येन बन्धनात्‌॥३५॥
इति तं प्रार्थयामास सत्यसंधो जनार्दनम्‌।
जनार्दनोऽपि भगवान्सर्वभूतहिते रतः॥३६॥

सत्यवागनसूयश्च सम्यग्ज्ञानमहोदधिः।
प्राह गम्भीरया वाचा सत्यसंधं प्रति द्विजाः॥३७॥

विष्णुरुवाच—

सत्यसंध महाभक्त मम सत्यपरायण।
श्रौतस्मार्तैकनिष्ठानामुत्तमोत्तम सुव्रत॥३८॥
नाहं संसारमग्नानां साक्षात्संसारमोचकः।
ब्रह्मादिदेवताश्चान्या नैव संसारमोचकाः॥३९॥
शिव एव हि जन्तूनां महासंसारवर्तिनाम्‌।
संसारमोचकः साक्षात्सर्वज्ञः साम्ब ईश्वरः॥४०॥
न तस्यकार्यं करणं वस्तुतो विद्यतेऽनघ।
न तत्समश्चाभ्यधिकश्चेतनो विद्यते क्वचित्‌॥४१॥
तथाऽपि परमा शक्तिर्विविधा तस्य शूलिनः।
श्रूयते सर्ववेदेषु स्वज्ञानं च बलं स्वकम्‌।
स्वव्यापारश्च तस्यास्य स्वतः सिद्धो न चान्यतः॥४२॥

—————————————————————————————————————————

याख्यस्येत्यर्थः॥२४—४०॥ एवंविष्णुः स्वस्य ब्रह्माद्यन्यदेवतानां चसाक्षात्संसारमोचकत्वाभावं परमेश्वरस्य च साक्षात्संसारमोचकत्वमभिधाय तदुपपादयितुंपरमेश्वरस्य स्वस्मादतिशयं दर्शयति—न तस्य कार्यमित्यादिना।
तस्यपरशिवस्य वस्तुतः परमार्थतो भूतारब्धत्वात्कार्यं शरीरं रूपग्रहणादौकरणं चक्षुरादीन्द्रियंतदुभयमपि नास्ति। एवं स्थूलसूक्ष्मशरीरद्वयनिषेधेनतदुपादानभूतमूलाविद्याऽपि परमार्थतस्तस्मिन्नास्तीत्युक्तं भवति। किंच तत्सदृशस्तदधिको वा पुरुषः कुत्रापि परमार्थतो नैष विधते॥४१॥ यद्यप्येवमेवपरमार्थदृष्टौतथाऽपि तस्यपरशिवस्य परा निरतिशया सच्चिद्रूपिण्येकैवशक्तिर्विविधशक्यप्रतियोगिवशान्नानाविधैवसर्वेषु वेदेषु श्रूयते। अत एवत्रयोदशेऽध्याये एकस्याः परशक्तेरुपाधिवाशान्नानाभावोऽघस्तात्प्रतिपादितः

मम ब्रह्मादिदेवानामपि तस्य प्रसादतः।
विज्ञानादित्रयं यस्मात्स एव भवमोचकः॥४३॥
अहं ब्रह्मादिदेवाश्च प्रसादात्तस्य शूलिनः॥
प्रणाड्यैव हि संसारमोचका नात्रसंशयः॥४४॥
प्रसादो मुक्तिदः साक्षाच्छिवात्सत्यादिलक्षणात्‌॥४५॥
अप्रसक्तभवाच्छुद्धादसङ्गात्सर्वसाक्षिणः।
अम्बिकासहितादस्मात्सर्वज्ञादेव नान्यतः॥४६॥
मम ब्रह्मादिदेवानामपि साक्षाच्छिवेच्छया।
भोगमोक्षप्रदः पुंसां प्रसादो जायतेऽनघ॥४७॥

————————————————————————————————————————————

‘जगत्कारणमापन्नम्‌’इत्यादिना। तथा निरतिशयं ज्ञानं कृत्स्नजगन्निर्माणादिसामर्थ्यलक्षणं बलं तन्निष्पाद्या क्रिया चैतत्र्त्रितयमपि तस्य स्वभावसिद्धंन त्वन्यापेक्षमित्यर्थः।अयमेवार्थः श्वेताश्वतरशाखायामाम्नायते—‘न तस्यकार्यं करणं च विद्यते न तत्समश्श्चाभ्यधिकश्चदृश्यते। पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च’ इति॥४२॥ एवं विष्णुः शिवस्य ज्ञानबलक्रियाणां स्वाभाविकत्वेनातिशयमुपपाद्यस्वस्यान्येषां च ज्ञानादित्रितयं तत्प्रसादलभ्यमितिदर्शयति। मम ब्रह्मेति। स एवेति। यस्माच्छिवस्य ज्ञानादित्रितयं स्वभावसिद्धंतस्मात्स एवसक्षात्संसारमोचकः।वयंतु परंपरयैवेत्यर्थः॥४३॥४४॥ यदीयप्रसादः सक्षान्मुक्तिप्रदस्तस्यपरशिवस्य नैजं रूपमाह—शिवात्सत्यादिक्षणादित्यादिना।“सत्यं ज्ञानमनन्तंब्रह्म” “विज्ञानमानन्दं ब्रह्म” इत्युक्तश्वस्वरूपादित्यर्थः॥४५॥ अप्रसक्तभवादिति। अप्रसक्तोऽप्राप्त एव संसारो यस्मिन्स तथोक्तः। अत एवशुद्धः। एतदुभयमपि कुत इत्यत आह। असङ्गादिति। मायातत्कार्येषु क्वचिदपि न सज्जत इत्यसङ्गः “असङ्गोन हि सज्जते” इति श्रुतेः। असङ्गत्वमपिकुत इत्यत आह। सर्वसाक्षिणइति। यस्मात्सर्वस्यमायातत्कार्यप्रपञ्चस्यासौसाक्षी ताटस्थ्येन द्रष्टा ततस्तत्स्वरूपाननुप्रवेशादसड् इत्यर्थः॥४६॥४७॥

तस्मात्प्रसादश्चान्येषां मम चाऽऽश्रित्य शूलिनः।
प्रसादं भोगमोक्षाय न स्वयं नात्र संशयः॥४८॥
पुनः पूर्णप्रसादाय सयसंध मम प्रिय।
महादेवं महात्मानं भज कारुणिकोत्तमम्‌॥४९॥
महादेवं समाश्रित्य वाञ्छिंत नाऽऽप्नुयाद्यदि।
महादेवो महादेवं कथमन्यं समाश्रयेत्‌॥५०॥
नामतश्चार्थतश्चापि महादेवो महेश्वरः।
तदन्ये केवलंदेवा महादेवा न तेऽनघ॥५१॥
महादेवं विना यो मां भजते श्रद्धया सह।
नास्ति तस्य विनिर्मोक्षः संसाराज्जन्मकोटिभिः॥५२॥
सर्वमुक्तं समासेन मम भक्तस्य तेऽनघ।
शिवादन्यं परित्यज्यशिवं साम्बं सदा भज॥५३॥

सूत उवाच—

एवमुक्त्वाहरिःश्रीमान्किरीटी गरुडध्वजः।
सर्वविज्ञानसंपन्नस्तत्रैवान्तर्हितोऽभवत्‌॥५४॥

———————————————————————————————————————————————

तस्मात्प्रसाद इति। अन्येषां ब्रह्मादीनां मम च यः प्रसादोऽसौ परमेश्वरस्यप्रसादमाश्रित्यैवपुंसां भोगमोक्षप्रदोन स्वतन्त्रइत्यर्थः॥४८॥४९॥महादेवं समाश्रित्येति। महादेवमाश्रितेनेष्टफलानवाप्तौ तस्य साधकस्यतत्फलप्रापणाय स महादेवः कथमन्यं महादेवं समाश्रयेत्‌। स्वस्मादन्यस्य महतोदेवस्याभावादित्यर्थः॥५०॥ एतदेवोपपादयति—नामतइति। महांश्चासौदेवश्चेति यो महादेवशब्दार्थस्तदर्थपर्यालोचनादपि परमेश्वर एव महादेवस्तथानामतोऽपि स एव महादेवस्तदन्ये तु केवलंदेवा एव। अतः परमेश्वरादन्योमहादेवोनास्तीत्यर्थः॥५१॥ महादेवंविनेति महादेवेन सहैवमम विष्णो-

सत्यसन्धो महाधीमान्महाविष्णोः प्रसादतः।
परितयज्याखिलान्देवानाश्रितोऽभवदीश्चरम्‌॥५५॥
ईश्वरस्य प्रसादेन सत्यसंघो महाद्विजः।
ज्ञानं वेदान्तजं लब्ध्वा विमुक्तो भवबन्धनात्‌॥५६॥
भवन्तोऽपि द्विजश्रेष्ठाः शिवादन्यत्तु दैवतम्‌।
परित्यज्य प्रसादाय भजध्वं शिवमव्ययम्‌॥५७॥
सर्वमुक्तं समासेन युष्माकं मुनिपुङ्गवाः।
मम वाक्येऽतिविश्वासं कुरुध्वंयत्नतो द्विजाः॥५८॥

अतिरहस्यमिदं कथितं मया

श्रुतिपरंपरया च समागतम्‌।

मुनिपरंपरया च समागतं

न कथितव्यमशिष्टजनस्य तु॥५९॥

इति श्रीस्कान्दपुराणे सूतसंहितायां यज्ञवैभवखण्डे
प्रसादवैभवं नाम पञ्चविंशोऽध्यायः॥२५॥

————

षड्विंशोऽध्यायः॥

२६. शिवभक्तिविचारः।

अथातः संप्रवक्ष्यामि शिवभक्तिं समासतः।

——————————————————————————————————————————————

र्मूर्तिराराधनीयेर्त्यथः। स्पष्टमन्यत्‌॥५२—५९॥

इति स्कान्दपुराणे श्रीसूतसंहितातात्पर्यदीपिकायां चतुर्थेयज्ञवैभवखण्डे
प्रसादवैभवं नाम पञ्चविंशोऽध्यायः॥२५॥

———

अथास्यपरशिवप्रसादस्य हेतुभूता भक्तिविशेषाः प्रदर्श्यन्ते—अथात

यया भुक्तिर्विमुक्तिश्च मुनीन्द्राः सर्वदेहिनाम्‌॥१॥
भक्तिर्बहुविधा ज्ञेया भवानीसहितस्य तु।
एका शंकरसायुज्यश्रद्धा सारतरा परा॥२॥
अन्या शंकरसारूप्यश्रद्धाऽतीव शिवप्रिया।
अपरा शिवसामीप्यश्रद्धावेदविदां वराः॥
इतरा शिवसालोक्यश्रद्धाऽभीष्टफलप्रदा॥३॥
अपरा च शिवज्ञानश्रद्धा पाशनिकृन्तनी॥४॥
अन्या वेदशिरःश्रद्धा साक्षाद्विज्ञानदायिनी।
अपरा श्रवणश्रद्धा प्रोक्ता वेदान्तवेदिभिः॥५॥

इतरा मननश्रद्धा नृणां संभावनाप्रदा।
अन्या देवेश्वरध्यानश्रद्धारूपा महत्तरा॥६॥
अपरोद्धूलनश्रद्धा भस्मना पापनाशिनी।
त्रिपुण्ड्रधारणश्रद्धा तदन्या तत्त्वदायिनी॥७॥

रुद्राक्षधारणश्रद्धा चापि भक्तिरुदीरिता।

—————————————————————————————————————————

इति। यया भुक्तिर्विमुक्तिरिति। यया शिवभ्क्त्या। ईश्वरप्रसादहेतुभूतयेत्यर्थः॥१॥ शंकरसायुज्येति। सायुज्यसारूप्यसामीप्यसालोक्यरूप। मुक्तिविशेषाः। तत्र सायुज्यं नाम प्रत्यगात्मनः परशिवस्वरूपसाक्षात्कारेण तदात्मनाऽवस्थानम्‌। अतस्तस्य सर्वात्कृष्टत्वात्तद्विषया श्रद्धा मुख्याशिवभक्तिः॥२॥ सारूप्यं नाम रुद्रलोकादौ शिवसमानरूपतयाऽवस्थानम्‌।विभिन्नरूपस्यैव जीवस्य समीपदेशवर्तित्वं सामीप्यम्‌।तल्लोकमात्रे वर्तनं सालोक्यम्।एते चोत्तरोत्तरं निकृष्टाः। एतद्विषया श्रद्धा च शिवभक्तिरित्यर्थः॥३॥ शिवज्ञानश्रद्धेति। शिवस्वरूपविषयं यद्वेदान्तजनितं ज्ञानं तच्छ्रद्धेत्यर्थः॥४॥५॥ संभावनाप्रदेति। गुरुशास्रेणानुमतेऽपि परतत्त्वेऽसंभावनाविपरीतभावनाभ्यां संदेहो जायते। ते चानुकूलयुक्त्यनुसंधानात्मकेन मननेन निरस्येते।

षडक्षरजपश्रद्धा चापि भक्तिर्महत्तरा॥८॥
शिवलिङ्गार्चनश्रद्या चापि भक्तिरनुत्तमा।
लिङ्गार्चनदिदृक्षा महाभक्तिः प्रकीर्तिता॥९॥
अनुमोदनमीशस्य पूजायां भक्तिरुच्यते।
पूजोपकरणश्रद्धाचापि भाक्तिरुदीर्यते॥१०॥
शिवोत्सवदिदृक्षा च शिवभक्तिर्महत्तरा।
तथैवोत्सवसेवाच भक्तिरुक्ताऽतिशोभना॥११॥
तथैवोत्सवसेवार्थमागतानां महात्मनाम्‌।
अन्नपानप्रदानं च शिवभक्तिरुदीरिता॥१२॥
महादेवकथादीनां श्रवणेच्छा महर्षयः।
महाभक्तिरिति प्रोक्ता महामाहेश्वरैर्जनैः॥१३॥
कथाश्रवणकालेतु शिवस्य परमात्मनः।
विकारः स्वरनेत्रादेर्भक्तिरुक्ता महात्मभिः॥१४॥
उद्यानकरणं शंभोः शिवभक्तिरुदाहृता।
वापीकूपतडागादिकरणं च मनीषिभिः॥१५॥
प्राकारगोपुरादीनां शिवस्यामिततेजसः।
इष्टकाद्यैश्च निर्माणं शिवभक्तिरुदीरिता॥१६॥
शिवशासनयुक्तस्य पूजा श्रद्धापुरःसरम्‌।
शिवभक्तिरिति प्रोक्ता शिवभक्तिपरायणैः॥१७॥
शिवाराधनबुद्ध्यैव नित्यानामपि कर्मणाम्‌।
नैमित्तिकानां करणमपि भक्तिः शिवस्य तु॥१८॥
अभ्यासः शिवविद्यायास्तस्या अध्यापनं तथा।

शिवभक्तिरिति प्रोक्ता रिवदृष्टिपरायणैः॥१९॥
लेखनं शिवविद्यायाः प्रदानं पुस्तकस्य तु।
शिवभक्तिरिति प्रोक्ता शिवशास्त्रविशारदैः॥२०॥
शिवपुस्तकनिक्षेपस्थाननिमार्णमास्तिकाः।
शिवभक्तिरिति प्रोक्ता शिवदृष्टिपरायणैः॥२१॥
शिवज्ञानैकनिष्ठस्यमठिकादानमेव च।
अन्नपानादिदानं च शिवभक्तिरुदीरिता॥२२॥
शिवज्ञानैकनिष्ठस्यशुश्रूषा श्रद्धया सह।
शिवभक्तिरिति प्रोक्ता शिवभक्तिपरायणैः॥२३॥
जापिनां शिवमन्त्रस्य शुश्रूषा च महात्मनां।
शिवभक्तिरिति प्रोक्ता शिवतत्त्वविचिन्तकैः॥२४॥
शिवयात्रापराणां तु शुश्रूषा च तथैव च।
शिवयात्राच विद्वद्भिःशिवभक्तिः प्रकीर्तिता॥२५॥
शिवयात्रापराणां तु बाधकानां तु बाधनम्‌।
शिवभक्तिरिति प्रोक्ता शिवयात्रापरायणैः॥२६॥
शिवापराधनिष्ठानां छेदनं परया मुदा।
शिवभक्तिरिति प्रोक्ता शिवाराधनतत्परैः॥२७॥
शिवज्ञानैकनिष्ठानां शिवज्ञानस्य सुव्रताः।
दूषकस्य शिरश्छेदः शिवभक्तिः प्रकीर्तिता॥२८॥
भस्मसाधननिष्ठानां दूषकस्य मुनीश्वराः।
छेदनं शिरसः साक्षाच्छिवभक्तिरुदीरिता॥२९॥
विष्ण्वादीनां तु देवानां दूषकस्य दुरात्मनः।

बाधनं शिवभक्तिस्तुप्रोक्ता वेदान्तवेदिभिः॥३०॥
विष्ण्वादिदेवताभक्तस्यैव दूषणकारिणः।
बाधनं च महाप्राज्ञैः शिवभक्तिः प्रकीर्तिता॥३१॥
देवद्रव्यस्य भोक्तुश्च ब्राह्मणद्रव्यहारिणः।
बाधनं च महाप्राज्ञैः शिवभक्तिः प्रकीर्तिता॥३२॥
आतुराणां नृणां रक्षा रक्षकाणां च रक्षणम्‌।
भीतस्याभयदानं च शिवभक्तिः प्रकीर्तिता॥३३॥
सर्वभूतेषु कारुण्यं प्रियभाषणमेव च।
सर्वभूतहिते श्रद्धा साक्षाद्भक्तिःशिवस्यतु॥३४॥
सर्वभूतेषु दोषस्यादर्शनं गुणदर्शनम्‌।
सर्वभूतेषु मैत्री च शिवभक्तिरुदीरिता॥३५॥
महादेवेऽतिविश्वासो विश्वासः शिववेदने।
वेदान्तेषु च विश्वासः शिवभक्तिरुदीरिता॥३६॥
गुरूक्तार्थेषु विश्वासो गुरुशुश्रूषणं तथा।
साऽपि भक्तिरिति प्रोक्ता वेदवेदान्तवेदिभिः॥३७॥

भक्तिरेव परमार्थदायिनी

भक्तिरेव भवरोगनाशिनी।

भक्तिरेव परवेदनप्रदा

भक्तिरेव परमुक्तिकारिणी॥३८॥

——————————————————————

अतो मननश्रद्धा संभावनाप्रदेत्यर्थः॥६—३४॥ सर्वभूतेषु मैत्रीचेति।तथाच पातञ्चलं सूत्रम्—‘ममैत्रीकरुणामुदितोपेक्षाणां सुखदुःखपुण्यापुण्यविषयाणां भावनातश्चित्तप्रसादनम्‌’इति॥३५—३८॥ सत्यमेव सततं

भक्तियुक्तजनचित्तपङ्कजे

भुक्तिमुक्तिफलदःपुरातनः।

शक्तियुक्तपरविग्रहः शिवः

सत्यमेव सततं प्रकाशते॥३९॥

भक्तियुक्तजनपरितुष्टः परमेशः

सत्यसुखबोधपरमं वपुरनन्तम्‌।

स्वस्य मुनयः परमकारणिक ईशः

शक्तिसहितस्त्रिनयनः खलु ददाति॥४०॥

इति श्रीस्कान्दपुराणे सूतसंहितायां चतुर्थेयज्ञवैभवखण्डे
शिवभक्तिविचारो नाम षड्विंशोऽध्यायः॥२६॥

————

सप्तविंशोऽध्यायः।

२७. परपदस्वरूपविचारः।

सूत उवाच—

अथातः संप्रवक्ष्यामि परात्परतरं पदम्‌।

——————————————————————

प्रकाशत इति। श्रूयते हि—‘यस्य देवेपरा भक्तिर्यथा देवे तथा गुरौ।तस्यैते कथिता ह्यर्थाःप्रकाशन्ते महात्मनः’ इति॥३९॥४०॥

इति श्रीस्कान्दपुराणे सूतसंहितातात्पर्यदीपिकायां चतुर्थे यज्ञवैभवखण्डे
शिवभक्तिविचारो नाम पड्विंशोऽध्यायः॥२६॥

————

एवं परतत्वज्ञानोपायत्वेन शिवप्रसादतद्भक्तीप्रपञ्च्यएकं परशिवस्वरूपमुपदिशति—परत्परतरमिति। प्रागुदीरितशक्तितत्त्वोपाधिकः परस्ततोऽपिपरः शिवतत्त्वोपाधिकस्ततोऽपि परं निरुपाधिकं सच्चिदानन्दलक्षणं स्वप्रतिष्ठंपरशिवस्वरूपंतत्परात्परतरम्‌।अथास्यतत्त्वस्यसर्वप्रमाणाविषयत्वाच्छ्श-

यत्सत्तायोगतः सर्वंस्त्यवद्भवति द्विजाः॥१॥
यस्यैव चित्प्रकाशेन सर्वं चेतयते जगत्‌।
यस्याऽऽनन्दाभिसंबन्धात्सर्वं प्रेमास्पदं भवेत्‌॥२॥
प्रतीताद्भौतिकादस्माद्भूतानि मुनिपुङ्गवाः।
उत्कृष्टानि तथा तेभ्यो जीवात्मा चेतनः प्रभुः॥३॥
समष्टिव्यष्टिभावेन सोऽपि भिन्नः परस्परम्‌।

————————————————————————

विषाणवदवस्तुत्वमाश्ङ्क्यनिरस्यति—यत्सत्तायोगत इयादिना।यथैकस्मि न्नेव रज्ज्वां इदमंशे सर्पधारादयो आकारा अविद्यावशादारोप्यन्ते तथैवाद्वितीये सच्चिदानन्दरूपे परशिवस्वरूपे स्वमायावशेन भूतभौतिकात्मकंनानाविधं जगदारोप्यते यथा सर्पधारादिष्वारोप्येष्वयं सर्पइयंधारेत्यधिष्ठानइदमाकारानुवृत्तिरेवमारोपिते जगत्यधिष्ठानसच्चिदानन्दरूपत्वमनुवृत्तंभासते।तथा चायमर्थः। यस्याधिष्ठानभूतस्य परतत्त्वस्यस्वरूपभूतसत्तासंबन्धवशात्तत्स्वरूपे परिकल्पितं सर्वं जगत्स्वतो मायामयत्वेन सदसद्विलक्षणमपि सन्घटः सन्पट इत्यादिव्यवहाररूपेण सत्यवदवभासते।तथा यस्यैवाधिष्ठानस्य ब्रह्मणः स्वरूपभूतचित्प्रकाशेन तत्स्वरूपेपारिकल्पितंसर्वंजडं जगच्चेतयते चैतन्यविशिष्टं भासते।तथा यस्यैवाधिष्ठानस्यस्वरूपभूतानन्दसंबन्धवशादनानन्दमप्यानन्दरूप आरोपितं सर्वं जगत्प्रेमास्पदमनुकूलवेदनीयं भवति। तथाविधं सच्चिदानन्दरूपं परतत्त्वं प्रवक्ष्यामीति सबन्धः॥१॥२॥ अस्य च तत्त्वस्यपरात्परतरतत्वोपपादनाय निरतिशयोत्कर्षावधित्वंवक्तुमारभते—प्रतीतादित्यादिना।भूतकार्यंजगद्भौतिकं तस्मात्तत्कारणान्याकाशादिभूतान्युत्कृष्टानि। तदायत्तत्वाद्भौतिकस्वरूपलाभस्येत्यर्थः।भूतेभ्योऽपि तदुपादानत्वेनतत्स्वरूपानुप्रविष्टमायासत्त्वगुणोपाधिकश्वेतनोजीवात्मोत्कृष्टः। आविर्भूतचैतन्यत्वात्‌॥३॥समष्टिव्यष्टिभावेनेति।तत्रनिर्मलसत्त्वोपधेरप्रतिहतज्ञानत्वात्स्वत्मानं स्वेतरसकलंच समश्नुतेव्याप्नोतीति समष्टिर्हिरण्यगर्भः। मलिनसत्त्वोपाधेःपरिच्छिन्नज्ञानत्वान्मालिन्यतारतम्येन नानानिधत्वात्तदुपाधिका जीवा विभक्तं स्वात्ममात्रमेवाश्नुवते

व्यष्टयश्च तथा भिन्नाः स्वस्वभावानुरूपतः॥४॥
देवतिर्यङ्नुष्यादिशरीरं प्राप्नुवन्ति च।
आसां समष्टिभूतस्तुश्रेष्ठःसर्वात्मना बुधाः॥५॥
ततो विशिष्टाः सकला ब्रह्मणस्तु विभूतयः।
ताश्चान्योन्यं विशिष्टाः स्युर्यथा जीवा मुनीश्वराः॥६॥
तासां ब्रह्माऽधिकस्तस्माद्विष्णुर्मुख्यः प्रकीर्तितः।
सोऽपि स्वव्यष्टिभूतेभ्यो वरिष्ठः परिकीर्तितः॥७॥
ततो रुद्रोऽधिकः सोऽपि स्वव्यष्टिभ्योऽधिकः स्मृतः।
ब्रह्मा विष्णुश्च रुद्रश्चपरतत्त्वविभूतयः॥८॥

—————————————————————————————————————

व्याप्नुवन्तीति व्यष्टयः। स्वस्वभावानुरूपत इति। उक्रान्तिसमये परिपक्वपुण्यपापजनितो भाविजन्मगोचरः संकल्पविशेषोभावस्तदनुसारेणेत्यर्थः॥४॥आसां समष्टिव्यष्टीनां मध्ये समष्टिभूतोहिरण्यगर्भःश्रेष्ठोऽप्रतिहतज्ञानत्वात्‌॥५॥ ततो विशिष्टा इति तस्माद्धिरण्यगर्भादपि रजोगुणोपाधिकस्यब्रह्मणः संकल्पमात्रसिद्धा या विभूतयोऽवतारविशेषास्ता विभूतय उक्कृष्टाः।अन्योन्यं विशिष्टाः स्युरिति। संकल्पस्योच्चावचत्वात्तन्मात्रसिद्धानां विभूतीनामपि प्रस्परमुत्कर्षापकर्षौविद्येते इत्यर्थः॥६॥ तासां ब्रह्माऽधिक इति।तथाविधसंकल्पाश्रयो ब्रह्मा स्वविभूतिभ्यः श्रेष्ठ इत्यर्थः। तस्माद्विष्णुरिति।रजोगुणोपाधिकाद्ब्रह्मणोऽपि सत्त्वगुणोपाधिर्विष्णुः श्रेष्ठः। सत्त्वस्यसुखप्रकाशात्मकत्वेन रजोगुणादुत्कृष्टत्वात्‌। स्वव्यष्टिभूतेभ्योवरिष्ठ इति। तस्य विष्णोरपि संकल्पमात्रसिद्धा व्यष्टिभूता येऽवतारविशेषास्तेभ्योऽपि समष्टिभूतो विष्णरुत्कृष्टः॥७॥ ततो रुद्रोऽघिकः हति।विष्णोरुपाधिर्हिबहिःसत्त्वविशिष्टंतमः। रद्रस्यतु बहिस्तमोयुक्तं सत्त्वम्। एतच्चाग्रेस्वयमेव सूतगीतायां प्रतिपादयिष्यति।तथा च तस्माद्विष्णोरपि रद्रोऽधिकः। तथा तस्य रुद्रस्यापिसंकल्पमात्रसिद्धा या व्यष्टयस्ताभ्योऽपि स एवोत्कृष्टः।परतत्वविभूतय इति।यद्वक्ष्यमाणं सच्चिदानन्दैकरसं निर्गुणं परं तत्त्वं तदेव स्वीकृतमायागुणोपाधिव-

एषां त्रयाणामधिकः सर्वकारणमीश्वरः।
ततोऽधिकं परं तत्त्वं ज्ञानमानन्दमद्वयम्‌।
इयमेव हि सर्वेषां काष्ठाप्रोक्ता श्रुतौस्मृतौ॥९॥
योऽयं मानुष अनन्दस्ततः शतगुणोत्तरः।
मनुष्यगन्धर्वादीनामानन्द इति गम्यते॥१०॥

——————————————————————

शेनब्रह्मविष्ण्वादिरूपेणावस्थितामिति भवन्ति ब्रह्माद्यस्तस्य विभूतय इत्यर्थः॥८॥ एषामिति। गणविभागरहितमायोपाधिकं तदेव परतत्त्वंजगत्कारणंसदीश्वरः। सोऽपि प्रविभक्तगुणोपाधिकानामेषां ब्रह्मादीनामुत्कृष्टस्तत्समष्ट्यात्मकत्वादित्यर्थः।यस्यनिरतिशयोत्कर्षप्रतिपादनायैतदुत्कर्षतारतम्यमनुक्रान्तंतद्दर्शयति—ततोऽधिकमिति। कारणत्वोपलक्ष्यं सच्चिदानन्दाखण्डैकरसं यत्परंतत्त्वं तत्सोपाधिकाज्जगत्कारणादधिकमुत्कृष्टम।एतदीयोत्कर्षस्यनिरतिशयत्वमुपपादयति—इयमेवेति। यदेतदुक्तं परतत्वमेतदेव सर्वेषां पूर्वोक्तानां सातिशयोत्कर्षभाजां विश्रान्तिभूमित्वेनश्रतिस्मृत्याप्रतिपादितम्‌। हिशब्दो हेत्वर्थः।यस्मादेवं तस्मादितरदुत्कृष्टं किमपि नास्तीयर्थः। तत्र श्रुतिस्तावत्सर्वस्यापिभोक्तृभोग्यात्मकस्य प्रपञ्चस्य सर्वोत्कृष्टे ब्रह्मणि विश्रान्तिं प्रतिपादयति “सर्वंखल्विदं ब्रह्म” “ब्रह्मैवेदममृतं पुरस्ताद्ब्रहपश्चाद्ब्रह्मदक्षिणतश्चोत्तरेण”इत्यादि। स्मृतिश्च—“अहं कृत्स्नस्यजगतः प्रभवः प्रलयस्तथा” इत्यादिकासर्वस्यजगतः कारणे ब्रह्मणि विश्रान्तिमवगमयति। युक्तम्‌ चैतत्।सच्चिदानन्दरूपेऽधिष्ठाने मायावशात्प्रतीतंजगदधिष्ठानयाथात्म्यज्ञानेन शुक्तौरजतवत्तत्रैव लीयते।अधिष्ठानादन्यत्राऽऽरोप्यस्य लयासंभवात्‌। अतोऽधिष्ठानस्यपरब्रह्मणो यो निरतिशयोत्कर्षःस एव परिकल्पिते जगतिसच्चिदानन्दरूपादनुगतः संस्तत्तदुपाधितारतम्यात्सातिशयोनानाविध इवप्रतिभासत इत्यर्थः॥९॥ एवमीश्वरस्वरूपमेव परमार्थंसदन्यत्सर्वंपरिकल्पितमित्युपपाद्य तत्स्वरूपभूतयोर्ज्ञानानन्दयोरपि निरवधित्वं प्रातिपादयति—योऽयं मानुष इत्यादिना। सार्वभौमस्यभोक्तृशक्तिसंपन्नस्यधनधान्यादिसमृद्धपृथिव्युपभोगाद्योऽयंमानुष आनन्दस्तस्माच्छतगुणोत्तर आनन्दो मनुष्यगन्धर्वाणाम्। थताच

ब्रह्मानन्दशतं विष्णोरेक आनन्द उच्यते॥११॥
तस्याऽऽनन्दशतं रुद्रस्यैक आनन्द एव हि।
रुद्रानन्दशतं सर्वकारणस्य शिवस्य तु॥१२॥
कारणत्वोपलक्ष्यस्य शिवस्य परमात्मनः।
सत्यचिन्मान्ररूपस्यभूमाऽऽनन्द उदाहृतः॥१३॥
एवं क्रमेण सर्वेषां ज्ञानाधिक्यमपीष्यते।
स्कन्धशाखादिभेदेन यथा वृक्षो व्यवस्थितः॥१४॥
तथा रुद्रादिभेदेन शिव एको व्यवस्थितः।
उत्कर्षश्चापकर्षश्चस्कन्धशाखादिवस्तुषु॥१५॥
तथोत्कर्षापकर्षश्चरुद्रविष्ण्वादिषु स्थितः।

—————————————————————————

श्रूयते—“युवा स्यात्साधुयुवाऽध्यायकः। आशिष्ठो दृढिष्ठो बलिष्ठः। स्तस्येयं पृथिवी सर्वावित्तस्य पूर्णास्यात्‌। स एको मानुष आनन्दः। ते ये शतंमानुषा आनन्दाः। स एको मनुष्यगन्धर्वाणामानन्दः” इति। अत्र श्रुतौ मनुष्यगन्धर्वाणामानन्दादनन्तरं देवगन्धर्वादीनांब्रह्मान्तानां योऽयमुत्तरोत्तरंशतगुणित आनन्दस्तत्सर्वस्य संग्रहायाऽऽदिशब्दं प्रयुङ्के। मनुष्यगन्धर्वादीनामिति॥१०॥ स एको ब्रह्मण आनन्द इतिरजोगुणोपाधिकस्य ब्रह्मणोय आनन्द आम्नातस्तमारभ्योत्तरोत्तरं शतगुणित आनन्दो विष्णुरुद्रजगत्कारणानामधिगन्तव्यइत्याह— ब्रह्मानन्दशतमित्यादिना॥११॥१२॥सत्यचिन्मात्ररूपस्येति।मात्रशब्देन सकलोपाधिविरहो विवक्षितः। सत्यचिन्मात्ररूपस्य कारणत्वोपलक्ष्यस्यपरशिवस्वरूपत्वेनभूमाऽऽनन्द उदाहृतःश्रुत्या दर्शितः। परिच्छेदकोपाध्यभावात्परशिवस्वरूपभूत आनन्दोऽनवच्छिन्नोनिरतिशयइत्यर्थः। सा च श्रुतिः—“भूमा त्वेव विजिज्ञासितव्यो यो वैभूमा तत्सुखम्‌”इत्यादिका॥१३॥ एवं परशिवस्वरूपानन्दस्य निरतिशयत्वमुपपाद्यतत्स्वरूपभूतज्ञानस्याप्यनेनैवन्यायेन निरतिशयत्वमवगन्तव्यमित्यतिदिशति—एवमिति। एकस्यैव परशिवस्य रुद्रविष्ण्वादिनानाविधजग-

तरङ्गबुद्बुदादीनां यथा लोके व्यवस्थितः।
उत्कर्षश्चापकर्षश्चतथा रुद्रादिषुस्थितः॥१६॥
विश्वाधिकत्वं रुद्रस्य कारणस्य शिवस्य च।
न वदन्ति जना ये ते राक्षसाः स्युर्नसंशयः॥१७॥
व्यावहारिकदृष्ट्याऽयं विभागः परिकीर्तितः॥१८॥
प्रमाणदृष्ट्यावस्त्वेकमेव नित्यं न संशयः।
अनादृत्य महामोहात्प्रमाणं भुवि मानवाः॥२९॥
अयं परस्त्वयं नेति विवदन्ते परस्परम्‌।
महापापवतां नॄणां रुद्राधिक्यं न भासते॥२०॥
अनेकजन्मसिद्धानां श्रौतस्मार्तानुवार्तिनाम्।
रुद्राधिक्यं स्वतो भाति प्रमाणैरपि तर्कतः॥२१॥
सोपानक्रमतो देवा नृणां संसारमोचकाः।
रुद्रः संसारमग्नानां साक्षात्संसारमोचकः॥२२॥
अतः सर्वं परित्यज्य शिवादन्यत्तुदैवतम्‌।
शिव एकः सदा ध्येयः साक्षात्संसारमोचकः॥२३॥
वृक्षस्य मूलसेकेन शाखाः पुष्यन्ति वै यथा।

—————————————————————————————————————————————

दाकारेणावस्थानं सदृष्टान्तमुपपादयति—स्कन्धशाखेति॥१४—१६॥विश्वाधिकत्वमिति। उक्तरीत्या सर्वस्मादप्युत्कृष्टत्वात्परशिवो विश्वाधिकः।‘विश्वाधिकोरुद्रो महर्षिरिति’श्रुतेश्च शिवस्यैव विश्वाधिकत्वम्‌॥१७॥ ननुयथा वृक्षः स्कन्धशाखादिभेदेन नानाकारोऽवतिष्ठत एवं परशिवोऽपिरद्रविष्ण्वादिजगदाकारेणावतिष्ठते चेत्तर्ह्यद्वैतव्याकोप इत्यत आह—व्यावहारिकदृष्ट्येति। निर्विकार एवपरशिवस्वरूपेमायावशाद्विचित्रंजगदारोप्यतेन परत्वं स्कन्धशाखाद्यात्मना वृक्षवत्परिणमते अतो नानाविधभावमात्र-

शिवध्यानेन देवाश्च तथां तृप्ता भवन्ति हि॥२४॥

विकल्परहितं तत्त्वं ज्ञानमानन्दमव्ययम्‌।

ये पश्यन्ति विमुक्तास्ते जीवन्तोऽपि न संशयः॥२५॥

निर्विकल्पं परं तत्त्वंतर्कतो यस्य भासते।

सोऽपि मुच्येत संसाराद्यथा स्वप्नप्रपञ्चतः॥२६॥

निर्विकल्पं परं तत्त्वंप्रमाणेनैव केवलम्‌।

यस्य भाति स मुच्येत स्वसंसारमहोदधेः॥२७॥

न च नामानि रूपाणि शिवस्य परमात्मनः।

तथाऽपि मायया तस्य नामरूपे प्रकल्पिते॥२८॥

शिवो रुद्रो महादेवः शंकरो ब्रह्म सत्परम्‌।

एवमादीनि नामानि विशिष्टानि परस्य तु॥२९॥

—————————————————————————————————————————

साम्येनैव दृष्टान्तोपादानमित्यर्थ॥१८—२४॥ विकल्परहितमिति। निर्विशेषे ब्रह्मणि विकल्पहेतूनां विशेषाणामभावात्तत्स्वरूपभूतं ज्ञानं विकल्परहितम्।अत्यन्तं निर्विकल्पकमित्यर्थः। सर्वदा बाधवैधुर्यात्तदेव तत्वं परमार्थम्‌। अपराधीनप्रकाशत्वाज्ज्ञानम्‌। अत्यन्तानुकूलवेदनीयत्वादानन्दम्‌।अव्ययम्‌। व्ययोऽपगमोन्तवत्त्वंतद्रहितम्‌। देशकालवस्तुकृतपरिष्छेदरहितमित्यर्थः॥२५॥ तर्कत इति प्रतीतिबाधान्यथानुपपत्त्यादृश्यप्रपञ्चमिथ्यात्वेऽवगते प्रतीत्यधिष्ठानत्वेन च किंचित्पारमार्थिकंवस्त्वङ्गीकर्तव्यम्‌।इतरथा निरधिष्ठानभ्रमस्य निरवधिकबाधस्य च प्रसक्तेरित्यादिरूपस्तर्कः। श्रुतिरपितर्कं दर्शयति—‘असन्नेवस भवति’‘असद्ब्रह्मेति वेदचेत्‌’‘को ह्येवान्यात्कः प्राण्याद्यदेष आकाश आनन्दो न स्यात्‌’ इति॥२६॥ प्रमाणेनैवेति। ‘सत्यं ज्ञानमनन्तं ब्रह्म’ ‘अहं ब्रह्मास्मि, इत्यादिवेदान्तवाक्यंप्रमाणम्‌॥२७॥ न च नामानीति। ‘यत्तदद्रेश्यमग्राह्ममगोत्रमवर्णम्‌’इति श्रुतेः परमार्थतो नामरूपे न स्त इत्यर्थः॥२८॥ शिवो रद्र इति। मायापारिकल्पितनाम्नांमध्ये शिवरुद्रादिनामानिपरशिवस्वरूपे रूढितोवर्णनान्मु-

विष्णुनारायणादीनि नामानि परमेश्वरे।
कथंचिद्योगवृत्त्या तु वर्तन्ते न तु मुख्यया॥३०॥
अरूपस्य शिवस्यापि मूर्तिर्ध्येया ह्युपासकैः।
उमार्धविग्रहा शुक्लात्रिनेत्रा चन्द्ररोखरा॥३१॥
नीलग्रीवा परानन्दप्रमोदा ताण्डवप्रिया।
ब्रह्मविष्णुमहादेवैरूपास्या गुणमूर्तिभिः॥३२॥
सर्वमूर्तिविहीनस्य सर्वमूर्तेः शिवस्य तु।
तथाऽप्येषा परा मूर्तिरित्येषाशाश्वती श्रुतिः॥३३॥

—————————————————————————————————————————

ख्यानि।शिवो रुद्रइत्यादि नामचतुष्टयं रुद्रमूर्तेरभिधायकम्‌।ब्रह्म सत्परमिति त्रितयंपरशिवस्य साक्षाद्वाचकम्‌। परशिवमूर्त्यासह रुद्रमूर्तेस्तप्तायः-पिण्डवदविभागापत्तिं स्वयमेवाग्रे वक्ष्यति।अतो मूर्तिद्वयस्यैकीभूतत्वात्तथाविधेतान्युभयविधनामानि रूढ्यैव वर्तन्त इति मुख्यानि॥२९॥ विष्णुनारायणादीनीति। विष्ण्वादिमूर्तीनां परशिवमूर्त्यावैलक्षण्याद्विविक्तत्वमपि वक्ष्यति।अतो विष्ण्वादिमूर्तिषु रूढा विष्ण्वादयः शब्दास्तस्मिन्परतत्त्वेन रूढ्यावर्तन्तेऽपि तु व्याप्नोतीति विष्णुरित्येवमाद्यवयवव्युत्पत्यावर्तन्ते॥३०॥एवं मायापरिकल्पितनामानि दर्शयित्वा तत्परिकल्पितंमूर्त्यात्मकं रूपमपि परशिवस्य ध्यानार्थं दर्शयति—अरूपस्येत्यादिना॥३१॥ गुणमूर्तिभिरिति।सत्वरजस्तमोगुणोपाधिकैरित्यर्थः॥३२॥ सर्वमूर्तेरिति। परमार्थतःसर्वप्रकारसूर्तिरहितस्यापि मायापरिकल्पितंसर्वंजगदप्यन्या मूर्तिरित्यर्थः। शाश्वती श्रुतिरिति।परमार्थतो विग्रहरहितस्य शिवस्य तत्सद्भावंश्रुतिरपि दर्शयतीत्यर्थः।श्रूयते हि कैवल्योपनिषदि—‘उमासहायं परमेश्वरं प्रभुं त्रिलोचनं नीलकण्ठं प्रशान्तम्‌।ध्यात्वामुनिर्गच्छति भूतयोनिं समस्तसाक्षिं तमसः परस्तात्‌’ इति॥३३॥ रुद्रमूर्तेःपरशिवमूर्त्यासहैकत्वं वक्ष्यतीति यदवादिष्म तदाह—तप्तायःपिण्डवदित्यादिना।विशुद्धसत्त्वगुणो हि रुद्रस्योपाधिस्तमस्तु संहरणाय तत्स्वरूपाब्दहिरेववर्तते।अतो रुद्रमूर्तिर्विशुद्धसत्त्वात्मकत्वात्सत्त्वस्यच सुखप्रकाशस्वरूपत्वात्सा-

तप्तायः पिण्डवद्विप्रारुद्रमूर्तिः परस्य तु।
मूर्त्यातुल्याऽन्यमूर्तिभ्योलक्षणैर्मुनिसत्तमाः॥३४॥
विष्ण्वादीनां तु सर्वेषां मूर्तयो व्यवधानतः।
न तुल्याः परतत्त्वस्य मूर्त्यावेदान्तपरागाः॥३५॥
परतत्त्वस्य नामानि प्रत्यासत्त्या मुनीश्वराः।
त्रिमूर्तीनां तु रुद्रस्याव्यवधानानि सुव्रताः॥३६॥
विष्ण्वादीनां च देवानां तानि नामानि सुव्रताः।

—————————————————————————————————————————

क्षिचित्प्रकाशरूपया परशिवमूर्त्याप्रकाशसुखादिलक्षणैःसदृशी। अतो विष्ण्वादिमूर्तिभ्यो विलक्षणा च तप्तायः पिण्डवत्परशिवमूर्त्याऽविभागमापनैवेत्यर्थः॥३४॥न तुल्याःपरतत्त्वस्येति। विष्ण्वादिमूर्तिषु रजस्तमसोः प्राचुर्यलक्षणेन व्यवधानेन सच्चिदानन्दरूपायाः पररशिवमूर्तेःसाकल्येन प्रतिफलनायोगात्पराशिवमूर्त्यान तास्तुल्याः। अतस्तद्विविक्ततयैव तासामुपलम्भात्तथाविधमूर्त्यभिधायकानि विष्ण्वादिनामानि परशिवस्वरूपमूर्ताववयवप्रसिद्धिसव्यपेक्षत्वेनविलम्बितप्रतीतिजनकत्वान्नमुख्यानि। शिवरुद्रादिनामानि तूक्तरीत्यापरशिवरुद्रमूर्त्योरेकीभूतत्वात्तदुभयात्मिकायां मूर्त्यामवयवप्रसिद्धिमन्तरेण समुदायप्रसिद्ध्यैव वर्तन्त इति शीघ्रपरतीतिजनकत्वान्मुख्यानीत्यभिप्रायः॥३५॥एवंरुद्रमूर्त्यभिधायकानां शिवरुद्रादिनाम्नांपरतत्त्वविषये मुख्यत्वमुपपाद्य निरुपाधिकपराशेवस्वरूपप्रतिपादकानां ब्रह्म सत्परमित्यादिनाम्नामपि रुद्रमूर्तौमुख्यत्वंप्रतिपादयति। परतत्त्वस्येत्यादिना। ब्रह्म सत्परमित्यादीनि यानि निरुपाधिकतत्त्वस्य नामानि तानि त्रिमूर्तीनां मध्ये रुद्रस्य प्रत्यासत्त्याऽव्यवधानानिनामानि निरुपाधिकस्वरूपप्रतिपादनेन सोपाधिकाद्रुद्रात्परतत्त्वंव्यवधीयतएभिरिति करणव्युत्पत्त्यातानि नामानि व्यवधाननिमित्तानिरुद्रस्योपाधेर्निरतिशयसत्त्वोत्कर्षवत्त्वात्कार्त्स्न्येनबिम्बग्रहलक्षणाप्रत्यासत्तिरस्ति तयाप्रत्यासत्त्याऽव्यवधायकानि तानि नामानीदृग्व्यवधानसद्भावबलादेवतयोर्मूर्त्योर्भेदेनव्यवहारः॥३६॥विष्ण्वादीनामिति। विष्णुब्रह्महिरण्यगर्भादीनां तानि पर-

तत्त्वान्वयेन नामानि भवान्ति ब्रह्मवित्तमाः॥३७॥
तथाऽपि रुद्रे तान्येव प्रत्यासत्त्यापरेण तु।
मुख्यानि न तथाऽन्येषु व्यवधानात्परेण तु॥ ३८॥
परतत्त्वपरिज्ञानं तस्य मूर्तिप्रसादतः।
तत्प्रसादश्चतद्ध्यानपूजाभ्यामेव नान्यथा॥३९॥
अन्नादिभोजनान्नॄणां यथा क्षुद्विनिवर्तते।
तथा मूर्तिप्रसादेन तत्तत्त्वंच प्रकाशते॥४०॥
परतत्त्वंतु सर्वेषां स्वरूपमपि सर्वदा।

————————————————————

तत्त्वनामानिपरतत्त्वान्वयसद्भावमात्रेण प्रतिपादकानि। अयमर्थः—सच्चिदानन्दैकलक्षणोऽद्वितीयः सर्वगतः परशिव एव नानाविधोपाधिसंबन्धवशाद्ब्रह्मविष्णुरुद्रादिरूपेण नानेवावभासते। तत्र ब्रह्मविष्णुरुद्रहिरण्यगर्भसूत्रात्मादीन्स्वस्वव्यापारविषयेष्वप्रतिहतज्ञानत्वात्तेषां सर्वेषामुपाधिषु सत्त्वस्यनिरतिशयोत्कर्ष एष्टव्यः।इतरथाऽस्मदादिजीववत्किंज्ज्ञत्वप्रसङ्गेन सकलसृष्टिस्थित्यादिव्यवहारविलोपप्रसङ्गात्‌। ननूपधेयवदुपाधीनामप्यैकरूप्येब्रह्मविष्ण्वादिभेदव्यवहारो नोपपद्यत इति चेत्‌। मैवम्‌।ब्रह्माद्युपाधिषुवस्तुतः सत्त्वोत्कर्षस्यैकरूप्ये सत्यपि रुद्रोपाधिव्यरितिक्त्तेषु तेष्वाहार्यरजस्तमःप्रयुक्तो नानाविधोऽपकर्षोऽप्यस्ति।अतस्तत्प्रयुक्तो ब्रह्मविष्ण्वादिभेदव्यपदेशोन सोऽपकर्षस्तेषां वास्तव इति मन्तव्यम्। तथा सत्यस्मदादिवत्तेषामपि जीवत्वप्रसङ्गात्।एवं ब्रह्मविष्ण्वादिमूर्तिष्वाहार्यापकर्षसद्भावात्परतत्त्वप्रत्यासत्तिर्नास्तीति भवन्ति तानि व्यवधायकान्यमुख्यानीत्यर्थः॥३७॥ नन्वेवमुभयत्राप्युपाधिव्यवधानेन साम्ये सत्यपि परतत्वनाम्नां क्वचिन्मुख्यत्वंक्वचिन्नेतिवैलक्षण्यं कुत इत्यतआह—तथाऽपीति। यद्यप्युक्तरीत्यारुद्रमूर्तावपिपरतत्त्वाद्व्यवधानमस्ति तथाऽपि परशिवस्वरूपेण रुद्रमूर्तेःपूर्वोक्तायाः प्रत्यासत्तिस्तद्भावेन तत्र परतत्त्वनामानि मुख्यानीत्युच्यन्ते। अन्येषां तुब्रह्मविष्ण्वाद्युपाधीनां च न तथा प्रयासत्तिरस्ति। आहार्यापकर्षसद्भावात्‌। अतोव्यवधानात्परतत्त्वनामानि तेषां न मुख्यानीत्यर्थः॥३८॥ एवं विष्ण्वा-

तस्य मूर्तिप्रसादेन विना नैव प्रकाशते॥४१॥
तस्मान्मूर्तिर्हिसर्वेषां भोगमोक्षफलप्रदा।
अतो मूर्तिं महाभक्त्याभजध्वं मुनिपुङ्गवाः॥४२॥

इति श्रास्कान्दपुराणे सूतसंहितायां चतुर्थे यज्ञवैभवखण्डे
परपदस्वरूपविचारो नाम सप्तविंशोऽघ्यायः॥२७॥

अथ अष्टाविंशोऽध्यायः।

२८. शिवलिङ्गस्वरूपकथनम्‌॥

सूत उवाच—

अथातः संप्रवक्ष्यामि शिवलिङ्गं समासतः।
यस्य विज्ञानमात्रेण विमुक्तो मानवो भवेत्‌॥१॥
शिव एव स्वयं लिङ्गंलिङ्गं गमकमेव हि।
शिवेन गम्यते सर्वं शिवो नान्येन गम्यते॥२॥

——————————————————————

दिमूर्तिभ्योविलक्षणा “उमार्धविग्रहा”इत्यादिना या परतत्त्वमूर्तिरभिहितातत्प्रसादादेव भोगभोक्षरूपफलप्राप्तिरिति सा सर्वैःसर्वदा सेव्येत्युपसंहरति।परतत्त्वपरिज्ञानमित्यादिना॥३९—४२॥

इति श्रीस्कान्दपुराणे सूतसंहितातात्पर्यदीपिकायां चतुर्थे यज्ञवैभवैखण्डे
परपदस्वरूपविचारोनाम सप्तविंशोाऽध्यायः॥२७॥

———

एवं परशिवस्य ध्यानपूजाद्यर्थं परिकल्पितां विशिष्टांमूर्तिं प्रतिपाद्यलिंङ्गस्वरूपमपि निर्णेतुं प्रतिजानीते—अथात इति॥१॥ शिवस्य लिङ्गंशिवलिङ्गमिति भ्रमंव्युदसितुमाह—शिव एव स्वयं लिङ्गमिति। तदुपपादयाते—लिङ्गंगमकमित्यादिना। लोके हि वह्न्यादिलक्षणस्यार्थान्तरस्य यद्गमकं ज्ञापकं धूमादि लिङ्गमुच्यते। शिवोऽपि स्वप्रकाशचिद्रूपत्वेनसर्वस्यजडवर्गस्यगमको न त्वन्येन गम्यः।अतो गमकत्वात्स्वयमेव लिङ्गम्‌॥२॥

जडं हि गम्यतेऽन्येन नाजडं मुनिपुङ्गवाः।
शिवो नैव जडः साक्षात्स्वप्रकाशैकलक्षणः॥३॥
अस्वप्रकाश्चेत्साक्षाच्छिवो नैव शिवो भवेत्‌।
अस्वप्रकाशं कुड्यादि न शिवः संमतं खलु॥४॥
शिवेऽसति मुनिश्रेष्ठाः स्वप्रकाशैकलक्षणे।
अप्रतीतं भवेत्सर्वं ततः शून्यमशेतषः॥५॥
शून्यसिद्धिरपि श्रेष्ठा शून्येनैव न सिध्यति।

——————————————————————

एतदेव गमकत्वमुपपादयति—जडं हीत्यादिना। घटपटाद्यात्मकंजडं जगदेव स्वव्यतिरिक्तेन चित्प्रकाशेन ज्ञाप्यते। जडविलक्षणं चैतन्यंनान्येनगम्यते किंतु स्वयं प्रकाशते। अतः स्वप्रकाशचिद्रूपः परशिवो नैव जडः।यतो न जडोऽतो न गम्यः।अपि तु स्वप्रकाशचिद्रूपत्वाद्गमकः।अतःस्यमेव लिङ्गमित्यर्थः॥३॥भवेदेवं यदि शिवः स्वप्रकाशचिद्रूपः स्यात्तथात्वेतु सर्वदा सर्वथाभावत्वेनतद्गोचरप्रमाणनैरपेक्ष्यादुपानिषदेकसमधिगम्यत्वभङ्गप्रसक्तेरस्वप्रकाश एवस इत्यत आह—अस्वप्रकाश्चेदिति।यदिशिवः स्वप्रकाशचिदात्मको न स्यात्तर्हितस्य शिवत्वमेवहीयेत। पराधीनप्रकाशानां घटकुड्यादीनामशिवत्वदर्शनात्‌।विमतः शिवः स्वप्रकाशो भवितुमर्हति शिवत्वात्‌। यो न स्वप्रकाशो नासौ शिवोयथा घटपटादिः शिवश्चायं तस्मात्स्वप्रकाश एवेत्यभिप्रायः॥४॥विपक्षे बाधकमाह—शिव इति।जडं सर्वंजगत्तावच्छिवस्वरूपचैतन्यबलादेव प्रतीयते तदपि चैतन्यं प्रतीयमानमेवार्थं प्रत्याययतीत्यङ्गीकार्यम्‌। दीपादौतथा दृष्टत्वात्। तच्चेज्ज्ञानान्तरेणप्रतीयेत तदप्येवमिति तस्यापि स्वप्रकाशएष्टव्यः।तथाच तज्ज्ञानानन्तरंस्वयं प्रकाशते चेत्प्रथमज्ञानमेव तथा भवतु पराधीनप्रकाशं चेत्किं तत्परंप्रथमज्ञानमेव तदाऽन्योन्याश्रयादेकमपि न सिध्येत्‌। अतः तृतीयं ज्ञानान्तरंतस्यापि प्रकाशावश्यंभावाज्ञानान्तरंवक्तव्यं स्यात्तथाऽप्येवमित्यनवस्था मूलक्षयकरी स्यात्‌। एवं च परशिवस्वरूपस्य स्वप्रकाशतानङ्गीकारे ज्ञानज्ञेयात्मकं
सर्वमप्रतिभातं सच्छून्यमेव भवेदित्यर्थः॥५॥सिद्धं नः समीहितमिति यदि

खलुसर्वात्मना भानविहीनं शून्यलक्षणम्‌॥६॥
अतः साक्षी शिवः साम्बः स्वप्रकाशैकलक्षणः।
तेन सर्वमिदं गम्यं गस्यतेऽसो न गम्यते॥७॥
स्वयंज्योतिरिति प्राह श्रुतिः साध्वी महेश्वरम्‌ ।
तस्य भासा सर्वमिदं विभातीत्यपि चाऽऽह हि॥८॥

—————————————————————————————————————————

शून्यवादी प्रत्यवतिष्ठेततं प्रत्याह—शून्यसिद्धिरिति। शून्यवादिनाऽपि सर्वशून्यत्वं केनचित्प्रमाणज्ञानेनैवप्रतिपादनीयं न तु शून्येनैव। मेयसिद्धेर्मानाधीनत्वात्। तथाच तज्ज्ञानस्य सत्त्वात्सर्वशून्यत्वंन सिध्येत्‌। सर्वप्रकरेणापि प्रतिभानराहित्यस्यैव शून्यलक्षणत्वादित्यर्थः॥६॥ एवं सर्वशून्यमतेऽपिज्ञानसद्भावावश्यंभावात्तस्यच पराधीनप्रकाशत्वाङ्गीकारेऽनवस्थायां ज्ञानस्यस्वप्रकाशत्वाभावेन सर्वजगदान्ध्यप्रसङ्गात्स्वप्रकाशमेव तदित्यङ्गीकर्तव्यम्।घटज्ञानं पटज्ञानमिति नानात्वप्रतीतेरप्युपाधिकृतत्वादद्वितीयंस्वश्रकाशचैतन्यमेव परशिवस्वरूपमति निगमयति—अत इति। तेन स्वप्रकाशपरशिवस्वरूपचैतन्येन सर्वमिदं पराग्भूतं जगद्गम्यते। अतस्तत्स्वरूपं गमकम्‌।यतःस्वप्रकाशत्वादन्येन न गम्यतेऽतो न गम्यत इत्यर्थः। अयमभिप्रायः।यद्यपिपरशिवस्वरूपचैतन्यं स्वप्रकाशं तथाऽप्यनाद्यविद्याविलासवशेनाऽऽवृतमिवभवतितच्चाऽऽवरणमुपनिषद्वाक्यजनितयापरशिवस्वरूपविषयान्तःकरणवृत्त्याऽपनीयते । तस्मिंश्चापनीते तत्तत्त्वंस्वरूपप्रकाशेनैव प्रकाशते न तु घटादिवत्स्वातिरिक्तं चैतन्यमपेक्षते। अतः फलव्याप्यत्वाभावात्स्वयंप्रकाशत्वंवृत्तिव्याप्यत्वसद्भावाच्चोपनिषदेकसमाधिगम्यत्वंच न विरुध्यते॥७॥ इत्थं स्वप्रकाशत्वंतर्कतो निरूप्य तदनुग्राह्यं स्वप्रकाशत्वगमकं प्रमाणमप्युपन्यस्यतिस्वयंज्योतिरिति ।“अत्रायं पुरषः स्वयंज्योतिः” इत्येतद्वाक्यमित्यर्थः। तथाशिवस्वरूपातिरिक्तस्यसर्वस्य मायापरिकल्पितस्य तदधीनप्रकाशत्वमित्यत्रापि श्रुतिंप्रमाणयति—तस्य भासा सर्वमिति । श्रूयते हि—“न तत्र सूर्योभाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः। तमेव भान्तमनुभाति सर्वंतस्य भासा सर्वमिदं विभाति”इति॥८॥ शिव एव लिङ्ग-

अतः शिवः सर्वजगद्विभासकः स्वयंप्रकाशः

स्वयमेव केवलम्‌। मयोदितं लिङ्गमिति

द्विजर्षभास्तदेव पूज्यं श्रुतिमस्तकस्थितम्‌॥९॥

शिवस्य लिङ्गं शिवलिङ्गमन्ये मुनीश्वरा वेदविदो

वदन्ति। स्ययंप्रकाशस्य न युज्यते तत्त-

तश्च शम्भुः स्वयमेव लिङ्गम्‌॥१०॥
विवेकहीनमर्त्यस्य चित्तवृत्त्याद्यपेक्षया

शिवस्य लिङ्गमित्ययं रवः समस्तजन्तुभिः।

निगद्यते शिवः स्वतः प्रसिद्ध एव सर्वदा

ततः शिवस्य लिङ्गमित्ययं रवो न संगतः॥११॥

स्वत एव प्रगमोऽपि शंकरो न विभातीव

विभाति मायया। स्वत एव श्रुतिकोविदाः

शिवः स्वकलिङ्गेननिगम्यते स्फुटम्‌॥१२॥

—————————————————————————————————————————

मिति प्रतिज्ञातंसिद्धमिति निगमयति—अत इति।श्रुतिमस्तकस्थितमिति।वेदान्तैः प्रतिपादितं सच्चिदानन्दैकरसमद्वितीयंपरशिवस्वरूपमित्यर्थः॥९॥स्वयंप्रकाशस्य न युज्यत इति। स्वप्रकाशचैतन्यस्य गमकान्तरनैरपेक्ष्येणावस्थितस्य लिङ्गंगमकमित्येतन्नोपपद्यत इत्यर्थः॥१०॥ ननु शिवस्य लिङ्गंशिवलिङ्गमिति लोके पूज्यत्वेन प्रसिद्धं तत्कथं शिव एव लिङ्गमित्यतआह—विवेकेति।परशिवस्वरूपंविविच्य ज्ञातुमशक्तस्य मर्त्यस्यचित्तवृत्तिमपेक्ष्यतदनुसारेणैव शिवस्य लिङ्गं शिवलिङ्कमिति लोकव्यपदेशः। विवेकदृष्ट्यातु स्वप्रकाशपरशिवस्वरूपस्य गमकाभावाच्चासौ न युक्त इत्यर्थः॥११॥ननु विवेकरहितस्यापि परशिवः स्वप्रकाश एव।न हि वस्तु पुरुषविरोषमपेक्ष्यन्यथा भवति। अतस्तच्चित्तानुसारेणापि शिवस्य लिङ्गमित्येतन्नयुञ्यतइत्यत आह—स्वत एवेति।प्रगमयति प्रकर्षेण सर्वं प्रकाशयतीति प्रगमः।

शिवस्य लिङ्गं कथयन्ति केचिद्बहुप्रकारं

व्यवहारदृष्ट्या। न तत्त्वदृष्ट्या परमेश्वरस्य

स्वयंप्रभस्यास्य न चास्ति लिङ्गम्‌॥१३॥

वेदान्तवाक्योत्थपरात्मविद्यां शिवस्य लिङ्गं

कथयन्ति केचित्‌। विचारजन्यामपि

सत्यविद्यां ब्रुवन्ति चान्ये परमस्य लिङ्गम्‌॥१४॥

स्मृतिजामितिहासजामिमां परविद्यामपि

लिङ्गमीशितुः। अतिशुद्धामपि तां पुराणजां

प्रवदन्ति श्रुतिवित्तमोत्तमाः॥१५॥

शिवस्य लिङ्गं कथयन्ति मायां शिवस्य

—————————————————————————————————————————

गमयतेः पचाद्यच्। सर्वस्य गमकत्वेन स्वयंप्रकाशमानोऽपि शिवो न विभातिन प्रकाशत इत्यज्ञानत्वेन मायावशादविवेकिनां न प्रकाशते। अतस्तैर्मायाबद्धदृष्टिभिरज्ञायमानः स्वयंप्रकाशमानः शिवः स्वरूपावगमकेनान्येन लिङ्गेन स्पष्टंतैर्ज्ञायत इति भवति। विवेकहीनचित्तवृत्त्यपेक्षयैव शिवस्य लिङ्गमित्यपिव्यवहार इत्यर्थः॥१२॥ एवं स्वप्रकाशस्यापि शिवस्य मायावशादज्ञायमानस्यगमकानि लिङ्गानि व्यवहारदशायां विद्वद्भिःप्रतिपाद्यन्त इति दर्शयति—शिवस्य लिङ्गमिति। तत्सर्वं व्यवहारदृष्ट्यैवलिङ्गं न तु परमार्थविषयया दृष्ट्यापरशिवस्वरूपस्य स्वयंप्रभत्वेन गमकान्तरनिरपेक्षत्वात्स्वयमेव सर्वस्य गमकत्वाच्छिवस्वरूपमेव लिङ्गं न तु शिवस्य लिङ्गं किंचिदित्यर्थः॥१३॥तान्येवबहुविधानि लिङ्गानि क्रमेणाऽऽचष्टे—वेदान्तेत्यादिना। वेदान्तवाक्यजनिताया परशिवस्वरूपविषया मनोवृत्तिःसा तत्स्वरूपावरणाविद्यापनयनद्वारा स्वयंप्रकाशस्यापि तस्य व्यवहारदष्ट्यागमकत्वाल्लिङ्गमित्यर्थः। एवमुत्तरत्रापि योज्यम्‌। विचारजन्यामिति। विचारो मीमांसा सा चात्नोपनिषद्वाक्यनिर्णायकवेदान्तशास्त्रंतत्परिशीलनजन्यामित्यर्थः॥१४॥१५॥ एवं शास्त्रस्मृतीतिहासपुराणजन्याद्वितीयपरशीवस्वरूपाविषया मनोवृत्तयो लिङ्गत्वेनोक्ताः। अथ

दृश्यांशिववस्तुनिष्ठाम्। वदन्ति केचिज्जन-

चित्तमन्ये त्वहंकृतिं चापि मनश्च बुद्धिम्‌॥१६॥

प्राणं च लिङ्गंप्रवदन्ति केचिच्छरीरमन्ये

प्रवदन्ति लिङ्गम्‌। त्वगादिखानि प्रवदन्ति

केचित्समूहमन्ये परमेश्वरस्य॥१७॥

शब्दादिभूतानि महेश्वरस्य स्थूलानि भूतानि

च संगिरन्ते। पाताललोकादि समस्तमेत-

ल्लिङ्गंमहेशस्य वदन्ति केचित्‌॥१८॥

यदस्ति यन्नास्ति महेश्वरस्य समस्तमेतत्प्र-

—————————————————————————————————————————

तत्स्वरूपे परिकल्पितंमायातत्कार्यंसर्वमपि स्वाधिष्ठानस्य परशिवस्वरूपस्यगमकत्वाल्लिङ्गत्वेनव्यवह्रियत इति दर्शयति—शिवस्येति। शिवस्यदृश्यामिति। शिवेन प्रकाश्याम्। शिववस्तुनिष्ठां वस्तुभूते परशिवस्वरूपेसमाश्रितामित्यर्थः। ईदृशी माया हि प्रत्यगात्मनः कारणशरीरं तटुपाधिवशादुपहितंप्रत्यग्भूतं परशिवस्वरूपमवगम्यत इतिमायाया लिङ्गत्वम्। जनचित्तमिति।जनानां प्राणिनां मायासत्वपरिणामरूपमन्तःकरणं तद्रृत्तयोऽहङ्कारादयः पूर्वोक्तस्वरूपाः॥१६॥ प्रमाणस्य च लिङ्गत्वंश्रुतौदर्शितम्‌—‘कस्मिन्नहमुत्क्रान्तउत्क्रान्तो भविष्यामि कस्मिम्प्रतिष्ठितेप्रतिष्ठास्यामि’इतिस प्राणमसृजत’ इति श्रुतत्वात्। शरीरमन्यइति। मनोबुद्धिप्राणादिसमुदायरूपं यत्सूक्ष्मशरीरं तदपि स्वोपहितस्य गमकत्वाल्लिङ्गमित्यर्थः।त्वगादिखानीति। त्वगसृड्मांसाद्याये सप्त धातवस्तेऽपि प्रत्येकं चेतनस्य गमक्त्वालिङ्गम्‌। समूहमन्यइति। त्वगादीनां समुदायरूपं स्थूलशरीरमित्यर्थः॥१७॥ एवं शरीरत्रयात्मकस्यदृश्यस्यलिङ्गत्वमभिधाय भूतभौतिकस्यापि दृश्यवर्गस्यतल्लिङ्गत्वमाचष्टेशब्दादीत्यादिना। शब्दतन्मात्राद्यात्मकानि सूक्ष्मभूतानि। शब्दादिभूतानि।पाताललोकादीति। आदिशब्देनान्येत्रयोदशलोका गृह्यन्ते॥१८॥इत्थं व्यवहारदृष्टिमश्रित्य वादिभिर्बहुधाऽभिधीयमानं लिङ्गजातमभिधाय

वदन्ति लिङ्गम्‌। विशुद्धविद्याः परयोगिनो-

ऽस्य स्वयंप्रभस्यैव न लिङ्गमूचुः॥१९॥

यद्यल्लिङ्गतया शिवस्य कथितं तत्तज्जडं वस्तुतो
लिङ्गं नैवभवेद्विशुद्धमतयो ज्ञानं हि लिङ्गंभवेत्‌।
तस्मादेवमहेश्वरः परतरस्तत्तज्जडोपाधि-
कश्चिद्रूपः कथितः प्रभोर्गमकमित्यर्थस्थितिः स्वस्यतु॥ २०॥

आलयंलिङ्गमित्याहुरपरे वेदवित्तमाः।
तदाऽपि शंकरः साक्षाल्लिङ्गंनान्यन्मुनीश्वराः॥ २१॥

——————————————————————

परमार्थदर्शिनां मतमाह—विशुद्धविद्या इति।विशुद्धा संशयविपर्यासादिरहिता वेदान्तमहावाक्यजनिता प्रत्यग्ब्रह्मैक्यविषया विद्या येषां ते तथोक्ता।अत एवपरयोगिनस्तेऽस्यपरशिवस्य स्वरूपातिरिक्तं किमपि लिङ्गं न प्रतिपादयन्ति।अपि तु स्वयमेव लिङ्गंभवीतिब्रुवते॥१९॥ किंचोक्तेषु सर्वेष्वपि लिङ्गेषु स्वरूपेण ज्ञायमानस्यैवपरशिवस्वरूपगमकम्वात्प्राप्ताप्राप्तविवेकेनसोपाधिकश्चिद्रूपः शिव एव निरुपाधिकस्य स्वस्यगमक इति स्वयमेव लिङ्गमित्येतदेव युक्तमित्याह—यद्यल्लिङ्गतयेति। अतीतेन ग्रन्थसंदर्भेण यद्यज्जडंवस्तु शिवस्य लिङ्गत्वेनानुक्रान्तं तत्तद्वस्तुतः स्वसत्तामात्रेण न लिङ्गम्। अपितु ज्ञायमानमेव। यतः पण्डिता लोके ज्ञातमेव धूमादिकं लिङ्गमिति ब्रुवते।तस्मत्कारणात्तत्तज्जडाधिष्ठानत्वेन तत्तद्भासकस्तदुपाधिपरिच्छिन्नश्चिद्रूपः शिवएवप्रभोर्व्यापकस्यानवच्छिन्नस्य स्वस्वरूपस्प गमकं लिङ्गं भवतीत्येवार्थस्थितिर्वस्तुस्थितिः। अतः परशिवः स्वयमेव लिङ्गमित्यस्मिन्नेवार्थेसर्वेषां पर्यवसानमित्यर्थः॥२०॥ एवं गमकंलिङ्गमिति पक्षे शिवस्वरूपस्यैव सर्वगमकत्वाल्लिङ्गत्वमुपपाद्य मतान्तरेऽपितथात्वमुपपादयितुमनुभाषते—आलयमिति॥स्वस्वरूपस्य शिवस्य ध्यानपूजाद्यर्थंलिङ्गप्रतिमादिकं यदालम्बनंतल्लिङ्गमित्यर्थः।तस्मिन्नपि मते शिव एवलिङ्गमित्ययमेवार्थःपर्यवस्यतीत्याह—तदाऽपीति॥२१॥ तदेवमुपपादयितुमालयशब्दार्थमाह—आलयोनामेति। आधारो-

आलयोनाम चाऽऽधारः सर्वाधरः शिवः खलु।
सदा सत्यस्वभावत्वात्सत्य एव शिवः खलु॥२२॥
चिद्रूपं हि सदा सत्यं नाचिद्रूपं कथंचन।
असत्यत्वस्य दृष्टत्वादचिद्रूपस्य वस्तुनः॥२३॥
शुक्तिकारजतादीनामसत्यत्वं हि संमतम्‌।

—————————————————————————————————————————

ऽधिकरणमधिष्ठानमिति यावत्‌। तच्चाऽऽधारत्वं निरूप्यमाणे परशिवस्यैवघटते नान्यस्येत्युपपादयति—सर्वाधार इति।सच्चिदानन्दलक्षणेऽद्वितीये परशिवस्वरूपोहि मायावशाद्भूतभौतिकात्मकंसर्वंजगत्परिकल्पि-तमित्याधारत्वंशिवस्यैव पारमार्थिकन तु मायाकार्यस्यान्यस्येत्यर्थः। कुत इत्यत आह—सदेति। सत्यरूपे हि वस्तुनि शुक्तिकाशकलादौमायामयरजतादिकं परिकल्पितं दृष्टं शिवश्च सत्यस्वभावः।अतस्तत्स्वरूपे मिथ्याभूतस्य दृश्यप्रपञ्चस्यपरिकल्पितत्वमङ्गीकार्यमिति भवत्यस्य सर्वाधारत्वमित्यर्थः। भवेदेवंयद्यसौशिवः सत्यः स्यात्सत्तायोगि हि सत्यं निर्धर्मकस्य सत्तासंबन्धलक्षणधर्माङ्गीकारानुपपत्तेरित्यत आह—सत्य एवेति॥२२॥ यदि घटपटादेरपि सत्तायोगात्सत्त्वमङ्गीकुर्मस्तदा स्यादयमप्युपालम्भः सद्रूपेब्रह्मणि परिकल्पितत्वादधिष्ठानसत्त्वमेवाऽऽरोप्येषु प्रतीयते सर्पधारादौरज्ज्वाइदमंशवत्‌। अस्त्वेवमारोप्येषु सत्त्वप्रतीतिरधिष्ठानभूतस्य निर्धर्मकस्य ब्रह्मणः कथं सत्यत्वंसर्वदा बाधवैधुर्यादितिब्रूमः। तदपि कुत इत्यत आह—चिद्रूपं हीति। नानाविधेषु चेत्यरूपेषुव्यावर्तमानेषु तद्भावाभावसाक्षितयाऽनुवर्तमानं चिद्रूपमेव सत्यंजडरूपंतु मायामयत्वादनृतमतश्चिद्रूपत्वाच्छिवः सत्यः।ननु जडस्यापि सत्यत्वं कस्मान्न भवतीत्यत आह— असत्यत्वस्येति॥२३॥ जडस्यासत्यत्वंकुत्रदृष्टमित्यत आह—शुक्तिकेति। शुक्तिरज्ज्वाद्यधिष्ठानेषु ये रजतसर्पादय आरोप्या जडास्तेषामसत्यत्वंतावदुभयवादिसंमतमित्यर्थः। अस्त्वेवमसत्येव प्रमातरि बाध्यमानत्वात्सति प्रमातर्यबाध्यमानानां घटपटादीनां तु कुतोऽसत्यत्वमित्यत आह—अचेतनानामिति। अचेतनत्वाच्छुक्तिरूप्यवदित्येतद्दृष्टान्तबलेन सर्वस्याप्यसत्यत्वंसेत्स्यतीत्यर्थः।एवं मायापरिकल्पितस्य दृश्यप्रपञ्चस्य व्यावहारिकसत्यत्वे सत्यपि

अचेतनानामन्येषामसत्यत्वे निदर्शनम्‌॥२४॥
शुक्तिकारजतं विप्राः सत्य एव ततः शिवः।
अतः कल्पितरूपाणामाधारो भगवाञ्शिवः॥२५॥
अनाधारो महादेवः सत्यचैतन्यलक्षणः।
सर्वाधारस्य नाऽऽधारो विद्यते हि दिजोत्तमाः॥
आकाशस्य यथा कश्चिन्नाऽऽधारो विद्यते द्विजाः॥२६॥
व्यावर्तयति चाऽऽधारं शिवस्य परमात्मनः॥२७॥

—————————————————————————————————————————

“नेह नानाऽस्ति किञ्चन” इत्यादिका श्रुतिरपि पारमार्थिकसत्यत्वंनिवारयति।तस्मात्परशिव एवपरमार्थतः सत्यः। इत्थं परशिवश्य सत्यत्वं तदतिरिक्तस्यासत्यत्वं चोपपाद्योक्तं सर्वाधारत्वंनिगमयति—अत इति॥२४॥२५॥ननु यथा रजताद्यधघिष्ठानस्य शुक्तिशकलदेरप्यन्यद्भूम्यादिकमधिकरणं दृश्यतएवं मायापारिकल्पिपतजगदधिष्ठटानस्यापि शिवस्यान्यदधिष्ठानं किं न स्यादित्यतआह—अनाधार इति। “सत्यंज्ञानमनन्तं ब्रह्म” इति हि परशिवस्य स्वरूपलक्षणम्‌।प्रत्यस्तमितसकलविशेषं तत्स्वरूपं सर्वथा बाधरहितत्वात्सत्यमित्युच्यतेस्वपरव्यवहारे तु प्रकाशत्वाज्ज्ञानम्‌। ईदृग्रूपोयः परशिवः स महादेवः।ब्रह्मविष्ण्वादीनां सोपाधिकानां परिच्छिन्नत्वादस्य च तथाविधोपाधिपरिच्छेदाभावान्महत्त्वम्‌। ईदृग्विधस्य तस्याऽऽधारान्तरं नोपपद्यते इत्यर्थः।एतदेवसदृष्टान्तमुपपादयति—सर्वाधारस्येति। सर्वाधारोहि परशिवःस्वातिरिक्तस्यसर्वस्य मायया तत्स्वरूपे परिकल्पितत्वात्तस्य चाधिष्ठानादन्यत्रासंभवादधिष्ठानभूतस्य सर्वगतस्यपरशिवस्याऽऽकाशस्येवाधिष्ठानान्तरं नोपपद्यतइत्यर्थः॥२६॥ एवं परशिवस्याऽऽधारान्तरराहित्यं प्रतिपाद्य तत्र श्रुतिं प्रमाणयति—व्यावर्तयतीति।“स भगवः कस्मिन्प्रतिष्ठित इति स्वे महिम्नि”इत्यादिकः सवेदान्तस्तस्य चार्थान्यथात्वशङ्कां निवर्तयति—सत्यवादीति।सत्यमबाधितं तत्स्वरूपं वदितुं शीलमस्येति तथोक्तः। ननुश्रुतिजन्यज्ञानमपि स्वार्थनिश्चयाय प्रमाणान्तरसंवादमपेक्षतेऽतः सापेक्षत्वादप्रामाण्यमित्यत आह—स्वतःप्रमेति।श्रुतिजन्या धीः स्वत एव प्रमा। अपौरुषेये वेदे पुरुषबुद्धिप्रभवाणां दोषाणा-

स्वे महिम्नीति वेदान्तः सत्यवादी स्वतःप्रमा।
वेदान्तवाक्यं मानानामतिमानमिति स्थितिः॥२८॥
अतः सत्यचिदानन्दलक्षणः परमेश्वरः।
स्वयमेव सदा लिङ्गंन लिङ्गंतस्य विद्यते॥२९॥
संसारार्णवमग्नानामज्ञानान्धीकृतात्मनाम्‌।
चित्तपाकानुगुण्येन भावनार्थं द्विजर्षभाः॥३०॥
अनाधारस्य देवस्य शिवस्य परमात्मनः।
आधारो मन्त्रसंस्कारात्कल्पितः सयवद्बुधाः॥३१॥

—————————————————————————————————————————

मसंभवेन तज्जन्यप्रमाया विज्ञानसामग्रीजन्यत्वेसति तदतिरिक्तहेत्वजन्यत्वलक्षणस्य स्वतःप्रामाण्यस्य विद्यमानत्वात्‌। अबाधितार्थविषयत्वादपि वेदान्तस्यैवतत्त्वावेदकलक्षणं प्रामाण्यमित्याह—वेदान्तेति।उक्तं हि “प्रत्यक्षादिप्रमाणानां प्रामाण्यं व्यावहारिकम्‌। आश्रित्यायंप्रपञ्चः स्यादलीकोऽपि प्रमाणवान्‌।अद्वैतागमवाक्यंतु तत्त्वावेदनलक्षणम्‌।प्रमाणभावं भजतां बाधवैधुर्यहेतुतः” इति॥२७॥२८॥ शिवःस्वयमेव लिङ्गमिति यत्प्रतिज्ञातं तत्सुस्थमित्युपसंहरति—अत इति। उक्तरीत्या सदानन्दरूपः परशिव एव सर्वस्याऽऽधारइति स एवलिङ्गमित्यर्थः॥२९॥ नन्वेवं ध्यानपूजार्थं शिवस्याऽऽधारतया प्रतिष्ठादिसंस्कारैः संस्कृतं बाणलिङ्गादिकं न पूजनीयमेवेत्यत आह—संस्कारेति। अज्ञानान्धीकृतात्मनामिति। अज्ञानं मूलाविद्या तया कलुषीकृतचित्तानामित्यर्थः।उक्तलक्षणाद्वितीयपरशिवस्वरूपज्ञानरहितानां संसारिणां तच्चित्तपरिपाकानुसारेण प्रतिबन्धकपापक्षयार्थंध्यानपूजादिकं कर्तव्यम्। अतस्तदर्थं निराधारस्यापि परशिवस्य बाणलिङ्गादिलक्षण आधारः प्रासादपञ्चब्रह्मादिमन्त्रयुक्तसंस्कारैःप्रतिष्ठाद्यात्मकैः परमार्थवदागमैःपरिकल्पित इत्यर्थः। अतः पूर्वोक्तपरशिवस्वरूपज्ञानवतांशिवस्वरूपमेवलिङ्गंतदनुसंधानमेव तस्य यजनं तद्रहितानां तु मृच्छिलादिकृतंशिवस्याऽऽधारत्वेन परिकल्पितं बाह्यलिङ्गपूजनीयमित्यर्थः। तदुक्तमागमिकैः—‘यतीनां योगिनां चैव बाह्योपरतिसक्तिषु। अन्तर्यागस्तु विहितो बाह्यपूजापरेषुच’॥अन्यत्रापि ज्ञानमधिकृत्यो–

लयनाल्लिङ्गमित्याहुरपरे वेदवित्तमाः।
तदाऽपि लिङ्गंभगवान्स्वयमेव महेश्वरः॥३२॥
लीयमानमिदं सर्वंब्रह्मण्येव हि लीयते।
न लीयते परं ब्रह्म सदा सत्यस्वभावतः॥३३॥
शुक्तिकारजतादीनामसत्यानां द्विजर्षभाः।
लयो दृष्टो न सत्यस्य शुक्तिकाशकलस्य तु॥३४॥
लीयते हि शिवादन्यदशेषमशिवं शिवे।
अतो लिङ्गंद्विजश्रेष्ठा अविनाशी हरः स्वयम्‌॥३५॥
अन्ये च योगिनो विप्रा आमनन्ति शिवस्य तु॥
आधारेषु शरीरेऽस्मिल्ँलिङ्गानि परमात्मनः॥३६॥

—————————————————————————————————————————

क्तम्—सर्वमन्यत्परित्यज्य चित्तमत्र निवेशय। मृच्छैलधातुरत्नादिभवं लिङ्गंन पूजयेत्‌’इति॥३०॥३१॥ एवं तावल्लिगिगत्यर्थ इत्यस्माद्धातोर्णिजन्तात्पचाद्यचि लिङ्गस्यति गमयतीति लिङ्गमिति व्युत्पादयतां मते परशिवस्यैवलिङ्गतामुक्त्वा लीयतेऽस्मिन्‌ लिङ्गमिति लीङ्संश्लेषण इत्यस्माद्धातोर्व्युत्पादयतामपि मते तथात्वमाह—लयनादिति॥३२॥ तत्र हेतुः। लीयमानमिति।“यत्प्रयन्त्यभिसंविशन्ति”इति श्रुतेः। यथाऽन्यद्ब्रह्मणिलीयत इति ब्रह्मलिङ्गमेव।ब्रह्म यत्र यत्र लीयते तदपि कुतो न तल्लिङ्गमिति भ्रमंवारयति—न लीयत इति॥३३॥३४॥शुक्तिकाशकलइव लयोन दृष्टश्चेत्सोऽपितर्हिब्रह्मवदपरंलिङ्गमित्यत आह—लीयते हीति। व्यवहारदशायां कल्पितंरजतं यथा ज्ञानेन शुक्तिकाशकले लीयते नैवं शुक्तिकाशकलमन्यत्र तत्त्वदृष्ट्यातु शुक्त्यादिशकलंब्रह्मण्येव लीयते न ब्रह्मान्यत्रेतिब्रह्मैव लिङ्गमित्यर्थः॥३५॥ विश्वप्रकाशकत्वेन विश्वाधिष्ठानत्वेन वा परशिव एव मुख्यंलिङ्गमित्युक्तं तस्य परशिवस्योपासनार्थमौपाधिकानि रूपाणि श्रुत्यनुसारादागमानुसाराद्वालिङ्गतया व्यवहरतां मतमाह—अन्ये चेति। मूलाधारोमणिपूरकोऽनाहत आज्ञा द्वादशान्तः षोडशान्तश्चेत्यस्मिञ्शरीरे षडाधाराःशिवस्यो-

अधोमुखमनाद्यन्तमपिण्डं पिण्डसंज्ञितम्‌।
ज्वलत्कालानलप्रख्यंस्वयंभुब्रह्मसंज्ञितम्॥३७॥
मध्यमस्थं महामन्तैरर्चनीयं तु योगिभिः।
गुरूपदेशतो ज्ञेयं लिङ्गमेकं प्रकीर्तितम्‌॥३८॥

—————————————————————————————————————————

पासनास्थानानि। अष्टवितस्तिपरिमितस्य शरीरस्य वितस्तिचतुष्टयानन्तरं मूलाधारस्तत्र गुणसामान्योपाधिकं(गणेशं) परतत्त्वंलिङ्गमुपासनीयम्‌। नाभौमणिपूरकस्तत्र तव परतत्त्वंजगत्सर्गव्यापारं ब्रह्मसंज्ञितं लिङ्गमुपासनीयम्‌। हृदयेऽनाहतंतत्र सत्त्वगुणोपाधिकं तदेव तत्त्वंजगत्पालनव्यापारं विष्णुसंज्ञितम्‌। भ्रूमध्य आज्ञा तत्र तमोगुणोपाधिकं तदेव तत्त्वं संहारव्यापारं रुदसंज्ञितम्‌। ब्रह्मरन्ध्रेद्वादशान्ते तदेव तत्त्वं साक्षिरूपम्‌। ततः पश्चाच्चतुरङ्गुलानन्तरं षोडशान्तं तदेव तत्त्वंस्वप्रतिष्ठं लिङ्गरूपमुपासनीयमिति।उक्तमुत्तरतापनीयोपनिषदि—‘मूलाग्नावग्निरूपं प्रणवं संदध्यात्‌’ इत्यादि ‘लिङ्गरूपानेव च संपूज्य’ इत्यन्तम्‌। अतस्तामुपनिषदमनुसरन्तस्तच्छायानुसारिण आगमाननुसरन्तश्च योगिनोऽस्मिञ्शरीर उक्तेष्वाधारेषुयथोदीरितलिङ्गान्यामनन्तीत्यर्थः॥३६॥ मणिपूरक उपासनीयस्य ब्रह्मलिङ्गस्य स्वरूपमाह—अधोमुखमिति। यदनाद्यन्तं स्वयंभु स्वप्रतिष्ठमपिण्डमशरीरं ब्रह्मसंज्ञितं परंतत्त्वंतदेव पिण्डसंज्ञितं पिण्डेन स्थूलशरीरेण समष्टिरूपेणोपाधिना संबन्धात्प्राप्तप्राजापत्यादिनामकम्‌। संज्ञा जाता अस्येति संज्ञितम्‌।तारकादित्वादितच्‌। अत एवोपाधिसंबन्धाज्ज्वलत्कालानलप्रख्यंसुवर्णवर्णम्‌। अधोमुखंस्रष्टव्यजगल्लक्षणकार्याभिमुखम्‌। कारणकार्ययोरूर्ध्वाधःशब्दौ प्रसिद्धौ गीतामु—‘ऊर्ध्वमूलमधःशाखम्‌’इति॥३७॥ मध्यमस्थमुदरमध्ये हिनाभिस्थाने स्थितं मणिपूरकं चक्रं मध्यमं तत्र स्थितमित्यर्थः। महामन्त्रैः। प्रणवप्रथमावयवभूतोऽकार एको महामन्त्रः।स ह्येकाक्षरमात्रत्वेन परिमाणतोऽल्पोऽपि परापरपुरुषार्थप्राप्तिसाधनत्वेन फलतो महत्त्वान्महामन्त्रः। श्रूयतेह्यकारस्य महाफलत्वम्“जागरितस्थानो वैश्वानरोऽकारः प्रथमा मात्रा। आप्तेरादिमत्त्वाद्वाऽऽप्नोतिह वै सर्वान्कामानादिश्चभवति य एवं वेद”

कोटिसूर्यप्रतीकाशंकोमलं द्विजपुंगवाः॥३९॥
अपदंपदमव्यक्तमबाणं बाणमद्भुतम्‌।
तृतीयस्थं सदैवोर्ध्वमुखं संसारनाशकम्‌॥४०॥

—————————————————————————————————————————

इति। प्रणवसमानार्थस्यहृल्लेखावयवस्य प्रथमावयवो हकरोऽप्यकारसमानयरीत्याद्वितीयो महामन्त्रः। अपरे बहवो मन्त्रा उत्तरतापनीयोपनिषद्भाष्ये प्रपञ्चिताः। अकारादिमन्त्राणां ब्रह्मात्मकता च श्रुत्यैवोक्ता—“अकारं ब्रह्माणं नाभौ। उकारं विष्णुं हृदये। मकारं रुद्रं भ्रूमध्य ओंकारं सर्वेश्वरं द्वादशान्ते”इति। बाह्योपकरणनिरपेक्षमनोमात्रसाधन उक्तलिङ्गार्चनेयोगिनामेवाधिकार इत्याशयेनोक्तं योगेभिरिति। ब्रह्मलिङ्गस्यसरस्वतीशक्तिसाहित्यं परिवारान्महा-मन्त्रांश्चसांप्रदायिकानभिसंधायोक्तं गुरूपदेशतइति॥३८॥ अथ हृदयस्थेऽनाहत उपास्यस्यापि द्वितीयस्य विष्णुलिङ्गस्यस्वरूपमाह—कोटिसूर्येति।आत्मा नानायोनिषु कर्मफलभोगाय पद्यते गच्छत्यनेन करणेनेति पदं लिङ्गशरीरम्‌।श्रूयते हि—“तदेवसक्तः सह कर्मणैति लिङ्गं मनो यत्र निषिक्तमस्य।प्राप्यान्तं कर्मणस्तस्य यत्किंचेह करोत्ययम्‌। तस्माल्लोकात्पुनरैत्यस्मैलोकाय कर्मणे”इति। तेन पदेन रहितं परंतत्त्वम्‌। बाणमिति स्थूलशरीरम्‌।तथा हि प्रश्नोपनिषदि वागादीन्प्रतिमुख्यस्य प्राणस्य वाक्यम्—“मा मोहमापद्यथाहमेवैतत्पञ्चधाऽऽत्मानं प्रविभज्यैतद्बाणमवष्टभ्यविधारयामि” इति।तेन स्थूलशरीरेण रहितमबाणम्‌।श्रूयते हि पदस्य शरीरद्वयराहित्यंकाठके—“अशरीरं शरीरेष्वनवस्थेष्ववस्थितम्‌”इति। अत एवसकलकरणागोचरत्वादव्यक्तम्‌।तथाऽप्युपासनाय पदं बाणं सूक्ष्मस्थूलशरीरद्वयात्मकम्। अशरीरस्यैवशरीरद्वयात्मकत्वादद्भुतम्‌। कोटिसूर्यप्रतीकाशं कोमलम्।यतो रूपेणैवात्र सृयेसादृश्यंनस्पर्शेनातः कोमलता।तृतीयस्थमिति तृतीयमनाहतम्‌। यद्यप्युक्तमणिपूरकापेक्षयातदनाहतं द्वितीयं तथापि मूलाधारपेक्षया तस्य तृतीयत्वमुक्तम्‌। मूलाधारेऽपि हि गुणसामान्योपाधिविशिष्ट परं तत्त्वंलिङ्गमुपास्यत्वेनोक्तमुत्तरतापनीये। इह चानाहतस्य तृतीयत्वाभिधानेन मूलाधारलिङ्गस्यापि संग्रहः सूचितः—यद्यपि तदपेक्षया विष्णुलिङ्गंतृतीयं तथाऽपि तस्येह साक्षादनुपन्यासादुपन्य-

अर्चनीयं महामन्त्रैरात्मनिष्ठैस्तु योगिभिः।
गुरूपदेशतो ज्ञेयं द्वितीयं लिङ्गमीरितम्‌॥४१॥
चन्द्रकोटिप्रतीकाशं शांकरं शक्तिवल्लभम्‌॥४२॥
अरूपं रूपमव्यक्तमपरं परमाद्भुतम्‌ ।
विसर्गाधिष्ठितं विश्वंविश्वविज्ञानसाधकम्‌॥४३॥

—————————————————————————————————————————

स्तब्रह्मलिङ्गापेक्षयाद्वितीयत्वमुक्तम्‌। तच्चविष्णुलिङ्गमुपासकस्य मोक्षप्रदम्‌।यदाहुः—“मोक्षमिच्छेज्जनार्दनात्‌”इति। तदुक्तं संसारनाशकमिति।तथात्वं च प्रागुक्तकारणाभिमुख्यात्तदाह—ऊर्ध्वमुखमिति। महामन्त्रैरिति। प्रणवद्वितीयमात्रोकारोऽत्र महामन्त्रः। अस्यापि हि महाफलत्वं श्रूयते “स्वप्नस्थानस्तैजस उकारो द्वितीया मात्रोत्कर्षादुभयत्वाद्वोत्कर्षति ह वैज्ञानसंततिंसमानश्च भवति नास्याब्रह्मवित्कुलेभवति य एवं वेद”इति।हृल्लेखाद्वितीयाक्षरं रेफो द्वितीयो महामन्त्रः।पूर्ववदन्ये महामन्त्राः। अत्रगुरूपदेशत इति लक्ष्मीसाहित्यं परिवारयोगश्च॥३९-४१॥ अथ भ्रूमध्य आज्ञायामुपास्यस्य रुद्रलिङ्गस्य स्वरूपमाह—चन्द्रकोटीति। शिवस्य वास्तवस्वरूपंहि सर्वातिशायित्वात्परम्‌। “अशब्दमस्पर्शमरूपमव्ययम” इति श्रुतत्वेन रूपादिविरहादरूपम्‌।अत एवाव्यक्तं सदपि रूपमुपासकानुग्रहाय स्वीकृतदिव्यावतारं सगुणं ब्रह्म। अरूपस्य परस्यैव रूपत्वापरत्वसत्त्वादद्भुतत्वम्‌ किंतदुपासनीयं रूपमिति तदाह—चन्द्रकोटिप्रतीकाशमिति। आज्ञायामुपासनीयस्यरुद्रात्मकतामाह—शांकरमिति।उमाशक्तिसाहित्यं शक्तिवल्लभमिति॥४२॥विसर्गाधिष्ठितमिति। सर्गःसंसारश्च व्यपयात्यस्मिन्स्थाने इति विसर्गः।अविमुक्तोपासनेन संसारनिवृत्तिर्जाबालोपनिषदादिषु प्रसिद्धा तस्मिन्विसर्गेभ्रूमध्येऽधिष्ठितम्‌। विश्वं सर्वात्मकम्‌ “सर्वो वैरुद्रः” इति श्रुतेः । विश्वविज्ञानसाधकं तमेव विश्वात्मकं रुद्रं गोचरयति यज्ज्ञानं तद्विश्वविज्ञानं तत्साधयतीदं लिङ्गम्‌ “इश्वराज्ज्ञानमन्विच्छेत्‌” इति श्रुतेः।महामन्त्रैरिति।प्रणवस्य तृतीया मात्रा मकार एको महामन्त्रः। तस्यापि महाफलत्वंश्रूयते—“सुषुप्त-स्थानः प्राज्ञो मकारस्तृतीया मात्रा मितेरपीतेर्वा मिनोति ह वाइदं सर्व-

अर्चनीयं महामन्त्रैरतिशुद्धैस्तु योगिभिः।
गुरूपदेशतो ज्ञेयं तृतीयं लिङ्गमीरितम्‌॥४४॥

एतेषु लिङ्गेषु शिवः पुराणः स्वशक्तियुक्तः

स्वजनप्रियाय। प्रकाशते संततमात्म-

विद्याप्लवाभिलाषैरभिपूजनीयः॥४५॥
अन्तर्लिङ्गंयो विजानाति शश्वद्बन्धच्छेदं

शंकरस्य प्रसादात्‌। कुर्यादाशु ब्रह्मविद्ब्रह्मनिष्ठाः

सत्यं प्रोक्तं सर्वलोकप्रियाय॥४६॥
निस्तरङ्गशिवे परमात्मनि प्रत्ययस्य

लयः परयोगिनः। मुख्यमर्चन-

मित्यभिपद्यते पुष्पतोयफलप्रमुखाः कृशाः॥४७॥
मन्त्रेण पूजा मतिमत्तमानामबोधमूलस्य

महाद्रुमस्य। संसारसंज्ञस्य मुनीन्द्र-

मुख्या नालंसदा मूलविमूलनाय॥४८॥

——————————————————————

मपीतिश्च भवति य एवं वेद” इति।हृल्लेखातृतीयाक्षरमीकारो द्वितीयोमहामन्त्रः। अन्येऽपि बहवो महामन्त्राः पूर्ववत्तत्रैव द्रष्टव्याः॥४३॥तृतीयस्य पदतूचितस्य मूलाधारस्थस्य गुणसामान्योपाधिकलिङ्गस्य तु कृत्स्नःप्रणव एको महामन्त्रः। तस्य च महाफलत्वम्‌ श्रूयते हि—“एवमोंकारआत्मैव संविशत्यात्मनाऽऽत्मानं य एवं वेद” इति।द्वितीयः सर्वोहृल्लेखामन्त्रः।अन्ये तु पूर्ववत्‌॥४४॥ उक्तलिङ्गोपासनस्य फलमाह—एतेष्विति। उक्तरूपः शिव एतेषु प्रकाशत इति कृत्वा संसारसागरोत्तरणायाऽऽत्मविद्यालक्षणंप्लवमपेक्षमाणैःपूजनीय इत्यर्थः॥४५॥ उक्ततत्तल्लिङ्गपूजनाद्ब्रह्मविद्भूत्वा बन्धच्छेदं करोत्यतस्तत्कर्तव्यमित्याह—अन्तर्लिङ्गमिति॥ ४६—४८॥

ज्ञानमेव शिवार्चनमिष्यते स्थूलमेव

बहिर्भजनं नृणाम्‌। वेद एवसदा

मितिकारणं बोध एवं परमं पदमास्तिकाः॥४९॥
गुह्यमेव तु वः कथितं मया मह्यमाह

महेश्चवरवल्लभः। व्यास आमरणान्तिक-

मास्तिकाः पूजयध्वमसत्यनिवृत्तये॥५०॥

————

इति श्रीस्कान्दपुराणे सूतसंहितायां चतुर्थे यज्ञवैभवखण्डे
शिवलिङ्गस्वरूपकथनं नामाष्टाविंशोऽध्यायः॥२८॥

एकोनत्रिंशोऽध्यायः।

२९. शिवस्थानविचारः।

सूत उवाच—

अथातः संप्रवक्ष्यामि शिवस्थानं समासतः।
यत्र संचिन्त्यदेवेशं कैवल्यंलभते नरः॥१॥
पुरा नारायणः श्रीमान्किरीटी गरुडध्वजः।
श्रीमत्कैलासपर्यन्ते तताप परमं तपः॥२॥

—————————————————————————————————————————

४८॥ ज्ञानमेवेति।मानसोपासनाज्ज्ञानरूपमर्चनंप्रशस्तम्‌। केवलविशुद्धसत्त्वस्यसकलवेदसारः प्रणवस्तत्साक्षात्कारलक्षणस्य बोधस्यहेतुरित्यर्थः॥४९—५०॥

इति श्रीप्कान्दपुराणे सूतसंहितातात्पर्यदीपिकायां शिवलिङ्गस्वरूपकथनं

नामाष्टाविंशोऽध्यायः॥२८॥

उक्तलिङ्गोपासकानां प्रतिबन्धकपापकलापनिरासने सत्त्वशोधने चोपकारकाणि स्थानानि वक्तुंप्रतिजानीते—अथात इति॥१॥ महद्भिरपि

भस्मोद्धूलितसर्वाङ्गस्त्रिपुण्ड्राङ्कितमस्तकः।
रुद्राक्षमालाभरणो जटावल्कलसंयुतः॥३॥
तपसा तस्य देवस्य केशवस्य महात्मनः।
प्रादुरासीन्महादेवः शंकरः करुणानिधिः॥४॥
तंदृष्ट्वापुण्डरीकाक्षो महादेवं घृणानिधिम्‌।
अम्बिकासहितं रुद्रं चन्द्रमौलिंसनातनम्‌॥५॥
प्रणम्य दण्डवद्भूमौभक्त्या परमया सह।
स्तोत्रमारभते स्तोतुंसर्वभूतहितावहम्‌॥६॥
अकाराय नमः साक्षादनन्तानन्दमूर्तये।

—————————————————————————————————————————

महता प्रयासेन ज्ञातानीति कथ्यमानस्थानविशेषेष्वादरातिशयजननाय नारायणकथोपन्यासः॥२—६॥ अकारायेत्यादिस्तोत्रे मातृकापञ्चाशदक्षररूपमन्त्रतादात्म्येन शिवमनुसंधत्ते विष्णुः।शिवोऽनन्तानन्दमूर्तिशब्दार्थात्मकः।स चार्थः स्ववाचकशब्दानुवेधेनैव प्रतिभासनात्तद्विवर्ततया तच्छब्दात्मकः।यदाहुः—“न सोऽस्तिप्रत्ययो लोके यः शब्दानुगमादृते।अनुविद्धमिवज्ञानं सर्वंशब्देन गम्यते” इति॥ आहुश्च शब्दविवर्तितत्वमर्थस्य—“शब्दब्रह्म यदेकंयच्चैतन्यं चसर्वभूतानाम्‌। यत्परिणामस्त्रिभुवनमखिलमिदं जयति सा वाणी” इति। हरिरप्याह वाक्यपदीयादौ—“अनादिनिधनं ब्रह्मशब्दतत्त्वंयदक्षरम्‌। विवर्ततेऽर्थभावेन प्रक्रिया जगतो यतः”इति॥ अत्रानन्तानन्दमूर्तिशब्दस्यावर्णः प्रथमावयव इति तदनुसंधानजनितसंस्कारसंस्कृतायांबुद्धौ भासमानः स शब्दः सर्वोऽप्यवर्णात्मकः। यदाहुः—“नादैराहितबीजायामन्त्येन ध्वनिना सह।आवृत्तपारिपाकायां बुद्धौशब्दो व्यवस्थितः”इति॥इत्थमकारात्मकशब्दप्रतिपादितार्थात्मकतया शिवस्याकारमन्त्रात्मकत्वमिति तादात्म्यमनुसंधेयम्‌। यदाहुः—“गुरुदेवतामनूनामैक्यं संभावयेत्समाहितधीः”इति। इत्थं मन्त्रस्तोत्रेसर्वेषु तत्तदक्षरादिशब्दान्प्रयुञ्जानस्य
विष्णोरभिप्रायोद्रष्टव्यः। अकारवाच्यतया वाऽकारादिशब्दवाच्यतया वोऽप-

आत्मभूताय सर्वेषामतिशुद्धाय शूलिने॥७॥
आकारायातिशुद्धाय साक्षिणेसर्ववस्तुनः।
अम्बिकापतये तुभ्यमसङ्गाय नमो नमः॥८॥
इकारायेश्वराख्याय सर्वसिद्धिकराय च।
इन्द्रादिलोकपालानामियत्ताकारिणे नमः॥९॥
ईकाराय वरिष्ठाय वाञ्छितार्थप्रदाय च।

—————————————————————————————————————————

चारादकारमन्त्ररूपतयाऽभिधानमिह न भवति।किंतु प्रागुक्तरीत्याऽकारमन्त्रतादात्म्यादेवेति विवक्षया साक्षादित्युक्तम्‌। शिवस्वभावभूतोहि परम आनन्दः।“विज्ञानमानन्दं ब्रह्म” इति श्रुतेः।स च शुभकर्मोपस्थापितविषयेन्द्रियसंप्रयोगजनितवृत्त्यवच्छेदादनेक इव तारतम्यवानिवोत्पन्न इवान्तवानिव चलक्ष्यते। सर्वोपाधिविरहात्तुनिरतिशयोनित्यः शिवस्याऽऽनन्दः। स च तस्यन गुणः किंतु मूर्तिस्वरूपमेवेति विवक्षयोक्तम्‌। अनन्तानन्दमूर्तय इति।स चापि विशुद्धसत्त्वात्मकाविद्योपाधिसंबन्धादसंख्यजीवभावेन विशुद्धसत्त्वात्मकमायोपाधि-संन्धादीश्वररूपेण च भेदेन भासमानोऽपि मायाविद्योपाधिसंबन्धपरित्यागादतिशुद्धः। अतएव तदुपाधिकस्य भेदस्यापि प्रविल्यात्सर्वेषामात्मेत्याह—अतिशुद्धायाऽऽत्मभूतायोति। उक्तरूपस्य शिवतत्त्वस्य मन्दाधिकारिबुद्धिगोचरत्वासंभवात्तदनुग्रहाय स्वीकृतानेकदिव्याभरणं लीलावतारं सूचयातिशूलिन इति। शूलमिहानेकदिव्यायुधदिव्याभरणस्रक्चन्दनवाहनपरिवारादियोगोपलक्षणम्‌।इत्थं तत्र तत्र नामनि संभवदर्थजातमनुसंधेयमिति दिङ्मात्रंदर्शितं विस्तरपरिहाराय तु संदिग्धपदविवरणमात्रमत्र क्रियत इति। आत्मभूतायेत्यकारमन्त्रआकार उक्तः। आकारमन्त्रेऽप्यतिशुद्धायाम्बिकापतयेऽसङ्गायेत्यकार उक्तः। तदभेदका गुणा इति मतमनुसृत्यावर्णस्यैकत्वाभिप्रायेण।उक्तंहि—कात्यायनेन “एकत्वादकारस्य सिद्धम्‌”इति। भेदका गुणा इतिमतसूचनाय तु ह्रस्वदीर्घमन्त्रयोःपृथगुदाहरणोपन्यासइति। साक्षिण इतितुविशेष्यस्वरूपोपन्यासो न त्वाकारमन्त्रोदाहरणत्वेनेति। इत्थमुत्तरत्रद्रष्टव्यम्॥७॥८॥ इयत्ताकारिण इति। तत्तत्कृतसुकृतपरिपाकानुरूपपरि-

वञ्चकानामलभ्याय वसुदाय नमो नमः॥१०॥
उकारायोग्रजन्तूनामुग्ररूपाय शूलिने।
उत्तमानां तु जन्तूनामुपास्याय नमो नमः॥११॥
उकारायोपवीताय ह्यूर्जितायोत्तमात्मने।
उत्तमज्ञानगम्याय नमस्ते परमात्मने॥१२॥
ऋकारायाऽऽदिभूताय रामपूर्वार्चिताय च।
ऋचामर्थस्वरूपाय नमः सत्यपरात्मने॥१३॥
ॠकाराय निसर्गायनित्यतृप्ताय शम्भवे।
रसादिभूतरूपाय नमः शुद्धचिदात्मने॥१४॥
ऌकाराय लसद्गण्डमण्डिताभरणाय च।
लिङ्गलिङ्ग्यादिहीनाय लिङ्गरूपाय ते नमः॥१५॥

ॡकाराय लयस्थाय ध्वंसकायाऽऽदिहेतवे।
लाक्षारुणशरीराय लाभस्थानाय वैनमः॥१६॥
एकाराय नमः शश्वदिदंतासाक्षिणे तथा।

—————————————————————————————————————————

मितपदप्रदायिन इत्यर्थः॥९—११॥ उपवीताय भोगमोक्षार्थिभिःसकललोकैरुपगताय॥१२॥ ॠकारमन्त्रे रामपूर्वेति पदं रश्रुतिसामान्यादेकत्वाभिप्रायेण।सत्यपरात्मन इति विशेष्यस्वरूपोपन्यासेनेति द्रष्टव्यम्‌॥१३॥निसर्गाय समस्तवस्तूनां स्वाभाविकरूपाय। रसादीति—रश्रुतिसामान्यं विशेषनिर्देशो वा द्रष्टव्यः॥१४॥ लिङ्गरूपाय।लिगिर्गत्यर्थः। गत्यर्थाज्ञानार्थाः। ज्ञानरूपाय तस्य स्वप्रकाशत्वेन मानमेयमातृविभागविरहमाह—लिङ्गलिङ्ग्यादिहीनायेति॥१५॥ लयस्थाय लये प्रलयसमयेऽपि स्थिताय।लभ्यत इति लाभःकर्मफलंतत्तिष्ठत्यस्मिन्निति लाभस्थानं तस्मै “एष एव साधुकर्मकारयति तं यमूर्ध्वमुन्निनीषते” इति वाजसनेयश्रुतिः।“लभते चततः कामान्मयैव विहितान्हितान्‌” इति स्मृतिः। “फलमत उपपत्तेः”

अहंतासाक्षिणे साक्षात्प्रत्यगद्वयवस्तुने॥१७॥
ऐकारायामलज्ञानप्रभावपरिशीलिनाम्‌।
आत्मरूपतया नित्यं प्रतीताय नमो नमः॥१८॥
ओकाराय विरिञ्चाय विष्णवे रुद्रमूर्तये।
वाच्यवाचकहीनाय स्व्यंभानाय वे नमः॥१९॥

—————————————————————————————————————————

इति बादरायणीयंसूत्रम्‌॥१६॥ एकारस्य कण्ठतालुभवस्य संध्यक्षरतयाऽवर्णेवर्णात्मकत्वेनाहंतेदंतेति तदुभयोदाहरणम्‌। अन्तःकरणस्य स्वप्रतिबिम्बितचैतन्याभिमुखा वृत्तिर्विषयाभिन्नाऽहंकारस्तद्रूप (ताहन्ता चिदवभास्यं पराग्रूपंसर्वमिदंतद्भावमिदन्ता तदभयं स्वात्मन्यध्यस्तं स्वरूपप्रकाशेनैवसाक्षादीक्षत इति तदुभयसाक्षी। प्रत्यगद्वयवस्तुनो विषयविषयिप्रातिकूल्येनान्तरमञ्चति गच्छतीतिप्रत्यङ्‌ स्वप्रतिष्ठ आत्मा। अत एव स्वेतरानवभासादद्वयंबाधाभावेन परमार्थ) त्वाद्वस्तुत्वंच॥१७॥ अकारैकारयोर्योगादैकारः।तत्राकारांशस्योदाहरणममलेति। अन्तर्वर्तिन एकारस्यवर्णेवर्णात्मकत्वादात्मरूपतयेत्यवर्णस्येतायेतीवर्णस्य। प्रतीति हि पृथक्पदम्।“लक्षणेत्थंभूताख्यानभागवीप्सासुप्रतिपर्यनवः” इति वीप्सायांकर्मप्रवचनीयः। तत्र तत्रवस्तुन्यात्मरूपतया स्वरूपतया वा प्रतीयत इत्यैकारोदाहरणम्‌॥१८॥ “अकारं ब्रह्माणं नाभौ” इति श्रुतिः। विष्णोरुकारात्मकत्वाद्विष्णवइत्युकारोदाहरणम्‌।“उकारं विष्णुं हृदये” इतिश्रुतिः। तयोश्च विष्णुब्रह्मणोरिहि न स्वान्त्र्येण निर्देशस्तथा सति प्रकृताननुगुणत्वाद्रुद्ररूपत्वेनैवेतिदर्शयितुमुक्तम्‌ रुद्रमूर्तय इति। रुद्रमूर्तये विरिञ्चाय रुद्रमूर्तयेविष्णव इत्युभयत्र योज्यम्‌। विष्णुब्रह्माणावपिहि रुद्रात्मकौ“सर्वो वैरुद्रः” इति तैत्तिरीयकश्रुतिः। “यो वै रुद्रः स भगवान्यश्चब्रह्मा तस्मै वै नमो नमः”“यो वैरुदः स भगवान्यश्च विष्णस्तस्मै वैनमो नमः”इति चाऽऽथर्वणी श्रतिः। उक्तमुच्यमानं वक्ष्यमाणं च यन्मन्त्रदर्थात्मकं शिवस्य न तत्स्वाभाविकं किंतु लीलयोपासकानुग्रहेण स्वेच्छया
स्वीकृतमेव। स्वाभाविकंतु निष्कलंस्वप्रकाशमित्याह— वाच्येत्यादिना॥१९॥

औकाराय महेशाय महामन्त्रार्थरूपिणे।
महादेवाय मात्रादिप्रपञ्चाय नमो नमः॥२०॥
बिन्दुरूपाय बीजाय बीजाधिष्ठानरूपिणे।
बीजनाशकरज्ञानस्वरूपाय नमो नमः॥२१॥
विसर्जनीयरूपाय विस्मयाय महात्मने।

विसर्जनीयनिष्ठानां विशेषार्थाय वै नमः॥२२॥

——————————————————————

शिवस्यौकारमन्त्रतादात्म्यप्रतिपत्तिदार्ढ्याय तयोः समानं धर्ममाह—महेशाय महामन्त्रार्थरूपिण इति। शिवस्तावन्निरतिशयैश्वर्ययोगाद्भजतांतत्प्रदातृत्वाच्च महेशः। महतः प्रणवप्रासादरुद्राध्यायादेर्मन्त्रस्य योऽर्थस्तद्रूपी तेनमन्त्रण प्रतिपाद्यत्वाद्वाचकस्य वाच्यादभेदान्महामन्त्ररूपी च यथैवमौकारोऽपि।सोऽपि हि स्वयं महामन्त्रत्वत्स्वार्थभेदाच्च महामन्त्रार्थरूपी स्वात्मानं परिशीलयतां निरतिशयज्ञानैश्वर्यप्रदानेन महेश्वर एवमौकारमन्त्रस्य शिवस्य च सारूप्यात्तन्मन्त्रात्मना शिवोऽनुसंधेयः। औकारस्य यथोक्तप्रभवोपेतत्वं लघुनाम्नास्वयंकृते सरस्वतीस्तोत्रे विशदीकृतम—“यत्सद्यो वचसां प्रवृत्तिकरणे दृष्टप्रभावंबुधैस्तार्तीयं तदहं नमामि शिरसा त्वद्बीजमिन्दुप्रभम्‌॥ अस्त्वौर्वोऽपिसरस्वतीमनुगतो जाड्याम्बुविच्छित्तये गौःशब्दो गिरि वर्तते स नियतं यो गंविना सिद्धिदः” इति। जमदग्निना स्वकोपाग्निःसरस्वत्यांमहानद्यांमुक्तःसन्सदा समुद्रं संहरत्येवमौरिति स्वर्गान्तस्थत्वादौकारमन्त्रोपि सरस्वतीप्रतिपादकतया वाऽनुगतो जाड्याम्बुविच्छित्तये सकलसंसारकारणाविद्यासमुद्रसंहारायास्तु गौरिति यः शब्दो गिरिवाचि नित्यं वर्तत इत्यभिधानेषु प्रसिद्धं च सगकारं विनौरित्येतावन्महामन्त्रात्मकः सिद्धिदो भवतीति। किंच शिवोमानमेयमहादेवादिप्रपञ्चात्मकः।ते च शब्दा मकारादित्वादकारादिन्यायेन मकारात्मकाः।अतस्तदर्थद्वाराशिवोऽपि मकारात्मकः। औकारोऽप्युक्तरीत्या महेशत्वान्मकारात्मकइति मकारस्य साम्यादप्यौकारमन्त्रस्यशिवतादात्म्यं द्रष्टव्यमित्यर्थः॥२०॥ चरमस्वरयोः केवलोयोःस्वरूपेणोच्चारयितुमशक्यत्वात्तद्वाचकबिन्दुविसर्जनीयशब्दाभ्यामेव तौनिर्दिश्य तदात्मकतामाह—

ककाराय कपूर्वादिदेवतापूजिताय च।
करणग्रामसंहर्त्रेकालातीताय वैनमः॥२३॥
खकाराय खपूर्वादिभूतपञ्चकहेतवे।
खमूर्ताय खलप्रज्ञागोचराय नमो नमः॥२४॥
गकाराय गणेशाय गणबृन्दार्चिताय च।
गङ्गाधराय गुह्याय गुणातीताय ते नमः॥२५॥

—————————————————————————————————————————

बिन्दुरूपयेति। शिवोहि सर्गादौ स्वमायाशक्तौप्रतिबिम्बितस्तदवस्थयातयाऽवच्छेदाद्बिन्दुरिति जगदङ्कुराऽवस्थया तयाऽवच्छेदाद्बीजमिति तस्याएवाग्र एतद्बीजाधिष्ठानमित्युपनिषज्जनितचरमसाक्षात्काररूपान्तःकरणदवृत्तिप्रतिबिम्बितस्तन्नाशकतया बीजनाशकरज्ञानस्वरूप इति चोच्यते। बिन्द्वादिशब्दचतुष्टस्य बकारादित्वेन बकारात्मकत्वात्तद्द्वारातदर्थः शिवोऽपि बकारात्मकःएवमनुस्वारोऽपि बिन्दुशब्दवाच्यतया बकारात्मक इति बकारमन्त्रतादात्म्येनशिवोऽनुसंधेयः। विविधत्वेन स्रष्टव्यतया विसर्जनीयं जगत्तद्रूपः शिवः।शिवः सर्वमिदं जगदित्याहुः। अखण्डैकरसो निष्कलः सन्नपि विविधजगदात्मकोजात इत्याश्चर्यरूपत्वाद्विस्मयः।विसर्जनीयनिष्ठटानामिति।“तयोरेवकृत्यक्तखलर्थाः” इत्यनीयर्‌ प्रत्ययः। विसर्जनंपरित्यागस्तन्निष्ठाःसकलसंसारपरित्यागानिष्ठाये मुमुक्षवस्तेषाम्‌। कर्तरिपष्ठी।ऐश्वर्यार्थिभिरपि शिवएव यथा प्रार्थनीयस्तथा मुमुक्षभिरपि विशेषेणार्थनीय इत्यर्थः। अत्र विसर्जनीयविस्मयविशेषार्थशब्दा वकारादित्वात्तदात्मकाः। तद्वारा तदर्थःशिवोऽपिवकारात्मकः। चरमस्वरोऽपि विसर्जनीय इति प्रसिद्धेः स्ववाचकद्वारा वकारात्मकः। तेन वकारात्मकत्वसाम्याद्विसर्जनीयमन्त्रत्मकतया शिवोऽनुसंधेयइत्यर्थः॥२१॥२२॥ ककारयेति। को ब्रह्मा स पूर्वएषां ते कपूर्वाइन्द्रादयस्तदादिदेवताभिः पूजिताय। करणग्रामस्य जनकस्य कारणग्रामस्यशरीरस्य जन्यस्य लिङ्गशरीरस्य तदाश्रयस्य स्थूलशरीरस्योपलक्षणंशरीरत्रयसंहर्त्रेऽशरीरत्वलक्षणमोक्षप्रदायेत्यर्थः। कालस्यापि स्रष्टृत्वेनतदनवच्छिन्नाय। अत्रकपूर्वादिशब्दत्रयं ककारादित्वेन तदात्मकं तदर्थतया शिवोऽपि

घकाराय घनाकारघातकाय घनात्मने।
घटादिजगदाकाररहिताय नमोनमः॥ २६॥
ङकाराय ङमन्त्रार्थस्वरूपाय शिवात्मने।
ङाङीङूसंज्ञितार्थनामगम्याय नमो नमः॥ २७॥
चकाराय चमन्त्रार्थस्वरूपायामितात्मने।
चमन्त्रार्थनिषण्णानाममृताय नमो नमः॥ २८॥
छकाराय छलालस्यच्छादनादिविशेषतः।

————————————————————————————————————

तदात्मकः। अतः ककारमन्त्रतादात्म्येनानुसंधेयः॥२३॥ खकारयेति। खमाकाशं पूर्वं यस्य तदादिभूतपञ्चकमपञ्चीकृतं सूक्ष्मभूतपञ्चकं तस्य हेतवे। खमूर्ताय।आकाशवन्निर्लेपंमूर्तं मूर्तिर्यस्य तस्मै॥२४॥ गणाः प्रमथगणाः।गुह्याय गुहायां बुद्धौ भवाय “यो वेद निहितं गुहायाम्‌” इति श्रुतेः॥२५॥घनो निबिडः प्रपञ्चः सर्गसमये तदात्मने।प्रलयसमये तदाकारस्य संहर्त्रे॥२६॥ङमन्त्रार्थः श्रीकण्ठादिषु मन्त्रशक्तिसहित एकरुद्र आर्द्राद्युपलक्षितः।ङाङीङू इत्येते त्रयो वर्णा एतदुपलक्षिता वाऽन्येऽपि सर्वे वर्णाः कादिव्यञ्जनपञ्चत्रिंशत्येकैकेनान्तरिताः संज्ञा जाता एषामर्थानां पार्वतीमूर्तीनां ते तत्संज्ञितार्थाः। तारकादित्वादितच्‌। तेषामप्यगम्याय।तत्त्वतस्तदभेदेन गन्तृगन्तव्यभावाभावात्‌।लीलया पृथग्भा-वेऽप्यवाङ्मनसगोचरत्वात्‌ “अविज्ञातंविजानतां विज्ञातमविजानताम्‌” इति श्रुतेः॥२७॥ चमन्त्रार्थ आत्मशक्तियुक्तः कूर्मेशः। उक्ते चमन्त्रार्थे निषण्णा निष्ठिता ये तेषाममृताय।अशरीरत्वरूपापवर्गप्रदानेन शरीरधर्मजरामृत्युनिषूद-नादमृतस्वभावायेत्यर्थः॥२८॥छन्नश्छादितः “दस्तस्पष्टच्छन्नज्ञप्ताः”इति निपातनात्‌। छन्नत्वं गुहानिहितत्वात्‌ “यो वेद निहितं गुहायाम्‌”इति श्रुतेः। छन्दनं निरस्तनिखिलोपप्लवनिरतिशयपरानन्दत्वेन विषयव्यावृत्तचक्षुषां धीराणां तत्त्वात्मनीच्छाजननम्‌। छादनमिह तस्य समस्तस्यापवरणम्‌। एतद्विभागत्रयात्मकायेत्यर्थः। किंतदित्थमनेनापवार-णीयमित्यत आह—छलेति।छ्लं कौटिल्यंजिह्ममितिपर्यायाः। तद्विद्याफलब्रह्मलोक-विरोधित्वादहितम्‌। श्रूयते हि —“येषां तपो

छादनच्छन्दनच्छन्नविभागाय नमो नमः॥ २९॥

जकाराय जगच्छक्तिस्वरूपाय जयार्थिनाम्‌।

जयप्रदाय देवाय जम्भमोहाय ते नमः॥ ३०॥
झकाराय झमन्त्रार्थस्वरूपायामृतात्मने।
झमध्यचन्द्रबिम्बाय नमः साम्बाय शंभवे॥ ३१॥
ञकाराय ञमन्त्रार्थस्वरूपाय ज्ञमूर्तये।
ज्ञप्तिमात्रैकनिष्ठानां मुक्तिदाय नमो नमः॥ ३२॥

——————————————————————

ब्रह्मचर्यं येषु सत्यं प्रतिष्ठितम्‌। तेषामसौ विरजो ब्रह्मलोको न येषु जिह्ममनृतं न माया”इति। आलस्यं ह्यध्ययना-नुष्ठानविरोधित्वेन धियः प्रतिबन्धादहितम्‌।छादनशब्दन्य प्रत्येकं संबन्धाच्छलत्वच्छादनमालस्यच्छादनं च।आदिशब्दा-द्व्याध्याद्यहितान्तरं तच्छादनभेदा गृह्यन्ते। विशेषशब्दोभेदपरः।व्याध्याद्यहितभेदाच्चछादनभेदा अपि बहवः सन्ति।विशेषत इति बहुवचनान्तात्तसिः। अहितच्छादनविशेषैरित्यर्थः। अहितभेदा हि पठ्यन्ते—‘व्याधिस्त्यानसंशयप्रमादा-लस्याविरतिभ्रान्तिदर्शनालब्धभूमिकत्वानवस्थितत्वानिचित्तविक्षेपा योगान्तरायाः’इति। अकारात्मकत्ववच्छकारा-त्मकत्वम्॥२९॥ जगच्छक्तीति। जगत उत्पत्तिस्थितिसंहारविषया या शक्तिस्तदात्मकाय। शक्तिस्वरूपं तत्तादात्म्यंच वर्णितं प्राक्‌। जम्भयति पारवश्यमापादयति जीवानिति जम्भस्तादृशो मोहो मूलाज्ञानं यस्मिस्तद्धि परशिवा-श्रितंपरशिवाधीनंचेति तस्मिन्नित्युच्यते॥३०॥ झमन्त्रार्थःश्रीकण्ठादौद्राविणीशक्तियुक्तः। अमृतात्मकतां समर्थयते। झमध्येति। झ इति निवृत्तिकलादशकमध्ये नवमी स्थितिरुच्यते सा चेह कलाविशेषानुपादानान्नित्यैवगृह्यते। तस्याश्चहेतुरमृतमिति तद्वाचिना झकारेण तद्धेतुरमृतं लक्ष्यते। तच्च झकारलक्षितममृतंमध्यं यस्य चन्द्रस्यासौ झमध्यचन्द्रः स बिम्बं मूर्तिर्यस्याष्टमूर्तेः शिवस्य तस्मै।अनेन च विशेषणेन प्रकृतं झकारात्मकत्वमनन्तरोक्तममृता-त्मकत्वंच मन्त्रार्थस्थितिकारिणी सुधामयचन्द्रात्मता प्रणिधानकर्तव्यता चेत्यर्थत्रयंसमर्थितम्‌॥३१॥ ञमन्त्रार्थेति। नागरीशक्तिसहितः शर्वोञमन्त्रार्थः।जानातीति ज्ञा मूर्तिः

टकाराय टटाटीटूपूर्वकैस्तु महारवैः।
अर्चिताय सुरश्रेष्ठैरसुरैश्चनमो नमः॥ ३३॥
ठकाराय ठमन्त्रार्थस्वरूपाय ठमन्त्रतः।
ठठादिगणपूज्याय ठमध्याय नमो नमः॥ ३४॥
डकाराय डडाडीडूडेडोडैश्चमहारवैः।
डामरैरभिपूज्याय नमो नृत्यप्रियाय च॥ ३५॥
ढकाराय ढमन्त्रार्थपरिज्ञानवतां नृणाम्‌।

——————————————————————

स्वरूपं यस्य तस्मै। ज्ञप्तिमात्रं परशिवस्वरूपम्‌। एतच्च विशेषणं यद्यपि पदद्वयात्मकं तथाऽपि ज्ञप्तिमात्रजकारादुत्तरो यो ञकारस्तद्बुद्धिविशेषणावसानपर्यन्तमनुवर्तत एवेति कृत्स्नंविशेषणं ञकारात्मकं तद्वारा तदर्थः शिवोऽपितथेति ञकारात्मकत्वसमर्थनोपपत्तिः। नन्विह ञकारादपि प्रथमो झकारः।अतस्तद्बुद्धिरप्यनुवर्तते। अनुवर्ततां नाम तथाऽपि ञबुद्धेरनुवृत्त्याप्रकृतेप्रयोजनंन वर्णान्तरबुद्धेरनुवृत्तेरितिन कश्चिद्विरोधः। श्लोकान्तरेष्वप्यनेकपदात्मकत्व-विशेषणेष्वित्थमेव विवक्षिताक्षरबुद्ध्यनुवृत्तिर्द्रष्टव्या॥३२॥ टटाटीटूइति मुरजादिवाद्यध्वन्यनुकरणवर्णाः। एतैर्महारवैः करणैःसुरामुरैःकर्तृभिरर्चितायेत्यर्थः॥३३॥ मञ्ञरीशक्तिसहितो लाङ्गली ठमन्त्रार्थः। ठठाठिठीठुठूइत्यादयो वाद्यध्वन्यनुकरणा वर्णास्तन्निष्पादका गणाष्ठठादिगणाः।ठमन्त्रतः। तृतीयार्थेसार्वविभक्तिकस्तसिः। तेन मञ्जरीशक्ति-सहितलाङ्गलीयमन्त्रेण साधनेन ठठादिगणैः कर्तृभिः पूज्याय। ठमध्याय ठबिन्दुनोपेतस्तथा ठमध्यः शिवः। ठकारवाच्यो योऽनुस्वारस्तेन समाननाम्ना “विचिकीर्षुर्घनीभूतात्क्वचिदभ्येति बिन्दुताम्‌”इत्यपरबिन्दुरहितशब्देन लक्षितः

॥३४॥डामरैर्भयंकरैर्महारवैः। यद्यपि सिंहव्याघ्रादिशब्दा भयजनकाःपूजाहेतवस्तथापिततोऽभेदेन ज्ञातास्त-दनुकरणशब्दा भयानकाः सव्यञ्जनतया हर्षहेतव इति तैः पूज्यायेत्युक्तम्॥३५॥ वीरिणीशक्तिसहितोऽर्धनारीश्वरो ढमन्त्रार्थः। ढकारैरनुक्रियमाणेनाट्टहासेन कार्येण व्यञ्जनीयतयालक्षणया ढसंज्ञितस्तत्कारणभूतो यो महानन्दस्त-त्प्रदाय॥३६॥ णाकि-

ढसंज्ञितमहानन्दप्रदाय सततं नमः॥ ३६॥
णकाराय णणाणीणूणेणैणोणौरवैःसदा।
णाकिनीगणपूज्याय णसंज्ञाय नमो नमः॥ ३७॥
तकाराय तशब्दार्थस्वरूपाय तताय च।
तत्त्वमित्यभिपूज्याय तत्त्वभूताय वैनमः॥ ३८॥
थकाराय थमन्त्रार्थस्वरूपाय थसंज्ञितैः।
महागणैश्चपूज्याय थमध्याय नमो नमः॥३९॥
दकाराय दयारूपमहाशक्तिमयाय च ।
देशाजातिविहीनाय दिवारात्राय वैनमः॥ ४०॥
धकाराय धरण्यादिमहाभूतस्वरूपिणे।
धराधरहृदिस्थाय धमध्याय नमो नमः॥४१॥
नकाराय नगेन्द्राय नामजात्यादिहेतवे।
नमः शिवाय नम्याय नानारूपाय शूलिने॥ ४२॥
पकाराय परानन्दस्वरूपाय परात्मने।
परापरविहीनाय पावनाय नमो नमः॥ ४३॥

——————————————————————

नीशब्दानुकार्यघण्टादिध्वनिकर्तृतया तच्छब्दलक्ष्या गणा णाकिनीगणास्तैःकर्तृभिः। णणादिवर्णानुकार्यैर्मुरजादि-भिर्ध्वनिभिः करणैः पूज्यायेत्यर्थः। कोटरीशक्तिसहित उमाकान्तो णमन्त्रार्थस्तया णसंज्ञस्तद्रूपाय॥३७॥ पूतनासहित आषाढीशस्तमन्त्रार्थस्तद्रूपाय।तताय परिपूर्णतया विस्तृताय।आत्मनोनिष्कलपरशिवस्वरूपतामनुसंधाय तयाऽव-स्थानमेव हि पूजेत्युक्तंप्राक्तदाह—तत्त्वमित्यभिपूज्यायेति॥३८॥ भद्रकालीशक्तिसहितो दण्डी थमन्त्रार्थः। थमि-त्यादिशब्दानुकृतमुरजध्वनिकर्तारो महागणास्तैरनुकरणशब्दैर्लक्षणया संज्ञिताः।थकारो मध्ये यस्य प्रमथेश्वरशब्दः सथमध्यस्तद्वाच्यतया तद्रूपाय॥ ३९॥ ४०॥ धराधरः कैलासस्तस्य हृदिमध्ये स्थिताय

फकाराय फलाख्याय फलाख्यगणयोनये।
फलाख्यगणपूज्याय नमः पूर्णस्वरूपिणे॥ ४४॥
बकाराय बकाराख्यमहाबीजैकजापिनाम्‌।
बन्धनागारनाशैकहेतवे वेधसे नमः॥ ४५॥
भकाराय भवाब्धेस्तु तारकाय भवाय ते।
भवशब्दैकवेद्याय भवानीपतये नमः॥ ४६॥
मकाराय महामायापाशनाशैकहेतवे।
ममकारविहीनानां महानन्दाय वैनमः॥ ४७॥
यकाराय यथार्थाय यथार्थज्ञानिनां नृणाम्‌।
यथार्थप्रत्यगद्वैतब्रह्मणे सततं नमः॥ ४८॥
रकाराय रतिप्रीतिप्रियाय रतिहेतवे।

——————————————————————

मेधाप्रदशब्दो धमध्यस्तद्वाच्यतया तद्रूपाय॥ ४१—४३॥ फलाख्याय।अष्टाङ्गयोगजन्यज्ञानेन प्राप्तव्यतया फलमित्या-ख्याय। बहुविधसत्कर्मसाध्यतयाफलमित्याख्यायमानो यः प्रमथादिर्गणस्तस्य तदनुरूपफलप्रदानेन योनयेकारणाय। तेन पूजनीयाय॥४४॥ बकारस्य ब्रह्मपदप्रथमवर्णत्वादकारन्यायेन ब्रह्मपदात्मकत्वद्वारातदर्थपरतत्त्वस्वरूपतया सकलजगदुपादानत्वान्ममहाबीजत्वम्‌। तज्जपश्च तदर्थप्रणिधानतत्साक्षात्कारद्वारा तदविद्यालक्षणस्यबन्धनागारस्य निवृत्तावुपकरणं भवति॥४५॥ भवशब्दः सद्रूपत्वमाह।तथात्वं च मुख्यं नामाऽऽत्यन्तिकबाधविरहः स च परशिवस्यै-वेति सएक एवभवशब्देन वेद्यइत्यर्थः॥४६॥४७॥ जगद्येन जगदात्मना भासते नतत्सत्यं किंत्वधिष्ठानरूपेण। शिवस्तु येन सच्चिदानन्दप्रकारेण भासते तेनैवभूतः सत्य इति यथाभूतः स चासावर्थश्चेति यथार्थस्तस्मैमध्यमपद-लोपीसमासः। यथाशब्दश्च स तावत्यर्थेवृत्तावेव वृद्धव्यवहारानुसंगतिक इति।प्रतीपमञ्चतीति प्रत्यक्सर्वान्तरम्‌ “अन्तः प्रविष्टः शास्ता जनानां सर्वात्मा”इति तैत्तिरीयकश्रुतिः। तच्च तदद्वैतंब्रह्म च॥ ४८॥ रकारायेति। क्रियत

रशब्दवपुषे रोगभवनाशाय वै नमः॥ ४९॥
लकाराय लतासोमस्वरूपाय लतात्मने।
लाभालाभविहीनाय लब्धरूपाय वै नमः॥ ५०॥
वकाराय वरिष्ठायवासुदेवादिहेतवे।
वाञ्छावागुरविच्छित्तिहेतुभूताय वैनमः॥ ५१॥
शकाराय शरण्याय शंभवे शरणार्थिनाम्।
शरणाय शरच्चन्द्रधवलायनमोनमः॥ ५२॥
षकाराय षडाधारषट्चक्रादिस्वरूपिणे।

——————————————

————————

इति कारः।रश्चासौकारश्चेतिरकारः। “वर्णात्कारः”इति हि कारप्रत्ययः “रादिफः”इत्यपवादेन बाधितः। रतिप्रीतीति।सर्वात्मको हिशिवो मन्मथरूपेणावतीर्णोरतिपतीति नाम्ना योषितः प्रियो भर्तालोकस्यरतिहेतुश्च भवति। रशब्देति। रविशब्देहि रेफादित्वादुक्तरीत्या स्वयंरशब्दस्तदर्थःसूर्योऽपि तथेति रशब्दवपुः स चाष्टमूर्तेः शिवस्यैका मूर्तिरितिशिवस्तदात्मनारशब्दवपुः सन्‌ रोगं संसारं च नाशयतीति॥४९॥ लतेति।अष्टमूर्तेः शिवस्यचन्द्र एका मूर्ति-स्तस्य च प्रतिपदादिपौर्णमास्यन्ततिथिषुनित्यमेकैककला वर्धते पुनः प्रतिपदादिदर्शान्तेष्वेकैककला हीयते यथा तथा सोमलताया अपिपौर्णमासीपर्यन्तं नित्यमेकैकपत्रस्य वृद्धिःपुनर्दर्शपर्यन्तमेकैकपत्रस्य हानिः। अतः शिवोऽपि चन्द्रात्मलतासोमस्वरूपः। सर्वकिररणाधानत्वात्सर्वलतानां वृद्धेश्चन्द्रोलतानामात्मा। अतश्चन्द्ररूपः शिवोऽपिलतात्मा तस्मै। लाभेति। अप्राप्तकामस्य प्राप्तिर्लाभः। अप्राप्तिरलाभः।शिवस्तु नित्यमाप्तकामत्वेनावाप्तव्याभावात्तदुभयहीनः। लब्धेति। अज्ञानेनाऽऽवृतत्वाज्जीवाःस्वमपि रूपंन लभन्ते। शिवस्त्वनावृतचित्प्रकाशतयानित्यं लब्धरूपः॥५०॥५१॥ शकारायेति। शरण्याय रक्षाशीलत्वेन।रक्षाशक्तत्वेन च रक्षकत्वादाहशरणाय रक्षकाय॥५२॥ षकारायेति। आधा-रस्वाधिष्ठानमणिपरकानाहतविशुद्ध्याज्ञाः षडाधाराः। तत्रत्यानिचतुर्दलपद्मा-

षडक्षरनिषण्णाय नमः षण्मुखहेतवे॥ ५३॥
सकाराय सशब्दार्थस्वरूपाय सदात्मने।
साक्षिणेऽसाक्षिरूपाणां नमः साधूपकारिणे॥ ५४॥
हकारायाहमर्थाय सदाऽहंकारसाक्षिणे।
हाहाहूहूकगीताय हंसरूपाय वैनमः॥ ५५॥
लकाराय लकाराख्यमहामन्त्रप्रियाय च।
लोलाचञ्चलसंसारनाशनाय नमो नमः॥ ५६॥
क्षकाराय क्षमन्त्रार्थस्वरूपाय क्षमावताम्‌।
क्षेमदाय मम क्षेमस्वरूपाय नमो नमः॥ ५७॥

——————————————————————

दीनि षट्चक्राणि। आदिशब्दात्तेषु ब्रह्मरन्ध्रादिषूपास्यमाना गणेशादयः षड्‌देवताः। सप्रणवः पञ्चाक्षरमन्त्रः षडक्षरस्तेन प्राप्यतया तत्र निषण्णः॥५३॥सशब्देति। सहजाशक्तिसहितो भृङ्गीशः सशब्दस्य सकारस्यार्थः। साक्षिणेऽसङ्गाय ।असाक्षिरूपाणां विषयसङ्गिनां संसारिणाम्‌। साधूपकारिणे भोगमोक्षप्रदानेन सम्यगुपकर्त्रे॥५४॥ हकारायेति। अहंकारेण सह तादात्म्याध्यासात्स्वतो निष्कलरूपत्वेऽपि जीवत्वं प्राप्यतद्रूपिणे“अनेनजीवेनाऽऽत्मनाऽनुप्र-विश्य”इति श्रुतेः। अत एवाहंशब्देनाभिधेयाय। हाहेति गायन्देवानां गन्धर्वो हाहा हूहूइति गायन्हूहूहीहीतिगाय-न्नेतैस्त्रिविधैर्गीयते श्रूयत इति हाहाहूहूकः। ‘गैशब्द’इत्यतः कर्मणि “घञर्थेकविधानम्‌”इति कप्रत्ययः। हंसरूपाय।अजपामन्त्रप्रतिपाद्यतया तदात्मने॥५५॥लकारायेति। व्यापिनीशक्तिसहितस्य शिवस्य प्रतिपादको मन्त्रो लकाराख्य-स्तत्प्रतिपाद्यतया तत्प्रियः। लोलेति डलयोरभेदः। डोलावच्चञ्चलो यः संसारस्तन्नाशनाय॥५६॥ क्षकारायेति क्षका-रार्थोमायाशक्तिरहितः संवर्तकेयः।क्षमावतामित्यादि। शिवोहि वाग्रूपेप्रतीके क्षेमरूपेणोपास्यमानः क्षेमप्रदइत्युक्तं तैत्तिरीयके “क्षेम इति वाचि”इति॥५७॥ एकैकवर्णात्मकत्वोक्त्यैवसकलवर्णसमाहारस्वरूपमातृकामन्त्रात्मक-त्वस्यसिद्धस्यापि मातृकाव-

मातृकावपुषे मातृमानमेयादिसाक्षिणे।
मातृकामन्त्रलभ्याय महसे च नमो नमः॥ ५८॥
मातृकाधारभूताय मातृकामूलरूपिणे।
महामन्त्रैकवाच्याय महसे ब्रह्मणे नमः॥ ५९॥
द्विधाभूतमहामन्त्रस्वरव्यञ्जनरूपतः।
वाच्यायापदरूपाय पदाय महसे नमः॥ ६०॥

——————————————————————

पुष इति पुनः स्वशब्देनाभिधानं तेनापि प्रकारेण प्रणिधानाय। न केवलमेकैकवर्णात्मकत्वेन तत्समष्टिमातृकामन्त्रा-त्मकत्वम्।किंतु मकारादिभिरनेकैःशब्दैरभिधेयम्‌। एतेषां च प्रागुक्तवन्मकारात्मकत्वात्तद्द्वारातदर्थः शिवोऽ-पिमकारात्मकः। मातृकामन्त्रोऽपि तेनैव मकारादिशब्देनाभिहितत्वान्मकारात्मकइत्यपि मातृकामन्त्रवशमिति दर्शयितुमाह—मातृमानेत्यादिना। मानानिप्रत्यक्षानुमानागमोपमानार्थापत्त्यभावरूपाणि षडन्तःकरणवृत्तिविशेषात्म-कानि तैर्मेयंव्यावहारिकसत्यं जगन्माता च मानानि च मेयं च मातृमानमेयानि।आदिशब्देन प्रातीतिकसत्यमविद्या तद्वृत्तिसंशयविपर्ययास्तद्विषया स्मृतिश्चगृह्यते।तस्य सर्वस्य साक्षिणे प्रकाशकाय स्वप्रकाशाय परमार्थसत्याय।महसे चित्प्रकाशाय “तस्य भासा सर्वमिदं विभाति” इति श्रुतेः॥५८॥मातृकाधारेति। परशिव-विवर्तरूपत्वान्मातृकायास्तां प्रति तस्य शिवस्याऽऽधारत्वम्‌। मातृकामूलेति। मातृकाया मूलं शब्दब्रह्म तदुपादानतया तद्रूपिणे।महामन्त्रेति। मातृकामन्त्राःप्रणवहृल्लेखाष्टाक्षरादयोमहामन्त्राः। तेषां पृथक्पृथग्वाच्यास्तत्तद्देवतामूर्तयस्तद्द्वाराचिदानन्दैकरसः शिवएक एव तात्पर्येणप्रतिपाद्यः॥५९॥ द्विधाभूतेति। द्विधा भूता हि महामन्त्रास्तैःस्वेनध्वन्यात्मना तद्व्यङ्-ग्येनस्फोटात्मना च। उक्तं हि महाभाष्ये—अथ गौरित्यत्रकः शब्दः। येनोच्चारितेन सास्नालाङ्गूलखुरककुद्विषाणा-द्यर्थरूपंप्रतीयते स शब्दः। अथवा प्रतीतिपदार्थो लोके ध्वनिः शब्द इति। तत्र ह्युच्चारितेनेत्यभिव्यञ्जितेनेत्यर्थ इति व्याख्यातम्। तेन रूपेण स्फोटेन साक्षाद्वाच्यस्तद्वारा तद्व्यञ्जकेनस्वेन ध्वनिरूपेणेति। पदापदरूपत्वमुक्तं प्राक्‌॥६०॥

अष्टधा चाष्टवर्गैस्तु विभक्तायामलात्मने।
अशेषशब्दभूताय तत्तदर्थाय वैनमः॥ ६१॥
शब्दान्वयाविहीनाय शब्दलभ्याय साक्षिणे।
सर्वोपाधिविहीनाय स्वयंभानाय वैनमः॥ ६२॥
प्रत्यक्षादिप्रमाणानामगम्यायापरोक्षतः।
प्रतीताय स्वयं सर्वसाक्षिणे महसे नमः॥ ६३॥
स्वस्वरूपादिहीनाय वस्तुतोऽवस्तुतोऽपि च।
अर्थाय महते साक्षात्स्वयंभानाय वैनमः॥ ६४॥

——————————————————————————————————————

अष्टधेति। प्रथमममलात्मने निष्कलाय ततो बिन्दुशब्दपरापश्यन्तीमध्यमावैखरीवागात्मकमातृकारूपतां प्राप्यपुनरक-चटतपयशादिभिरष्टाभिर्वर्गैरष्टधाविभक्ताय तत्तद्वर्णसमाहारात्मकपदवाक्यतत्तदर्थतां प्राप्तायेत्यर्थः॥६१॥ शब्दान्वयेति। सर्वोपाधिविहीनाय निरस्तसमस्तोपाधिकस्वरूपप्रतिष्ठाय। अत एवसकलशब्दप्रवृत्तिनिमित्तजात्यादिविरहाद्वाचक-शब्दहीनाय स्वयंभानाय स्वरूपप्रकाशेनैव भासमानाय। एवंरूपोऽपि यदा स्ववमायातत्कार्यसाक्षी भवति तदा“साक्षी चेता केवलः” इत्यादिशब्दलभ्याय॥६२॥ प्रत्यक्षेति।स्वयंपरमार्थवस्तुतयाऽवस्तुगोचरैःप्रत्यक्षादिभिरगम्याय। प्रमा-णानामिति कर्तरिषष्ठी। तथाऽपि स्वयं स्वरूपप्रकाशेनैवापरोक्षतया प्रतीताय स्फुरते। स्वातिरिक्तस्यसर्वस्या-परोक्षहेतवे। महसे प्रकाशाय॥६३॥ स्वस्वरूपेति। अत्रप्रथमः स्वशब्द आत्मनि द्वितीय आत्मीये वस्तुभूतेनापि स्वेनाऽऽत्मनाहीनाय स्वात्मनिवृत्तिविरोधात्‌। अवस्तुतोऽवस्तभूतेन स्वीयेन रूपाद्येनहीनाय तस्यावस्तुत्वादेव। महते देशकालवस्तुकृतपरिच्छेदविरहादपरिच्छिन्नाय। अर्थायपरमार्थाय साक्षादपरोक्षतयास्वयमेव भानं यस्य तस्मै। अत्रस्तोत्रेमहसे स्वयंभानायेत्यादयः शब्दा यद्यप्यसकृदावर्तन्तेतथाऽपि न पौनरुक्त्यंशङ्कनीयम्‌। निरर्थकं हि पुनर्वचनं पुनरुक्तम्‌ इदं तु स्तोत्रं न स्वरूपोपदेशपरम्‌। येन सकृदुक्त्याप्रतिपन्नस्य पुनरुपदेशोऽनर्थकः स्यात्‌। विष्णुना

प्रसादलभ्याय शिवाय सत्यचि-
न्महासुखायापरवर्जिताय।
अतीव शुद्धस्य हृदम्बुजालये
विभासमानाय नमो नमस्ते॥ ६५॥

सूत उवाच—

एवं नारायणेनैव शंकरोऽभिष्टुतः पुनः।
प्राह गम्भीरया वाचा किमर्थं तप्तवांस्तपः॥ ६६॥
इत्याकर्ण्यमहाविष्णुः प्रणम्य परमेश्वरम्‌।
तव स्थानानि मे देव ब्रूहि साक्षात्कृपाकर॥ ६६॥
इत्युक्तो विष्णुना शंभुःसर्वज्ञः करुणाकरः।
प्राह सर्वेश्वरेशानः स्थानानि स्वस्य विष्णवे॥ ६७॥

ईश्वर उवाच—

मम स्थानानि वक्ष्यामि महामोहनिवृत्तये।
अतीव श्रद्धया सार्धं शृणुष्व पुरुषोत्तम॥ ६९॥
अध्यात्मे चाधिभूते च स्थानानि सुबहूनि मे।
स्वर्गापवर्गसिद्ध्यर्थमुपास्यानि मनीषिभिः॥ ७०॥
ब्रह्मरन्ध्राभिधं स्थानं विशिष्टं योगिसेवितम्‌।
विमुक्तिसाधनं नॄणामिति विद्धि विचक्षण॥ ७१॥

——————————————————————

हि कृतमुपासनं तस्य तथैवाऽऽनुपूर्व्यातथैव बुद्धौविनिवेशाय ग्रन्थनात्मकोपासनेचाऽऽवृत्तिरलंकारो न दोषः। आवृत्त्येकशरीरत्वात्तस्येति॥३४॥ प्रसादलभ्यायेति। प्रसीदति रजस्तमोभ्यामनभिभूतं भवति बुद्धिसत्त्वमनेनेति प्रसाद
ईश्वरस्यानुग्रहोनिरतिशयभक्तिलभ्यः॥६५—७०॥ स्थानविशेषेषुकृतेस्योपासनस्यसकलपुरुषार्थसाधनत्वादुपासन-स्थानान्येव विष्णुना पृष्टः शंभु-

मुखमण्डलमाश्चर्यंभुक्तिमुक्तिफलप्रदम्‌।
मोहनाशकरं साक्षात्स्थानं विद्धिजनार्दन॥ ७२॥
चक्षुषी च तथा श्रोत्रे नासिके च जनार्दन।
गण्डोष्ठदन्तमूर्धाच स्थानान्यास्ये ममानघ॥ ७३॥
हस्तपादगताः सर्वे संधयः पुरुषोत्तम।
स्थानानि मम कल्याण तथा पार्श्चद्वयं मम॥ ७४॥
पृष्ठश्च नाभिदेशश्चहृद्देशश्च जनार्दन।
धातवः सप्त मे साक्षात्थानानि पुरुषोत्तम॥ ७५॥
मूलाधारमधिष्ठानं पूरकाख्यमनाहतम्‌।
विशुद्धाख्यं च मत्स्थानंविद्धिपङ्कजलोचन॥ ७६॥

——————————————————————

स्तावदाध्यात्मिकानि स्थानान्याह—ब्रह्मरन्ध्राभिधमित्यादिना। ब्रह्मरन्ध्रादीन्यास्यान्तानि षोडश क्रमेण स्वरैरुपासनस्था-नानि॥७१—७३॥ हस्तपादद्वयसंधयः साग्राःकचटतपवर्गैरुपासनस्थानानीत्याह—हस्तपादेति। संधिग्रहणं समग्रस्या-प्युपलक्षणम्‌। पवर्गस्थानपञ्चकमाह—पार्श्वेति। नाभिग्रहणंकुक्षेरप्युपलक्षणम्‌। यादिदशकोपासनस्थानान्याह हृद्देश्चेति।आपादमस्तकंव्याप्तं त्वगादिधातुसप्तकं प्राणजीवापानात्मलक्षणमर्थत्रयंच हृदयेऽपि व्याप्यवर्तत इति हृद्येवतत्र स्थानदशकं यादिभिरुपासनीयमित्यर्थः। धातुग्रहणंप्राणादित्रयस्याप्युपलक्षणम्‌॥७४॥ ७५॥ बहिरुपासनस्थान्यभि-धायाऽऽन्तराण्यप्याह—मूलाधारमिति। देहमध्ये मूलाधारस्तत्र चतुर्दलपद्मेवर्णचतुष्टयेनोपास्यम्‌। लिङ्गमूलं स्वाधिष्ठानं तत्न पद्मदलषट्के वर्णषट्केनोपासनम्‌। नाभौ मणिपूरकं तत्रत्यपद्मदशके वर्णदशकेन। अनाहतं हृदि तत्रत्यपद्मदल-द्वादशके वर्णद्वादशकेन। कण्ठे विशुद्धंतत्रत्यपद्मदलषोडशके वर्णषोडशकेन। भ्रूमध्य आज्ञा तत्रत्यपद्मदल-द्वयेवर्णद्वयेन। सिद्धिसंज्ञं ब्रह्मरन्ध्रंतत्रत्यसहस्रदलपद्म एकेन वर्णेन। इत्येकपञ्चाशता मातृकावर्णैरन्तरुपासनस्था-नानि। वाराणसी भ्रूमध्यम्‌। श्रूयते हि—‘भ्रुवोर्घ्राणस्य च यः संधिः’

महाज्ञासिद्धिसंज्ञं च विष्णो वाराणसी पुरी।
प्रणवांशत्रयं बिन्दुनादशक्तिसमाह्वयम्‌॥॥ ७७॥
बीजस्थानं च मेढ्रंच रोमाणि विविधानि च।
मम स्थानानि कल्याण विद्धिपङ्कजलोचन॥ ७८॥
यथाऽध्यात्मे महाविष्णो स्थानानि सुबहूनि मे।
तथाऽधिभूते मे विष्णो स्थानानि सुबहूनि च॥ ७९॥
कैलासपर्वतः साक्षात्स्थानं विष्णो ममानघ।
श्रीमद्दक्षिणकैलासपर्वतश्च तथैव च॥ ८०॥
वाराणसी पुरी पुण्या विमुक्तिफलदा नृणाम्‌ \।
मरणादेव सर्वेषां तच्च स्थानं ममानध॥ ८१॥
श्रीसोमनाथसंज्ञं च तथा केदारमद्भुतम्‌।
श्रीपर्वतं च मे स्थानं विद्धिपङ्कजलोचन॥ ८२॥
श्रीमद्वृद्धाचलं पुण्यं तथा गोपर्वतं हरे।
तथा श्रीहरतीर्थं च विधिस्थानं ममाव्ययम्‌॥ ८३॥
आधिग्रामसमाख्यं च श्वेतारण्यं महत्तरम्‌।
दन्तिस्थानं च मे विष्णो स्थानं विद्धिमहत्तरम्‌॥८४॥
त्रिकोटिहाख्यं गम्भीरं तथा गोपुटतीर्थकम्।
मध्यार्जुनं च मे स्थानं विद्धिपङ्कजलोचन॥ ८५॥
श्रीमन्मङ्गलवंशाख्यं कुम्भकोणसमाह्वयम्‌।
तथा सव्येतरावर्तंविद्धिस्थानं ममानघ॥ ८६॥

जप्येश्वरसमाख्यं च तथा वल्मीकमुत्तमम्‌॥

—————————————————————————————————————————

इति। अकारोकारमकाराः।चकारच्छान्तं च॥ ७६—७८॥ इत्थमा-

गजारण्यसमाख्यं मे विद्धिस्थानं विचक्षण॥ ८७॥
वेदारण्यसमाख्यंच तथा हालास्यसंज्ञितम्॥
श्रीमद्रामेश्वराख्यं च स्थानं विद्धि ममाद्भुतम्‌॥ ८८॥
पुण्डरीकपुरमुत्तमं मम स्थानमग्निसदृशं
विशोधनम्‌ । योगनिष्ठमुनिसंघसेवितं
भोगमुक्तिफलदंपुरातनम्‌॥ ८९॥
त्वयामया वज्रधरेण नन्दिना विनायका-
द्यैरखिलैरतिप्रियात्‌ । निषेवितं संततमास्तिकैर्जनैः
स्वराट्समाख्यस्य हृदि स्थितं शुभम्‌॥ ९०॥
श्रुतिस्मृतिभ्यामपि सर्वशक्तिभिर्न गोचरीकर्तुमलं
महत्तरम्‌ । प्रसादिभिर्लभ्यमतीव
शोभनं गुणाकरं गुह्यमशोभनापहम्‌॥ ९१॥
सदा परानन्दविकासकारणं दिवाकराणामपि
कोटिभिः समम्‌ । पुरातनानामपि पुण्यशीलिनां
विमोहनाशाय मयैव निर्मितम्‌॥ ९२॥
स्थानमेतदतिप्रियमास्तिकैर्वेदविद्भिरति-
प्रियकारिभिः। पूजितं पुरुषोत्तम मुक्तिदं
सेवितं च सततंमयैव तु॥ ९३॥

—————————————————————————————————————————

ध्यात्मिकान्युक्त्वाऽऽधिभौतिकान्याह—यथेति॥ ७९—८९॥प्रकृतस्यपुण्डरीकपुरस्यात्यन्तवैशिष्ट्येहेतुमाह—त्वयेति । स्वराट्समाख्यस्येति । विराडात्मकं ब्रह्माण्डात्मकं समष्टिरूपस्य शिवस्य स्थूलशरीरंतदन्तर्वर्ति स्वराटसमाख्यं यल्लिङ्गशरीरंतस्यहृदयस्थानं तदित्यर्थः॥९०॥ सर्वशक्तिभिरिति।सर्वा शक्तिः समग्रं सामर्थ्यमेषामस्ति तैर्महर्षि-भिःश्रुतिस्मृतिभ्यामपि यद्गोचरी-

अत्रनृत्तमतिशोभनं परं सत्यबोध-
सुखवस्तुबोधकम्‌। भक्तचित्तहृदयस्थितं
हरे व्यक्तमेव सततं करोम्यहम्‌॥ ९४॥
शंकरी च परमा विनायकः षण्मुखश्च
सुयशाःपतिः प्रभुः। अन्तरङ्गजन-
मप्यतिप्रियं नृत्तमत्र परिपश्यति स्वयम्‌॥ ९५॥
त्वं च पद्मजनितः पुरंदरःपङ्कजाऽपि
परमा सरस्वती। मत्प्रसादजनितेन
चक्षुषा नृत्यमत्रददृशुः समञ्जसम्‌॥ ९६॥
शब्दजालपिरमोहिता जनास्तर्कजाल-
परिमोहिता अपि। अत्र नैव ददृशुश्च
नर्तनं भक्तिहीनजनताऽप्यधोक्षज॥ ९७॥
वेदबाह्यसरणिस्थिता जनाः केवलाश्च
मनुजा अपि प्रियम्‌।अत्रभक्तिसहिता
अपि स्वतः सत्यमेव ददृशुश्च नर्तनम्‌॥ ९८॥
अत्रनृत्तमविलोक्य मानवः स्वर्गलोकमपि
नैति चेज्यया। नित्यशुद्धसुखसत्य-
चिद्धनं ब्रह्ममुक्तिमपि नैति विद्यया॥ ९९॥
नृत्तदर्शनविवर्जितः पुमानत्र कीटसदृशश्च

——————————————————————

कर्तुमशक्यम्‌। किंतु शिवप्रसादवद्भिरेव लभ्यमित्यर्थः॥ ९१—९३॥सत्येति।सत्यमनवच्छिन्नमबाध्यं सुखं ज्ञानानन्द-घनं यद्वस्तुतस्यसाधकम्‌॥९४॥ शङ्करीति। उक्तशङ्कर्यादिरन्तरङ्गजनः आर्षं नपुंसकत्वम्‌।निगद-

केशव। तस्य पुण्यमपि दुष्कृतं
भवेत्सत्यमेव कथितं मयाऽच्युत॥ १००॥
नृत्तदर्शनविहीनबाडबः सत्यमत्र
परुषोत्तमान्त्यजः। तस्य जन्म विफलं
ह्यहो हरे कः स्वमोहमतिवर्तते नरः॥ १०१॥
बहुप्रलापेन किमत्र लभ्यते विचित्रमेतत्पुरमादृतं
मया। विमुक्तिभाजामपि पृण्यशीलिनां
विमुक्तिहेतुः सकलोत्तमोत्तमम्‌॥ १०२॥

सूत उवाच—

एवमुक्त्वा महादेवः साम्बः संसारमोचकः।
सत्यज्ञानपरानन्दस्तत्रैवान्तरधीयत॥ १०३॥
विष्णुर्विश्वजगन्नाथोविश्वलोकहिते रतः।
शिवस्थानानि चाऽकर्ण्यश्रीवैकुण्ठं गतोऽभवत्‌॥१०४॥
भवद्भिश्चमहाभाग्याच्छिवस्थानानि सुव्रताः।
श्रुतानि तानि मोक्षार्थं भजध्वं श्रद्धया सह॥ १०५॥
स्थानानि सर्वाणि मयोदितानि द्विजेन्द्रबृन्दा
अतिशोभनानि। भजेदविद्याविनिवृत्तिकामः
प्रियेण चैकं परमेश्वरस्य॥ १०६॥

इति श्रीस्कान्दपुराणे सूतसंहितायां चतुर्थेयज्ञवैभवखण्डे

शिवस्थानविचारो नामैकोनत्रिंशोऽध्यायः॥ २९॥

——————————————————————

व्याख्यानमन्यम्‌॥ ९५—१०६॥

इति श्रीस्कान्दपुराणे सूतसंहितातात्पर्यदीपिकायां चतुर्थे यज्ञवैभवखण्डे

शिवस्थानविचारो नाम एकोनत्रिंशोऽध्यायः॥ २९॥

त्रिंशोऽध्यायः।

३०. भस्मधारणवैभवनिरूपणम्‌।

सूत उवाच—

अथातः संप्रक्ष्यामि भस्मधारणवैभवम्‌।
यस्य विज्ञानमात्रेण नरो मुच्येत बन्धनात्‌॥ १॥
भस्म नानाविधं प्रोक्तं धार्मिकैस्तत्त्वचिन्तकैः।
एकं विप्रा महाभस्म स्वल्पमन्यत्प्रकीर्तिततम्‌॥ २॥
महाभस्म महादेवो महामायावभासकः।
भर्त्सनात्सर्वपापानां भासनं तस्य विद्यया॥ ३॥
विद्या वेदोद्भवा साक्षान्मुनयःसंशितव्रताः।
अविद्या फलतश्चान्याः सत्यमेव मयोदितम्‌॥ ४॥
यस्य साक्षान्महाभस्म भाति स्वात्मतया स्वतः।
न तस्य भस्मना कार्यं न जटाभिर्न चीवरैः॥ ५॥
यस्य भस्म स्वतो भाति स्वात्मना मुनिपुङ्गवाः।
न तस्य वर्णधर्मेण कार्यं नाऽऽश्रमधर्मतः॥ ६॥

—————————————————————

शिवस्योपासनस्थानान्युक्त्वा तत्रोपासकानां भस्मधारणविधानाय त्रिंशमध्यायमारभते—अथात इति॥१॥२॥ महत्त्वाल्पत्वाभ्यांद्विधा भस्माभिधाय महतः स्वपरूमाह—महाभस्मेति। मायातत्कार्यसाक्षित्वेनतदवभासनात्तत्त्व-ज्ञानप्रदानेन सर्वपापक्षयकरतया तद्भर्त्सनाद्वामहादेवो महाभस्म।तत्र भर्त्सनंतस्य महादेवस्य। कर्मणि षष्ठी। तद्विष-यया विद्यया भवति॥३॥ विद्येति। अन्याऔपनिषदव्यतिरिक्ताः कलाशास्त्रादिविद्याः फलस्यबन्धस्य हेतुत्वात्फ-लतोऽविद्या॥४॥ महाभस्मतत्त्वविद्यावतोऽग्निहोत्राद्यल्पभस्मानपेक्षामाह—यस्य साक्षादिति। तत्साहचर्येण प्राप्तयोर्ज-टाचीवरयोरपितद्वदेवानपेक्षामाह—नेति॥५॥ अत्यल्पमिदमुच्यते वर्णाश्रमधर्मैरपि नतुस्योपकारइत्याह—यस्यभस्मेति। स्वतो भासकप्रमाणानपेक्षत्वेन यस्य

यस्य भस्माऽऽत्मरूपेण विभाति परयोगिनः।
न तस्य तपसा कार्यं न दानेन न चेज्यया॥ ७॥
यस्य साक्षिस्वरूपेण भस्म भाति स्वयंप्रभम्।
न तस्य कार्यं वेदेन न च स्मृतिपुराणकैः॥ ८॥
यस्य भस्म द्विजा भाति प्रत्यग्रूपेण संततम्‌।
न तस्य कार्यं तीर्थेन नार्चनेन शिवस्य तु॥ ९॥
भस्मविज्ञानसंपन्नो महायोगी महत्तरः।
कतकृत्यश्चमेधावी का कथा शिव एव सः॥ १०॥
भस्मविज्ञानलाभाय खलुवेदाः सनातनाः।
प्रवत्ताः स्मृतयः सर्वाःपुराणं भारतादि च॥ ११॥
भस्मविज्ञाननिष्ठस्य न कर्तव्यं कथंचन।
केवलं देहयात्रैव कार्याऽऽदेहान्तमास्तिकाः॥ १२॥

——————————————————————

स्वात्माना स्वतादात्म्येन भासत इत्यर्थः॥६॥ सामान्येनोक्तस्य वर्णादिधर्मस्य वैफल्यंविशेषतोऽप्याह—यस्य भस्मेति। तपसेति वनस्थादिधर्मेण।इज्ययेति गृहस्थधर्मेण दानेनेति साधारणधर्मेण॥७॥ वेदशास्त्राध्ययनरूपेण ब्रह्मचारिधर्मे-णापि तस्य न प्रयोजनमित्याह—यस्येति॥८॥ स्नातकबहूदकधर्मेण तीर्थयात्रादिनाऽपि नार्थइत्याह—यस्य भस्म द्विजा इति।तद्ब्रह्म स्वयं तु प्रत्यगिति संज्ञामात्रेण भेदभानं न स्वरूणेत्यर्थः॥९॥उक्ततत्तद्धर्मविरहेऽपि तत्तत्फलविरहोऽपि स्यादिति चेन्न। तस्य परशिवतयापरमैश्वर्यत्वेनार्वाचीनेषु निःस्पृहता स्यादित्याह—भस्मविज्ञानेति॥१०॥११॥ प्रागुक्त-वेदार्थवैफल्यंकथमिति चेत्तस्यज्ञानसाधनत्वाद्विदुषस्तत्साध्यज्ञानस्यसिद्धत्वादित्याह—भस्मविज्ञानेति। न केवलंवेद-शास्त्रस्य व्यवहारोदेहयात्रानुपयुक्तो लौकिकव्यवहारोऽपि तस्य निष्प्रयोजन इत्याह—केवलमिति।आदेहान्तमामर-णम्‌॥१२॥ महाभस्मोक्त्वास्वल्पभस्मोवैदिकस्मार्तलौ-

स्वल्पं भस्मद्विजश्रेष्ठा बहुधा परिकीर्तितम्‌।

——————————————————————

किकभेदेन विभागमाह—स्वल्पंभस्मेत्यादिना। श्रुतिविहितेनाऽऽधानेनसंस्कृताग्नावग्निहोत्राद्यनुष्ठानेन यन्निष्पन्नं तच्छ्रौतं भस्म। तदेव हि लिङ्गपुराणे भस्मस्नानाङ्गत्वेनोक्तम्—“भस्मस्नानं पुनः कुर्याद्विधिवद्देहशुद्धये शोध्य भस्मयथान्यायं पुराणेनाग्निहोत्रजम्‌॥ ईशानेन शिरोदेशं मुखं तत्पुरुषेण तु।उरोदेशमघोरेण गुह्यंवामेन सुव्रताः॥ सद्येन पादौसर्वाङ्गंप्रणवेनाभिपिञ्चयेत्‌। भस्मस्नानपरोविप्रो भस्मस्नायीजितेन्द्रियः॥ सर्वपापविनिर्मुक्तः शिवसायुज्य-माप्नुयात्‌। यद्यकार्यसहस्राणि कृत्वा वै स्नाति भस्मना॥ तत्सर्वंदहते भस्म यथाऽग्निस्तेजसावनम्‌”इति। कल्पानु-कल्पोपकल्पाकल्पभेदेनभस्मनश्चातुर्विध्यमभिधाय तस्य मुख्यं कल्पत्वमस्यैवोक्तं सिद्धान्तशेखरे—“मूलेन शोधितं भस्म कल्पाख्यं परिकीर्तितम्‌। अग्निहोत्रसमुद्भूतमथवा भस्मकल्पकम्‌”इति। बोधायनादिस्मृतिपुराणोक्तविधानेन संस्कृतं भस्मस्मार्तम्‌। यदाह बोधायनः—“सद्येन गोशकृद्ग्राह्यंवामात्पिण्डाभिमन्त्रणम्‌। अघोरेण दहेत्पिण्डं ग्राह्यंतत्पुरषेण तु॥ स्नानमीशानमन्त्रेणकुयान्मूर्धादिपादतः। आचम्य कूर्च आसीनः शिवो भूत्वा शिवं यजेत्‌” इति। तथा शिवपुराणे—भस्मस्नानं तु कृत्वा तु विधिना पञ्चभिःक्रमात्‌।मन्त्रस्नानंपुनः कुर्यात्कृत्वाऽऽदौवारुणं मुने॥ प्रणवेन तु संशोध्य ततोहस्ततलं क्रमात्‌। गन्धादिभिश्चसंमृज्य जपोदित्थं षडक्षरम्‌॥ रुद्राग्नेर्यत्परंवीर्यं तद्भस्म परिकीर्तितम्‌। तस्मात्सर्वेषु लोकेषु वीर्यवान्भस्मसंयुतः॥भासकं भसितं चोक्तं भस्म कल्मषभक्षणात्‌। भूतिर्भूतिकरं पुंसां रक्षारक्षाकरं परम्‌”इति। तथा भविष्यत्पुराणे—“यः स्नानमारभेन्नित्यमाग्नेयंसंयतेन्द्रियः।कुलैकविंशमुत्तार्यस गच्छेत्परमां गतिम्‌॥ महापातकयुक्तोवा युक्तो वा सर्वपातकैः” इति। श्रीमहाभारते—“आयुष्कामो नरोराज-न्मूतिकामोऽथवा नरः। नित्यं वै धारयेद्भस्म मोक्षकामी च वैद्विजः” इति।कूर्मपुराणे—“ब्रह्मचारी मिताहारो भस्मनिष्ठःसमाहितः। जपेदामरणंरुद्रं स याति परमां गतिम्‌” इति। शिवधर्मे—“भस्मस्नानं जलस्नानादसंख्येय-गुणाधिकम्‌। तस्माद्वारुणमुत्सृज्यस्नानमाग्नेयमाचरेत्। योऽश्नीयाद-

श्रौतमेकंतथा स्मार्तमपरं पण्डितोत्तमाः॥ १३॥
श्रौतं भस्म द्विजा मुख्यं स्मार्तं गौणंप्रकीर्तितम्‌।
अन्यच्चास्ति द्विजा भस्म लौकिकं केवलंपरम्‌॥१४॥
श्रौतं भस्म तथा स्मार्तं द्विजानामेव कीर्तितम्‌।
अन्येषामपि सर्वेषामपरं भस्म लौकिकम्‌॥ १५॥
सर्वाङ्गोद्धूलनेनैव तथा तिर्यक्त्रिपुण्ड्रकैः।
भस्म धार्यमिति प्रोक्तं द्विजानां मुनिपुङ्गवैः॥ १६॥
धारणं मन्त्रतः प्रोक्तं द्विजानां मुनिपुङ्गवैः।
केवलं धारणं विप्रा अन्येषामपि कीर्तितम्‌॥ १७॥
अग्निरित्यादिभिर्मन्त्रैर्जाबालोपनिषद्गतैः।
सप्तभिर्धूलनं कार्यं भस्मना सजलेन च॥ १८॥

——————————————————————

न्नमस्नातःपापमत्तिच केवलम्‌। तस्मात्स्नात्वैवभुञ्जीत भस्मना सलिलेनच॥ प्रातः स्नात्वाऽम्भसा गच्छेद्भस्मना च शिवं पदम्‌। पापकंचुकमुत्सृज्य कुलसप्तकमुद्धरेत्‌। दुःशीलः शीलयुक्तो वा यो वा को वाऽथ लक्षितः। भूतिशासन-संयोगात्स पूज्योराजपुत्रवत्‌॥ वनस्पतिगते सोमे भस्मोद्धूलितदेहभृत्।अर्चितंशंकरं दृष्ट्वासर्वपापैःप्रमुच्यते”इति॥ १३॥१४॥उक्तभस्मनोऽधिकारिविभागमाह—श्रौतं भस्म तथेति। श्रौतस्मार्तभस्मद्वयस्य वेदमन्त्रैककरणकत्वेन तत्रशूद्रादेरनधिकारात्‌॥१५-१७॥ अग्निरित्यादिभिरिति।“अग्निरिति भस्म। वायुरिति भस्म। जलमिति भस्म। स्थलमि-ति भस्म। व्योमेति भस्म।सर्व^(ँ)ह वा इदं भस्म। मनएतानि चक्षूंषिभस्मानि " इत्येते च सप्तमन्त्रायद्यप्यथर्वशिरस्य-धीयन्तेतत्र विनियुज्यन्तेतथाऽपि जाबालोपनिषद्यपि विनियोग एतेषामस्तीति जाबालोपनिशद्गतैरित्युक्तम्‌। श्रूयते हि तत्रापि—“अग्निरित्यादिना भस्म गृहीत्वानिमृज्याङ्गानिसंस्पृशेत्‌” इति॥१८॥ भस्मस्नानानन्तरं त्रिपुण्ड्रधारणमाह—त्रियायु-

त्रियायुषेण मन्त्रेण द्विजास्तिर्यक्त्रिकित्रपुण्ड्रकम्‌।
धार्यं प्रोक्तं द्विजश्रेष्ठा धार्मिकैर्वेदपारगैः॥१९॥

——————————————————————

षेणेति। स च मन्त्र एवम्‌ “त्रियायुषंजमदग्नेः कश्यपस्य त्रियायुषम्‌। अगस्त्यस्य त्रियायुषंयद्देवानां त्रियायुषम्‌। तन्मे अस्तु त्रियायुषम्‌” इति। त्रिपुण्ड्रधारणे बृहज्जाबालश्रुतिः। “तथोपरि तिर्यक्त्रिपुण्ड्रंधारयेत्‌” इति।तथा लौगाक्षिः—“मध्यमानामिकाङ्गुष्ठैर्ललाटे भस्मना कृतः।स त्रिपुण्ड्रो भवेच्छस्तो महापातकनाशनः॥ त्रिपुण्ड्रंधारयेद्यस्तु शिव-प्रणतमानसः।भूर्भुवः स्वस्त्रयोलोका धृतास्तेन महात्मना॥ त्रिपुण्ड्रधृग्विप्रवरो योरुद्राक्षधरः शुचिः। स हन्ति रोगदुरि-तव्याधिदुर्भिक्षतस्करान्‌॥ स प्राप्नोति परंब्रह्म यस्मान्नाऽऽवर्ततेपुनः। स पङ्किपावनः श्राद्धे पूज्योविप्रैः सुरैरपि ॥श्राद्धेयज्ञे जपेहोमे वैश्ववदेवे सुरार्चने। धृतत्रिपुण्ड्रःपूतात्मा मृत्युं जयतिमानवः”इति॥ भविष्यत्पुराणे—“शिवाग्नि-कार्यं यः कृत्वा कुर्यात्त्रियायुषाऽऽत्मवित्। मुच्यते सर्वपापैस्तु स्पृष्टेन भवभस्मना॥ सितेनभस्मनाकुर्यात्त्रिसंध्यं यस्त्रिपुण्ड्रकम् सर्वपापविनिर्मुक्तः शिवेन सह मोदते”इति॥ कूमेपुराणे—सितेन भस्मनाकुर्याल्ललाटे तु त्रिपुण्ड्र-कम्‌।योऽसावनादिर्भूतादिर्लोकात्मा स धृतो भवेत्‌। उपर्यधोभागयोगात्त्रिपुण्ड्रस्यतु धारणम्‌” इति। स्कान्दपुरा-णेऽपि–“शिरोललाटश्रुतिकण्ठवबाहुरोमाभियुक्तानि षडङ्गुलानि। स्थानेषु चैतेषु चतुर्ष्वपीह नक्षत्ररूपाणि सिता-निविद्धि॥ त्रियायुषं जमदग्नेरितिकुर्यात्त्रिपुण्ड्रकम्‌॥ अथर्वसूत्रमन्त्रेण कुर्यात्तत्पुरुषेण वा। वर्तुलेन भवेद्व्याधिर्दीर्धे-णैवतपःक्षयः”॥ नेत्रयुग्मप्रमाणेनत्रिपुण्ड्रंधारयेद्बुधः”इति। शिवपुराणे—अकृत्वाभस्मना स्नानं नजपेद्वै षडक्षरम्। त्रिपुण्ड्रंच लिखित्वा तु विधिना भस्मना जपेत्‌। अन्त्यजोवाऽधमो वाऽपि मूर्खो वा पतितोऽपि वा॥ यस्मिन्देशेवसेन्नित्यं भूतिशासनसंयुतः। तस्मिन्सदाशिवः सोमः सर्वभूतगणावृतः॥ सर्वतीर्थैश्चतीर्थज्ञैःसांनिध्यंकुरुते सदा। सर्वाङ्गोद्धूलनं चैवन तु कल्पं त्रिपुण्ड्रकैः॥त्रिपुण्ड्रसहितो विप्रः पूज्यः सर्वैःसुरासुरैः। यस्मिन्देशे शिवज्ञानी भूतिशासनसंयुतः॥ गतोयदृच्छयावाऽपि तस्मिंस्तीर्थाःसमागताः। बहुनाऽत्र किमुक्तेन संपूज्याः

मेधावीत्यादिना वाऽपि ब्रह्मचारी दिने दिने।
भस्मना सजलेनैवधारयेच्च त्रिपुण्ड्रकम्‌॥ २०॥
त्रैयम्बकेण मन्त्रेण प्रणवेन शिवेन वा।
गृहस्थश्च वनस्थश्च धारयेच्चत्रिपुण्ड्रकम्‌॥२१॥
ओंकारेण त्रिरुक्तेन सहंसेन त्रिपुण्ड्कम्‌।
धारयेद्भिक्षुको नित्यमिति जाबालिकी श्रुतिः॥ २२॥
ललाटे चैव दोर्द्वंद्वेतथैवोरसि बुद्धिमान्‌।
त्रिपुण्ड्रंधारयेन्नित्यं भुक्तिमुक्तिफलप्रदम्‌॥ २३॥
वर्णानामाश्रमाणां च मन्त्रतोऽमन्त्रतोऽपि च।
त्रिपुण्ड्रोद्धूलनं प्रोक्तं जाबालैरादरेण च॥ २४॥
उद्धूलनं त्रिपुण्ड्रंच ज्ञानाङ्गत्वेन सादरम्‌।
आमनन्ति मुनिश्रेष्ठाः श्वेताश्वतरशाखिनः॥ २५॥
अयमत्याश्रमो धर्मो यैःसमाचरितो मुदा।
तेषामेव शिवज्ञानं ससारच्छेदकारणम्‌॥ २६॥
उद्धूलनं त्रिपुण्ड्रंच मायापाशनिवृत्तये।
आमनन्ति मुनिश्रेष्ठा अथर्वशिरसि स्थिताः॥ २७॥
तथाऽपि मायाविच्छेदो ज्ञानादेव तु केवलात् ।

——————————————————————

शिवयोगिनः॥ लिङ्गार्चनंसदा कार्यंजप्यो मन्त्रः षडक्षरः” इति॥१९॥आश्रमभेदेन विकल्पितान्मन्त्रभेदानाह—मेधावी-त्यादिनेति॥२०—२५॥ श्वेताश्वतरशाखिनआमनन्तीत्युक्तंते यदामनन्ति तदाह— अयमत्याश्रम इति॥२६॥ श्रुत्यन्त-रेऽपि संवादमाह—उद्धूलनमिति॥२७॥ पाशनिवृत्तयेचेदामनन्ति तर्हिज्ञानाङ्गत्वेनाऽऽमनद्भिः सह विरोध इत्यत आह—तथाऽपीति। तत्र हेतुमाह—ज्ञानादेवेति।केवलादिति। न भस्मस्नानसहितादि-

अज्ञानस्य तु विज्ञानं बाधकं खलु नेतरत्‌॥ २८॥
व्रतं पाशुपतं येन सम्यगाचरितं बुधाः।
तस्य ज्ञानं विजायेत तेन पाशविमोचनम्‌॥ २९॥
उद्धूलनं त्रिपुण्ड्रंच ज्ञानाङ्गत्वेन केवलम्‌।
आमनन्ति मुनिश्रेष्ठाः साक्षात्कैवल्यशाखिनः॥ ३०॥
अतोऽपि पाशविच्छेदलाभाय ज्ञानसिद्धये।
उद्धूलनं त्रिपुण्ड्रंच मुमुक्षुःसम्यगाचरेत्‌॥ ३१॥
अग्न्यादिभ्यः परा भूतिस्तया तिर्यक्त्रिपुण्ड्रकम्।
धूलनं चाऽऽचरेदेव मुमुक्षुर्ज्ञानसिद्धये॥३२॥
भस्मनोद्धूलनं चैव तथा तिर्यक्त्रिपुण्ड्रकम्‌।

——————————————————————

त्यर्थः। तत्रोपपत्तिमाह—अज्ञानस्येति। “तमेवंविद्वानमृत इह भवति।नान्यः पन्था विद्यतेऽयनाय” इति श्रुत्यामाया-निवृत्तिरूपेऽमृतत्वेज्ञानातिरिक्तसाधननिरासादित्यर्थः॥२८॥ तर्हिव्रतवैयर्थ्यमित्यत आह—व्रतंपाशुपतमिति। व्रतक्ष-पितकल्मषस्यैवोपनिषज्ज्ञानान्मायापाशस्यनिवृत्तिरिति व्रतात्तन्निवृत्तिरित्युच्यते। एवं हि श्रूयते “व्रतमेतत्पाशुपतंपशु-पाशविमोक्षाय”इति। अथर्वशिरसि साक्षान्मायापाशनिवृत्तिहेतुत्वेन श्रुतमपि व्रतमौपनिषदज्ञानद्वारेणैव नसाक्षादिति न्यायादुक्तम्‌॥२९॥न केवलंन्यायात्प्रत्यक्षश्रुतावप्येवमाम्नायत इत्याह— साक्षात्कैवल्यशाखिन इति॥३०॥ ज्ञान-द्वारेणसाधनतामुक्तामुपसंहरति—अतोऽपीति। अस्मिन्परंपरासाधनत्वेऽपीत्यर्थः॥३१॥ उद्धूलनत्रिपुण्ड्रयोरुक्तेज्ञान-साधनत्वे उपपत्तिमाह— अग्न्यादिभ्यइति। अग्न्यम्बुपृथिवीलक्षणात्तत्त्वज्ञानसाधनाद्भूतत्रयादुत्पन्ना भूतिः। अतस्तया कृतमुद्धूलनंत्रिपुण्ड्रंच ज्ञानसाधनमित्यर्थः। भूतत्रयस्य च ज्ञानसाधनतोक्ता छन्दोगोपनिषदि—“अन्नेन सोम्य शुङ्गेनापो मूलमन्विच्छाद्भिःसोम्यशुङ्गेन तेजोमूलमन्विच्छ तेजसा सोम्य शुङ्गेन सन्मूलमन्विच्छ” इति॥३२॥उद्धूलन-त्रिपुण्ड्रयोः कैवल्यसिद्धये कर्तव्यतोक्ता। अकरणे तदसिद्धिमाह—

प्रमादादपि मोक्षार्थी न त्यजेदिति हि श्रुतिः॥ ३३॥
भस्मनोद्धूलनं चैव तथा तिर्यक्‌त्रिपुण्ड्रकम्‌।
महापापविनाशाय विधत्ते वैदिकी श्रुतिः॥ ३४॥
भस्मनोद्धूलनं चैव तथा तिर्यक्त्रिपुण्ड्रकम्।
रक्षार्थंसर्वजन्तूनां विधत्ते वैदिकी श्रुतिः॥ ३५॥
भस्मनोद्धूलनं चैव तथा तिर्यक्त्रिपुण्ड्रकम्‌।
मङ्गलार्थं च सर्वेषां विधत्ते वैदिकी श्रुतिः॥ ३६॥
भस्मनोद्धूलनं चैव तथा तिर्यक्त्रिपुण्ड्रकम्‌।
पवित्रार्थं च सर्वेषां विधत्ते वैदिकी श्रुतिः॥ ३७॥
भस्मनोद्धूलनं चैव तथा तिर्यक्त्रिपुण्ड्रकम्‌।
माहेश्वराणां लिङ्गार्थंविधत्ते वैदिकी श्रुतिः॥ ३८॥
भस्मनोद्धूलनं चैव तथा तिर्यक्‌त्रिपुण्ड्रकम्‌।
लिङ्गार्थं चैव सर्वेषां विधत्ते वैदिकी श्रुतिः॥ ३९॥
भस्मनोद्धूलनं चैव तथा तिर्यक्त्रिपुण्ड्रकम्।
स्नानत्वेनैव सर्वेषां विधत्तेवैदिकी श्रुतिः॥४०॥

——————————————————————

भस्मनोद्धूलनमिति। मुमुक्षोस्त्यागनिषेधादेवत्याग इष्यमाणमुक्तेरसिद्धिर्ज्ञायते।इत आरम्भ्याध्यायशेषेणभस्मो-द्धूलनस्यत्रिपुण्ड्रधारणस्य च करणे याःसिद्धय उक्ता अकरणे च प्रत्यवायास्तत्सर्वं प्रपञ्चितं कालाग्निरुद्रोपनिषदि।अतः सा सर्वैवोदाह्रियते—“अथ कालाग्निरुद्रंभगवन्तं सनत्कुमारः पप्रच्छाधीहि भगवंस्त्रिपुण्ड्रविधिंकिं तत्त्वंकिं द्रव्यंकियत्स्थानं कति प्रमाणंकारेखाः के मन्त्राः का शक्तिः किं दैवतं कः कर्ताकिं फलमिति। तं होवाचभगवान्यद्द्रव्यं तदाग्नेयं भस्मसद्योजातादिपञ्चब्रह्ममन्त्रैःपरिगृह्याग्निरितिभस्मेत्यनेन मन्त्रेणाभिमन्त्र्यमा नस्तोक इति समुद्धृत्यजलेन संसिच्यत्रिया-

भस्मनोद्धूलनंचैव तथा तिर्यक्त्रिपुण्ड्रकम्।
व्रतत्वेनैवसर्वेषां विधत्ते वैदिकी श्रुतिः॥ ४१॥
भस्मनोद्धूलनंचैव तथा तिर्यक्त्रिपुण्ड्रकम्।
दानत्वेनैवसर्वेषां विधत्ते वैदिकी श्रुतिः॥ ४२॥
भस्मनोद्धूलनंचैव तथा तिर्यक्त्रिपुण्ड्रकम्।
तपस्त्वेनैव सर्वेषां विधत्ते वैदिकी श्रुतिः॥ ४३॥
भस्मनोद्धूलनंचैव तथा तिर्यक्त्रिपुण्ड्रकम्।
यज्ञत्वेनैवसर्वेषां विधत्ते वैदिकी श्रुतिः॥ ४४॥
भस्मनोद्धूलनंचैव तथा तिर्यक्त्रिपुण्ड्रकम्।
सर्वधर्मतया पुंसां विधत्ते वैदिकी श्रुतिः॥ ४५॥
शिवेन विष्णुना चैव ब्रह्मणा वज्रिणा तथा।
देवताभिर्धृतं भस्म त्रिपुण्ड्रोद्धूलनात्मना॥ ४६॥
उमादेव्याच लक्ष्म्या च वाचा चान्याभिरास्तिकाः।
सर्वस्त्रीभिर्धृतं भस्म त्रिपुण्ड्रोद्धूलनात्मना॥ ४७॥
यक्षराक्षसगन्धर्वसिद्धविद्याधरादिभिः।
मुनिभिश्च धृतंभस्म त्रिपुण्ड्रोद्धूलनात्मना॥ ४८॥
ब्राह्मणैः क्षत्त्रियैर्वैश्यैःशूद्रैरपि च संकरैः।
अपभ्रंशैर्धृतंभस्म त्रिपुण्ड्रोद्धूलनात्मना॥ ४९॥

——————————————————————

युषमिति शिरोललाटवक्षस्कन्धेष्विति त्रिभिस्त्रियायुषैस्त्रियम्बकैस्तिर्यक्तिस्रोरेखाः प्रकुर्वीत व्रतमेतच्छांभवं सर्वेषु वेदेषु वेदवादिभिरुक्तंतत्समाचरेन्मुमुक्षुरपुनर्भवाय। अथ सनत्कुमारः प्रमाणमस्य त्रिधा चाऽललाटादाचक्षुषश्चाऽऽभ्रुवो-र्मध्यतोयाऽस्य प्रथमारेखा गार्हपत्यश्चाकारोरजो भूर्लोकश्चाऽऽत्माक्रियाशक्तिर्ऋग्वेदः प्रातःसवनंमहेश्वरो देवतेति। याऽस्य द्वितीया रेखा सा

उद्धूलनं त्रिपुण्ड्रंच यैःसमाचरितं मुदा।
त एव शिष्टा विद्वांसो नेतरे मुनिपुङ्गवाः॥ ५०॥
उद्धूलनं त्रिपुण्ड्रंच श्रद्धया नाऽऽचरन्ति ये।
तेषां नास्ति विनिर्मोक्षः संसाराज्जन्मकोटिभिः॥ ५१॥
उद्धूलनं त्रिपुण्ड्रंच श्रद्धया नाऽऽचरन्ति ये।
तेषां नास्ति शिवज्ञानं कल्पकोटिशतैरपि॥ ५२॥
उद्धूलनं त्रिपुण्ड्रंच श्रद्धया नाचरन्ति ये।
तेषां नास्ति समाचारो वर्णाश्रमसमन्वितः॥ ५३॥
उद्धूलनं त्रिपुण्ड्रंच श्रद्धया नाऽऽचरन्ति ये।
ते महापातकैर्युक्ता इति शास्त्रस्य निर्णयः॥ ५४॥
उद्धूलनं त्रिपुण्ड्रंच श्रद्धया नाऽऽचरन्ति ये।
तैः समाचरितं सर्वं विपरीतफलाय हि॥ ५५॥
महापातकयुक्तानां जन्तूनां पूर्वजन्मसु।
त्रिपुण्ड्रोद्धूलनद्वेषोजायते सुदृढं बुधाः॥ ५६॥
त्रिपुण्ड्रोद्धूलने श्रद्धा येषां नैवोपजायते।
उपपातकदोषेण दुष्टास्ते नात्र संशयः॥ ५७॥
त्रिपुण्ड्रोद्धूलनादौच दर्शनेश्रवणेऽपि च।
वाञ्छा न जायते येषां ते महापापसंयुताः॥ ५८॥
येषां क्रोधो भवेद्भस्मधारणे तत्प्रमाणके।
ते महापातकैर्युक्ताइति मे निश्चिता मतिः॥ ५९॥

——————————————————————

दक्षिणाग्निरुकारः सत्त्वमन्तरिक्षमन्तरात्मेच्छाशक्तिर्यजुर्वेदो माध्यंदिनं सवनंसदाशिवो देवतेति। याऽस्य तृतीया रेखा साऽऽहवनीयो मकारस्तमो द्यौः

भस्मधारणमाहात्म्यं मया वक्तुंन शक्यते।
गुरुणा चापि मे विप्राः कल्पकोटिशतैरपि॥ ६०॥
ब्रह्मणा विष्णुना चापि रुद्रेणापि मुनीश्वराः।
भस्मधारणमाहात्म्यं न शक्यं परिभाषितुम्‌॥ ६१॥
अहो मोहस्य माहात्म्यं मुनीन्द्रा ब्रह्मवादिनः।
ये नरा भस्म संत्यज्य कुर्वन्त्यन्यत्समीहितम्‌॥ ६२॥
अतिरहस्यमिदं मुनिपुङ्गवाःकथितमेव
समस्तजगद्धितम्‌। यदि समाचरितं मनुजैर्मृदा
सफलमेव हि जन्म न संशयः॥ ६३॥

इति श्रीस्कान्दपुराणे सूतसंहितायां चतुर्थेयज्ञवैभवखण्डे
भस्मधारणवैभवं नाम त्रिंशोऽध्यायः॥ ३०॥

अथैकत्रिंशोऽध्यायः।

३१. शिवप्रीतिकरजीवब्रह्मैक्यविज्ञानवर्णनम्‌।

सूत उवाच—

अथातः संप्रवक्ष्यामि शिवप्रीतिकरं मुदा।

——————————————————————

परमात्मा ज्ञानशक्तिः सामवेदः सायंदिनं सवनं महदेवो देवतेति। यस्त्रिपुण्ड्रंभस्मना करोति यो विद्वान्ब्रह्मचारी गृही वानप्रस्थो यतिर्वा स समस्तमहपातकोपपातकेभ्यः पूतो भवति स सर्वेषु तीर्थेषुस्नातो भवति स संततं सर्वरुद्रजापी भवति स सर्वान्वेदानधीतो भवति स सकलभोगभुग्देहं त्यक्त्वाशिवसायुज्यमेति न स पुनरावर्तते न स पुनरावर्तत इत्याह भगवान्कालाग्निरुद्रः।यस्त्वेतदधीते सोऽप्येवमेव भवतीत्योसत्यमितुपनिषत्‌” इति॥ ३—६३॥

इति श्रीस्कन्दपुराणे सूतसंहितातात्पर्यदीपिकायांचतुर्थेयज्ञवैभवखण्डे
भस्मधारणवैभवं नाम त्रिंशोऽध्यायः॥ ३०॥

—————

श्रद्धया सह विप्रेन्द्राः शृणुतातीव शोभनम्‌॥ १॥
जीवब्रह्मैक्यविज्ञानं विशुद्धंवेदसंभवम्‌।
देवदेवस्य विप्रेन्द्रा महाप्रीतिकरं सदा॥ २॥
सर्वं ब्रह्मेति विज्ञानं यत्तद्वेदान्तवाक्यजम्‌।
देवदेवस्य विप्रेन्द्रा महाप्रीतिकरं सदा॥ ३॥
साम्बमूर्तिधरस्यास्य शिवस्य ध्यानमास्तिकाः।
देवदेवस्य विप्रेन्द्रा महाप्रीतिकरं सदा॥ ४॥
नृत्यमानस्य देवस्य ध्यानं यत्तद्द्विजोत्तमाः।
देवदेवस्य विप्रेन्द्रा महाप्रीतिकरं सदा॥ ५॥
शिवशंकररुद्रादिशब्दाभ्यासश्च सादरम्‌।
देवदेवस्य विप्रेन्द्रा महाप्रीतिकरं सदा॥ ६॥
शिवभक्तिश्चविप्रेन्द्रा गुरुभक्तिस्तथैव च।
देवदेवस्य विप्रेन्द्रा महाप्रीतिकरी सदा॥ ७॥
श्रुतिस्मृतिपुराणेषु विश्वासो यः स आस्तिकाः।
देवदेवस्य विप्रेन्द्रा महाप्रीतिकरः सदा॥ ८॥
अध्यापनं चाध्ययनं वेदवेदान्तयोरपि।
देवदेवस्य विप्रेन्द्रा महाप्रीतिकरं सदा॥ ९॥
वेदवेदान्तवाक्यानां तात्पर्यस्य निरूपणम्‌।
देवदेवस्य विप्रेन्द्रा महाप्रीतिकरं सदा॥ १०॥
त्रिपुण्ड्रोद्धूलनाचारो जाबालोक्तेन वर्त्मना।

——————————————————————

भस्मोद्धूलनत्रिपुण्ड्रधारणवद्यदन्यच्छिवप्रीतिकरं तद्वक्तुंप्रतिजानीते—अथात इति॥१॥ जीवब्रह्मेति। तद्धि शिवपू-जाभेदानां मध्य उत्तमा निरा-

देवदेवस्य विप्रेन्द्रा महाप्रीतिकरः सदा॥ ११॥
कण्ठे शिरसि वा हस्ते रुद्राक्षाणां धारणम्‌।
देवदेवस्य विप्रेन्द्रा महाप्रीतिकरं सदा॥ १२॥
लिङ्गेशिवार्चनं नित्यं वेदोक्तेनैव वर्त्मना।
देवदेवस्य विप्रेन्द्रा महाप्रीतिकरं सदा॥ १३॥
वाराणस्यादिके स्थाने यात्राकरणमादरात्‌।
देवदेवस्य विप्रेन्द्रा महाप्रीतिकरं सदा॥ १४॥
शान्तिदान्त्यादिसंपत्तिर्मुमुक्षुत्वं मुनीश्वराः।
देवदेवस्य विप्रेन्द्रा महाप्रीतिकरं सदा॥ १५॥
नित्यानित्यार्थविज्ञानं वैराग्यं सुदृढंतथा।
देवदेवस्य विप्रेन्द्रा महाप्रीतिकरं सदा॥ १६॥
यज्ञदानतपःकर्मनिष्ठा चाऽऽश्रमरक्षणम्‌।
देवदेवस्य विप्रेन्द्रा महापीतिकरं सदा॥ १७॥
स्वजातिविहिताचारस्तथाऽन्याचारवर्जनम्‌।
देवदेवस्य विप्रेन्द्रा महाप्रीतिकरं सदा॥ १८॥
निषिद्धकर्मणां त्यागो दुर्वृत्तानामुपेक्षणम्।
देवदेवस्य विप्रेन्द्रा महाप्रीतिकरं सदा॥ १९॥
दया सर्वेषु भूतेषु मार्गदूषणवर्जनम्‌।
देवदेवस्य विप्रेन्द्रा महाप्रीतिकरं सदा॥ २०॥
द्विजानामपि शुश्रूषा ज्ञानिनां च विशेषतः।
देवदेवस्य विप्रेन्द्रा महाप्रीतिकरी सदा॥ २१॥

शिवज्ञानैकनिष्ठस्य गुरोःशुश्रूषणं सदा।

शिवप्रीतिकराणां तु विशिष्टं नात्र संशयः॥ २२॥
पुरा काचित्कुलालस्त्री बभूवातीव सुन्दरी।
सा सहस्रत्रयं हत्वा विप्राणामर्थवाञ्छया॥ २३॥
महाधनवती भूत्वा मायया परिमोहिता।
यथेष्टं भूतले विप्राश्चचार परिगर्विता॥ २४॥
कश्चिद्विज्ञानसंपन्नो महायोगी सुनिश्चलः।
श्रीमद्दक्षिणकैलासं शिवस्थानोत्तमोत्तमम्‌॥ २५॥
वर्तितुंश्रद्धयाऽगच्छद्विदित्वा देशवैभवम्‌।
तं दृष्ट्वा सा स्वभोगार्थं प्रणिपत्यतपस्विनम्‌॥ २६॥
परिगृह्यातिसंतुष्टागृहे स्वीये विचक्षणा।
स्नाप्य वस्त्रादिकं दत्त्वा भोजयित्वाऽनुमोदितः॥२७॥
चन्दनाद्यैरलंकृत्य दत्त्वा ताम्बूलपूर्वकम्‌।
सामाश्वास्य महात्मानं प्रियंभुक्तवती द्विजाः॥ २८॥
सोऽपि विज्ञानसंपन्नो महायोगी निराकुलः।
अतीव प्रीतिमापन्नस्तया सह मुनीश्वराः॥ २९॥
श्रीमद्दक्षिणकैलासे शिवस्थानोत्तमोत्तमे।
अवर्तत चिरं कालमतीवप्रीतिसंयुतः॥ ३०॥
देवदेवो महाप्रीतस्तया शुश्रूषया द्विजाः।
तस्यै परमकैवल्यं ददौविज्ञानपूर्वकम्‌॥ ३१॥
बहवो ज्ञाननिष्ठस्य शुश्रूषाबलतो द्विजाः।
शिवप्रीतिमवाप्याऽऽशु विमुक्ता भवबन्धनात्‌॥ ३२॥
अत उक्तेषु सर्वेषु शुश्रूषा शिवयोगिनः।

शिवप्रीतिकरी साक्षादिति वेदार्थसंग्रहः॥ ३३॥
अतः शिवप्रीतिकरं विचार्यद्विजोत्तमा वेदविदां वरिष्ठाः।
मदुक्तमार्गेण शिवप्रियेण सदाशिवप्रीतिकरं कुरुध्वम्‌॥३४॥

इति श्रीस्कान्दपुराणे सूतसंहितायां चतुर्थेयज्ञवैभवखण्डे
जीवब्रह्मैक्यनिरूपणं नाम एकत्रिंशोऽध्यायः॥ ३१॥

अथ द्वात्रिंशोऽध्यायः।

३२. भक्त्यभावकारणनिरूपणम्‌।

सूत उवाच—

अथ वक्ष्येमहादेवश्रद्धाभावस्य कारणम्‌।
मनुष्याणां मुनिश्रेष्ठाः शृणुत श्रद्धयासह॥ १॥
पुरा कालविपाकेन प्राणिकर्मवशेन च।
पञ्च सप्त च वर्षाणि नववर्षशतक्रतुः॥ २॥
अनावृष्ट्या द्विजा भूमिर्दुर्भिक्षाऽभवदास्तिकाः।
क्षुत्पीडा च महातीव्राविजाता सर्वदेहिनाम्‌॥ ३॥
मनुष्याश्च दुराचारा अभवन्नन्नवाञ्छया।
हत्वा केचिन्मनुष्यांश्च भुक्तवन्तो विमोहिताः॥ ४॥
हत्वा केचित्पशून्मोहादजान्केचन मोहिताः।

————————————————————————

धारा पूजेति पूर्वमुक्तम्‌। निगदव्याख्यानमन्यत्‌॥ २-३४॥

इति स्कान्दपुराणे श्रीसूतसंहितातात्पर्यदीपिकायां चतुर्थेयज्ञवैभवखण्डे

जीवब्रह्मैक्यनिरूपणं नाम एकत्रिंशोऽध्यायः॥३१॥

श्रद्धाविरोधिनस्तदभावस्य कारणं हेयतया ज्ञातव्यमिति तद्वक्तुंप्रतिजानीते—अथ वक्ष्य इति॥१॥ श्रेयोर्थिनामपि पुरुषाणां सकलश्रेयोहेतुभू-

तुरङ्गांश्च गजान्केचिद्भुक्तवन्तो यथाबलम्‌॥ ५॥
ब्राह्मणाः केचिदालोड्य विशिष्टा मुनिसत्तमाः।
गौतमस्याऽऽश्रमं पुण्यं ययुः सर्वे महत्तरम्‌॥ ६॥
गौतमस्य तपोयोगात्प्रसादाच्छंकरस्य च।
आश्रमस्तस्य विप्रेन्द्राः सुभिक्षस्त्वभवद्भृशम्‌॥ ७॥
ते संभूय मुनिश्रेष्ठं गौतमं प्रणिपत्य च।
प्रोचुः क्लेशेन संयुक्ता द्विजाः कारुणिकं प्रति॥ ८॥
वयंक्षुत्पीडिताः सर्वे भगवन्भववल्लभ।
केवलंकृपयैवास्मान्‌ रक्ष रक्ष हिते रत॥ ९॥
इति विज्ञापितः श्रीमान्महाकारुणिकोत्तमः।
गौतमः सर्वविप्राणामभयं दत्तवान्प्रभुः॥ १०॥
पुत्रभार्यादियुक्तानां विप्राणां गौतमो मुनिः।
ददौ धान्यं धनं वस्त्रंतिलंतैलंच गामपि॥ ११॥
अन्यानि यानि जन्तूनामिष्टानि सकलानि तु।
तानि तेषां मुनिः श्रीमान्ददौ कारुणिकोत्तमः॥ १२॥
आधिव्याध्यस्त्रशस्त्रादिपीडाश्च विविधा द्विजाः।
निवारिता मुनीन्द्रेण गौतमेन द्विजन्मनाम्‌॥ १३॥
श्रौतस्मार्तसमाचारा उपदिष्टा द्विजन्मनाम्‌।
गौतमेन मुनीन्द्रेण मुनीन्द्राः करुणाबलात्‌॥ १४॥
एवं चिरगते काले गौतमस्य महात्मनः।
तपसा केवलं भूमिः सुभिक्षाऽभवदास्तिकाः॥ १५॥
ब्राह्मणैश्च पुनः सर्वैर्गौतमेन सुरक्षितैः।

विचार्यकार्यं संभूय स्वदेशगमनाय वै॥ १६॥
गौर्हता गौतमेनेति निर्घृणैःपुरुषाधमैः।
कृतो मिथ्याभिशापस्तु महामोहवशेन तु॥ १७॥
तज्ज्ञात्वा मुनिभिः श्रीमान्गौतमो मुनिसत्तमः।
महाक्रोधेन संयुक्तः शशाप ब्राह्मणाधमान्‌॥ १८॥

गौतम उवाच—

महादेवस्वरूपे च महादेवस्य विग्रहे।
महादेवस्य भक्तौच महादेवस्य नाम्निच॥ १९॥
महादेवस्य विज्ञाने महादेवपरिग्रहे।
महादेवस्य च स्थाने महादेवस्य कीर्तिषु॥ २०॥
महादेवाय दाने च महादेवाश्रयेषु च।
महादेवस्य चोत्कर्षे त्रिपुण्ड्रोद्धूलनादिषु॥ २१॥
रद्राक्षधारणे रुद्रलिङ्गस्यैव तु पूजने।
रुद्रालयदिदृक्षायां रुद्रयात्रादिकर्मसु॥ २२॥
यद्यत्तुरुद्रसंबन्धि तत्र तत्रापि दुर्जनाः।
भवतानुन्मुखा यूयं सर्वदा ब्राह्मणाधमाः॥ २३॥
नित्यकर्माद्यनुष्ठाने तथा काम्यविवर्जने।
भवतानुन्मुखा यूयं सर्वदा ब्राह्मणाधमाः॥ २४॥
शान्तिदान्त्यादिविज्ञानसाधनेषु द्विजाधमाः।
भवतानुन्मुखा यूयं सर्वदा ब्राह्मणाधमाः॥ २५॥
स्वाध्याये च जपे चैव तथा प्रवचनेऽपि च।
भवतानुन्मुखा यूयं सर्वदा ब्राह्मणाधमाः॥ २६॥

नानाविधेषुदानेषु यज्ञेषु विविधेषु च।
भवतानुन्मुखा यूयं सर्वदा ब्राह्मणाधमाः॥ २७॥
कृच्छ्रचान्द्रायणादौच तथा मासोपवासके।
भवतानुन्मुखा यूयं सर्वदा ब्राह्मणाधमाः॥ २८॥
देवभक्तौतथाऽऽस्तिक्ये योगाङ्गेषु यमादिषु।
भवतानुन्मुखा यूयं सर्वदा ब्राह्मणाधमाः॥ २९॥
श्रुतिस्मृतिपुराणोक्तेष्वर्थेषु सकलेषु च।
भवतानुन्मुखा यूयं सर्वदा ब्राह्मणाधमाः॥ ३०॥
स्वदारगमने चैव परदारविवर्जने।
भवतानुन्मुखा यूयं सर्वदा ब्राह्मणाधमाः॥ ३१॥
विष्ण्वादिदेवताः सर्वाविशिष्टाः शंकरादिति।
भ्रान्तिविज्ञानसपंन्ना भवत ब्राह्मणाधमाः॥ ३२॥
शङ्खचक्रगदापद्मदण्डपाशांकुशादिभिः।
अङ्किताः श्रद्धया यूयं भवत ब्राह्मणाधमाः॥ ३३॥
विहीनजातिनाम्ना तु रूपेण तथैव च।
अङ्किताः श्रद्धयायूयं भवत ब्राह्मणाधमाः॥ ३४॥
वर्तुलाश्वत्थपत्रार्धचन्द्रदीपादिलिङ्गिनः।
भवत श्रद्धया सार्धं ललाटे ब्राह्मणाधमाः॥ ३५॥
पितृमातृसुतभ्रातृभार्याविक्रयिणः सदा।
बन्धुविक्रयिणस्तद्वद्भवतब्राह्मणाधमाः॥ ३६॥
वेदविक्रयिणस्तद्वत्तीर्थविक्रयिणस्तथा।
धर्मविक्रयिणस्तद्वद्भवत ब्राह्मणाधमाः॥३७॥

सुराविक्रयिणस्तद्वन्मांसविक्रयिणस्तथा।
मत्स्यविक्रयिणस्तद्वद्भवतब्राह्मणाधमाः॥३८॥
पाञ्चरात्रे च कापाले तथा कालामुखेऽपि च।
शाक्ते च दीक्षिता यूयं भवत ब्राह्मणाधमाः॥ ३९॥
बौद्धेबार्हस्पते चैवतथा पाशुपतेऽपि च।
शांभवे दीक्षिता यूयं भवत ब्राह्मणाधमाः॥ ४०॥
पाषण्डेषु तथाऽन्येषु मार्गेष्वश्रौतकेषु च।
श्रद्धया दीक्षिता यूयं भवत ब्राह्मणाधमाः॥ ४१॥
युष्माकं वंशजाताश्चसर्वे स्त्रीभिः सह द्विजाः।
मदुक्तार्थप्रकारेण भवन्तु ब्राह्मणाधमाः॥ ४२॥
बहुनोक्तेन किं साक्षाच्छिवेसंसारमोचके।
तत्संबन्धिषु सर्वेषु श्रुतिस्मृत्यादिकेषु च॥४३॥
युष्माकं वंशजातानां युष्माकं च तथैव च।
श्रद्धाभावः सदैवास्तुशापस्तीव्रःकृतो मया॥ ४४॥

सूत उवाच—

एवं मुनीन्द्रेण कृते च शापे द्विजाधमाश्चापि
तदाज्ञयैव।तथाऽभवंस्तत्कुलजाश्चसर्वे
स्वभावजो ह्येष मुनेः प्रभावः॥ ४५॥
श्रद्धाभावस्तेन जातो नराणां साक्षाद्रुद्रे
तस्य धर्मे च विप्राः। तस्माद्विद्वांस्तद्विनाशाय
साक्षाद्रुद्रंनित्यं पूजयेच्छ्रद्धयैव॥ ४६॥
त्रिपुण्ड्रमुद्धूलनमास्तिकोत्तमाः समाचरेन्नित्य-

मतन्द्रितस्तथा। विशेषतः शंकरवेदने रतो
भवेदशेषं कथितं मयाऽनघाः॥ ४७॥

इति श्रीस्कान्दपुराणे सूतसंहितायां चतुर्थेयज्ञवैभवखण्डे
भक्त्यभावकारणनिरूपणं नाम द्वात्रिंशोऽध्यायः॥ ३२॥

त्रयस्त्रिंशोऽध्यायः।

३३. परतत्त्वनामविचारः।

सूत उवाच—

अथ नामानि वक्ष्यामि परतत्त्वस्य सुव्रताः
यानि संकीर्तयन्मर्त्यो विमुक्तिफलभाग्भवेत्‌॥ १॥
शिवो रुद्रो महादेवः शंकरो ब्रह्म सत्परम्‌।
शंभुरीशान ईशश्चशूली चन्द्रकलाधरः॥ २॥
शर्वःपशुपतिः साक्षी हरः श्रीकण्ठ अद्भुतः।
उग्रः कपर्दीगिरिशो भवः सर्वज्ञईश्वरः॥ ३॥

——————————————————————

तायाश्रद्धाया अभावे गौतमशापः कारणमिति वक्तुमितिहासमारभते—पुराकालेति॥ २-४७॥

इति श्रीसूतसंहितातात्पर्यदीपिकायां चतुर्थे यज्ञवैभवखण्डे
भक्त्यभावकारणनिरूपणं नाम द्वात्रिंशोऽध्यायः॥ ३२॥

——————

अथ श्रद्धावतोऽपि विवेकज्ञानहेतुश्रवणाद्यधिकारविरहे किं कर्तव्यमित्याशङ्क्यतस्य परतत्वनामकीर्तनादेव श्रवणाधिकारविवेकज्ञानमज्ञाननिवृत्तिरूपामुक्तिश्च सिध्येदित्यभिप्रेत्य तानि नामानि वक्तुंप्रतिजानीते—अथ नामानी-ति॥१॥ तान्यनुक्रामति—शिवो रुद्र इति। ब्रह्म सत्परमिति। “सदेव सोम्येदमग्रआसीत्‌” “ब्रह्मविदाप्नोति परम्‌” इत्यादि श्रुतिप्रसिद्धेरित्यर्थः॥२॥३॥

उमापतिः कपर्दी च भूतेशस्त्रिपुरान्तकः।
अन्तकारिस्त्रिनेत्रश्चदक्षयज्ञविनाशनः॥ ४॥
धूर्जटिर्वामदेवश्च स्थाणुः सर्वविनाशकः।
स्रष्टा च पालकश्चैव ततस्तत्पुरुषः प्रभुः॥ ५॥
वामदेवः कपाली च सद्योजातः समः सुखी।
अघोरश्चसुघोरश्च प्रशान्तः पापनाशकः॥ ६॥
भवारिर्भोगदः पुण्यः कामध्वंसी कपिञ्जरः।
व्योमकेशो विशालाक्षो वह्निरेता वरप्रदः॥ ७॥
भीमो भर्गःपिनाकी च वृषाङ्कः कालकूटधृक्‌।
कृत्तिवासाः किरातश्चभिक्षुको मूलकारणम्‌॥ ८॥
अहिर्बुध्न्यो विरूपाक्षो विरूपो विश्ववेषधृक्‌।
शिपिविष्टो महादेवो गणेशःपार्वतीपतिः॥ ९॥
मृडो मेरुधरो मेधा महामायी महेश्वरः।
सर्वाधिष्ठानमाधारः सर्वाधिकरणः स्वराट्‌॥ १०॥

सर्वेश्वरः सर्वनिधिः सर्वात्मा सर्वसाधकः।

——————————————————————

अन्तकारिरिति। मनुजपशुपक्षिमृगादेः संहर्तावैवस्वतोऽन्तकस्तस्यापि संहर्तापरमेश्वरः। श्रूयते हि—“यस्य ब्रह्म च क्षत्त्रं च उभे भवत ओदनः।मृत्युर्यस्योपसेचनं क इत्था वेद यत्र सः”इति।४—६॥ कपिञ्जरइति। कंशिरस्तत्र पिङ्गलवर्णाभिर्जटाभिर्युक्त इत्यर्थः। यास्कस्त्वाह—“कपिञ्जरःकपिवरवत्कीर्णः। ईषत्पिञ्जरोवा कमनीयशब्दं पिञ्जरयतीतिच”इति॥७॥८॥ अहिर्बुध्न्यइति। “अहि गतौ”अंहति गच्छतीत्यहिः।बुध्नमन्तरिक्षं तत्र भवो बुध्न्यः। यदाह यास्कः—“अहिरयनादेत्यन्तरिक्षं योऽहिः स बुध्न्यो बुध्नमन्तरिक्षंतन्निवासात्‌” इति। शिपिविष्टइति। शिपयो रश्मयस्तैराविष्टः। शिपिविष्टः। “शिपयोऽत्र रश्मय उच्यन्ते

सेतुःसीमा समुद्रश्च विशिष्टश्च विधारकः॥ ११ ॥
जन्मादिकारणं हेतुःशास्त्रयोनिः सुखासनः।
तत्समो वाऽधिकोऽसङ्ग आत्मा चामलसाधनम्‌॥ १२॥
पुराणः पुरुषः पूर्णोऽनन्तरूपः पुरातनः ।
सत्यं ज्ञानं सुखं साक्षादाकाशः प्राण आस्तिकाः ॥१३॥
ज्योतिःप्रकाशः प्रथितः स्वयंभानः स्वयंप्रभुः।
स्वप्रकाशः स्वतन्त्रश्च स्वस्थःस्वानुभवोऽगमः॥ १४॥
अत्ता चानशनः शङ्‌कुः परमात्मा परात्परः ।
देवदेवश्च देवश्च जगन्नाथो निरञ्जनः॥ १५ ॥

——————————————————————

तैराविष्टो भवति’इति यास्कः॥९—११॥ जन्मादिकारणमिति।जायतेऽस्ति वर्धतेविपरिणमतइत्यादिभाव-विकारषट्कस्यकारणमित्यर्थः। शास्त्रयोनिरिति। प्रवृत्तिनिवृत्तिप्रातिपादकंविधिनिषेधात्मकं वेदवाक्यं शास्त्रं तस्ययोनिः कारणम्‌। यद्वाप्रत्यगात्मनः परशिवस्वरूपप्रतिपादकमुपनिषद्वाक्यं शास्त्रंतद्योनिर्ज्ञप्तिकारणमस्येति शास्त्रयोनिः।अत एवभगवान्बादरायणोऽपिसूत्रयामास—“शास्त्रयोनित्वात्‌” इति। तत्सम इति। तस्य प्रसिद्धस्यपरमेश्वरस्य सदृशोऽपिपरमेश्वरः स्वयमेव नान्यो विद्यते श्रूयते हि—“नतत्समश्चाभ्यधिकश्च दृश्यते” इति। तथाच परशिवस्योपमानान्तरनिरासायतस्यैवोपमानोपमेयभावे सति तत्सम इति नाम संपन्नम्‌॥१२॥ आकाशइति। आसमन्तात्काशते स्वरूपप्रकाशतद्रूपतया सर्वाधिष्ठानत्वेनस्फुरतीत्याकाशःपरशिवः। “आकारो वैनामरूपयोर्नि-र्वहिता” “आकाशइति होवाच” इत्यादिश्रुतिष्वप्याकाशशब्दः परशिवप्रतिपादक इतिबादरायणेन निरणायि हि “आकाशस्तल्लिङ्गात्‌” इत्यादिना। प्राण इति।प्रकर्षेण चेष्टते नित्यं वर्तते इति प्राणः। “आनीदवातं स्वधया तदेकम्‌”“प्राणोऽस्मिप्रज्ञात्मा तं मामायुरमृतमुपास्स्व” इति श्रुतिः॥ १३॥ १४॥ अत्ता चानशन इति। ‘यस्य ब्रह्म च’इति प्रागुदाहृतश्रुतेः। श्रह्मक्षत्त्रा-

निर्भयो निर्गुणो नित्यो नित्यानन्दो निरामयः।
विदो विदाधिर्वेदान्तो देवता परदेवता॥ १६॥
पतिः पाशहरः पारः पारशून्यः प्रजापतिः।
धाता धारयिता धृष्टो धाम धामविवर्जितः॥ १७॥
भुवनेशःसभानाथः सभापतिरतिप्रभुः।
सभ्यः स्तुत्यः समस्तात्मा साम्बः संसारवर्जितः॥ १८॥
संसारवैद्यः सत्यार्थः सारःसंसारभेषजम्‌।
संसारमोचको मोच्यो मुक्तो मूलधनं मुनिः॥ १९॥
महर्षिश्च महाग्रासो महात्मा मधुरः सुरः।
सुरज्येष्ठोविरूपाक्षो विश्वरूपो विनायकः॥ २०॥
विश्वाधिकश्च वेद्यश्च वेदार्थो विगतस्पृहः।
अहमर्थोऽप्रमेयश्च तत्त्वंनिर्वाणमुत्तमम्‌॥ २१॥
कैवल्यं पदमव्यक्तं कालकालश्चकोमलः।
अन्तर्यामी समाहारः सोमः सौख्यं सुहृत्सुधा॥ २२॥
अदृश्योदृश्यनेता च नेत्रं दृष्टिश्च दर्शनम्‌।
दृग्दृष्टिः पवमानश्च वशीवैश्वानरो नरः॥ २३॥

——————————————————————

दिसकलजगत्संहर्तृत्वमेवात्तृत्वम्। तथाच वैयासिकं सूत्रम्—“अत्ता चराचरग्रहणात्‌” इति। “अनश्नन्नन्यो अभिचाकशीति ” इति श्रुतेरनशनः॥१५॥ विदो विदाधिरिति। वेत्तीति विदः। इगुपधलक्षणः कप्रत्ययः। विज्ज्ञानमतिशयात्सर्वगोचरमा-धीयतेऽस्मिन्निति विदाधिः। “कर्मण्यधिकरणे च” इति किप्रत्ययः। तथाच पातञ्जलंसूत्रम्—“तत्र निरतिशयं सर्वज्ञबी-जम्”इति॥१६—२१॥ कालोत्पादकत्वं चान्यत्र स्पष्टमाम्नायते—“सर्वे निमेषा जज्ञिरेविद्युतः पुरुषादधि” इति। समा-हारइति। समाह्वियन्ते संक्षिप्यन्त उपह्वियन्तेऽस्मिन्निति समाहारः। “यत्प्रय-

मूलाचार्यो मुकुन्देशो मूलमायतनं महान्‌।
दहरो दिव्य अद्वैतमनाख्यं वस्तु वास्तवम्‌॥ २४॥
भूमा भोजयिता भोक्ता रुचिर्भस्मानुभू रसः।
हकारो हुं फडग्रस्तो हार्दोहृत्पावनोऽवधिः॥२५॥
रूढ्यैवैतानि नामान्यनिशमतितरामादितत्त्वे महेशे
वर्तन्ते नैव नारायणहरिमुरजिद्वासुदेवादिशब्दाः।

——————————————————————

न्त्यभिसंविशन्ति’ इति श्रुतेः॥२२॥२३॥ दहर इति। उपलब्धिस्थानस्य दहराकाशस्याल्पपरिमाणत्वात्तदवच्छिन्न-त्वेनोपलभ्यमानःशिवोऽपिदहरः।श्रूयते हि—अथ यदिदमस्मिन्ब्रह्मपुरेदहरं पुण्डरीकं वेश्मदहरोऽस्मिन्नन्त-राकाशस्तस्मिन्यदन्तस्तदन्वेष्टव्यम्‌” इति॥२४॥ भूमेति।भूमा त्वेव विजिज्ञासितव्योभूमानं भगवो विजिज्ञासे” इति वाक्यस्य“भूमा संसादादध्युपदेशात्‌”इति बादरायणेन ब्रह्मपरतया निर्णीतत्वाद्भूमेतिपरशिवस्य मुख्यं नाम।अनुभूः। अनुभवज्ञानात्मक इत्यर्थः। श्रुतिश्च—“अयमात्मा ब्रह्म सर्वानुभूरित्यनुशासनम्‌” इति। रस इति। निरतिशयानन्दरूपतया सर्वैरास्वादनीयइत्यर्थः।श्रूयते हि—“रसो वैसः”“रसं ह्येवायंलब्ध्वाऽऽनन्दी भवति”।हकार इति। भुवनेश्वर्यजपा-प्रसादादिषु मन्त्रेषु हकारस्य प्रथमाक्षरत्वादाचार्यैरपि ‘प्रकृतिः सा हसंज्ञा भवेद्व्याप्यविश्वम्‌’ इति जगन्मूलकार-णस्यहकारवाच्यत्वाभिधानाद्धकारः परशिवस्य नाम।हुंफडिति। हुंशब्दस्तेजोवाची “हुंतेजस्तेजसा देहो गृह्यते कवचं ततः”इत्याचार्यैरुक्तत्वात्‌। अतस्तेजोरूपत्वात्परशिवोहुंकारवाच्यः। मन्त्रानुष्ठानप्रतिबन्धकभौमान्तरिक्षरक्षः-पिशाचादिनिवारकमाग्नेयंतेजः फट्शब्दार्थः। उक्तं ह्याचार्यैः—“ताभ्यामनिष्टमाक्षिप्य चालयेत्फट्पदाग्निना”इति।तादृ-ग्विधतेजोमयस्य परशिवस्य फडिति नाम। हार्दइति। हृदये वर्तमानो हार्दः“हृदि ह्येषआत्मा” इति श्रुतेः।अवधिरिति। निरधिष्ठानभ्रमस्य निरवधिकबाधस्य चानुपपत्तेः।“अथात आदेशो नेति नेति नेह नानाऽस्ति किंचन”इत्यादिना बाध्य-मानस्याऽऽरोपितसकलप्रपञ्चस्य बाधावधित्वेन परमार्थस्य परशिवस्यावस्थानात्तस्यावधिरिति व्यपदेशः॥२५॥ रूढ्यै-वेतानीति।

योगादस्मिन्कथंचित्परममुनिवरा वामदेवादिशब्दा-
स्तस्मात्पूर्वोक्तनामान्यमलमतिरवश्यंसदा कीर्तयेच्च २६
शिवादिशब्दं परिवर्ज्यमर्त्यावदन्ति
नारायणविष्णुपूर्वम्‌। मुनीश्वरा नास्ति
विमुक्तिरेषां विभूतिरेव क्रमशो विमुक्तिः॥ २७॥
सद्य एव परमं पदं ययुः सद्य एव
सकलं सुखं ययुः। मुख्यशब्दपरिकीर्त-
नेन ते सत्यमेव पठितं मयैव तु॥ २८॥

————————————————————

अवयवप्रसिद्धिनैरपेक्ष्येण समुदायप्रसिद्ध्यैवैतानि नामानि परशिवे वर्तन्ते।अवयवव्युत्पत्तिसापेक्षत्वे नामोच्चारणसम-नन्तरं तद्व्युत्पत्त्यनुसंधानव्याजेनविलम्बिता प्रतीतिः स्यात्‌। रूढौतु नायं दोषः। अत एवोच्यते—“अवयवप्रसिद्धेः समुदायप्रसिद्धिर्बलीयसी”इति। यद्येवं महादेवःकपर्दी वामदेवो विरूपाक्ष इत्यादीनि नामानि पुनरुच्यन्ते तेषामानर्थक्यंस्यात्‌। भवेदेवं यदि केवला रूडिरश्वकर्णादिशब्दवदाश्रीयेत। अत्र तु पङ्कजादिवद्योगरूढिर्विवक्षिता। अतोऽवयवव्युत्पत्तेरपिविवक्षितत्वान्नानात्वप्रतिपादनेन प्रागुक्तदोषः परिहर्तुंशक्यते। तथा हि महच्छब्दस्य तावत्पूजितवचनत्वमधिकपरिमाणवाचित्वं चोभयं प्रसिद्धम्‌। तथाच पूजितो देवोमहादेवइत्येकत्रार्थः। अन्यत्र तु सर्वव्यापी देवो महादेव इति।तथा—“भूमनिन्दाप्रशंसासु नित्ययोगेऽतिशायने”इति स्मरणात्कपर्दशब्दादे-कत्रप्रशंसार्थइत्यपरत्र नित्ययोग इत्यपौनरुक्त्यम्। तथा वामो वननीयो देवो वामदेव इत्येकत्रार्थः। श्रूयते ह्यैतरेयके—‘तंदेवा अब्रुवन्नयं वै नः सर्वेषां वामयतितस्माद्वामदेव’इति। अपरत्र तु वामेन भागेन दीव्यती-त्यर्धनारीश्वरप्रतिपादकोवामदेवशब्दः। विपुलंललाटमाक्षि यस्येति विरूपाक्ष इत्येकत्र व्युत्पत्तिः।अपरत्र तु विशिष्ट-रूपाण्यक्षाणीन्द्रियाणि यस्येति। ऐन्द्रियकदेहस्येश्वरोपधिर्विशुद्धसत्त्वपरिणामात्मकत्वादित्येषां दिक्‌। योगादिति। विष्णुमूर्तौरूढाअपि नारायणादिशब्दा रुद्रमूर्तौमहता प्रयासेनावयवव्युत्पत्तिबलादेवकथं-

नामानि सर्वाणि च कल्पितानि स्वमायया
नित्यसुखात्मरूपे। तथाऽपि मुख्यास्तु शिवादि-
शब्दा भवन्ति सङ्कल्पनया शिवस्य॥ २९॥
मुख्यशब्दजपतो मुनीश्वराः सत्यमेव परमेश्वरो
भवेत्‌। तस्य वक्त्रकमलेसदाशिवो
नृत्यति स्मपरमेशया सह॥ ३०॥
पापवह्निपरिदग्धमानसो देवरुद्रशिवशङ्करा
दिषु। क्रोधमेति मुनयस्त्वहो नरः
कीटपूर्वजनिरेव तस्य हि॥ ३१॥
बहुप्रलापेन किमास्तिकोत्तमाः शिवादिनामानि
परात्परस्य तु। अधोक्षजादेस्तुविशेषतः
स्वतो भवन्ति नामानि परस्य चाऽऽज्ञया॥ ३२॥
अतो महादेवशिवादिशब्दंद्विजो मुदा
नित्यमतन्द्रितो यः। विहाय नारायणपूर्वशब्दं
जपेदशेषाशुभनाशनाय॥ ३३॥

इति श्रीस्कान्दपुराणे सूतसंहितायां यज्ञवैभवखण्डे
परतत्त्वनामविचारो नाम त्रयस्त्रिंशोऽध्यायः॥ ३३॥

———————

——————————————————————

चिद्वर्तन्तइति विलम्बितप्रतीतिजनकत्वाच्छिवरुद्रादिशब्दवन्न मुख्याः॥२६॥विभूतिरेवेति। ऐश्वर्यमेवेत्यर्थः॥ २७—३३॥

इतिश्रीस्कान्दपुराणे श्रीसूतसंहितातात्पर्यदीपिकायां यज्ञवैभवखण्डे
परतत्त्वनामविचारोनाम त्रयस्त्रिंशोऽध्यायः॥ ३३॥

———————

अथ चतुस्त्रिंशोऽध्यायः।

३४. महदेवप्रसादकारणनिरूपणम्‌।

सूत उवाच—

अथातः संप्रवक्ष्यामि संप्रदायसमन्वयम्‌।
महादेवप्रसादस्य कारणं झटिति द्विजाः॥ १॥
सत्यास्तेयदयापूर्वैःसर्वधर्मैःसमन्वितः।
कामक्रोधमहालोभपैशुन्यादिविवर्जितः॥ २॥
आचार्यं सत्यसंपन्नं साक्षात्कारुणिकोत्तमम्‌।
अभिगम्य महात्मानं प्रणम्य भुवि दण्डवत्‌॥ ३॥
चन्दनागरुकर्पूरप्रमुखैःपूज्यदेशिकम्‌।
त्रिसहस्रं सहस्रं वा द्विसहस्रमथापि वा॥ ४॥
उत्तमं काञ्चनं दत्त्वायथाशक्ति धनं तु वा।
बहुशो दण्डवद्भूमौप्रणम्य श्रद्धया सह॥ ५॥
तस्य पादाम्बुजं मूर्ध्निनिधाय परयोगिनः।
अधीहि भगवो ब्रह्मेत्येवं विज्ञापयेत्सुधीः॥ ६॥
सोऽपि कारुणिकः श्रीमान्गुरुः सर्वार्थवित्तमः।
सुसमे सुप्रदेशे तुनिर्जने निर्भये शुभे॥ ७॥
गोमयेनोपलिप्तेतु पृष्पैरभ्यर्चिते तथा।
पूर्णकुम्भैश्चसंयुक्ते दीपैर्दिक्षुसमन्विते॥ ८॥
वितानतोरणैर्युक्ते धूपदीपादिवासिते।
अपक्वैस्तण्डुलैःशुद्धैः शुद्धैर्वाशालितण्डुलैः॥ ९॥

——————————————————————

प्रागुक्तशिवस्वरूपसाक्षात्कारस्य परमपुरुषार्थत्वेनगुरूपसदनव्यतिरे-

विलिख्य मण्डलं साक्षाद्गुरूक्तनैव वर्त्मना।
एतन्मन्त्रेण संपूज्यकुसुमैश्चन्दनादिभिः॥१०॥
पारंपर्यक्रमं बुद्ध्यासंचिन्त्य श्रद्धया सह।
स्थापायित्वा गुरुः शिष्यं मण्डलस्य तु मध्यमे॥ ११॥
कृताञ्जलिपुटं पूर्णप्रकाशनिकरात्मके।
शिवानन्दे समासीनमेवं भावनया युतम्‌॥ १२॥
देशिकः स्वात्मनाऽऽत्मानमवलोक्य सुनिश्चलः।
शिष्यं चाऽऽत्मतया साक्षाद्दृढंसंचिन्य साक्षिणः॥१३॥
स्वात्मनोऽन्यतया भातं स्वात्ममात्रतया स्वयम्‌।
चिन्तयेन्निश्चलोमन्त्रं जपित्वा पूर्वमेव तु॥ १४॥

——————————————————————

केणासंभवात्तत्प्रकारं वक्तुंप्रतिजानीते—आथातइति॥१—९॥ विलिख्यमण्डलमिति। अधिकारानुरूपेण कुण्डम-ण्टपादिनिरपेक्षा चाक्षुषीदीक्षाप्रागुक्ता। अधुना तु तत्सापेक्षाक्रियावती दीक्षा प्रतिपाद्यते।अतोमण्डपादिकं निर्मायतत्र दीक्षामण्डलं सर्वतोभद्रादिकं विलिखेदित्यर्थः। गुरूक्तेनेति। आचार्यैःप्रपञ्चसारादिषूक्तमार्गेण।“ततो मण्डपमध्ये तु स्थण्डिलंगोमयाम्बुना” इत्यादिनेत्यर्थः॥१०—१२॥ स्वात्मनाऽऽत्मानमिति।स्वात्मभावेन परमात्मानं साक्षात्कृत्येत्यर्थः। साक्षिण इति। साक्षिरूपेणावस्थितात्स्वात्मनोऽन्यत्वेनावगतं शिष्यं स्वात्ममात्रत्वेन गुरुश्चिन्तयेत्‌। उभयत्रानुगतस्य साक्षिचैतन्यस्यैकत्वादित्यर्थः। ग्रन्थिच्छेदमिति। उक्तं ह्यागमिकैर्निर्वाणदीक्षामधिकृत्य—-“‘सूत्रं मूलेन बध्नीयान्मुमुक्षोस्तुशिखाग्रके। तत्सूत्रंदक्षिणे भागे पादाङ्गुष्ठान्तमानयेत्‌। मुमुक्षोर्विपरीतेन नारीणांवामभागक।मलाद्यन्तस्थपाशस्य निवृत्तिस्थानगस्य च। गुल्फान्तं वाञ्छितस्यास्य कुर्यात्पाशस्यच्छेदनम्’इति। ईदृग्विधेन गुरूप-दिष्टमार्गेण षट्‌त्रिंशत्तत्त्वात्मकस्यपाशस्य यो ग्रन्थिस्तस्य च्छेदनं कुर्यादित्यर्थः॥१३॥१४॥ स्वात्मभूतां परामिति। सच्चि-दानन्दरूपस्य स्वप्रतिष्ठस्यपरशिवस्वरूपस्यैवशक्यप्रतियोगिकमा

ग्रन्थिच्छेदं पुनः कुर्याद्गुरूक्तेनैव वर्त्मना।
कृते कारुणिकेनैवमाचार्येण द्विजोत्तमाः॥ १५॥
महादेवो महानन्दो महाकारुणिकोत्तमः।
स्वात्मभूतां परां शक्तिं प्रेरयत्येव सुव्रताः॥ १६॥
प्रसन्ना सा महादेवी महाकारूणिकोत्तमा।
शिष्यस्याऽत्मनि चिद्रूपे स्वयं पतति निर्मल॥१७॥
शक्तिपाते तुसंजाते शिष्यस्याऽऽत्मनि संस्थिता।
माया दग्धा भवेत्किंचिन्नात्र संदेहकारणम्‌॥१८॥
सर्वसाधनसंयुक्तः साक्षादास्तिक्यसंयुतः।
महादेवस्य भक्तश्चेच्छिष्यः सद्गुरुभक्तिमान्‌॥ १९॥
तस्य शिष्यस्य विप्रेन्द्राः कर्मसाम्ये सति द्विजाः।
शांभवी शक्तिरत्यर्थंतस्मिन्पतति चिद्धने॥ २०॥
तदा शिष्यस्य चिद्रूपे कल्पिता मोहरूपिणी।

——————————————————————

यापरिणामरूपजगदङ्कुरात्मकशक्त्याकारानुप्रवेशेन शक्तित्वात्परा शक्तिः परशिवस्वरूपान्नव्यतिरिक्तेत्यर्थः। तदे-तदुक्तं प्राक्—‘चिन्मात्राश्रयमायायाः शक्त्याकारेद्विजोत्तमाः। अनुप्रविष्टा या संविन्निर्विकल्पास्वयंप्रभा। सदाकारपरा-नन्दा संसारोच्छेदकरिणी। सा शिवा परमा देवी शिवाभिन्ना शिवंकरी’इति॥१५-१९। कर्मसाम्येसतीति। परमेश्वरानु-ग्रहवशाद्दीक्षासंस्कारेण भाविजन्मापादककर्मक्षयाद्वर्तमानजन्मनि च सुखदुःखहेतुभूतयोः पुण्यपापयोरुपभोगेनक्षीण-त्वादारब्धफलयोः संचितवर्तमानकर्मणोः क्षयसाम्ये सातीत्यर्थः। तदुक्तम्‌—जन्तोरपश्चिमतनोः सति कर्मसाम्ये निःशेष-पाशपटलच्छिदुरा निमेषात्‌। कल्याणदेशिककटाक्षसमाश्रयेण कारुण्यतो भवति शांभववेददीक्षा, इति। आगमि-काअप्याहुः—‘अधर्मधर्मयोः साम्ये जाते शक्तिः पतत्यसौ। ज्ञानात्मिका पराशक्तिः शंभोर्यस्मिन्निपातिता’इति॥ २०॥ मोहरूपिणीति। शिष्यस्य चिद्रूपे

माया दग्धा भवेत्किंचित्तदा पतति विग्रहः॥२१॥
शिष्यस्य देहे विप्रेन्द्रा धरण्यां पतिते सति।
प्रसादः शांकरस्तस्य द्विजाः संजात एव हि॥ २२॥
यस्य प्रसादः संजातो देहपातावसानकः।
कृतार्थ एव विप्रेन्द्रा न स भूयोऽभिजायते॥ २३॥
तस्य प्रसादयुक्तस्य विद्या वेदान्तवाक्यजा।
दहत्यविद्यामखिलां तमः सूर्योदयो यथा॥ २४॥
शक्तिपातविहीनोऽपि सत्यवाग्गुरुभक्तिमान्‌।
आचार्याच्छ्रुतवेदान्तः क्रमान्मुच्येत बन्धनात्‌॥ २५॥
शक्तिपातेन संयुक्ता विद्या वेदान्तवाक्यजा।
यदा यस्य तदा तस्य विमुक्तिर्नात्रसंशयः॥ २६॥
शक्तिपातप्रकारस्य रहस्यांशश्च कश्चन।
मया नोक्तो रहस्यत्वादाज्ञाभङ्गभयादपि॥ २७॥
प्रसादकामी विप्रेन्द्राः प्रसन्नो गुरुभक्तिमान्‌।
दिने दिने गुरोः पूजां कुर्यादर्थादिभिर्नरः॥ २८॥

——————————————————————

स्वात्मनि चिच्छक्तितिरोधायिका हेयोपादेयविवेकज्ञानमावृण्वती मोहात्मिका यामायाऽऽश्रिता सा सच्चिद्रूपिण्याः शिष्यस्य स्वात्मन्यभिव्यक्तायाः परशक्तेः प्रसादेनकिंचिदपसरतीत्यर्थः। तदा पतति विग्रह इति। मायासंबन्धनिबन्धनो ह्यात्मनःकर्तृत्वभोक्तृत्वादिसंबन्धस्तथाविधस्याऽऽत्मनः स्वोपभोक्तव्यसुखदुःखहेतुभूतपुण्यपापात्मककर्मनिबन्धनो भोगायतनमभूतदेहेन संबन्धस्तथा च शक्तिपातेनमायाया अपसरणादात्मनः कर्तृत्वभोक्तृत्त्वादिसंबन्धशैथिल्ये पुण्य-पापनिमित्तस्यदेहसंबन्धस्यापि गलितत्वात्तदभिमानाभावेन तत्पात इत्यर्थः। तदुक्तमागमे—‘देहपातस्तथा कम्पः परमानन्दहर्षणे। स्वेदोरोमाञ्च इत्येतच्छक्तिपातस्यलक्षणम्‌’इति॥२१—२६॥ रहस्यांशश्चकश्चनेति। अयमत्र रह-स्यांशः।

संप्रदायसमन्वयमुत्तसं गुह्यमेतदिदं कथितं मया।
शंकरेण पुरा कथितं गुरोः शंकरः खलु सर्वहिते रतः॥२९॥

इति श्रीस्कान्दपुराणे सूतसंहितायां चतुर्थेयज्ञवैभवखण्डे
महादेवप्रसादकारणकथन नाम चतुस्त्रिंशोऽध्यायः॥ ३४॥

पञ्चत्रिंशोऽध्यायः।

३५. संप्रदायपरंपराकथनम्‌।

सूतउवाच—

अथातः संप्रवक्ष्यामि संप्रदायपरंपराम्‌।
यज्ज्ञानेन द्विजश्रेष्ठो गुरुर्भवति सुव्रताः॥ १॥
यः शिवः सर्वभूनामीश्वरः स्वत एवतु।
ईशानः सर्वविद्यानां स एवाऽऽदिगुरुर्बुधाः॥ २॥

——————————————————————

परमेश्वरस्वरूपभूतायाः सर्वगतायाः संविद्रृपिण्याः परशक्तेः पतनासंभवाच्छिष्यस्याऽऽत्मनि प्रागेवावस्थिता सा पाश-जालावृतत्वेन तिरोहिता सती पश्चाद्दीक्षासंस्कारेणाऽऽवरणापनये सत्यभिव्यक्तिमासादयन्ती पतितेत्युपचर्यते। ऊर्ध्वदे-शादधोदेशप्राप्तिर्हि पतनं न खलुतादृशमस्याः संभवतीति। आगमेऽप्युक्तम्‌—‘व्यापिनी परमा शक्तिःपतितेत्युच्यते कथम्‌। ऊर्ध्वादधोगतिःपातो मूर्तस्यासर्वगस्य च॥ सत्यासा व्यपिनी नित्या सहजा शिववत्स्थिता किंत्वियंमल-कर्मादिपाशबन्धेषु संवृता॥ पक्वपाकेषु सुव्यक्ता पतितेत्युपचर्यते इति॥२७—२९॥

इति श्रीसूतसंहितातात्पर्यदीपिकायांचतुर्थे यज्ञवैभवखण्डे
महादेवप्रसादकारणकथनं नाम चतुस्त्रिंशोऽध्यायः॥३४॥

———

गुरूपसत्तिवद्गुरुपरंपराज्ञानमपि विद्याहेतुरिति तद्वक्तुंप्रतिजानीते—

तस्य शिष्यो महाविष्णुः सर्वज्ञानमहोदधिः।
तस्मादात्तपरिज्ञानो ब्रह्मासर्वजगत्प्रभुः॥ ३॥
सनत्कुमारो भगवान्ब्रह्मणा श्रुतवेदनः।
सनत्कुमारात्सर्वज्ञात्कृष्णद्वैपायनो मुनिः॥ ४॥
अवाप्ताखिलविज्ञानस्तस्मादेव श्रुतं मया।
मत्तो लब्धपरिज्ञाना यूयं सत्यपरायणाः॥ ५॥
एवंबुद्ध्वा मुनिश्रेष्ठाः संप्रदायपरंपराम्‌।
तत्तन्नाम्ना नमस्कृत्यश्रद्धया देशिकानिमान्‌॥ ६॥
पूर्वोक्तेनैव मार्गेण कुर्यादज्ञाननाशनम्‌।
आचार्याच्छ्रुतवेदान्तः सत्यवाग्गुरुभक्तिमान्‌॥ ७॥
यो विद्यासंततिज्ञानविहीनो देशिको भवेत्‌।
स घोरं याति नरकं नास्ति संदेहकारणम्‌॥ ८॥
यो विद्यासंततिज्ञानविहीनो देशिको भवेत्‌।
स नभोभक्षणेनैव क्षुद्व्याधिं विनिवर्तयेत्‌॥ ९॥
यो विद्यासंततिज्ञानविहीनो देशिको भवेत्‌।
स विनैव तिलांस्तैलं लभते सिकतासु च॥ १०॥
यो विद्यासंततिज्ञानसहितोदेशिको भवेत्‌।
सोऽनायासेन संसारान्नृणामुत्तारको भवेत्॥ ११॥
स्वगोत्रर्षिं नमस्कृत्य गुरूक्तेनैव वर्त्मना।
स्वगुरं च नमस्कृत्य श्रद्धया च गुरोर्गुरम्‌॥ १२॥
विघ्नेशं षण्मुखं चापि शिवां विद्यास्वरूपिणीम्‌।

——————————————————————

अथात इति॥ १-७॥ गुरुपरंपरावश्यंज्ञातव्येत्यमुमर्थंव्यतिरेकमुखेनद्रढयति-

अन्यांश्चसकलान्देवान्ब्रह्मविष्णुपुरोगमान्‌॥ १३॥
पुनः शिष्यस्य मेधावी चित्तपाकं परीक्ष्य च।
अविद्यापाशविच्छेदं कुर्यात्प्राज्ञस्तु देशिकः॥ १४॥
विदित्वा शिष्यचित्तस्य विपाकं पुनरास्तिकाः।
दद्यात्पाकानुरूपेण विद्यामेतां महेश्वरीम्‌॥ १५॥
मूर्खशिष्योपदेशेन विद्यागर्वेण सुव्रताः।
गुरुद्रोहेण सर्वज्ञोऽप्यन्धकूपे पतत्यधः॥ १६॥
तस्मात्संवत्सरं शिष्यं परीक्ष्याकृत्रिमं पुनः।
प्रदद्याद्वैदिकीं विद्यां गुरुर्विद्याभिवृद्धये॥ १७॥
विद्यासंततिविज्ञानं शिष्यचित्तपरीक्षणम्‌।
अवश्यंभावि विप्रेन्द्रा देशिकस्येश्वराज्ञया॥ १८॥
संप्रदायविहीना या विद्या वेदान्तपारगाः।
साऽविद्या नेव विद्या स्यादिति तत्त्वविदां स्थितिः॥१९॥
पारंपर्यपरिज्ञानं परविद्याप्रवर्तकम्‌।
पारंपर्यावबोधेन विद्या सा वीर्यवत्तरा॥ २०॥
पारंपर्यपरिज्ञानादेव पाशनिकृन्तनम्।
तस्मात्पाज्ञः स्वविद्यायाः संततिज्ञानवान्भवेत्‌॥ २१॥

——————————————————————

यो विद्यासंततिज्ञानविहीन इति॥८—१४॥ दद्यात्पाकानुरूपेणेति।शिष्यस्य चित्तंबुद्ध्वा परीक्ष्य तद्गतमलकर्मादि-पाशजालपाकानुसरिण विद्यामुपदिशेदित्यर्थः। उक्तं हि तत्त्वप्रकाशे—“परिपक्वमला ये तानुत्सादनहेतुशक्तिपातेन। योजयति परे तत्त्वेस दीक्षयाऽऽचार्यमूर्तिस्थः” इति॥१५॥१६॥तस्मात्संवत्सरमिति। “भूयएव तपसा ब्रह्मचर्येण श्रद्धया संवत्सरं संवत्स्यथनासंवत्सरवासिनेप्रब्रूयात्” इति हि श्रुतिः॥ १७—२०॥ अतः स्वगु-

यथा गोत्रपरिज्ञानं विवाहस्योपकारकम्‌।
पारंपर्यपरिज्ञानं तथा ज्ञानोपकारकम्‌॥ २२॥
विद्यासंततयो विप्रा बहुरूपाः श्रुतौ श्रुताः।
तत्तत्संततिविज्ञानं विद्यासिद्धेस्तु कारणम्‌॥ २३॥
यो गुरुर्भवति यस्य सुव्रताः सोऽपि
तस्य परवेदनाय तु। स्वस्य देशिकपरंपरा-
मिमां तस्य भक्तिसहितस्य बोधयेत्‌॥ २४॥
शक्तिरस्य महती विजृम्भते यस्य
देशिकपरंपरा धृता। मुक्तिसिद्धिरपि चास्ति
सद्गुरोः शुद्धवंदापरवेदनेन तु॥ २५॥
संतानविज्ञानविहीनदेशिकः पिशाचपूर्वै-
रतिपीडितो भवेत्‌। संतानविज्ञानवतः
सदाशिवः स्वकं वपुस्तस्य ददाति चित्सुखम्॥ २६॥
शृणुध्वमन्यत्प्रवदामि संततिप्रबोधहीनस्य
नरस्य बाधनम्‌। न मुक्तिसिद्धिर्नच तस्य
वेदनं न देशिकत्वंन सुखित्वमास्तिकाः॥ २७॥
शिष्यस्तु मुक्तिंपरवेदनं सुखं चित्तस्य
शुद्धिं न च याति सुव्रताः। बद्धश्च कष्टश्च
विमोहितश्चभ्रष्टश्च सत्यं परिभाषितं मया॥ २८॥

——————————————————————

रुपरंपराज्ञानस्यविद्याहेतुत्वेन श्रुत्यादिप्रतिपादितत्वात्तत्तत्स्वकीयगुरुपरंपराज्ञानमवश्यमेष्टव्यमित्युपसंहरति—तस्मा-त्प्राज्ञ इत्यादिना ॥२१॥ २२॥बहुरूपाः श्रुतौश्रुता इति। बृहदारण्यकादि श्रुतिषु “अथ वंशः पौतिमाष्य

किमिह बहुभिरुक्तैःसंततिज्ञानहीनाः सकलदुरि-
तराशिं सत्यमुक्तं विशन्ति। परमपदसमाख्यं ब्रह्म-
रूपं न यान्ति स्फुरणसुखमनन्तं संततिज्ञानहीनाः।२९।

इति श्रीस्कान्दपुराणे सूतसंहितायां चतुर्थे यज्ञवैभवखण्डे
संप्रदायपरंपराविचारो नाम पञ्चत्रिंशोऽध्यायः॥३५॥

षट्त्रिंशोऽध्यायः।

३६. सद्योमुक्तिकरक्षेत्रमहिमा।

सूत उवाच—

अथातः संप्रवक्ष्यामि सद्योमुक्तिकरं परम्‌।
आम्नायान्तैकसंसिद्धंसुकरं सर्वदेहिनाम्‌॥१॥
पुरा भगवती देवी भोगमोक्षफलप्रदा।
पुराणी पूर्णविज्ञानस्वरूपा परमा शिवा॥२॥
देवदेवं जगन्नाथं देवेषु च नरेषु च।
क्रिमिकीटपतंगेषु समं सर्वेषु संस्थितम्‌॥३॥

——————————————————————

इत्यारभ्यब्रह्मणो ब्रह्म स्वयंम्भु ब्रह्मणे नमः”इत्यन्तेन बहुधा गुरुपरंपरासमाम्नातेत्यर्थः॥२३-२९॥

इति श्रीस्कान्दपुराणे सूतसंहितातात्पर्यदीपिकायां चतुर्थेयज्ञवैभवखण्डे

संप्रदायपरंपराविचारो नाम पञ्चत्रिंशोऽध्यायः॥ ३५॥

गुरुपरंपराज्ञानवत्कालहस्त्याख्यक्षेत्रविशेषे व्रतविशेषानुष्ठानमप्यनायासेनमुक्तिहेतुरितितद्वक्तुंप्रतिजानीते। अथात इति॥१॥२॥ समंसर्वेषु संस्थितामिति। “तत्सृष्ट्वातदेवानुप्राविशत्‌” “एतमेव सीमानंविदार्यैतया द्वारा प्रापद्यत”“अनेन जीवेनाऽऽत्मनाऽनुप्रविश्य नामरूपे व्याकर-

सत्यविज्ञानसंपूर्णंसुखलक्षणमव्ययम्‌।
स्वप्रकाशैकसंसिद्धंस्वविलक्षणवर्जितम्‌॥ ४॥
घृतकाठिन्यवद्विप्राःकेवलंकृपयैव तु।
आविर्भूतमहानन्दताण्डवं करुणालयम्‌॥ ५॥
गुणातीतं गुरुं गह्यमुपास्यं गुणमूर्तिभिः।
प्रणम्य दण्डवद्देवी शिवाऽपृच्छदिदं बुधाः॥ ६॥

श्रीदेव्युवाच—

देवदेव जगन्नाथ जगतामार्तिभञ्जन।
सद्योमुक्तिकरं पुंसां सुकरं ब्रूहि मे शिव॥ ७॥

सूत उवाच—

एवं पृष्टो महादेवो महादेव्यावृषध्वजः।
हिताय जगतां तस्यैबभाषे तन्महेश्वरः॥ ८॥

——————————————————————

वाणि” इत्यादिश्रुतेः। देवतिर्यङ्मनुष्यादिषु क्रिमिकीटकादिषुतद्धि चैतन्यरूपेण साम्येनावस्थितमित्यर्थः। यद्वाप्राणरू-पेण सर्वजन्तुषुसाम्येनावस्थितम्‌। तथाच बृहदारण्यके समाम्नायते“यद्देवसमः प्लुषिणासमोमश-केनसमो नागेन सम एभिस्त्रिभिर्लोकैःसमोऽनेन सर्वेण’इति। गीतासु च स्मर्यते—समंसर्वेषुभूतेषु तिष्ठन्तं परमेश्वरम्। समंपश्यन्हि सर्वत्र समवस्थितमीश्वरम्‌॥ विद्याविनयसंपन्ने ब्राह्मणेगवि हस्तिनि। शुनि चैव श्वपाकेच पण्डिताः समदर्शिनः” इति॥ ३॥ स्वविलक्षणवर्जितमिति। स्वस्मात्स्वप्रकाशचिद्रूपाद्विलक्षणो जडप्रपञ्चस्तस्य मायामयत्वेनापरमार्थत्वात्तद्रहितमित्यर्थः॥४॥ अत्र दृष्टान्तो घृतकाठिन्यवदित्यर्थः। यथ घृतस्य काठिन्यमग्निसंयोगाद्विलीनावस्थायां घृतस्वरूपातिरेकेण नोपलभ्यत एवमेवाद्वितीयपरशिवस्वरूपसाक्षात्कारेण तदाश्रितायां मायायां विलापितायां तन्मयस्तत्स्वरूपे परिक-ल्पितःप्रपञ्चोऽपि तत्रैव लीयत इत्यर्थः॥ ५॥ गुणातीतमिति। प्रकृ-

महेश्वर उवाच—

साधु साधु महादेवि त्वया पृष्टं जगद्धितम्‌।
इतः पूर्वं मया नोक्तं वदामि तव तच्छृणु॥ ९॥
ब्राह्मणो वाऽन्त्यजो वाऽपि स्त्रीपाषण्डोऽथवा बुधः।
दरिद्रोवा समृद्धो वा मूर्खो वा पण्डितोऽथ वा॥१०॥
समर्थो वाऽसमर्थो वा बालोवा स्थविरोऽपि वा।
आस्तिको वा महादेवि नास्तिक्येन युतोऽथवा॥११॥
भूमौदक्षिणकैलासेसर्वस्थानवरे शुभे।
सुवर्णमुखरीतीरे सुस्थिते सर्वसेविते॥ १२॥
त्वया मया च पुत्राभ्यां नन्दिना वृषभेण च।
मम भक्तैरशेषैश्चब्रह्मणा विष्णुनाऽपि च॥ १३॥
इन्द्रादिलोकपालैश्चसोमसूर्यादिभिस्तथा।
देवताभिश्चसर्वाभिर्यक्षराक्षसपूर्वकैः॥ १४॥
सर्वदा सेविते शुद्धेसर्वकामार्थसाधके।
संवत्सरव्रतं कुर्यात्सद्योमुक्तिकरं तु तत्‌॥ १५॥
आदित्ये मेषसंयुक्ते चित्रानक्षत्रके नरः।
सुवर्णमुखरीतोये पवित्रे पापनाशने॥ १६॥
प्रातः स्नात्वायथाशक्ति धनं दत्त्वा प्रियेण तु।
श्रीकालहस्तिनाथाख्यं देवि मामादरेण तु॥ १७॥
प्रदक्षिणं यथाशद्धिकृत्वा भूमौतु दण्डवत्‌।
प्रणम्य दृष्ट्वादेवेशि नक्तभोजनमाचरेत्‌॥ १८॥

——————————————————————

त्यवयवाःसत्त्वाद्यागुणास्तानतिक्रम्य वर्तमानमित्यर्थः। गुणमूर्तिभिरिति।

आदित्ये वृषभं प्राप्ते विशाखर्क्षेसमाहितः।
सुवर्णमुखरीतोये प्रातः स्नात्वा यथाबलम्‌॥ १९॥
दत्त्वा प्रदक्षिणं कृत्वा देवं दृष्ट्वाऽभिवन्द्यच।
समाहितमना भूत्वा नक्तभोजनमाचरेत्‌॥ २०॥
आदित्येमिथुनं प्राप्ते मूलाख्ये तारके बुधः।
सुवर्णमुखरीस्नानं कृत्वाप्रातः समाहितः॥ २१॥
प्रदत्त्वा धनमन्यद्वायथाशक्ति महर्षयः।
देवं प्रदक्षिणीकृत्य प्रणम्य भुवि दण्डवत्‌॥ २२॥
दृष्ट्वातथैव मां देवि नक्तभोजनमाचरेत्‌।
आदित्ये कर्कटं प्राप्ते गर्भर्क्षेसुसमाहितः॥ २३॥
सुवर्णमुखरीस्नानंकृत्वा प्रातर्द्विजोत्तमाः।
दृष्ट्वातत्रैव मां देवि देवं भक्तिपुरःसरम्‌॥ २४॥
प्रदक्षिणं यथाशक्ति कृत्वा दृष्ट्वाऽभिवन्द्यच।
त्यक्त्वाऽहर्भोजनं धीमान्‌ रात्रौभोजनमाचरेत्‌॥२५॥
सिंहराशौस्थिते सूर्ये वैष्णवे तारके नरः।
प्रातरेव महानद्यामस्यां स्नात्वायथाबलम्‌॥ २६॥
दत्त्वा प्रदक्षिणं कृत्वास्तुत्वा मामभिवन्द्यच।

——————————————————————

सृष्टिस्थितिसंहृतिव्यापारा ब्रह्मविष्णुरुद्रा गुणमूर्तयइत्यर्थः॥६—२१॥प्रदत्त्वेति। छन्दसो ल्यबभावः। यद्वाप्रोपसगो व्यस्तनिर्दिष्ट इति समासाभावाल्ल्यपो न प्रसक्तिः। महर्षय इति चतुर्थ्यन्तोऽपि पाठः॥२२॥गर्भर्क्षइति। गर्भर्क्षं पूर्वाषा-ढाख्यंनक्षत्रम्‌। तथा ज्योतिर्विदः—पूर्वाषाढागते भानौजीमूतैः परिवेष्टिते। आर्द्रादीनि प्रवर्ष्यन्तेऽस्यैकैकस्यत्रयोदश” इति॥ २३-२५॥ वैष्णवं श्रवणनक्षत्रम्‌। “विष्णुर्देवता इति श्रुतेर्वैष्णवं

त्यक्त्वाऽहर्भोजनं मर्त्यो रात्रौभोजनमाचरेत्‌॥ २७॥
आदित्ये कन्यकायुक्ते तथाऽजैकपदे दिने।
स्नात्वाचास्यां नरः प्रातर्दत्त्वा विप्राय भोजनम्‌॥२८॥
श्रीकालहस्तिनाथाख्यं देवं पूर्वोक्तवर्त्मना।
दृष्ट्वाऽहर्भोजनं त्यक्त्वा रात्रौ भोजनमाचरेत्‌॥ २९॥
तुलां प्राप्ते मार्ताण्डे चाश्विन्यां प्रातरेव च।
नद्यामस्यां नरः स्नात्वा दत्त्वाविप्राय भोजनम्‌॥३०॥
प्रदक्षिणप्रणामादि कृत्वा नक्तं समाचरेत्‌।
सूर्येवृश्चिकसंयुक्ते कृत्तिकायां द्विजर्षभाः॥ ३१॥
पूर्वोक्तेनैव मार्गेण नरः कृत्वा समाहितः।
त्यक्त्वाऽहर्भोजनं मर्त्योरात्रौभोजनमाचरेत्‌॥ ३२॥
आदित्ये चापसंयुक्तेचान्द्रनक्षत्रके नरः।
कृत्वा तु पूर्ववद्देवि नक्तभोजनमाचरेत्‌॥३३॥
सूर्येमकरसंयुक्ते पुष्यनक्षत्रके नरः।
पूर्ववत्सकलं कृत्वा नक्तभोजनमाचरेत्‌॥३४॥
माघे मासि मघर्क्षेतु कृत्वा पूर्ववदास्तिकाः।
त्यक्त्वाऽहर्भोजनं विप्रो नक्तभोजनमाचरेत्‌॥ ३५॥
मार्ताण्डे कुम्भराशिस्थे मघानक्षत्रके नरः।
पूर्ववत्सकलं कृत्वा नक्तभोजनमाचरेत्‌॥३६॥

——————————————————————

श्रवणाख्यम्॥२६॥ २७॥ अजैकपद इति। “अज एकपाद्देवता प्रोष्ठपदानक्षत्रम्‌” इति श्रुतेः पूर्वप्रोष्ठपदाख्यमजैकपदम्‌॥ २८-३२॥ चान्द्रेति“मृगशीर्षंनक्षत्रम्‌ सोमो देवता” इति श्रुतेश्चान्द्रं मृगशीर्षाख्यम्‌। पूर्वव-

आदित्ये मीनराशिस्थे फल्गुन्यां देवि मानवः।
पूर्ववत्सकलं कृत्वा रात्रौ भोजनमाचरेत्‌॥३७॥
मासिमासि मनुजः समाचरेदेवमेव परया
मुदा सह। देहनाशमवलोक्य तत्क्षणे
ज्ञानमस्य परमं ददाम्यहम्‌॥ ३८॥
व्रतसमाचरणेन महेश्वरि ध्रुवमवाप पदं मम
मानवः। इति समीरितमीश्वरि ते
मया सुकरमेतदशेषजनस्य तु॥ ३९॥
अत्रदत्तमणुमात्रप्युमे मेरुतुल्य-
मिति शास्त्रनिश्चयः। नित्यमत्र मनुजस्य
वर्तनं मुक्तिसिद्धिकरमित्यसंशयः॥ ४०॥
स्थानमेतदमरेन्द्रवन्दिते दोषतूल-
निकरस्य पावकः। भोगहेतुरपि कामिनां
नृणां भागधेयसहितस्य सिध्यति॥ ४१॥
अस्य वैभवमशेषनायिके नैव वेद
परिमोहितो जनः। मत्प्रसादमवलम्ब्य
केवलंदेवि वेद न च कारणान्तरैः॥ ४२॥
पापराशिसहितोऽपि नास्तिकश्चाविवेक-
सहितोऽपि मानवः । कालहस्तिमवलम्ब्य

——————————————————————

दिति। सुवर्णमुखरीस्नानादिकं कृत्वेत्यर्थः॥३३—३७॥ अत्रद्वादशस्वपिमासेषुतिथिविशेषस्यानुपादानात्पौर्णमासीयो-गाभावेऽपि चित्रादितत्तन्नक्षत्रमेव प्राधान्यात्तद्व्रताङ्गत्वेन विवक्षितम्‌॥ ३८—४३॥परमेश्वराद-

केवलंदेवि याति परमं पदं मम॥ ४३॥
सद्योमुक्तिकरं परं सकलदं सम्यक्परिज्ञानदं
भक्त्या लभ्यमिदं मयाऽपि हरिणा धात्राऽपि देवैरपि।
स्थानं नियमतन्द्रितो मतिमतामग्रेसरश्चाऽश्रये-
त्त्यक्त्वा सर्वमशङ्कितः परतरा साध्वी श्रुतिश्चाऽह हि॥

सूत उवाच—

एवमुक्त्वा महादेव्यै महाताण्डवपण्डितः।
आलिलिङ्गेशिवां शंभुः स्मरन्नैक्यं तयाऽत्मनः॥४५॥
देवदेवी जगन्माता दयार्द्रहृदयाम्बुजा।
प्रणम्य पूजयामास भवं भवहरं परम्‌॥ ४६॥
यदुक्तं देवदेवेन देव्यैरहसि तद्द्विजाः।
मयोक्तं परमप्रीत्या यष्माकं ब्रह्मवादिनाम्‌॥ ४७॥
भवन्तोऽपि परित्यज्य समस्तं परया मुदा।
सद्योमुक्तिकरं स्थानं भजध्वमिदमुत्तमम्‌॥ ४८॥
सर्वमुक्तं समासेन सादरं मुनिपुङ्गवाः।
एतदन्यन्मनुष्याणां कालक्षेपस्य कारणम्‌॥ ४९॥

इति श्रीस्कान्दपुराणे सूतसंहितायां चतुर्थेयज्ञवैभवखण्डे

सद्योमुक्तिकरक्षेत्रमहिमकथनं नाम षट्त्रिंशोऽध्यायः॥३६॥

——————————————————————

न्यस्य परित्यागेनतस्यैव मुक्त्युपायत्वेनाऽऽश्रयणे श्रुतिं संवादयति—साध्वीति।सा च “तेन त्यक्तेन भुञ्जीथा” “ज्ञात्वा देवं मुच्यते सर्वपाशैः”इत्यादिका॥४४॥ स्मरन्नैक्यमिति। परशिरस्वरूपस्यैव शक्यप्रतियोगिशक्त्यनुप्रवेशेन शाक्तित्वादु-पाधिकृतं शिवशक्त्योर्भेदं परित्यज्य पारमार्थिकमेक-

सप्तत्रिंशोऽध्यायः।

३७.मुक्त्युपायकथनम्‌।

सूतउवाच—

अथातः संप्रवक्ष्यामि मुनयः संशितव्रताः।
मुक्त्युपायमयत्नेन मया नोक्तमितः पुरा॥ १॥
पुरा जैमिनिरत्यन्तश्रद्धयासह सुव्रताः।
स्वगुरुंवेदवेदान्तविशारदमनुत्तमम्‌॥ २॥
तपसा दीप्तसर्वाङ्गं पराशरसुतं प्रभुम्‌।
प्रणम्य परया प्रीत्या दण्डवत्पृथिवीतले॥ ३॥
निधाय मूर्ध्नि तत्पादपङ्कजं भवभेषजम्‌।
अपृच्छल्लोकरक्षार्थमतिगुह्यमनुत्तमम्‌॥ ४॥

जैमिनिरुवाच—

भगवन्सर्वजन्तूनामयत्नेन विमुक्तिदम्‌।
वदकारुण्यतो नाथ मम मायाविषापहम्‌॥ ५॥

——————————————————————

त्वमनुसंदधान इत्यर्थः।प्रागप्युक्तम्—‘‘न शिवेन विना शन्तिर्नशक्तिरहितः शिवः।उमाशंकरयोरैक्यं यः पश्यति स पश्यति॥४५—४९॥इति श्रीस्कान्दपुराणे सूतसंहितातात्पर्यदीपिकायां चतुर्थेयज्ञवैभवखण्डेसद्योमुक्तिकरक्षेत्रम-हिमकथनं नाम षट्त्रिंशोऽध्यायः॥३६॥

श्रीकालहस्तिस्थानवद्व्याघ्रपुरादिस्थानविशेषेष्वनुष्ठितव्रतस्यापि मुक्त्युपायत्वमीश्वरप्रोक्तमिति तद्वक्तुंप्रतिजानीते—अथात इति॥१-५॥ब्रह्माणमिदं पृष्टमिति। प्रष्टव्यार्थस्य सामान्यावगतत्वेन प्राधान्याविवक्षणाद्ब्रह्मणश्चोपदेष्टृत्वेन गुरुत्वा-त्प्राधान्यं विवक्षितमिति पृच्छेरप्रधाने कर्मणि निष्ठा।

व्यास उवाच—

साधु साधु मुनिश्रेष्ठ त्वया पृष्टंजगद्धितम्।
पुरा पुराणं ब्रह्माणमिदंपृष्टं मयाऽपि च॥ ६॥
ब्रह्मणा च महाविष्णुः पृष्टस्तेनापि शंकरः।
स पुनः शंकरः श्रीमानम्बिकापतिरुत्तमः॥ ७॥

स्वस्वरूपमहानन्दप्रमोदजलधिस्थितः।
विष्णवे लोकरक्षार्थं बभाषे करुणानिधिः॥ ८॥

ईश्वर उवाच—

स्थाने पृष्टं त्वया विष्णो जगतः पालने रतः।
वदामि संग्रहेणाहं मुक्त्युपायमयत्नतः॥ ९॥
श्रीमद्व्याघ्रपुरं नाम स्थानमस्ति महीतले।
सर्वदा परमप्रीत्या यत्र नृत्यं करोम्यहम्॥ १०॥
तत्र मामादरेणैव नृत्यमानं दिनेदिने।
दृष्ट्वापञ्चाक्षरं मन्त्रं सतारं सर्वसिद्धिदम्॥ ११॥
यस्तु द्वादशसाहस्रं जपति श्रद्धयासह।
तस्य सिद्धा परा मुक्तिर्विना विज्ञानमुत्तमम्‌॥ १२॥
श्रीमद्दक्षिणकैलासे तथा वृद्धाचलाभिधे।
तथा गोपर्वते श्द्धेतथा वल्मीकसंज्ञिते॥ १३॥
आधिग्रामसमाख्ये च स्थाने सर्वफलप्रदे।
सोमनाथे तु गोकर्णे तथा भीमेश्वराभिधे॥ १४॥

——————————————————————

प्रधानकर्मणि त्वनभिहिताधिकारविहिता द्वितीयैव।स्मर्यते हि—“प्रधानकर्मण्याख्येयेलादीनाहुर्द्विकर्मणाम्‌॥ अप्रधाने दुहादीनां ण्यन्तेकर्तुश्च

वेदारण्येविशिष्टे तु श्वेतारण्ये तुशोभने।
हस्तिकाननसंज्ञे च तथा जप्येश्वराभिधे॥ १५॥
कुम्भकोणे महास्थाने तथा मध्यार्जुनाभिधे।
वाराणस्यां तु केदारे तथा रामेश्वराभिधे॥ १६॥
हालास्येच हरे नित्यं दृष्ट्वामामादरेण च।
जपित्वा पूर्ववन्मन्त्रं मुच्यते भवबन्धनात्‌॥ १७॥
पुरा कश्चिन्महापापी द्विजः पुण्यविवर्जितः।
महामोहावृतः साक्षान्मातरं तु पतिव्रताम्‌॥ १८॥
गत्वा संवत्सरं हत्वा पितरं वृत्तसंयुतम्‌।
निर्घृणो निर्भयो नित्यंचचार वसुधातले॥ १९॥
चरतस्तस्य मूर्खस्य सदा तीव्रभयंकरः।
मुसलोद्यतपाणिस्तु विभाति ब्रह्मराक्षसः॥ २०॥
तं दृष्ट्वाभीतिसंयुक्तः पूर्वपुण्यबलेन तु।
हालास्याख्यं महास्थानमगमत्पुरुषोत्तम॥ २१॥
अदृष्टस्तत्क्षणादेव तेनैव ब्रह्मराक्षसः।
सोऽपि विस्मयमापन्नो विचार्यकमलेक्षण॥ २२॥
अहो माहात्म्यमस्यैव स्थानस्यातिभयंकरः।
अस्मिन्देशे न दृष्टस्तु मया स ब्रह्मराक्षसः॥ २२॥
अतो देहविनाशान्तं मयैवात्रैव वर्तनम्‌।
कार्यमित्यभिसंधिं च हरे कृत्वासुनिश्चलः॥ २४॥
अवतर्त महास्थाने सेवनेनैव तस्य तु।

——————————————————————

कर्मणः”॥ इति॥६—८॥ स्थाने पृष्टमिति। सतारं सप्रणवमित्यर्थः॥९—१७॥ महापातकदूषितस्यापि स्थानविशेषम-हिम्नामुक्तिसिद्धिरिती-

समस्तानि च पापानि विनष्टानि जनार्दन॥ २५॥
मत्प्रसादेनविप्रस्य कस्यचिद्‌वचनं हरे।
श्रुत्वा दृष्ट्वा तुमां नित्यं हालास्याख्येऽतिशोभने॥ २६॥
जपित्वा पूर्ववन्मन्त्रंषडक्षरसमाह्वयम्‌।
अयत्नेन विमुक्तोऽभूत्संसारजलधेस्तु सः॥ २७॥
अत्रदत्तं महादानं भवेत्स्थानेमम प्रिये।
हुतमिष्टं तपश्चाल्पमप्यत्र सुमहद्भवेत्‌॥ २८॥
अतो विशिष्टे मत्स्थाने चात्रैवान्यत्रवा नरः।
दृष्ट्वामामादरेणैव जपेन्मन्त्रं षडक्षरम्॥ २९॥
एवमाचरतस्तस्य प्रसादादेव मेहरे।
मुक्तिसिद्धिरयत्नेन भवत्येव न संशयः॥ ३०॥
इतोऽन्यत्सकलंविष्णो नराणां पापकर्मणाम्।
अशक्यं कर्तुमत्यर्थंतस्मादुक्तं समाचरेत्॥ ३१॥

सूत उवाच—

एवं शिवेनैवसमस्तदेहिनां विमुक्तिसिद्ध्यर्थ-
मयत्नतः पुरा। सुभाषितं कारुणिकेन तन्मया
प्रभाषितं वो मुनयः सुसाधनम्‌॥ ३२॥

इति श्रीसूतसंहितायां चतुर्थे यज्ञवैभवखण्डेमुक्त्युपाय-
विचारो नाम सप्तत्रिंशोऽध्यायः॥ ३७॥

——————————————————————

तिहासमुखेन दर्शयति—पुरा कश्चिदित्यादिना॥१८—३२॥

इति श्रीसूतसंहितातात्पर्यदीपिकायां चतुर्थेयज्ञवैभवखण्डेमुक्त्युपाय-
विचारोनाम सप्तत्रिंशोऽध्यायः॥ ३७॥

अथाष्टत्रिंशोऽध्यायः।

३८. मुक्तिसाधनविचारः।

सूत उवाच—

अथातः संप्रवक्ष्यामि सर्वसाधनमुत्तमम्‌।
शृणुतातिप्रियेणैवद्विजाःसारतरोत्तमम्‌॥१॥
पुरा सत्यवतीसूनुःसर्वविनज्ञानसागरः।
सर्ववेदोदधेः पारो गुरुर्मेकरुणानिधिः॥२॥
सर्वलोकोपकाराय साम्बं संसारभेषजम्‌।
ध्यायमानो महाभक्त्यातताप परमं तपः॥३॥
पुनः पुष्पादिभिर्देवं समाराध्य यथाबलम्‌।
षडक्षरेण मन्त्रेण तुष्टाव च महेश्वरम्‌ ॥४॥
परतत्त्वाय तत्त्वानां तत्त्वभूताय वस्तुतः।
स्वस्मादन्यविहीनाय नमस्तस्मैस्वयंभुवे ॥५॥

——————————————————————

व्याघ्रपुरादिशिवक्षेत्रानुष्ठितव्रतवच्छिवोपदिष्टंभुक्तिमुक्त्योरसाधारण वक्तुंप्रतिजानीते—अथात इति। सर्वसाधनमिति। ऐहिकामुष्मिकभोगात्मिकायाभुक्तेःपरापरमुक्त्योश्चायमसाधारण उपाय इत्यर्थः। सारतरोत्तममिति। सांख्यादिभिः श्रेयःसाधनतया प्रतिणदितोऽर्थः सारः।तदपेक्षया स्वतःप्रमाणत्वेन निर्दुष्टवेदवाक्यप्रतिपादितानि ज्ञानकर्माणि सारत-राणि सर्वेषूत्तममितिपुरुषोत्तमपदवत्सप्तमीसमासः षष्टीसमासस्तुन शक्यः “न निर्धारणे”इति तन्निषेधात्‌। न च “सन्महत्परमोत्तम” इति प्रथमासमासोऽपि।सारतरशब्दस्य पूज्यमानवचनत्वाभावात्‌॥१—४॥सच्चिदानन्दस्वप्रतिष्ठा-द्वितीयसायुज्यरूपाया मुक्तेः साधनस्य प्राधान्येन बुभुत्सितत्वात्तदनुगुणैःविशेषणैः परमेश्वरं स्तोतुमारभते—परत-त्त्वायेत्यादिना। षट्त्रिंशतत्त्वातीतत्वेन परतत्त्वात्परमार्थत्वाच्चसच्चिदानन्दैकरसं स्वप्रतिष्ठमद्वितीयं परशिवस्वरूपं परं तत्त्वम्।

चिच्छक्तिर्जडशक्तिश्चतद्भेदाश्च तथैवच।
यदेव तत्त्वतो नित्यं तस्मैसर्वात्मने नमः॥ ६॥

——————————————————————

तस्य परतत्त्वत्वमुपपादयति—तत्त्वानां तत्त्वभूतायेति। आप्रलयस्थायीनिशिवतत्त्वशक्तितत्त्वादीनि पृथिव्यन्तानि शुद्ध-मिश्राविशुद्धादिभेदेनावस्थितानिषट्त्रिंशत्तत्त्वानि। तदुक्तम्—“आप्रलयं यत्तिष्ठति सर्वेषां भोगदायि भूतानाम्‌। तत्तत्त्व-मिति प्रोक्तं न शरीरघटादितत्त्वमतः” इति॥ यथा रज्ज्वामारोपितस्य मायामयस्य स्रक्सपादेर्बाधोत्तरकालंतत्रैव लयाद-धिष्ठानभूतारज्जुरेव तत्त्वम्। एवमुक्तनां तत्त्वानामपि प्रागुक्तपरशिवस्वरूपे परिकल्पितत्वात्तेषां वास्तवं रूपंसच्चिदा-नन्दात्मकंसर्वाधिष्ठानंपरशिवस्वरूपमेवेत्यर्थः।स्वस्मादिति। यतस्तत्परशिवस्वरूपंतत्त्वानामपि तत्त्वमतः परशिवः स्वस्मादन्यविहीनः। ननु वियदादिभूतभौतिकप्रपञ्चःपरमेश्वररूपादन्यतयाऽनुभूयत एवेत्यत आह—वस्तुत इति। अनुभूयमानस्य सर्वस्य मायापरिकल्पितस्यावस्तुत्वात्परमार्थतोऽन्यस्य विरहादन्यविहीनत्वम्। नमस्कारस्य नन्तृनन्त-व्यसापेक्षत्वान्नन्तव्यात्परशिवस्वरूपादन्यो नन्ताऽवश्यमङ्गीकर्तव्यः।तथा चकथमन्यविहीनतेतितत्राऽह—स्वस्मादिति। ‘अनेन जीवेनाऽऽत्मनाऽनुप्रविश्यनामरूपे व्याकरणवाणि’ इति श्रुतेः जीवभावेनानुप्रविश्यपरशिव-स्वरूपस्यैवावस्थानान्नन्तुः स्वात्माऽपि न ततोऽतिरिक्त इत्यर्थ। स्वयंभुवइति। स्वयमेवभवति सत्तां लभत इति स्वयंभूः स्वात्मनैव लब्धसत्ताको न वम्त्वन्तरवदन्याधीनसत्ताकइत्यर्थः।‘नेह नानाऽस्ति किंचन’ ‘अथात आदेशोनेति नेति’अतोऽन्यदार्तम्‌” “नान्योऽतोऽस्ति द्रष्टा”“स्वयंभुब्रह्म परमं तपोयद्ब्रह्म स्वयंभुब्रह्मणे नमः”इत्यादिश्रुतिषु परशिवस्वरूपस्यान्यविहीनत्वंस्वयंभुत्वं च बहुशआम्नातम्‌॥५॥ एतदेवान्यविहीनत्वमुपपादयति—चिच्छक्तिरित्या-दिना। स्रष्टव्यजगदात्मकशक्यप्रतियोगिको मायापरिणामविशेषो जडशक्तिस्तदवच्छिन्ना परशिवस्वरूपभूता चिदेव चिच्छक्तिः। तद्भेदाइति। तयोःशक्त्योर्भेदा इच्छाज्ञानक्रियाद्याः। अखिलजगत्स्रष्टुः परमेश्वरस्योपकरणभूतंचिच्छ-क्त्यादिकंसर्वंतत्त्वतः परमार्थतो निरूपणे तदेव वस्तुभवति। अयमभिप्रायः। येयं परमेश्वरस्य जडशक्तिर्ये च तद्भेदास्तस्य सर्वस्य

ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः।
विराडाद्याश्च देवाश्च यन्मात्रंतं नुमः शिवम्‌॥ ७॥
महासत्त्वाश्च ये जीवा मध्यसत्त्वाश्चचेतनाः।
विहीनाश्चैव यन्मात्रं तं नमामि महौजसम्‌॥ ८॥
यस्य सत्ता जगत्सत्तारूपेणैवावभासते।

——————————————————————

मायामयत्वेन स्वरूपतोऽपि परतत्त्वेऽध्यासाद्यदिदं रजतं न तद्रजतं किंतुशुक्तिरिति तद्बाधायां सामानाधिकरण्यं यदिदं जडशक्त्यादिक नैतदपि तुपरतत्त्वमेवेति।अतएवपञ्चपादिकयांजडप्रपञ्चस्यस्वरूपतोऽप्यध्यस्तत्वेनमिथ्या-त्वंसत्यानृतेमिथुनीकृत्येतिभाष्यव्याख्यानावसरेऽभिहितम्। सत्यमनिदं चैतन्यमनृतंयुष्मदर्थस्तस्यस्वरूपोऽप्यध्य-स्तत्वादिति। चिच्छक्तेस्तुपरशिवस्वरूपत्वेन यथार्थत्वात्‌। द्वौचन्द्रमसावित्यादौ भेदएव कवलंमायामयत्वेनाध्यस्तः।अतस्तन्निवृत्तये संसर्गसामानाधिकरण्यम्‌। येयंपरशिवस्वरूपभूता चिद्या च चिच्छक्तिर्न ते भिन्ने अपि त्वेकैवचिदिति।एवमुत्तरत्रापिसामानाधिकरण्यविशेषो द्रष्टव्यः॥६॥ ब्रह्मेति। सृष्टिस्थितितिरोधानानुग्रहनिग्रहव्यापाराः सद्योजा-तादिपञ्चब्रह्ममूर्तयःब्रह्माद्या विराडाद्याइत्याद्यपदेन स्वराट्साम्राजोः संग्रहः। ते चशिवमाहात्म्यखण्डेपूर्वमेवोक्ताः-“द्विधा कृत्य मुनिश्रेष्ठा अर्धेन पुरषोऽभवत्‌। अर्धेन नारी तस्यां तु विराजमसृजत्पुनः” इति॥ आदिशब्देनोक्तव्यतिरिक्ता इन्द्राद्या इत्यर्थः।यन्मात्रमिति। रज्ज्वा इदमंशे स्रक्सर्पादिवत्सर्वाधिष्ठानभूते सच्चिदानन्दात्मके परशिवस्वरूपेतदा-श्रितमायावशेन ब्रह्मादीना परिकल्पितत्त्वाद्वास्तवमेतेषामधिष्ठानादनन्यत्वं तन्मात्रामवधार्यते॥७॥ महासत्त्वाइति। गजाद्यामहासत्त्वाः।मध्यमसत्त्वामनुष्याद्याः। विहीनाः क्रिमिकीटादयः। एवंप्रतीयमानस्यब्रह्मादिस्तम्बान्तस्यमाया-मयप्रपञ्चाधिष्ठानयाथात्म्यज्ञानेनापोह्यमानस्य बाधावधित्वेन परशिवस्वरूपं ताटस्थ्येन लक्षितम्‌॥८॥ अथ ‘सत्यं ज्ञानमनन्तं ब्रह्म’“विज्ञानमानन्दं ब्रह्म” इत्यादिश्रुतिप्रसिद्धं तत्स्वरूपं लक्षयन्नग्रतः पूर्वोक्तमधिष्ठानमात्रत्वं समर्थयते—यस्य सत्तेत्यादिना *[ यस्यप्रागुदीरितस्य

यंविना न जगत्तस्मैसदा साक्षात्सते नमः॥ ९॥
यस्य भानं जगद्भानस्वरूपेण विभासते।
यमृते न जगद्भानं तस्मैभानात्मने नमः॥ १०॥
यदानन्दोऽखिलानन्दो विभाति स्वयमेव तु।
तं नुमः परमानन्दं परापरविवर्जितम्॥ ११॥
यद्देशकालदिग्भागैर्नभिन्नं सर्वदाऽद्वयम्‌।
यदेव विश्वंतद्ब्रह्मयथार्थं प्रणमाम्यहम्‌॥ १२॥

——————————————————————

सर्वजगदधिष्ठानस्यपरशिवस्य स्वरूपभूतं सत्त्वमेव तस्मिन्माययाऽऽरोपितेजगति स्रक्सर्पादिषुरज्ज्वा इदन्तानुगति-वत्‌ जगत्सदित्यारोपितंतत्संबन्धमनुगतमवभासते। नन्वेतावताऽऽरोपितस्याधिष्ठानमात्रावशेषत्वंकुत इत्यतआह—यं विनेति।यंसद्रूपमात्मानं विना जगदेव न भवति। अधिष्ठानसत्त्वस्फुरणमन्तरेणारोपितसत्त्वस्फुरणानुपपत्तेः। तथा च जगत्सत्त्वमारोपितं। अधिष्ठानभूतस्यात्मनस्तुपारमार्थिकमित्यन्वयव्यतिरेकाभ्यामवसीयते। एतदभिप्रेत्याह—साक्षात्सत इति॥९॥ यस्यभानमिति। यत्स्वरूपभूतं स्फुरणमित्यर्थः। अन्यत्समानं। श्रुतिरप्यधिष्ठानसत्त्वस्फुरणयोःपरस्परव्यावृ-त्तेष्वारोपितेष्वनुवृत्तिंदर्शयति। आरोपितस्य पृथक्त्वस्फुरणनिरासेन अधिष्ठानसूत्रतामाचष्टे।“सद्धीदंसर्वंसत्सदिति”।“चिद्धीदं सर्वं काशतेकाशते च”इति॥१०॥ यदानन्द इति। यस्य परमेश्वरस्य स्वरूपभूतआनन्द एव शुभकर्मावस्थि-तसत्त्वपरिणामरूपतत्तद्बुद्धिपरिच्छिन्नस्सन्प्रियमोदप्रमोदादिभेदेनसर्वजनैरनुभूयते। श्रूयते हि—एतस्यैवानन्दस्यान्या-निभूतानि मात्रामुपजीवन्ति’इति। परमानन्दमिति। तैत्तिरीयके सार्वभौमं प्रत्युत्तरोत्तरशतगुणितत्वेन“स एकोमानुष आनन्द”इत्यादिना श्रुतस्य तरतमभावेनावस्थितस्यसकलानन्दस्यानवच्छिन्नात्मकेपरशिवस्वरूपेऽन्तर्भावात्तस्य परमानन्दत्वं श्रूयते। “एषोऽस्य परम अनन्द ” इति। ननु परमत्वमपरमत्वसापेक्षं तत्त्सत्वेच कथमद्वयतेति। तत्राह—परापरेति। परापरभावस्य मायापरिकल्पितत्वेनावास्तव्यत्वात्।परमार्थतःतद्रहितं। तथा च

अनन्तमद्वयंपूर्णमेकमित्यामनन्ति यत्‌।
आगमा अखिला नित्यं वन्दे तद्ब्रह्मसंज्ञितम्‌॥ १३॥
यत्स्वरूपमविज्ञाय सांख्ययोगौ विनिर्गतौ।
तंतदज्ञानचित्रस्य भित्तिभूतं नुमः शिवम्॥ १४॥

——————————————————————

श्रूयते “यस्मात्परन्नापरमस्ति किञ्चिद्यस्मान्नाणीयोन ज्यायोऽस्ति कश्चित्‌”इति॥११॥ एवमखण्डैकरसस्य परशिवस्व-रूपस्प सर्वदा बाधवैधुर्याभिप्रायेण सद्रूपत्वं प्रकाशान्तरनैरपेक्ष्येण स्वपरव्यापारहेतुत्वेनस्वप्रकाशज्ञानात्मकत्वं परप्रे-मास्पदतया निरतिशयानन्दरूपत्वं चस्वस्मिन्परिकल्पितोपाधिवशात्प्रतिपाद्यश्रुत्युक्तमानन्त्यमपि प्रतिपादयति— यद्देशकालेत्यादिना। देशकालादिकृतभेदनिरासेन तद्व्यापित्वाभिधानात् स्वगतभिदनिरासः। अद्वयमितिसजातीयभेद-निरासः। अयमभिप्रायः। यथैकस्यैवाकाशस्य घाटाद्युपाधिसंबन्धवशाद्घटाकाशोग्रहाकाशइत्यादिभेदव्यपदेशः एव-मेकस्यैवात्मनः मायापरिकल्पितनानाविधोपाधिसंबन्धेनैवसंसारित्वादिविभ्रमोन वास्तवो भेदः संसारदशायामपि विद्यत इति तदभिप्रेत्याह—सर्वदेति। यदेव विश्वमिति विजातीयनिरासः वियदादिभूतभौतिकात्मकं जडं विश्वं जगत्‌ यदेव पूर्ववद्बाधायांसामानाधिकरण्यं। विश्वस्यपरमार्थतः परशिवात्मकत्वमाथर्वणिकैराम्नायते।‘पुरुष एवेदं विश्वंकर्म ततोब्रह्मपरामृतम्‌’इति। ‘पुरुष एवेदं सर्वं यद्भूतं यच्चभव्यं। यथार्थमिति। जगत्आरोप्यस्याधिष्ठानत्वेन तद्बाधस्था-वधित्वेनचसर्वदावस्थानात्परशिवस्ययाथात्म्यं॥१२॥ उक्तेऽर्थे श्रुतिं संवादवति।अनन्तमिति। श्रुतिः। “सत्यं ज्ञानमनन्तं ब्रह्म” इत्यनन्तशब्देन प्रतिपादयति।कैवल्योपनिषत्पुनः “मय्येव सकलं जातं मयि सर्वं प्रतिष्ठितं। मयि सर्वं लयं यातितद्ब्रह्माद्वयमस्म्यहं” इत्यद्वयशब्देन। छान्दोग्यश्रुतिस्तु’एकमेवाद्वितीयंब्रह्मेति’अद्वितीयैकशब्दाभ्याम्‌। वाजसनेयकन्तु—“पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते” इति पूर्णशब्देनेति परशिवस्य सर्वात्मकत्वसर्वशाखासंमत-मित्यर्थः॥१३॥ ननु भेदप्रपञ्चस्य सांख्यादिभिः स्वस्वशास्त्रेप्रामणिकत्वप्रतिपादनात्परशिवस्वरूपस्य कथमद्वि-तीयत्वमित्याशं-

यत्स्वरूपमविज्ञाय शब्दशास्त्रंसमुद्बभौ।
तं तदज्ञानचित्रस्य भित्तिभूतं नुमः शिवम्‌॥ १५॥
यत्स्वरूपमविज्ञाय कारणं परमाणवः।
कल्पिता जगतो विप्रास्तं नुमः परमेश्वरम्‌॥ १६॥
यत्स्वरूपमविज्ञाय क्रियां सर्वफप्रदाम्‌।
कल्पयन्ति विना देवं तं वन्दे सकलप्रदम्॥ १७॥
यत्स्वरूपमविज्ञाय देहमात्मेति मन्वते।
तर्काभासैस्तमीशानंवन्दे देहविलक्षणम्‌॥ १८॥
यत्स्वरूपमविज्ञायदेहजानीन्द्रियाणि तु।
आत्मेति मन्वते वन्दे तमिन्द्रियविलक्षणम्॥ १९॥
यत्स्वरूपमविज्ञाय प्राणमात्मेति मन्वते।
वन्दे तं प्राणवेत्तारं प्राणं प्राणस्य सर्वदा॥ २०॥
यत्स्वरूपमविज्ञाय मनः संकल्पलक्षणम्‌।
आत्मेतिमन्वते भक्त्यावन्दे तं मनसः परम्‌॥ २१॥

——————————————————————

क्य सांख्यादिव्यवहारः सर्वोप्यज्ञानमूलत्वाद्भ्रान्त एवेत्याह—यत्स्वरूपमविज्ञायेत्यादिना।यथा शुक्तिरजतादिविभ्र-मस्य नीलपृष्ठत्रिकोणत्वादिविशेषज्ञानंकारणं तद्वदेव सच्चिदानन्दात्मकस्य यस्य परमेश्वरस्य निरस्तसमस्तोपाधिकं स्वप्रतिष्ठमद्वितीयं विशेषरूपमजानानाः सांख्यादयः भ्रान्तिवशेन शुक्त्यादौरजतादिवत्‌ तत्स्वरूपे सच्चिदानन्दात्मके प्रकृतिप्राकृतात्मकं जगत्कल्पयन्तो भ्रान्ताइत्यर्थः। अत एव बादरायणेनापि एतौ पक्षौनिरस्तौ “रचनानुपपत्ते-श्चनानुमानम्‌” “एतेन योगः प्रत्युक्तः”इति। विनिर्गतौप्रवर्तितावित्यर्थः॥१४॥ एवमुत्तरत्रापि अज्ञानमूलता योजनीया॥१५॥ “कारणं परमाणव” इतिकाणादवाद्याद्यभिमतःपरमणुकारणवादोऽपि अज्ञानमूलत्वादुपेक्ष्यइत्यर्थः॥१६॥ क्रिया-स्सर्वफलप्रदा इति चोदनां कलयन्‌ तदधिष्ठानभूतं परशिवस्वरूपं

यत्स्वरूपमविज्ञाय बुद्धिमात्मेति मन्वते।
तं वन्दे बुद्धिबोद्धारंबोधरूपमविक्रियम्‌॥ २२॥
यत्स्वरूपमविज्ञाय सर्वप्रत्ययकारणम्‌।
अन्तःकरणमात्मेति मन्वते तं नुमः शिवम्‌॥ २३॥
यास्मिञ्जाग्रदवस्थैषा भातीव भवतीवच।
तं तद्भ्रान्तेरधिष्ठानं वन्दे साक्षिणमीश्वरम्‌॥ २४॥
यस्मिन्स्वप्नप्रपञ्चोऽयं भातीव भवतीवच।
तंतद्भ्रान्तेरधिष्ठानं वन्दे साक्षिणमीश्वरम्‌॥ २५॥
यस्मिन्सुषुप्त्यवस्थेयं भातीव भवतीव च।
तंतद्भ्रान्तेरधिष्ठानं वन्दे साक्षिणमीश्वरम्‌॥ २६॥
यस्मिन्क्ऌप्तं तुरीयत्वं त्रिधामपेक्षयैव तु।
तं तुरीयत्वनिर्मुक्तं वन्दे चिद्धनमीश्वरम्॥ २७॥

——————————————————————

प्रणमति॥ १७—२३॥ यस्मिन्‌ जाग्रदिति। भातीव भवतीव चेति–यस्याधिष्ठानभृतस्यस्वरूपप्रकाशेन स्वयं जडात्मि-कापि जाग्रदवस्था भातीव प्रकाशत इवतथा तत्स्वरूपसत्तया भवतीवसत्तां लभत इव नत्वात्मवज्जाग्रदर्थ-स्यभानसत्वेस्वाभाविक इति द्योतयितुमिव शब्दः। साक्षिणमिति। जाग्रदवस्थालक्षणस्य साक्ष्यस्यसाक्षिण द्रष्टारं प्रत्यक्चैतन्यरूपेणावस्थितमित्यर्थः॥२४॥ एवं यस्मिन्‌ स्वप्न इत्यादावपियोज्यं॥२५॥ २६॥ त्रिधामापेक्षयेति।धामश-ब्दः स्थानवाचीजाग्रदादीनि त्रीणि स्थानान्यपेक्ष्य। अयमर्थः। चक्षुरादीन्द्रियैरर्थोपलब्धिजाग्रदवस्थेति। इन्द्रियेषूपर-तेषुजाग्रद्वासनावासितेन केवलेनान्तःकरणेनानुभूतसजातीयस्यवासनामयप्रपञ्चस्यउपलम्भःस्वप्नः।तस्मिंश्च उपरते द्वैतप्रपञ्चस्य सर्वस्य विलापात्तनूलभूतंप्रत्यगात्मन्याश्रयभूतंभावरूपज्ञानमेव केवलनिर्विकल्पकेन तत्स्वरूपचैतन्य-प्रकाशेन भास्यतेसासुषुप्तिः। तदप्यज्ञानंसमाधौन प्रकाशते निरवद्यस्यसच्चिदानन्दात्मकस्य

यस्मिंस्तुरीयातीतत्वमध्यस्तं तदभावतः।
तं वन्दे केवलं शुद्धं निर्विशेषं महेश्वरम्‌॥ २८॥
एकत्वंच तथा द्वित्वंत्रित्वंयस्मिन्प्रकल्पितम्‌।
बहुत्वंच तमीशानमसंख्येयं नुमः शिवम्‌॥ २९॥
अभिन्नं च तथा भिन्नं भिन्नाभिन्नं वदन्ति यम्‌।

——————————————————————

परशिवस्वरूपस्यैव तत्र स्फुराणात्सा तुरीयावस्था तत्र जाग्रदाद्यवस्थात्रयसाक्षिभेदेन एकस्मिन्नेवात्मनि यथा-संख्यंविश्वतैजसप्राज्ञरूपेण साक्षित्वमपित्रिधा परिकल्पिततदपेक्षया तुरीयावस्था सा साक्षित्वोपाधिना तुरीयत्वमपि तस्मिन्परिकल्पितमित्यर्थः। तथाच माण्डूक्योपनिषद्याम्नायते।‘जागरितस्थानोबहिःप्रज्ञः स्वप्नस्थानोऽन्तःप्रज्ञः यत्रसुप्तो न कंचन कामं कामयते नकञ्चनस्वप्नंपश्यति तत्सुषुप्तं। नान्तःप्रज्ञं न बहिःप्रज्ञंनोभयत प्रज्ञ न प्रज्ञानघनं न प्रज्ञं नाप्रज्ञं” इत्यादि। तद्व्याचक्षाणैराचार्यैरप्युक्तं—“बहिः प्रज्ञोविभुर्विश्च अन्तः प्रज्ञस्तु तैजसः। घनप्रज्ञस्तथा प्राज्ञः एक एव त्रिधा स्मृतः॥ निवृत्तेःसर्वदुःखानामीशानः प्रभुरव्ययः। अद्वैतस्सर्वभावानां देवस्तुर्योविभुः स्मृतः”इति। तुरीयत्ववि-निर्मुक्त हति। तुरीयत्वनिरूप्यायास्तुरीयावस्थायाअपि जाग्रदादिवदवस्तुत्वात्॥२७॥ तदभावत इति। तस्याद्वैतस्य तुरीयत्वस्यैवाभावात्तुरीयातीतत्वमपि तस्मिन्‌ परमेश्वरे कल्पितं त्रिधामस्थानरहितंअवस्थास्पदमित्यर्थः। केवलमिति। भेदरहितमित्यर्थः। अतएव“साक्षीचेता केवलो निर्गुणश्च”इति ‘अस्नाविरं शुद्धमपापविद्धम्‌’इति च श्रुतिः।निर्विशे-षमिति। शब्दस्पर्शादिविशेषधर्मरहित अखण्डैकरसमिति यावत्‌। “अशब्दमस्पर्शमरूपमव्ययम्’इति च श्रुतेः॥२८॥ ननु “सदेव सोम्येदमग्र आसीत्‌’‘एकमेवाद्वितीयं ब्रह्म” इतिपरशिवस्यैकत्वलक्षणधर्मसद्भावश्रुतेः निर्विशेषत्वासिद्धि-रित्यत आह। एकत्वमिति। संख्यापरिच्छेदरहिते परशिवस्वरूपे एकत्वादिसंख्यापि संख्येयप्रपंचवत्‌ मायापरिकल्पि-तैव भेदाभाववत्त्वोपाधिना परिकल्पितैकत्वपरैवसा श्रुतिरित्यर्थः॥ २९॥ अभिन्नंचेति। साक्ष्याज्जडप्रपंचात्साक्षिभूतः परमेश्वरः परमार्थोपाधावभिन्न इति वेदान्तिनः। भिन्न इति

तं सदा केवलंवन्दे केषांचिल्लभ्यमीश्वरम्‌॥ ३०॥
यस्य विज्ञानसंपन्ना ब्रह्मविष्णुमहेश्वराः।
यथार्थं ब्रह्म जानन्ति तं नुमः परमाद्वयम्‌॥ ३१॥
यस्य विज्ञानसंपन्नाः सदेश्वरसदाशिवौ।
यथार्थं ब्रह्म जानन्ति नुमः परमाद्वयम्‌॥ ३२॥
यस्य विज्ञानसंपन्नाः सर्वदेवानशङ्किताः।
यथार्थं ब्रह्म जानन्ति तं नुमः परमाद्वयम्‌॥ ३३॥
यस्य विज्ञानसंपन्ना विभिन्नाज्जीवचेतनान्‌।
यथार्थं ब्रह्म जानन्ति तं नुमः परमाद्वयम्‌॥ ३४॥
यस्य विज्ञानसंपन्नाः सर्ववेदानशङ्किताः।
यथार्थं ब्रह्म जानन्ति तं नुमः परमाद्वयम्‌॥ ३५॥
यस्य विज्ञानसंपन्नाः स्मृतीः सर्वाअशङ्किताः।
यथार्थं ब्रह्म जानन्ति तं नुमः परमाद्वयम्‌॥ ३६॥

————————————————————

वैशेषिकादयः। अन्ये तु घटशरावाद्यात्मना विभक्तेषु कार्येषु मृद्रूपस्यानुगतेस्तदात्मना अभेदः। घटादिव्यावृत्ताकारेण तु भेदः। तद्वदेव परमेश्वरस्यापि कार्यप्रपंचात्मना भेदः कारणात्मना अभेद इति मन्यन्ते। उक्तं हि—“कार्यभेदेन नानात्वमभेदः कारणात्मना। हेमात्मना यथाऽभेदः कुण्डलाद्यात्मनाभिदा”इति। एवं भेदाभेदादिकल्पनास्पदं परमेश्वरं प्रणौमीत्यर्थः। केषांचिल्लभ्यामिति। नित्यनैमित्तिकलक्षणेन वर्णाश्रमधर्मेण परमेश्वरं समाराध्यतदनुग्रहादवाप्तज्ञानैः शान्तिदान्त्यादिसंपन्नैःसुकृतिभिःपरमेश्वरस्वरूपं ज्ञायतेअतो न सर्वेषां सुलभमित्यर्थः। श्रूयते हि—“श्रवणयापि बहुभि-र्यो नलभ्यःश्रृण्वन्तोऽपि बहवो यंन विद्युः। आश्चर्यो वक्ता कुशलोऽस्य लब्धाश्चर्योज्ञाता कुशलानुशिष्टः”इति॥३०॥एवं ब्रह्मादिस्तंबपर्यन्तस्य सांख्यादिसकलतीर्थकरव्यवहारस्य चाज्ञानमूलत्वाभिधानेन परशिवस्वरूपेऽध्यस्तत्वप्रति-पादना-

यस्य विज्ञानसंपन्नाः पुराणानि च भारतम्‌।
यथार्थं ब्रह्म जानन्ति तं नुमः परमाद्वयम्‌॥ ३७॥
यस्य विज्ञानसंपन्नाः सर्वाञ्शैवागमानपि।
यथार्थं ब्रह्म जानन्ति तं नुमः परमाद्वयम्‌॥ ३८॥
यस्य विज्ञानसंपन्ना विविधान्वैष्णवागमान्‌।
यथार्थं ब्रह्म जानन्ति तं नुमः परमाद्वयम्‌॥ ३९॥
यस्य विज्ञानसंपन्ना ब्राह्यानेतांस्तथाऽऽगमान्‌।
यथार्थं ब्रह्म जानन्ति तं नुमः परमाद्वयम्‌॥ ४०॥
यस्य विज्ञानसंपन्ना बुद्धार्हतागमानिमान्‌।
यथार्थं ब्रह्म जानन्ति तं नुमः परमाद्वयम्‌॥ ४१॥
यस्य विज्ञानसंपन्नाः शब्दान्सत्येतरादिकान्‌।
यथार्थं ब्रह्म जानन्ति तं नुमः परमाद्वयम्‌॥ ४२॥
यस्य विज्ञानसंपन्ना विद्याः सर्वाअशङ्किताः।
यथार्थंब्रह्म जानन्ति तं नुमः परमाद्वयम्‌॥ ४३॥
यस्य विज्ञानसंपन्नास्तर्कानन्योन्यबाधकान्‌।
यथार्थं ब्रह्म जानन्ति तं नुमः परमाद्वयम्‌॥ ४४॥
यस्य विज्ञानसंपन्ना मानमध्यक्षपूर्वकम्‌।
यथार्थं ब्रह्म जानन्ति तं नुमः परमाद्वयम्‌॥ ४५॥
यस्य विज्ञानसंपन्ना ब्राह्मणान्क्षत्त्रियान्विशः।
यथार्थं ब्रह्म जानन्ति तं नुमः परमाद्वयम्‌॥ ४६॥
यस्य विज्ञानसंपन्नाः शूद्रानपि च संकरान्‌।
यथार्थं ब्रह्म जानन्ति तं नुमः परमाद्वयम्‌॥ ४७॥

यस्य विज्ञानसंपन्ना आश्रमानखिलानपि।
यथार्थं ब्रह्म जानन्ति तं नुमः परमाद्वयम्‌॥ ४८॥
यस्य विज्ञानसंपन्ना धर्माधर्मानशङ्किताः।
यथार्थं ब्रह्म जानन्ति तं नुमःपरमाद्वयम्‌॥ ४९॥
यस्य विज्ञासंपन्ना वर्ज्यावर्ज्यानशङ्किताः।
यथार्थं ब्रह्म जानन्ति तं नुमःपरमाद्वयम्‌॥ ५०॥
यस्य विज्ञानसंपन्ना विद्याविद्या अशङ्किताः।
यथार्थं ब्रह्मजानन्ति तं नुमःपरमाद्वयम्‌॥ ५१॥
यस्य विज्ञानसंपन्ना देहादीनखिलानिमान्।
यथार्थं ब्रह्म जानन्ति तं नुमः परमाद्वयम्‌॥ ५२॥
यस्य विज्ञानसपन्ना जाग्रदादित्रयं सदा।
यथार्थं ब्रह्म जानन्ति तं नुमः परमाद्वयम्‌॥ ५३॥
यस्य विज्ञानसपन्नास्तुरीयत्वादिकल्पनाम्‌।
यथार्थं ब्रह्म जानन्ति तं नुमः परमाद्वयम्‌॥ ५४॥
यस्य विज्ञानसंपन्ना भूमिं तद्भेदमास्तिकाः।
यथार्थं ब्रह्म जानन्ति तं नुमः परमाद्वयम्‌॥ ५५॥
यस्य विज्ञानसंपन्नाजलंतद्भेदमास्तिकाः।
यथार्थं ब्रह्म जानन्ति तं नुमःपरमाद्वयम्‌ ॥ ५६॥
यस्य विज्ञानसंपन्ना अग्निंतद्भेदमास्तिकाः।
यथार्थं ब्रह्म जानन्ति तं नुमः परमाद्वयम्‌ ॥ ५७॥
यस्य विज्ञानसंपन्ना वायुं तद्भेदमास्तिकाः।
यथार्थं ब्रह्म जानन्ति तं नुमः परमाद्वयम्‌ ॥ ५८॥

यस्य विज्ञानसंपन्ना आकाशं तत्र कल्पितम्‌।
यथार्थं ब्रह्म जानन्ति तं नुमः परमाद्वयम्‌॥ ५९॥
यस्य विज्ञानसंपन्नाः शब्दस्पर्शादिकानिमान्।
यथार्थं ब्रह्म जानन्ति तं नुमः परमाद्वयम्‌॥ ६०।
यस्य विज्ञानसंपन्ना महदाद्यखिलंजगत्‌।
यथार्थं ब्रह्म जानन्ति तं नुमः परमाद्वयम्‌॥ ६१॥
यस्य विज्ञानसंपन्नाः सर्वमेतदशङ्किताः।
यथार्थं ब्रह्म जानन्ति तं नुमः परमाद्वयम्॥ ६२॥
यस्य विज्ञानसंपन्ना महामायामशङ्किताः।
यथार्थं ब्रह्म जानन्ति तं नुमः परमाद्वयम्‌॥ ६३॥
यस्य विज्ञानसंपन्नाश्चिच्छक्तिंविमलामिमाम्‌।
यथार्थं ब्रह्म जानन्ति तं नुमः परमाद्वयम्‌॥ ६४॥
यस्य विज्ञानसंपन्नाः प्रतीतमखिलंजगत्।
यथार्थं ब्रह्म जानन्ति तं नुमः परमाद्वयम्‌॥ ६५॥
यस्य विज्ञानसंपन्नाः फलावाप्त्यैकदाचन।
न किंचिदपि कुर्वन्ति तं नुमः परमाद्वयम्‌॥ ६६॥

यस्य विज्ञानसंपन्नाः प्रत्यग्ज्योतिषि संस्थिताः।

————————————————————

न्मिथ्यात्वमुक्तं।अधिष्ठानपरशिवस्वरूपयाथात्म्यज्ञाननिवर्त्यत्वादपितन्मिथ्यात्वंप्रतिपादयाति—यस्य विज्ञानेत्यादिना। सर्ववेदानशंकिता इति। त्रिषष्टितमश्लोकपर्यन्तं स्पष्टं॥३१—६३॥ महामायामिति। शुद्धसत्त्वप्रधानास्वाश्रयव्यामोहकरी सकलजडतत्त्वव्यापिनीपारमेश्वरी शक्तिःमहामाया॥६४॥चिच्छक्तिमिति। उक्तार्थमेतत्‌॥६५॥६६॥ फलावाप्त्येति। प्रत्यगात्मनोनिरतिशयानन्दपरशिवस्वरूपसाक्षात्कारात्तल्लेशभूतस्वर्गादिसुखलाभाय किम-

तमेव प्रत्यगात्मानं वन्देऽहंतादिवार्जितम्‌॥६७॥
इदंरूपमहंरूपं यस्य भाति तमीश्वरम्‌।
वन्देऽलक्षणमद्वंद्वमनिर्देश्यंस्वयंप्रभम्‌॥६८॥
स्तुतिमितिनिवहस्य नैव गोचरं भवभयजलधेः
सदैव तारकम्‌। अहमहमिति सततोदितप्रभं
निखिलजगद्रहितं नमामि शश्वत्‌॥६९॥

——————————————————————

पि न कुर्वन्ति आप्तकामत्वात्‌। श्रूयते हि—“पर्याप्तकामस्य कृतात्मनस्त्विहैवसर्वे प्रविलीयन्ति कामाः” इति॥६७॥ प्रत्यग्ज्योतिषीति। सर्वप्रत्यग्रूपेणावस्थिते स्वप्रकाशचिदात्मके पराशिवस्वरूपे सम्यक्‌ स्थितास्तन्मयत्वेनतदेकनिष्ठा इत्यर्थः। श्रूयते हि—“अत्रायं पुरुषः स्वयंजोतिरुपसंपद्यस्वेनरूपे-णाभिनिष्पद्यत”इति। अस्य च ज्योतिश्शब्दस्य ब्रह्मपरत्वं भगवान्‌व्यासोऽपि सूत्रयामास—“ज्योति-र्दर्शनात्‌”इति। प्रत्यगात्मानामिति।परशिवस्य प्रत्यक्त्वप्रतिपादनात्तस्यचाहंप्रत्ययत्रिषयत्वात्‌ अहंकार-वैशिष्ट्यमाशंक्य निरस्यति—अहंतावर्जितमिति। एतदुपपादयति। अन्तःकरणपरिणामस्य प्रत्यक्त्वेन भासमानस्प अहंकारादेः स्वतो जडत्वेन प्रकाशासम्भवात्साक्षिचैतन्यभास्यत्वेनपरमार्थवत्परिक-ल्पितत्वमेष्टव्यं। अत एव “अहं ब्रह्मास्मि’इत्यादौचाहंकारवैशिष्ट्यत्यागेन तदुपलक्षितस्य चिन्मात्रस्य लक्षणया स्वीकारः। तदेवाभिप्रेत्याथर्वशिरस्यप्याम्नातम्‌ ‘ब्रह्माहंप्राञ्चः प्रत्यंचोऽहं दक्षिणाञ्चउदञ्चोऽ-हम्इत्यादि॥६८॥ अलक्षणमिति। सजातीयविजातीयव्यावर्तको धर्मः लक्षणं तद्रहितं“अस्थूलमनण्व-ह्रस्वं”इत्यादिसर्वधर्मनिषेधश्रुतेः। एतदेवोपपादयति—अद्वंद्वमिति। सजातीयं विजातीयं वात्रान्यत्‌द्वि-तीयंवस्तु यद्व्यावृत्तयेलक्षणापेक्षेत्यर्थः। अनिर्देश्यमिति। निर्देशोऽभिलापः तदयोग्यं वाङ्मनसयोरगोचर-मिति यावत्‌। श्रूयतेहि—“तदेतदिति मन्यन्तेऽनिर्देश्यं परमं सुखम्‌” “यतो वाचोनिवर्तन्ते” इत्यादि।नन्वेवं लक्षणप्रमाणविषयत्वाभावे शशविषाणायमानमेव तत्स्वरूपमित्याशंक्यनिरस्यति—स्वयंप्रभ-मिति॥ ६९॥ यद्यपि “यस्यविज्ञानसंपन्नाःप्रती-

सूत उवाच—

एवं व्यासेन सर्वज्ञः साम्बः सर्वफलप्रदः।
अभिष्टुतोमहादेवः प्रत्यक्षमभवन्मुने॥ ७०॥
तं दृष्ट्वादेवदेवेशं देव्या सहितमव्ययम्‌।
प्रणम्य प्रार्थयामास सर्वसाधनवेदनम्‌॥ ७१॥
देवदेवोऽपि सर्वज्ञः प्रसन्नः सर्वसाधनम्‌।
प्राह गम्भीरया वाचा मुनये मुनिसत्तमाः॥ ७२॥

ईश्वर उवाच—

वक्ष्ये विप्र समासेन सर्वसाधनमुत्तमम्‌।
शृणुष्व श्रद्धया सार्धं मया नोक्तमितः पुरा॥ ७३॥
अपेक्षितार्थःसर्वेषां भुक्तिर्मुक्तिश्चसुव्रताः।
मुक्तिर्नानाविधा प्रोक्ता मया वेदानुसारतः॥ ७४॥
तत्र सायुज्यरूपाया मुक्तेःसाक्षात्तुसाधनम्‌।
सम्यग्ज्ञानं न कर्मोक्तं न तयोश्च समुच्चयः॥ ७५॥

————————————————————

तमखिलं जगत्‌” इत्यनेनैव पर्यायेण नामरूपात्मकस्य ब्रह्मादिस्थावरान्तस्यसर्वजगतो मिथ्यात्वंसेत्स्य-ति। तथापि मनसश्चंचलत्वात्‌ तद्विक्षेपनिरासेन परतत्त्वानुसंधानार्थं बहूनां पर्यायाणामुपन्यासः। यथा शुक्तिरजतादिविभ्रमेषुआरोपितरजतादेरधिष्ठानशुक्तिकायाथात्म्यज्ञानतो बाधोत्तरकालं वस्तुभूतशु-क्त्यादिकमेव यथार्थसिद्धं स्वरूपं एवमविद्यातत्कार्यनामरूपप्रपञ्चस्याधिष्ठानपरशिवयाथात्म्यज्ञानेन विलयात्परमार्थतः परशिवस्वरूपात्पृथक्स्वरूपंनास्तीतिप्रकरणाभिप्रायः। स्तुतिमितिनिवहस्येति। स्तुतिः स्तोत्रं मितिः प्रमाणंप्रत्यक्षादिकं तत्संघस्येत्यर्थः। देवतिर्यङ्मनुष्यादिषु तत्तदहंकारसाक्षि-तयासर्वदा आपरोक्ष्येण भासमानमित्यर्थः॥७०—७३॥ नानाविधेति।सालोक्यसामीप्यसारूप्य-सायुज्यभेदेन। वेदानुसारत इति। “ब्रह्मणस्सायुज्यं

नित्यसिद्धाऽथवा मुक्तिः साध्यरूपाऽद्वयी गतिः।
नित्यसिद्धा तु सर्वेषामात्मरूपाऽथवाऽपरा॥ ७६॥
आत्मरूपैव चेन्मुक्तिर्नित्यप्राप्ता हि साऽत्मनः।
नित्यप्राप्तस्य चाप्राप्तिर्विभ्रमः खलु देहिनाम्‌॥ ७७॥
विभ्रमस्य निवृत्त्या सा प्राप्तेति व्यपदिश्यते।

——————————————————————

सलोकतामाप्नोति” इत्यादिवेदवाक्यानुसारेणेत्यर्थः। स्वतन्त्रोऽपिपरमेश्वरोऽतीतानागतवर्तमानकालेषु स्थावरजङ्गमात्मकस्य प्रपंचस्य समानरूपता यथास्यात्‌ तथा व्यवस्थामात्रसाक्षी चिदिति निश्वसित-वत्स्वस्मान्निर्गतवेदराशीननुसृत्यैवसृष्ट्यादौ प्रवर्तते। “एत इति वै प्रजापतिर्वैदेवानसृजतासृग्रमि-तिमनुष्यानिन्दव इति पितॄनित्यादि। ‘वेदशब्देभ्य एवादौ निर्ममे स महेशवरः’इत्यादिश्रुतिस्मृतिभ्याम्॥७४॥ सम्यग्ज्ञानमिति। संशथविपर्यासरहितनिष्प्रपंचब्रह्मात्मत्वसाक्षात्काररूपमित्यर्थः।‘यस्यैवैते चत्वा-रिंशत्संस्काराः ब्रह्मणःसायुज्यंसालोक्यं स गच्छति’। ‘कर्मणैव हि संसिद्धिमास्थिता जनकादयः’इति वाक्यस्य तात्पर्यार्थमजानानाः कर्माण्यपि ज्ञानवत्साक्षात्परमुक्तिसाधनानीतिमन्यन्ते तान्निराचष्टे–न कर्मेति। अन्ये तु वाजसनेयकमन्त्रोपनिषदि ‘अन्धं तमःप्रविशन्ति’इत्यादिना ज्ञानकर्मणोः प्रत्येकं निन्दापुरस्सरं“विद्यांचाविद्यांच यस्तद्वेदोभयं सह” इति समुच्चयविधिबलेन सह तयोरेवमुक्ति-साधनत्वंमन्यन्ते। तन्निराकरणायाह—न तयोरिति। अयमर्थः। “यस्मिन्सर्वाणि भूतान्यात्मैवाभूद्विजानतः’ इत्यादिना साध्यसाधनभेदोपमर्देन यद्ब्रह्मात्मैकत्वविज्ञानंप्रोक्तं तत्र तत्र प्रतिपादितं न तेन सह कर्मणामनुष्ठानं संभवति तस्यसाध्यसाधनादिभेदसापेक्षत्वात्‌। अतो देवताविषयं सगुणज्ञानमेव तत्र समुच्चीयते।उक्तं हि भगवद्भिर्भाष्यकारैः—‘देवताविषयं ज्ञानं कर्मसंबंधित्वेनोपन्यस्तं न परमात्मज्ञानम्‌ ” इति॥७५॥ प्रतिज्ञातमर्थं विकल्पपुरस्सरं प्रतिपादयतिसाधयति च। सा किं सायुज्यरूपा मुक्तिर्नित्यसिद्धाउत केन चित्साधनेननिष्पाद्या प्रथमेऽपि किमात्मरूपा स्यात्‌ उत ततोऽन्येति विकल्प्य॥७६॥

विभ्रमस्य निवृत्तिस्तु सिध्यत्यज्ञाननाशतः॥ ७८॥
अज्ञानस्य विनाशस्तु ज्ञानादेव न चान्यतः।
ज्ञानादज्ञाननाशस्तु प्रसिद्धःसर्वदेहिनाम्॥ ७९॥
अपरा सा परा मुक्तिर्नाऽऽत्मारूपैव चेन्मतम्‌।
तथाऽपि मुक्तिः प्राप्या वा न प्राप्या वाऽत्मनो भवेत्‌८०
प्राप्या चेदात्मना मुक्तिरप्राप्तप्राप्तिरेव सा।
अप्राप्तप्राप्तिरप्यस्य संबन्धो वैक्यमेव वा॥ ८१॥

——————————————————————————

आद्यपक्षेज्ञानमात्राप्राप्यत्वंतस्य दर्शयति। आत्मरूपैव चेदित्यादिना। नित्यप्राप्तस्येति। “ब्रह्मविदाप्नोति परम्‌”इत्यादिश्रुतेः मुक्तेः प्रप्यत्वमवसीयते।प्राप्तिश्चाप्राप्तिपूर्विका सा च द्वेधा। भ्रमकृता वस्तुकृता चेति। तदिह नित्यसिद्धायामुक्तेः प्राप्तुरात्मनोऽनतिरेकान्नित्यप्राप्ततयाप्राप्तिर्भ्रमकृता नतु ग्रामाद्ग्रामंगच्छ्तीत्यादाविव वस्तुकृतेत्यर्थः॥७७॥ विभ्रमस्येति। तस्य चाप्राप्तिभ्रमस्य निवृत्तौसत्यां पूर्वप्राप्तापि सा कण्ठगतचामीकरन्यायेन पुनः प्राप्यतइति श्रुत्या व्यपदिश्यत इत्यर्थः। तस्य चाप्राप्त्यापादकस्य जगद्विभ्रमस्यनिवृत्तिःपुनस्तन्मूलाज्ञाननाशात्सच सर्वाधिष्ठानभूतात्मयाथात्म्यविषयात्सम्यग्ज्ञानादेव न कारणान्तारात्तदाह—विभ्रमस्य निवृत्तिस्त्विति॥७८॥ ज्ञानादज्ञाननिवृत्तिः शुक्तिरजतादि]* लौकिकवि-भ्रमेप्रासिद्धेति दर्शयति—ज्ञानादिति॥७९॥ एवं सिद्धान्तमभिधाय पूर्वपक्षं दूषयितुमाद्यपक्षस्यद्वि-तीयंविकल्पमाशङ्कते—अपरेपि। सा नित्यसिद्धा मुक्तिर्नात्मरूपाअपित्वपराऽऽत्मनोऽन्यैव चेन्म-तेत्यर्थः। विकल्पासहत्वेनेमंपक्षं दूषयितुंविकल्पयति तथेति॥ ८०॥आत्मव्यतिरिक्ता किंवा प्राप्या न प्राप्या वा आद्यंपुनर्विकल्पं दूषयितुंफलितमर्थमाह—प्राप्याचेदिति। अथ तमाद्यंपक्षं विकल्पयति—अप्राप्तप्राप्तिरिति।अप्राप्तप्राप्तिरूपा प्राप्या मुक्तिःकिं संबन्धिद्वयघटितसंबन्धात्मिकोत संबन्धिनो-स्तादात्म्यरूपा। प्रथमेऽपि किमसौ संबन्धः साध्यो नित्यो वेतिविकल्प्याऽऽद्यंप्रत्याह—साध्य एव चेदिति।साध्यसंबन्धात्मिका मुक्तिः सवप्रकारोणा-

संबन्धश्चेत्ससाध्यो वा नित्यो वा साध्य एवचेत्।
अनित्यःस तु संबन्धो भवेन्नित्यो नसर्वथा॥ ८२॥
साध्यानामपि भावानामनित्यत्वंव्यवस्थितम्‌।
अभावस्य न साध्यत्वं प्रध्वंसाख्यस्य सर्वदा॥ ८३॥
साध्यत्वाख्यस्तुधर्मश्च नैवाभावाश्रयो भवेत्‌।
नित्यो यदि स संबन्धस्तर्हि सबन्धसंज्ञिता॥ ८४॥
मुक्तिश्च नित्यसिद्धैव मुमुक्षोरात्मनो भवेत्‌।
तदाऽपि नित्यप्राप्तया मुक्तेः पाप्तिस्तु पूर्ववत्‌॥
विज्ञानेनैव नान्येन सत्यमुक्तं द्विजोत्तम॥ ८५॥
अप्राप्तप्राप्तिरुपाया मुक्तेरैक्यं भवेद्यदि॥ ८६॥
तन्न युक्तं द्वयोरैक्यं न सिध्यति कदाचन।
भिन्नयोर्भेदनाशे वा मुक्तिर्भेदे स्थितेऽथवा॥ ८७॥
भेदनाशे तयोरैक्यंघटते वेदवित्तम।

————————————————————

नित्या स्यान्न च नियत्वमासादयेत्‌। तथा च मुक्तानामपि पुनः संसारप्रसङ्गः॥८१॥८२॥ व्याप्तिं दर्शयति—साध्यानामिति। चक्रचीवरतुरीवेमादिसाध्यानांघटपटादीनां भावानामनित्यत्वंदृश्यते। अतः साध्यत्व-मनित्यत्वेनव्याप्तमित्यर्थः।अनैकान्तिकत्वं परिहरति—अभावस्येति। प्रध्वंसाभावस्य भावरूपसाध्य-त्वधर्मयोगो न घटते। तथाविधधर्मयोगे तस्यघटादिवद्भावत्वमेव स्यात्‌।केनचिदपि धर्मेण निरुपाख्य-स्यैवाभावत्वात्‌। अङ्गीकृत्येदं प्रध्वंसाभावस्यनित्यत्वमनैकान्तिकत्वं परिहृतम्‌। सोऽप्यनित्य इत्युपरिष्टा-त्प्रतिपादयिष्यते।अथाप्राप्तप्राप्तिर्नित्यःसंबन्ध इति प्रथमस्य द्वितीयं विकल्पं दूषयति—नित्योयदीति। नित्यसंबन्धात्मिका मुक्तिरपि नित्यसिद्धैवन केन चित्साधनेन निष्पाद्यते।तथाच नित्यप्राप्तैवसेति पूर्वोक्तंज्ञानमात्रसाध्यत्वमावर्तत इत्यर्थः॥८३-८५॥अप्राप्तप्राप्तिस्तादात्म्यमिति द्वितीयं दूषयितुमनु-भाषते—अप्राप्तेति। तंदूष-

भेदे सति तयोरैक्यमिति चेत्तन्न संगतम्‌॥ ८८॥
भेदस्य संनिधावैक्यं विरोधान्नैव सिध्यति।
न प्राप्या ह्यात्मना मुक्तिरितिचेत्तन्न संगतम्‌॥ ८९॥
अप्राप्यायास्तु मुक्तेश्च नास्त्यपेक्षा हि साधने।
साधने सति सा मृक्तिरप्राप्यैव सदा खलु॥ ९०॥
न नित्यसिद्धा सा मुक्तिःसाध्यरूपैव चेन्मतम्‌।
साध्यत्वे सत्यनित्यत्वंपूर्वमेवाभिभाषितम्‌॥ ९१॥
प्रध्वंसस्य तु नित्यत्वंसर्वथा न भविष्यति।
अचिद्रूपस्य सर्वस्य विनाशो गम्यते यतः॥ ९२॥

भावत्वे सति साध्यत्वाद्विनाशोऽचेतनस्य तु।

——————————————————————

यति—तन्नेति॥८६॥८७॥ तत्र वक्तव्यं किं भिन्नयोर्जीवेश्वरयोर्भेदनाशेतादात्म्यमुत भेदे सत्येव। तत्राऽ-ऽद्यो भवद्भिर्भेदस्यान्योन्याभावरूपत्वाङ्गीकारात्तस्यचानाद्यनन्तत्वादनङ्गीकारः परास्त इत्याह—भेद-नाश इति। नापि द्वितीयइत्याह—भेदे सतीति॥८८॥ कुत इत्यत आह—भेदस्येति। अभेदैकार्थसमवा-यिनएकत्वस्य भेदेन सहावस्थानानुपपत्तेरित्यर्थः।एवमात्मस्वरूपव्यतिरिक्तायामुक्तेःप्राप्यत्वपक्षं दूष-यित्वाऽप्राप्येति द्वितीयपक्षमनूद्य दूषयति—न प्राप्येति। अप्राप्यस्वभावाया मुक्तेः साधनशतेप्यनु-मितेऽप्यप्राप्यत्वमेव स्वभावस्यानपायात्‌।अतः साधनापेक्षाभावादयत्नेन सर्वे मुच्येरन्नित्यर्थः॥८९॥९०॥ एवंसायुज्यरूपा मुक्तिः किं नित्यसिद्धेतिसाध्यरूपेति विकल्प्याऽऽद्यपक्षस्यसंभवच्छङ्कानिरासेन कर्मनैरपेक्ष्येण सम्यग्ज्ञानस्य मुक्तिसाधनत्वमुपपाद्योक्तदोषानुवृत्तेःद्वितीयो न युक्त इत्याह—न नित्यसिद्धेति। मुक्तेस्साध्यत्वे घटादिवदनित्यत्वं स्यादिति पूर्वमेवोक्तमित्यर्थः॥९१॥ ननु साध्यत्वेऽपि प्रध्वंसाभावन्मुक्तेर्नित्यत्वं किं नस्यादित्यत आह—प्रध्वंसस्येति। चिदात्मव्यतिरिक्तस्यसकलस्य चेत्य-प्रपञ्चस्य “नेह नानाऽस्ती”त्यादिनिषेधकश्रुत्या बाधितत्वादनित्यत्वमवश्यमेष्टव्यमित्यर्थः॥९२॥ ननु संग-तिग्रहणादौ प्रत्य-

प्रध्वंसस्य तु सास्यत्वेऽप्यभावत्वेन हेतुना॥ ९३॥
न सिध्यति विनाशरतु तच्चनैव सुसंगतम्‌।
प्रागभावसमाख्यस्याप्यनित्यत्वस्यदर्शनात्‌॥ ९४॥
प्रागभावस्य साध्यत्वाभवे सत्यप्यभावतः।
अनित्यत्वं यदीष्येत प्रस्वंसस्यापि तत्समम्‌॥ ९५॥
भावानामप्यभावानां साध्यानां मुनिसत्तम।
असाध्यानां च सर्वेषामनित्यत्वे प्रयोजकम्‌॥ ९६॥
अचेतनत्वमेवोक्तं नेतरद्व्यभिचारतः।
चेतनस्य तु नित्यत्वं श्रुतिराह सनातनी॥ ९७॥
तस्मादुक्तप्रकारेण मुक्तिः सायुज्यरूपिणी।
ज्ञानलभ्या क्रियामात्रान्न लभ्या न सुमुच्चयात्‌॥ ९८॥

——————————————————————

क्षानुमानादिप्रमाणान्तरसापेक्षशब्दस्य तद्विरोधे प्रामाण्यानुपपत्तेर्भावत्वेसतिसाध्यत्वमनित्यत्वसाधनम्‌। तथा च न प्रध्वंसेव्यभिचारः। तस्यसाध्यत्वेऽपि भावत्वाभावादिति शङ्कते—भावत्वे सतीति॥९३॥ तदेतदव्याप्त्यादूषयतितच्च नैवेति।भवतु भावत्वे सति साध्यत्वादनित्यत्वंघटादिषु प्रागभावस्यानित्य-त्वेऽवश्यंकारणान्तरं वक्तव्यमुक्तहेत्वभावात्‌। तच्चाभावत्वमेव धर्मान्तरसमवायस्य प्रागेव निरस्त-त्वात्। तद्वत्प्रध्वंसस्यापिसमानामिति तस्याप्यनित्यत्वमभ्युपगन्तव्यमित्यर्थः॥ ९४॥ ९५॥ एवं च भावत्वे सति साध्यत्वं घटादीनां भावानामनित्यत्वे प्रयोजकं प्रागभावस्यानित्यत्वेऽभावत्वमिति प्रयोजकद्वयाङ्गी-कारकल्पनागौरवंस्यात्तस्मदुभयत्रानुगतं जडत्वमेवानित्यत्षप्रयोजकमङ्गीकार्यमित्याह—भावानामिति। असाध्यानामिति। परमाण्वाकाशकालदिगादीनि परैर्नित्यतयाऽङ्गीकाराद-साध्यत्वेनाभिमतानि तेषाम-पीत्यर्थः॥९६॥नेतरदिति। इतरत्कृतकत्वादिकमिति यावत्‌। कुत इत्यतआह—व्यभिचारत इति। प्रागभावादावनित्यत्वे सत्यपि तदव्याप्त्याऽननुगमादित्यर्थः। श्रुतिराहेति। सा च“नित्योनित्यानां चेतनश्चे-तनानाम्‌” इत्यादिका। प्रतिपा-

ज्ञानं नामाखिलंचेदं सद्रूपेणावभासनम्‌।
क्रिया तु कारकापेक्षा न ज्ञानालम्बिनी सदा॥ ९९॥
अतः क्रियाया ज्ञानेन विरोधादेव सर्वदा।
समुच्चयो न युज्येत कुतस्तेन परा गतिः॥ १००॥
सारूप्याख्या तु या मुक्ति; सामीप्याख्या च याऽपरा।
सालोक्याख्या च या तासां केवलंकर्मसाधनम्‌॥१०१॥
ऐहिकामुष्मिकाकारा मुक्तयः सर्वदेहिनाम्‌।
कर्मणैव हि सिध्यन्ति न ज्ञानेन विरोधतः॥ १०२॥
ज्ञानं कर्मच वेदोक्तमेव नान्योदितं भवेत्‌।
अन्योदितं तुविप्रेन्द्र व्यवहारेऽविवेकिनाम्‌॥ १०३॥
अपेक्ष्य बुद्धिं विज्ञानं कर्मचेति विधीयते।

——————————————————————

दितमर्थं निगमयति—तस्मादिति॥९७॥९८॥ किं तज्ज्ञानमित्यत आह—ज्ञानं नामेति। अखिलस्य भोक्तृभोग्यात्मकस्य प्रपञ्चस्य योऽयं सच्चिदानन्दाद्वितीयब्रह्मात्मत्वसाक्षात्कारस्तत्सायुज्यमुक्तिसाध-नमित्यर्थःश्रूयते हि—“सर्वंखल्विदं ब्रह्म”“इदं सर्वंयदयमात्मा” इत्यादि। ज्ञानकर्मणोः समुच्चय-स्यप्रतिज्ञातं परमुक्त्वसाधनत्वमुपपादयति। क्रियात्विति। अग्निहोत्रक्रिया हिकर्तृकरणकर्मादिभेदभिन्न-कारकसापेक्षा सती तद्गोचरं द्रव्यदेवतादिविषयं शास्रजनितं विज्ञानमेव केवलमवलम्बते न तु कर्तृक-रणादिसकलभेदोपमर्देन जायमानं प्रतीचः परमात्मतत्त्वसाक्षात्कारात्मकं ज्ञानम्‌। अतः तेन सह विरो-धात्‌।उक्तं हि भगवद्भाष्यकारैः—“अनुपयोगादधिकारिविरोधाच्च” इति। अतोविरोधित्वे समसमय-वर्तित्वाभावादद्वैतज्ञानकर्मणोस्समुच्चय एव न संभवति।कुतस्तेन मुक्त्याशङ्केत्यर्थः॥९९॥१००॥ केव-लंकर्मेति। उक्ताद्वितीयब्रह्मात्मतत्त्वज्ञानरहितंद्रव्यदेवतादिज्ञानसहकृतंतरतमभावेनावस्थितमग्निहो-त्रादिकंहिरण्यगर्भादिसगुणब्रह्मोपासनारूपं च कर्मैव सारूप्याद्यपरमुक्तेःसाधनमित्यर्थः। १०१—१०३॥ अपेक्ष्य बुद्धिमिति। उत्तममध्यमाधमभावेनावस्थितानाम-

तथाऽपि व्यवहारे ते व्यावहारिकसिद्धिदे॥ १०४॥
तस्मात्सर्वत्रनास्तिक्यं न कुर्यान्मतिमत्तमः।
नास्तिक्यादेव सर्वेषां संसारे परिवर्तनम्‌॥ १०५॥
सर्वमुक्तं समासेन साधनं मुनिसत्तम।
गोपनीयमिदं तस्मादास्तिकस्य सदाऽद्भुतम्‌॥ १०६॥

सूतउवाच—

एवमुक्त्वा महादेवः साम्बः सर्वावभासकः।
प्रनृत्यसंनिधौ तस्य तत्रैवान्तर्हितोऽभवत्‌॥ १०७॥
साधनं नुसकलंपरिभाषितं केवलं
कृपयैव तु वो मया। नेतरत्कथितव्यमिह
द्विजा मोह एव हि समस्तमितोऽन्यथा॥ १०८॥
इति श्रीस्कान्दपुराणे सूतसंहितायां यज्ञवैभवखण्डे
मुक्तिसाधनविचारो नाम अष्टत्रिंशोऽध्यायः॥ ३८॥

एकोनचत्वारिंशोऽध्यायः।

३९. वेदानामविरोधः।

सूतउवाच—

अथातः संप्रवक्ष्यामि समासेन न विस्तरात्‌।

——————————————————————

धिकारिणांबुद्धितारतम्यमपेक्ष्य हिरण्यगर्भादिसगुणब्रह्मविज्ञानमग्निहोत्रादिकर्मचोभयं समुच्चित्याभि-धीयते—“विद्यां चाविद्यां च यस्तद्वेदोभय^(ँ) सह”इत्यादिना। एते च ज्ञानकर्मणी व्यवहारदशायां व्यावहा-रिकफलप्रयोजनेइत्यर्थः॥१०४—१०८॥

इति श्रीसूतसंहितातात्पर्यदीपिकाथां चतुर्थेयज्ञवैभववखण्डे
मुक्तिसाधनविचारोनाम अष्टत्रिंशोऽध्यायः॥ ३८॥

—————

अविरोधं तु वेदानामशेषाणां मुनीश्वराः॥ १॥
द्विविधो वेदराशिस्तुमुनयः संशितव्रताः।
सत्याद्वैतपरः कश्चिद्वेदभागः समासतः॥ २॥
कल्पितद्वैतनिष्ठस्तु वेदभागोऽपरस्तथा।
सत्यमेव सदाऽद्वैतमसत्यंद्वैतमास्तिकाः॥ ३॥
द्वैतस्यापि च सत्यत्वंवर्णयन्तीहकेचन।
तदसंगतमध्यस्तं द्वैतं यस्मात्परात्मनि॥ ४॥
अध्यस्तं हि सदा द्वैतं दृश्यत्वाच्छुक्तिरूप्यवत्‌।
दृश्यत्वं द्वैतजातस्य संमतं सर्वदेहिनाम्॥ ५॥

——————————————————————

अद्वैतवत्कर्तृकरणफलादिभेदभिन्नस्य द्वैतस्यापि श्रुतत्वाद्द्वैताद्वैतश्रुत्योर्मिथोविरोधेनाप्राण्यमाश-ङ्क्यतयोरविरोधं प्रतिपादयितुमारभते—अथात इति॥१॥कर्मज्ञानकण्डयोरविरोधं दर्शयितुंताव-द्विषयभेदमाह—सत्याद्वैतेति।कश्चिदुपनिषल्लक्षणो यो वेदभागः स सर्वदाबाधविधुरमद्वितीयंपरशिव-स्वरूपंतात्पर्येण प्रतिपादयति। अपरस्तु कर्मकाण्डात्मको वेदभागस्तत्स्वरूपे परिकल्पितं द्वैतप्रप-ञ्चमुपजीव्यस्वर्गादिफलाय यागहोमादिकं तात्पर्येण विधत्ते। अतो विषयभेदादविरोध इत्यभिप्रायः। विपरीतं न कुत इत्यत आह—सत्यमेवेति॥२॥३॥ नन्वद्वैतात्मतत्त्ववद्द्वैतस्य जडप्रपञ्चस्याप्यविसंवादि-व्यवहारदर्शनेनाऽऽरोपितरजतादिवैलक्षण्यात्पारमार्थिकत्वं किंन स्यादिति पराभिमतां शङ्कामनुभाषते—द्वैतस्यापीति। परिहरति—तदिति। विमतमसत्यमध्यस्तत्वाच्छुक्तिरूप्यवदिति भावः॥ ४॥ हेत्वसिद्धिं परिहराति—अध्यस्तंहीति। अविसंवादिव्यवहारदर्शनेऽपि दृश्यत्वहेतुना शुक्तौरुप्यवद्द्वैतप्रपञ्चस्या-पिदृग्रूपेऽद्वितीये परमात्मन्यध्यस्तत्वमङ्गीकार्यं तेन चासत्यत्वमित्यर्थः। हेतोः पक्षधर्मतामाह—दृश्यत्व-मिति। द्वैतप्रपञ्चस्यस्वतो जडत्वेन भानासंभवाद्दृग्रूपेण

तस्माद्द्वैतपरो भागः कल्पितद्वैतगोचरः।
अद्वैतं सर्वदा सत्यंभेदाभावात्कथंचन॥ ६॥
अद्द्वैतमपि चाध्यस्तं यदि वेदविदां वराः।
कुत्रैवाद्वैतमध्यस्तं नाद्वैते तदभावतः॥ ७॥
केवलंकल्पिते द्वैते नाद्वैताध्याससंभवः।
व्यवहारदशायां तु सत्येऽध्यासस्य दर्शनात्‌॥ ८॥
द्वैते चाद्वैतमध्यस्तमिति वक्तुंन शक्यते।
तस्याध्यासस्वरूपत्वाद्द्वैतस्य ब्रह्मवित्तमाः॥ ९॥

——————————————————————

स्वप्रकाशपरशिवस्वरूपचैतन्येनैव भास्यत्वादृश्यत्वहेतुः कृत्स्नंपक्षं व्याप्यवर्तत इत्येतत्सर्वसंमत-मित्यर्थः॥५॥ एतद्द्वैतजालस्यपरिकल्पितत्त्वप्रतिपादनात्तद्गोचरस्य कर्मकाण्डस्यकल्पितविषय-त्वंसिद्धमित्युपसंहरति—तस्मादिति। नन्वेवमद्वितीयस्याऽऽत्मनोऽप्यसत्यत्वं कस्मान्नस्यादित्यतआह—भेदाभावादिति। ईदृग्रूपदृश्यभावस्य भेदसापेक्षत्वान्निर्भेदे परमात्मनि तस्याभावादृश्यत्वाभावेनाध्य-स्तत्वासंभवाद्द्वैतस्य सर्वदा बाधवैधुर्यात्सत्यत्वमित्यर्थः॥६॥एतदेवोपपादयितुं विकल्पयति—अद्वैत-मिति। अद्वैतमपि द्वैतवद्यद्यध्यस्तं स्यात्तर्हितस्य केनचिदाधिष्ठानेन भवितव्यम्‌।निरधिष्ठानभ्रमानुप-पत्तेः। किं तदधिषठानमद्वैतमिवोत द्वैतमितिविकल्प्याऽऽद्यं प्रत्याह—नाद्वैतमिति। तदभावत इति। तस्याऽऽरोप्यादद्वैतादन्यस्याद्वैतान्तरस्याभावादित्यर्थः॥७॥ नद्वितीयइत्याह—केवलमिति। अद्वैतस्या-ऽऽरोपेऽन्यस्याधिष्ठानस्यासंभवात्केवलंकल्पिते द्वैते तदध्यासोवक्तव्यःसोऽपि न युक्त इत्याह—व्यवहारेति। परमार्थभूते शुक्तिशकलादौरजताध्यासस्य लोके दृष्टत्वात्तदनुसारेणाद्वैताध्यासस्याप्यधि-ष्ठानत्वेन सत्यभूतमेव किंचिद्वक्तव्यंन परिकल्पितमित्यर्थः॥८॥भवतु लोके सत्याधिष्ठानत्वमद्वैताध्यासे त्वन्यस्यासंभवात्कल्पितस्यैवाधिष्ठानत्वमितिनियमः कस्मान्न भवतीत्यत आह—द्वैतेचेति।द्वैतस्या-ध्यस्तैकशरीरत्वादध्यस्तस्यचाधिष्ठानात्परमात्मस्वरूपादनतिरेकादेकस्यैवाधिष्ठानत्वमारोपित्वं

द्वैतंचापि तथाऽद्वैतमुभयं कल्पितं न हि।
द्वैताद्वैतातिरेकेण नास्तित्वादेव वस्तुनः॥ १०॥
शून्यमात्रे न चाध्यस्तमुभयं वेदवित्तमाः।
निरुपाख्यस्य चाध्यासाधिष्ठानत्वाद्यसंभवात्‌॥ ११॥
अतो द्वैतंसमध्यस्तमद्वितीये परात्मनि।
तस्मादुक्तेन मार्गेण कश्चिदंशः श्रुतेर्बुधाः॥ १२॥
सत्याद्वैतपरः प्रोक्तः सर्वशास्त्रार्थवेदिभिः।
तथैव वेदराशेस्तुकश्चिदंशस्तपोधनाः।
कल्पितद्वैतनिष्ठस्तु कथितः सत्यवादिभिः॥ १३॥
द्वैताद्वैतश्रुतीनां तु विरोधोऽपि प्रतीतितः।
उक्तेनैव प्रकारेण विरोधाभाव एव हि॥ १४॥

——————————————————————

चेति व्याहतमित्यर्थः॥९॥ किंच द्वैतवदद्वैतस्यापि परिकल्पितत्वे निरधिष्ठानभ्रमप्रसङ्गादद्वैतस्यसत्य-त्वमेष्टव्यमित्याह—द्वैतं चेति। यदि द्वैताद्वैते उभे अप्यारोपिते स्यातां तर्हितद्व्यतिरिक्तस्य वस्त्वन्तर-स्याभवान्निरधिष्ठानभ्रमप्रसङ्गइत्यर्थः॥१०॥ ननु शून्यमेवाधिष्ठानमस्त्वित्यत आह—शून्येति। तत्र हेतु-माह—निरुपाख्यस्येति। केनचिदप्याकारेण निर्वक्तुमशक्यस्यशून्यस्याध्यासाधिष्ठानत्वबाधावधित्व-लक्षणधर्मयोगासंभवादित्यर्थः॥११॥ एवमद्वैतस्याध्यासासंभवात्प्रतिपादितं द्वैतस्यैवाध्यस्तत्वंनिगमयति—अत इति। कर्मज्ञानकाण्डयोःप्रतिज्ञातं विषयभेदेनाविरोध निगमयति—तस्मादिति॥ १२॥ १३॥मा भूत्कर्मज्ञानकाण्डयोर्विरोधः। ज्ञानकाण्ड एव द्वा सुपर्णेत्यादिवाक्यात्क्वचिद्भेदोऽवगम्यते। क्वचित्पुन-स्तत्त्वमस्यादिवाक्यैस्तदभेदइति द्वैताद्वैतश्रुत्योर्विरोधादप्रामण्यंस्यादित्याशङ्क्याऽऽह—द्वैताद्वै-तेतिविरोधस्य प्रातीतिकत्वमुपपादयति—उक्तेनेति। उक्तरीत्या कल्पितद्वैतपरैव भेदश्रुतिः परमार्था-द्वैतपरात्वभेदश्रुतिरितितयोरविरोध इत्यर्थः। ननु भेदाभेदयोरुभयोरपि श्रुत्यर्थत्वेसमानेऽप्यभेदस्यैव परमार्थत्वंभेदस्य तु परिकल्पितत्वमित्येतत्कुतो लभ्यत

प्रत्यक्षादेरगम्यत्वादद्वैतस्य तु सर्वदा।
तत्रैवार्थवती साक्षादद्वैतश्रुतिरास्तिकाः॥१५॥
अन्तरेण श्रुतिं भेदो लोकसिद्धः सदैव तु॥ १६॥
तेन नार्थवती तत्र श्रुतिर्मानातिगामिनी।
प्रमाणान्तरसंवादापेक्षा नास्ति श्रुतेः सदा॥ १७॥
स्वतश्च परतो दोषो नास्ति तस्याः श्रुतेरपि।
प्रत्यक्षादिप्रमाणानां दोषवद्भावता सदा।
अस्त्यतः श्रुतिरेतेषां प्रमाणानां बलीयसी॥ १८॥

——————————————————————

इत्यत आह—प्रत्यक्षादेरिति। अनधिगतार्थगन्तृप्रमाणमिति मीमांसकाः।अतः प्रमाणभूता श्रुतिः प्रत्य-क्षादिप्रमाणान्तराविषयमर्थं प्रतिपादयन्तीप्रामाण्यं भजते। अद्वैतं च प्रत्यक्षाद्यगम्यमतस्तदेव श्रुत्या तात्पर्येण प्रतिपाद्यते॥१४॥१५॥ अन्तरेणेति। घटपटादिभेदस्य प्रत्यक्षादिप्रमाणाधिगतत्वाच्छ्रुतेस्तत्र तात्पर्यं न युक्तम्‌। तथाच ह्यनुवादकत्वादप्रामाण्यं स्यादित्यर्थः। ननुप्रत्यक्षादिप्रमाणाविषयंशशवि-षाणकल्पमद्वैतंश्रुतिः कथं तात्पर्येण प्रतिपादयितुं शक्नुयादित्यत आह—मानातिगामिनीति। प्रत्यक्षा-दिप्रमाणान्यतीत्य तदविषयं स्वर्गापवर्गादिकं यथाऽवगमयति तद्वदद्वैतमपिबोधयितुं शक्तेत्यर्थः। ननु श्रुत्यर्थस्य प्रमाणान्तराविषयत्वेसंवादज्ञानाभावाच्छ्रुतेरप्रामाण्यंस्यादित्यत आह—प्रामाणान्तरेति।सर्वज्ञानानां स्वतःप्रमाण्याङ्गीकाराच्छ्रुतेर्नसंवादज्ञानापेक्षेत्यर्थः॥१६॥१७॥ननु मा भूत्संवादज्ञानापेक्षा बाधादन्यथात्वं कस्मान्नभवतीत्यतआह—स्वतश्चेति।दुष्टप्रमाणजनितस्य हि बाध्यत्वं श्रुतेस्तावत्स्वतो दोषो नास्ति। अर्थप्रत्यायनसमर्थत्वात्‌। परतोऽपि दोषो नास्ति।अपौरुषेयत्वात्‌। एवं निर्दुष्टप्रमाणत्वेन बाधशङ्कायाअप्यभावाच्छ्रुतेः स्वतःसिद्धंप्रामाण्यमप्रत्यूहमित्यर्थः।एवं श्रुतेर्निर्दोषत्वमभिधाय तस्याः प्रबलतरप्रामाण्यं प्रतिपादयितुं प्रत्यक्षादीनां दोषसद्भावमाह—प्रत्यक्षादीति। दोषवद्भावतेति। दोषसा-हित्येनोत्पन्नतेत्यर्थः॥

कल्पितद्वैतमात्रे तु नैव मानमियं श्रुतिः।
तत्र प्रयोजनाभावात्परमार्थनिरूपणे॥१९॥
अद्वैतंपरमानन्दं ब्रह्मवस्तु न चापरम्‌।
तत्र प्रयोजनं विप्रा अस्त्येव हि न संशयः॥ २०॥
यत्र प्रयोजनं तत्र श्रुतिर्मानमिति स्थितिः॥ २१॥
अतः प्रयोजनाभावाद्द्वैतंन प्रतिपाद्यते।
अनूद्य द्वैतमद्वैतं प्रतिपादयति श्रुतिः॥ २२॥
स्मृतीनां च पुराणानां भारतादेस्तथैव च।

——————————————————————

१८॥ एवमनधिगतार्थगन्तृप्रमाणमिति लक्षणपर्यालोचनया प्रत्यक्षाद्यनधिगतेऽद्वैतेश्रुतेः प्रमाण्यं प्रतिपा-दितम्‌। अथ प्रयोजनसद्भावादपि तत्रैव तत्प्रामाण्यंसमर्थयितुं द्वैतपरत्वेप्रयोजनराहित्यमाह—कल्पिते-ति।प्रयोजनाभावादिति। कल्पितस्यद्वैतस्य मायामयत्वेनावस्तुत्वात्तत्प्रतिपादनश्रुतेःप्रेक्षावत्प्रवृत्तिहेतु-भूतस्य कस्यचिदपि फलस्याभावादित्यर्थः। अद्वैतप्रतिपादने तु प्रयोजनसद्भावंदर्शयति—अद्वैतमिति। यस्मादद्वैतं ब्रह्मवस्तु निरतिशयानन्दरूपं तस्मात्तत्प्रतिपादनेन तत्स्वरूपावाप्तिलक्षणं सर्वोत्कृष्टंप्रयो-जनं विद्यतइत्यर्थः॥१९॥२०॥ ननु प्रयोजनवशात्प्रामाण्यव्यवस्था न युक्ताप्रमाणानुवर्तित्वात्प्रयोजन-स्येत्यत आह—यत्र प्रयोजनमिति। सत्यं प्रत्यक्षादिषु प्रमाणानुवर्ति प्रयोजनम्‌।श्रुतिस्तु प्रयोजनवशा-देवपुरुषं स्वार्थेप्रवर्तयतीति तत्प्रामाण्यंप्रयोजनाधीननिरूपणम्‌। अतो यस्मिन्नर्थेप्रयोजनमस्ति तत्रैवश्रुतेः प्रमाण्यमिति प्रामाणिकानां स्थितिरित्यर्थः। ननु तर्हि द्वा सुपर्णेत्यादिश्रुत्या निष्प्रयोजनो भेदः कस्मात्प्रतिपाद्यत इत्यत आह—अनूद्येति।द्वैतंप्रत्यक्षादिप्रमाणैर्लोकसिद्धंजीवेश्वरभेदमनूद्य समाने वृक्षेपुरुषो निमग्न इत्यादिनाजीवभावस्याज्ञानमूलत्वप्रतिपादनपुरःसरमद्वैतमेवतात्पर्येणप्रतिपादयती-त्यर्थः।एवं सर्वत्र भेदश्रुतिर्लोकसिद्धभेदानुवादार्था। अभेदश्रुतिस्तु तात्पर्येण परमार्थाद्वितीयप्रतिपादना-र्थेति द्रष्टव्यम्‌॥२१॥ २२॥ स्मृतिपुराणादीनामप्ये-

तथा शैवागमादीनां तर्काणां च द्विजोत्तमाः।
अद्वैतनिष्ठतैवोक्ता न द्वैतपरता सदा॥ २३॥
अध्यस्ताज्ञानतत्कार्यनिवृत्तिद्वारतोऽद्वयम्‌।
बोधयन्ति मुदा काश्चिच्छ्रुतयः पण्डितोत्तमाः॥२४॥
साक्षाद्विधिमुखेनैव बह्म सत्यादिलक्षणम्‌।
बोधयन्ति मुदा काश्चिच्छ्रुतयः पण्डितोत्तमाः॥२५॥

——————————————————————

वमेवाद्वैतपरत्वं न्यायतोऽवगन्तव्यमित्याह—स्मृतीनामित्यादिना। अद्वैतपरत्वंच स्मृत्यादीनां सर्वेषां षडक्षरमन्त्रार्थकथनप्रस्तावे प्रागेवप्रतिपादितम्‌॥२३॥ननु जातिगुणक्रियायदृच्छाभेदेन चतुष्टयी हि सकलशब्दानां प्रवृत्तिस्तत्कथंजात्यादिसकलधर्मरहितमद्वयं परशिवस्वरूपंश्रुतिस्तात्पर्येण प्रतिपादयितुंशक्नुयादित्यत आह—अध्यस्तेति। समस्तप्रपञ्चकल्पनामूलंमायाऽविद्यापरपर्यायंभाव-रूपमज्ञानं तत्कार्यंभूतभौतिकदेहेन्द्रियादिकमेतत्सर्वंपरमार्थतोनिरवद्येपरशिवस्वरूपेऽनादिवासन-याऽध्यस्यते तस्य च निवृत्तिस्तदधिष्ठानयाथात्म्यज्ञानात्।एवं च तां मायां तत्कार्यनिवृत्तिंप्रतिपाद-यन्त्यःकाश्चिच्छ्रुतयस्तद्वारोक्तविधमखण्डैकरसं परशिवस्वरूपंतात्पर्येण प्रतिपादयन्ति। ताश्च श्रुतयः “यत्तदद्रेश्यमग्राह्यम्‌” “अशब्दमस्पर्शमरूपमव्ययम्‌” “ अस्थूलमनण्वहस्वम्‌’ इत्यादिकाः॥२४॥ विधि-मुखेनेति। ‘सत्यंज्ञानमनन्तं ब्रह्म’ इत्यादिकाः कश्चिच्छ्रुतयो न पूर्ववन्निषेधमुखेनापि तुयत्सत्यज्ञानादि-लक्षणं तद्ब्रह्मेतिविधिमुखेनैव प्रतिपादयन्ति। अस्थूलमनण्वह्रस्वमित्यादिनिषरेधश्रुतिष्वपि यत्स्थूलत्वा-दज्ञानकार्यनिवृत्त्यवधिभूतं पारमार्थिकं वस्तु तद्ब्रह्मेत्यर्थाद्विधानमस्ति ततो विशिनष्टिसाक्षादिति। अयमभिप्रायः। लोकेतावत्सत्यत्वादिप्रवृत्तिनिमित्तकत्वेन सत्यज्ञानादिशब्दा व्युत्पन्नाः। अखण्डैकर-सेऽद्वितीये परमात्मनि तथाविधधर्मयोगो न संभवति। अतः सत्यादिशब्दा लौकिकमेवसत्यत्वादिकं प्रवृत्तिनिमित्तत्वेनोपादायाखण्डं वस्तु सर्वदा व्यभिचाररहितत्वाभिप्रायेण सत्यमिति लक्ष-

साधकस्यैव जीवस्य स्वाभाविकशिवात्मताम्‌।
बोधयन्ती श्रुतिर्भ्रान्तजीवत्वं बाधते खलु॥ २६॥
जीवत्वं चेतनस्यास्य स्वाभाविकमिति द्विजाः।
केचिद्वदन्ति वार्तैषा न तत्स्वाभाविकंसदा॥ २७॥
यदि खामाविकं तर्हिजीवत्वंसर्वदा भवेत्‌।
नास्ति तस्य निवृत्तिर्हि स्वतःसिद्धं न नश्यति॥२८॥
यथा भेषजसंपर्कात्ताम्रस्यमलनाशनम्‌।

——————————————————————

यन्ति। स्वपरव्यवहारप्रकाशत्वाभिप्रायेण ज्ञानमिति। अत्यन्तानुकूलवेदनीयत्वेनाऽऽनन्दमिति। तथाच सत्यादिशब्दा लौकिकमेव सत्यवादिकमादायसाक्षाद्विधिमुखेनैवाखण्डं वस्तु लक्षणया प्रतिपादयन्ती-त्यर्थः। उक्तं हि—‘लौकिकान्येव सत्यादीन्यखण्डं लक्षयन्तिहि’इति। एवमतद्व्यावृत्तिरूपेण साक्षाद्वि-धिमुखेन च श्रुतिस्तात्पर्येणाद्वैतंप्रतिपादयितुं शक्तेत्यर्थः॥२५॥ एवं श्रुतेरद्वितीयपरशिवस्वरूपप्रतिपाद-नप्रकारमभिधाय तत्त्वमस्यादिभिर्महावाक्यैर्जीवेश्वरतादात्म्यप्रतिपादनप्रकारं दर्शयति—साधकस्यैवेति। “तत्सृष्ट्वातदेवानुप्राविशत्‌”“अनेन जीवेनाऽऽत्मनाऽनुप्रविश्यनामरूपे व्याकरवाणि”इत्यादिश्रुतेःपर-मेश्वर एव हि साक्षाज्जीवः। अतो जीवभावापन्नस्य यत्स्वाभाविकमद्वितीयपरशिवात्मत्वंतत्प्रतिपादयन्ती तत्त्वमस्यादिकाश्रुतिर्मलिनसत्त्वप्रधानमायोपाधिकं परमार्थवत्प्रतीयमानमात्मनो यद्भ्रान्तंजीवत्वं तन्निवारयति। जगत्कारणोपाधिकं यत्सत्यज्ञानादिलक्षणं यच्चाज्ञानतत्कार्योपाधिकं सर्वप्रत्यग्भूतं चैतन्यं तदुभयमेकमेवेति सोऽयं देवदत्त इतिवद्विरुद्धांशपरिहारेण वाक्यं बोधयतीत्यर्थः॥२६॥ अथ पराभि-मतमात्मस्वाभाविकजीवत्वपक्षमनुभाष्यदूषयति—जीवत्वं चेतनस्येत्यादिना। यद्यात्मनो जीवत्वं स्वाभ-विकं स्यात्तर्हितस्य मुक्तावस्थायामपि निवृत्तिर्नस्यात्स्वभावस्यानपायात्। अतो मुक्तानामपिसुख-दुःखानुवृत्तिःस्यादित्यर्थः॥२७॥२८॥ जीवत्वस्य स्वाभाविकत्वेऽपि मुक्तिसंभवमाशङ्कते—यथेति।यथाऽम्लसंपर्कात्ताम्रस्यस्वभावभूतं मलं निव-

तथा जीवस्य दुःखादिनिवृत्तिःकेनचिद्भवेत्‌॥ २९॥
रसविद्धमयः स्वर्णं यथा भवति सर्वदा।
केनचित्साधनेनैव तथा जीवः शिवो भवेत्‌॥ ३०॥
इति केचित्स्वमोहेनप्रवदन्ति तु वादिनः।
तन्न संप्रतिपन्नं हि स्वतःसिद्धं न नश्यति॥ ३१॥
यथा स्वाभाविकं वह्नेरौष्ण्यं नैवविनश्यति।
प्रकाशो वा तथाऽस्यापि न दुःखादिर्विनश्यति॥३२॥
मणिमन्त्रौषधादीनां शक्तिवैचित्र्यमात्रतः।
नष्टवत्प्रतिबद्धं तु न नष्टं संमतं हि तत्‌॥ ३३॥
यथा ताम्रमलं नैव केनचित्प्रविनश्यति।
नष्टवत्प्रतिबद्धं हि विनष्टं मन्वतेऽबुधाः॥ ३४॥

——————————————————————

र्तते एवं केनचित्परमेश्वरसमाराधनादिना साधनेन जीवस्य सुखदुःखादिसंसारभावात्मकजीवत्वनिवृ-त्तौसत्यां परशिवसायुज्यरूपा मुक्तिः किं नस्यादित्यर्थः॥२९॥ अम्लेननिवर्तितस्यापि ताम्रमलस्य कालान्तरे पुनरुद्भवदर्शनात्तद्वदेव मुक्तानामपि जीवत्वस्य पुनरुद्भवमाशंक्य निदर्शनान्तरेणतामा-शङ्कांनिरस्यति—रसविद्धमिति। अयसो यथा रसवेधेन स्वाभाविकमयस्त्वंनिवर्तते स्वर्णत्वमेव सर्वदा भवति न पुनः कालान्तरेऽप्ययस्त्वस्यानुवृत्तिस्तथैवस्वाभाविकजीवत्वस्याप्यात्यान्तिकनिवृत्त्या हि शिव-सायुज्यमित्यर्थः॥३०॥ तदेतन्निराकरोति—तन्नेति।यथा स्वाभाविकमिति।अग्निस्वभावभूतस्य दाह-प्रकाशादेर्विनाशाभात्स्वाभाविकजीवत्वस्यापिविनाशो दुर्घट इत्यर्थः॥३१॥३२॥ ननुमणिमन्त्रादिसाम-र्थ्यादग्नेरौष्ण्यप्रकाशयोर्निवृत्तिमुपलभामहे तद्वत्साधनवैचित्र्यात्स्वाभाविकजीवत्वस्यापि निवृत्तिरित्यत आह—मणीति ।अस्मिन्स्वभावभूतमौष्ण्यादिकं मणिमन्त्रादिसामर्थ्यात्प्रतिबद्धमेवकेवलंन तु नष्टम्‌॥ ३३॥ एवमेवताम्रमलस्यापि स्वभावसिद्धस्यनाशां-

जीवत्वं च तथाऽस्यापि सुखदुःखादिलक्षणम्‌।
नष्टवत्प्रतिबद्धंस्यान्नैव नश्यति केनचित्‌॥ ३५॥
पयसा वेष्टितं तोयं पय इदयभिधीयते॥ ३६॥
रजतं काञ्चनग्रस्तं हेम इत्यभिधीयते।
तथैव रसवीर्येण वह्निसंपर्कतोऽपि च॥ ३७॥
अयसो हेमवर्णत्वंन हेमत्वं कदाचन।
रसवीर्यविनाशे तु वर्णस्तस्य विनश्यति॥ ३८॥
कृतकस्य न नित्यत्वमिति वार्ताभुवि स्थिरा।
तथाऽपि मानवा भ्रान्ताः काञ्चनं मन्यते ह्ययः॥३९॥
सूक्ष्मदर्शनहीनानां सुलभः खलु विभ्रमः।
तथा शिवत्वं जीवस्य भ्रान्त्यासिद्धं भविष्यति॥४०॥

साधनेन स्वतो जीवो न शिवःसर्वथा भवेत्‌।

——————————————————————

संभवमाह—यथेति। अबुधा अज्ञजनाः। प्रतिबद्धमित्येतदजानाना विनष्टमिति मन्वत इत्यर्थः॥३४॥ उक्तमर्थं दार्ष्टान्तिके योजयति—जीवत्वमिति।सुखदुःखादिलक्षणस्य स्वाभाविकस्य जीवत्वस्य केनचि-त्साधनेन प्रतिबन्ध एवकेवलंस्यान्न तु नाशःसंभवतीत्यर्थः॥३५॥ ननूक्तं रसवेधदृष्टान्तेन स्वाभाविक-स्याप्यत्यन्तनिवृत्तिरितितत्राऽऽह—पयसेत्यादिना। यथा पयसा मिश्रितंनीरं पयोवर्णमेव यथा वा काञ्च-नेनमिश्रितं रजतं काञ्चनवर्णमेव तथैवह्ययोरसवीर्येण संपर्कात्केवलंहेमवर्णं स्यान्न त्वयसःकदा-चिदपि हेमत्वमितिसंबन्धः॥ ३६—३८॥ननुरसवीर्यस्यामोघत्वेन विनाशाभावात्तत्कृतोवर्णनाशः कथं स्थादित्यत आह—कृतकस्येति। यत्कृतकंतदनित्यमितिव्याप्तेः सर्वत्रनिरङ्कुशत्वादित्यर्थः॥३९॥तथा शिवत्वमिति। यथा सूक्ष्मदर्शनराहित्येन वर्णमात्रदर्शनादयसि काञ्चनत्वभ्रमस्तथा स्वभावतो जीवस्य शिवात्मकत्वं भ्रान्त्यैव भवेन्नतु परमार्थतः संभवतीत्यर्थः॥४०॥ कुत इत्यत आह—

ततो जीवः शिवः साक्षान्न भवेत्तुकदाचन।
शिव एव स्वतः साक्षाच्छिवो भवति नान्यथा॥४१॥
यथैव वह्निसंपर्कात्तोयं वह्निर्नवस्तुतः।
उष्णं तोयमिति प्राज्ञाः प्रतीतावपि देहिनाम्‌॥ ४२॥
तथाऽशिवः स्वतो जीवः कदाचित्पण्डितोत्तमाः।
शिवत्वेन प्रतीतोऽपि स्वतो नैव शिवो भवेत्‌॥ ४३॥
स्वतोऽशिवस्तु जीवोऽयं सर्वथा न शिवो भवेत्‌॥४४॥
केनचित्साधनेनैव मुक्तौशिवसमो भवेत्‌।
इत्येवं केचिदिच्छन्ति वादिनो मुनिपुङ्गवाः॥ ४५॥
वार्तामात्रमिदं प्रोक्तंसर्वथा न तदर्थवत्‌।
एकदेशेन वा जीवाः किंवा सर्वात्मना समः॥ ४६॥
एकदेशेन चेत्सर्वे शिवाः संसारवर्तिनः।

——————————————————————

साधनेनेति। यदि परमार्थतोजीवः शिवादन्यः स्यात्साधनशतेनापि तस्यशिवत्वं न घटते। अन्योन्या-भावस्यानाद्यनन्तत्वेननिवृत्त्यनुपपत्तेरित्यर्थः।तस्माच्छिवस्य शिवत्वंन तु तद्व्यतिरिक्तस्य जीवस्य कदाचिदपि शिवत्वमितिप्रतिपादितमर्थमुपसंहरति—तत इति॥४१॥ ननु “मुक्तात्मानोऽपिशिवाः किंत्वेते तत्प्रसादतो मुक्ताः। सोऽनादिमुक्त एको विज्ञेयः पञ्चमन्त्रतनुः”इत्यादिवचनप्रामाण्यात्स्व-तोभिन्नानामपि जीवानां परमेश्वरानुग्रहवशाच्छिवत्वंकिं न स्यादित्यत आह—यथैवेत्यादिना। अग्निधर्म-स्यौष्ण्यस्य तत्संपर्कवशाज्जले प्रतीतावपि जलंनाग्निर्भवतिकिंतूष्णं जलमित्येव निर्दिश्यते। एवंस्वभा-वतो भिन्नस्य जीवस्य शिवस्वभावभूतधर्माश्रयत्वेसत्यपि न शिवात्मत्वमित्यर्थः॥४२॥४३॥ ननु न वयं जीवस्य शिवतादात्म्यलक्षणां मुक्तिंब्रूमः। अपि तर्हितत्साम्यमिति केषांचिन्मतं दूषयितुमुपन्यस्यति—स्वतोऽशिव इति॥ ४४॥ ४५॥ तान्निराचष्टे—वार्तेत्यादिना॥ ४६॥जीवस्य

एकदेशेन सर्वेषामस्ति साम्यं शिवेन हि॥ ४७॥
सर्वात्मना चेत्साम्यं तत्सर्वथा शिव एव सः।
भेदकारणशून्यत्वाद्भेदाभावाच्च वस्तुतः॥ ४८॥
किंच मुक्तौशिवेनैव समो जीवो भवेद्यदि॥
कंचित्कालंहि तत्साम्यमागतं खलु गच्छति॥ ४९॥
तस्माज्जीवः स्वतः साक्षाच्छिवः सत्यादिलक्षणः॥
अप्रच्युतात्मभावेन स्थितः सन्परविद्यया॥ ५०॥
स्वाज्ञानं तत्प्रसूतंच संसारं स्वात्मना ग्रसन्‌॥
स्वपूर्णशिवरूपेण स्वयमेवावशिष्यते॥ ५१॥
शुक्तिकाकलधौतं तु शुक्तिकावेदनेन तु।
शुक्तिकामात्ररूपेण यथा लोकेऽवशिष्यते॥ ५२॥

——————————————————————

किमेकदेशेनशिवसाम्यं विवक्षितमुत सर्वात्मनेति विकल्प्याऽऽद्यं प्रत्याह—एकदेशेनेति॥ संसारिणामपि जीवानां चेतनत्वादिनैकदेशेन शिवसाम्यंविद्यत एवेति तेऽपि मुक्ताःस्युरित्यर्थः॥ ४७॥ नापि द्वितीय इत्याह—सर्वात्मनेति॥ यदि सर्वेणैवाऽऽकारेण शिवसाम्यं विवक्षितं स्यात्तर्हितत्साम्यंन युज्यते केनचिदाकारेण व्यावृत्तयोरेव हि समानधर्मयोगादुपमानोपमेयभाव इत्यभिप्रेत्याऽऽह—भेदेति॥ सर्वात्मना समयोर्जीवेश्वरयोर्भेदजनकव्यावृत्ताकारविरहादत एवभेदाभावाज्जीवःशिव एव स्यान्न तु शिवसम इत्यर्थः॥४८॥किंचास्मिन्पक्षेमुक्तेरप्यनित्यत्वमापादयति- किंचेति॥४९॥ एवं पराभिमतमुक्तिस्वरूपंनिराकृत्य सिद्धान्तंनिगमयति—तस्मादिति।सत्यज्ञानादिलक्षणः साक्षा-च्छिवएव सत्त्वपरिणामरूपनानाविधतत्तदन्तःकरणोपहितः सन्ननपक्रान्तात्मभावेननानाविधजीवभावं भजते।स च जीवभावापन्नः परविद्ययास्वात्मनः परशिवात्मत्वज्ञानेन स्वस्वरूपस्याऽऽ-च्छादकंभावरूपमज्ञानं तत्कार्यंसंसारं चाऽऽत्ममात्रतया विलापयन्स्वात्मनो यत्परिपूर्णशिवरूपत्वंतेन स्वयमेवावशिष्यतेन तु भावाभावात्मकं किमपीत्यर्थः॥ ५०॥ ५१॥ अयमर्थं दृष्टान्तेन

शिवात्मना जगद्बाधो न चैवं संभविष्यति।
अभाव एव मुक्तौतु जगतो हि भविष्यति॥ ५३॥
इत्येवं केचिदिच्छन्ति स च मन्दमतिभ्रमः।
भावरूपं तु वस्त्वेव ह्यभावि भवति द्विजाः॥ ५४॥

——————————————————————

प्रतिपादयति—शुक्तिकेति। यथा शुक्तावारोपितस्यरजतस्याधिष्ठानशुक्तियाथात्म्यज्ञानेन निवृत्तौ सत्यामधिष्ठानभूता शुक्तिरेव केवलमवशिष्यते न त्वन्यद्रजतंतदभावलक्षणंकिमपि। तद्वदेव सकल-जगदधिष्ठानपरशिवस्वरूपयाथात्म्यज्ञानेनसमारोपितजगन्निवृत्तावधिष्ठानमात्रावशेषोऽवगन्तव्य इत्यर्थः ॥५२॥ ननुमुक्तावस्थायां जगतः प्रतीत्यभावात्तदभावो विद्यत इति कथमधिष्ठानमात्रावशेषतेति केषां-चिच्छङ्कामनुभाषते —शिवात्मनेति। मुक्तावस्थायामधिष्ठानशिवरूपेणैव जगदवतिष्ठते न तु तद्व्यतिरि-क्तभावाभावात्मनारूपेणेत्येतन्न संभवाति। भावाभावयोरन्यतरनिषेधस्येतरविधिनान्तरीयकत्वेन जग-त्सद्भावाभावे तदभावनियमावश्यंभावात्‌। अतोमुक्तौजगतोऽभाव एवन तु शिवात्मनाऽवस्थानमिति कथमधिष्ठानमात्रावशेषतेत्यभिप्रायः॥५३॥तदेतन्निराकरोति—स चेत्यादिना। यदेतदभावप्रतियागित्वं जगतोऽभिमतंतन्न युज्यते। यतो भावरूपमेव घटपटाद्यभावप्रातियोगि भवति न तावज्जगद्भावरूपम्‌ तथात्वे आत्मवत्सर्वदावस्थाननियमेनाबाध्यत्वप्रसङ्गात्‌। नाप्यभावात्मकम्‌। नरविषाणवत्कदाचिदप्य-प्रतिभासप्रसक्तेः। अतः प्रतीतिबाधान्यथानुपपत्त्या भावाभावविलक्षणं तदिति जगतो भावरूपत्वाभावा-दभावप्रतियोगित्वं न,युक्तमित्यर्थः।अतोऽध्यस्तबाधो नामाधिष्ठानमात्रावशेषोनान्यद्भावाभावात्म-कंकिमपीति निगमयति—तस्मादिति। शुक्तिकादावध्यस्तस्य मायामयरजतादेर्भावरूपत्वाभावे-नाभावप्रतियोगित्वानुपपत्त्या तद्बाधस्यावश्यमधिष्ठानमात्रावशेषत्वं स्वीकर्तव्यम्‌। तद्वदध्यस्तजगद्बाधोऽ-प्यधिष्ठानमात्रावशेषो नाभावप्रतियोगित्वमित्यर्थः। भवेदेवं यदि जगच्छुक्तौ रजतमिव क्वचिदध्यस्तं स्या-त्त्तु नाध्यस्तंयोग्याधिष्ठानानुपपत्तेरित्यतआह—जगद्भूमस्येति। सत्यस्वभावत इति।सत्यस्यैव शुक्ति-शकलादिकस्य रजताद्यधिष्ठानत्वंदृष्टमिति तदनुसारात्सत्यस्व-

जगन्न भावो नाभावोभावाभावविलक्षणम्‌।
तस्मादध्यस्तबाधस्तु नभावोऽभाव एव न॥ ५५॥
अधिष्ठानावशेषोहि केवलं पण्डितोत्तमाः।
जगद्भ्रमस्याधिष्ठानंशिवः सत्यस्वभावतः॥ ५६॥
तदन्यदखिलं भ्रान्तं युक्तितश्चप्रमाणतः।
तस्मात्सर्वजगद्बाधेशिव एवावशिष्यते॥ ५७॥
शिवावशेषं सर्वस्यजगतः श्रुतिरादरात्‌।
वक्ति तत्र न संदेहस्त्रिर्वःशपथयाम्यहम्‌॥ ५८॥
तस्मात्सत्यपरानन्दप्रकाशाद्वैतमीश्वरम्‌।
बोधयन्यादरेणैव श्रुतयः स्मृतिभिः सह॥ ५९॥
एकत्वबोधकस्यास्य वेदवाक्यस्य सुव्रताः।
वाक्यान्तराणि सर्वाणि शेषभूतानि संततम्‌॥ ६०॥

——————————————————————

भावः परमात्मैव जगद्विभ्रमस्याधिष्ठानमित्यर्थः॥५४–५६॥ ननु भवत्वधिष्ठानम्‌। शुक्तिरजतादिवैलक्ष-ण्याज्जगतोऽध्यस्तत्वमयुक्तमित्यत आह—तदन्यदिति। युक्तितश्च प्रमाणत इति। यदिजगदध्यस्तं न स्यात्तर्ह्यात्मवज्ज्ञाननिवर्त्यत्वमपि न स्यादित्याद्यनुकूलतर्को युक्तिः। प्रमाणं तुविमतमध्यस्तदृश्यत्वा-च्छुक्तिरूप्यवदित्याद्यनुमानम्‌। “सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्‌”“नेह नानाऽस्ति किंचन” इत्यद्वैतश्रुतिश्च। एवं प्रमाणतर्काभ्यांजगतोऽध्यस्तत्वप्रतिपत्तेस्तन्नाशोऽधिष्ठानपरशिवस्वरूपमात्रमेव नत्वभावइत्युपसंहरति—तस्मादिति॥५७॥ श्रुतिरादरादिति। ‘यस्मिन्सर्वाणि भूतान्यात्मैवाभूद्विजान-तः’इति सकलभौतिकप्रपञ्चस्याधिष्ठानात्मयाथार्थ्यविज्ञानेनाऽऽत्ममात्रावशेषतां तात्पर्येण प्रतिपादयती-त्यर्थः॥५८॥५९॥ एकत्वबोधकस्येति। जीवेश्वरयोर्भेदभ्रमनिरासेनपारमार्थिकमैक्यंबोधयतस्तत्त्वम-स्यादिवाक्यस्यनिरतिशयानन्दावाप्तिलक्षणफलवदर्थप्रतिपादकत्वात्‌ ‘फलवत्संनिधावफलं तद-

वेदो नान्यस्य शेषस्तु यथा देवो महेश्वरः।
शिवस्य शेषं सकलं श्रुतेर्मानानि सर्वशः॥ ६१॥
यथा माता स्वपुत्रस्य सत्यमेवाभिभाषते।
तथा सर्वजनस्यापि सत्यं वदति हि श्रुतिः॥ ३२॥
श्रुतौ चापि महादेवे त्रिपुण्ड्रेभस्मगुण्ठने।
श्रद्धां न कुरुते मर्त्यःपुण्यलेशविवर्जितः॥ ६३॥
पापिष्ठानां मनुष्याणां त्रिपुण्ड्रोद्धूलने श्रुतौ।
महादेवे च विद्वेषः स्वत एव विजायते॥ ६४॥
वेदोत्कर्षेशिवोत्कर्षेविद्योत्कर्षे तथैव च।
त्रिपुण्ड्रोद्धूलनोत्कर्षे श्रद्धा पुण्यवतां भवेत्‌॥ ६५॥
अविरोधे तु वेदानां पुरोक्तेनैव वर्त्मना।
वेदानुसारिस्मृत्यादौपापिष्ठस्य न हि स्पृहा॥ ६६॥
विष्ण्वादेः शिवसाम्यत्वे वेदसाम्ये परस्य च।
कुर्वन्तीच्छामविद्वांसः पापमेवात्रकारणम्‌॥ ६७॥
वेदानामपकर्षे तु त्रिपुण्ड्रादेस्तथैवच।
तथा शिवापकर्षे च यतन्ते पापयोनयः॥ ६८॥
महादेवश्च वेदश्च तथा तिर्यक्त्रिपुड्रकम्।
व्यर्थमित्याहुरत्यर्थं पाषण्डाः पापयोनयः॥ ६९॥
महादेवस्य माहात्म्यंवेदानामपि वैभवम्‌।
त्रिपुण्ड्रस्यच माहात्म्यं न शक्यं वर्णितुं मया॥ ७०॥

——————————————————————

ङ्गम्‌’इति न्यायेन ‘सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्’इत्यादीनिसर्वाण्युपनिषद्वाक्यानि तावत्तदपेक्षिततत्त्वंपदार्थप्रतिपादनद्वाराऽङ्भूतानि तदनुसारिस्मृतिपुराणागमवाक्यान्यपि वेदवाक्यस्यो-क्तरीत्या शेषभूतान्येवेत्यर्थः।६०

कर्मशेषत्वमायासाद्ब्रह्मकाण्डस्य केचन।
वर्णयन्ति न ते सन्तः किंतु ते विप्रलम्भकाः॥ ७१॥
कर्तृत्वं चैव भोक्तृत्वं नियोज्यत्वंक्रियाफलम्‌।
ग्रसते ब्रह्मविज्ञानं ततस्तच्छेषताऽस्य न॥ ७२॥
अल्पलाभप्रदं कर्मज्ञानं पूर्णफलप्रदम्‌।
तथा सति मुनिश्रेष्ठास्तच्छेषत्वं कथं भवेत्‌॥ ७३॥

——————————————————————

—७०॥कर्मशेषत्वमिति। स्वर्गाद्यामुष्मिकिफलसाधनस्य ज्योतिष्टोमादिकर्मणोऽनुष्ठाने तत्फलभोगाद्दे-हातिरिक्तः कश्चिदात्मा विद्यत इत्यवश्यमधिगन्तव्यम्‌।तथाच कर्मापेक्षितदेहव्यतिरिक्तात्मप्रतिपादन-द्वारा ज्ञानकाण्डस्य कर्मकाण्डशेषत्वं केचिन्मन्यन्ते। न चैतद्युक्तंज्ञानकाण्डस्य कर्मोपयुक्तकर्तृ-त्वभोक्तृत्वादिसकलसंसारधर्मरहितात्मस्वरूपप्रतिपादनपरत्वादित्याशंक्याऽऽह—आयासादिति।उक्तविधात्मस्वरूपप्रतिपादकवाक्यसंदर्भस्योपासनाविषयत्वसमर्थनलशक्षणमायासात्संप्राप्येत्यर्थः। तदेतन्निराकरोति—न त इति। विप्रलम्भका इति।‘ब्रह्मविदाप्नोति परम्‌’‘ब्रह्म वेद ब्रह्मैव भवति’ ‘यत्तदद्रेश्यमग्राह्यम्‌’ ‘स पर्यगाच्छुक्रमकायमतव्रणम्‌’‘अन्यत्रधर्मादन्यत्राधर्मादन्यत्रास्मात्कृताकृतात्‌’ इत्यादीनामुपासनाविधिगन्धेनाप्यसंस्पृष्टानां तात्पर्येणासंसार्यात्मबोधकानां वाक्यानामन्यथाभिप्रायकल्प-नात्तेषां विप्रलम्भकत्वमित्यर्थः॥७१॥ ज्ञानकर्मणोः स्वरूपफलादिपर्यालोचनयाऽङ्गाङ्गिभावानुपपत्तेरिति हेतुमाह—कर्तृत्वं चेत्यादिना। देहातिरिक्तस्यकर्तृत्वभोक्तृत्वादिविशिष्टस्याऽऽत्मनो ज्ञानं हि कर्मापेक्षि-तम्‌। ज्ञानकाण्डस्तुकर्तृत्वभोक्तृत्वादिसकलसंसारधर्मासंस्पृष्टाद्वितीयमात्मतत्त्वं तात्पर्यतोऽवगमयति न तुदेहातिरिक्तकर्त्रात्मस्वरूपमात्रम्। तथा चौपनिषदमद्वितीयात्मविज्ञानं प्रत्यगात्मन्युपाधिवशाद्भास-मानंकर्मोपेक्षितं कर्तृत्वभोक्तृत्वादिसकलधर्मं विलापयत्कथं कर्मणःशेषभूतंस्याद्विरोधादित्यभिप्रायः। नियोगोनाम यद्यभिधेयमपूर्वंतद्बोद्धृत्वेनपुरुषस्य नियोज्यत्वंतन्निष्पादकत्वं कर्तत्वंएतच्च द्वादशेऽ-ध्याये—‘नियोज्यत्वंच कर्तृत्वं भोक्तृत्वंच तथैव च’इत्यत्र विस्तरेण प्राक्प्रतिपादितमित्युपरश्यते॥ ७२॥ अल्पलाभप्रदमिति।

फलवत्कर्मशेषत्वमफलस्य हिसिध्यति।

फलवद्धिपरं ज्ञानं ततस्तच्छेषताऽस्य न॥ ७४॥

कर्मप्रकरणस्थं हि ज्ञानं कर्माङ्गमिष्यते।

भिन्नप्रकरणं ज्ञानं ततस्तच्छेषताऽस्य न॥ ७५॥

कर्म साध्यफलं ब्रह्मज्ञानं सिद्धफलंबुधाः।

तथा सति मुनिश्रेष्ठास्तच्छेषत्वं कथं भवेत्‌॥ ७६॥

अधिकारिविभेदेन प्रवृत्तं मुनिपुङ्गवाः।

काण्डद्वयमतोऽन्यस्य कथमन्यद्गुणो भवेत्‌॥ ७७॥

कर्माज्ञानस्य सद्भावे न तथा ब्रह्मवेदनम्‌।

——————————————————————

स्वर्गपशुपुत्रादिकं स्वल्पमेव फलं कर्मप्रयच्छति। विज्ञानं तुपरमानन्दावाप्तिलक्षणं परिपूर्णंफलंप्रय-च्छति। अल्पं हि लोकेऽधिकं प्रत्यङ्गत्वेन दृष्टं स्वामिभृत्यादौ। तस्मादधिकफलं ज्ञानं न्यूनफलस्य कर्मणोऽङ्गमित्येतन्न युक्तमित्यर्थः॥७३॥ फलवदिति। अफल्स्य हि प्रयाजादेः कैमर्थक्यवशात्‌ ‘फल- वत्संनिधावफलंतदङ्गम्‌’इतिन्यायेन फलवदाग्नेयादियागशेषत्वं दृश्यते। ज्ञानस्य तु पृथक्फलसद्भा-वस्य श्रुतत्वेन फलाकाङ्क्षाया अभावान्नान्यशेषत्वमित्यर्थः॥७४॥ ननु यथा प्रयाजविधिवाक्यशेषेण ‘वर्मवा एतद्यज्ञस्यक्रियते’इत्यादिनाश्रुतस्य फलस्य ‘अङ्गेफलश्रुतिरर्थवादः’इति न्यायेनार्थवाद-त्वंतथा ज्ञानफलस्याप्यर्थवादत्वात्प्रयाजवदङ्गत्वंकिं न स्यादित्यत आह—कर्मप्रकरणेति। प्रयाजदे-र्हिदर्शपूर्णमासप्रकरणपठितत्वेनाङ्गाङ्गिभावस्यनिर्णीतत्वाद्युक्तं तदीयेन फलश्रुतेरर्थवादत्वम्‌। न तथा ज्ञानं कस्यचित्कर्मणः प्रकरणे स्थितंयेन फलश्रुतेरर्थवादता कल्प्येत। अतः प्रकरणभेदादपि ज्ञानस्य न कर्माङ्गत्वम्॥७५॥ कर्मसाध्यफलमिति। यागहोमादिक्रियानिष्पाद्यत्वात्स्वर्गादेः। सिद्धफल-मिति। ज्ञानप्राप्यस्य फलस्यनित्यशुद्धबुद्धमुक्तात्मस्वरूपत्वादित्यर्थः॥७६॥ अधिकारिविभेदेनेति। कर्मकाण्डे स्वर्गपुत्रादिफलरागयुक्तोऽधिकारी वैराग्यादियुक्तस्तु ज्ञानकाण्डस्येत्यधिकारीविशेषमुपा-दाय प्रवृत्तत्वेनेत्यर्थः॥७७॥ज्ञानकर्मणोःसहावस्थानासंभवादप्यङ्गाङ्गिभावोन युक्त इत्याह—कर्माज्ञान

तथा सति कथं विप्रा ज्ञानकमंसमुच्चयः॥ ७८॥
अप्रकाशात्मकं कर्म स्वप्रकाशं वेदनम्।
तथा सति कथं विप्रा ज्ञानकर्मसमुच्चयः॥७९॥
तस्मद्वेदान्तभागस्तु ब्रह्यकाण्डसमाह्वयः।
सर्वदा कर्मकाण्डस्य नैव शेषः कदाचन॥८०॥
तथैव कर्मभागश्च बह्मकाण्डस्य सर्वथा।
न साक्षादेव शेषः स्याज्ज्ञानं वेदान्तवाक्यजम्‌॥८१॥
शान्तिदान्त्यादयः सर्वे गुणा एव मुनीश्वराः।
अङ्गानि ब्रह्मविद्यायाः श्रवणं करणं बुधाः॥८२॥
विद्याफलोपकारि स्यान्मननं चिन्तनं तथा।

————————————————————————————————

स्येति। सर्वानर्थप्रपञ्चस्य मूलभूतं प्रत्यगात्मनः पारमार्थिकपरशिवस्वरूपत्वाच्छादकमज्ञानं सविलासे तस्मिन्सत्येव कर्म तत्प्रसादेन स्वात्मानं लभते। अद्वैतज्ञानं तु तदज्ञानं निवर्तयदाविभर्वति। तथाच ज्ञानकर्मणोः सहावस्थानाविरोधादङ्गाङ्गिभावेन न समुच्चयो घटत इत्यर्थः॥७८॥ अप्रकाशात्मकमिति। अज्ञानकार्यत्वात्कर्माप्रकाशात्मकम्‌। प्रकाशब्रह्मात्म-कत्वाज्ज्ञानं प्रकाशात्मकम्‌। तथाच तमःप्रकाशयोरिवानयोः सहावस्थानानुपपत्त्या कथमङ्गाङ्गिभावेन समुच्चय इत्यर्थः॥७९॥ एवं ज्ञानस्य कर्मशेषत्वानुपपत्तेस्तत्प्रतिपादको वेदान्तभागो न कर्मकाण्डशेष इत्युपसंहरति—तस्मादीति॥८०॥ ननु तर्हि कर्मकाण्ड एव ज्ञानकाण्डस्य शेषो भवत्वित्यत आह—तथैवेति। परंपरया शेषत्वस्योपरिष्टाद्वक्ष्यमाणत्वात्तद्व्यावृत्तये विशिनष्टि—न साक्षादिति। ननु तदद्वितीयपरशिवस्वरूपज्ञानं केन प्रमाणेन जन्यं कानि पुनस्तदुत्पतत्त्यनुकूलव्यापारनिष्पादनेनाङ्गभावं भजन्तं किंवा तदुत्पत्तौ करणं फलोपकार्यङ्गं च किमित्येतत्सर्वं क्रमेणाऽऽह—ज्ञानं वेदान्तवाक्यजमित्यादिना॥८१॥ शान्तिदान्त्यादय इति। ‘शान्तो दान्त उपरतस्तितिक्षुः’ इत्यादिश्रुत्युक्तमुपरत्यादिकमादिशब्दग्राह्मम्॥८२॥ विद्याफलोपकारीति। कारणभतस्य वेदान्तवाक्या-

ज्ञानविच्छित्तौन सहायमपेक्षते॥८३॥
तमोनिवृत्तौ सूर्यस्तु यथा नान्यदपेक्षते।
तथाऽज्ञाननिवृत्तौतु ज्ञानं नान्यदपेक्षते॥८४॥
क्षणध्वंसिक्रियायास्तु धर्माधर्मात्मकंफलम्‌।
न ज्ञानं तेन विद्याया न साक्षात्कर्मसाधनम्‌॥८५॥
अधर्मस्य फलं साक्षान्नरकप्राप्तिरेव हि।
न ज्ञानं तेन विद्याया नाधर्मःसाधनं भवेत्‌॥८६॥
धर्मस्य पापविच्छित्तिद्वारा शुद्धिस्तुमानसी।
फलं न ब्रह्मविज्ञानं तेन धर्मो न साधनम्‌॥८७॥
कर्मणा शुद्धचित्तस्य संसृतेर्दोषदर्शनम्।
पुनर्विरक्तिः संसारान्मोक्षेच्छा जायते तथा॥८८॥
तस्मात्कर्मप्रनाड्यैव ज्ञानशेषं न चान्यथा।
अत एवोक्तमार्गेण तयोः समसमुच्चयः॥८९॥

सुतरामेव नास्त्येव सम्यगुक्तं मयाऽनघाः।
अतश्चान्योन्यसंबन्धः काण्डयोर्नैव विद्यते॥९०॥

——————————————————————————————————

र्थविचारात्मकस्य श्रवणस्य जीवब्रह्मतादात्म्यगोचराविद्याजननलक्षणं यत्फलंतदुपकारकमित्यर्थः। अत एवाऽऽम्नायते—“आत्मा वा अरे द्रष्टव्यःश्रोतव्यो मन्तव्यो निदिध्यासितव्यः” इति। सा च श्रुतिरेवमाचार्यैर्व्याख्याता—‘आत्मदर्शनमुद्दिश्य मनननिदिध्यासनाभ्यांफलोपकार्यङ्गाभ्यां श्रवणं नामाङ्गिविधीयते” इति॥८३॥ विद्यायाः स्वोत्पत्तावेवकरणोपकरणाद्यपेक्षा न तु स्वकार्येऽन्यदपेक्षत इत्येवं दृष्टान्तेनोपपादयति— तमोनिवृत्ताविति॥८४॥श्रवणादिवत्कर्मणोऽपि प्रसक्तं विद्योत्पत्तिसाधनत्वं निराकरोति—क्षणध्वंसीत्यादिना॥८५—८७॥ एवं साक्षाद्विद्यासाधनत्वंकर्मणो निराकृत्य‘तमेतं वेदानुवचनेन ब्रह्मणा विविदि-

न्यायाभासं महामोहादवलम्ब्य नराधमाः।
विप्लावयन्ति वेदार्थं नैतेषां मतिरुत्तमा॥९१॥
प्रत्युत भ्रान्तिविज्ञानाद्वेदान्तार्थस्य बाधनात्‌।
सदा संसारवर्तित्वमेव तेषां न संशयः॥९२॥
अहो मोहस्य माहात्म्यं सर्ववेदार्थवर्जिताः।
परिभ्रमन्ति वेदार्थादन्यत्रैव विचेष्टिताः॥९३॥
वेदानशेषानवधार्यमर्त्यो मदुक्तवेदान्तविचारमार्गम्।
उपैति पुण्येन च शम्भुभक्त्या शिवप्रसादेन न चेतरेण॥
अविरोधः कथितो मया द्विजाः कृपयैव श्रुतिगोचरस्तु वः।
मतिरेषा मनुजस्य मुक्तिदा विपरीता मतिरस्य नाशिनी॥
इति श्रीस्कान्दपुराणे सूतसंहितायां चतुर्थेयज्ञवैभवखण्डे
वेदानामविरोधनिरूपणं नामैकोनचत्वारिंशोऽध्यायः॥३९॥

चत्वारिंशोऽध्यायः।

४०. सर्वसिद्धिकधर्मविचारः।

सूत उवाच—

अथातः संप्रवक्ष्यामि सर्वसिद्धिकरं नृणाम्‌।
मया नोक्तमितः पूवेमतिगुह्यमनुत्तमम्‌॥१॥

षन्ति यज्ञेन’ ‘इत्यादिश्रुत्या विहितंपरंपरया तत्साधनत्वमाह—कर्मणा शुद्धचित्तस्येति॥८८॥ उक्तमार्गेणेति। विज्ञानस्य कर्मशेषत्वनिराकरणप्रस्तावे कर्माज्ञानस्य सद्भाव इति यदुक्तं तेनेत्यर्थः॥८९—९५॥

इति श्रीसूतसंहितातात्पर्यदीपिकायांचतुर्थेयज्ञवैभवखण्डे वेदानामवि-
रोधनिरूपणं नामैकोनचत्वारिंशोऽध्यायः॥ ३९॥`

————

एवं कर्मणां चित्तशुद्धिद्वारा परंपरया ज्ञानशेषत्वमुक्तम्‌। अथ किं

कायिकं वाचिकं चैव मानसं च तथैव च।
त्रिविधं कर्मकर्तव्यं सर्वसिद्ध्यर्थमास्तिकैः॥२॥
सर्वसिद्धिकरं कर्म कायिकं बहुधा स्मृतम्‌।
लिङ्गेशिवार्चनं चैव रुद्राक्षाणां च धारणम्‌॥३॥
अग्निरित्यादिभिर्मन्त्रैजाबालोक्तैश्चसप्तभिः।
त्रियायुषेण मन्त्रेण भस्मना सजलेन च॥४॥
सर्वाङ्गोद्धूलनं चैव त्रिपुण्ड्रस्य च धारणम्‌।
शिवस्योत्सवसेवा च शिवक्षेत्रेषु वर्तनम्‌॥५॥
वाचिकं कर्म विप्रेन्द्राः सर्वसिद्धिकरं नृणाम्‌।
चिन्मन्त्रस्य जपस्तद्वत्पदाख्यस्य जपस्तथा॥६॥
प्रणवस्य जपस्तद्वद्धंसाख्यस्य मनोर्जपः।
षडक्षरस्य मन्त्रस्य सावित्र्याश्च जपस्तथा॥७॥
वेदपारायणं चैव वेदाङ्गानां च कीर्तनम्‌।
मानसं कर्मविप्रेन्द्राः सर्वसिद्धिकरं नृणाम्‌॥८॥
महादेवस्मृतिः साक्षान्महादेव्याः स्मृतिस्तथा।
वेदान्तार्थविचारश्च वेदादन्यत्र विस्मृतिः॥९॥
विरक्तिः सर्वलोकेभ्यो वेदार्थे निश्चयोऽचलः।
स्मार्ते पौराणिकेऽप्यर्थेनिश्चयश्च तथैव च॥१०॥
शिवस्योत्कर्षताबुद्धिःशिवोऽहमिति भावना।

———————————————————————————————————

तत्कर्मेति तद्वक्तुंप्रतिजानीते—अथात इति॥१–५॥ चिन्मन्त्रस्येति। संविद्रूपिण्याः परशक्तेर्वाचको हृल्लेखामन्त्रा-श्चिन्मन्त्रः। पदाख्यस्येति। मातृकोत्पत्तावपदं पदमापन्नमित्यादिना चतुर्थेऽध्याये प्रतिपादितत्वात्पदाख्योऽयं मातृकामन्त्रः॥९—११॥ यद्यपि शिवार्चनभस्मोद्धलनाचिन्मन्त्रपदमन्त्रजपादिकमा-

एते धर्माविशिष्टाः स्युःसर्वसिद्धिकरा अपि॥११॥
एभ्योऽतिरिक्ता ये धर्मोः श्रौतस्मार्तास्तथाऽपरे।
ते तु वेदविदां मुख्याः सर्वसिद्धिकरा न हि॥१२॥
महादेवस्तु सर्वात्मा सर्ववस्त्ववभासकः।
सर्वानन्दकरः पूर्णः सर्वदेवोत्तमोत्तमः॥१३॥
तस्यासाधारणा धर्माएत एव न चापरे।
तस्मादेते हि सर्वेषांसर्वसिद्धिकरा नृणाम्‌॥१४॥
सत्तासिद्धिश्चसर्वेषां महादेवप्रसादतः।
विष्ण्वादीनामतो धर्माःपूर्वोक्ताः सर्वसिद्धिदाः॥१५॥
मुखतो मोक्षदा ह्येते पृष्ठतः सर्वसिद्धिदाः।
शीघ्रसिद्धिकराश्चैव शिवासाधारणत्वतः॥१६॥
शिवेन सदृशो देवो यथा विप्रा न विद्यते।
तथैवैभिः समा धर्मान विद्यन्ते श्रुतौस्मृतौ॥१७॥
शिवज्ञानसमं ज्ञानं यथा नास्ति द्विजर्षभाः।
तथैवैभिः समा धर्मान विद्यन्ते श्रुतौ स्मृतौ॥१८॥
वेदमानसमं मानं यथा नास्ति द्विजर्षभाः।
तथैवैभिः समा धर्मान विद्यन्ते श्रुतौस्मृतौ॥१९॥
भूमिदेवसमो मर्त्योयथा नास्ति द्विजर्षभाः।
तथैवैभिः समा धर्मान विद्यन्ते श्रुतौ स्मृतौ॥२०॥
मेरुणा पर्वतस्तुल्यो यथा लोके न विद्यते।

—————————————————————————————————————

त्मविद्याहेतुत्वेन प्रागेव प्रतिपादितंतथाऽपि सर्वसिद्धिकरत्वमेतस्यैवनान्येषां श्रौतस्मार्तानांकर्मणामित्येतद्दर्शयिपितुं पुनः प्रतिपादनम्‌। तदाह—एभ्योऽति-

तथैवैभिः समा धर्मान विद्यन्ते श्रुतौ स्मृतौ॥२१॥
अन्नपानसमं किंचिन्न हि देहस्थितो यथा।
तथैवैभिः समा धर्मान विद्यन्ते श्रुतौ स्मृतौ॥२२॥
यथा भागीरथीतुल्या नदी लोके न विद्यते।
तथैवैभिः समा धर्मान विद्यन्ते श्रुतौ स्मृतौ॥२३॥
शिवस्थानसमं स्थानं यथा लोके न विद्यते।
तथैवैभिः समा धर्मान विद्यन्ते श्रुतौ स्मृतौ॥२४॥
सर्वसिद्धिकरा मुनिपुङ्गवा एत एव सदैव न चापरे।
चोदितेषु नसंशयकारणं केवलं कृपयैव मयोदितम्‌ ॥२५॥

इति श्रीसूतसंहितायां चतुर्थेयज्ञवैभवखण्डे सर्वसि-
द्धिकरधर्मविचारो नाम चत्वारिंशोऽभ्यायः॥४०॥

अथैकचत्वारिंशोऽध्यायः।

४.१. पातकविचारः।

सूत उवाच—

अथातः संप्रवक्ष्यामि पातकानि समासतः।
श्रुणुत श्रद्धया सार्धं परिहाराय सुव्रताः॥१॥
पातकानि समासेन दश प्रोक्तानि सूरिभिः।
तारतम्यक्रमेणैव तेषामस्त्येव राघवम्‌॥२॥

———————————————————————————————————

रिक्ता इत्यादिना॥१२-२५॥

इति श्रीस्कन्दपुराणे श्रीसूतसंहितातात्पर्यदीपिकायां चतुर्थेयज्ञवैभवखण्डे
सर्वसिद्धिकरधर्मविचारोनाम चत्वारिंशोऽध्यायः॥४०॥

<MISSING_FIG href=”../books_images/U-IMG-1704962704Screenshot2024-01-05192913.png”/>

एवं विद्योत्पत्त्यनुकूलं कायिकवाचिकमानसभेदेन त्रिधाऽवस्थितं कर्म

प्रथमं पातकं प्रोक्तं महापातकसंज्ञितम्‌।
द्वितीयमतिपापाख्यं ततः प्रासङ्गिकाभिधम्‌॥३॥
चतुर्थं पातकं प्रोक्तं पञ्चमं चोपपातकम्‌।
जातिभ्रंशकरं षष्ठं संकीर्णकरणं ततः॥४॥
अपात्रीकरणं पश्चान्नवमं तुमलावहम्‌॥
प्रकीर्णकसमाख्यं तु दशमं पातकं द्विजाः॥५॥
प्रतिषिद्धसुरापानं ब्रह्महत्या तथैव च।
ब्राह्मणानां सुवर्णस्य हरणं मुनिपुङ्गवाः॥६॥
जननीगमनं चैव संयोगस्तैःसह द्विजाः।
महान्ति पातकान्याहुर्मुनयः सूक्ष्मदर्शिनः॥७॥
असाक्षान्मातृगमनं स्वपुत्रीगमनं तथा।
स्नुषाया गमनं तद्वद्भगिनी गमनं तथा॥८॥
शिवस्य मूर्तिचलनं विष्णोश्च ब्रह्मणस्तथा।
अतिपातकमित्याहुर्मुनयो वेदवित्तमाः॥९॥
राजन्यवैश्ययोर्हिंसा यज्ञसंबन्धिनस्तथा।
रजस्वलाया गर्भिण्या आर्तायाश्चवधस्तथा॥१०॥
अविज्ञातस्य गर्भस्य शरणागतदेहिनः।
कौटसाक्ष्यं सुहृद्धिंसा ब्राह्मणस्य तपोधनाः॥११॥
पृथिवीहरणं तद्वत्पितृव्यस्य तथैव च।

—————————————————————————————————

प्रतिपाद्यतदुत्पत्तिप्रतिबन्धकानां पापानामनिर्ज्ञातस्वरूपाणांपरिहारासंभवात्तत्परिहाराय तत्स्वरूपं वक्तुमारभते—अथात इति। परिहारायेति परित्यागार्थमित्यर्थः। अत एवोक्तं शाबरंभाष्ये—“अधर्मोऽपि विजिज्ञास्यः परिहाराय” इति॥१–९॥यज्ञसंबन्धिन इति। प्रवृत्तयज्ञस्य दीक्षितस्ये-

मातामहस्य विप्रेन्द्रा मातुलस्यनृपस्य च॥१२॥
भार्याभिगमनं तद्वत्प्राहुःप्रासङ्गिकाभिधम्।
स्वमातुःसोदरायास्तुगमनं तद्वदेव तु॥१३॥
मातृष्वसुर्मातृसख्युर्दुहितुर्गमनं तथा।
मातुलानीस्नुषाश्वश्रूगमनं च तथैव च॥१४॥
त्रिपुण्ड्रधारणाभावो भृत्याऽनुद्धूलनं तथा।
पुण्ड्रान्तरस्य विप्रेन्द्रा धारणंतद्वदेव तु॥१५॥
पाशाङ्कुशगदादण्डशङ्खचक्रादिभिर्द्विजाः।
अङ्कनं विग्रहे सन्तः पातकं प्राहुरास्तिकाः॥१६॥
मातापित्रोः स्वसुश्चैव गमनं श्रोत्रियस्य च।
ऋत्विगध्यापकस्यापि मित्रस्य च तथैव च॥१७॥
भार्याभिगमनं तद्वत्स्ववधूसख्युरास्तिकाः। `
स्वगोत्रायास्तथा विप्रकन्यकायास्तथैव च॥१८॥
चतुर्थाश्रमनिष्ठाया निक्षिप्तायास्तथैव च।
पाषण्डेषु च निष्ठानां संबन्धोद्विजपुङ्गवाः॥१९॥
स्वस्यैव शरणं प्राप्तस्त्रियागमनमेव च।
दुर्गादित्यादिदेवानां चालनं विग्रहस्य च॥२०॥
मुख्योपपातकं प्राहुर्महान्तो वेदवित्तमाः।
असत्यमभाषणंतद्वत्पैशुन्यं राजगामि च॥२१॥
गुरोश्चालीकनिर्बन्धो वेदनिन्दा तथैव च।
अधीतायाः श्रुतेस्त्यागः स्वाग्नेस्त्यागस्तथैव च॥२२॥
पितृमातृस्वसृत्यागः स्वभार्यात्याग एवच।

अभक्ष्यभक्षणं , तद्वत्परार्थग्रहणं तथा॥२३॥
परदारनिषेवा च तथाऽयाज्यस्य याजनम्‌।
भृतकाध्यापनं तद्वद्भृताध्ययनमेव च॥२४॥
सर्वाधिकारकरणं महायन्त्रप्रवर्तनम्‌।
द्रुमगुल्मलतादीनां हिंसया जीवनं तथा॥२५॥
अभिचारक्रिया तद्वत्स्वस्यैव पचनं तथा।
अनाहिताग्निता तद्वद्ब्रह्मचर्यविवर्जनम्‌॥२६॥
यज्ञस्याकरणं तद्वत्पुत्रानुत्पादनं तथा।
असच्छास्त्राभिगमनं नास्तिक्यं च कुशीलता॥२७॥
मद्यपस्त्रीनिषेवा च प्राहुर्गौणोपपातकम्‌।
विप्राणां रोगकारित्वमघ्रेयघ्रातिरेव च॥२८॥
सुराघातिं तथा जैह्म्यंपशौपुंसि च मैथुनम्‌।
जातिभ्रंशकरं प्राहुर्धार्मिका वेदपारगाः॥२९॥
ग्राम्यारण्यपशूनां तु हिंसनंमुनिपुङ्गवाः।
संकीर्णकरणं प्राहुः सर्वशास्त्रविशारदाः॥३०॥
निन्दितेभ्यो धनादानमन्नदानं तथैव च।
कुसीदजीवनं चैव वाणिज्यमनृतोक्तिता॥३१॥
शूद्रस्य याजनं प्राहुरपात्रीकरणात्मकम्‌।
पक्षिणां घातनं चापि जलस्थलनिवासिनाम्‌॥३२॥
मद्यस्पृष्टस्य भुक्तिं च प्राहुःसन्तो मलावहम्‌।
अनुक्तानि समस्तानि प्रकीर्णकसमाह्वयम्‌॥३३॥
प्रवदन्ति हि विद्वांसः सत्यधर्मपरायणाः।

अदण्ड्यदण्डनं चैव युद्धे भीत्या पलायनम्‌॥३४॥
क्षत्रियस्य विशेषेण महापातकमुच्यते।
वञ्चनं च तुलामाने महापापं विशो भवेत्‌॥३५॥
मांसस्य विक्रयं चैव सुराविक्रयणं तथा \।
ब्राह्मणीगमनं चापि पयःपानं तु कापिलम्‌॥३६॥
महापापं मया प्रोक्तं शूद्राणां च विशेषतः।
संकराणां द्विजद्वेषो महापातकमुच्यते॥३७॥
पुरुषाणां तथा स्त्रीणां समानं पातकं स्मृतम्‌।
नीचाभिगमनं गर्भपातनं भर्तृहिंसनम्‌॥३८॥
भर्तुः शिष्यस्य गमनं मत्या भर्तृर्गुरोरपि।
विशेषेण स्त्रियाः सन्तः पातकं प्रवदन्ति हि॥३९॥
बहुनाऽत्र किमुक्तेन श्रुतिस्मृत्युदितं विना।
यत्किंचिदपि कुर्वाणः पातकी स्यान्न संशयः॥४०॥
वेदसारतरः कथितस्तु वः शोकमोहसमुद्र-
निवारकः। पातकानि विहाय महामति-
र्देवदेवमनिशं शरणं व्रजेत्‌॥४१॥

इति श्रीस्कन्दपुराणे सूतसंहितायां चतुर्थे यज्ञवैभवखण्डे
पातकविचारकथनं नामैकचत्वारिंशोऽध्यायः॥४१॥

—————————————————————————————————————

त्यर्थः॥१ ०-२४॥महायन्त्रप्रवर्तनमिति। इक्षुयन्त्रादिप्रवर्तनमित्यर्थः २५-४ १

इति श्रीस्कान्दपुराणे सूतसंहितातात्पर्यदीपिकायां चतुर्थे यज्ञवैभवखण्डे
पातकविचारकथनं नामैकचत्वारिंशोऽध्यायः॥४१॥

———

अथ द्विचत्वारिंशोऽध्यायः।

४२. प्रायश्चित्तकथनम्‌।

सूत उवाच—

प्रायश्चित्तरहस्यं वः प्रवक्ष्यामि समासतः।
श्रद्धया सहिता यूयं शृणुत ब्रह्मवित्तमाः॥१॥
वेदान्तवाक्यजं ज्ञानं ब्रह्मात्मैकत्वगोचरम्‌।
बुद्धिपूर्वकृतं पापं कृत्स्नम्दहति वह्निवत्‌॥२॥
कर्तारं कर्म बध्नाति खलु वेदविदां वराः।
ज्ञानिनो नैव कर्तृत्वं कर्तृत्वस्य तु साक्षिणः॥३॥

——————————————————————————————————————

परिहरणीयत्वेनोक्तानां दशविधपातकानां द्वादशवार्षिकादिप्रायश्चित्तंवक्तुमारभते—प्रायश्चित्तेति॥१॥ ब्रह्मात्मैकत्वगोचरमिति।जीवब्रह्मणोरज्ञानकृतभेदभ्रमनिरासेन यत्पारमार्थिकमेकत्वं तद्गोचरं तत्वमस्यादिवेदान्तवाक्यजनितमपरोक्षज्ञानमित्यर्थः। बुद्धिपूर्वकृतमिति। अन्यद्धि प्रायश्चित्तमबुद्धिपूर्वकृतकस्यैव निवर्तकम्‌। अद्वैतात्मविज्ञानं तु बुद्धिपूर्वकृतं प्रमादकृतं चोभयविधमपि पातकं निवर्तयतीत्यर्थः। असहायस्यैव ज्ञानस्य बहुविधपापसंघनिवर्तकत्वं दृष्टान्तेन समर्थयते—वह्निवदिति। भगवता व्यासेनापि स्मर्यते—‘यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन। ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरते तथाइति’॥२॥ ज्ञानस्यप्रतिज्ञातं सर्वपातकनिवर्तकत्वमुपपादयति—कर्तारमित्यादिना। लोके तावत्कर्तुरेव हि यज्ञदत्तादेः स्वकृतकर्मतत्फलसंबन्धात्मको बन्धो नाकर्तुर्देवदत्तादेः। तथाचऽऽत्मानात्मनोर्विवेकं जानानः साक्षिचिन्मात्रस्वरूप आत्माऽपि यदि कर्ता स्यात्तर्हितस्य कर्तृत्वधर्मसंसर्गनिबन्धनपुण्यपापाश्रयत्वलक्षणो बन्धः स्यात्‌। न च तस्य कर्तृत्वमस्ति। तत्साक्षितया ताटस्थ्याल्लौकिकसाक्षिवत्स हि विवदमानयोर्म-ध्यस्थःसन्केवलंजयपराजयलक्षणौतद्वयवहारौ साक्षात्करोति न तु ताभ्यां संसृज्यते। एवं कर्तृत्वस्यसाक्षिणोऽपि न तत्संसर्गइत्यर्थः।

————————————————————————————————

अयमभिप्रायः—कर्तृत्वं नाम क्रियाश्रयत्वम्‌। तच्च सर्वगतस्यनित्यस्याऽऽत्मनो न संभवति। तस्याऽऽकाशवन्निष्क्रियत्वात्‌। तदाश्रयत्वे ‘उपयन्नपयन्धर्मो विकरोति हि धर्मिणम्’इति न्यायेनानित्यत्वप्रसङ्गाच्च। नापि देहस्य कर्तृत्वम्‌। तस्य सत्यपि क्रियाश्रयत्वेऽचेतनत्वेन तदनुपपत्तेः। चेतनोहि ममेदमिष्टसाधनमिति जानञ्ज्ञानंकर्मक्रमेणानुतिष्ठन्कर्ताभवति। यदि देहस्यैव कर्तृत्वं स्यात्तदा यागादिक्रियाश्रयस्य तस्य भस्मीभूतत्वाद्देहातिरिक्तस्याकर्तुरात्मनो लोकान्तरोपभोग्यं स्वर्गनरकादिफलं निर्हेतुकंस्यात्‌ ‘कर्तुरेव फलम्‌’ इति नियमात्‌। तथाचपारमर्षंसूत्रम्‌ ‘शास्त्रफलं प्रयोक्तरि तल्लक्षणात्‌’ इति। न च देहातिरिक्तस्य प्राणस्यैव कर्तृत्वमिति वाच्यम्‌। तस्य सुषुप्त्यवस्थायां सद्भावेऽपि विशेषज्ञानादर्शनादचेतनत्वेनोक्तदोषानुवृत्तेः। नापि चक्षुरादीन्द्रियाणामेव कर्तृत्वम्‌। तेषां करणत्वेन कर्तुरन्यत्वावश्यं-भावात्‌। अत एवान्तःकरणस्यापि न कर्तृत्वम्‌। ननु न क्रियाश्रयत्वमात्रं कर्तृत्वंयेन निष्क्रियस्याऽऽत्मनो न स्यात्किंतु प्रयत्नगुणाश्रयत्वत्मपि तदिति चेतनस्याऽऽत्मनः कर्तृत्व॑ किं न स्यादिति चेत्‌। मैवम्‌। उपगमापगमयुक्तप्रय-त्नलक्षणधर्माश्रयत्वेप्रागुक्तन्यायेनाऽऽत्मनो विकारित्वप्रसङ्गेनानित्यत्वंस्यात्‌। अतः परैरात्मनो गुणत्वेनाभिमता बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नादय आन्तरत्वेन प्रतीयमानाः सर्वेधमो विकारिणोऽन्तःकरणस्यैव न त्वविक्रियस्याप्यात्मन इत्यनिच्छताऽप्यङ्गीकार्यम्‌। अत एव साक्षिभूतस्याऽऽत्मनो निर्गुणत्वमाम्नायते—“साक्षी चेता केवलो निर्गुणश्च” इति। एवं च परेषामपि संसार्यात्मनि कर्तृत्वलक्षणधर्मसंसर्गप्रतीतिरयो दहतीत्यादिवत्क्रियाश्रयदेहादिधर्मितादात्म्याध्यासनिबन्धनैवन तु पारमार्थिकी। अत एव देहादिसंघातविशिष्टस्याऽऽत्मनो भोक्तृत्वमाम्नायते—‘आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः’ इति। गीतासु च स्मर्यते—‘अधिष्ठानं तथा कर्ताकरणं च पृथग्विधम्‌। विविधा च पृथक्चेष्टा दैवं चैवात्र पञ्चमम्‌। शरीरवाङ्मनोभिर्यत्कर्म प्रारभतेनरः। न्याय्यं वा विपरीतं व। पञ्चैते तस्य हेतवः’ इति। एवं चाऽऽत्मानात्मविवेकज्ञानेन देहादिधर्मतादात्म्याध्यासनिवृत्या तद्धर्मभूतक्रियाश्रयत्वादिधर्मसंसर्गानिवृत्तिरितिसिद्धम्‌। साक्षिभूतस्य चिन्मात्रस्वरूपस्य केवल्स्याऽऽत्मनोऽकर्तृत्वम्‌। स्मर्यते हि—“तत्रैवं सति कर्तारमात्मानं केवलं

कायिकं वाचिकं चैव मानसं कर्मनान्यथा।
तथा सति कथं कर्मभवेत्तत्साक्षिरूपिणः॥४॥
घटवद्दृश्यभूतस्य शरीरस्य तु साक्षिणः।
चिद्रूपमात्मना पश्यन्कथंबध्येत कर्मणा॥५॥
इन्द्रियाणां समस्तानां सदा साक्षिस्वरूपिणम्‌।
चिद्रुपमात्मना पश्यन्कथंबध्येत कर्मणा॥६॥
प्राणापानादिभेदेन विभक्तस्य तु साक्षिणम्‌।
चिद्रूपमात्मना पश्यन्कथं बध्येत कर्मणा॥७॥
संकल्पलक्षणस्यास्य मनसः साक्षिरूपिणम्‌।
चिद्रूपमात्मना पश्यन्कथंबध्येत कर्मणा॥८॥
निश्चयात्मकविज्ञानसाक्षिणं ब्रह्मवित्तमाः।
चिद्रूपमात्मना पश्यन्कथं बध्येत कर्मणा॥९॥

______________________________________________________________________________

तु यः। पश्यत्यकृतबुद्धित्वान्नस पश्यतिदुर्मतिः’ इति।एवं केवलस्याकर्तुरात्मनः कर्मसंबन्धाभावाद्देहादितादात्म्याध्यासेन कृतं पातकशतमपि न स्पृशतीतिं सिद्धमकर्त्रात्मज्ञानस्य सकलपापनिवर्तकत्वम्॥३॥ एतदेव कर्तृत्वमुपपादयाति—कायिकमित्यादिना। कायिकादिभेदेन त्रिधाऽवस्थितं कर्मदेहादितादात्म्याध्यासवतः कर्त्रात्मन एव बन्धकं नतु विवेकज्ञानेन निवर्तिततादात्म्यस्य। देहादिसंबन्धिन एवत्रिविधं कर्मनान्यस्य चिन्मात्रस्वरूपस्य तत्कर्मसाक्षिण इत्यर्थः॥४॥ ननु देहेन्द्रियप्राणमनोबुद्ध्यहंकारादिसाक्ष्यगतमेव कर्मतत्तत्साक्षिरूपेणावस्थितस्याऽऽत्मनो बन्धकं किं न स्यादित्याशङ्क्य क्रमेण निरस्यति-घटवदित्यादिना। देह आत्मा न भवति दृश्यत्वाद्घटवदिति देहस्यानात्मत्वं विवेकज्ञानेन निश्चित्य तद्विविक्तं तत्साक्षिणं चिन्मात्रस्वरूपिणमात्मानमात्मना प्रकाशान्तरनिरपेक्षेण स्वरूपप्रकाशेनैव पश्यन्देहाद्याश्रितेन कर्मणाकथं बद्धः स्यात्‌। घटगतरूपादिवच्छरीराश्रित-

अहंकारस्य दुःखादिविशिष्टस्य तु साक्षिणम्‌।
चिद्रूपमात्मना पश्यन्कथंबध्येत कर्मणा॥१०॥
चेतनालक्षणस्यास्य चित्तसंज्ञस्य साक्षिणम्‌।
चिद्रूपमात्मना पश्यन्कथंबध्येत कर्मणा॥११॥
देहेन्द्रियादिसंघातसाक्षिणं निरुपद्रवम्‌।
चिद्रूपमात्मना पश्यन्कथंबध्येत कर्मणा॥१२॥
जाग्रत्स्वप्नसुषुप्त्याख्यावस्थासाक्षिणमव्ययम्‌।
चिद्रूपमात्मना पश्यन्कथं बध्येत कर्मणा॥१३॥
सच्चिदानन्दसंपूर्णलक्षणं तमसः परम्‌।
ब्रह्मात्मानं सदा पश्यन्कथं बध्येत कर्मणा॥१४॥

—————————————————————————————————————

कर्मणोऽपि विविक्तत्वेन तत्संबन्धविरहादित्यर्थः। एवमुत्तरत्रापि दृश्यत्वहेतुना साक्ष्यस्येन्द्रियादेः साक्षिणः सकाशाद्धटादिवदेव विविक्तत्वमिति तदाश्रितकर्मणा तत्साक्षिणो बन्धो न युक्त इत्ययमर्थः सर्वत्रयोजनीयः॥५- ११॥ ननु देहेन्द्रियादीनां दृश्यत्वेन घटवद्विविक्तत्वात्प्रत्येकं तदाश्रितकर्मणा बन्धासंभवेऽपितत्संघाताश्रितेन कर्मणा बन्धः किंन स्यादित्याशङ्क्याऽऽहदेहेन्द्रियादीति॥१२॥देहादिविवेकप्रतिपादितेनैव जाग्रदाद्यवस्थानामपि दृश्यतयाऽतिविविक्तत्वात्तदाश्रितेनापि कर्मणाबन्धो न घटत इत्याह—जाग्रदिति॥१३॥एवं साक्षित्वाकारेण साक्ष्याद्देहादेर्विविच्य साक्षित्वस्यापि साक्ष्यप्रतियोगित्वेनौपाधिकत्वात्तन्निर्मुक्तिं प्रत्यगात्मनः पारमार्थिकं रूपं दर्शयति—सच्चिदिति। जीवात्मनोऽपि परशिववत्सच्चिदानन्दरूपत्वंहंसमन्त्रार्थकथनावसरे ‘अहं चाव्यभिचारित्वात्स्वस्वभावोन संशयः’ इत्यादिना सप्तमेऽध्याये प्रागेव प्रतिपादितम्‌। तमसः परमिति। स्वस्वरूपस्याऽऽच्छादकाद्देहेन्द्रियाद्युपादान भूताद्भावरूपाज्ज्ञानात्परं विविक्तमित्यर्थः। स ईदृग्विधमात्मानमहं ब्रह्मास्मीति नित्यशुद्धबुद्धमुक्तस्वभावब्रह्मस्वरूपतयाजानन्कर्मणा कथं बध्येतेत्यर्थः॥१४॥

अविक्रियमसङ्गंच परिशुद्धं सदोदितम्‌।
आत्मानमात्मना पश्यन्कथं बध्येत कर्मणा॥१५॥
सदाऽऽकाशादिभूतानां शब्दादीनां च साक्षिणम्‌।
आत्मानमात्मना पश्यन्कथं बध्येत कर्मणा॥१६॥
अनियोज्यमकर्तारमभोक्तारं परामृतम्।
आत्मानमात्मना पश्यन्कथं बध्येत कर्मणा॥१७॥

————————————————————————————————————————————

ननुदृशिक्रियया व्याप्यत्वादुक्तस्य ब्रह्मात्मभावस्यकर्मत्वमवसीयते। परसमेतक्रियाजन्यफलभाक्त्वात्तन्निमित्तो बन्धः किं न स्यादित्यत आह-अविक्रियमिति। क्रियाजन्यफलं हि चतुर्विधं कर्मकारकगतमुत्पत्तिविकृतिप्राप्तिसंस्कृतिरूपम्‌। तच्चतुष्टयमत्र विशेषणैर्निरस्यते। एवंलक्षणस्याऽऽत्मनो नित्यत्वेन विकारासंभवाद्विक्रियाहेतोर्वस्त्वन्तरा-भावाच्चाविक्रिय एव स इति न तस्य विकार्यकर्मत्वम्‌। “असङ्गोह्ययंपुरुषः” इति श्रुतेः केनचिदप्यसौ न संबध्यत इत्यसङ्गः। अतः प्राप्तिकर्मत्वमस्य न भवति। संस्कारश्च द्वेधा गुणाधानलक्षणो मलापकर्षणलक्षणश्चेति। तत्रानाधेयातिशयत्वेनाऽऽत्मनस्तावदाद्यो न युक्तः। द्वितीयं प्रत्याह— परिशुद्धमिति। पूर्वोत्तरकालयोरिव जगद्भूमावस्थायामप्यविद्यातत्कार्यसंस्पर्शकृतस्यमलस्यपरमार्थतो विरहात्स्वत एव परिशुद्ध इति मलापकर्षणलक्षणसंस्करोऽपि तत्र निष्प्रयोजन इत्यर्थः। नाप्युत्पाद्यकर्मत्वम्‌। स्वप्रकाशसाक्षिरूपेण सर्वदाभावत्वोनोत्पाद्यत्वाभावादित्याह—सदोदितामिति॥१५॥ ननु मा भृद्भौतिकदेहादितादत्म्याध्यासनिबन्धनो बन्धः। वियदादिभूततादात्म्यनिबन्धनस्तु किं न स्यादित्यत आह—सदेति॥१६॥ अनियोज्यमिति। नियोज्यत्वधर्माविशिष्टस्यैवह्मात्मनः कर्मण्यधिकारस्तस्यैव कर्मनिबन्धननिमित्तको बन्धो न तु चिन्मात्रस्वरूपस्य केवलात्मन इत्यर्थः॥१७॥ ननु माभूदुक्तरीत्याऽऽत्मनःकर्तृत्वंक्रियाजन्यफलभागित्वं च प्रमाणप्रेरकत्वलक्षणं प्रमातृत्वं स्वगोचरप्रमाविषयत्वं च किं न स्यादि त्यतआह—प्रमातीतमिति। चिदात्मनः प्रमाणसाक्षित्वमेव केवलं न तु तत्प्रेरकत्वमहंकारविशिष्टस्यैव तत्प्रेरकत्वात्‌। सम्यगर्थविषयाऽन्तःकरणवृत्तिः

स्वयंभातं प्रमातीतंप्रमाणानां च साक्षिणम्‌।
आत्मानमात्मना पश्यन्कथं बध्येत कर्मणा॥१८॥
आविर्भावतिरोभावसंकोचरहितं सदा।
आत्मानमात्मना पश्यन्कथंबध्येत कर्मणा॥१९॥
सर्वसाक्षिणमात्मानं सर्वहीनं तु वस्तुतः।
आत्मानमीश्वरं पश्यन्कथंबध्येत कर्मणा॥२०॥
स्वस्मिन्नध्यस्तरूपस्य प्रपञ्चस्य तु साक्षिणम्‌।
आत्मानमात्मना पश्यन्कथं बध्येत कर्मणा॥२१॥

————————————————————————————————————————————

प्रमा साऽपि सोपाधिकमेवस्वरूपं विषयीकरोति न तूक्तविधं निरुपाधिकस्वरूपमिति प्रमामतीत्यवर्तत इत्यर्थः। ननु स्वसत्ताबोधकप्रमाविषयत्वाभावेकथंतत्स्वरूपासिद्धिरिति तत्राह–स्वयंभातमिति॥१८॥ आविर्भावेति। अस्वप्रकाशस्यघटादेः स्वगोचरज्ञानेनाऽऽविर्भावस्तद्राहित्ये तुतिरोभाव इत्येवमनात्मनः संकोचो भवति न तु स्वयंप्रकाशस्यचिदात्मनः।स्वसत्ताप्रकाशव्यतिरेकविरहादित्यर्थः॥१९॥ ननु घटपटादिविभिन्नसाक्ष्यसत्वे घटसाक्षीति विशिष्टरूपेण साक्षिणोऽपि भेदः प्रतीयते तथा च यदा घटसाक्षी न तदा पटसाक्षीति घटादिवदेव साक्षिणोऽप्याविर्भावतिरोभावलक्षणः संकोचः किं न स्यादित्यत आह—

सर्वसाक्षिणमिति। एक एव हि चिदात्मा सर्वस्य घटपटादेः साक्षी तस्यसर्वसाक्ष्यभासकत्वोपाधिना सर्वदा भानमस्तीति न संकोच इत्यर्थः। ननुतस्याऽऽत्मनः सर्वसाक्षित्वं सर्वकृतं चेत्तद्वदेव साक्ष्यस्यापि सर्वस्य सर्वदाऽवस्थानप्रसङ्ग इत्यत आह—

सर्वहीनमिति। नन्‍वेतत्सर्वसाक्षित्वंसर्वहीनत्वं चोभयं व्याहतमित्यत आह—

वस्तुत इति। परमार्थोपाधौ सर्वहीनत्व॑ मिथ्योपाधौ स्वसाक्षित्वमिति वास्तवावास्तवभेदेनाविरोध इत्यर्थः। एवं साक्ष्युपलक्षितस्य चिन्मात्रस्वरूपस्याऽऽत्मनः प्राकृताद्देहेन्द्रियाद्यनात्मनः सकाशाद्विवेकख्यातिरेव श्रेयःसाधनमिति सांख्यं तन्निरस्यति—

आत्मा नमीश्वरमिति॥२०॥ नन्वात्मनः सर्वहीनत्वमयुक्तं प्रतिभासमानस्यप्रपञ्च—

निर्लेपं निर्मलंसूक्ष्मंनिरस्तसकलक्रियम्‌।
आत्मानमात्मना पश्यन्कथं बध्येत कर्मणा॥२२॥
भूमानन्दं बुभुत्सोस्तु स्वरूपं भोगवर्जितम्‌।
आत्मानमात्मना पश्यन्कथं बध्येत कर्मणा॥२३॥
प्रेरकत्वादिनिर्मुक्तं प्रियाप्रियविवर्जितम्‌।
आत्मानमात्मना पश्यन्कथं बध्येत कर्मणा॥२४॥
नेति नेतीति वेदान्तैर्निरस्तस्वविलक्षणम्।
आत्मानमात्मना पश्यन्कथं बध्येत कर्मणा॥२५॥
अनण्वह्रस्वमस्थूलमदीर्घंसत्यचिद्धनम्‌।

———————————————————————————————————————————————————

स्यापलात्पासंभावादित्यत आह—

स्वस्मिन्निति। शुक्त्यादौ रजतादिवत्स्वात्मनि मायापरिकल्पितः प्रपञ्च; स्वाधिष्ठानरूपेण साक्षिणा भास्यते तस्य च रजतादिवदेवाधिष्ठानयाथात्म्यज्ञानेन निवृत्तेः प्रतिपन्नोपाधावभावप्रतियोगित्वेन मिथ्यात्वात्तत्प्रतीतिबाधसक्षिण आत्मनो वस्तुतः सर्वहीनत्वमित्यर्थः॥२१॥ एवं कार्यप्रपञ्चस्यमिथ्यात्वंप्रसाध्य कारणभूतमज्ञानमपि तस्मिन्वस्तुतो नास्तीत्याह—

निर्मलमिति। कार्यानुरूपं हि कारणं कल्पनीयं कार्यं च मिथ्याभूतं दृष्टमिति तत्कारणत्वेन कल्पितमज्ञानमपि तादृशमेवेति तदपि तस्मिन्वस्तुतः सर्वदा नास्तीत्यर्थः। एवमज्ञानसंबन्धाभावात्तद्विलासक्रियासंबन्धोऽपि नास्तीत्याह—

निरस्तेति। निर्लेपमिति। उक्तरीत्याक्रियासंस्पर्शाभावात्तज्जनितपुण्यपापलेपरहितमित्यर्थः। अत एव भगवतोक्तम्‌ ‘न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा’ इति।नन्वीदृशमात्मतत्त्वंकस्मात्सर्वैर्नानुभूयत इत्यत आह—

सूक्ष्ममिति। प्रतिबन्धकपापजनितप्रत्यूहप्राचुर्यादसंस्कृतचित्तैः स्थूलदर्शिभिर्विकल्पहेत्वभावेनात्यन्तनिर्विकल्पकमात्मतत्वंतन्नद्रष्टुंशक्यमित्यर्थः॥२२-२४॥ उक्तं सर्वविहीनत्वं श्रुतिसंवादेन प्रपञ्चयति—

नेतीति। ‘द्वे वाव ब्रह्मणो रूपे मूर्तं चैवामूर्तंच’इति प्रक्रम्य ‘अथात आदेशो नेति नेति’ इति मूर्तामूर्तसकलानात्मप्रपञ्चनिषेधस्य श्रुतत्वादपि स्वात्मव्यतिरिक्तं नास्तीत्यर्थः॥२५॥

आत्मानमात्मना पश्यन्कथं बध्येत कर्मणा॥२६॥
अज्ञानजन्यकर्त्रादिकारकोत्पन्नकर्मणा।
श्रुत्युत्पन्नात्मविज्ञानप्रदीपो बाध्यते कथम्‌॥२७॥
अज्ञानान्धतमोरूपं कर्मधर्मादिलक्षणम्‌।
स्वप्रकाशकमात्मानं नैव संस्प्रष्टुमर्हति॥२८॥
आदित्यं शार्वरं यद्वत्तमो न स्पृशति स्वतः।
चित्प्रकाशमहादित्यं तमोरूपक्रिया तथा॥२९॥

———————————————————————————————————————————————————

उक्तपुण्यपापलेपादिसकलधर्मराहित्यमेव श्रुतिप्रमाणसिद्धापिति दर्शयति-अन-ण्वह्रस्वमिति। ‘एतद्वै तदक्षरं गार्गि बाह्मणा अभिवदन्त्यस्थूलमनण्वह्रस्वमदीर्घमलोहितम्‌’ इत्यादिना स्थौल्यादिसर्वधर्मनिषेधावधितयाऽतद्व्यावृत्तिमुखेन श्रुत्या प्रतिपादितमियर्थः। नन्वेवं स्वधमोनिषेधेऽन्ततः शून्यमेत्र पर्यवस्येन्न हि निर्धर्मकं किंचिदस्तीत्यत आह—

सत्यचिद्धनमिति। यदनुवेधात्सर्वं जगदस्ति भातीति प्रतीयते तत्सच्चिन्मात्रं सर्वाधिष्ठानमवशिष्यत इति न शून्यपर्यवसानमित्यर्थः। न च सच्चितोर्भेदाशङ्का तयोरकेतरत्वादिति घनशब्दार्थः। अत एव सैन्धवखिल्यदृष्टान्तेनैकरसत्वमाम्नायते—‘

एवं वा अर इदं महद्भूतमनन्तमपारं विज्ञानघन एव’ इति॥२६॥ अज्ञानजन्येति। क्रियानिष्पादकस्य कर्तृकरणकर्मादिकारकज्ञानस्य सर्वस्याज्ञानकार्यत्वादज्ञानस्य चाधिष्ठानब्रह्मयाथात्म्यज्ञानेन निवृत्तेरुपादाननिवृत्त्या कार्यस्य कर्मणोऽपि निवृत्तिः सिद्धेति निस्वरूपेण कर्मणा कथं निरवद्यब्रह्मात्मतया स्वात्मानमनुसंदधानस्य बन्धाशङ्का न हि रज्जुयाथात्म्यज्ञानेन निवर्तितः सर्पः पुरुषस्य भ्रान्तिं जनयति तद्विदित्यर्थः॥२७॥ एवं ज्ञानाज्ञानयोर्निवर्त्यनिवर्तकतामुपजीव्य ज्ञानिनां बन्धाभाव उक्तः। अथ तत्स्वरूपपर्यालोचनया संस्पर्शोऽप्यज्ञानस्याऽऽत्मना सह दुर्घट इत्याह—

अज्ञानेति। अज्ञानं नाम तमोवदाच्छादकं चित्प्रकाशविरोधिभावरूपं न तु ज्ञानाभावस्तथा सति कार्यरूपेण क्रियातत्साधनफलाद्यात्मना व्यवस्थितं तत्कथं स्वविरोधिस्वप्रकाशचिदात्मानं स्पृशेदित्यर्थः॥२८॥ एतदेव दृष्टान्तमुखेनोपपादयति—

आदित्यमिति। शार्वरस्य तमसोऽप्यालो—

तमोरूपो रविं राहुः समाश्रित्य प्रतीयते।
यत्प्रकाशेन संबन्धस्तयोर्नास्ति तथाऽपि तु॥३०॥
तद्वदज्ञानतत्कार्यं समाश्रित्य स्वयंप्रभम्‌।
तद्भासा भाति संबन्धस्तयोर्नास्ति तथाऽपि तु॥३१॥
कर्मसंबन्धमज्ञानादात्मनो मन्यते भ्रमात्‌।
विदुषो न भ्रमस्तस्मात्कर्मणा नास्ति संगतिः॥३२॥
तस्माद्देहादिसघातेऽहंमतिं कुरुते तु यः।
तस्यैव कर्मणा योगः संभ्रान्तस्य सदा बुधाः॥३३॥

———————————————————————————————————————————————————————

काभावमात्रत्वं निवर्त्य भावत्वं प्रतिपदितम्‌। ‘तमः खलु चलं नीलं परावरविभागवत्‌। प्रसिद्धद्रव्यवैधर्म्यान्नवभ्यो भेत्तुम-र्हति’इति॥ तद्वदज्ञनतमसोऽपि भावरूपत्वमिति तमःशब्दमज्ञानं निर्दिशतोऽभिप्रायः॥२९॥ नन्वज्ञानस्य स्वप्रकाशचिदात्मना संस्पर्शो न चेत्कथं तस्य संसारदशायां प्रतीतिरित्याशङ्क्य सदृष्टान्तमुपपादयति—

तमोरूप इति। यत्प्रका-शेनेति। यस्याऽऽश्रयभूतस्य सूर्यस्य प्रकाशेन प्रतीयत इत्यन्वयः। यद्यप्येवं तथाऽपि तयोः परस्परं संबन्धो नास्ति। सूर्यलक्षान्तरे राहोर्विप्रकृष्टदेशवर्तित्वेन व्यवधानात्‌। यथैव हि संबन्धाभवेऽपि रहोः सूर्यप्रकाशेन प्रतीतिराश्रयबलात्तथैवाज्ञनकार्यमसङ्गोदासीनमपि स्वप्रकाशचिदात्मानमाश्रित्य तदीयप्रकाशेन भासते। तावन्मात्रेण तयोः संबन्धो वस्तुतो नस्तीत्यर्थः॥३०॥३१॥ ननु ‘एष ह्येव साधु कर्म कारयति तम्‌’इत्यादिना प्रत्यगात्मनः कर्मसंबन्धः श्रुत्यैव प्रतिपादित इत्यत आह—

कर्मेति। अज्ञाननिमित्तकाद्देहादितादात्म्यभ्रमादेवाऽत्मनः कर्मसबन्धो न वास्तवः। उदाहृतश्रुतेः स्वभ्रमसिद्धमेव तमुपजीव्येश्वरस्य फलप्रदातृत्वप्रतिपादने तात्पर्यम्‌। ज्ञानिनस्तु परविद्यया भ्रममूलस्याज्ञानस्य निवर्तनात्कर्मसंबन्धो नस्तीत्यर्थः॥३२॥ एवं देहादितादात्म्यभ्रमवत एव कर्मसंबन्धो न तु तद्विविक्तस्य विशुद्धात्मज्ञानवत इति प्रतिपादितमर्थमुपसंहरति—

तस्मादीति। व्यासेनापि देहादावहमभिमानही-

यस्तु विज्ञानसंपन्नः कर्मणा तस्य संगतिः।
नैव सत्यं मया प्रोक्तं नास्ति संदेहकारणम्‌॥३४॥
तस्माद्ब्रह्मात्मविज्ञानं शाब्दं देशिकपूर्वकम्‌।
बुद्धिपूर्वकृतं पापं कृत्स्नं निर्दहति क्षणात्‌॥३५॥
अपरोक्षात्मविज्ञानं शाब्दं देशिकपूर्वकम्‌।
संसारकारणाज्ञानतमसश्चण्डभास्करः॥३६॥
महापातकपूर्वाणां पातकानां मुनीश्वराः।
रहस्यानां प्रसिद्धानां प्रायश्चित्तं हि वेदनम्‌॥३७॥
अपरोक्षात्मविज्ञानवतां नैवास्ति पातकम्‌।
प्रायश्चित्तं परिज्ञानं परोक्षज्ञानिनां नृणाम्‌॥३८॥

—————————————————————————————————————————————————————

नस्य कर्मणा संबन्धाभावः स्मर्यते—“यस्य नाहंकृतो भावो बुद्धिर्यस्यन लिप्यते। हत्वाऽपि स इमाल्ँलोकान्न हन्ति न निबध्यते’इति॥३३॥३४॥ वेदान्तवाक्यजं ज्ञानमिति यत्प्राक्प्रतिपादितंतदुपसंहरति—तस्मादिति। अहं ब्रह्मास्मीति यज्जीवपरतादात्म्यगोचरमाचार्योपदिष्टंवेदान्तवाक्यजनितं यन्निर्विचिकित्संपरोक्षज्ञान तद्बुद्धिपूर्वकृतमपिसर्वपापजालंनिर्दहतीत्यर्थः॥३५॥ अपरोक्षात्मविज्ञानमिति। आत्मन्यपरोक्षेण भासमानस्याविद्यातत्कार्यभूत देहेन्द्रियादिभ्रमस्यापरोक्षात्मयाथात्म्यज्ञानव्यतिरेकेण निवृत्त्यनुपपत्तेः परोक्षज्ञानेन केवलमज्ञानकार्यस्यपापसंघस्यैव प्रायश्चित्तेनैव नाशो न तु मूलाज्ञानस्य। अपरोक्षब्रह्मात्मज्ञानं तु स्वात्मन्यध्यस्तसर्वानर्थनिदानसंसारकारणभूतं भावरूपम ज्ञानं समूलं नाशयतीत्यर्थः॥३६॥ एवं परोक्षापरोक्षरूपेण ब्रह्मात्मविज्ञानस्य द्वैविध्यमभिधाय तत्रपरोक्षज्ञानस्य प्रायश्चित्तरूपतामाह- महापातकेति॥३७॥ नैवास्तिपातकमिति। सति हि पातके तत्परिहाराय प्रायश्चित्तमनुष्ठेयं देहादिव्यतिरिक्तस्य चिन्मात्रस्य प्रत्यगात्मनः परशिवस्वरूपसाक्षात्कारेण तत्स्वरूपाच्छादकाविद्यानिवृत्तौ तत्कार्यकर्तृत्वादिनिवृत्तेःपातकप्रसक्तिरेव नास्तीत्यपरोक्ष ज्ञानस्यसंसारकारणाविद्यानिवृत्तिरेव फलमित्यर्थः। ‘प्रायश्चित्तं परिज्ञानं

तेषां निष्ठामविज्ञाय मनुष्याश्चर्मचक्षुषा।
विलोक्य पातकैर्युक्तान्मन्वते सत्तमानपि॥३९॥
यथा ब्रह्मात्मविज्ञानं पातकानां मुनीश्वराः।
प्रायश्चित्तं मया प्रोक्तं तथैव ब्रह्मभावना॥४०॥
श्रुत्याचार्यप्रसादेन सर्वं ब्रह्मेति भावयन्‌।
मुच्यते पातकैः सर्वैर्घटिकामात्रतो नरः॥४१॥
दिनार्धं सकलं ब्रह्म भावयन्गुरुपूर्वकम्‌।
बुद्धिपूर्वकृतैः सर्वैः पातकैर्मुच्यते नरः॥४२॥
विग्रहं परतत्त्वस्य त्रिनेत्रं साम्बमद्भुतम्‌।
मुहूर्तं चिन्तयन्मर्त्यो मुच्यते सर्वपातकैः॥४३॥
स्वस्वरूपानुसंधानान्नृत्यन्तं सवेकारणम्‌।
मुहूर्तं चिन्तयन्मर्त्यो मुच्यते सर्वपातकैः॥४४॥
नृत्यमानं माहादेवं साम्बमूर्तिधरं तु वा।
दिनार्धं चिन्तयन्पापात्प्रसिद्धान्मुच्यतेऽखिलात्‌॥४५॥
त्रिमूर्तीनां तु रुद्रस्य विग्रहं चिन्तयन्दिनम्‌।
महापातकसंघैश्च मुच्यते पातकान्तरैः॥४६॥

———————————————————————————————————————————————————————

प्रायश्चित्तं हि वेदनम्‌’ इति परोक्षब्रह्मात्मज्ञानस्य प्रायश्चित्तरूपत्वप्रतिपादनेन तदेतत्परोक्षज्ञानिविषयमित्यर्थः॥३८॥३९॥यथा ब्रह्मेति। निर्विचिकित्सपरोक्षब्रह्मात्मविज्ञानेनैव प्रायश्चित्तरूपेण यथा सर्वपापनिवृत्तिस्तथा श्रुत्यचार्यमुखादायासप्रतिपन्नस्य ब्रह्मात्मभावनस्य ध्यानमपि प्रायश्चित्तं भवतीत्यर्थः॥४०॥ श्रुत्याचार्यप्रसादेनेति। ‘सर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपासीत’इति श्रुत्यर्थं गुरुमुखादधिगत्य यत्स्थावरजङ्गमात्मकं सर्वं यथावद्ब्रह्म भावयेत्तर्ह्युपासनमपि सर्वपातकनिवृत्तिहेतुरित्यर्थः॥४१॥४२॥

दिनत्रयमभिध्यायन्रुद्रमूर्तिमतन्द्रितः।
मुच्यते पातकैः सर्वैः प्रसिद्धैर्नात्र संशयः॥ ४७॥
विष्णोश्च विग्रहं ध्यायन्मर्त्यः शुद्धं दिनत्रयम्‌।
महापातकसंघैश्च मुच्यते पातकान्तरैः॥ ४८॥
सप्तरात्रं महाविष्णोर्विग्रहं चिन्तयन्नरः।
मुच्यते पातकैः सर्वैः प्रसिद्धैर्नात्र संशयः॥ ४९॥
ब्रह्मणो विग्रहं शुद्धं सप्तरात्रं विचिन्तयन्‌।
महापातकसंघैश्च मुच्यते पातकान्तरैः॥ ५०॥
मासमात्रमभिध्यायन्ब्रह्मणो विग्रहं परम्‌।
मुच्यते पातकैः सर्वैः प्रसिद्धैर्नात्र संशयः॥५१॥
जपित्वा दशसाहस्रं मन्त्रं चैतन्यवाचकम्‌।
महापातकसंघैश्च मुच्यते पातकान्तरैः॥५२॥
पातकानां समस्तानां लाघवापेक्षया कमात्‌।
जपेऽपि लाघवं कायं चिन्मन्त्रस्य क्रमेण तु॥५२॥
पदंद्वादशसाहस्रंजपित्वा मातृकाश्रयम्‌।
महापातकसंधैश्च मुच्यते पातकान्तरैः॥५४॥
पातकानां समस्तानां लाघवापेक्षया क्रमात्।
जपेऽपि लाघवं कार्यं पदाख्यस्य मनोरपि॥५५॥
जपित्वा लक्षमेकं तु प्रणवं ब्रह्यवाचकम्‌।

———————————————————————————————————————————————————————

निर्गुणब्रह्मज्ञानवत्सगुणब्रह्मोपासनस्यापि प्रायश्चित्तरूपतामभिधाय स्वलीलास्वीकृतमूर्तिघ्कानमपि सर्वपातकप्रायाश्चित्तमित्याह—

विग्रहमित्यादिना॥४९—

५१॥ मन्त्रं चैतन्यवाचकमिति। स च भुवनेश्वरीमन्त्रः॥५२॥ ५३॥

महापातकसंघैश्च मुच्यते पातकान्तरैः॥५६॥
कण्ठमात्रोदके लक्षं जपित्वा हंसमन्त्रकम्‌।
महापातकसंघैश्च मुच्यते पातकान्तरैः॥५७॥
नाभिमात्रोदके लक्षं जपित्वा तु षडक्षरम्‌।
महापातकसंघैश्च मुच्यते पातकान्तरैः॥५८॥
कण्ठमात्रोदके लक्षं जपित्वा व्याहृतित्रयम्‌।
महापातकसंघैश्च मुच्यते पातकान्तरैः॥५९॥
वाग्यतस्तु जपेल्लक्षं सावित्रीमादरेण तु।
महापातकसंघैश्च मुच्यते पातकान्तरैः॥६०॥
सव्याहृताः सप्रणावाः प्राणायामास्तु षोडश।
अपि भ्रूणहनं मासात्पुनन्त्यहरहः कृताः॥६१॥
गवां गोष्ठे तु भिक्षाशी पावमानीर्जपन्मुदा।
वत्सरात्पातकैः सर्वैर्मुच्यते न हि संशयः॥६२॥
दशवारं जपेन्नित्यं पावमानीर्महामतिः।
गवानुगमनं प्रोक्तं गोघ्नस्यैव न चान्यथा॥६३॥
उपवासत्रयं कृत्वा कण्ठमात्रोदके स्थितः।
मुच्यते पातकैः सर्वैस्त्रिर्जपित्वाऽघमर्षणम्‌॥६४॥
गायत्र्यष्टसहस्रं तु जपित्वा तु दिने दिने।
सप्ताहात्सर्वपापेभ्यो मुच्यते भैक्षभुङ्नरः॥६५॥

—————————————————————————————————————————————————————————

मातृकाश्रयामिति। मातृकारूपेण स्थितं पदाख्यंमन्त्रमित्यर्थः॥५४—

६॥ पावमानीर्जपन्निति। पवमानसोमदेवताका ऋचः पावमान्यः॥६२॥६३॥ त्रिर्जपित्वाऽघमर्षणमिति। ‘ऋतं च सत्यं च’इति सूक्तमघमर्षणम्‌॥६४॥६५॥ कूष्माण्डैरिति। ‘यद्देवा देवहेडनम्‌’इत्यादिकाः स्वयंभुवकाण्डसमा-

उपवासत्रयं कृत्वा चत्वारिंशद्घृताहुतीः॥
कूष्माण्डैर्जुहयात्सर्वपापेभ्यो मुच्यते नरः॥६६॥
जपित्वा शिवसंकल्पमस्यवामीयमेव च।
सुवर्णस्तेयदोषेण मुच्यते न हि संशयः॥६७॥
जपित्वा पौरुषं सूक्तं हविष्पान्तीयमेव च।
गुरुतल्पगदोषेण मुच्यते न हि संशयः॥६८॥
उपवासत्रयं कुर्याद्धोमश्चाऽऽज्येन धीमता।
पौरुषेण च सूक्तेन सर्वपापनिवृत्तये॥६९॥
पवित्रमृषभं तोये स्थित्वा जप्त्वा दशावरम्‌।
त्रिरात्रोपोषितः स्तेयान्मुच्यते न हि संशयः॥७०॥
उपवासत्रयं कृत्वा भस्मोद्धूलितविग्रहः।
रुद्राध्यायी विमुच्येत सुरापानान्न संशयः॥७१॥
द्रुपदा नाम गायत्री वेदे वाजसनेयके।
पञ्च जप्त्वा जले मग्नो मुच्यते सर्वपातकैः॥७२॥
अवेत्यृचं जपेदब्दं यत्किंचेदमितीति वा।
महापातकसंघैश्च मुच्यते हि दशावरैः॥७३॥
जपेत्तरत्समन्दीयमभक्ष्यस्य तु भक्षणे।
तद्दोषेण विमुच्येत मानवस्तु न संशयः॥७४॥

———————————————————————————————————————————

म्नाता मन्त्राः कूष्माडाः॥६६॥ जपित्वा शिवसंकल्पमिति। ‘तन्मे मनः शिवसंकल्पमस्तु’ इति यस्मिन्सूक्ते तच्छिवसंक-ल्पम्‌। ‘अस्य वामस्य’ इति सूक्तमस्यवामीयम्‌॥६७॥ ‘हविष्पान्तमजरं स्वर्विदम्‌’ इति सूक्तं हविष्पन्तीयम्‌॥६८॥६०॥

पवित्रमृषभमिति। ‘यश्छन्दसामृषभो विश्वरूपः’ इति श्रुतेः प्रणव ऋषभः॥७०॥७१॥ द्रुपदा नामेति। ‘द्रपदादिव मुमुचानः’

इन्द्रं मित्रं तदेनस्वी जपेदब्दार्धमादरात्।
भैक्ष्याहारो विशुध्येत पातकैश्च महत्तरैः॥७५॥
प्राणायामशतं कुर्वन्सर्वपापैः प्रमुच्यते।
प्राणायामसहस्रैस्तु मुच्यते भवबन्धनात्‌॥७६॥
सव्याहृतिं सप्रणवां गायत्रीं शिरसा सह।
त्रिः पठेत्तु जले मग्नः सर्वपापैः प्रमुच्यते॥७७॥
तिलहोमसहस्रेण व्याहृत्या प्रणवेन वा।
महापातकसंघैश्च मुच्यते न हि संशयः॥७८॥
महादेवेति यो ब्रूयात्प्रातरुत्थाय नित्यशः।
जन्मान्तरसहस्रेषु कृतं पापं विनश्यति॥७९॥
ब्राह्मे मुहूर्ते चोत्थाय शुचिर्भूत्वा समाहितः।
शिवेति कीर्तयन्मर्त्यः पातकैस्तु विमुच्यते॥८०॥
पुण्या भागीरथी लोके पुण्या वाराणसी पुरी।
पुण्या वेदाः शिवः पुण्यः पुण्यं तिर्यक्त्रिपुण्ड्रकम्‌॥८१॥
पञ्च पुण्यानि यो मर्त्यः प्रातरुत्थाय कीर्तयेत्।
सर्वपापविनिर्मुक्तः स याति परमां गतिम्‌॥८२॥
विषुवायनकालेषु ग्रहणे चन्द्रसूर्ययोः।
शिवशब्दजपं कुर्वन्मुच्यते सर्वपातकैः॥८३॥
व्यतीपाते तिलं धान्यं ब्राह्मणाय ददाति यः।
सर्वपापविनिर्मुक्तः स याति परमां गतिम्‌॥८४॥

————————————————————————————————————————————————————

इत्येषा॥७२॥ अवेत्यृचमिति। “अव ते हेव्ठो वरुण’ इत्येषा ‘यत्किंचेदं वरुण’ इति॥७३॥जपेत्तरत्समन्दीयमिति। ‘तरत्समन्दी धावति’ इति सक्तम्‌॥७४।

पञ्चदश्यां समृद्दिश्य महादेवं सितेतेर।
ब्राह्मणं भोजयित्वा तु मुच्यते सर्वपातकैः॥८५॥
यस्तु कृष्णचतुर्दश्यां शिवमुद्दिश्य भोजयेत्‌।
ब्राह्मणं पातकैः सर्वैर्मुच्यते न हि संशयः॥८६॥
कृष्णाष्टम्यां द्विजश्रेष्ठं भोजयेच्छंकरात्मना।
सर्वपापविनिर्मुक्तः शंकरं याति मानवः॥८७॥
अर्कवारे तु सावित्रीं जपित्वाऽष्टोत्तरं शतम्‌।
भोजयित्वा द्विजश्रेष्ठं मुच्यते सर्वपातकैः॥८८॥
आर्द्रायां रुद्रमुद्दिश्य भोजयित्वा द्विजोत्तमम्‌।
सर्वपापविनिर्मुक्तः सम्यग्ज्ञानमवाप्नुयात्‌॥८९॥
महामघे महादेवमभिषिच्य घृतेन तु।
ब्रह्महत्यादिभिः पापैर्मुच्यते हि महत्तरैः॥९०॥
माघे मासि चतुर्दश्यां कृष्णपक्षे महेश्वरम्‌।
बिल्वपत्रेण संपूज्य मुच्यते सर्वपातकैः॥९१॥
उत्तरे फाल्गुने मासि पलाशकृसुमेन च।
महादेवं समाराध्य मुच्यते सर्वपातकैः॥९२॥
वसन्तकाले चित्रायां सुगन्धकुसुमैर्हरम्।
पूज्य प्रासङ्गिकाद्यैस्तु मुच्यते पातकैर्नरः॥९३॥
सकृद्गङ्गाजले स्नात्वा वाराणस्यां महेश्वरम्‌।
दृष्ट्वा विश्वेश्वराख्यं तु मुच्यते सर्वपातकैः॥९४॥
गोदावर्यां सकृत्स्नानात्सिंहयुक्ते बृहस्पतौ।

—————————————————————————————————————————————————————

इन्द्रमिति। ‘इन्द्रं मित्रं वरुणमग्निमाहुः इति॥७५**—**

८९॥ महामघ इति।

ब्रह्महत्यादिभिः पापैर्मुच्यते नात्र संशयः॥९५॥
माघमासि मघर्क्षे तु सुवर्णमुखरीजले॥
स्नात्वा दत्त्वा महापापैर्मुच्यते नात्र संशयः॥९६॥
स्नात्वा तु शिवगङ्गायां पर्वयुक्तेऽर्कवासरे।
महापातकसंघैश्च मुच्यते नात्र संशयः॥९७॥`
सोमवारे त्वमावास्यां सप्तम्यामर्कवासरे।
सकृत्स्नानेन कावेर्यां मुच्यते सर्वपातकैः॥९८॥
स्नात्वा दत्त्वा तु विप्राय गन्धमादनपर्वते।
दृष्ट्वा रामेश्वरं देवं मुच्यते सर्वपातकैः॥९९॥
अन्नपानादिभिर्भक्त्या ब्रह्यनिष्ठं समर्चयेत्‌।
सर्वपापविनिर्मुक्तः शंकरं याति मानवः॥१००॥
श्रीमद्दभ्रसभामध्ये नृत्यन्तं देवनायकम्‌।
दृष्ट्वा दिने दिने पापैर्मुच्यते दशभिर्दिनैः॥१०१॥
संन्यासश्चापि पापानां प्रायश्चित्तं प्रकीर्तितम्‌।
पापिष्ठानामयोग्यानां योग्यानां मुक्तिसाधनम्‌॥१०२॥
चतुर्विधस्तु संन्यासो वृत्तिभेदेन सत्तमाः।
एकः कुटीचकः प्रोक्तस्तथाऽन्यश्च बहूदकः॥१०३॥
हंसश्चान्यस्तथैवान्यः परहंससमाश्रयः।
कुटीचकादपि श्रेष्ठो भिक्षुकश्च बहूदकः॥१०४॥
हंसो बहूदकाच्छ्रेष्ठः परहंसस्ततः परः।
परहंसादपि श्रेष्ठ आश्रमी नास्ति कश्चन॥१०५॥
कटीचिकाश्च हंसाश्च तथैव च बहूदकाः।

नित्यानुष्ठानतः शुद्धा भवन्ति द्विजपुङ्गवाः॥१०६॥
चित्तशुद्ध्या मुमुक्षुत्वं क्रमात्तेषां विजायते।
मुमुक्षुत्वे तु संजाते भवेयुः परहंसकाः॥१०७॥
परहंसस्तु नित्याख्यं कर्म त्यक्त्वा विधानतः।
शमादिसाधनो भूत्वा वेदान्तज्ञानमभ्यसेत्‌॥१०८॥
कुटीचकाख्यः संन्यासी तथैव च बहूदकः।
गोवालरज्जुसंपृक्तं त्रिदण्डं च कमण्डलुम्‌॥१०९॥
पात्रं जलं पवित्रं च तथा काषायमेव च।
शिखां यज्ञोपवीतं च पवित्रं चैव धारयेत्‌॥११०॥
पात्रं जलपवित्रं च पवित्रं च तथैव च।
कुण्डिकां चोपवीतं च हंसस्यापि समं बुधाः॥१११॥
हंसः परमहंसश्च सत्वचं सौम्यमव्रणम्‌।
एकं तु वैणवं दण्डं काषायं चैव धारयेत्‌॥११२॥
परहंसस्य हंसस्य समानं मौण्ड्यमास्तिकाः।
स्नानं शौचं शिवध्यानं शिवार्चा भस्मगुण्ठनम्‌॥११३
त्रिपुण्ड्रधारणं शान्तिर्दान्तिः क्रोधादिवर्जनम्‌।
चातुर्मास्यं च सर्वेषां समानं परिकीर्तितम्॥११४॥
पापिष्ठः कर्मसंन्यासं कृत्वा शास्त्रोक्तवर्त्मना।
प्राणत्यागं पुनः कुर्यात्पापानां च विशुद्धये॥११५॥
योगी संन्याससंपन्नः प्राणत्यागं कदाचन।
न कुर्यान्मोहतो वापि ज्ञानमेव सदाऽभ्यसेत्‌॥११६॥
संन्यासेन समं नास्ति प्रायश्चित्तं द्विजर्षभाः।

ततः पापनिवृत्त्यर्थं संन्यसेत्परितापितः॥११७॥
रहस्यानां च संन्यासः प्रायश्रित्तं तथैनसाम्‌।
प्रसिद्धानां च पापानां प्रायश्चित्तमयं तथा॥११८॥
शिवज्ञानं शिवध्यानं शिवशब्दजपस्तथा।
अग्निरित्यादिभिर्मन्त्रैर्भस्मना चावगुण्ठनम्॥११९॥
रुद्राक्षधारणं भक्त्या त्रिपुण्ड्रस्य च धारणम्‌।
संन्यासश्चैव पापानां प्रायश्रित्तं महत्तरम्‌॥१२०॥
सर्ववेदरहस्यमिदं मया केवलं
कृपयैव समीरितम्‌। प्राह कारुणिकः
सकलार्थविद्देशिकप्रवरप्रवरस्तु मे॥१२१॥

इति श्रीस्कान्दपुराणे सूतसंहितायां चतुर्थे यज्ञवैभवखण्डे
प्रायश्रित्तविचारो नाम द्विचत्वारिंशोऽध्यायः॥४२॥

त्रिचत्वारिंशोऽध्यायः।

४३. पापशुद्ध्युपायकथनम्‌।

सूत उवाच—

भूयोऽपि पापशुद्ध्यर्थमुपायं प्रवदाम्यहम्‌।
महत्या श्रद्धया युक्ताः श्रृणुत ब्रह्मवित्तमाः॥१॥

——————————————————————————————————————————————

माघपौर्णमासीयुक्तंमघर्क्षं महामघम्॥९०॥९१॥ उत्तरे फाल्गुन इति। फाल्गुनमासस्योत्तरफल्गुन्यामित्यर्थः॥९२—१२१॥

इति श्रीसूतसंहितातात्पर्यदीपिकायां चतुर्थे यज्ञवैभवखण्डे प्रायश्चित्त-
विचारो नाम द्विचत्वारिंशोऽध्यायः॥४२॥

एवं वेदाधिकृतानां चित्तपरिपाकानुसारेण वेदान्तवाक्यजनितब्रह्मात्मज्ञानतद्ध्यानवैदिकमन्त्रजपादिकं प्रायश्चित्तत्वेनोपदिष्टम्‌। अथ सर्वसाधारण-

निर्मितानि शिवेनैव भूमौ स्थानानि देहिनाम्‌।
सर्वपापविशुद्ध्यर्थं तानि वक्ष्याम्यशेषतः॥२॥
अमरेशमिति प्रोक्तं स्थानं सर्वार्थसाधनम्‌। `
ओंकारसंज्ञस्तत्रेशश्चण्डिकाख्या महेश्वरी॥२॥
तत्र देवं च देवीं च श्रद्धया परया सह।
तत्तन्नाम्ना तु संपूज्य मुच्यते सर्वपातकैः॥४॥
प्रभासाख्यं महास्थानमस्ति भूमितले द्विजाः।
सोमनाथः शिवस्तत्र शिवा सा पुष्करेक्षणी॥५॥
तत्र देवं च देवीं च श्रद्धया परया सह।
तत्तन्नाम्ना तु संपूज्य मुच्यते सर्वपातकैः॥६॥
नैमिशाख्यं महास्थानमस्ति तत्न महेश्वरः।
देवदेवाभिधः प्राज्ञा देवी सा लिङ्गधारिणी॥७॥
तत्न देवं च देवीं च श्रद्धया परया सह।
तत्तन्नाम्ना तु संपूज्य मुच्यते सर्वपातकैः॥८॥
पुष्कराख्यं महास्थानमन्यदस्ति महीतले।
रजोगन्धिर्महादेवः पुरुहूता महेश्वरी॥९॥
तत्र देवं च देवीं च श्रद्धया परया सह।
तत्तन्नाम्ना तु संपूज्य मुच्यते सर्वपातकैः॥१०॥
आषाढी नाम विप्रेन्द्राः स्थानमस्ति महीतले।
आषाढीशो हरस्तत्र रतिः सा परमेश्वरी॥११॥

————————————————————————————————————————————————————

ममरेशादिस्थानविशेषेषु शक्तिसहितस्य परमेश्वरस्य तत्तन्नाम्ना पूजनात्मकं पापक्षयोपायं वक्तुमारभते—

भूयोऽपीति॥१-२ ०॥ मयावीति यद्यपि ‘अस्मायामेधा-

तत्र देवं च देवीं च श्रद्धया परया सह।
तत्तन्नाम्ना तु संपूज्य मुच्यते सर्वपातकैः॥१२॥
चण्डमुण्डीसमाख्यं तु स्थानमन्यन्महत्तरम्‌।
दण्डी तत्र महादेवो दण्डिनी परमेश्वरी॥१३॥
तत्र देवं च देवीं च श्रद्धया परया सह।
तत्तन्नाम्ना तु संपूज्य मुच्यते सर्वपातकैः॥१४॥
भारभूतिरिति ख्यातमस्ति स्थानं महत्तरम्‌।
भारभूतिर्महादेवो भूतिः सा परमेश्वरी॥१६॥
तत्र देवं च देवीं च श्रद्धया परया सह।
तत्तन्नाम्ना तु संपूज्य मुच्यते सर्वपातकैः॥१६॥
नाकुलं नाम संशुद्धमस्ति स्थानं महीतले।
नकुलीशो हरस्तत्र शिवा सैव प्रकीर्तिता॥१७॥
तत्र देवं च देवीं च श्रद्धया परया सह।
तत्तन्नाम्ना तु संपूज्य मुच्यते सर्वपातकैः॥१८॥
हरिश्चन्द्रसमाख्यं च स्थानमस्ति महीतले।
हराख्यः शंकरस्तत्र चाण्डिकाख्या महेश्वरी॥१९॥
तत्र देवं च देवीं च श्रद्धया परया सह।
तत्तन्नाम्ना तु संपूज्य मुच्यते सर्वपातकैः॥२०॥
श्रीपर्वतसमाख्यं च स्थानमस्ति महत्तरम्‌।

——————————————————————————————————————————————————————

स्रजो विनिः’ इति विन्नन्तात्स्रियां ङीपि मायाविनीति भवितन्यं तथाऽपि पुराणानामप्यार्षत्वेन च्छन्दोवद्भावत्वात्‌ ‘बहुलं च्छन्दसि’ इति बहुलग्रहणस्य सर्वोपाधिव्यभिचारार्थत्वात्‌ ‘नस्तद्धिते’ इत्युच्यमानष्ठिलोपोऽतद्धिते

मायावी शंकरी तत्र शंकरस्त्रिपुरान्तकः॥२१॥
तत्न देवं च देवीं च श्रद्धया परया सह।
तत्तन्नाम्ना तु संपूज्य मुच्यते सर्वपातकैः॥२२॥
जप्येश्वरमिति ख्यातं स्थानमस्ति महत्तरम्‌।
त्रिशूला शंकरी तत्र त्रिशूली परमेश्वरः॥२३॥
तत्र देवं च देवीं च श्रद्धया परया सह।
तत्तन्नाम्ना तु संपूज्य मुच्यते सर्वपातकः॥२४॥
आम्रातकेश्वरं नाम स्थानमन्यत्सुशोभनम्।
तत्न सूक्ष्माभिधो रुद्रः सृक्ष्माख्या परमेश्वरी॥२५॥
तत्र देवं च देवीं च श्रद्धया परया सह।
तत्तन्नाम्ना तु संपूज्य मुच्यते सर्वपातकैः॥२६॥
महाकाल इति प्रोक्तमन्यदस्ति महत्तरम्‌।
महाकालो हरस्तत्र शंकरी सा महेश्वरी॥२७॥
तत्र देवं च देवीं च श्रद्धया परया सह।
तत्तन्नाम्ना तु संपूज्य मुच्यते सर्वपातकैः॥२८॥
मध्यमाख्यं महास्थानमस्ति मायाविषापहम्‌।
तत्र शर्वः शिवः साक्षाच्छर्वाणी परमेश्वरी॥२९॥
तत्र देवं च देवीं च श्रद्धया परया सह।
तत्तन्नाम्ना तु संपूज्य मुच्यते सर्वपातकैः॥३०॥
केदाराख्यं महास्थानमस्ति भूमितले शुभम्‌।
ईशानाख्यो हरस्तत्र देवी सा मार्गदायिनी॥३१॥
तत्र देवं च देवीं च श्रद्धया परया सह।

तत्तन्नाम्ना तु संपूज्य मुच्यते सर्वपातकैः॥३२॥
भैरवाख्यं महास्थानं भवरोगस्य भेषजम्‌।
भैरवः शंकरस्तत्र भैरवी परमेश्वरी॥३३॥
तत्र देवं च देवीं च श्रद्धया परया सह।
तत्तन्नाम्ना तु संपूज्य मुच्यते सर्वपातकैः॥३४॥
गया नाम महाक्षेत्रमस्ति भूमितले शुभम्‌।
मङ्गलाख्या महादेवी शंकरः प्रपितामहः॥३५॥
तत्र देवं च देवीं च श्रद्धया परया सह।
तत्तन्नाम्ना तु संपूज्य मुच्यते सर्वपातकैः॥३६॥
कुरुक्षेत्रमिति ख्यातमस्ति क्षेत्रं महीतले।
शिवा स्थाणुप्रिया तत्र शिवः स्थाणुसमाह्वयः॥३७॥
तत्र देवं च देवीं च श्रद्धया परया सह।
तत्तन्नाम्ना तु संपूज्य मुच्यते सर्वपातकैः॥३८॥
लाकुलाख्यं महास्थानमस्ति सर्वार्थसाधकम्‌।
स्वयंभूस्तत्न देवेशः शिवा स्वायंभवी मता॥३९॥
तत्र देवं च देवीं च श्रद्धया परया सह।
तत्तन्नाम्ना तु संपूज्य सर्वपापैः प्रमुच्यते॥४०॥
अन्यत्कनखलं नाम स्थानमस्ति महत्तरम्‌।
उग्रस्तत्र महादेवः शिवोग्रा मुनिपुङ्गवाः॥४१॥
तत्र देवं च देवीं च श्रद्धया परया सह।
तत्तन्नाम्ना तु संपूज्य मुच्यते सर्वपातकैः॥४२॥
विमलेश्वरमित्युक्तमन्यदस्ति महीतले।

शिवः स्थाण्वीश्वरस्तत्र शिवा स्थाण्वीश्वरी परा॥६५॥
तत्र देवं च देवीं च श्रद्धया परया सह।
तत्तन्नाम्ना तु संपूज्य मुच्यते सर्वपातकैः॥६६॥
कमलालयमित्युक्तमस्ति स्थानं महत्तरम्‌।
कमलाख्यो हरस्तत्र कमलाख्या महेश्वरी॥६७॥
तत्र देवं च देवीं च श्रद्धया परया सह।
तत्तन्नाम्ना तु संपूज्य मुच्यते सर्वपातकैः॥६८॥
छागण्डलमिति प्रोक्तमन्यदस्ति महत्तरम्‌।
कपर्दी तत्र देवेशः प्रचण्डाख्या महेश्वरी॥६९॥
तत्र देवं च देवीं च श्रद्धया परया सह।
तत्तन्नाम्ना तु संपूज्य मुच्यते सर्वपातकैः॥७०॥
कुरण्डमिति विख्यातमन्यदस्ति सुशोभनम्‌।
ऊर्ध्वरेता हरस्तत्र त्रिसंध्यारख्या शिवा परा॥७१॥
तत्र देवं च देवीं च श्रद्धया परया सह।
तत्तन्नाम्ना तु संपूज्य मुच्यते सर्वपातकैः॥७२॥
माकोटाख्यं महास्थानमन्यदस्ति महीतले।
महोत्कटो हरस्तत्र शिवा सा मुकुटेश्वरी॥७३॥
तत्न देवं च देवीं च श्रद्धया परया सह।
तत्तन्नाम्ना तु संपूज्य मुच्यते सर्वपातकैः॥७४॥`
मण्डलेश्वरसंज्ञं च स्थानमस्ति महत्तरम्‌।
श्रीकण्ठस्तत्र देवेशः शंकरी शाण्डकी मता॥७५॥
तत्न देवं च देवीं च श्रद्धया परया सह।

तत्तन्नाम्ना तु संपूज्य मुच्यते सर्वपातकैः॥७६॥
कालंजरमिति ख्यातमस्ति स्थानं महीतले।
नीलकण्ठो हरस्तत्र शिवा काली प्रकीर्तिता॥७७॥
तत्र देवं च देवीं च श्रद्धया परया सह।
तत्तन्नाम्ना तु संपूज्य मुच्यते सर्वपातकैः॥७८॥
शङ्कुकर्ण महास्थानं सर्वदोषनिवारणम्‌।
महातेजा हरस्तत्र ध्वनिः सा परमेश्वरी॥७९॥
तत्र देवं च देवीं च श्रद्धया परया सह।
तत्तन्नाम्ना तु संपूज्य मुच्यते सर्वपातकैः॥८०॥
स्थूलेश्वरसमाख्यं तु स्थानमस्ति महत्तरम्‌।
स्थूलस्तत्र महादेवः स्थूला सा परमेश्वरी॥८१॥
तत्र देवं च देवीं च श्रद्धया परया सह।
तत्तन्नाम्ना तु संपूज्य मुच्यते सर्वपातकैः॥८२॥
श्रीमद्व्याघ्रपुराख्यं तु स्थानमस्ति महीतले।
हरः सभापतिस्तत्र शिवा दभ्रसभाधिपा॥८३॥
तत्र देवं च देवीं च श्रद्धया परया सह।
तत्तन्नाम्ना तु संपूज्य मुच्यते सर्वपातकैः॥८४॥
यत्र नृत्यति देवेशः स्वात्मानन्दप्रमोदतः।
यत्र नृत्यन्तमीशानमम्बिका परिपश्यति॥८५॥
यत्र भक्तिमतां नृणां प्रसीदति महेश्वरः।
यत्र नृत्यन्तमीशानं दृष्ट्वा मर्त्यो विमुच्यते॥६८॥
स्थानानामपि सर्वेषामेतत्स्थानं महत्तरम्‌।

अत्र जप्तं हुतं दत्तमसंख्येयगुणाधिकम्‌॥८७॥
अस्मिन्नेव महास्थाने शिवगङ्गाभिधं परम्‌।
तटाकमस्ति तत्तीरे दक्षिणे नृत्यतीश्वरः॥८८॥
तस्मिन्नेव तटाके यो नित्यं स्नात्वा द्विजा नरः।
दृष्ट्वा दभ्रसभानीथं परमश्रद्धया सह॥८९॥
अष्टोत्तरसहस्रं तु मन्त्रमाद्यं षडक्षरम्‌।
जपति प्रीतिसंयुक्तः प्रसिद्धैरपि मुच्यते॥९०॥
आदित्ये मेषसंयुक्ते पर्वण्यार्द्रादिने तथा।
तटाकेऽस्मिन्नरः स्नात्वा प्रसिद्धैरपि मुच्यते॥९१॥
आदित्ये वृषभं प्राप्ते तटाकेऽस्मिन्वृषोदये।
स्नात्वा दत्त्वा महापापैः प्रसिद्धैरपि मुच्यते॥९२॥
आदित्ये मिथुनं प्राप्ते तटाकेऽस्मिन्महत्तरे।
कृष्णाष्टभ्यां नरः स्नात्वा प्रसिद्धैरपि मुच्यते॥९३॥
आषाढे तु चतुर्दश्यां कृष्णपक्षे समाहितः।
तटाकेऽस्मिन्नरः स्नात्वा प्रसिद्धैरपि मुच्यते॥९९॥
श्रावण्यां पौर्णमास्यां तु तटाकेऽस्मिन्समाहितः।
स्नात्वा तु पातकैः सर्वैः प्रसिद्धैरपि मुच्यते॥९५॥
कन्यकायां स्थिते चार्के जन्मर्क्षे चार्कवारके।
नरः स्नात्वा तटाकेऽस्मिन्प्रसिद्धैरपि मुच्यते॥९६॥
आदित्ये च तुलां प्राप्ते भगनक्षत्रके नरः।
प्रातः स्नात्वा तटाकेऽस्मिन्प्रसिद्धैरपि मुच्यते॥९७॥

——————————————————————————————————————————————————————

ङीप्यपि द्रष्टव्यः॥२१—

९६॥ भगनक्षत्रक इति। ‘फल्गुनी नक्षत्रं भगो

आदित्ये वृश्चिकं प्राप्ते पावकस्य दिने नरः।
प्रातः स्नात्वा तटाकेऽस्मिन्प्रसिद्धैरपि मुच्यते॥८॥
आदित्ये चापसंयुक्ते रौद्रनक्षत्रके नरः।
स्नानं कृत्वा तटाकेऽस्मिन्प्रसिद्धैरपि मुच्यते॥९॥
आदित्ये मकरं प्राप्ते पुष्यर्क्षे चार्कवारके।
नरः स्नात्वा तटाकेऽस्मिन्प्रसिद्धैरपि मुच्यते॥१००॥
माघमासि मघर्क्षे तु तटाकेऽस्मिन्महत्तरे।
स्नान कृत्वा महापापैः प्रसिद्धैरपि मुच्यते॥१०१॥
फाल्गुने चोत्तरे मर्त्यस्तटाकेऽस्मिन्महत्तरे।
स्नानं कृत्वा महापापैःप्रसिद्धैरपि मुच्यते॥१०२॥
अनेन सदृशं स्थानं नास्ति लोकत्रयेष्वपि।
अत्रैव वर्तमानस्तु मुच्यते भवबन्धनात्‌॥१०३॥
अत्र ब्रह्मविदां नित्यमन्नं पेयं ददाति यः।
सर्वपापविनिर्मुक्तः स याति परमां गतिम्‌॥१०४॥
गृहं वा मठिकां वाऽपि प्रदत्त्वाऽत्रैव योगिने।
सर्वपापविनिर्मुक्तः शंकरं याति मानवः॥१०५॥
स्थानमेतत्पुरा शंभुः सर्वदोषनिवृत्तये।
निर्ममे सर्वजन्तूनां केवलं करुणाबलात्‌॥१०६॥
अनेककोटिभिः कल्पैरर्जितैः पुण्यराशिभिः।
स्थानमेतन्मनुष्याणां सिध्यत्यत्यन्तशोभनम्॥१०७॥
सर्वमुक्तमतिशोभनं मया पापराशिविनिवर्तकं नृणाम्‌।
स्थानमेतदतिशोभनं सदा सेवनीयमखिलैस्तु जन्तुभिः१ ०८

इति श्रीस्कान्दपुराणे सूतसंहितायां चतुर्थे यज्ञवैभवखण्डे
पापशुद्ध्युपायकथनं नाम त्रिचत्वारिंशोऽध्यायः॥४३॥

——————

अथ चतुश्चत्वारिंशोऽध्यायः।

४४. द्रव्यशुद्धिकथनम्‌।

सूत उवाच—

अथातः संप्रवक्ष्यामि द्रव्यशुद्धिं समासतः।
श्रद्धया सह विप्रेन्द्राः श्रृणुताऽऽत्मविशुद्धये॥१॥
आत्माऽनात्मेति विप्रेन्द्रा द्विधा द्रव्यं व्यवस्थितम्‌।
आत्मद्रव्यं स्वयं शुद्धं सत्यज्ञानादिलक्षणम्‌॥२॥
सत्तामात्रे न दोषोऽस्ति स्वतः शुद्धं यतः सदा।
यदि सत्ता स्वतोऽशुद्धा दुष्टं सर्वं भवेत्सदा॥३॥

—————————————————————————————————————————————————————

देवता ‘इति श्रुतेः पूर्वफल्गुन्याख्यं भगनक्षत्रम्‌॥९७॥ पावकस्य दिन इति। कृत्तिकायामित्यर्थः॥९८ —१०८॥
इति श्रीस्कान्दपुरणे सूतसंहितातात्पर्यदीपिकायां चतुर्थे यज्ञषैभवखण्डे
पापशुद्ध्युपायकथनं नाम त्रिचत्वारिंशोऽध्यायः॥४३॥

—————

सच्चिदानन्दरूपस्याऽऽत्मनः स्वभाविकशुद्धिं सिद्धवत्कृत्य तदुपजीवनेन तत्स्वरूपेऽध्यस्ताविद्यातकर्यविलसितरूपस्य दोषजातस्य निवर्तकं प्रायश्चित्तमुक्तम्‌। अथ तां स्वतःशुद्धिमात्मनः प्रतिपादयितुं द्रव्यशुद्धिं प्रतिजानीतेअथात इति॥१॥ द्रव्यं व्यवस्थितमिति। द्रव्यशब्दो वस्तुपर्यायो न तु पराभिमतद्रव्यत्वजातिप्रवृत्तिनिमित्तकस्तथात्वे त्वात्मनो द्रव्यत्वजातिसंसर्गविरहेण द्रव्यशब्दवाच्यता न स्यात्‌। सत्यज्ञानानन्दादिकं ह्यात्मनः पारमार्थिकं स्वरूपम्‌। यद्यपि तदखण्डैकरसं तथापि सर्वदा बाधराहित्यादुपाधिभेदेन सच्चिदादिभेदेन व्यवह्रियते। उक्तं ह्याचर्येः—‘आनन्दो विषयानुभवो नित्यत्वं चेति सन्ति धर्माः। अपृधक्त्वेऽपि चैतन्यात्पृथगिवावभासन्ते’ इति॥२॥ तत्र स्वरूपस्य

दुष्टसत्ताभिसंबन्धाद्दुष्टस्पृष्टं सदा खलु।
तथा सति विशुद्धं तु न सिध्यत्येव किंचन॥४॥
सत्ताशून्यं तु तुच्छं स्यात्सत्ता शुद्धा स्वतस्तथा।
ज्ञप्तिरूपमपि ज्ञानं शुद्धमेव स्वतः सदा॥५॥
अशुद्धिर्जडरूपे हि दृष्टा सर्वजनैरपि।
स्वतःस्फुरणरूपं तु ज्ञानं दुष्टं भवेद्यदि॥६॥
दुष्टमेव भवेत्सर्वं दुष्टस्फुणसंगमात्‌।
तथा सति विशुद्धं तु न सिध्यत्येव किंचन॥७॥
वस्तु स्फुरणशून्यं तु तुच्छमेव भवेत्सदा।
दुष्टकारणविज्ञाने दोषोऽस्तीति वदेद्यदि॥८॥
अभिव्यञ्जकवृत्त्या तु ज्ञाने दोषो न च स्वतः।

———————————————————————————————————————————————————

स्वतःशुद्धिं प्रतिपादयति—

सत्तामात्र इति। स्वस्मिन्परिकल्पितनानाव्याक्तिष्वधिष्ठानसद्रूपस्यानुगमात्तदभिप्रायेणाधिष्ठानभूतं सन्मात्रमेव सत्तेत्युच्यते। तस्य सत्तामात्रस्य यस्मात्स्वतःशुद्धिरङ्गीकार्या। अतस्तत्र न दोषस्पर्श इत्यर्थः। विपक्षे बाधकमाह—

यदि सत्तेति। स्वत इति। कारणान्तरमनपेक्ष्य स्वरूपत एवेत्यर्थः॥३॥ विमतं सर्वं दुष्टं दुष्टसत्तासंस्पृष्टत्वाद्दुष्टस्पृष्टभाण्डवदित्यभिप्रायः। तथा सति दोषभावव्याप्तायाः शुद्धेर्न क्वचिदप्यात्मलाभ इत्यर्थः॥४॥ सत्ताशून्यं त्विति। निर्दुष्टत्वाय यदि सर्वं जगत्स्वात्मनो दुष्टसत्तासंसर्गं जह्यात्तदा तन्निरुपाख्यमेव भवेत्‌। अतः सत्तायाः स्वतः शुद्धिरङ्गीकार्येत्यर्थः। चिन्मात्रस्यापि स्वतःशुद्धिमाह—

ज्ञानमिति। ज्ञायतेऽनेनेति ज्ञानमिति करणत्वेन व्युत्पत्तिसंभवात्तद्व्यावृत्त्यर्थं ज्ञप्तिरूपमिति विशेषणम्‌॥५॥ अशुद्धिर्जडरूप इति। अनात्मप्रपश्चे ह्यशुद्धत्वं जडत्वव्याप्तं दृश्यते। तज्जडत्वं स्वप्रकाशचिदात्मनो व्यावर्तमानं स्वव्याप्तमप्यशुद्धत्वं व्यावर्तयतीत्यर्थः। तत्रापि पूर्ववद्विपक्षे बाधकमाह—

ज्ञानं दुष्टमित्यादिना॥६॥७॥ स्फुरणशून्यं त्विति। स्वगोचरज्ञानाधीनत्वाद्वस्तुसिद्धेस्तस्य च ज्ञानस्य दुष्टत्वेनाङ्गीकारे सर्व—

अन्यथा सकलं ज्ञानं दुष्टमेव स्वतो भवेत्‌।
अतः स्फुरणरूपं तु ज्ञानं शुद्धं सदैव तु॥९॥
आनन्दस्तु स्वयंशुद्धः पुरुषैरर्थ्यते यतः।
अशुद्धः सर्वथा भावो नार्थ्यते पुरुषैः खलु॥१०॥
ब्रह्मादिस्तम्बपर्यन्तैरर्थ्यते हि सुखं सदा॥११॥
विषयेन्द्रियसंपर्काज्जन्यते हि सुखं सदा।
न दृश्यते ततो दुष्टमिति चेत्तन्न संगतम्‌॥१२॥
अभिव्यञ्जकवृत्त्या हि सुखे दोषो न च स्वतः।
आत्मरूपं सुखं नित्यं नैव जन्मविनाशवत्॥१३॥

————————————————————————————————————————————————————

दाऽप्रतिभातं जडं जगच्छशविषाणवत्तुच्छमेव भवेदित्यर्थः। विपक्षे बाधकमभिधाय ज्ञानस्य पुनर्दोषसद्भावमाशङ्क्य निरस्यति—दुष्टकारणेति। काचकामलादिदोषदूषितचक्षुरादिकारणजनिते शुक्तिरजतादिभ्रमज्ञाने दोषो दृश्यते तत्सामान्यादन्यत्रापि दोषसंभावना किं न स्यादिति न शङ्कनीयम्‌। तत्र हि शुक्त्यधिष्ठानचैतन्याभिव्यञ्ञिका तदाश्रितमायायरजतविषयेदकारास्पदमनोवृत्तिवच्चित्तचैतन्यस्थाविद्यावृत्तिरेव दुष्टकारणजनिता न तु वृत्त्यवच्छिन्नस्फुरणम्‌। ततश्चोपाधिवशादेव स्फटिके लौहित्यमिव स्फुरणे दोषावभासो न तु स्वभाव इत्यर्थः। अन्यधेति। विभ्रमज्ञानगतस्फुरणमात्रस्य स्वाभाविकदुष्टत्वाङ्गीकारे तत्सामान्यात्सर्वमपि ज्ञानं स्वभावतो दुष्टं स्यात्‌। तथाच पूर्वोक्तो बाध इत्यभिप्रायः॥८॥९॥ अनन्दरूपस्यापि स्वतः शुद्धिमुपपादयति—आनन्दस्त्वित्यादिना। पुरुषैरर्थ्यमानत्वादानन्दस्यापि स्वतः शुद्धिरङ्गीकार्या न ह्यविशुद्धः पदार्थः पुरुषैरर्थ्यते॥१०॥११॥ ब्रह्मादिस्तम्बान्तैरर्थंनीयस्य तस्यानन्दस्य नश्वरत्वमाशाङ्क्य निरस्यति—विषयेन्द्रियेति। शुभकर्मोपस्थापितविषयैरिन्द्रियसंप्रयोगवशात्सुखं जन्यते। अमन्तरक्षणे च न दृश्यते। तथा च सत्युत्पत्तिविनाशवत्त्वेन सुखस्य दुष्टत्वमिति शङ्काभिप्रायः। विषयेन्द्रियसंयोगात्सुखविषया मनोवृत्तिरेव केवलं जन्यते न तु तदृत्त्यवच्छिन्नसुखमतो व्यञ्जकवृत्तिगतावेव जन्मविनाशौ व्यङ्गवे सुखेऽ-

प्रेमालम्बनतः स्वात्मा सुखमेव न संशयः।
आत्मनश्च सुखस्यापि प्रेमालम्बनता सदा॥१४॥
विद्यतेऽतस्तयोरैक्यं वस्तुतस्तु सुखात्मनोः।
अतश्चाऽऽत्मतया नियं सुखं निर्दोषमेव हि॥१५॥
अतः सत्यचिदानन्दः स्वतोः शद्धो न संशयः।
सत्यादिलक्षणं चाऽऽत्मद्रव्यं शुद्धं ततः स्वतः॥१६॥
अज्ञानोपाधिसंपर्कादशुद्धमिव भाति तत्‌।
विशुद्धिः परमा तस्य ज्ञानादेव न कर्मणा॥१७॥
स्वतः शुद्धस्य चाज्ञानादशुद्धिः स्वात्मवस्तुनः।
अज्ञानस्य निवृत्त्यैव शुद्धिः स्वाभाविकी भवेत्‌॥१८॥
कर्मणा शुद्धिरुत्पन्ना यदि सा तस्य नश्यति।

————————————————————————————————————————————————————

वभासेते अतो नश्वरत्वदोषप्रसङ्कः स्वाभाविकसुखे नास्तीत्यर्थः। आत्मरूपमिति। सुखस्य नियात्मस्वरूपत्वादपि जन्मविनाशौ स्वाभाविकौ न स्त इत्यर्थः॥१२॥१३॥सुखस्याऽऽत्मरूपत्वमुपपादयति—प्रेमालम्बनत इति। परप्रेमास्पदत्वादात्मनः सुखस्वरूपत्वम्‌। एतदेव सुखात्मनोरैक्यमुपपादयाति—आत्मनश्चेति। शुभकर्मोपस्थापितविषयेन्द्रियसंपर्कजनितान्तःकरणवृत्त्यवच्छिन्नस्य सुखस्य तदनुभवितुरात्मनश्चोभयोरपि प्रेमास्पदत्वात्तस्मादुपाधिकृतभेदविरहे वास्तवमैक्यमध्यवसेयमित्यर्थः॥१४॥१५॥ सत्यादिलक्षणमिति। परिकल्पितभेदभिन्नानां सत्ताज्ञानसुखानां निर्दुष्टत्वेन स्वतः शुद्धिप्रतिपादनात्कल्पितभेदविरहादखण्डैकरसभावेनैतेषामेवाऽऽत्मस्वरूपत्वात्सत्यज्ञानादिलक्षणभात्मवस्त्वपिस्वतः शुद्धमित्यर्थः॥१६॥ ज्ञानदेवेति। अविशुद्ध्यापादकस्याज्ञानस्य कर्मणा सह विरोधाभावात्स्वाभाविकशुद्धात्मज्ञानादेव तस्य निवृत्तिरित्यर्थः॥१७॥ अज्ञानस्य निवृत्त्यैवेति। ज्ञानेनाज्ञाननिवृत्तिरेव केवलं निष्पाद्या तथैव ज्ञानप्राप्त्याऽशुद्धिनिवृत्तावात्मनः स्वाभाविकी शुद्धिरावरणाभावादाविर्भवतीत्यर्थः॥१८॥ तस्य नश्यतीति। वस्तुकृतमात्मनोऽशुद्धत्वमङ्गीकृत्य तस्य

कर्मसाध्यमनित्यं हि न नित्यं संमतं हि तत्‌॥१९॥
सच्चिदानन्दरूपात्मा नित्यशुद्धः स्वयं स्वतः।
अज्ञानाज्जीवता तस्य नैव स्वाभाविकी सदा॥२०॥
अतो जीवेश्वरैकत्वज्ञानादेवाऽऽत्मवस्तुनः।
विशुद्धिः परमा प्रोक्ता कर्मणा न कथंचन॥२१॥
अज्ञानेनाऽऽवृतो जीवो व्यवहारे तु कर्मणा।
वेदोदितेन शुद्धिः स्याज्ज्ञानाच्छुद्धिः पराऽस्य तु॥२२॥
अनात्मरूपं यद्द्रव्यमशुद्धं तत्स्वभावतः।
तथाऽपि व्यवहारे तु विशुद्धस्तस्य कीर्तिता॥२३॥

—————————————————————————————————————————————————————

प्रायश्चित्तरुपेण कर्मणा निवर्तितत्वादसती शुद्धिरिदानीमुत्पद्यते चेत्तर्हि सा शुद्धिस्तस्याऽऽत्मनोऽवश्यं नश्यति। कृतकत्वस्यानित्यत्वनियमादित्यर्थः। व्याप्तिं दर्शयति—कर्मसाध्यमिति॥१९॥अज्ञानाज्जीवतेति। सच्चिदानन्दरूपः परमेश्वर एव प्रत्यगात्मा तस्य तादृक्स्वरूपत्वाच्छादकादज्ञानदेव जीवत्वे तदभिमानत एव तस्याशुद्धिः॥२०॥ तन्निवृत्त्युपायमाह—अतो जीवेश्वरैकत्वज्ञानादिति। जीवभावेनावस्थितस्य प्रत्यक्चैतन्यस्य नित्यशुद्धबुद्धमुक्तस्वभावपरशिवात्मत्वज्ञानादज्ञानपरिकल्पितजीवत्वलक्षणाया अविशुद्धेः स्वकारणभूताज्ञाननिरासेन निःशेषं निवर्तितत्वात्पुनरुत्पत्त्यभावेन परमा विशुद्धिरात्मनो भवतीत्यर्थः याज्ञवल्क्येनापि स्मर्यते—“क्षेत्रज्ञस्याऽऽत्मविज्ञानाद्विशुद्धिः परमामता” इति॥२१॥परत्वस्यापरसापेक्षत्वादीदृशीं शुद्धिं दर्शयति—अज्ञानेनेति। सच्चिदानन्दलक्षणः परमेश्वर एव ह्यज्ञानेनाऽऽवृतो जीवो भवति तस्य व्यवहारदशायां श्रुतिस्मृत्युदितेन कर्मणा या शुद्धिः साऽपरमा। तेन ह्यज्ञानकार्यं पापमेव केवलं निवर्त्यते न तु तन्मूलभूताज्ञानं तेन सह कर्मणो विरोधाभावादेव मूलभूते तस्मिन्सति निवर्त्यसजातीयस्यापुण्यस्य पुनरुत्पत्तेरवश्यंभावात्कर्मजन्या शुद्धिस्तात्कालिकीति तस्या अपरमत्वम्‌। ज्ञानजन्या शुद्धिस्तु नेदृशीति तस्याः परत्वम्‌॥२२॥ अशाुद्धं तत्स्वभावत इति। अनात्मवस्तुनः

आध्यात्मिकादिभेदेन द्विधाऽनात्मा व्यवस्थितः।
देहेन्द्रियाद्यहंबुद्धिग्राह्यामाध्यात्मिकं भवेत्‌॥२४॥
पृथिव्यादीनि भूतानि भौतिकानि तथैव च।
शब्दस्पर्शादयः प्रोक्ता आधिभौतिकसंज्ञिताः॥२५॥
वेदोदिताच्च संस्काराच्छिवभावनयाऽपि च।
तथा हिंसादिराहित्याद्देहशुद्धिर्द्विजा भवेत्‌॥२६॥
इन्द्रियाणामधिष्ठातृदेवतास्मरणादपि।
शिवभावनया चापि विशुद्धिर्द्विजयपुङ्गवाः॥२७॥
प्राणायामादधिष्ठातृदेवतास्मरणादपि।
शिवभावनया चापि शुद्धिर्भवेत्प्राणस्य सुव्रताः॥२८॥
निषिद्धचिन्तनाभावाच्छिवभावनयाऽपि च।
मनआदेस्तु विप्रेन्द्रा भवेच्छुद्धिर्न संशयः।
समाधौ विलयश्चापि विशुद्धिः परिकीर्तिता॥२९॥

—————————————————————————————————————————————————————

सर्वस्य मायापरिकल्पितस्वरूपत्वादविचारितरमणीयत्वेन स्वाभाविकमेवाशुद्धत्वमित्यर्थः। कीर्तितेति। जीवात्मनोऽपि श्रुतिस्मृत्युदितेन कर्मणा व्यावहारिकी शुद्धिर्मन्वादिभिरभिहितेत्यर्थः॥२३—२५॥वेदोदिताच्च संस्कारादिति। गर्भाधानपुंसवनसीमन्तजातकर्मादिको देहादेरनात्मनो वेदोदितः संस्कारः॥२६॥ इन्द्रियाणामिति। श्रोत्रत्वगादीनामिन्द्रियाणाम्‌ “दिग्वाय्वादित्यवरुणपृथिव्याख्यास्तु देवताः” इत्यादिना चतुर्दशेऽध्यायेऽधिष्ठातृदेवताः प्रतिपादितास्तन्मयत्वेन तेषां स्मरणं विशुद्धिहेतुः। अपिशब्दः पूर्वोक्तसंस्कारसमुच्चयार्थः॥२७॥२८॥ समाधौ विलय इति। विजातीयवृत्त्यव्यवहितेन ब्रह्माकारमनोवृत्तिप्रवाहेण ध्येयपरशिवस्वरूपावरणाज्ञानापनयनेन यद्ध्येयमात्रस्य स्फुरणं स समाधिः। तत्र विद्यमाना अपि मनोवृत्तयः स्वगोचरविषयकृत्तेरभावे तदविषया इवासच्छायाः। तथा च पातञ्जल सूत्रम्—‘तदेवार्थमात्र-

देहादेस्तु विशुद्ध्याऽऽत्मा शुद्धोऽहमिति विभ्रमात्‌।
स्वात्मानं मन्वते शुद्धं सा शुद्धिर्व्यावहारिकी॥३०॥
अशुद्ध्याऽशुद्धवद्भाति शरीरादेस्तु चेतनः।
व्यवहारे यथा चन्द्रो निश्चलोऽपि चलत्यपि॥३१॥
भूतभौतिकरूपाणां विशुद्धिर्ब्रह्मभावनात्‌।
भवत्येव न संदेहः सत्यमुक्तं मयैव तु॥३२॥
ब्रह्मभावनया सर्वं विशुद्धमिति पश्यतः।
न हेयं विद्यते किंचित्सत्यमेव न संशयः॥३३॥
ब्रह्म सर्वमिति ज्ञानाद्भावनाबलतोऽपि वा।
विना विशुद्धिर्द्रव्याणां न सिध्यति कदाचन॥३४॥
शुद्धिः कृच्छ्रेण सिद्धाऽपि द्विजा वेदार्थपारगाः।

——————————————————————————————————————————————————————

निर्भासं स्वरूपशून्यमिव समाधिः’ इति। एवं समाध्यवस्थायामुक्तलक्षणेन विलयः सोऽप्यन्तःकरणस्य शद्धिहेतुरित्यर्थः॥२९॥ विभ्रमादिति। तीर्थस्नानादिजन्यशुद्ध्यधिकरणदेहेन्द्रियादितादात्म्यविभ्रमात्स्वात्मनि तदीयधर्मसंसर्गाध्यासेन शुद्धोऽहमिति सा व्यावहारिकी न तु पारमार्थिकी॥३०॥ तर्हि परमार्थतोऽशुद्ध एवाऽऽत्मा नेत्याह—अशुद्ध्येति। सच्चिदानन्दलक्षणस्य स्वात्मनः स्वतः शुद्धेः प्राक्प्रतिपादितत्वात्तादृशस्याप्यस्य व्यवहारावस्थायामविशुद्धदेहादितादात्म्याभिमानेन तदीययाऽऽशुद्ध इव भाति। यथा चन्द्रः स्वतो निश्चलोऽपि चश्चलेषु जलतरङ्गबुद्बुदेषु प्रतिबिम्बितः सन्स्वाश्रयचलनाध्यासेन स्वयमपि चलन्निव भाति तद्वत्‌॥३१—३३॥ ब्रह्म सर्वमिति। अनात्मप्रपञ्चस्य सर्वस्य सन्घटः सन्पटः सत्कुङ्यमित्याद्यनुवेधवबलेन सन्मात्रस्वरूपपरमात्मनि कल्पितत्वेन वस्तुतस्तत्स्वरूपानतिरिक्तत्वाद्वास्तवमखण्डैकरसमद्वितीयं तत्स्वरूपं साक्षात्कृर्वतो ब्रह्मैव सर्वं न ततोऽतिरिक्तं किंचिदिति निर्विचिकित्सं ज्ञानं जायते तस्मादित्यर्थः। भावनाबलत इति। यस्तु ‘इदं सर्वं यदयमात्मा’ इत्यादिश्रुतेरुक्तलक्षणमर्थं जनानोऽप्यसंभावनाविपरीतभावनाभ्यां संदिग्धे तस्याऽऽपातज्ञानिनो

अशुद्ध्या चाऽऽवृतं सर्वं धूमेनाग्निर्यथाऽऽवृतः॥३५॥
तथाऽपि शुद्धिः कर्तव्या व्यवहारेऽखिलस्य तु॥३६॥
वेदसिद्धेन मार्गेण श्रेयस्कामैर्मनीषिभिः।
चण्डालाद्यैस्तु संस्पृष्टं मृन्मयं पक्वमुत्सृजेत्‌॥३७॥
प्रक्षालयेदपक्वं तु पोक्षयेद्वा कुशोदकैः।
पक्वं शूद्रेण संस्पृष्टं प्रोक्षणादेव शुध्यति॥३८॥
त्याज्यमेवोपयुक्तं स्यात्पुनः पाकेन वा शुचि।
आकारद्वितयात्मस्थं मृन्मयं तु पुरातनम्‌॥३९॥
अग्निदाहेन संशुध्येन्नूतनं क्षालनेन तु।
विष्ठया मृन्मयं स्पृष्टमुपयुक्तं परित्यजेत्॥४०॥
अपक्वं क्षालयेच्छुद्ध्यै बहुशस्तु कुशोदकैः।
उदक्याशुचिसंस्पृष्टं यज्ञपात्रं तु दारवम्‌॥४१॥
उपयुक्तं त्यजेदन्यत्क्षालयेच्च कुशाम्भसा।
विलोक्य देशकालादि द्रव्यं द्रव्यप्रयोजनम्‌॥४२॥
स्वोपपत्तिमवस्थां च पुनः शौचं समारभेत्‌।
अन्नं द्रोणादिकं पक्वमन्त्यायस्पृश्यदूषितम्‌॥४३॥
क्षालनेन विघातेन परिशुद्धं हि चाऽऽपदि।

———————————————————————————————————————————————————

ब्रह्मभावनयैव सर्वं शुध्यतीयर्थः। विनेति। सर्वस्य ब्रह्मरूपत्वज्ञानं तद्रूपत्वेन भावनं चैतदुभयमन्तरेणेत्यर्थः॥३४॥३५॥ अशुद्ध्या चाऽऽवृतमिति। प्रायश्चित्तेन शुद्धोऽप्यनात्मपदार्थः स्वाभाविकयाऽशुद्ध्याऽऽवृत एव भवति। अग्निधूमयोरिव तयोरविनाभूतत्वादित्यर्थः। भगवताऽप्युक्तम्—‘सर्वारम्भा हि दोषेण धूमेनाग्निरिवाऽऽवृताः’ इति॥३६॥ श्रेयस्कामैरिति। अभ्युदयनिःश्रेयसलक्षणपुरुषार्थं कामयमानैर्विद्वद्भिः पूर्वोक्तब्रह्मरूपत्वज्ञानेन सद्भावनया त्वोक्तेन

द्रोणादूनं त्यजेद्भारादधिकं प्रोक्षयेद्बुधः॥४४॥
अनापदि न सर्वत्र क्षालयेद्द्रोणतः परम्‌।
कुम्भादूर्ध्वं द्विजा धान्यं पक्कं प्रोक्षणतः शुचि॥४५॥
अपक्वं क्षालनेनैव विशुद्धं भवति ध्रुवम्‌।
भारादूनः परित्याज्यः पक्वधान्यस्य तण्डुलः॥४६॥
भारद्वयादधः क्षाल्यस्तदूर्ध्वं प्रोक्षणाच्छुचिः।
अन्नं पक्वं परित्याज्यमुदक्यान्त्यादिदूषितम्‌॥४७॥
भारषट्कौदनं क्षाल्यं प्रोक्षणीयं ततः परम्‌।
उदक्यान्त्यादिसंस्पृष्टं वस्त्रं प्रक्षालयेत्तथा॥४८॥
श्वसूकरखरोष्ट्रादिस्पृष्टं च प्रक्षालयेत्तथा।
नववस्त्रं च काषायं बहुवस्त्रं तथैव च॥४९॥
रक्तवस्त्रं तथा कृष्णं प्रोक्षयेत्कम्बलादिकम्।
तण्डुलेषु तथा धान्ये गुडे गव्ये रसात्मके।
काकादिदूषितांशं तु त्यक्त्वा संप्रोक्षयेद्बुधः॥५०॥
द्रवद्रव्यस्य संशुद्धिर्भवेदुत्प्लवनेन तु॥५१॥
दुष्टभाण्डस्थितस्यास्य भवेद्दोषो न चापरः।
द्रव्याणामग्निपक्वानां धान्यवच्छुद्धिरीरिता॥५२॥
अलभ्यलाभे संशुद्धिः प्रोक्षणेनैव केवलम्‌।
केशलोमनखस्पृष्टं क्रिमिकीटादिदूषितम्॥५३॥
अन्नं तु भस्मना शुद्धं प्रोक्षणेन घृतेन च।
क्रीतं पिष्टमयं सर्वं पुनः पाकेन शुध्यति॥५४॥

—————————————————————————————————————————————————————

श्रुतिस्मृत्युक्तमार्गेणानात्मपदार्थस्य तात्कालिकी शुद्धिः कर्तव्या॥३७**—**६४॥

शूद्रान्त्याशुचिसंस्पृष्टं त्याज्यमेव न संशयः।
उच्छिष्टो द्रव्यहस्तस्तु भक्ष्यद्रव्यं तु किंचन॥५५॥
निधाय शौचं कृत्वाऽथ गृह्णीयात्प्रोक्षितं ततः।
अद्भिस्तु प्रोक्षणं शौचं बहूनां धान्यवाससाम्‌॥५६॥
प्रक्षालनेन त्वल्पानां शद्धिर्वेदोदिताऽपरा।
तैजसानां सुरास्पर्शे वह्निदाहेन शुद्धता॥५७॥
ब्राह्मणस्य विशां राज्ञां क्षालनेन विशुद्धता।
श्वचाण्डालादिसंस्पर्शे तैजसानां तु मार्जनात्‌॥५०॥
प्रोक्षणाच्च विशुद्धिः स्यात्तिन्त्रिण्या ताम्रशोधनम्।
भस्मना मृज्जलाभ्यां च मार्जनेन विशुद्धता॥५९॥
उदक्या भुक्तकांस्यस्य घर्षणेन जलेन च।
कल्याणे तीर्थयात्रायां राष्ट्रक्षोभे च संभ्रमे॥६०॥
देवोत्सवे च दारिद्र्ये स्पृष्टिदोषो न विद्यते।
शूद्रानुलोमकाकाद्यैः प्रतिलोमैश्च दूषितम्‌॥६१॥
मृज्जलाभ्यां विशुध्येत त्वेकविंशतिमार्जनात्‌।
अश्मना निर्मितं पात्रं भस्मना सजलेन तु॥६२॥
निर्लेपं शुद्धिमाप्नोति त्वेकविंशतिमार्जनात्।
अब्जानि शङ्खशुक्त्यादिद्रव्याणि सकलानि तु॥६३॥
प्रक्षालनेन शुद्धानि भस्मना मार्जनेन च।
बहुनाऽत्र किमुक्तेन सर्वं ब्रह्यात्मना बुधाः।
सर्वदोषनिवृत्त्यर्थं चिन्तयेत्सुदृढं सदा॥६४॥
ब्रह्मरूपेण संग्राह्यं सर्वं शुद्धं सदा भवेत्‌।

नित्यशुद्धस्य दृष्टिस्तु विशुद्ध्यै भवति ध्रुवम्‌॥६५॥
नित्यशुद्धं हि तद्ब्रह्म सदा सत्यादिलक्षणम्‌।
ततस्तदृृष्टिसंयुक्तं विशुद्धं सकलं भवेत्‌॥६६॥
अथवा सकलं कार्यं तर्कतश्च प्रमाणतः।
कारणात्मतया पश्येत्सर्वदोषनिवृत्तये॥६७॥
कारणं सर्वकार्याणां परमात्मैव नेतरत्‌।
प्रवदन्ति हि वेदान्ताः स्मृतयश्चाऽऽदरेण तु॥६८॥
अतः समस्तं परमेश्वरात्मना विचिन्तयेत्स्वा-
नुभवेन मानवः। विचिन्तनेनैव समस्त-

——————————————————————————————————————————————————————

ब्रह्मरूपेणेति। अनात्मद्रव्यस्य ब्रह्मरूपत्वभावनयेत्यर्थः॥६५॥६६॥ एवं परमार्थतो ज्ञानवतः पुरुषस्यानात्मवस्तुनि नाम ब्रह्मेत्यादाविव ब्रह्मदृष्ट्या भावनं शुद्धिहेतुरित्युक्तम्‌। अथ सम्यग्ज्ञानिनः कार्यप्रपञ्चस्य सर्वस्य कारणभूतसच्चिन्मात्रब्रह्मात्मनाऽनुसंधानमेव शुद्धिहेतुरित्याह—अथवेति। तर्कतश्च प्रमाणत इति। यदिदं कार्यं कारणमात्रादन्यत्तस्य प्राक्प्रतिपादितत्वाज्जगदाकारविवर्तमानमायाधिष्ठानत्वेन कारणभूतं सन्मात्रं ब्रह्मैव सकलकार्यजगदात्मकं न तु ततोऽतिरिक्तं कार्यं नाम किंचिदिति तर्कतः कार्यस्य कारणत्वावगमः। अस्यार्थस्य प्रतिपादकमुक्ततर्कानुग्राह्यं प्रमाणम्‌ “इदं सर्वं यदयमात्मा” “तेजसा सोम्य शुङ्गेन सन्मूलमन्विच्छ सन्मूलाः सोम्येमाः सर्वाः प्रजाः सदायतनाः सत्प्रतिष्ठाः” “स एषोऽणिमैतदात्म्यमिदं सर्वं यदयमात्मा” इत्यादिका श्रुतिः॥६७॥ तत्र हि ‘येनाश्रुतं श्रुतं भवति’ इत्येकविज्ञानात्सर्वविज्ञानं प्रतिज्ञाय कथमेतद्युज्यत इत्याशङ्क्य घटशरावादिकार्यस्य विकारित्वान्मृदादिकारणमात्रस्यैव सत्यत्वम्‌ ‘वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्‌’ इत्यादिना निर्धार्य तदृष्टान्तबलेन वियदादिभूतभौतिकात्मकस्य कार्यप्रपञ्चस्य वाचारम्भणमात्रत्वात्‌ ‘सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्‌’ इति प्रकृतस्य कारणभूतस्य सद्वस्तुन एव सत्यत्वमिति सत्यनिर्धारणात्कार्यं

मास्तिका विशुद्धतामेति न चात्र संशयः॥६९॥

इति श्रीस्कान्दपुराणे सूतसंहितायां चतुर्थे यज्ञवैभवखण्डे
द्रव्यशुद्धिविचारो नाम चतुश्चत्वारिंशोऽध्यायः॥४४॥

पञ्चचत्वारिंशोऽध्यायः।

४६, अभक्ष्यनिवृत्तिः।

सूत उवाच—

अथातः संप्रवक्ष्यामि मुनयः संशितव्रताः।
अभक्ष्यस्य निवृत्त्या तु विशुद्धं हृदयं भवेत्‌॥१॥
आहारशुद्धौ चित्तस्य विशुद्धिर्भवति स्वतः।

चित्तशुद्धौ क्रमाज्ज्ञानं जायते पारमेश्वरम्‌॥२॥
पारमेश्वरविज्ञाने सति संसारहेतवः।

ग्रन्थयस्तु विनश्यन्ति न हि संदेहकारणम्‌॥३॥

————————————————————————————————————————————

जगद्विकारमात्रं न तु तत्स्वरूपादन्यदिति कार्यस्य कारणमात्रप्रतिपत्तिस्तदाहकारणं सर्वकार्याणामिति॥६८॥६९॥

इति श्रीसूतसंहितातात्पर्यदीपिकायां चतुर्थे यज्ञवैभवखण्डे द्रव्यशुद्धिविचारो
नाम चतुश्चत्वारिंशोऽध्यायः॥४४॥

————

एवमात्मानात्मनोरुक्तोपायेन शुद्धयोरप्यभक्ष्यभक्षणजानितचित्तमालिन्यद्वारा पुनरप्यविशुद्धिः स्यादिति तन्निवृत्यर्थं भक्ष्याभक्ष्यं विवेक्तुमारभते

अथात इति॥१॥ आहारशुद्धाविति। कारणभूतस्यान्नस्य विशद्धौ सत्यां च तत्परिणामरूपस्य कार्यस्‍यान्तःकरणस्यापि विशद्धिर्भवतीत्यर्थः। मनसोऽन्नकार्यत्वं श्रूयते ‘अन्नमशितं त्रेधा विधीयते तस्य यः स्थविष्ठो धातुस्तत्पुरीषं भवति यो मध्यमस्तन्मांसं योऽणिष्ठस्तन्मनः” इति। क्रमादिति। ‘कर्मणा शुद्धचित्तस्य संसतेर्दोषदर्शनम्‌। पुनर्विरक्तिः संसारान्मोक्षेच्छा जायते ततः’ इति प्रागुक्तादित्यर्थः॥२॥ ग्रन्थयस्त्विति। अग्न्ययःपिण्डयोरिव सत्वपरि

अभक्ष्यभक्षणाच्चित्तमशुद्धं भवति स्वतः।
अशुद्ध्या भ्रान्तिविज्ञानं जायते सुदृढं नृणाम्‌॥४॥
भ्रान्तिविज्ञानतः पुंसो निषिद्धाचरणे रतिः।
जायते तु तया पापं कुरुते कर्म सर्वदा॥५॥
तेन संसारवृद्धिः स्यान्न हि मुक्तिः कथंचन।
तस्मादभक्ष्यं यत्नेन दूरतः परिवर्जयेत्‌॥६॥
अभक्ष्यं ब्रह्यविज्ञानविहीनस्यैव देहिनः।
न सम्यग्ज्ञानिनस्तस्य स्वरूपं सकलं खलु॥७॥

—————————————————————————————————————————————————————

णामरूपान्तःकरणचैतन्ययोरज्ञाननिमित्तको यस्तादात्म्यविभ्रमः स एको ग्रन्थिः अन्तःकरणधर्माणां कर्तृत्वभोक्तृत्वादीनां धर्मितादात्म्याध्यासनिबन्धनो यश्चिदात्मना संसर्गाध्यासः सोऽपरः। चिद्व्याप्तान्तःकरणेन स्थूलदेहदेर्यत्तादात्म्यं सोऽपरः। एते च परमार्थतो निःसङ्गस्याऽऽत्मनः संसारबन्धहेतुत्वाद्ग्रन्थय उच्यन्ते। ततश्च प्रत्यगात्मनः परशिवस्वरूपसाक्षात्कारेण मूलाज्ञाननिवृत्तौ तत्कार्यभूता ग्रन्थयो ह्युपादाननिवृत्त्या निःशेषं निवर्तन्त इत्यर्थः। तथा च छन्दोगैराम्नायते—“आहारशुद्धौ सत्त्वशुद्धिः सत्त्वशुद्धौ ध्रुवा स्मृतिः। स्मृतिलम्भात्सर्वग्रन्थीनां विप्रमोक्षः” इति॥३॥एतदेव विशुद्धाहारस्य क्रमान्मुक्तिसाधनत्वं व्यतिरेकमुखेनोपपादयति अभक्ष्येति। अशुद्ध्या भ्रान्तिविज्ञानमिति। अविशुद्धाहारेण मलिनस्यानित्याशुचिदुःखादिलक्षणे संसारे नित्यशुचित्वादिलक्षणं भ्रान्तिज्ञानं जायते। “अनित्याशुचिदुःखानात्मसु शुचिनित्यसुखात्मख्यातिरविद्या” इति हि पातञ्जलाः॥४॥ भ्रान्तिविज्ञानत इति। उदीरितलक्षणान्मिथ्याज्ञानान्निषिद्धविषयगोचरो रागो जायते तस्माच्च पापे प्रवृत्तिस्तत्फलभूतसंसाराभिवृद्धिरित्याहारशुद्व्यभावे भुक्त्याशङ्काऽपि नास्तीत्यर्थः। एतच्च विभ्रमज्ञानादीनामुत्तरोत्तरं प्रति पूर्वपूर्वस्य कारणत्वं नैयायिकैरपि सूत्रितम्‌—‘दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायादपवर्गः’ इति॥५॥६॥ देहिन इति। स्थूलसूक्ष्मकारणात्मना त्रिविधेनापि देहेन तादात्म्येनाभिमन्यमानस्य विवेकज्ञानरहितस्यैव वक्ष्यमाणो भक्ष्याभक्ष्यवि—

अहमन्नं तथाऽन्नाद इति हि ब्रह्मवेदनम्।
ब्रह्मविद्ग्रसति ज्ञानात्सर्वं बह्मात्मनैव तु॥८॥
ब्रह्मक्षत्त्रादिकं सर्वं यस्य स्यादोदनं सदा।
यस्योपसेचनं मृत्युस्तज्ज्ञानी तादृशः खलु॥९॥
ब्रह्मखरूप॑ विज्ञातुर्ज्ञानात्तत्तस्य भासते।
तथा सति जगद्भोज्यं भवेद्विज्ञानिनः खलु॥१०॥
जगदात्मतया भाति यदा भोज्यं भवेत्तदा।
यदा स्वात्मतया भाति भक्षितं सकलं तदा॥११॥

—————————————————————————————————————————————————————

वेकः। यस्तु सम्यग्ज्ञानी न तस्याभक्ष्यवर्जनं सभवतीत्याह—न सम्यगिति। सम्यग्ज्ञानेन संशयनिरासज्ञानी हि निर्विचिकित्सं स्वात्मनः परं शिवात्मत्वं जानन्भक्ष्याभक्ष्यरूपेण विविधावस्थितमपि सर्वं स्वरूपतयैव जानाति न त्वभक्ष्यं स्वतोऽतिरिक्तं पश्यतीति यद्वर्जने प्रयतेतेत्यर्थः॥७॥ एतदेव सर्वात्मत्वमुपपादयति—अहमन्नमिति। भोक्तृभोग्यात्मकं हि सकलं जगत्तस्य सर्वस्य स्वस्मिन्नज्ञानपरिकल्पितत्वात्स्वरूपयाथात्म्यावबोधेन सकारणस्य तत्रैव विलये सति भोक्तृभोग्ययोः स्वात्ममात्रतया यदनुसंधानं तत्खलु ब्रह्मज्ञनमित्यर्थः। तथा चाऽऽम्नायते—‘अहमन्नमहमन्नमहमन्नम्‌। अहमन्नादोऽ३हमन्नादोऽ३ हमन्नादः’ इति। एवमभक्ष्यवर्जनस्यासंभवं प्रतिपाद्य प्रत्युत तस्य सर्वं भक्ष्यमेवेत्युपपादयति—ब्रह्मविदिति॥८॥ उक्तोऽर्थः श्रुतिसंमत इति दर्शयति —ब्रह्मक्षत्त्रादिकमिति। सा च श्रतिरेवमाम्नाता—“यस्य ब्रह्म च क्षत्नं च उभे भवत ओदनः। मृत्युर्यस्योपसेचनं क इत्था वेद यत्र सः” इति। स्वात्मयाथात्म्यज्ञानेन ब्रह्मक्षत्त्राद्युपलक्षितं समृत्युकं सर्वं जगत्स्वात्ममात्रतया ग्रसतः सर्वं जगद्भक्ष्यमेव भवतीत्यर्थः॥९॥ ब्रह्मस्वरूपमिति। सर्वात्मज्ञानवतस्तस्य पुरुषस्य तत्सर्वं जगत्सच्चिदानन्दानुभवबलेन ब्रह्मस्वरूपं भासते। तथाच सति प्रतीयमानस्य जगतः स्वात्मना ग्रस्यमानत्वात्तस्य ज्ञानिनो भोज्यं भवतीत्यर्थः॥१०॥ एतदेव विवृणोति—जगदात्मतयोति। सद्रूपे ब्रह्म-

तदा भातेन रूपेण जगद्भोज्यं भवेत्स्वयम्‌।
मानतः स्वात्मना भातं भक्षितं भवति ध्रुवम्‌॥ १२॥
जाग्रत्स्वप्नाभिधे काले प्रतीतं ग्रसतीश्वरः।
स्वात्मनैव सुषुप्ते तु पुनस्तत्सृजति प्रभुः॥ १३॥
यथा स्वप्नप्रपञ्चस्थं समस्तं वस्तुतः स्वयम्‌।

——————————————————————————————————————————————————————

ण्यध्यस्तं नामरूपात्मकं जगद्यदा यस्यां प्रतीत्यवस्थायामधिष्ठानसत्तासंसर्गवशाल्लब्धसत्ताकंभाति तदा तस्यामवस्थायामारोप्यस्य जगतोऽधिष्ठानसत्त्वव्यतिरेकेण पृथक्सत्त्वानुपपत्तेः सन्मात्रब्रह्मात्मनाऽनुसंधानादभक्ष्यस्य पृथक्सत्त्वाभावेन वर्जयितुमशक्यत्वाच्च तथाविधज्ञानिनः सर्वं जगद्भोज्यमेव भवति। यदा तु बाधावश्थायामधिष्ठानयाथात्म्यज्ञानेनाज्ञानतत्कार्यजातस्य विनिवर्तितत्वात्सर्वं जगत्स्वात्मतया भाति बाधावधिभूतेन प्रत्यगात्मना स्वरूपभूतेन सद्ब्रह्मात्मनैव केवलं भासते न तु नामरूपात्मनेत्यर्थः। तदा सर्वं जगत्सन्मात्रे स्वात्मनि विलापनाद्भक्षितमेव भवतीत्यर्थः॥११॥ एवमधिष्ठानसत्त्वोपजीवनेनाभोज्यत्वं निराकृत्याधिष्ठानचिन्मात्रपर्यालोचनयाऽपि तन्निराकरोति—तदेति। अधिष्ठानस्फुणरूपेणाऽऽरोप्यं जगदपि यदा प्रतीतिसमये स्फुरणवद्भवाति तदा सर्वस्य नामरूपात्मकस्य जगतः पृथक्स्फुरणाभावेनाधिष्ठानाचिन्मात्रतयाऽनुसंधानाद्वर्जयितुमशक्यत्वेन ज्ञानिनः सर्वं जगद्भोज्यं भवतीत्यर्थः। अन्यत्पूर्वव द्योज्यम्। मानत इति। “इदँसर्वं यदयमात्मा” इत्यादिकात्प्रमाणादित्यर्थः॥१२॥ ननु चक्षुरादिभिरिन्द्रियैर्घटपटादिलक्षणः प्रपञ्चः पृथक्सत्वेनैवानुभूयते कथं तस्य स्वात्ममात्रतया भक्षितत्वमित्याशङ्क्याऽऽह—जाग्रदिति। जागरस्वप्नावस्थयोः प्रतीयमानं सर्वं जगत्सुषुप्तिसमये जीवरूपेण स्थित ईश्वरः स्वात्ममात्रतया ग्रसति तदा तस्याप्रतिभासमानत्वात्तत्कारणभूतमज्ञानेन हि केवलं प्रतिभासते। नन्वेवं सुषुप्तिसमये यदि सर्वं जगद्ग्रस्तं परेद्युः कथं तस्याऽऽविर्भाव इति तत्राऽऽह—पुनरिति। ग्रस्तसजातीयमन्यदेव जगत्स्वाज्ञानबलात्परस्मिन्दिने पुनरपि सृजति यतोऽयं प्रभुरीश्वरः। अज्ञानादेव तस्य जीवत्वमतस्तस्य सर्जनशक्तिरस्तीति॥१३॥ अस्त्वेवं

तथा जाग्रत्प्रपञ्चस्थं वस्तुतः स्वयमेव हि॥१४॥
स्वस्वरूपं स्वयं भुङ्क्ते नास्ति भोज्यं पृथक्स्वतः।
अस्ति चेदस्तितारूपं ब्रह्मैवास्तित्वलक्षणम्‌॥१५॥
अस्तितालक्षणा सत्ता सदा ब्रह्म न चापरा।
नास्ति सत्ताऽतिरेकेण किंचिदप्यास्तिकोत्तमाः॥१६॥
सत्तातिरिक्तं चेदस्ति शून्यवच्छून्यमेव तत्‌।
भवेन्नैवात्र संदेहो नास्ति माया च वस्तुतः॥१७॥

—————————————————————————————————————————————————————

स्वप्नप्रपञ्चस्य जाग्रत्प्रपश्चस्य तु नैवं सम्भवतीत्याशङ्क्य स्वप्नदृष्टान्तेनैव तस्यापि स्वात्ममात्रत्वं प्रतिपादयति—यथा स्वप्नेति। यथा स्वप्नप्रपञ्चस्योत्तरक्षणे बाधदर्शनान्मिथ्यात्वेन स्वात्ममात्रत्वमेवमद्वितीयब्रह्मयाथात्म्यज्ञानेनाविद्यातत्कार्यजाग्रत्मञ्चस्यापि बाधितत्वात्परमार्थतः स्वात्ममात्रान्न व्यतिरिच्यत इत्यर्थः॥१९॥ स्वस्वरूपमिति। यस्मादुक्तरीत्या सर्वं जगज्ज्ञानिनः स्वात्मभूतमेव तस्माद्विषयाकारेण परिकल्पितं स्वात्मानमेव स्वयं भुङ्क्ते न तु स्वस्मापृथग्भूतं भोज्यं नाम किंचिदस्ति यद्भक्ष्याभक्ष्यतया विविच्य विधीयेतेत्यर्थः। ननु भोक्तुरात्मनः सकाशात्पृथग्भूतमेव परिकल्पितमिति शब्दस्य र्शादि भोज्यमस्त्येवेत्याशङ्क्य निरस्यति—अस्ति चेदिति। यद्यस्ति भोतज्यं तदप्यस्तित्वानुवेधाद्धटपटादिवदस्तित्वरूपं ब्रह्मैव तत्खल्वस्तित्वलक्षणम्। “अस्ति ब्रह्मेति चेद्वेद” “अस्तीत्येवोपलब्धव्यः” इत्यादिश्रुतेः। अतोऽधिष्ठानास्तित्वमेवाऽऽरोपितभोज्येऽवभासत इति न पृथगस्तित्वं तस्येत्यर्थः॥१५॥ ननु जायतेऽस्ति विपरिणमत इति परिपठितस्य द्वितीयभावविकारस्यास्तित्वस्य कथं निर्विकारब्रह्मरूपतेत्याशङ्क्याऽऽह—अस्तितेति। नात्र भावविकारो विवक्षितोऽपि तु तद्धेतुभूता सत्ता। सा च तन्मात्रं ब्रह्मैव न तु तद्व्यतिरिक्ता पराभिमता जातिरित्याह—नास्तीति॥१६॥ सत्ताया जातित्वे तद्व्यञ्जकतयाऽन्यत्किंचिदवश्यमेष्टव्यम्‌। तच्च न संभवति सत्तातिरिक्तस्य व्यञ्जकस्य तस्य सत्ताभिव्यक्तेः पूर्वमाद्यक्षणवर्तित्वनियमात्तदा सत्तासंसर्गाभावात्स्वतःसत्ताभावाच्च शशविषाणवच्छून्यमेव तद्भवेत्। अतो व्यञ्जका-

अविचारितरूपा हि माया सर्वविमोहिनी।
सा शिवज्ञानहीनानामेव भाति न योगिनः॥१८॥
योगिनामात्मनिष्ठानां माया साक्षिणि कल्पिता।
साक्षिरूपतया भाति शिवज्ञानेन बाधिता॥१९॥
बाधिताऽपि पुनर्माया भाति दिङ्मोहभानुवत्‌॥
प्रारब्धकर्मपर्यन्तं ब्रह्यविज्ञानिनामपि॥२०॥
ब्रह्मविज्ञानसंपन्नः प्रतीतमखिलं जगत्‌।
पश्यन्नपि सदा नैव पश्यति स्वात्मनः पृथक्‌॥२१॥

—————————————————————————————————————————————————————

निरूपणात्सन्मात्रं ब्रह्मैव स्वस्मिन्परिकल्पितनानव्यक्त्यनुगमवशात्सत्तेत्युच्यते न तु पराभिमता जातिरित्यर्थः। एतच्च पञ्चदशेऽध्याये—“सत्ता या भासते सैका” इत्यादिना प्राक्प्रपञ्चितम्‌। नास्ति मायेति। जडप्रपञ्चकारणभूता। सद्ब्रह्मातिरिक्ता माया परमार्थतो नास्ति। अवस्तुभूतेन कार्यप्रपञ्चेन स्वानुरूपस्यैव कारणस्य कल्पनात्तदाह—अविचारितेति। सत्त्वासत्त्वादिविचारासहरूपा सर्वजनसंमोहनशक्तिर्हि माया तथाविधाया एवैन्द्रजालिकादौ दर्शनादित्यर्थः॥१७॥१८॥ शिवज्ञानेन बाधितेति। यस्मादवस्तुभूततयैव साक्षिणि माया परिकल्पिता तस्मात्तस्य साक्षिणः परशिवात्मसाक्षात्कारेण बाधिता भवतीत्यर्थः॥१९॥ ननु ज्ञानिनः परतत्वसाक्षात्कारेण मायाया निवर्तितत्वात्पुनः सा भातीति न युक्ता। न तु रज्जुयाथात्म्यज्ञानेन निवर्तितसर्पस्य पुनस्तत्प्रतीतिः संभवतीत्यत आह—बाधिताऽपीति। ब्रह्मात्मत्वसाक्षात्कारेण हि प्रारब्धकर्मव्यतिरिक्तं कर्मजातं निवर्त्यते प्रारब्धफलं तु कर्मभोगेनैव क्षपयितव्यम्‌। अतस्तावत्पर्यन्तं ज्ञानिनोऽपि संसारप्रतिभासावश्यंभावात्तदुपादानभूता माया तत्त्वसाक्षात्कारेण बाधिताऽपि पुनस्तस्य भाति पर्वतप्रान्तादिदेशविशेषेषूपसंजातदिग्भ्रमस्य पुरुषस्य सूर्योदयादिकारणेन निर्णीतप्राच्यादिदिक्तत्त्वस्यापि पुनर्यथा दिङ्मोहानुवृत्तिस्तद्वत्‌॥२०॥ पश्यन्नपीति। घटपटाद्यात्मकं सर्वं जगच्चक्षुरादिभिरिन्द्रयैर्जानन्नपि सच्चिदानन्दरूपाधिष्ठानब्रह्मात्मनैव पश्यति। नतु तत्स्वरूपात्पृथग्भूतं पश्य-

तस्मादभक्ष्यं नैवास्ति विदुषः परयोगिनः।
आत्मविज्ञानहीनानां खल्वेवाभक्ष्यमास्तिकाः॥२२॥
द्विजानामात्मविज्ञानविहीनानामियं बुधाः।
व्यवस्था शंकरेणैव निर्मिता भक्ष्यगामिनी॥२३॥
लशुनं गृञ्जनं चैव पलाण्डुं ग्रामकुक्कुटम्।
छत्राकं विड्वराह च मतिमान्नैव भक्षयेत्‌॥२४॥
पलाण्डुसदृशं सर्वं गन्धवर्णरसादिभिः।
कामतोऽकामतश्चैव ब्राह्मणो नैव भक्षयेत्‌॥२५॥
व्रश्चनप्रभवं सर्वं हिङ्गुद्रव्यं विनैव तु।
भूस्तृणं शिग्रुकं चैव ब्राह्मणो नैव भक्षयेत्‌॥२६॥
खट्वासंज्ञं च वार्ताकं तथैवोषरजं तृणम्‌।
लवणं भूमिजं विप्रो मोहेनापि न भक्षयेत्‌॥२७॥
नखविष्किरसंज्ञं च तथा कोयष्टिसंज्ञितम्‌।
सौलं वल्लूरसंज्ञं च मत्स्यादो नैव भक्षयेत्‌॥२८॥
बकं चैव बलाकं च खञ्जरीटकसंज्ञितम्‌।
कोकिलं च द्विजश्रेष्ठाः प्रमादाच्च न भक्षयेत्‌॥२९॥
पाठीनरौहितावाद्यौ नियुक्तौ हव्यकव्ययोः।
राजीवान्सिंहतुण्डांश्च शशकान्नैव भक्षयेत्‌॥३०॥
केवलानि च शुष्काणि तथा पर्युषितानि च।
ऋजीषपक्वं विप्रेन्द्रा कदाचिन्नैव भक्षयेत्‌॥३१॥
विण्मूत्रं च सुरास्पृष्टं सर्वं द्रव्यं तथैव च।
सुरास्पृष्टस्य च स्पृष्टं ब्राह्मणो नैव भक्षयेत्‌॥३२॥

रेतो देहमलं चैव श्वकाकोच्छिष्टमेव च।
विड्वराहखरोष्ट्राणां मूत्रं विप्रो न भक्षयेत्‌॥३३॥
बिडालकाकाद्युच्छिष्टं नकुलोच्छिष्टमेव च।
वेदबाह्येन संस्पृष्टं ब्राह्मणो नैव भक्षयेत्‌॥३४॥
शकुनीसंज्ञितान्सर्वांस्तथा ग्रामनिवासिनः।
अनिर्दिष्टांश्चैकशफान्क्रव्यादांश्च न भक्षयेत्‌॥२३५॥
कलविङ्कसमाख्यं च टिट्टिभं प्लवमेव च।
हंसं चक्रसमाख्यं च सारसं नैव भक्षयेत्‌॥३६॥
रज्जुवालं च दात्यूहं शुकं शारीकसंज्ञितम्‌।
प्रतुदाञ्चालपादांश्च ब्राह्मणो नैव भक्षयेत्‌॥३७॥
तुरङ्गस्य गजस्यापि मण्डूकस्य तथैव च।
पुरीषं च तथा मूत्रं ब्राह्मणो नैव भक्षयेत्‌॥३८॥
नराणां च गजानां च मांसमश्वस्य सत्तमाः।
महिषस्य च मांसं च ब्रह्मणो नैव भक्षयेत्‌॥३९॥
अजाविमांसं रक्तं च गोमांसं च तथैव च।
मृगाणां च तथा मांसं बाह्मणो नैव भक्षयेत्‌॥४०॥
मांसं पञ्चनखानां च विनैव सकलानि तु।
कामतोऽकामतो वाऽपि ब्राह्मणो नैव भक्षयेत्‌॥४१॥
मत्स्यं कृत्स्नं दृतिस्पृष्टभाज्यं कीलालमेव च।
रसं तालफस्यापि ब्राह्मणो नैव भक्षयेत्‌॥४२॥
ओदनं तु पुनःपक्वं नारिकेलरसं तथा।
पक्वः तोयमभूमिस्थं ब्राह्मणो नैव भक्षयेत्‌॥४३॥

अनिर्दशाहगोक्षीरमौष्ट्रमेकशफं तथा।
आविकं संधिनीक्षीरं विवत्सायाश्च गोः पयः॥४४॥
आरण्यानां च सर्वेषां मृगाणां महिषीं विना।
स्त्रीक्षीरं च भ्रमाद्वाऽपि ब्राह्मणो न पिबेत्सदा॥४५॥
गोगजाश्वादिभिर्घ्रातं पादस्पृष्ट च कामतः।
अनुलोमादिभिः स्पृष्टं ब्राह्यणो नैव भक्षयेत्‌॥४६॥
उक्तान्येतानि सर्वाणि ब्राह्मणानां विशेषतः।
अभक्ष्याणि मयोक्तानि भक्षकाश्च पतन्त्यधः॥४७॥
तस्मादभक्ष्यं संत्यज्य ब्राह्यणो मतिमत्तमः।
चित्तस्य परिशुद्ध्यर्थं भक्ष्यमेव तु भक्षयेत्‌॥४८॥
क्षत्त्रियाणां च वैश्यानां भक्ष्यमेष्वपि विद्यते।
तथाऽपि भक्षणाभावस्तेषामत्यन्तशोभनः॥४९॥
शूद्रादीनां च सर्वेषामभक्ष्यं नैव विद्यते।
तथाप्यभक्षणं तेषां फलाय महते भवेत्‌॥५०॥
भक्ष्यस्य भक्षणादेव विशुद्धहृदयः पुमान्‌।
पारमेश्वरविज्ञानान्मुच्यते भवबन्धनात्‌॥५१॥
परमेश्वरविज्ञानं वेदादेव न चान्यतः।
आगमान्तरजन्य तु ज्ञानं न ज्ञानमास्तिकाः॥५२॥

—————————————————————————————————————————————————————

ति। आरोप्यस्य स्वाधिष्ठानादव्यतिरिक्तत्वादित्यर्थः॥२१—५१॥ परमेश्वरविज्ञानमिति। प्रत्यगात्मनः परशिवस्वरूपत्वगोचरं विशिष्टं ज्ञानसा क्षात्कारात्मकं वेदान्तवाक्यादेव नान्यस्मादित्यर्थः। आगमान्तरेति। वेदविरुद्धागमवाक्याद्यत्पारमेश्वरं ज्ञानं तद्विकल्पज्ञानमेव स्वतःप्रमाणेन वेदवाक्येन बाधितविषयत्वादित्यर्थः॥५२॥ अष्टादशानामिति। “पुराणन्यायमीमांसा

अष्टादशानां विद्यानां वेदादन्याश्च सत्तमाः।
विद्या वेदानुसारेण प्रवृत्ताः सर्वशोभनाः॥५३॥
तथाऽपि तासु सर्वासु कश्चिदंशः क्वचित्क्वचित्‌।
शिवागमानुसारेण तत्प्रभेदानुसारतः॥५४॥
विष्ण्वागमानुसारेण तत्प्रभेदानुसारतः।
ब्रह्मागमानुसारेण तत्प्रभेदानुसारतः॥५५॥
अधिकारिविशेषेण क्रमेणैव विमुक्तये।
प्रवर्तन्ते मुनिश्रेष्ठाः सत्यमेव मयोदितम्‌॥५६॥
तत्तत्तन्त्रेषु ये मर्त्या दीक्षिता मुनिसत्तमाः।
सोऽशस्तैरेव संग्राह्मः सर्वथा नैव वैदिकैः॥५७॥
मदुक्ता संहिता साध्वी वेदमानानुसारिणी।
वेदेतरागमाधीनः कश्चिदंशो न विद्यते॥५८॥
प्रसादादेव रुद्रस्य संहितेयं मयोदिता।
प्रसादः शाङ्करः सम्यग्ज्ञानस्य खलु साधनम्‌॥५९॥
अतो वेदानुसारेण द्विजानामात्मशुद्धये।
अभक्ष्यमादरेणोक्तं मया वेदार्थवित्तमाः॥६०॥
सर्वमुक्तं समासेन केवलं करुणाबलात्‌।

श्रद्दधानस्त्वभक्ष्याणि भ्रमाद्वाऽपि न भक्षयेत्‌॥६१॥

——————————————————————————————————————————————————————

धर्मशास्त्राङ्गमिश्रिताः। वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दश’ इति चतुर्दशविद्याः। आयुर्वेदो धनुर्वेदो गान्धर्वं नीतिशास्त्रं चेति चतस्रः। तासामष्टादशानां मध्ये वेदव्यतिरिक्ता या विद्यास्ताः सर्वा वेदप्रतिपादितार्थानुसारेण प्रवृत्ताः प्रमाणत्वेन ज्ञातव्या इत्यर्थः। तास्विति वेदव्यतिरिक्तास्वित्यर्थः॥५३-६१

इति श्रीसूतसंहितायां चतुर्थे यज्ञवैभवखण्डे अभक्ष्य-
निवृत्तिकथनं नाम पञ्चचत्वारिंशोऽध्यायः॥४५॥

———

षट्चत्वारिंशोऽध्यायः।

४६. मृत्युसूचकविवरणम्‌।

सूत उवाच

अथातः संप्रवक्ष्यामि समासेन न विस्तरात्‌।
येन ज्ञानविशेषेण मृत्युं पश्यन्ति देहिनः॥१॥
सोमच्छायां ध्रुवं चैव महापथमरुन्धतीम्‌।
अपश्यन्वत्सरादूर्ध्वं न जीवति न संशयः॥२॥
अरश्मिमन्तमादित्यं रश्मिमन्तं च पावकम्‌।
पश्यन्नेकादशान्मासादूर्ध्वं मर्त्यो न जीवति॥३॥
रजतं वा सुवर्णं वा विण्मूत्रं वा वमेन्नरः।
प्रत्यक्षमथवा स्वप्ने दश मासान्न जीवति॥8॥
भूतप्रेतपिशाचांश्च गन्धर्व नगराणि च।
रुक्मवर्णान्द्रुमान्पश्यन्नव मासान्न जीवति॥५॥

——————————————————————————————————————

इति श्रीस्कन्दपुराणे सूतसंहितातात्पर्यदीपिकायां चतुर्थे यज्ञवैभवखण्डे
अभक्ष्यनिवृत्तिकथनं नाम पञ्चचत्वारिंशोऽध्यायः॥४५॥

———

आसन्नमरणः पुरुषो वाराणस्यादिस्थानविशेषमाश्रित्य संसारनिवृत्त्युपायं शीघ्रमनुतिष्ठेदित्यमभिप्रेत्य मरणसूचकान्यारिष्टानि वक्तुं प्रतिजानीते—अथात इति॥१॥ सोमच्छायामिति। शुद्धद्वितीयादितिथिषु कतिपयकलात्मकस्य तेजसोंऽशो दृश्यते सा सोमच्छाया। महापथमिति। प्रवाहरूपेणावस्थितो नक्षत्रश्रेणिस्तारापथपर्यायो महापथः॥२॥ अरश्मिमन्तमादित्यमिति। उष्णकि-

स्थूलो वाऽपि कृशोऽकस्माद्भवेन्मर्त्यः स्वयं यदि।
कृष्णवर्णोऽथवा मासानष्टौ जीवति मानवः॥६॥
स्वपादं खण्डितं पश्यन्नग्रतः पृष्ठतोऽपि वा।
पङ्के वा पांसुके वाऽपि सप्त मासान्न जीवति॥७॥
कपोतो वाऽथ गृध्रो वा काको वा यदि मूर्धनि।
स्थितः क्रव्यादसंज्ञो वा षण्मासेन विनश्यति॥८॥
गच्छन्ती वायसी पङ्किः पांसुवर्षं विमुञ्चति।
गच्छेद्वायसपङ्क्तीभिः पांसुवर्षेण वा नरः।
स्वच्छयां विकृतां पश्येच्चतुर्वा पञ्च जीवति॥९॥
विद्युतं दक्षिणे भागे पश्यन्मेघविवर्जिते।
उदके चापमैन्द्रं वा त्रीणि द्वौ वा स जीवति॥१०॥
दर्पणे वा जले वाऽपि परेषां वाऽथ चक्षुषि।
अशिरस्कं तथाऽऽत्मानं पश्यन्मासेन नश्यति॥११॥
बस्तगन्धस्तु वा देहः शवगन्धस्तु वा भवेत्‌।
निम्बगन्धस्तु वाऽतीव मासार्धेन विनश्यति॥१२॥
शुष्यते हृदयं यस्य मस्तकं धूमसंवृतम्‌।
सदा कम्पो भवेद्यस्य दशाहं नैव जीवति॥१३॥
संभिन्नो मारुतो यस्य मर्मस्थानानि कृन्तति।
अद्भिः स्पृष्टो न हृष्येच्च मृत्युस्तस्य गृहं गतः॥१४॥

——————————————————————————————————————

रणरहितं चन्द्रमण्डलवदवस्थितं सूर्यमण्डलमित्यर्थः। ऐतरेयारण्यकेऽपि—“चन्द्रमा इवाऽऽदित्यो दृश्यते न रश्मयः प्रादुर्भवन्ति” इत्यादिना। प्रत्यक्षं स्वप्नं चैवमादीनि बहुन्यरिष्टानि तानि सर्वाण्यत्र मूलप्रमाणत्वेनानुसंधेयानि॥३—६६

ऋक्षवानरसंयुक्तरथेनैव तु दक्षिणाम्‌।
दिशं गच्छति यो मर्त्यो मृत्युस्तस्य ग्रहं गतः॥१५॥
कृष्णाम्बरधराः स्वप्ने श्यामवखधरास्तु वा।
येनैव सह गच्छन्ति दक्षिणां न स जीवति॥१६॥
छिन्नं कृष्णं स्वकं वासः स्वप्ने पश्यति यः पुमान्‌।
नग्नं वा (श्र)भ्रमणं तस्य गृहे मृत्युरुपस्थितः॥१७॥
नक्षत्राणि दिवा पश्यन्रात्रौ चेन्द्रधनुस्तथा।
चन्द्रं रक्तं तु वा कृष्णं भानुं पश्यति मानवः॥१८॥
आदित्यमण्डले पश्येत्सुषिरं चन्द्रमण्डले।
आकाशे रक्तमालां वा सद्य एव विनश्यति॥१९॥
श्मशानं भस्म केशांश्च नदीं शुष्कां भुजंगमान्।
पश्येत्स्वप्नदशायां यस्तस्य मृत्युर्गृहं गतः॥२०॥
कृष्णैर्विकेशैः पुरुषैः स्वप्नेः यः पीडितः पुमन्‌।
पाषणैस्ताङ्यते यस्तु मृत्युस्तस्य गहं गतः॥२१॥
आदित्योदयवेलायां प्रत्यक्षं यस्य वै शिवाः।
क्रोशन्त्यभिमुखा ह्येत्य मृत्युस्तस्य ग्रहं गतः॥२२॥
भयकम्पादयो यस्य भूयो भूयो भवन्ति च।
शोकमोहौ सदा यस्य मृत्युस्तस्य गृहं गतः॥२३॥
निर्जला यस्य जिह्वा तु दन्तघर्षस्तु यस्य च।
हृदये यस्य वै वह्निर्मृत्युस्तस्य गृहं गतः॥२४॥
चक्षरेकं स्रवेद्यस्य कर्णौ स्थानाच्च भ्रश्यतः।
यस्य नासा च वक्रा स्यान्मृत्युस्तस्य गृहं गतः॥२५॥

यस्य जिह्वा च कृष्णा स्यात्सुमुखं दुर्मुखं भवेत्‌।
गण्डे च कृष्णे रक्ते वा मृत्युस्तस्य गृहं गतः॥२६॥
मुक्तकेशो हसन्गायन्नृत्यन्गच्छति दक्षिणाम्‌।
दिशं स्वप्नेऽस्य मृत्युः स्यादीदृशस्वप्नदर्शिनः॥२७॥
श्वेतभूतास्तथा श्वेता अश्वाः श्वेततरा अपि।
वहन्ति याम्यदेशे यं तस्य मृत्युरुपस्थितः॥२८॥
उष्ट्ररासभसंयुक्तं रथमारुह्य दक्षिणे।
स्वप्ने गच्छति यो मर्त्यस्तस्य मृत्युरुपस्थितः॥२९॥
घोषं न श्रृणुयात्कर्णे ज्योतिर्नेत्रे न पश्यति।
श्वभ्रे यो निपतेत्स्वप्ने तस्य मृत्युरुपस्थितः॥२०॥
ऊर्ध्वदृष्टिस्तथा रक्तकृष्णदृष्टिश्च यः पुमान्‌।
ऊष्माविहीनदेहश्च तस्य मृत्युरुपस्थितः॥३१॥
नाभौ वा हृदये वाऽपि सुषिरं यस्य भासते।
यस्यात्युष्णं भवेन्मूत्रं तस्य मृत्युरुपस्थितः॥३२॥
जाग्रत्कालेऽथवा स्वप्ने योऽदृष्टेन निहन्यते।
जीवनं तस्य नास्त्येव मृत्युरग्र इति स्थितः॥३३॥
अग्नौ यो निपतेत्स्वप्ने यो वा नष्टस्मृतिः सदा।
याम्यशब्दं च यो ब्रूयात्तस्य मृत्युरुपस्थितः॥३४॥
शुक्लं प्रावरणं रक्तं कृष्णं वा यस्य भासते।
स्वप्ने नीलं पटं यस्य तस्य मृत्युरुपस्थितः॥३५॥
एवमादीन्यरिष्टानि भासन्ते यस्य दुस्थितम्‌।
स भयं शोकमोहौ च त्यक्त्वैकाग्रमना दृढम्‌॥३६॥

श्रीमद्वाराणसीं गत्वा स्नात्वा गङ्गाजले नरः।
दृष्ट्वा विश्वेश्वरं देवं जपेत्पञ्चाक्षरं सदा॥३७॥
सोमनाथेऽथवा स्नात्वा सोमतीर्थे महोदधौ।
सोमनाथं महादेवं दृष्ट्वा पञ्चाक्षरं जपेत्‌॥३८॥
श्रीपर्वतेऽथवा देवं दृष्ट्वा श्रीमल्लिकेश्वरम्‌।
भस्मनोद्धूल्य मन्त्रेण सदा पञ्चाक्षरं जपेत्‌॥३९॥
श्रीकालहस्तिनाथं वा सुवर्णमुखरीजले।
स्नात्वा दृष्ट्वा महादेवं सदा पञ्चाक्षरं जपेत्‌॥४०॥
गोपर्वते तथा देवं दृष्ट्वा शक्तीश्वराभिधम्‌।
भस्मनोद्धूल्य मन्त्रेण सदा पञ्चाक्षरं जपेत्‌॥४१॥
श्रीमद्वृद्धाचले वाऽपि स्नात्वा मुक्ताजले नरः।
दृष्ट्वा वृद्धाचलेशानं सदा पञ्चाक्षरं जपेत्॥४२॥
श्रीमद्रामेश्वरे वाऽपि स्नात्वा तत्र महोदधौ।
दृष्ट्वा रामेश्वरं देवं सदा पञ्वक्षरं जपेत्‌॥४३॥
श्रीहालास्येऽथवा देवं दृष्ट्वा हालास्यनायकम्‌।
यथाशक्ति धनं दत्त्वा सदा पञ्चाक्षरं जपते्॥४४॥
वेदारण्येऽथवा स्नात्वा वेदतीर्थे महोदधौ।
वेदारण्याधिपं दृष्ट्वा सदा पञ्चाक्षरं जपेत्‌॥४५॥
श्रीमद्वाल्मीकसंज्ञे वा क्षीरकुण्डजले नरः।
स्नात्वा दृष्ट्वा महेशानं सदा पञ्चाक्षरं जपेत्‌॥४६॥
गजारण्येऽथवा स्नात्वा कावेर्यामेव मानवः।
गजारण्याधिपं दृष्ट्वा सदा पञ्चाक्षरं जपेत्‌॥४७॥

जप्येश्वरं तु वा गत्वा स्नात्वा कावेरिकाजले।
दृष्ट्वा जप्येश्वरेशानं सदा पञ्चाक्षरं जपेत्‌॥४८॥
अथवा दक्षिणावर्ते स्नात्वा कावेरिकाजले।
दक्षिणावर्तनाथेशं दृष्ट्वा पञ्चाक्षरं जपेत्‌॥४९॥
कुम्भकोणेऽथवा स्नात्वा कावेर्यामेव मानवः।
कुम्भकोणाधिपं देवं दृष्ट्वा पञ्चाक्षरं जपेत्‌॥५०॥
मध्यार्जुने वा कावेर्यां स्नात्वा मर्त्यः समाहितः।
मध्यार्जुनाधिपं देवं दृष्ट्वा पञ्चाक्षरं जपेत्‌॥५१॥
श्रीमद्गोवटुतीर्थे वा तथा मङ्गलवंशके।
श्रीमदग्नीश्वराख्ये वा कोटिकाख्येऽथवा नरः॥५२॥
आम्रतीर्थे दृतिस्थाने श्वेतारण्यसमाह्वये।
श्रीमद्ब्रह्मपुरे वाऽपि कावेर्युदधिसंगमे॥५३॥
स्नात्वा दत्त्वा यथाशक्ति धनं धान्यंं तिलं तु वा
दृष्ट्वा महेश्वरं भक्त्या सदा पञ्चाक्षरं जपेत्‌॥५४॥
अथवा मानवः शीघ्रं गत्वा व्याघ्रपुरं मुदा।
शिवगङ्गाभिधे तीर्थे स्नात्वा दत्त्वा यथाबलम्‌॥५५॥
प्रदक्षिणत्रयं कृत्वा श्रीमद्दभ्रसभापतिम्‌।
दृष्ट्वा पञ्चाक्षरं मन्त्रं सतारं सर्वदा जपेत्‌॥५६॥
अस्मिन्‌ व्याघ्रपुरे पुण्ये यो वा को वा तु मानवः।
ममार परमा मुक्तिः सिद्धा तस्य न संशयः॥५७॥
महापातकसंघाश्च स्थानस्यास्य प्रवेशनात्।
नश्यन्ति दर्शनादेव मुक्तिः सिद्धा सभापतेः॥५८॥

महाकारुणिको देवो महानन्दपरायणः।
यत्र नृत्यति तं दृष्ट्वा मुच्यते भवबन्धनात्‌॥५९॥
देशदर्शनमात्रेण विमुक्ता बहवो जनाः।
किं पुनर्देवदेवस्य दर्शनेन सभापतेः॥६०॥
अविमुक्तादपि श्रेष्ठमिदं स्थानं न संशयः।
अत्र नृत्यति देवेशस्तत्र देवो न नृत्यति॥६१॥
अत्र दर्शनमात्रेण मुक्तिः सिद्धा हि देहिनाम्‌।
तत्र नष्टस्य मर्त्यस्य ततः श्रेष्ठमिदं पुरम्‌॥६२॥
श्रीमद्व्याघ्रपुर मुक्त्वा यो वा वाराणसीं गतः।
तत्र नष्टोपि कैवल्यं पाप्नुयान्नैव मानवः॥६३॥
पार्वती परमा शक्तिः श्रीमद्व्याघ्रपुरे सदा।
प्रकाशते हि विद्याभिः संवृता करुणाबलात्‌॥६४॥
सर्वविद्यालया देवी यत्रातीव प्रकाशते।
खलु तत्र परा मुक्तिरतः श्रेष्ठमिदं पुरम्‌॥६५॥
अतः समस्तं परिवर्ज्य सत्वरं समस्तदोषस्य
निवृत्तिसिद्धये इदं तु मुख्यं पुरमाप्नुयान्नरः
शिवप्रसादेन हि तत्र मुच्यते॥६६॥

इति श्रीस्कान्दपुराणे सूतसंहितायां चतर्थे यज्ञवैभवखण्डे
मृत्युसूचकविवरणं नाम षट्‌चत्वारिंशोऽध्यायः॥४६॥

————————————————————————————————————————————————————

इति श्रीस्कान्दपुराणे सूतसंहितातात्पर्यदीपिकायां चतर्थे यज्ञवैभवखण्डे
मृत्युसूचकविवरणं नाम षट्‌चत्वारिंशोऽध्यायः॥४६॥

अथ सप्तचत्वारिंशोऽध्यायः।

४७. अवशिष्टपपिस्ठरूपकथनम्‌।

सूत उवाच—

अथातः संप्रवक्ष्यामि पापस्याकरणाय तु।
भोगावशिष्टपापानां लक्षणं मुनिसत्तमाः॥१॥
ब्रह्महा क्षयरोगी स्यात्सुरापः श्यावदन्तकः।
स्वर्णापहारी कुनखी दुश्चर्मा गुरुतल्पगः॥२॥
परिवादरतः पङ्गुरन्धश्च बधिरस्तथा।
अनुकीर्तनकृन्मर्त्यः खरस्वामी भवेत्सदा॥३॥
गुरुनिन्दापरो नियमपस्मारी निरन्तरम्‌।
भगंदरी गुरोराज्ञाभङ्गकारी न संशयः॥४॥
गुरुमात्सर्यकृन्मर्त्यो विट्क्रिमिः स्यान्न संशयः।
गुर्ववज्ञापरस्तद्वच्छिवद्रोही तथा भवेत्‌॥५॥
गुरोः शुश्रूषणेऽसक्तो दुष्प्रज्ञः स्यात्तु मानवः।
विष्णुद्रोही नरः साक्षात्कृकलासत्वमाप्नुयात्‌॥६॥
यो वेददूषको मर्त्यः स चण्डालो भवेत्तथा।
वेदान्तदूषकः साक्षात्पुल्कसः स्यान्न संशयः॥७॥
उन्मत्तो वेदविज्ञानदूषकः पुरुषाधमः।
रजस्वलाभिगन्ता स्यादन्त्यजातिस्तु मानवः॥८॥
अग्निदो मनुजः कुष्ठी गरदश्च तथैव च।

————————————————————————————————————————————————————

ब्रह्महत्यादिपापापरिणामरूपं क्षयरोगादिकमप्यज्ञानिनः कर्त्रात्मनः एव नाकर्तुर्ब्रह्मात्मन इति दर्शयितुमारभते**—अथात इति॥१—**२८॥

शस्त्रपाणिस्तथा मर्त्यो रूप्यचोरस्तु दर्दुरः॥९॥
कूटकृन्मुखरोगी स्यात्कूटसाक्षी तथैव च।
कूटकृत्यसहायश्च तदुपायप्रदोऽपि च॥१०॥
पितृमातृपरित्यागी बालत्यागी तथैव च।
अक्षिरोगी भवेन्नित्यं भार्यात्यागी तु मानवः॥११॥
अल्पायुश्चाप्रदानेन प्रतिज्ञातस्य मानवः।
पत्नीबहुत्वे त्वेकस्यां रमते षण्ड एव सः॥१२॥
अन्नापहारी मन्दाग्निर्जिह्वारोगी भवेत्तथा।
अग्रभुग्गलरोगी स्यान्मिष्टभुक्च तथैव च॥१३॥
पञ्चयज्ञविनिर्मुक्तो विड्वराहो भवेन्नरः।
पर्वमैथुनकृन्मर्त्यः प्रमेही स्यान्न संशयः॥१४॥
अभ्यागतपरित्यागी कपोलपिण्डको भवेत्‌।
तथाऽतिथिपरित्यागी भवेन्नात्र विचारणा॥१५॥
स्वात्मोत्कर्षपरो नित्यं वामनः पङगुरेव च।
गोघ्नश्चैव कृतघ्नश्च जात्यन्धः स्यान्न संशयः॥१६॥
निःस्नेहकः स्वभार्यायां गलगण्डी भवेन्नरः।
वेश्यासेवापरो मर्त्यश्छिन्नलिङ्गो न संशयः॥१७॥
पिशुनः पूतिवक्त्रः स्यान्नरस्ताम्रादिविक्रयी।
एडकाजगजाश्वादिविक्रेता व्याध एव हि॥१८॥
ज्ञानापहारी मूकः स्यान्मन्त्रचोरस्तथैव च।
अभक्ष्यभक्षको मर्त्यो गण्डमाली भवेत्सदा॥१९॥
रङ्गोपजीवी कुमतिर्भवेन्नात्न विचारणा।

अन्धः पुस्तकचोरः स्यात्तथा स्थाल्लेखनीहरः॥२०॥
सदा पुण्यकथाक्षेपी वक्रनासो भवेन्नरः।
शिष्टाचारस्य धर्मस्व दूषको राक्षसो भवेत्‌॥२१॥
ज्ञानयोगगुरुद्वेष्टा वक्रास्यो देवदूषकः।
पुण्यकर्मप्रवृत्तस्य प्रतिषेधी क्रिमिर्भवेत्‌॥२२॥
देवद्रव्यापहारी स्यान्मनुष्यो वायुभक्षकः।
तटाकारामभेत्ता स्यादङ्गहीनस्तु मानवः॥२३॥
मर्यादाभेदको दासो भवेन्नात्र विचारणा।
परदाराभिगामी तु वातरोगी भवेन्नरः॥२४॥
मधुप्रमेही चोष्ट्रादिगन्ता नात्र विचारणा।
पतिव्रताभिगन्ता तु सूकरः स्यात्तु मानवः॥२५॥
परापवादनिरतो व्यसनी चालसः सदा।
अतिपातकदोषेण भवेयुः क्रिमयो नराः॥२६॥
तथा पातकदोषेण विड्वराहो न संशयः।
उपपातकदोषेण तथा श्वानः सदा नरः॥२७॥
पातकैरपरेः क्षुद्रैर्जायन्ते क्षुद्रयोनिषु।
महापातकपूर्वैश्च पातकैरखिलैः सदा॥२८॥

—————————————————————————————————————————————————————

स्वस्वरूपापरिज्ञानादिति। कर्तृत्वभोक्तृत्वादिचञ्चलसंसारधर्मरहितं सच्चिदानन्दाखण्डैकरसं स्वप्रतिष्ठमद्वितीयं परब्रह्म हि स्वात्मनः पारमार्थिकं स्वरूपं तस्यापरिज्ञानादन्‍तःकरणादिधर्मितादात्म्याध्यासेन तद्धर्माणां कर्तृत्वभोक्तृवादीनामप्यात्मनि संसर्गाध्यासात्तत्कृतैः पातकैरपि बद्धो भवतीत्यर्थः। स्वस्वरूपपरिज्ञानादिति। स्वस्वरूपयाथात्म्यज्ञानिनस्तु कर्तृत्वभोक्तृत्वादिधर्मवदन्तःकरणता-

स्वस्वरूपापरिज्ञानाद्बध्यते खलु मानवः।
स्वस्वरूपपरिज्ञानात्कर्मभिर्न स बध्यते॥२९॥
स्वस्वरूपं तु शुद्धं हि सततं सर्वदेहिनाम्‌।
स्वस्वरूपं तु चिन्मात्रं सर्वदा सर्वदेहिनाम्‌॥३०॥
नैव देहादिसंघातः पटवद्दृशिगोचरः।
दृश्यरूपेण यद्रूपं दश्यते देहपूर्वकम्‌॥३१॥
तदनात्मैव दृश्यत्वाद्ययदित्थं तत्तथा खलु।
दृश्यत्वं देहपूर्वस्य संमतं सवेदेहिनाम्‌॥३२॥
दृश्यत्वं द्रष्टृपूर्वं तु लोके दृष्टं हि चेतनैः।
द्रष्टुर्नास्ति हि दृश्यत्वं दृश्यत्वे द्रष्टृता न हि।

——————————————————————————————————————————————————————

दात्म्याभ्यासस्य निवृत्तेस्तत्कृतैः पापैरपि न संश्लेष इत्यर्थः॥२९॥ शुद्धं हीति। “आत्मद्रव्यं स्वयं शुद्धं सत्यज्ञानादिलक्षणम्‌” इत्यादिना स्वतःशद्धेः प्राक्प्रतिपादितत्वात्‌। “अस्नाविरँशुद्धमपापविद्धम्‌” इत्यादि श्रुतेः स्वात्मनः शुद्धत्वम्‌। चिन्मात्रमिति। देहेन्द्रियादिसंघात्स्य जाग्रदादिसकलव्यवहारस्य यद्यत्प्रकाशकं साक्षिभूतं चैतन्यं तदेवाऽऽत्मनः स्वरूपमित्यर्थः॥३०॥ मात्रचो व्यावृत्तिं दर्शयति—नैवेति। दृशिगोचर इति। हेतुगर्भविशेषणमेतत्‌। दृशिः प्रागुक्तं चैतन्यं यतस्तद्गोचरो देहादिरतः पटवदनात्मेत्यर्थः। ननु दृशिगोचरत्ववदृ्रष्ट्रत्वमपि देहादिसंघातस्य परिदृश्यमानं कथमपलपितुं शक्यत इत्याशङ्क्याऽऽह—दृश्येति। अहं मनुष्यः कृशोऽहं स्थूलोऽहमहं कर्ता भोक्तेत्येवं द्रष्टृरूपतया देहादेर्योऽनुभवः सोऽपि तत्संसारादिविभ्रमवन्मिथ्यानुभवो दृश्यत्वहेतुनां देहादेरनात्मत्वस्य घटादेरिव सिद्धत्वादित्यर्थः। हेत्वसिद्धिं परिहराति—दृश्यत्वमिति। अज्ञाः स्त्रीबालादयोऽपि मम देहो मम चक्षुर्ममान्तःकरणमिति द्रष्टुरात्मनः सकाशाद्भेदेनैव ज्ञेयतया देहादिकं व्यवहरन्ति। तत्सर्वेषामपि तत्र दृश्यत्वं संमतमित्यर्थः॥३१॥३२॥ एवं दृश्यत्वहेतुना देहादेरनात्मत्वं प्रतिपाद्य द्रष्टुरात्मनस्तद्व्यतिरिक्तत्वं प्रतिपाद-

दृश्यरूपस्य कुड्यादेर्द्रष्टृता न हि दृश्यते॥३३॥
अंशभेदेन दृश्यत्वं द्रष्टृत्वं चेति चेन्मतम्‌।
अंशभेदे तु सांशत्वात्कुड्यवत्तदनात्मकम्‌॥३४॥
अंशभेदेऽपि दृश्यांशाः समानः कुड्यवस्तना।
द्रष्ट्रंशः केवलः साक्षादात्मैव स्यान्न संशयः॥३५॥

——————————————————————————————————————————————————————

यति—दृश्यत्वं द्रष्ट्टपूर्वं त्विति। द्रष्टृसमवेतया दृशिक्रियया व्याप्यं हि दृश्यं घटादिकं तच्च स्वव्यतिरिक्तद्रष्टृपूर्वकं दृष्टं लोके। अतो देहादेरपि स्वातिरिक्तेन केनचिदृ्रष्ट्रा भवितव्यमित्यर्थः। ननु देहातिरिक्तस्याऽऽत्मनोऽप्यहंप्रत्ययवेद्यत्वा दृश्यत्वमस्ति। अतो दृश्यस्य सर्वस्य स्वव्यतिरिक्तद्रष्टृपूर्वकत्वनियमो नास्तीत्यत आह—द्रष्टुरिति। द्रष्टुरात्मनो दृश्यत्वे द्रष्टृत्वं न स्यादृ्रष्टत्वे न दृश्यत्वं कर्मकर्तृभावविरोधप्रसङ्गात्‌। न ह्येकस्यैव स्वसमवेतक्रियाश्रयत्वं तद्विषयत्वं च युगपत्संभवति। अतो द्रष्टुरात्मनो दृश्यत्वं न युक्तमित्यर्थः। विपक्षे बाधकमाह—दृश्येति। यद्यात्माऽपि दृश्यः स्यात्कुड्यादेरिव तस्य द्रष्टृत्वमपि न स्यादित्यर्थः॥३३॥ उक्तं कर्मकर्तृभावविरोधं परिहर्तुं शङ्कते—अंशभेदेनेति। द्रव्यबोधस्वरूपो हि देहातिरिक्त आत्मा तत्र द्रव्यांशेन तस्य दृश्यत्वं बोधांशेन च द्रष्टृत्वं चेति कर्तृत्वकर्मत्वयोर्व्यवस्थितत्वाद्विरोधो नास्तीत्यर्थः। तदेतन्निरस्यति—अंशंभेद इति। आत्मनो निरवयवद्रव्यत्वाभ्युपगमादंशभेदकल्पने च सावयवत्वप्रसङ्गात्कुड्यादिवदनात्मत्वमेव तस्य भवेदित्यर्थः। अङ्गीकृत्यापि दूषयति—अंशभेद इति। दृग्विषयो द्रव्यात्मकस्तस्याऽऽत्मनो योऽशः सोऽयं दृश्यत्वात्कुड्यादिसद्शोऽनात्मा दृशिधात्वर्थाश्रयभूतो योंऽशश्चिदात्मकः स एवाऽऽत्मा। अतो द्रष्टुर्दृश्यत्वं कदाचिन्न संभवतीदत्यर्थः। नन्वन्तःकरणदेर्विविक्तं चिन्मात्रमेव ह्यन्तरात्मेति मतम्‌। तस्य च दृशिधात्वर्थरूपत्वेन तदाश्रयत्वानुपपत्तेर्द्रष्टृत्वं न संभवतीत्याशङ्क्याऽऽह—द्रष्ट्रंशेऽपीति। कर्तृत्वं नाम क्रियाश्रयत्वम्‌। क्रिया नाम हस्तपादादिचलनानुगुणप्रयत्नविशेषः स चान्तःकरणधर्मस्तद्विशिष्टान्तःकरणोपाधिसंबन्धवशाद्द्रष्ट्रंशे चिन्मात्रस्वरूप आत्मन्यपि स्फटिके लौहित्यवत्कर्तृत्वावभासो निगद्यते। अतस्तद्विष-

द्रष्ट्रंशेऽपि च कर्तृत्वमुपाधिजनितं सदा।
दृश्याभिव्यक्त्यपेक्षं वा न स्वतः पण्डितोत्तमाः॥ ३६॥
स्वतः कर्तृत्वमस्यापि विद्यते यदि चाऽऽत्मनः।
तर्हि दर्शनरूपेण परिणामी भवेद्धि सः॥३७॥
परिणामी न चाऽऽत्मा स्यात्सर्वथा मृत्तिकादिवत्‌।
अचित्त्वं च प्रसज्येत ततश्चिन्न हि विद्यते॥३८॥
चिद्विहीनं जडं नैव विभाति मुनिपुङ्गवाः।
स्वतः प्रकाशहीनस्य प्रकाशो नोपपद्यते॥ ३९॥
चित्प्रकाशात्मसंबन्धादपि चेत्यं न भासते।
तस्याभावात्ततश्चेत्यप्रतीत्या भिद्यते हि चित्‌॥४०॥

——————————————————————————————————————————————————————

यात्मकं तदृ्रष्टृत्वमपि तस्मिन्नौपाधिकमित्यर्थः। पक्षान्तरमाह—दृश्याभिव्यक्तीति। दर्शनमात्ररूपस्यापि साक्षिचिदात्मनः क्रियानाश्रयत्वेऽपि दृश्याभिव्यक्तिहेतुत्वेनौपचारिकमेव द्रष्टृत्वं न तु स्वाभाविकमित्यर्थः॥३४—३६॥ विपक्षे बाधकमाहस्वत इत्यादिना। यद्यात्मनः स्वाभाविकं द्रष्टृत्वं स्यात्तर्हि तद्दर्शनक्रियासंबन्धेन तस्य परिणामित्वं स्यात्‌ “उपयन्नपयन्धर्मो विकरोति हि धर्मिणम्‌” इति न्यायात्‌। परिणामिनश्च मृदादिवदनात्मत्वं स्यात्‌। अनात्मत्वे च घटादिवदेवाचिद्रूपत्वमपि स्यात्‌। तथा च न किंचिदपि प्रतीयेतेत्यर्थः। प्रतीयते च। विपर्यये पर्यवसानमाह—चिन्न हीति। कोऽप्यर्थो न विद्यते न ज्ञायत इति न हि। अपि तु चिता सर्वमपि ज्ञायते। अतश्चिन्मात्रस्याऽऽत्मनः स्वाभाविककर्तृत्वं न युक्तमित्यर्थः॥३७॥३८॥ अथ तस्याऽऽश्रितप्रतीयमानभेदस्यौपाधिकत्वप्रतिपादनेनैक्यमुपपादयाति-चिद्विहीनमित्यादिना। जडं जगत्तावच्चिद्रहितत्वान्नैव भाति। ननु यथा चिच्चिदन्तराभावेऽपि तन्निरपेक्षं भासते तद्वज्जडस्याप्यवभासः किं न स्यादित्यत आह—स्वत इति। स्वभावतः प्रकाशानात्मकस्य जडस्य चिन्नैरपेक्ष्येण प्रकाशो न युक्त इत्यर्थः॥३९॥ अथ चित्संबन्धवशाच्चेत्यप्रतीतिमाशङ्क्य निरस्यति—चिदिति। चित्प्रकाशस्य च स्वस्यार्थस्य च विषयविषयिभावादिलक्षणो यः

चिच्चिदेव सदा विप्रा न दृश्यैव हि केन चित्।
या दृग्दृश्यत्वहीना सा सर्वदा भासते खलु॥४१॥
सा कदाचिन्न भातीति यदि स्यान्मुनिपुङ्गवाः।
तर्हि नैव विभातीति विभानं केन सिध्यति॥४२॥

———————————————————————————————————————————————————————

संबन्धस्तस्मादपि चेयप्रपञ्चस्यावभासो न युक्तः। तत्र हेतुमाह—तस्याभावादिति। तादृशस्य संबन्धस्यैवानिरूपणाद्विषयविषयिभावलक्षणसंबन्धस्य संबन्धान्तरमूत्वात्तदनङ्गीकारेऽस्य ज्ञानस्यायमेव विषय इति नियमानुपपत्तेरवश्यं मूलभूतः संबन्धो वक्तव्यः। स च संयोगसमवायतादात्म्यादिलक्षणः। तथा च ज्ञानार्थयोस्तादृशः संबन्धो दुर्निरूप इति विषयविषयिभावोऽपि न युक्त इत्यर्थः। एवं च “सत्यं ज्ञानमनन्तं ब्रह्म” इत्यादि श्रुतेस्त्वनाद्यनन्ता ब्रह्मस्वरूपभूता स्वप्रकाशा या चित्तस्यामनाद्यविद्यावशाच्चेत्यप्रपञ्चोऽध्यस्ततयैव प्रतीयत इत्यवश्यमङ्गीकर्तव्यम्। ततश्चोपाधिक एव चितो नानात्वावभास इत्याह—तत इति। यत एवं ज्ञानार्थयोः परमार्थतः संबन्धाभावस्ततश्चेत्यप्रपञ्चस्य चिद्रूपेऽध्यस्ततयैव प्रतीतिर्वक्तव्या। तथाच जलतरङ्गबुद्बुदादिनानाविधोपाधिसंबन्धवशादेकमेव चन्द्रस्वरूपं यथा भिन्नं प्रतीयते तथा स्वात्मन्यध्यस्तनानाविधचेत्योपाधिसंबन्धवशादधिष्ठानभूता चिदपि भिद्यते। अतश्चितो भेदप्रतीतिश्चेत्यघटपटादिभेदनिबन्धनैव न तु पारमार्थिकीत्यर्थः॥४०॥ नन्वयं घट इत्यादिज्ञानस्यापि ज्ञातो घट इत्याद्यनुव्यवसायज्ञानवेद्यत्वच्चेत्यप्रपञ्चवदध्यस्तता किं न स्यदित्यत आह—चिच्चिदेवेति। चेत्यप्रपञ्चस्याधिष्ठानभूता या चित्सा चिदेव सर्वदा प्रकाशमानैव न तु स्वप्रतिबद्धव्यवहारे ज्ञानान्तरमपेक्षते। अतः सा केनचिदपि द्रष्ट्रा न दृश्या यतश्चेत्यप्रपञ्चस्येवाध्यस्तत्वमाशङ्क्येतेत्यर्थः। तदेतदुपपादयति—या दृगिति। दृग्रूपा या चित्साऽऽवश्यं दृश्यत्वहीना। दृश्यत्वे हि यावत्स्वगोचरज्ञानं नोदेति तावत्पर्यन्तं न प्रतिभासते तदप्रतिभासेन विषयप्रतीतिरपि न स्यादतः सा सर्वदा ज्ञानान्तरनैरपेक्ष्येण भासत इत्यङ्गीकरणीयम्‌। तथा सति यतः सर्वदा भासतेऽतो दृश्यत्वहीनेत्यर्थः॥४१॥ ननु दृग्रूपस्य ज्ञानस्य चक्षुरादिसंप्रयुक्तघटविषयवै-

न भातीति विभानं तु न भातमिति चेन्मतम्‌।
तहि भानं हि नाभातं तज्ज्ञानं भानमेव हि॥४३॥
भानं भानान्तरेणैव न भाति दिजपुङ्गवाः।
भानरूपेण भान तु सदैक न हि तद्द्वयस्‌॥४४॥

———————————————————————————————————————————————————————

शिष्ट्येन भासमानस्याऽऽशुतरविनाशित्वेन क्षणान्तरेऽनवस्थानात्तस्य सर्वदा भासनमसिद्धमित्यत आह—सेति। सा दृक्कदाचिद्विषयप्रतीतिदशायां न भातीति यदि स्यात्तर्हि न भातीत्येतदपि केन साधनेन सिध्येत्‌। न हि चित्प्रकाशमन्तरेण कस्यचित्प्रकाशः संभवति। अतश्चाभावगोचरं स्फुरणं तत्राप्यङ्गीकर्तव्यमित्यर्थः॥४२॥ ननु तदानीं न भातीति स्फूरणाभावः प्रतीयते कथं तदा स्फुरणस्य सद्भावो भावाभावयोर्विरोधादिति शङ्कते—न भातीति। घटादिकं वस्तु न भातीत्यज्ञानविषयतयैव ज्ञातं न तु भातमिति ज्ञानविषयतया। अतस्तस्मिन्समये निषेध्यमानस्य भानस्य कथमवस्थितिरित्यर्थः। परिहिरति—तर्हीति। न भातीत्यज्ञानविषयतया भातमपि भातमेव न त्वभातम्‌। तत्र हेतुमाह— तज्ज्ञानमिति। ज्ञानं हि द्विविधं वृत्तिज्ञानं स्वरूपज्ञानं चेति। तत्र ज्ञायतेऽनेनेति ज्ञानमिति करणव्युत्पत्त्या सत्त्वपरिणामरूपचक्षुरादिसंप्रयुक्तविषयाकारान्तःकरणवृत्तिर्वृत्तिज्ञानम्‌। सविषयस्य तस्य साक्षाद्भासकं स्वरूपज्ञानं च वृत्तिज्ञानेनाविषयीकृतमज्ञाततया। अतस्तस्याज्ञातस्य भानमपि भानमेव। ज्ञाताज्ञातयोरुभयोरपि स्फुरणसाक्षिकत्वादित्यर्थः। अत एवोच्यते ‘सर्वं वस्तु ज्ञततयाऽज्ञाततया वा साक्षिचैतन्यस्य विषय एवेति’॥४३॥ अस्य च साक्षिचैतन्यस्पुरणस्य वृत्तिज्ञानतो विशेषमाह—भानमिति। वृत्तिज्ञानं हि जडत्वात्साक्षिचैतन्यरूपेण भानान्तरेणैव भाति। साक्षिरूपं भानं तु नैव भानान्तरेणापि तु स्वयमेव प्रकाशते। प्रकाशमानं हि ज्ञानमर्थस्य भासकं तत्प्रकाशनं च ज्ञानान्तरायत्तं चेत्तत्राप्येवमित्यनवस्था स्यात्ततो ज्ञानस्य ज्ञानान्तरवेद्यतत्वं न संभवतीत्यर्थः। सति हि ज्ञानान्तरे तद्वेद्यत्वं ज्ञानस्याऽऽशङ्क्येत तदेव नास्तीत्याह—भान-रूपेणेति। घटपटादिदृश्यभदोपाधिना यादृग्रूपं ज्ञानं विभिन्नं प्रतीयते तदृश्य-

भातं भानं सदा स्वेन भासा भाति न चान्यतः।
यत्स्वयं भाति तद्भानं खलु भास्यस्य भासकम्‌॥४५॥
अतः सर्वस्य साक्ष्यस्य साक्षिभूतः स्वयंप्रभः।
आत्मा साक्ष्यगतैर्धर्मैः कर्मभिर्न स बध्यते॥४६॥
दृग्रूपं दश्यसंबद्धामिति वक्तुं न शक्यते॥४७॥
संबन्धस्यापि साक्ष्यत्वात्संबन्धो दृश्यवस्तुगः।

——————————————————————————————————————————————

संबन्धं परित्यज्य केवलं स्फुरणरूपेण सर्वदैकमेव न तु भिन्नम्। घटपटादिज्ञानेषु स्फुरणमात्रस्याविशेषेण प्रत्यभिज्ञायमानत्वादित्यर्थः॥४४॥ एवं भानस्यैकत्वेन तद्गोचरं स्फुरणान्तरं नास्ति चेत्कथं तर्हि तस्य प्रतीतिरित्यत आह—भानमिति । प्रतीयामनं स्फुरणरूपं साक्षिचैतन्यं स्वेनैव भासा भति न चान्यस्मात्प्रकाशान्तरात्‌। श्रूयते हि “न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः। तमेव भान्तमनु भाति सर्वं तस्य भासा सर्वमिदं विभाति” इति। स्वयं प्रकाशमानस्यैव प्रकाशकत्वं लोके प्रसिद्धमिति दर्शयति—यत्स्वयमिति। यस्प्रभादीपादिकं सजातीयप्रकाशान्तरनैरपे-क्ष्येण भासते तस्य खलु लोके प्रकाशकत्वं दृष्टम्‌। अतो ज्ञानं ज्ञानान्तरनैरपेक्ष्येण स्वयंप्रकाशमानमेव सद्भास्यं विषयं प्रकाशयेत्‌। तस्य ज्ञानान्तरवेद्यत्वेऽनवस्थाप्रसक्तेः। ये तु चक्षुरादिवन्निलीनमेव विज्ञानं विषये ज्ञाततारूपं फलं जनयतीति वर्णयन्ति तैरपि विषयस्फुरणरूपा ज्ञातता स्वप्रकाशत्वेनैष्टव्या। तथा सति सवै चक्षुरादिकरणजन्याऽस्तु कृतमन्तर्गडुना ज्ञानेन॥४५॥ एवमद्वितीयस्वप्रकाशचिन्मात्ररूपत्वमात्मनः प्रसाध्य सर्वसाक्षितया साक्ष्याननुप्रविष्टस्य प्रतिज्ञातं साक्ष्यगतकर्मसंबन्धाभावं निगमयति-अत इति॥४६॥ दृग्रूपस्य तस्य पुनरपि कर्मसंबन्धमाशङ्क्य निरस्यति—दृगिति। दृश्पसंबन्धापेक्षो हि तथाविधस्याऽऽत्मनो दृग्व्यपदेशः। तथा तत्कर्मापि हि दृश्यामिति तेन सह दृग्रूपस्य संबन्धोऽवश्यं भावीति न शक्यते वक्तुम्‌। संबन्धिद्वयघटितो हि धर्मः संबन्धस्तस्य च दृग्रूपत्वे दृग्रूपसंबन्धिनोऽनतिरिक्तत्वात्संबन्धत्वमेव हीयते। दृश्यरूपत्वेऽपि दृश्यरक्षणसंबन्धिकोटिनिक्षिप्तत्वात्संबन्धित्वमेव

अज्ञानादन्यथा ज्ञानं मनुष्यत्वादिमानयम्‌।
आत्मा तु परमात्माऽपि कर्मभिर्बध्यतेऽवशः॥५३॥

कर्मभिर्व्यवहारे तु बद्धोऽपि स्वीयमायया।
वस्तुतः परमात्माऽयं खलु तैर्न निबध्यते॥५४॥
स्वात्मनः सर्वसाक्षित्वं देहादेर्व्यतिरिक्तताम्‌।
ब्रह्मत्वं च श्रुतेर्ज्ञात्वा कर्मभिर्न हि बध्यते॥५५॥
सर्वसाक्षिणमात्मानं वर्णाश्रमविवर्जितम्‌।
ब्रह्मरूपतया पश्यन्मुच्यते भवबन्धनात्॥५६॥

अतः स्वात्मापरिज्ञानाद्देहेऽहंभावमाश्रितः।

——————————————————————————————————————————————

मिति। ‘ब्राह्मणो बृहस्पतिसेवनयजेत राजा राजसूयेन यजेत इत्यादीनामित्यर्थः॥५२॥ अज्ञानादन्यथा ज्ञानमिति। अविद्या हि द्विविधा। विक्षेपशक्तिरावरणशक्तिश्चेति। तत्राऽऽवरणशक्त्या नीलपृष्ठत्रिकोणत्वादिवदात्मनो विशेषरूपस्य ब्रह्मा त्मत्वस्याऽऽवरणात्‌। विक्षेपशक्त्या रजतादिवन्मिथ्याभूतस्य मनुष्यत्वादेरुपस्थापनाच्चेत्यर्थः। अवश इति। देहादितादात्म्याभिमानवतस्तत्कृतपुण्यपापपारवश्यमेव न तु स्वातन्त्र्यमित्यर्थः॥५२॥ परमात्मनोऽपि जीवभावापन्नस्योक्तरीत्या कर्मपारवश्यं चेत्कृतमात्मनः परमात्मज्ञानेनेत्यत आह—कर्मभिरिति। व्यवहारदशायां स्वात्मनः कर्मसंबन्धं मायामयत्वेन साक्षात्कुर्वतः परमात्मनो वास्तवो बन्धलेशोऽपि नास्तीत्यर्थः॥५४॥ कथं तर्ह्यज्ञानाज्जीवभावमापन्नस्य तस्य कर्मपारव-श्यनिरास इति तत्राऽह-स्वात्मन इति। प्रत्यगात्मनो देहादिव्यतिरिक्तत्वं साक्षिचिन्मात्ररूपत्वमुक्तयुक्तिभिर्निश्चित्य तस्य ब्रह्मरूपत्वमहं ब्रह्मास्मीत्यादि श्रुतिमाुखाद्गुरूपदेशेन ज्ञात्वेत्यर्थः। परोक्षस्य ब्रह्मात्मज्ञानस्यापरोक्षसंसारभ्रमनिवर्तकत्वाभावेऽपि कर्मबन्धनिवर्तकत्वं प्राक्प्रति पादितम्‌—“परोक्षं ब्रह्मविज्ञानं शब्दं देशिकपूर्वकम्‌” इत्यादिना॥५५॥ पश्यन्निति। यस्तूदीरितं ब्रह्मात्मत्वं मनननिदिध्यासनाभ्यामसंभावनाविपरीतभावनानिरासेन साक्षात्करोति स तु साक्षात्कारसमय एवं कारणभूतस्या-

करोति सर्वशास्त्रोक्तं न ज्ञानी न हि संशयः॥५७॥
ईदृशी परमा विद्या शांकरी भवनाशिनी।
प्रसदादेव जन्तूनां शक्तेरेव हि जायते॥५८॥
वागुद्भूता परा शक्तिर्या चिद्रूपा पराभिधा।
वन्दे तामनिशं भक्त्या श्रीकण्ठार्धशरीरिणीम्‌॥५९॥
इच्छासंज्ञा च या शक्तिः परिपूर्णशिवोदरा।
वन्दे तामादरेणैव ममेष्टफलदायिनीम्‌॥६०॥

——————————————————————————————————————————————

ज्ञानस्य निवृत्तेस्तत्कार्यभूतात्संसारबन्धादपि तदैव मुक्तो भवतीत्यर्थः॥५६॥ एवं ब्रह्मात्मत्वज्ञानमतः कर्मसंबन्धाभावात्कर्मकाण्डविहितमग्निहोत्रादिकं सर्वं देहादितादात्म्याध्यासवत एवेत्युपसंहरति—अत इति॥॥५७॥ शक्तेरेव हीति। एवकारोऽन्ययोगव्यावृत्त्यर्थः। संविद्रूपिण्याः परशक्तेरेव नान्यस्या देवताया इत्यर्थः। प्रसादादेवेत्येवकारस्त्वयोगव्यावृत्तिपरः। शक्तेः प्रसदे सत्येव परविद्योत्पत्तिर्नासतीत्यर्थः। शक्तिप्रसादाद्ब्रह्मत्वलाभश्च तलवकारोपनिषद्याम्नायते—“तस्मिन्नेवाऽऽकाशे स्त्रियमाजगाम बहुशोभमानामुमां हैमवतीं तां होवाच किमेतद्यक्षमिति ब्रह्मेति होवाच” इति॥५८॥ अतस्तत्प्रसादहेतुभूतं स्ताेत्रमारभते—वागित्यादिना। या संविद्रूपिणी परमाशक्तिः सैव शब्दरूपेण विवर्तमाना प्रथमं पराख्याऽऽविर्भूता बिन्दुस्फोटनोद्भूतात्सर्वत्रासावनुस्यूतशब्दः प्राणिनामर्थविविक्षाहेतुकप्रयत्नजनितपवनसंबन्धहेतूनां मूलाधारेऽभिव्यक्तो निष्पन्दः परा वागित्युच्यते। उक्तं ह्याचार्येः—“मूलाधारात्प्रथममुदितो यस्तु भावः पराख्यः” इति। तां विशिनष्टि—श्रीकण्ठेति। श्रीकण्ठादिन्यासे ह्यकारमूर्तिः श्रीकण्ठः। अकारस्य सर्ववागात्मकत्वम्‌। ‘अकारो वै सर्वा वाक्सैषा स्पर्शोष्मभिर्व्यज्यमान। बह्वी नानारूपा भवति’ इत्यादि श्रुतेः। परा वाग्रूपा वा शक्तिः सा वैखरीरूपया सकलफलात्मिकाऽतः सा सर्ववागात्मकत्वसाम्याच्छ्रीकण्ठस्य शक्तिभूतेत्यर्थः॥५९॥ इच्छासंज्ञेति। सैव परा शक्तिरिष्यमाणसकलजगल्लक्षणशक्त्या विशेषनिरूपिता सतीच्छाशक्तिरित्युच्यते। सा विशेष्यते परिपूर्णेति। परिपूर्णेनाप्यनन्तशिवस-

शक्तिर्या परमा साक्षाद्बीजभूताऽखिलस्य च।
वन्दे तामनिशं भक्त्या नकुलीशशिवान्विताम्‌॥६१॥
ऊर्ध्वरूपाऽप्यधोरूपा तथाऽधस्थाऽपि मध्यगा।
मध्यरूपाऽपि चान्तःस्था या तां वन्दे वरप्रदाम्‌॥६२॥
विन्यासैर्वर्णसंक्लृप्तैर्विश्वविद्यालयात्मना।
विद्योतमाना या वाचि वन्दे तामादरेण तु॥६३॥

——————————————————————————————————————————————

त्यज्ञानादिलक्षणेन तेन सहितमुदरं यस्याः सा तथोक्ता। जपाकुसुमरागेण स्फटिकवत्स्वप्रकाशपरशिवचैतन्येन व्याप्तेत्यर्थः। एवं ह्यकारस्य श्रीकण्ठादिन्यासे शाक्तिमूर्तिः ‘पृर्णोदरि च विरजा तृतीया शाल्मली तथा’ इत्याचार्यैरुक्तत्वात्। यतः इयमिच्छाशक्तिरतः स्तोपुरिष्टं फलं दातुं शक्तेत्यर्थः॥६०॥ बीजभूतेति। ग्रस्तसमस्तप्रपञ्चा पुनरुत्पत्स्यमानस्य सर्वस्य जगतः साक्षाद्वीजतया परमा चिच्छक्तिस्तामिति संबन्धः। नकुलीशशिवान्वितामिति। श्रीकण्ठादिन्यासे नकुलीशो नाम हकारमूर्त्याकारात्मनाऽवस्थितेन नकुलीशाख्येन शिवेन सहिता विश्वजननसमर्था बीजात्मिका संविद्रूपिणी शक्तिर्हकारवाच्या प्रकृतिः ‘अथ संज्ञा भवेद्व्ययाप्य विश्वम्‌’ इत्याचार्यैरुक्तत्वात्‌। अतो हकाररूपेण नकुलीशशिवेन वाच्यवाचकभावेन संबद्धामित्यर्थः॥६१॥ ऊर्ध्वरूपेति ऊर्ध्वं कार्यप्रपञ्चस्योपरि प्रध्वंसस्योत्तरकाले वर्तमानं ग्रस्तसमस्तप्रञ्चात्मनो रूपं यस्याः सा तथोक्ता एवमूर्ध्वरूपाप्यधोरूपा कार्यप्रपञ्चस्याधस्तादुत्पत्तिकाले वर्तमानं तज्जननसम-र्थकारणात्मकं रूपं यस्याः सा तथोक्ता। एवं कारणतया तथाऽधःस्थाऽपि कार्यप्रपञ्चस्याधस्थाद्वर्तमानाऽपि सैव मध्यगा प्रपञ्चस्य प्रागभावप्रध्वंसयोर्मध्यकालेऽपि व्याप्य वर्तमानाया एव चिच्छक्तेः कालत्रयव्याप्तिर्दर्शिता। अन्तस्थेति। कालव्याप्त्या मध्यरूपाऽपि कार्यप्रपञ्चस्यान्तस्थोपादानकारणरूपेणान्तर्वर्तमाना। यद्वा स्थावरजङ्गमात्मके स्वसृष्टे जगति स्वात्मकत्वतयाऽन्तरनुप्रविश्य स्थिता। श्रूयते हि—“तत्सृष्ट्वा तदेवानुप्राविशत्‌’ इति ॥६२॥ अत्र चोर्ध्वरूपाया अधोरूपत्वमधोरूपायास्तु मध्यरूपत्वं मध्यमाया अन्तरवस्थानं च प्रतीत्यैतद्विरुद्धं तादृशाविरोधाभावं दर्शयति-विन्या-

एकधा च द्विधा चैव तथा षोडशधा स्थिता।
द्वात्रिंशद्भेदभिन्ना च या तां बन्द परात्मदाम्‌॥६४॥
अकारादिक्षकारान्तैर्वर्णैरत्यन्तनिर्मलैः।
अशेषशब्दैर्या भाति तामानन्दप्रदां नुमः॥६५॥
लक्ष्मीवागादिरूपेण नर्तकीव विभाति या।
तामाद्यन्तविनिर्मुक्तामहं वन्दे वराननाम्‌॥६६॥

——————————————————————————————————————————————

सैरिति। अकारादिहकारान्तवर्णपरिकल्पितैर्विन्यासैर्गद्यपद्यादिपतसंस्थानविशेषैः सकलविद्याश्रयतया शब्दे या विद्योतमाना तामित्यर्थः॥६३॥ एकधा चेति। एकेनैव प्रकारेण ताल्वोष्ठपुटाभिव्यक्तवैखरिवागात्मना प्रथममवस्थिता। पुनः स्वरव्यञ्जनभेदेन द्विप्रकारं विभज्य स्थिता। पुनश्च षोडशधाऽकारादिविसर्गान्तषोडशस्वरूपेण विभज्य स्थिता। पुनरपि द्वात्रिंशद्भेदभिन्ना काद्याः पञ्चविंशतिर्यादयोऽष्टौ रलयोरभेदाल्लकारो न प्रथमग्गणनीयः। क्षकारश्च संयुक्ताक्षरतया न पृथग्भृतः। हकारोऽपि मूलप्रकृतिवाचकतया सकलजगत्मूलत्वेनावस्थितो व्यष्टिरूपेण गणनां नार्हति। अत एवोक्तं नकुलीशशिवान्वितामिति। अतो यादयः सप्तावशिष्यन्ते। तथा चायमर्थः—ककारादिसकारान्तद्वात्रिंद्व्यञ्जनात्मना विभज्यावस्थिता। इत्थं मातृकारूपेणावस्थिता या परमा शक्तिस्तामित्यर्थः॥६४॥ अकारादीति। उक्तभेदेन भिन्नायाः शक्तेरवयवभूता अकारादिक्षकारान्ता वर्णास्ते चात्यन्तनिर्मलाः। अमृतमयत्वात्‌। आधारादिषट्कमलदलेषु पातिता द्वादशान्तास्थितचन्द्रमण्डलात्सृता अमृतबिन्दवोऽकारादिक्षकारान्तवर्णात्मना परिणताः। उक्तं ह्याचार्यैः—मूलाधारात्स्फुरितताडिदाभाप्रभा सूक्ष्मरूपोद्गच्छन्त्यामस्तकमणुतरा तेजसां मूलभूता॥सौषुम्नाध्वाचरणनिपुणा सा सवित्राऽनुबद्धा ध्याता सद्योऽमृतमथ रवेः स्रावयेत्सार्धसोमात्‌”। “शिरसि निपतिता या बिन्दुधारा सुधारा भवति लिपिमयी सा ताभिरङ्ग मुखाद्यम्‌” इति। तथाविधैर्निर्मलैर्वर्णैस्तत्संस्थानभेदपदवाक्यात्मनाऽवस्थितैः शब्दैर्या शक्तिर्मातृकात्मिका भाति तामित्यर्थः॥६५॥ नर्तकीवेति। यथा नर्तकी स्वयमेकैव सत्याहार्यनानाविधरूपेण नानाविधा

ब्रह्माद्याः स्थावरान्ताश्च यस्या एव समुद्गताः।
यस्यामेव विलीयन्ते तस्यै नित्यं नमो नमः॥६७॥
महदादिविशेषान्तं जगद्यस्याः समुद्गतम्‌।
यस्यामेव लयं याति वन्दे तामम्बिकामहम्‌॥६८॥
गुरुमूर्तिधरां गुह्यां गुह्यविज्ञानदायिनीम्‌।
गुह्यभक्तजनप्रीतां गुहायां निहितां नुमः॥६९॥
य इदं पठते स्तोत्रं संध्ययोरुभयोरपि।
सर्वविद्यालयो भूत्वा स याति परमां गतिम्‌॥७०॥
इति जनहितमेतत्प्रोच्य देव्याः प्रसादा-

द्गुरुगुरुमखिलेशं भक्तिपूर्वं प्रणम्य।

मुनिगणमवलोक्य स्वानुभूत्यैव सूतः

स्वकपरशिवरूपे लीनबुद्धिर्बभूव॥७१॥

——————————————————————————————————————————————

भात्येवमेकैव परा शक्तिः परिकल्पितभेदाल्लक्ष्मीवागादिनानाशक्त्यात्मना भातीत्यर्थः। आद्यन्तविनिर्मुक्तामिति।आदित्पत्तिरन्तो विनाशस्तदृभयनिर्मुक्तां सर्वदा वर्तमानमित्यर्थः॥६६॥ ब्रह्माद्या इति। ब्रह्मादिस्तम्बान्तो यो भोक्तृप्रञ्चस्तस्य सर्वस्योत्पत्तिस्थितिलया यस्याः स्वरूपे परिकल्प्यन्ते तस्या इत्यर्थः। श्रूयते हि—“यतो वा इमानि भूतानि जायन्ते। येन जातानि जीवन्ति। यत्प्रयन्त्यभिसंविशन्ति” इति॥६७॥ न केवलमेव भोक्तृप्रपञ्चस्याधिष्ठानं भोग्यप्रपञ्चपरिकल्पनस्यापि सैवाधिष्ठानमित्याह—महदादीति। मूलप्रकृतेरत्यन्तनिर्विकल्पकतया चिच्छक्तितादात्म्येन क्षीरनीरवदविभागापन्नत्वान्महत्तत्त्वस्य च प्रथमकार्यत्वात्तदेवाऽऽदित्वेनोपादीयते। महदहङ्कारादिघटपटादिविशेषान्तं भोग्यरूपं जगदस्याः परशक्तेः समुद्भूतं समुद्भूयावस्थितमित्यर्थः॥६८॥ गुरुमूर्तिधरामिति। शमदमादिसाधनसंपन्नविरक्तजनाननुग्रहीतुं गुरुमूर्तिरूपेणावस्थिताम्‌। गुह्यां रहस्यं दुरधिगमामित्यर्थः। गुह्यं

इति श्रीस्कान्दपुराणे सूतसंहितायां चतुर्थे यज्ञ-
वैभवखण्डे अवशिष्टपापस्वरूपकथनं नाम
सप्तचत्वारिंशोऽध्यायः॥४७॥

——————————————————————————————————————————————

रहस्यमद्वितीयब्रह्मात्मैकत्वविषयं वेदान्तश्रवणमननादिसाधनजनितं यत्सम्यग्ज्ञानं तद्दातुं शीलं यस्याः सा तथोक्ता। गुहायां निहितामिति। देहमध्येऽवस्थितहृदयकमलमध्यं गुहा तस्यां निहिताम्‌। तत्र विशेषतोऽभिव्यक्तामित्यर्थः। श्रूयते हि—“यो वेद निहितं गुहायां परमे व्योमन्‌” इति ॥६९—७१॥

इति श्रीमत्काशीविलासक्रियाशक्तिपरमभक्तश्रीमत्त्र्यम्बकपादाब्जसेवापरा-
यणेनोपनिषन्मार्गप्रवर्तकेन श्रीमाधवाचार्येण विरचितायां सूत-
संहितातात्पर्यदीपिकायां चतुर्थे यज्ञवैभवखण्डेऽवशिष्टपाप-
स्वरूपकथनं नाम सप्तचत्वारिंशोऽध्यायः॥४७॥

समाप्तोऽयं यज्ञवैभवखण्डस्य पूर्वो भागः॥
ॐतत्सत्‌॥

<MISSING_FIG href=”#”/><MISSING_FIG href=”../books_images/U-IMG-1706190804Screenshot2024-01-25192038.png”/>

श्रीः

सव्याख्यायां सूतसंहितायां यज्ञवैभवखण्डस्योपरिभागे

ब्रह्मगीताप्रारम्भः।

तत्र प्रथमोऽध्यायः।

१. ब्रह्मगीतिः।

मुनय ऊचुः—

भवता सर्वमाख्यातं संक्षेपाद्विस्तरादपि।
इदानीं श्रोतुमिच्छामो ब्रह्यगीतामनुत्तमाम्‌॥१॥
सर्वविज्ञानरत्नानामाकरस्य महात्मनः।
कृष्णद्वैपायनस्यैव भवाञ्शिष्यः सुशिक्षितः॥२॥
त्वयैवाविदितं किंचिन्नास्ति सत्यं प्रभाषितम्‌।
यदि प्रसन्नो भगवंस्तन्नो वक्तुमिहार्हसि॥३॥

सूत उवाच—

वक्ष्ये तामादरेणैव ब्रह्मगीतामनुत्तमाम्‌। `
श्रद्धया सहिता यूयं शृणुत ब्रह्मवित्तमाः॥४॥
पुरा कल्पान्तरे देवाः सर्वे संभूय सादरम्‌।
विचार्य सुचिरं कारं वेदानामर्थमुत्तमम्‌॥५॥

—————————————————————————————————————————————————

नमः श्रीशंकरानन्दगुरूपादःम्बुजन्मने। सविलासमहामोहग्राहग्रासैककर्मणे॥एवमुपनिषदेकसमधिगम्यब्रह्मात्मैकत्वविज्ञानस्य निःश्रेयससाधनत्वमुक्तम्‌। एतच्च सर्वशाखासंमतमिति दर्शयितुमैतरेयतैत्तिरीयकादिसमस्तोपानिषदर्थस्य साकल्येन प्रतिपादिकां ब्रह्मगीतां वक्तुं मुनीनां प्रश्नमवतारयति भवतेति॥१—४॥ अथ तां वक्तुं पुरावृत्तमुदाहरतिपुरेति॥५॥६॥

संशयाविष्टचित्तास्तु तपस्तप्त्वा महत्तरम्‌।
अभिजग्मुर्विधातारं प्रष्टुं देवा मुनीश्वराः॥६॥
यत्राऽऽस्ते जगतां नाथः सर्वज्ञः सर्ववित्प्रभुः।
महाकारुणिकः श्रीमान्ब्रह्मा भक्तहिते रतः॥७॥
मेरुशृङ्गे वरे रम्ये सर्वयोगिसमावृते।
यक्षराक्षसगन्धर्वसिद्धाद्यैश्च सुसेविते॥८॥
नानारत्नसमाकीर्णे नानाधातुविचित्रिते।
शकुन्तसंघसंघुष्टे नानातीर्थसमावृते॥९॥
गुहाकोटिसमायुक्ते गिरिप्रस्रवणैर्युते।
मधुरादिरसैः षड्भिः समृद्धेऽतीव शोभने॥१०॥
तत्र ब्रह्मवनं नाम शतयाोजनमायतम्‌।
शतयोजनविस्तीर्णं दीर्घिकाभिः सुसंयुतम्‌॥११॥
नानापक्षिसमायुक्तं नानामृगसमाकुलम्‌।
स्वादुपानीयसंयुक्तं फलमूलैश्च संयुतम्‌॥१२॥
भ्रमद्भ्रमरसंछन्नसुगन्धकुसुमद्रुमम्‌।
मन्दानिलसमायुक्तं मन्दातपसमायुतम्‌॥१३॥
निशाकरकरैर्युक्तं वनमस्ति महत्तरम्‌।
तत्र जाम्बूनदमयं तरुणादित्यसंनिभम्‌॥१४॥

—————————————————————————————————————————————————

सर्वज्ञः सर्वविदिति। सामान्यतः सर्वं जानातीति सर्वज्ञः। विशेषेणापि सर्वं वेत्तीति सर्ववित्‌। यद्वा सर्वश्चासौ ज्ञश्चेति सर्वज्ञः। सर्वजगदात्मकश्चिदेकरसशरीर इत्यर्थः। एवंरूपः परशिव एव हि रजोगणोपहितः सन्निखिलज गत्सर्जनाय ब्रह्मा भवति। परशिवस्य चैवंरूपत्वमाम्नायते—“यः सर्वज्ञः

नवप्राकारसंयुक्तमशीतिद्वारसंयुतम्‌।
महाबलसमोपेतैर्द्वारपालैश्च कोटिभिः॥१५॥
खड्गतोमरचापादिशस्त्रयुक्तैश्च रक्षितम्‌।
पुष्पप्रकरसंकीर्णं पूर्णकुम्भैश्च संयुतम्‌॥१६॥
ज्वलद्दीपैः समायुक्तं पुष्पमालाविराजितम्।
विचित्रचित्रसंयुक्तभित्तिकोटिसुशोभितम्‌॥१७॥
मुक्तादामसमायुक्तं वितानैर्मौक्तिकैर्युतम्‌।
अभ्रगामिध्वजैर्युक्तं प्रांशुतोरणसंयुतम्‌॥१८॥
नृत्यगीतादिभिर्युक्तमप्सरोगणसेवितम्‌।
नानाविधमहावाद्यैर्नानातालैश्च संयुतम्‌॥१९॥
मृदुमध्योग्रशब्दाढ्यं नानाकाहलसंयुतम्‌।
वेदघोषसमायुक्तं स्मृतिघोषसमन्वितम्‌॥२०॥
पुराणघोषसंयुक्तामितिहासरवान्वितम्‌।
सर्वविद्यारवैर्युक्तं सर्वज्ञैश्च समावृतम्‌॥२१॥
अगाधजलपर्यन्तमवरोधसमन्वितम्।
रथकोटिसमायक्तं कोटिकोटिगजावृतम्‌॥२२॥
कोटिकोटिसहस्रैश्च महाश्वैश्च विराजितम्‌।
अस्त्रशस्त्रादिसंयक्तैरसंख्यातबलान्वितैः॥२३॥
असंख्यातैर्भटैर्नित्यं रक्षितं पुरमुत्तमम्‌।
अस्ति पुण्यवतां प्राप्यमप्राप्यं पापकर्मणाम्‌॥२४॥
तस्मिन्नन्तःपुरे शुद्धे सहस्रस्थूणसंयुते।
सर्वलक्षणसंयुक्ते सर्वालंकारसंयुते॥२५॥`

मृगतोरणसंयुक्ते कल्पवृक्षसमन्विते।
कण्ठीरवमुखैर्युक्ते षट्पदस्वनसंयुते॥२६॥
मृदुतल्पसमोपेते रत्ननिर्मितमण्डपे।
देव्या चापि सरस्वत्या वर्णविग्रहया सह॥२७॥
सर्वराब्दार्थभूतस्तु ब्रह्मा निवसति प्रभुः।
तत्र देवा द्विजा गत्वा ददृशुर्लोकनायकम्‌॥२८॥
नानारत्नसमोपेतविचित्रमुकुटोज्ज्वलम्‌।
रत्नकुण्डलसंयुक्तं प्रसन्नवदनं शुभम्‌॥२९॥
नानारत्नसमोपेतहाराभरणभूषितम्‌।
महार्हमणिसंयुक्तकेयूरकरसंयुतम्‌॥३०॥
विचित्रकटकोपेतमङ्गुलीयकशोभितम्‌।
उत्तरीयकसंयुक्तं शुक्लयज्ञोापवीतिनम्‌॥२१॥
नानारत्नसमोपेतं तुन्दबन्धविराजितम्।
चन्दनागरुकर्पूरक्षोददिग्धतनूरुहम्‌॥३२॥
सुगन्धकुसुमोत्पन्ननानामालाविभूषितम्‌।
शुक्लवस्त्रपरीधानं तप्तजाम्बूनदप्रभम्‌॥३३॥
स्वभासा सकलं नित्यं भासयन्तं परात्परम्‌।
सुरासुरमुनीन्द्रैश्च वन्द्यमानपदाम्बुजम्‌॥३४॥
तं दृष्ट्वा सर्वकर्तारं साक्षिणं तमसः परम्‌।
महाप्रीतिसमोपेताः प्रसन्नवदनेक्षणाः॥३५॥
संजातपुलकैर्युक्ता विवशा गद्गदस्वराः।

—————————————————————————————————————————————————

सर्वविद्यस्य ज्ञानमयं तपः” इति॥७

३५॥ निर्मलानृत्तमिति। निर्मलैः

प्रकाशितसुखाब्ध्यन्तर्निमग्ना निमर्लावृतम्‌॥३६॥
निरस्तनिखिलध्वान्ताः प्रणम्य वसुधातले।
शिरस्यञ्जलिमाधाय सर्वे देवाः समाहिताः॥३७॥
तुष्टुवुर्हृष्टमीशानं सर्वलोकपितामहम्‌।
मुक्तिदं पुण्यनिष्ठानां दुःखदं पापकर्मिणाम्‌॥३८॥

देवा ऊचुः—

ब्रह्मणे बह्मविज्ञानदुग्धोदधिविधायिने।
ब्रह्मतत्त्वदिदृक्षूणां ब्रह्मदाय नमो नमः॥३९॥
कष्टसंसारमग्नानां संसारोत्तारहेतवे।
साक्षिणे सर्वभूतानां साक्ष्यहीनाय वै नमः॥४०॥
सर्वधात्रे विधात्रे च सर्वद्वंद्वापहारिणे।
सर्वावस्थासु सर्वेषां साक्षिणे वै नमो नमः॥४१॥
परात्परविहीनाय पराय परमेष्ठिने।
परिज्ञानवतामात्मस्वरूपाय नमो नमः॥४२॥
पद्मजाय पवित्राय पद्मनाभसुताय च।

———————————————————————————————————————————————

सनकादिदिव्ययोगिभिः परिवृत्तमित्यर्थः॥३६—३८॥ ब्रह्मतत्त्वेति। ब्रह्मणः पारमार्थिकं निष्प्रपञ्चसच्चिदानन्दाखण्डैकरसरूपं साक्षात्कर्तुमिच्छतां मुमुक्षूणां प्रत्यगात्मन उक्तलक्षणब्रह्मरूपबोधकायेत्यर्थः॥३९॥ साक्षिण इति। सर्वदा सर्ववस्तूनां साक्षिणे साक्ष्याननुप्रविष्टेन स्वरूपचैतन्येन भासकायेत्यर्थः। साक्ष्यहीनायेति। परमार्थोपाधावज्ञानतत्कार्यस्य साक्ष्यस्याभावात्ताद्विहीनः॥४०॥ सर्वधात्र इति। सर्वस्य जगतो धारयित्रे। विधात्रे निर्मात्र इत्यर्थः। सर्वावस्थास्विति। सर्वेषां प्राणिनां जाग्रदादिसर्वावस्थासु साक्षिचैतन्यरूपेणावस्थितायेत्यर्थः॥४१॥परात्परविहीनायेति। महदादिभूतरभौतिकादिकार्या-

पद्मपुष्पेण पूज्याय नमः पद्मधराय च॥४३॥
सुरज्येष्ठाय सूर्यादिदेवतातृप्तिकारिणे।
सुरासुरनरादीनां सुखदाय नमो नमः॥४४॥
वेधसे विश्वनेत्राय विशुद्धिज्ञानरूपिणे।
वेदवेद्याय वेदान्तनिधये वै नमो नमः॥४५॥
विधये विधिहीनाय विधिवाक्यविधायिने।
विध्युक्तकर्मनिष्ठानां नमो विद्याप्रदायिने॥४६॥
विरिञ्चाय विशिष्टाय विशिष्टार्तिहराय च।
विषण्णानां विषादाब्धिविनाशाय नमो नमः॥४७॥
नमो हिरण्यगर्भाय हिरण्यगिरिवर्तिने।
हिरण्यदानलभ्याय हिरण्यातिप्रियाय च॥४८॥
शतानन्दाय शान्ताय शांकरज्ञानदायिने।
शमादिसहितस्यैव ज्ञानदाय नमो नमः॥४९॥
शंभवे शंभुभक्तानां शंकराय शरीरिणाम्।
शांकरज्ञानहीनानां शत्रवे वै नमो नमः॥५०॥
नमः स्वयंभुवे नित्यं स्वयंभुब्रह्मदायिने।
स्वयं ब्रह्मस्वरूपाय स्वतन्त्राय परात्मने॥५१॥
द्रुहिणाय दुराचारनिरतस्य दुरात्मनः।
दुःखदायान्यजन्तूनामात्मदाय नमो नमः॥५२॥

————————————————————————————————————————————————

पक्षया परं तस्मादपि परमव्यक्तं मायापरपर्यायं तद्रहितायेत्यर्थः॥४२—४४॥ विश्वनेत्रायेति। विश्वस्य सर्वस्य नेत्रवत्प्रकाशकायेत्यर्थः॥४५॥ विधिहीनायेति। विधिर्विधाताऽन्यो यस्य नास्ति स तथोक्तः॥४६—४८॥ शता-

वन्द्यहीनाय वन्द्याय वरदाय परस्य च।
वरिष्ठाय वरिष्ठानां चतुर्वक्त्राय वै नमः॥५३॥
प्रजापतिसमाख्याय प्रजानां पतये नमः।

प्राजापत्यविरक्तस्य नमः प्रज्ञाप्रदायिने॥५४॥
पितामहाय पित्रादिकल्पनारदहिताय च।
पिशुनागम्यदेहाय पेशलाय नमो नमः॥५५॥
जगत्कर्त्रे जगद्गोप्त्रे जगद्धन्त्रे परात्मने।
जगदृृश्यविहीनाय चिन्मात्रज्योतिषे नमः॥५६॥

विश्चोत्तीर्णाय विश्वाय विश्वहीनाय साक्षिणे।

स्वप्रकाशैकमानाय नमः पूर्णपरात्मने॥५७॥

स्तुत्याय स्तुतिहीनाय स्तोत्ररूपाय तत्त्वतः।

स्तोतॄणामपि सर्वेषां सुखदाय नमो नमः॥५८॥

सूत उवाच—

एवं ब्रह्माणमादित्याः स्तुत्वा भक्तिपुरःसरम्।
पृष्टवन्तस्तु सर्वेषां वेदानामर्थमादरात्‌॥५९॥

ब्रह्माऽपि ब्रह्मविन्युख्याः सर्वदेवैरभिष्टुतः।
प्राह गम्भीरया वाचा वेदानामर्थमुत्तमम्‌॥६०॥

इति श्रीस्कान्दपुराणे सूतसंहितायां यज्ञवैभवखण्डस्योपरि-
भागे ब्रह्मगीतासु बह्मगीतिर्नाम प्रथमोऽध्यायः॥१॥

————————————————————————————————————————————————————

नन्दायेति। शतगुणित आनन्दो यस्य। यद्वा शतसंवत्सरं सुखेन जीवनं यस्य स तथोक्तः॥४९

५६॥ स्वप्रकाशैकमानयेति। स्वप्रकाशस्वरूपचैतन्यमेकमेव मानं यस्य स तथोक्तः। स्वरूपप्रकाशेनैव प्रकाशमानो न

द्वितीयोऽध्यायः।

१. वेदार्थविचारः।

ब्रह्मोवाच—

अवाच्य एव वेदार्थः सर्वथा सर्वचेतनैः।
तथाऽपि वक्ष्ये भक्तानां युष्माकं श्रृणुताऽऽदरात्‌॥१॥
आत्मसंज्ञः शिवः शुद्ध एक एवाद्वयः सदा।
अग्रे सर्वमिदं देवा असीत्तन्मात्रमास्तिकाः॥२॥

————————————————————————————————————————————————

तु मानान्तरगम्य इत्यर्थः॥५७॥ स्तुतिहीनायेति। गुणिनिष्ठगुणाभिधानं हि स्वुतिः। सा च परमार्थतो निर्गुणस्य न भवतीति स्तुतिहीनः॥५८॥ वेदानामर्थमिति। समस्तैर्वेदस्तात्पर्येण प्रतिपादितो योऽर्थः स कीदृग्विध इति पृष्टवन्त इत्यर्थः॥५९॥६०॥

इति श्रीमाधवाचार्येण विरचितायां तात्पर्यदीपिकायां यज्ञवैभवखण्डस्यो-
परिभागे ब्रह्मगीतासु ब्रह्मगीतिर्नाम प्रथमोऽध्यायः॥ १॥

अथ ब्रह्माऽपि पृष्टं सकलवेदानामर्थं वक्तुमारभमाणस्तस्य विवक्षितस्‍याद्वितीयनिर्गुणब्रह्मस्वरूपात्मकस्प वेदार्थस्याभिधावृत्त्यविषयत्वं तावदाह-अवाच्य इति। उक्तविधब्रह्मलक्षणो यो वेदार्थः सोऽयं शब्देन सर्वप्रकारेणाप्यभिधावृत्त्या प्रतिपादयितुमशक्य एव। तस्य निर्गुणत्वेन तत्र जातिगुणक्रियादीनां शब्दप्रवृत्तिनिमित्तानामभावात्‌। अत एव श्रुतिस्तस्य वागगोचरत्वं दर्शयति—“यतो वाचो निवर्तन्ते” इति। तथाऽपीति। एवमभिधावृत्त्यविषयत्वेऽपि लक्षणावृत्त्या प्रतिपादयिष्यत इत्यर्थः॥१॥ तत्र तावदृग्वेदस्य प्राथम्यात्तदीयोपनिषत्प्रतिपाद्यमर्थं वक्तुकाम एष पन्था इत्यादि-सगुणभागस्य चित्तैकाग्र्यादिजननद्वारा निर्गुणभागशेषत्वादन्यशेषतया स्वातन्त्र्येण फलवद्ब्रह्मात्मैकत्वविज्ञानजनकस्य “आत्मा वा इदमेक एवाग्र आसीत्‌” इत्यादिनिर्गुणभागस्यैवार्थं संगृह्णाति—आत्मसंज्ञ इत्यादिना। तत्र जलविकारस्य तरङ्गबुद्बु- दादेर्वस्तुतः कारणजलस्वरूपानतिरेकवन्नामरूपविकारात्मककार्यप्रपञ्चस्यापि कारणभतादद्वितीयात्परमेश्वरादव्यतिरिक्तत्वं सा-

ततो नान्यन्मिषत्किंचित्स पुनः कालपाकतः।
प्राणिनां कर्मसंस्कारात्स्वशक्तिगतसत्त्वतः। `
स ऐक्षत जगत्सर्वं नु सृजा इति शंकरः॥३॥

—————————————————————————————————————————————————

धयितुं तत्सकाशात्सृष्टिराम्नायते। “आत्मा वा इदमेक एवाग्र आसीन्नान्यत्किंचन मिषत्स ईक्षत लोकान्नु सृजा इति स इमाल्ँलोकानसृजत” इत्यस्याः श्रुतेरर्थं ब्रूते—आत्मेति। आप्नोत्युपादानकारणतया स्वकार्यभूतं सर्वं जगदन्तर्बहिश्च व्याप्नोतीयात्मा। उक्तं हि—“यच्चाऽऽप्नोति यदादत्तो यच्चात्ति विषयानिह। यच्चास्य संततो भावस्तस्मादात्मेति गीयते” इति। स चाऽऽत्मसंज्ञः सच्चिदानन्दलक्षणः परशिव एव न तु प्रधानं परमाण्वादिकं वा पराभिमतम्। तस्याचेतनत्वेनानात्मत्वात्‌। यतोऽयं शिवोऽत एव शुद्धः अशुद्धेः कर्मसंबन्धहेतुकत्वाद्भगवति तस्मिंस्तत्संबन्धस्य च प्रागेव निरस्तत्वात्‌। उक्तं हि— “ब्रह्मणः कर्मसंबन्धाभावं चाऽऽह परा श्रुतिः” इति। तस्याद्वय इति विशेषणेन विजातीयभेदनिरासः। एवकारेण सजातीयान्तरनिरासः। एक इति स्वगतभेदनिरासः। सृष्टिप्राक्वालवत्सृष्ट्युत्तरकालमपि निर्विकारतया तस्य परमेश्वरस्येदृग्रूपत्वमिति द्योतयितुं सदेति विशेषणम्‌। अग्रे सृष्टेः प्राक्काल इदं परिदृश्यमानं नामरूपात्मकं सर्वं जगदुक्तलक्षणात्मस्वरूपमेवाऽऽसीत्‌। अव्याकृतात्मना तत्स्वरूप एव लीनमासीदित्यर्थः॥२॥ मात्रचो व्यवच्छेद्यं दर्शयति—तत इति। ततस्तस्मादात्मस्वरूपादन्यन्नामरूपात्मना पृथग्भूतं मिषत्स्फुरत्पकाशमानं क्रिमपि वस्तु नाऽऽसीदित्यर्थः। एवं कारणात्मना सद्भावप्रतिपादनादसदेव कार्यमुत्पद्यत इति पक्षो निरस्तः। नन्वेवमसङ्गोदासीनस्य स्वप्रतिष्ठस्याद्वितीयस्याशरीरस्याऽऽत्मनः स्रष्टव्यपर्यालोचनरूपमीक्षणं कथं संभवतीत्याशङ्क्याऽऽह—स पुनरिति। अतीतकल्पसंचितानि प्राणिकर्माणि स्वकारणभूतमायया सह संहृतिसमये परशिवस्वरूपे वासनाशेषतया प्रलीनानि कालवशात्पच्यन्ते स्वफलप्रदानोन्मुखलक्षणमतिशयं प्राप्नुवन्ति। तस्माच्च कालकृतात्पाकात्स्रष्टुः परमेश्वरस्य सिसृक्षाहेतुभूतः कर्मजनितोऽपूर्वावान्तरपर्यायः संस्कार उद्बुध्यते उद्बुद्धाच्च तस्मात्स्वस्य परशिवस्य या

स पुनः सकलानेताल्ँलोकानात्मीयशक्तितः।
यथापूर्वं क्रमेणैव सुरा असृजत प्रभुः॥४॥

———————————————————————————————————————————————————

शक्तिस्त्रिगुणा माया तत्र रजस्तमोभ्यामसंस्पष्टं यद्विशुद्धं सत्त्वं तस्मद्धेतोस्तदुपाधिबलात्सिसृक्षारूपमीक्षणं जायत इत्यर्थः। कथमीक्षितवानिति तदुच्यते नामरूपात्मकं यदिदं सर्वं जगदेतावन्तं कालं विलीनमासीत्तन्नु सृजा इति। नुशब्दो वितर्के। तत्सृजा इति किमित्येवंरूपेणेक्षितवानित्यर्थः। अत्र सर्वं जगदिति वदता लोकान्नु सृजा इति भौतिकलोकसृष्टिप्रतिपादिकायाः श्रुतेराकाशादिभूतसूष्टिरपि विवक्षिता। सा तूपसंहारन्यायेय सिद्धेति प्रयोजनाभावान्न प्रथगुक्तेत्यभिप्रायो वर्णितः॥३॥ एवमीक्षणानन्तरं किं कृतवानिति तत्राऽऽह—स पुनरिति। “अम्भो मरीचीर्मरमापः” इति ये लोकाः श्रुत्यानुक्रान्तास्तानेतान्सर्वाल्ँलोकान्स परमेश्वरः प्रभुः स्वतन्त्रोऽपि “सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत्‌” इति श्रुतेरतीतकल्पक्रमानुसारेणैवाऽऽत्मीयशक्तित आत्मनश्च स्वसंबन्धिनी जगदाकारेण विवर्तमाना या त्रिगुणा मायाशक्तिस्तद्बलात्सम्यक्सृष्टवानित्यर्थः। अम्भःप्रभृतीनां निर्वचनं च श्रुत्यैव प्रतिपादितम्‌ “अदोऽम्भः परेण दिवं द्यौः प्रतिष्ठाऽन्तरिक्षं मरचियः। पृथिवी मरो या अधस्तात्ता आपः” इति। स्वर्लोकादिसत्यलोकान्ता अम्भःशब्दवाच्या मरीचय इत्यन्त-रिक्षलोका मर इति मर्त्याश्रितो भूलोकस्तस्याधस्तादतलाद्या सप्ताप्शब्दवाच्या इति तस्याः श्रुतेरर्थः। अत्र स्रष्टुरात्मनः परमेश्वरत्वमुक्तम्‌। तथात्वं च भगवद्धाष्यकारैरापि “आत्मगृहीतिरितरवदुत्तरात्‌” इत्यधिकरणस्य प्रथमवर्णके निर्णी-तम्‌। तथा हि—किमत्र स्रष्टृत्वेनोक्त आत्मा विराडुत परमेश्वर इति विशये “आत्मन आकाशः संभूतः” इति परमेश्वरकर्तृकसृष्टेराकाशादिमहाभूतविषयत्वादत्र च “स इमाल्ँलोकानसृजत” इति भूतसृष्टिव्यतिरेकेण विराट्कर्तृकलोकसृष्टेरेवोपादानात्ताभ्यो गामानयत्ताम्योऽश्वमानयदिति गवानयनादिशरीरधारिव्यवहारदर्शनादेक एवेत्यद्वितीयत्वावधारणस्य च स्वविकारप्रपञ्चापेक्षया व्युत्पत्तेर्विराडेवात्र स्रष्टृत्वेनोक्त आत्मेति प्राप्तेऽभिधीयते। उपरिष्टाद्धि पृथिवी वायुराकाश आपो ज्योतींषीत्यादिना महाभूतैः

तं हर केचिदिच्छन्ति केचिद्विष्णुं सुरोत्तमाः॥५॥
केचिन्मामेव चेच्छन्ति केचिदिन्द्रादिदेवताः।
केचित्प्रधानं त्रिगुणं स्वतन्त्रं केवलम जडम्‌॥६॥
अणवः केचिदिच्छन्ति शब्दं केचन मोहिताः।
क्षणप्रध्वंसिविज्ञानं केचन भ्रान्तचेतसः॥७॥

———————————————————————————————————————————————————

सह सर्वं कार्यजातमनुक्रम्य सर्वं तत्प्रज्ञानेत्रमिति प्रज्ञाब्रह्मपरत्वश्रवणादुपक्रमेऽपि महाभूतसृष्टिरुपसंहर्तव्या। तथा च भूतसृष्टिविषयत्वात्परमेश्वर एवात्र स्रष्टा। एवं चैकत्वावधारणमपि न कदर्थितं भवति। गवाद्यानयनं तु विद्या स्तुत्यर्थत्वान्न विरुध्यते। तथाचोक्तम्‌—“आत्मा वा इदमित्यत्र विराट्स्या दथवेश्वरः। भूतसृष्टेर्नेश्वरः स्याद्गवाद्यानयनाद्विराट्‌॥ भूतोपसंहृतेरीशः स्यादद्वैतावधारणात्‌। अर्थवादो गवाद्युक्तिर्बह्मात्मत्वं विवक्षितम्‌” इति॥४॥ एवं लोकसृष्टिप्रतिपादनेन परमेश्वरस्वरूपं ताटस्थ्येन लक्षयित्वा श्रुत्युक्तलोकपालादिसृष्टेरपि स्रष्टुर्लक्षकत्वरूपस्य प्रयोजनस्यैकत्वेन गतार्थत्वादन्यस्य च सर्वस्य “स एतमेव सीमानं विदार्य” इत्यादेः प्रज्ञा प्रतिष्ठा प्रज्ञानं ब्रह्मेति ब्रह्मात्मैकत्वलक्षणप्रतिपादकवाक्यशेषत्वात्सर्वं परित्यज्य कोऽयमात्मेत्यादिवाक्यसंदर्भप्रतिपादितमर्थं वक्तुकामः “तं प्रपदाग्राभ्यां प्रापद्यत ब्रह्मेमं पुरुषं स एतमेव सीमानं विदार्यैतया द्वारा प्रापद्यत” इति श्रुतिबलात्पादग्राभ्यां ब्रह्मरन्ध्राच्च प्रविष्टयोः क्रियाशक्तिज्ञानशक्तिलक्षणयोर्ब्रह्मणोर्मध्ये कतरःः स आत्मेति जायमनसंश्यवद्वादिविप्रतिपत्तेरपि तद्धेतुत्वात्तमुदाहरति-तं हरमित्यादिना। यः स्रष्टृत्वेनोक्त आत्मा तमित्यर्थः॥५॥ केचित्प्रधानामीति। सांख्या हि चेतनोपादानत्वे जगतो जडत्वानुपपत्तेस्तदनुरूपमचेतनं सत्त्वरजस्तमोगुणात्मकं प्रधानमेव जगदुपादानमिति तस्यैव स्रष्टृत्वमिच्छन्ति। वेदान्त्यभिमतमायातो वैलक्षण्यमाह—स्वतन्‍त्रमिति। सा हि परमेश्वराश्रिततया तत्परतन्त्रा॥६॥ अणवः केचिदिति। न्यूनपरिमाणैमृदवयवैरधिकपरिमाणस्य घटादेरारम्भदर्शनात्पार्थिवादिपरमाणव एवं द्व्यणुकादिप्रक्रियया प्राण्यदृष्टवशात्सर्वं जगदारमभन्त इति तार्किकाः। शब्दं केचनेति। वैयाकर-

शून्यसंज्ञं सुराः केचिन्निरुपाख्यं विमोहिताः।
केचिद्भूतानि चेच्छन्ति निसर्गं केचन भ्रमात्‌॥८॥
तत्र तत्रैव तर्कांश्च प्रवदन्ति यथाबलम्‌।

सर्वे वादाः श्रुतिस्मृत्योर्विरुद्धा इति मे मतिः॥९॥

पापिष्ठानां तु जन्तूनां तत्र तत्र सुरर्षभाः।
प्राक्संसारवशादेव जायते रुचिरास्तिकाः॥१०॥
तेऽपि कालविपाकेन श्रद्धया पूतयाऽपि च।
पुरातनेन पुण्येन देवतानां प्रसादतः॥११॥
कालेन महता देवाः सोपानक्रमतः पुनः।

————————————————————————————————————————————————

णास्तु शाब्दब्रह्मैवार्थप्रपञ्चात्मना विवर्तत इति शब्दस्यैव कारणत्वं वर्णयन्ति। उक्तं हि—‘‘अनादिनिधनं ब्रह्म शब्दतत्त्वं यदक्षरम्‌॥विवर्ततेऽर्थभावेन प्रक्रिया जगतो यतः” इति॥७॥भूतानि चेच्छन्तीति।भूतेभ्य एव भौतिकस्य सर्वस्योत्पत्तिदर्शनात्तेषामेव स्रष्टृत्वं न तु तद्व्यतिरिक्तः कश्चित्स्रष्टा विद्यत इति केषांचित्पक्षः।अपरे तु भ्रान्ता न कदाचिदनीदृशं जगदिति सर्ग एव नास्तीति मन्यन्ते। तथा च श्रुतावपि जगत्कारणे वादिविप्रतिपत्तिर्दर्शिता—“कालः स्वभावो नियतिर्दृच्छा भूतानि योनिः पुरुष इति चिन्त्यम्‌” इति॥८॥ श्रुतिस्मृत्योर्विरुद्धा इति। “सोऽकामयत बहुस्यां प्रजायेयेति तदात्मानं स्वयमकुरुत”। “मत्तः परतरं नान्यत्किंचिदस्ति धनंजय। मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव॥मयाऽध्यक्षेण प्रकृतिः सूयते सचराचरम्‌” इत्यादिश्रुतिस्मृतिभ्यां चेतनस्य परमेश्वरस्य जगदुपादानत्वनिमित्तत्वयोः श्रवणात्तद्विरुद्धतया वादिविप्रतिपत्तेरप्रामाणिकत्वात्तद्धेतुकः संशयो जगत्कारणे नास्तीति सिद्धमात्मसंज्ञः शिव इति प्रतिज्ञातम्‌॥९॥ नन्वेवं श्रुतिस्मृतिविरोधात्सांख्यादिशास्त्राणामप्रामाण्ये कथं तत्र तीर्थकाराणां प्रवृत्तिरित्याशङ्क्य तत्र प्रवृत्तौ पापमेव कारणमित्याह—पापिष्ठानामित्यादिना॥१०॥११॥ सोपानक्रमत इति।स्वस्वशास्त्रादात्मानात्मविवेकं सामान्येन जा-

वेदमार्गमिमं मुख्यं प्राप्नुवन्ति चिरंतनम्‌॥१२॥
प्राक्संस्कारवशादेव ये विचिन्त्य बलाबले।
विवशा वेदमापन्नास्तेऽपि कैवल्यभागिनः॥१३॥
वेदमार्गमिमं मुक्त्वा मार्गमन्यं समाश्रितः।
हस्तस्थं पायसं त्यक्त्वा लिहेत्कूर्परमात्मनः॥१४॥
विना वेदेन जन्तूनां मुक्तिर्मार्गान्तरेण चेत्‌।
तमसाऽपि विनाऽऽलोकं ते पश्यन्ति घटादिकम्‌॥१५॥
तस्माद्वेदोदितो ह्यर्थः सत्यं सत्यं मयोदितम्‌।
अन्येन वेदितो ह्यर्थो न सत्यः परमार्थतः॥१६॥
परमार्थो द्विधा प्रोक्तो मया हे स्वर्गवासिनः।
एकः स्वभावतः साक्षात्परमार्थः सदैव तु॥१७॥

————————————————————————————————————————————————

नानाः सांख्यादयस्तद्विशेषप्रतिपादकमुपनिषन्मार्गं परंपरया समाश्रयन्त इत्यर्थः॥१२॥ विचिन्त्य बलाबले इति। वेदमार्गमाश्रितास्ते स्वशास्त्रस्य वेदस्य च बलाबले विचार्य पुरुषबुद्धिप्रभवत्वेन स्वशास्त्रस्य दौर्बल्यमपौरुषेयत्वेन वेदस्य च निर्दुष्टं प्रामाण्यं निश्चिन्वानास्तत्परतन्त्राः स्वमार्गं परित्यज्य वेदमार्गमेव केवलमाश्रयन्ते। अतः सोपानक्रमेण तेषामपि वेदोदिता मुक्तिर्भूयसा कालेन सिध्यतीत्यर्थः॥१३—१५॥ तस्मादिति। यस्मादेवं मार्गान्तराणामपि वेदे पर्यवासनं तस्मादपौरुषेयत्वेन निर्दुष्टवेदवाक्यप्रतिपादित एवार्थः सत्यो न तु वेदव्यतिरिक्तेनेत्यर्थः॥१६॥ ननु वेदप्रतिपादितोऽर्थः सत्यश्चेत्क्रियाकारकादिभेदभिन्नस्य जगतोऽप्यात्मवद्वेदार्थतया सत्यत्वं स्यादित्याशङ्क्य तस्य व्यावहारिकसत्यत्वं प्रतिपादयितुं वेदार्थस्य द्वैविध्यमाह—परमार्थ इति। वेदे हि काण्डद्वयम्‌। तत्र ज्ञानकाण्डे सत्यज्ञानादिलक्षणो योऽर्थः प्रतिपादितः स एव साक्षात्परमार्थः। कर्मकाण्डप्रतिपादितस्तु स्वर्गापूर्वादिदेवतालक्षणः प्रपञ्चः सत्यज्ञानादिलक्षणे परमात्मन्यध्यस्तमायया परिकिल्पितः। तदेतत्काण्ड-

स शिवः सत्यचैतन्यसुखानन्तस्वलक्षणः।
अपरः कल्पितः साक्षाद्ब्रह्यण्यध्यस्तमायया॥१८॥
कल्पितानामवस्तूनां मध्ये केचन मायमा।
परमार्थतया क्लृप्ता व्यवहारे सुरर्षभाः॥१९॥
व्यवहारे तु संक्लृप्ताः केचनापरमार्थतः।
आकाशादि जगच्छुक्तिरूप्ये ते कथिते मया॥२०॥
व्यावहारिकसत्यार्थं साक्षात्सत्यार्थचिद्धनम्‌।
उभयं वक्ति वेदस्तु मार्गा नैवं वदन्ति हि॥२१॥
स्वप्नावस्थासु संक्लृप्तसत्यार्थेन समानिमान्‌।
अर्थानेवाऽऽमनन्त्यन्ये मार्गा हे स्वर्गवासिनः॥२२॥
जाग्रत्काले तु संक्लृप्तसत्यार्थेन समानिमान्‌।

—————————————————————————————————————————————————

द्वयस्य कल्पिताकल्पितविषयत्वं प्रागपि प्रपञ्चितम्‌—“सत्याद्वैतपरः कश्चिद्वैदभोगः समासतः। कल्पितद्वैतनिष्ठस्तु वेदभागोऽपरस्तथा” इति॥१७॥१८॥ यद्येवं कल्पितद्वैतपरः कर्मकाण्डस्तर्हि सर्वोऽपि वेदार्थः सत्य इति नियमो न स्यादित्यतआह—कल्पितानामिति। सर्वस्य मायापरिकल्पितत्वेनावस्तुत्वेऽप्याकाशादिकं व्यावहारिकसत्यत्वेनैव परिकल्प्यते। शुक्तिरूप्यादिकं तु व्यवहारेऽप्यसत्यतयैवेति॥१९॥२०॥ जगतोऽपि व्यावहारिकसत्यत्वाङ्गीकारान्न वेदार्थस्य सत्यत्वहानिरित्याह-व्यावहारिकेति। सति प्रमातर्यबाध्यमानं जगद्व्यावहारिकसत्यम्‌। कदाचिदपि बाधविधुरं सत्यज्ञानानन्दैकरसं ब्रह्म हि परमार्थतः सत्यम्‌। तदुभयं वेदः प्रतिपादयति। मार्गान्तरं तु नैवमित्यर्थः॥२॥ किं तर्हि मार्गान्तरैः प्रतिपादितमिति तदाह—स्वप्नेत्यादिना। अन्ये सौगतनिर्मिता मार्गाः स्वप्नावस्थापरिकल्पितसत्यार्थसदृशाञ्जाग्रदर्थानेव केवलं प्रतिपादयन्ति न तूक्ताविधं साक्षात्सत्यमात्मानम्‌। अन्ये तु वैशेषिकादिमार्गा जाग्रदवस्थायां व्यावहारिकसत्यत्वेन मायापरिकल्पितो यो वेदान्त्यभिमतस्तत्सदृशान्द्रव्यगुणकर्मरक्षणानर्थानेव केवलं प्रतिपादयन्ति॥२२॥

मार्गा एवाऽऽमनन्त्यर्थान्का कथा सत्यचिद्धने॥२३॥
तस्मदेकैकया दृष्ट्या मार्गाः सत्यार्थभाषिणः।
दृष्ट्यन्तरेण ते भ्रान्ता इति सम्यङ्निरूपणम्॥२४॥
चैतन्यापेक्षया चेत्यं व्योमादि सकलं जगत्‌।
असत्यं सत्यरूपं तत्कुम्भकुड्याद्यपेक्षया॥२५॥
कुम्भकुड्यादयो भावा अपि व्योमाद्यपेक्षया।
असत्याः सत्यरूपास्ते शुक्तिरूप्याद्यपेक्षया॥२६॥
जाग्रदित्युदितावस्थामपेक्ष्य स्वपनाभिधा।
अवस्थाऽसत्यरूपा हि न सत्या हि दिवौकसः॥२७॥

————————————————————————————————————————————————

अतो मार्गाणां सत्यचिद्धने पारमार्थिके वस्तुनि का कथा प्रतिपादनप्रसक्तिरपि नास्तीत्यर्थः॥२३॥तस्मादिति। व्यावहारिकसत्यस्य जगत एव प्रति पादनात्पारमार्थिकसत्यचिद्धनवस्तुनोऽप्रतिपादनाच्चेत्यर्थः। एकैकया दृष्ट्येति। व्यावहारिकदृष्ट्या। दृष्ट्यन्तरेणेति। पारमार्थिकदृष्ट्येत्यर्थः। भ्रान्ता इति। व्यावहारिकसत्यस्याऽऽकाशादिजगतः पारमार्थिकसत्यत्वेनान्यथाग्रहणात्तेषां भ्रान्तत्वम्‌॥२४॥ ननु व्यावहरिकसत्यत्वमेव पारमार्थिकसत्यत्वम्‌। न ह्येकमेव वस्तु दृष्टिभेदमात्रेण सत्यमसत्यं च भवतीत्यत आहचैतन्येति। मृल्लोहादिकारणेषु सत्सु तत्र घटादिकार्यलयदर्शनात्कारणमात्रस्य सत्यत्वं कार्यस्य चासत्यत्वं प्रसिद्धम्‌। तथाच कारणभूतं परशिवचैतन्यमपेक्ष्य तत्कार्यं चेत्यं वियदादिभूतजातमसत्यम्‌। तच्च घटकुड्यादिलक्षणस्वकार्यस्य कारणभूतं सत्तदपेक्षया सतमयम्‌॥२५॥ कुम्भकुड्यादयोऽपि स्वकारणभूतवियदादिमहाभूतापेक्षयाऽसत्यास्तेऽपि सत्येव प्रमातरि बाध्यमानं शुक्तिरजतादिकमपेक्ष्य सत्याः। सति प्रमातर्यबाध्यमानत्वात्‌॥२६॥ तथा जाग्रदवस्था स्वकाणमपेक्ष्यासत्याऽपि सति प्रमातरि बाधविरहरूपस्वप्नावस्थावैलक्षण्यात्सत्या तामवेक्ष्य स्वप्नावस्थाऽपि सत्येव प्रमातरि बाधितत्वादसत्यैवा। एवमेकस्यैव वस्तुनो व्यवहारदष्ट्या सत्यत्वं परमार्थोपाधावसत्यत्वं च न विरुध्यत

तथाऽपि स्वप्नदृष्टं तु वस्तु स्वर्गनिवासिनः।
सूचकं हि भवत्येव जाग्रत्सत्यार्थसिद्धये॥२८॥
तथैव मार्गास्तु भ्रान्ता अपि वेदोदितस्य तु।
अर्थस्य प्राप्तिसिद्ध्यर्था भवन्त्येव न संशयः॥२९॥
तस्माद्वेदपरा मार्गा नैव त्याज्या निरूपणे॥
वेदनिष्ठस्तु तान्मार्गान्कदाचिदपि न स्पृशेत्॥३०॥
वेदनिष्ठस्तु मार्गांस्तान्मोहेनापि स्पृशेद्यदि।
प्रायश्चित्ती भवत्येव नात्र कार्या विचारणा॥३१॥
एकस्यामपि तैः सार्धं पङ्क्तौ वेदैकसंस्थितः।
मोहेनापि न भुञ्जीत भुक्त्वा चान्द्रायणं चरेत्॥३२॥
इज्यादानविवाहादिकार्यमध्ययनं श्रुतेः।
यदि तैर्मोहतः कुर्यात्कुर्याच्चान्द्रायणत्रयम्॥३३॥
धर्माधर्मादिविज्ञानं नाऽऽददीत श्रुतौ स्थितः।
तेभ्यो मोहादपि प्राज्ञाः श्रेयस्कामी कदाचन॥३४॥
वेदबाह्येषु मार्गेषु संस्कृता ये नराः सुराः।
ते हि पाषण्डिनः साक्षात्तथा तैः सहवासिनः॥३५॥

—————————————————————————————————————————————————

इत्यर्थः॥२७॥ यद्येवं परमार्थदृष्ट्याऽसत्यस्यैव सत्यतयाऽध्यवसायान्मार्गा भ्रान्तास्तर्हि मिथ्याभूतानां तेषां परंपरयाऽपि कथं वेदमार्गावाप्तिद्वारा परमार्थसत्यचिद्धन पशिवस्वरूपावाप्तिहेतुत्वमित्याशङ्क्यसदृष्टान्तमुपपादयति—तथाऽपीति। यद्यपि स्वप्नावस्था मिथ्यभूता तथाऽपि स्वप्नदृष्टं वस्तु भाविनः सत्यस्य फलस्य सूचकं भवति। सूचकत्वं भगवता व्यासेनापि सूत्रितम् “सूचकश्च हि श्रुतेराचक्षते च तद्विदः” इति। सा च श्रुतिरेजमाम्नाता—“यदा कर्मसु काम्येषु स्त्रियं स्वप्नेषु पश्यति। समृद्धिं तत्र

जानीयात्” इति॥२८॥ यथाचैवं तथैव मिथ्याभूता अपि मार्गा वेदप्रतिपादितस्य सच्चिदानन्दाखण्डै-

कलौजगद्विधातारं शिवं सत्यादिलक्षणम्‌।
नार्चयिष्यन्ति वेदेन पाषण्डोपहता जनाः॥३६॥
वेदसिद्धं महादेवं साम्बं चन्द्रार्धशेखरम्‌।
नार्चयिष्यन्ति वेदेन पाषण्डोपहता जनाः॥३७॥
वेदोक्तेनैव मार्गेण भस्मनैव त्रिपुण्ड्रकम्‌।
धूलनं नाऽऽचरिष्यन्ति पाषण्डोपहता जनाः॥३८॥
रुद्राक्षधारणे भक्त्या वेदोक्तेनैव वत्मना।
न करिष्यन्ति मोहेन पाषण्डोपहता जनाः॥३९॥
लिङ्गेदिने दिने देवं शिवरुद्रादिसंज्ञितम्‌।
नार्चयिष्यन्ति वेदेन पाषण्डोपहता जनाः॥४०॥
देवकार्यं न कुवन्ति पित्रकार्यं विरोषतः।
औपासने न कुवन्ति पाषण्डोपहता जनाः॥४१॥
पञ्चयज्ञं न कुवन्ति तथैवातिथिपूजनम्‌।
वैश्वदेवं कुवन्ति पाषण्डोपहता जनाः॥४२॥
वेदबाह्येन मार्गेण पूजयन्ति जनार्दनम्‌।
निन्दन्ति शंकरं मोहात्पाषण्डोपहता जनाः॥४३॥
ब्रह्माण केशवं रुद्रं भेदभावेन मोहिताः
पश्यन्त्येकं न जानन्ति पाषण्डोपहता जनाः॥४४॥
अदक्षिणमनभ्यङ्गमधौतचरणं तथा।
कवेन्त्यनाग्निकंश्राद्धंपाषण्डोपहता जनाः॥४५॥
एकादश्यामथाष्टम्यां चतुदश्यां विशेषतः।
उपवासं न कुर्वन्ति पाषण्डोपहता जनाः॥४६॥

शतरुद्रीयचमकैस्तथा पौरुषसूक्तकैः।
नाभिषिञ्चन्ति देवेशं पाषण्डोपहता जनाः॥४७॥
चिरंतनानि स्थानानि शिवस्य परमात्मनः।
न द्रक्ष्यन्ति महाभक्त्या पाषण्डोपहता जनाः॥४८॥
श्रीमद्दक्षिणकैलासे वर्तनं श्रद्धया सह।
वत्सरं न करिष्यन्ति पाषण्डोपहता जनाः॥४९॥
श्रीमद्व्याघ्रपुरेपुण्ये वर्तन भुक्तिमुक्तिदम्‌।
वत्सरं न कारिष्यन्ति पाषण्डोपहता जनाः॥५०॥
अन्येषु च विशिष्टेषु शिवस्थानेषु वर्तनम्‌।
वत्सरं न कारेष्यन्ति पाषण्डोप्रहता जनाः॥५१५॥
दिने दिने तु बेदान्तमहावाक्यार्थनिर्णयम्‌।
आचार्यान्न करिष्यन्ति पाषण्डोपहता जनाः॥५२॥
संन्यासं परहंसाख्यं नाङ्गीकृर्वन्ति मोहिताः।
प्रद्वेषं च करिष्यन्ति पाषण्डोपहता जनाः॥५३॥
अन्यानि यानि कर्मणि वेदेनैवोदितानि तु।
नाऽऽचरिष्यन्ति तान्येव पाषण्डोपहता जनाः॥५४॥
समार्तान्यपि च कर्माणि यानि यानि सुरोत्तमाः।
नाऽऽचरिष्यन्ति तान्येव पाषण्डोपहता जनाः॥५५॥
ऊर्ध्वपुण्ड्रंललाटे तु बर्तुलं चार्धचन्द्रकम्‌।
धारयिष्यन्ति मोहेन पाषण्डोपहता जनाः॥५६॥
शङ्खचक्रगदावज्रैरङ्कनं विग्रहे स्वके।
मोहेनैव करिष्यन्ति पाषण्डोपहता जनाः॥५७॥

मनुष्याणां च नाम्ना तु तेषामाकारतोऽपि च।
लाञ्छिताश्च भविष्यन्ति पाषण्डोपहता जनाः॥५८॥
बहुनोक्तेन किं वेदमर्यादाभेदनं सुराः।
श्रद्धयैव करिष्यन्ति पाषण्डोपहता जनाः॥५९॥
धीरा विरिष्टाश्च महेश्वरस्य प्रसादयुक्ताश्च महत्तमाश्च।
वेदोदितं केवलमेवदेवा मुदा करिष्यन्ति विमक्तिसिद्ध्यै॥

ति श्रीस्कान्दपुराणे सूतसंहितायां यज्ञैभवखण्डस्यो-

परिभागे ब्रह्मगीतासु वेदार्थविचारो नाम द्वितीयोऽध्यायः २

————

तृतीयोऽध्यायः।

३.साक्षिशिवस्वरूपकथनम्‌।

ब्रह्मोवाच—

सवात्मा शंकरो नाम साक्ष्येव सकलस्य तु।
साक्ष्यभावे जगत्साक्ष्य कथं माति सरोत्तमाः॥१॥

—————————————————————————————————————————————————

करसश्य परमार्थसत्यवस्तुनः सोपानक्रमेण प्राप्तिहितवोभवन्तीत्यिर्थः॥२९—६०॥

इति श्रीसूतसंहितातात्पर्यंदीपिकायां चतुर्थस्य यज्ञवैभवखण्डस्योपरिभागे ब्रह्मगीतासूपनिषत्सु वेदार्थविचारोनाम द्वितीयोऽध्यायः॥२॥

तं हरं केचिदित्यादिना वादिविप्रतिपात्तिं निराकृत्य श्रुतिप्रसिद्ध एवाऽऽत्मास्रष्टृत्वेनोक्त इत्ययमर्थःप्रतिपादितः। स एव स्वसृष्टदेहेषु क्रियाशक्त्यातना प्राणरूपेणावस्थितः “तंप्रपदाभ्यां प्रापद्यत ब्रह्मम पुरुषम्‌” इति श्रुतेः। तथा चिच्छक्तिरूपेण च ब्रह्मरन्ध्रास्पषिष्टः “स एतमेव सीमानं विदार्यैतया द्वारा प्रापद्यत” इति श्रुतेः। अनयोर्मध्येकतरः स आत्मा यः प्रत्यगात्मस्वरूपत्वेन ज्ञातव्यः। स किं प्राणरूप उत चिच्छक्त्यात्मक इति

स्वतो भानविहीनं हि जगत्सर्वं चराचरम्‌।
जडताऽजडता चास्य जगतो भानवत्तया॥२॥
भानं विज्ञानतो जन्यमिति कैश्चिदुदीर्यते।
तन्न संगतमेव स्याज्जन्यं चेज्जटमेव तत्‌।
जडानामेव जन्यतं घटादीनां हि संमतम्‌॥३॥
विज्ञानं चापि भानस्य नैवोत्पादकामिष्यते।
ज्ञानस्य भानरूपेण परिणामो न सिध्यति॥४॥

—————————————————————————————————————————————————

हि प्रश्नः श्रुताववतारितस्तस्योत्तरभूता “येन वा पश्यति येन वा शृणोति” इत्यादिका श्रुतिः। अथ तस्याः श्रुतेरर्थं वक्तुमात्मनः सर्वसाक्षित्वं साधयति—सर्वात्मेति। सर्वेषु शरीरेष्वात्मत्वेनावस्थितो यः परमेश्वरोऽसौ सर्वस्य जडप्रपञ्चस्य भासकः साक्षी चिन्मात्रस्वरूप एवैष्टव्यः। विपक्षे बाधकमाह-साक्ष्य भाव इति। यद्यसौ चिन्मात्रस्वरूपः साक्षी न स्यात्केन तर्हि प्रकाशेन साक्ष्यं जगद्भासेत। अतःसाक्षिरूपं मानमङ्गीकर्तव्यमित्यर्थः॥१॥ साक्षिस्वरूपवत्साक्ष्यस्यापि स्वत एव भानं कस्मान्न भवतीत्यत आह—स्वत इति। जडं हि जगस्वाभाविकस्फुरणरहितम्। अतः साक्षिस्फुरणाभावे तस्य भानं न स्यादित्यर्थः। ननु साक्षिणोऽभावेऽपि जडं जगदजडेन ज्ञानाधारेणाऽऽत्मना ज्ञायत एवेत्यत आह—जडतेति। अनात्मनो जडत्वमात्मनश्चाजडत्वमित्येतदुभयमप्यस्य जगतो भानवत्तयैवाधिगन्तव्यम्। यदि हि जगद्भानविषयं स्यात्तदा तस्य चिद्भास्यत्वाज्जडत्वम्। यस्तु तादृशभानाश्रयः सोऽजड इति जडत्वाजडत्वे उभे अपि भानाधीननिरूपणे इत्यवश्यं साक्षिरूपं भानमङ्गीकाव्यमित्यर्थः॥२॥ नन्वस्तु भानं तत्तु चक्षुरादिवदप्रकाशमानेन निलीनेन विज्ञानेन स्त्रविषये जन्यत इति भाट्टमतमाशङ्कते-भानमिति। तन्निरस्यति—तन्नेति। यदि हि विषयस्फुरणरूपं भानं जन्यं स्यात्तर्हि मृज्जन्यधटादिवज्जन्यत्रहेतुना जडमेव स्यात्‌। अतो विषयवद्भानस्यापि जडत्वाविशेषात्तद्बलान्न स्फूर्तिसंभव इत्यर्थः॥२॥ यत्तावदुक्तं विज्ञानेन भानं विषये जन्यत

अविक्रियत्वाञ्ज्ञानस्य यदि तस्यापि विक्रिया।
तर्हिक्षीरादिवच्चेत्यं भवेत्तन्नैव वेदनम्‌॥५॥
तथा भानस्य विज्ञानं नैवाऽऽरम्भकमिष्यते।
अद्रव्यत्वाद्गुणतेन परैरड्रीकृतततः॥६॥
असद्रूपस्य भानस्य ज्ञानं नाऽऽरम्भकं भवेत्‌।
वन्ध्यासूनोरपि ज्ञानं तदा ह्यारम्भकं भवेत्‌॥७॥
प्रागसद्रुपभानस्य ज्ञानं नाऽऽरम्भकं भवेत्‌।
असतः प्राक्त्पूर्वाणां विशेषाणामभावतः॥८॥
अतो विज्ञानजन्यत्वं नास्ति भानस्य सर्वदा॥९॥

—————————————————————————————————————————————————

इति न तद्युज्यत इत्याह—विज्ञानं चति॥४॥ भानस्य विज्ञानं जनकमिति बदन्वादी प्रष्टव्यः। किं विज्ञानं भानरूपेण परिणतमुत भानस्याऽऽरम्भकमिति। नाऽऽद्य इत्याह—ज्ञानस्थेति विकारिण एव क्षीरादेर्दध्यादिरूपेण परिणामो टृष्टःस त्वविक्रियत्वाज्ज्ञानस्य न संभवाति। यदि ज्ञानस्यापि विक्रिया स्यात्तर्हि क्षीरादिवदेव चेत्यं भवेत्‌। अतो विक्रियावत्ते सति तस्य ज्ञानलमेव हीयेतेयथंः॥५॥आरम्मकत्वमपि निराकरोति—तथेति। दव्यंहि द्रव्यान्तरारम्भकम्‌। तन्तुपटादौ तथा दृष्टत्वात्‌। विज्ञानं तु न द्रव्यम्‌। गुणत्वेन परैरङ्गीकारात्‌। अतो भानद्रव्यस्याद्रव्येण सता ज्ञानेनाऽऽरम्भो न युक्तः॥६॥ असद्रुपस्येति। आरम्भवादे ह्मसदेव कार्यमुत्पद्यत इति स्थितिः। तथा चासद्रूपस्य भानस्य ज्ञानमारम्भकमिति न युक्तम्‌। यदि ह्यसदपि ज्ञानमारभते तर्हितञ्ज्ञानं बन्ध्यापुत्रादेरप्यारम्भकं स्यात्‌। असत्त्वाविशेषादित्यथेः॥७॥ ननु प्रागसतः सत्तासंबन्ध उत्पत्तिरित्यङ्गीकाराद्वन्ध्यासुतदश्चात्यन्ता-सत्त्वात्कथं तदारम्मकप्रसक्तिरित्यत आह-असतः प्राक्त्वपूर्वाणामिति। प्राक्त्व-मत्यन्तासत्त्वमित्येवमादिभावरूपधर्मविशेषाश्रयत्वाभावात्तदाश्रयत्वे च भावत्वप्र सङ्गादसतस्तच्छृतो भेदो न युक्त इत्यर्थः। परिणामारम्भकत्वव्यतिरेकेणोत्पादकत्वानिरूपणाद्विज्ञानं भानस्य जनकमित्युपसंहरति—अत इति॥८॥९॥

ज्ञानस्यापि न जन्यत्वमस्ति हे स्वगेवासिनः।
उक्तन्यायेन जन्यत्वप्रतीतिभ्रान्तिरेव हि॥१०॥
भानस्यापि तथा भ्रान्तिर्जन्यत्वप्रतिभा सुराः।
भावत्वे सत्यजन्यत्वाद्भानं नित्यं सुरोत्तमाः॥११॥
यज्जगद्भासकं भानं नित्यं भाति स्वतः सुराः।
स एव जगतः साक्षी सर्वात्मा शंकराभिधः॥१२॥
तेन कल्पितसबन्धादज्ञानं भाति न स्वतः।

—————————————————————————————————————————————————

उक्तमथेमन्यत्रप्यतिदिशति—ज्ञानस्येति। उक्तन्यायेनति। यदि हि ज्ञानं जन्यं स्यात्तर्हिजन्यत्वहेतुना घटवज्जडमेव स्यादित्यनेन न्ययेनेत्यथः। ननु रूपादिविषयैश्चक्षुरादीन्द्रियसंप्रयोगानन्तरं रूपादिविषयज्ञानं जायमानं दृश्यते का तर्हितस्य गतिरित्यत आह—जन्यत्वेति। विषयाकारपरिणताऽन्तःकरणवृत्तिर्हि तत्र जन्यते। अतस्तदीयं जन्यत्वंतदवच्छिन्नचैतन्येऽपि स्फटिके लौहित्यादिवदवभासते। अतो भ्रान्तिरेव ज्ञाने जन्यत्वप्रतीतिरियथः॥१०॥ भानस्थापीति। घटादिविषयस्पुरणरूपस्य भानस्यापि जन्यत्वप्रतीतिर्भ्रान्तिरेव तस्याप्युत्पत्तिमद्दृत्तिज्ञानान्वयव्यतिरेकानुविधायित्वेन तस्यैव जन्यत्वस्य तत्राध्यवसानात्‌। एवं भानस्याजन्यत्वं प्रसाध्य नित्यत्वंसाधयति—भावत्व इति। अजन्यस्यापि प्रागभावस्यानियत्वदर्शनात्तद्व्यावृत्त्यर्थं विशिनष्टि—भावत्वे सतीति। विमतं नित्यं भावत्वे सत्यजन्यत्वादात्मवदित्यभिप्रायः॥११॥ एवं भानस्य नित्यत्व॑ प्रसाध्य तदभदात्परमेश्वरस्य प्रतिज्ञातं साक्षिचिन्मात्ररूपत्त्वंनिगमयति—यज्जगदिति। यदेतत्सर्वंजगतो भासक नित्यं भानं स्वमावतो भानान्तरनैरपेक्ष्येण भाति स एव सर्वस्य जगतः साक्षी द्रष्टा सर्वदेहेष्वात्ममावेनावाध्यितः परमेश्वरः। यद्भानमित्युद्देश्यस्य नपुंसकलिङ्गतेऽपि स एवेति पुल्लिङ्गनिर्देशो विधेयापेक्षया। उक्तं हि—“निर्दिश्यमानप्रातिनिर्दिश्यमानयोरेकतामापादयन्ति सवेनामानि पर्यायेण तल्लिङ्गतामुपाददते” इति। तादृशभानात्मको यः स एव साक्षिरूपेणावस्थितः परशिवो न तु जडरूप इत्यर्थः॥१२॥ तस्य च नित्यस्वप्रकाशभानमात्रस्वरूपस्याज्ञानतत्कार्यरूपसर्वजगत्साक्षित्वमुप-

अज्ञानजन्यं चित्तं च रागद्वेषादयस्तथा।
अज्ञानस्पृष्टचैतन्यादेव भान्ति न च स्वतः॥१२॥
प्राणश्चापि तथा बाह्यकरणानि वपुस्तथा।
चित्तवृत्त्यभिसबन्धद्वारेणैव दृगन्वयात॥१४॥
विभान्ति न स्वतो बाह्यविषयाश्च तथव च॥१५॥
अनुमानादिवृत्तिस्थ चैतन्यं सुरसत्तमाः।
अर्थानामपि केषां चिद्भासकं तेन शकरः॥१६॥
सर्वावभासकः प्रोक्तस्तेन भातमिदं जगत्‌।
अतो रूपाणि तेनव परयतांशेन मानवः॥१७॥

—————————————————————————————————————————————————

पादयति—तेन कल्पितसंबन्धादिति।“असङ्गो ह्ययं पुरुषः” इत्यसङ्गश्रुतेर्भानमात्ररूपस्य परशिवध्य न केनचिदपि पारमार्थिकसंबन्धःशक्यते वक्तुम्‌। अतश्चाज्ञनवत्संबन्धोऽपि साक्षिणि परिकल्पितो विद्यत इति तत्संबन्धवशात्तेन साक्षिभावेन तत्स्वरूपेणऽध्यस्तमज्ञानं भाति न तु स्वाभाविकेन प्रकाशेनेत्यर्थः। अज्ञानजन्यमिति। तेनाज्ञानेन जन्यं यत्सत्त्वपरिणामरूपमन्त करणं ये च रागादयस्तद्धर्माप्तत्सर्वंस्वोपादनभूताज्ञानसंबद्धचैतन्यादिव भाति न तु स्वभावतः॥१३॥ प्राणश्चापीति। प्राणेन्द्रियदेहादिकमप्युपदानभूताज्ञानसंबन्धद्वारा चित्संवलिता या चित्तवृत्तिस्तद्व्याप्ततया परंपरया दृग्रूम्रपसाक्षिचैतन्यसंबन्धवशादेव भाति न तु स्वत इत्यर्थः। बाह्यविषयाश्वेति। बाह्यघट-पठादिविषयजातमपि स्वसंप्रयक्तचक्षुरादीन्दियसंबन्धाच्चित्संवरिततद्विषयाका-रान्तःकरणवृत्तिव्याप्यतया परंपरया साक्षिचैतन्यसंबन्धदेव भाति॥१४॥१५॥ अनुमानादिवृत्तिस्थमिति। आदिशब्देनोपमानादिरसंग्रहः।धूमवत्त्वादित्यादिव्याप्तिहेतुजनिता याऽन्तःकरणवृत्तिस्तत्र प्राभुक्तरीत्यायदवस्थितं चैतन्यं तदपि स्वाश्रयभूतान्तः करणवृत्तिजनकघूमवत्त्वादिहेतुव्यापकानामग्निमत्त्वादीनां केषां चिदर्थानां परंपरथा संबन्धाद्भासकं भवति। अपरोक्षज्ञानविषयेषु ह्यधिष्ठानस्फुरणसंभवाद्वृत्तिव्याप्यत्ववत्फलव्याप्यत्वमप्यस्ति। अनुमानादिपरोक्षज्ञानविष-

शृणोत्यनेन राब्दांश्च गन्धानाजिप्रति प्रियान्‌।
अनेनैव सदा वाचं व्याकरोति त मानवः॥१८॥

————————————————————————————————————————————————

येषु नैतादृशं फलव्यप्यत्वमस्तीति वृत्तिस्थमिति वदतोऽभिप्रायः।भानमात्ररूपस्य पराशिवस्योपपादितं सर्वसाक्षित्वं निगमयति—तेनेति एवं जीवभावेन प्रविश्यावस्थितस्य परशिवस्य साक्षिचिन्मात्ररूपत्वंप्रसाधितम्‌। तथा च कतरः स आत्मेति श्रुत्या प्रागवतारितस्य प्रश्नस्य सर्वसाक्षी चिद्रूप एव स आत्मा न तु प्राण इति प्रतिवचनं जातम्‌। इममेवार्थं श्रुतिरुत्तररूपेण प्रति पादयति। “येन वा परयति येन वा शृणोति येन वा गन्धानाजिघ्रति येन वावाचं व्याकरोति येन वा स्वादु चास्वादु च जानाति” इत्यस्याः श्रुतेरर्थंसंगृह्य प्रतिपादयपि—अतो रूपाणीदयादेना। यत उक्तयुक्तिबलात्‌ “तस्य भासा सर्वमिदं विभाति” इति श्रुतेश्चात्मा साक्षिरूपेण सवेवस्त्ववभासकोऽतः कारणात्तेनैव सर्वावभासकपरशिवस्वरूपेणानेन सर्वसाक्षितय। हृदयमध्येऽवस्थितेन चक्षुःसंप्रयुक्तरूपजनितमनोवृत्त्यभिव्यक्तेन चित्प्रकाशेनैव रूपाणि पश्यति॥१६॥१७॥ तथा श्रोत्रसंप्रयुक्तशब्दजनितमनोवृत्त्यभिव्यक्तेनानेनैव चित्प्रकाशेन शब्दाञ्जानाति। गन्धानाज्रिघ्रतीत्याद्यप्येवं योज्यम्‌। सदा वाचमिति। व्याकर्तव्यशब्दविषयमनोवृत्त्यभिव्यक्तेननेनैव चित्प्रकाशेन वागिन्द्रियद्वारा वाच्यं वाक्यं व्यवहरति। एतच्चान्यस्य पाणिपादादेरपि कर्मेन्द्रियस्योपलक्षकम्‌। अनेने स्वादु चेति। रसनेन्द्रियसंप्रयुक्तमधुरादिरसजनितमनोवृत्त्यभिव्यक्तेनानेनैव चित्प्रकाशेन स्वाद्वस्वादुविभागं जानाति। श्रुतिगतो बाशब्दश्वार्थे। एतदुक्तं भवति। चक्षुःश्रोरोत्रादिविभिन्नकरणजनितेषु रूपादिज्ञानेषु योऽयमनुगतश्चित्प्रकाशः स एव साक्षिरूप आत्मेति। नन्वेष हि द्रष्टा श्रोतेत्यादिश्रुतेरसावेवोपलब्धोयोऽनुगतश्चित्प्रकाशःप्रदर्शिस्तस्यच पश्यतीत्यादिकर्तृवाचितिङाऽभिहितत्वादनेनेति कथंतृतीयान्तनिर्देशः। नैष दोषः। अन्तःकरणतद्वृत्तिपरिकल्पितभेदोपजीवनेन करणत्वोपचारात्‌। अत एव कठवल्लीष्वप्याम्नातम्‌—“येन रूपंरसंगन्धं शब्दान्स्पर्शांश्च मैथुनान्‌। एतेनैव विजानाति किमत्र परिशिष्यते। एतद्वै तत्‌” इति। आचर्यास्तु “प्रज्ञया वाचं समारुह्य वाचा सर्वाणि नामान्याप्नोति प्रज्ञया चक्षः समारुह्य

अनेन स्वादु चास्वादु विजानाति च मानवः।
शंकराख्यं तु विज्ञानं बहुधा शब्द्यते बुधैः।
केचिद्ध्रदयामित्याहुर्ब्राह्मणा हे सुरोत्तमाः॥१९॥

—————————————————————————————————————————————————

चक्षुषा सर्वाणि रूपाण्याप्नोति” इति कौषीतकिश्रुतेरेकस्यैव प्रज्ञाशब्दाभिधेयान्तःकरणस्य वाक्चक्षुरादिनानाविधकरणभावेनावस्थानात्तस्य चान्तःकरणस्य प्रपदाभ्यां प्रविष्टस्य प्राणस्य च “यो वै प्राणः सा प्रज्ञा या वा प्रज्ञा स प्राणः” इत्येकत्वश्रुतेरुपलब्धिकरणत्वेन गुणभूतत्वात्प्राणोऽनात्मेति दर्शयितुं येन वा पश्यतीत्यादौ तृतीयान्तपदं चक्षुरादिभेदभिन्नान्तःकरणपरतया व्याख्याय यदेतद्धृदयं मनश्चेति हृदयमनःशब्दाभ्यां निश्चयरूपं संकल्पविकपात्मकमन्तःकरणं सकलेन्द्रियसाधारणं प्रतिपाद्यत इति चक्षुरादिजनितमनोवृत्तिलक्षणोपाधिप्राधान्यविवक्षया व्याकार्षुः। यथाऽऽहुः— एतेनान्तःकरणेनैकेन चक्षुर्भूतेन रूपं पश्यति श्रोत्ररूपेण शृणोति घ्राणरूपेण जिघ्रति वाग्भूतेन च वदति जिह्वाभूतेन रसयति स्वेनैव कल्पनारूपेण मनसा संकल्पयति हृदयरूपेणाध्यवस्यति। तस्मात्सर्वविषयव्यापकमेकमिदमन्तःकरणमिति॥१८॥ अत्र तु हृदयमनः शब्दावपि संज्ञानादिशब्दवन्नामत्वेन प्रतिपाद्येते उपधेयचित्प्राधान्यविवक्षया तानि च नामान्यवमाम्नातानि—“यदेतद्धृदयं मनश्चैतत्संज्ञानमाज्ञानं विज्ञानं प्रज्ञानं मेघा दृष्टिर्धृतिर्मतिर्मनीषा जूतिः स्मृतिः संकल्पः क्रतुरसुः कामो वश इति सर्वाण्येवैतानि प्रज्ञानस्य नामधेयानि भवन्ति” इति। एतानि च नामानि चिन्मात्रस्वरूपस्य परशिवस्य व्यवहर्तृपुरुषभेदापेक्षयैवैतावन्ति भवन्तीति तद्व्यवहर्तृपुरुषसंबन्धितयैव तानि नामानि संगृह्णाति—शंकराख्यं तु विज्ञानमित्यादिना। तु शब्दोऽवधारणे। यदेतन्नित्यस्वप्रकाशसाक्षिचिदात्मकं सर्वदा सर्ववस्त्ववभासकं मानं शंकराख्यं प्रागुपन्यस्तं तदेव हृदय मनः संज्ञानादिशब्दैस्तत्तदुपाधिसंबन्धबलात्तत्तन्नाम्नाबहुधा विद्वद्धिर्गीयते न त्वस्माच्चिदत्मिनो हृदयमनःःप्रभातेके तत्त्वान्तरमित्यर्थः। हृदयमित्याहुरिति। हृद्ययत इति व्युत्पत्त्या हृन्मध्यवर्त्यन्तःकरणं
हृदयं तच्चात्राध्यवसायात्मकं विवक्षितम्‌। हृदयस्वरूपेणाध्यवस्यतीति तथात्वप्रतिपादकाचार्यभाष्ये च प्रागुदाहृतत्वादेवंनिश्चयरूपान्तःकरणोपादानबलेन

मन इत्यपरे सन्तः संज्ञानमिति केचन।
अज्ञानमिति विद्वासः केचिद्धे स्वगंवासिनः॥२०॥
विज्ञानमिति चाप्यन्ये प्रज्ञानमिति केचन।
मेधेति ब्राह्मणाः केचिदृष्टिरित्यपरे बुधाः॥२१॥
धृतिरित्यपरे प्राज्ञा मतिरित्यपि केचन।
मनीषेति महाप्राज्ञा (ज्ञप्ति) जुतिरित्यपरे बुधाः॥२२॥
स्मरतिरित्यास्तिकाः केचित्संकल्प इति केचन।
क्रतुरित्यपरे प्राज्ञाः काम इत्यपरे जनाः॥२३॥
वरा इत्यास्तिकाः केचित्सर्वाण्येतानि सततम्‌।

————————————————————————————————————————————————

तदुपहितं प्रज्ञप्तिमात्रं ब्रह्मस्वरूपमपि हृदयशब्देन व्यवहरन्तीत्यर्थः॥१९॥ एवं मनः संज्ञानादयोऽपि सत्त्वपरिणामरूपान्तःकरणस्य वृत्तिभेदच्चिन्मात्रस्य साक्षिण उपाधिभूताः। अतस्तदुपादानवशात्तस्य तानि नामधेयानीति योजनीयम्। उक्तं ह्याचार्यैः—इत्येवमाद्या अन्तःकरणस्य वृत्तय उपलब्धुः शुद्धप्रज्ञानरूपस्य ब्रह्मण उपाधिभूतास्तदुराधिजनितगुणनामधेयानि संज्ञानादीनि। तत्र चाऽऽदावन्तःकरणस्य संकल्पविकल्परूपा वृत्तिर्मनः। संज्ञानं संज्ञप्तिर्यद्योगादसौ चेतन इति व्यपदिश्यते। आज्ञानमाज्ञप्तिराज्ञाशक्तिरूपा वृत्तिः॥२०॥ विज्ञानं लौकिकसूक्ष्मवस्तुविषया वृत्तिः। प्रज्ञानं प्रज्ञप्तिः प्रज्ञा। यथोक्तम्—“स्मृतिस्त्वतीतविषया मतिरागामिगोचरा। बुद्धिस्तात्कालिकी प्रोक्ता प्रज्ञा त्रैकालिकी मता” इति। मेधा ग्रन्धधारणसामर्थ्यम्। दृष्टिश्चक्षुरादीन्द्रियद्वारा घटपटादिविषयाकारपरिणता वृत्तिः॥२१॥ धृतिर्देहेन्द्रियादिधारणसामर्थ्यम्। मतिर्मननमागामिविषया वृत्तिः। मनीषा मनस ईषा। तत्र स्वातन्त्र्यमिति यावत्। जूती रोगादिभिश्चेतसो दुःखित्वभावना॥ २२॥ स्मृतिरनुभूतिविषया संस्कारजा वृत्तिः। संकल्प इदं शुक्लमिदं कृष्णमिति भेदेन सम्यक्कल्पनारूपः। क्रतुरिदमित्थमेवेत्यध्यवसायः। कामोऽसंनिहितविषयाकाङ्क्षा॥२३॥ वशः संनिहितस्त्रक्चन्दनस्त्र्यन्नपानादिविषयोऽभिलाषः

प्रज्ञानस्य शिवस्यास्य नामधेयान्यसंशयम्‌॥२४॥
एष ब्रह्मैष एवेन्द्र एष एव प्रजापतिः।
एष एव हि देवाश्च भूतानि भवनानि च॥२५॥
अण्डजा जारुजाश्चैव स्वेदजा उद्धिजा(ज्जा) अपि।
अश्वा गावश्च मर्त्याश्च हस्तिपूवास्तथैव च॥२६॥

——————————————————————————————————————————————————

अत्रासुरिति श्रुत्युक्तं नाम प्राणवाचकतया प्रसिद्धत्वात्तदुपाधिकस्य प्रज्ञानब्रह्मणोऽप्रासेद्धमिति न पृथगुक्तम्॥२४॥ एवमन्तःकरणतद्वृत्त्युपहितं रूपशब्दादिसकलवस्त्ववभासकं नित्यस्वप्रकाश साक्षिचैतन्यमेवाऽऽत्मेति प्रतिपादितम्। तस्यैव ब्रह्मादिस्तम्बान्ते स्थावरजङ्गमात्मके जगति जीवभावेनोपादानभावेन च सर्वत्रावस्थानाभिप्रायेण परिच्छेदभ्रमं व्युदसितुं श्रुतिः सार्वात्म्यं प्रतिपादयति—“एष ब्रह्मैष इन्द्र एष प्रजापतिरेते सर्वे देवा इमानि च पञ्च महाभूतानि पृथिवी वायुराकाश आपो ज्योतीषीत्येतानीमानि च क्षुद्रमिश्राणीव बीजानीतराणि चेतराणि चाण्डजानि च जारुजानि च स्वेदजानि चोद्भिज्जानि चाश्वा गावः पुरुषा हस्तिनो यत्किंचेदं प्राणि जङ्गमं च पतत्रि च यच्च स्थावरं सर्वं तत्प्रज्ञानेनं प्रज्ञाने प्रतिष्ठितम्” इति। इमां श्रुति संगृह्णाति—एष ब्रह्मेत्यादिना। यः प्रागुक्तः स्वप्रकाशः साक्षी चिद्रूप आत्मैष एव ब्रह्मा। अपञ्चीकृतपञ्चमहाभूततत्कार्यलिङ्गशरीरसमष्ट्युपहितः सन्हिरण्यगर्भारपर्यायो ब्रह्मा भवतीत्यर्थः। यद्वा ब्रह्मेति नपुंसकलिङ्गतया पदविभागः। यत्परं ब्रह्म सत्यज्ञानादिलक्षणं जलतरङ्गबुदबुदादिष्वनुप्रविष्टसूर्यबिम्बवत् सर्वप्राण्यन्तःकरणोपाधिष्वप्रविष्ट एव तद्ब्रह्म नान्यदित्यर्थः। एवमुत्तरत्रापि योजना। परमैश्वर्ययोगादिन्द्रः। यद्वा इदंकारास्पदघटादिवदिदमित्यापरोक्ष्येण यः साक्षी स्वात्मभूतं ब्रह्म साक्षात्करोति स इन्द्रः। श्रूयते हि—“इदमदर्शमिती३ँ। तस्मादिदन्द्रो नामेदन्द्रो ह वै नाम तमिदन्द्रं सन्तमित्याचक्षते परोक्षण” इति। यद्वा देवानामधिपतिरिन्द्रस्तस्य हृदयेऽपि साक्षिरूपेणावस्थानादेष एव स इत्यर्थः। प्रजापतिःपञ्चीकृतस्थुलभूतारब्धब्रह्माण्डन्तर्वर्ती प्रथमशरीरी विराट्‌। देवा अग्न्यादयः योऽयमन्तर्देहेऽवस्थितश्चिदत्मैष एव ब्रह्मेन्द्रादिदेहेष्वपि साक्षिरूपेणावस्थितः।

स्थावरं जङ्घमं चैव तथाऽन्यदपि किंचन।
सर्वमेतदयं शंभुःप्रज्ञानघनलक्षणः॥२७॥
प्रतिष्ठा सर्वववस्तूनां प्रज्ञैषा पारमेश्वरी।
प्रज्ञानमेव तब्रह्म शिवरुद्रादिसंज्ञितम॥२८॥

—————————————————————————————————————————————————

चित्प्रकाशसाम्येनैक्यप्रतिसंधानात्। तद्भेदप्रतीतिस्तूपाधिकृतेत्यर्थः। भूतानि भुवनानि चेति। सर्वशरीरोपादानभूतानि यानीमानि पृथिव्यादीनि पञ्च महाभूतानि कार्यरूपाणि यानि च भुवनानि लोकास्तन्मध्ये वर्तमाना येऽण्डजाः पक्ष्यादयः। ये च जारुजा जरायुजा मनुष्यादयः। ये च स्वेदजाः स्वेदबिन्दुपरिणामरूपा यूकाद्याः। ये चोद्भिज्जा भूमिमुद्भिद्य जायमानास्तरुगुल्मादयः। एवं सामान्यतश्चातुर्विध्येन सर्वं जगन्निर्दिश्य विशेषतोऽपि निर्दिशति—अश्वा इति। हस्तिपूर्वा इति। हस्तिप्रमुखा प्राणिन इत्यर्थः॥२५॥२६॥ स्थावरमचलं वृक्षादिकम्। जङ्गमं पादगमनशीलम्। तथाऽन्यदपीति। पक्षाभ्यामाकाशे पतनशीलं यत्पतत्निचेति श्रुत्युक्तं तदन्यशब्देन विवक्षितम्। एवं यदेतद्भूतभौतिकरूपं स्थावरजङ्गमात्मकं जगत्तत्सर्वं प्रज्ञानब्रह्मरूपे सर्वसा- क्षिण्युत्पत्तिस्थितिलयाधिष्ठानेऽज्ञानपरिकल्पितत्वाद्दृग्रूपेण तेनैव प्रतीतिपथं नीयमानत्वाच्च वस्तुतस्तत्स्वरूपानतिरिक्तत्वान्निरन्तरप्रज्ञानघनलक्षणः परमेश्वर एव न तु ततोऽतिरिच्यत इत्यर्थः। सर्वं तत्प्रज्ञानेत्रमिति प्रतिज्ञातार्थस्य प्रतिपादनाय प्रज्ञानेत्रो लोक इति वाक्यम्। यतः सर्वोऽपि लोकः प्रज्ञानेवश्चिदधीनप्रवृत्तिकत्वादुदीरितप्रज्ञप्तिरूपसाक्षिनेत्रक एव परिदृश्यते। अतस्तत्सर्वं जग त्प्रज्ञानेत्रमित्यर्थः॥२७॥ प्रज्ञाने प्रतिष्ठितमिति यत्सर्वसाक्षिभूतं प्रज्ञानमाधेयप्राधान्येन गुणभूततयाऽधिकरणत्वेन निर्दिष्टं तस्याऽऽधेयसकलजगदुपलक्षितस्य प्रज्ञानमात्रस्य मुख्यतया ज्ञेयत्वं द्योतयितुं पुनराधारप्राधान्येन निर्दिश्य तदनूद्य तस्य ब्रह्मात्मत्वं प्रतिपादयति श्रुतिः" प्रज्ञा प्रतिष्ठा प्रज्ञानं
ब्रह्य" इति तदर्थं संगृह्णाति—प्रतिष्ठेति। पारमेश्वरी परमेश्वरस्यैव जीवभावेनावस्थानात्तत्संबन्धिनी या सर्वसाक्षिणी चित्सैषाप्रागुदीरितरीत्या सर्ववस्तूनां प्रतिष्ठाऽऽश्रमः। स्वाज्ञानपरिकल्पितसकलजगदुत्पत्तिस्थितिलया -

एवंरूपपरिज्ञानादेव मर्त्योऽमृतो भवेत्‌।
न कर्मणा न प्रजया न चान्येनापि केनचित्‌॥२९॥
ब्रह्मवेदनमात्रेण बह्याऽऽप्नोत्येव मानवः।
अन्न नास्त्येव संदेदस्रिर्वःशपथयाम्यहम्‌॥३०॥

————————————————————————————————————————————————

धिकरणत्वात्। अत एव तैत्तिरीयके समाम्नातम्—“यतो वा इमानि भूतानि जायन्ते। येन जातानि जीवन्ति। यत्प्रयत्न्यभिसंविशन्ति” इति। एवं सकलकल्पनास्पदं सर्वदा सर्ववस्त्ववभासकं यत्साक्षिरूपं प्रज्ञानं साधकस्य हृदयमध्य उपलभ्यत एतदेव शिवरुद्रादिसंज्ञितं तज्जगत्कारणं ब्रह्म यत् “आत्मा वा इदमेकएवाग्र आसीत्” इत्यात्मशब्देन निर्दिष्टम्। अयमर्थः। सोऽयं देवदत्त इत्यत्र परस्परविरुद्धतद्देतदेशकालसंबन्धवैशिष्ट्यं परित्यज्याविरुद्धस्य देवदत्तस्त्ररूपमानस्य यथैक्यप्रतिपत्तिस्तथैवात्र प्रत्यक्स्वप्रकाशसाक्षिचिद्वाचिना प्रज्ञानशब्देन जगत्कारणपरशिववाचिना ब्रह्मशब्देन च सामानाधिकरण्यान्यथानुपपत्त्या संसारसाक्षित्वजगत्कर्तृत्वादिविरुद्धधर्मवैशिष्ट्यत्यागे- नोभयत्रानुगतं यच्चिदेकरसं प्रत्यस्तमितसर्वोपाधिविशेषं प्रत्यग्ब्रह्मणोः पारमार्थिकं स्वरूपं तस्यैक्यं प्रतिपाद्यतेऽज्ञानपरिकल्पितभेदभ्रमनिरासायेति॥२८॥ श्रुतौ “स एतेन प्रज्ञानात्मनाऽस्माल्लोकादुत्क्रम्य” इत्यादिना ब्रह्मात्मैक्यविज्ञानस्य यदमृतत्वसाधनत्वं प्रतिपादितं तत्संगृह्य ब्रूते। एवंरूपेति। वस्तुतः परशिवस्वरूपस्य प्रत्यगात्मनः संसारित्वस्य स्वस्वरूपयाथात्म्यापरिज्ञानमूलत्वादज्ञानस्य ज्ञानैकनिवर्त्यत्वाज्ज्ञानमेव ब्रह्मात्मैक्यलक्षणाया मुक्तेः साधनं न कर्मादिकम्। तस्याज्ञान कार्यत्वादविरुद्धत्वेन तन्निवर्तकत्वाभावात्। अत एव श्रुतिः कर्मादरेमृतत्वावाप्तिसाधनत्वं निषेधति—“न कर्मणा न प्रजया धनेन” इति॥२९॥ ब्रह्मवेदनमात्रेणेति। मात्रग्रहणेन ज्ञानकर्मसमुच्चयस्यामृतत्वसाधनत्वानिरासः। प्रत्यगात्मनो ब्रह्मात्मैकत्वज्ञानमात्रेणैवाविद्या निवृत्तौ निरतिशयानरूपताऽमृतः समभवत्‌” इति श्रुतेर्थो। वर्णितो भवति। अन्यत्नाप्याम्नातम्‌—“ब्रह्म वेद्ब्रह्मैव भवति” “ब्रह्मविदाप्नोति परम्‌” इति च। ऐतरेयक-

तद्विद्याविषयं बह्म सत्यज्ञानसुखाद्वयम्‌।
संसारके गुहावाच्ये मायाऽज्ञानादिसंज्ञिते।
निहितं बह्म योवेद परमव्योमसंज्ञित॥३१॥

—————————————————————————————————————————————————

श्रुतिव्याख्यानं समाप्तम्॥३०॥ एवमैतरेयोपनिषदर्थपर्यालोचनया कर्मादिनैरपेक्ष्येण ब्रह्मात्मैकत्वसाक्षात्कारस्य परमुक्तिसाधनत्वं प्रतिपाद्य तैत्तिरीयोपनिषदर्थपर्यालोचनयाऽपि तथात्वंप्रतिपादयितुं तदर्थं संगृह्य वक्तुमारभते—तद्विद्याविषयमित्यादिना तैत्तिरीयके हि—“ब्रह्मविदाप्नोति परम्” इति ब्रह्मप्रतिपिपादयिषया कृत्स्नोपनिषदर्थसूचनात्सूत्रभूतेनानेन वाक्येनाज्ञानतत्कार्योपाधिसंबन्धवशाज्जीवतामापन्नस्य साधनचतुष्टयसंपन्नस्य मुमुक्षोः प्रत्यक्चैतन्यस्य ब्रह्मवेदनमात्रेणाविद्यानिवृत्तिद्वारा निरतिशयानन्दाद्वितीयब्रह्मत्वावाप्तिस्तज्जिज्ञासाजननार्थं सूत्रिता। सूत्रितोऽर्थः संग्रहविस्तराभ्यां व्याख्यातः। तत्रश्रोतॄणां सुखावबोधाय संग्रहव्याख्यानमृगुदाहरणेन प्रदर्शितम्। सा चैवमाम्नाता—“सत्यं ज्ञानमनन्तं ब्रह्म” “यो वेद निहितं गुहायां परमे व्योमन्” “सोऽनुते सर्वान्कामान्सह ब्रह्मणा विपश्चिता” इति। तत्र जिज्ञासूनां देवानां पुनर्जिज्ञासाजनने प्रयोजनाभावात्तज्जनकं सूत्रभूतं वाक्त्वोक्तवक्ष्यमाणसंगत्यभिधानपुरःसरं तस्या ऋचोऽर्थं संगृह्णाति—तदिति। सर्वसाक्षिभूतं यत्प्रज्ञानं तद्ब्रह्मेत्यमृतत्वसाधनभूतपरविद्याविषयतया यद्ब्रह्म निर्दिष्टं तद्ब्रह्म सत्यादिलक्षणम्। बृंहतिधात्वर्थस्यानुगमात्। तथाहि। बृहबृहि वृद्धाविति धातुर्वृद्धिमाचष्टे। सा चात्र प्रतियोगिविशेषोनुपादानान्नरतिशयैव विवक्षिता। सति च वस्त्वन्तरे तेन परिच्छेदाद्वृद्धेर्निरतिशत्वं भज्येत। तथाच वस्वन्तरकृतपरिच्छेदरहितमेव ब्रह्मशब्दवाच्यं भवितुमर्हति। द्वैतप्रपञ्चस्य तत्स्वरूपेऽध्यस्ततयैव प्रतीतेर्वस्तुतस्तत्स्वरूपानतिरिक्तत्वात्।एवं द्वैतारोपस्याधिष्ठानत्वेन तद्वाधावयित्वेन च त्रिविधपारिच्छेदरहितं यदद्वितीयं तत्सत्यमेवैष्टव्यम्‌। इतरथा निरधिष्ठानश्रमनिरवधिकबाधयोः प्रसङ्गात्‌। असतश्च सर्वप्रकारेणापिनिरुपाख्यत्वेनाधिष्ठानावधित्वानुप-

—————————————————————————————————————————————————

पत्तेः। तच्च सत्यं सर्वदाऽप्रतिभातं चेन्नरविषाणसमं स्यात्। अतस्तत्प्रतिभातमेवेत्यर्थादापन्नम्। तथाच स्वप्रकाशमेव तत्परप्रकाश्यत्वे परेण वस्त्वन्तरेण परिच्छेदान्निरतिशयवृद्धिवाचकब्रह्मपदव्योकापः स्यात्। एवं ब्रह्मपदेन निरतिशयवृद्धिप्रतिपादनद्वारा यदानन्त्यादिकं सूचितं तच्छ्रु-तिर्विविच्याऽऽचष्टे “सत्यं ज्ञानमनन्तं ब्रह्म” इति। एवंरूपस्य च ब्रह्मणोऽनन्यशेषतया वेद्यत्वप्रतिपादनादानन्दरूपस्य तथात्वानुपपत्तेर्निरतिशयसुखात्मकत्वमपि तस्य सिध्यति। अत एवाऽऽम्नायते—“आनन्दो ब्रह्मेति व्यजा नात्" “विज्ञानमानन्दं ब्रह्म” इति च। तदिदमुक्तम्। सत्यज्ञानसुखाद्वयमिति। नन्वेतद्ब्रह्मणः स्वरूपलक्षणं सत्यादिशब्दाश्च सत्यत्वादिपरापरजातिप्र-वृत्तिनिमित्तकाः कथं निर्भेदमेकरसमुक्तविधब्रह्मस्वरूपं प्रतिपादयितुं शक्नुवन्ति। नैष दोषः। सच्चिदानन्दैकरसे ब्रह्मणि परिकल्पितलौकिकसत्यज्ञानादिषु सत्यत्वादिपरापरजातिप्रवृत्तिनिमित्तकैरपि सत्यादिशब्दैः सत्यज्ञानानन्दैकरसव्यक्तेर्लक्षयितुं शक्यत्वात्। अनन्तपदं त्वन्तवत्त्वव्यतिरेकावच्छिन्नतया-तत्स्वरूपं लक्षयति। न चैकेनैव पदेन लक्ष्यस्वरूपस्य विज्ञातत्वात्पदान्तरवैयर्थ्यमिति मन्तव्यम्। अनृतजडदुःखान्तवत्त्वव्यावृत्तिपरत्वेन सप्रयोजन-त्वात्। यथाऽऽहुर्वार्तिककाराः—,,तत्रानन्तोऽन्तवद्वस्तुव्यावृत्त्यैव विशेषणम्। स्वार्थार्पणप्रणाड्या तु परिशिष्टो विशेषणम्” इति। एवं वेद्यस्वरूपं प्रतिपाद्य वेदनप्रकारमाह—संसारक इति। संसरत्यनेनेति संसारः। संसार एव संसारकम्‌। अव्याकृतं कारणभूतंतस्मिन्‌ कार्यभृताः सर्वे पदार्थाःभूतभविष्यद्वर्तमानलक्षणेषु त्रिष्वपि कालष्वतीतानागतवर्तमानाद्यभेदैर्निगुह्य वर्तनाद्गुह्यन्ते संव्रियन्तेऽस्मिन्निति व्युत्पत्यातदव्याकृतं श्रुतिगतगुहाशब्देन वाच्यम्‌। तदेव विचित्रदुर्घटकार्यकरणात्स्वप्रकाशनिष्प्रपञ्चब्रह्मस्वरूपज्ञाननिवर्व्यत्वाच्च मायाज्ञानादिसंज्ञं भवति। आदिशब्देनाविद्या जडशक्तिरित्यादीनामपि संग्रहः। एतदेवाव्याकृतंपरमव्योमसंज्ञितम्‌। “एतस्मि-न्खल्वक्षरे गार्ग्याकाश ओतश्च प्रोतश्च यो वै स बहिर्धापुरुषादाकाशो यो वै सोऽन्तःपुरुष आकाशः” इत्यादिश्रुत्यन्तरप्रसिद्ध्यऽव्याकृतस्य व्योमशब्दाभिधेयत्वात्‌। बाह्याकाशपेक्षया परमत्वं च वेदितव्यम्‌। एवं च गुहायां परमे व्योमन्निति श्रुतिगते समानाधिकरणे सप्तम्यन्तपदे। यथाऽऽहुर्भाष्य-

सोऽश्नुते सकलान्कामानक्रमेण सुरर्षभाः।
विदितब्रह्मरूपेण जीवन्मुक्तो न संशयः॥३२॥

—————————————————————————————————————————————————

काराः—गुहायां परमे व्योमन्निति सामानाधिकरण्यादव्याकृताकाशमेव गुहा। तत्रापि निगूढाः सर्वपदार्थास्त्रिषु कालेषु कारणत्वादिति। तथाच कार्यकारणात्मना देहेन्द्रियादिरूपेण च परिणते पञ्चकोशात्मके तस्मिन्नव्याकृते निहितं स्थितमित्यर्थो भवति। उपलब्ध्यभिप्रायमेतत्‌। सर्वान्तरस्य निर्विशेषस्य ब्रह्मणो विशिष्टदेशसंबन्धानुपपत्तेः। एवमन्नमयप्राणमयादिवक्ष्यमणपञ्चकोशरू-पेणावास्थिते सत्वरजस्तमोगुणात्मकेऽव्याकृतेऽन्तर्निहितमुपलभ्यमानं सत्यज्ञानानन्दैकरसमद्वितीयं ब्रह्म यः प्रत्यगात्मस्वरूपत्वेन वेदान्तश्रवणमननादिसाधनजनितया तादृग्ह्माकारमनोवृत्त्या साक्षात्करोति स इत्युपरिष्टात्संबन्धः॥३१॥ एवंभूतस्य ब्रह्मवेदनस्य फलमाह—सोऽदनुत इति। काम्यन्त इति कामाः सुखोपभोगाः। स वेदिता सर्वान्कामानक्रमेण युगपदकक्षणोपारूढानश्नुते प्राप्नोति। केन रूपेणेति चेदुच्यते। विदितब्रह्मरूपेण स्वात्मतया साक्षात्कृतेन निरावरणतया सर्वदा सवत्र सवितृप्रकाशवत्सर्ववस्त्ववभासकेन स्वयंप्रकाशमानेन चिद्रूपेण ब्रह्मणा रूपेण। ब्रह्मविदेवंभूतसर्वज्ञब्रह्मात्मकः संस्तत्त्वज्ञानेन भेदभ्रमहेतोरविद्यायाःसमूलमुन्मूलित्वात्स्वात्मनो निरतिशयानन्दाविर्भावेन तल्लेशभूतान्सर्वान्सुखबिशेषानपि स्वरूपप्रकाशेन धर्मादिनिरपेक्षेण युगपद्व्याप्नोतीत्यथः। अक्रमेणेति वदता श्रुतिगतसहशब्दस्य न साहित्यमर्थोऽपि तु यौगपद्यमवेत्यभिप्रायो वर्णितो भवति। तथा विदितव्रह्मरूपेणेति वदता ब्रह्मणा विपश्चितति श्रुतिगततृतीयाऽपि पुत्रेण सहाऽऽगत इतिवन्न सहयोगलक्षणाऽपि तु श्वेतच्छत्रेण राजानमद्राक्षीदित्यादिवदित्थंभावे तृतीया व्याख्याता भवति। अत एव “आत्मा वा इदमेक एवाग्र आसीत्‌” “एको देवः सर्वभूतेषु गूढः” इत्यादि श्रुतिभिरात्मनःपारमार्थिकैकत्वप्रतिपादानान्नानाविधशरीरेषु तन्ननात्वप्रतीतेश्च घटाकाशो मठाकाश इतिवदौपाधिकभेदकल्पनयाऽप्युपपत्तेः ‘तत्सृष्ट्वातदेवानुप्राविशत्‌’ “अनेनजीवेनाऽऽत्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि” इत्यादिश्रुत्यैकस्यैव स्रष्टुरात्मनो जीवभावेन नानाविधदेहपरवेशनाच्च न वास्तवो जीवपरयोर्भेदो विद्यते। अतोऽत्र भेदोपजीविनी सहयोगलक्षणा

प्रत्यगज्ञानविज्ञानमायाशक्तेस्तु साक्षिणम्‌।
एकं ब्रह्म च संपश्यन्साक्षाद्ब्रह्यविदुत्तम्ः॥३३॥
ब्रह्मरूपात्मनस्तस्मादेतस्माच्छक्तिमिश्रितात्‌।
अपञ्चीकृत आकाशः संभूतो रज्जुसर्पवत्‌॥३४॥

———————————————————————————————————————————————————

तृतीया न युक्तेत्यभिप्रेत्य भाष्यकारैरप्येवं व्याख्यातम्। तथाहुः—किमस्मदादिवत्पुत्रस्वर्गादीन्पर्यायेण नेत्याह—सह युगपदेकलक्षणोपारूढानिति तेन सर्वज्ञरूपेण ब्रह्मणाऽश्नुत इति च। जीवन्मुक्त इति। उक्तब्रह्मात्मवित्प्रारब्धकर्मशेषेण प्राणेन्द्रियदेहादिकं धारयन्प्राकृतजनवदवस्थितोऽपि मुक्त एव न पुनस्तस्य बन्धाशङ्केत्यर्थः॥३२॥ एवमृगक्षरानुसारेण तदर्थं प्रतिपाद्य फलितमर्थमाह—प्रत्यगति। प्रत्यागात्मनो ब्रह्मरूपत्वाच्छादकमज्ञानं प्रत्यगज्ञानं विविधं ज्ञायतेऽनेनेति विज्ञानमन्तःकरणं तदुभयरूपेणावस्थिता सत्त्वतमोगुणात्मिका मायाशक्तिः कारणशरीरमित्याख्यायते। तस्याः साक्षित्वेन पञ्च कोशान्तर्वर्तमानो यश्चिन्मात्रस्वरूप आत्मा यच्च “सत्यं ज्ञानमनन्तं ब्रह्म” इति सत्यज्ञानानन्तानन्दैकरसं ब्रह्म तदुभयमेकं संपश्यन्नुक्तरीत्या संशयविपर्यासविरहेण सम्यक्साक्षात्कुर्वन्ंं “ब्रह्मविदाप्नोति परम्” इत्यादिश्रुत्युक्तब्रह्मविद्भवतीत्यर्थः॥३३॥ श्रुतौ सूत्रितस्यार्थस्य संग्रहव्याख्यानानन्तरं संभवच्छङ्कानिरासाय विस्तरव्याख्यानमपि कृतम् “तस्माद्वै” इत्यादिना “इत्युपनिषत्” इत्यन्तेन। तदितः परं संगृह्य प्रतिपाद्यते। तत्र तावत् “सत्यं ज्ञानमनन्तं ब्रह्म” इति यदानन्त्यं प्रतिज्ञातं तन्नोपपद्यते वियदादिभूतभौतिकप्रपञ्चलक्षणस्य परिच्छेदकवस्त्वन्तरस्य विद्यमानत्वादित्याशङ्क्य तदुपपादयितुं तत्सकाशात्सृष्टिमाह—ब्रह्मरूपेत्यादिना। एवं ह्याम्नायते— ‘तस्माद्वा एतस्मादात्मन आकाशः संभूतः। आकाशाद्वायुः। वायोरग्निः। अग्नेरापः। अद्भयः पृथिवी" इति। अस्याः श्रुतेरर्थं प्रतिपादयति—ब्रह्मेति। तस्माच्छब्देन श्रुतौ ब्रह्मविदाप्नोति परमिति व्यवहितसूत्रवाक्यनिर्दिष्टं ब्रह्म परामृश्यते। एतस्मादित्येतच्छब्देनसत्यं ज्ञानमनन्तं ब्रह्मेति संनिहितमन्त्रवाक्यनिर्दिष्टम्। असङ्गादासीनस्य परमार्थतो निरविद्यस्य स्रष्टृत्वासंभव इत्यभिप्रेत्य तत्संभावनायाऽऽह—शक्तिमि

————————————————————————————————————————————————

श्रितादिति। प्राणिकर्मपरिपाकवशेन सिसृक्षितकार्यप्रपञ्चोन्मुखात्तत्स्वरूपपरिकल्पितत्वेन तदाश्रिता मायाशक्तिस्तन्मिश्रितात्तदुपाधिकादित्यर्थः। एवं मायाशक्तिबलाद्ब्रह्मरूपादात्मनः सकाशादपञ्चीकृतः सूक्ष्मशब्दगुणोऽवकाशात्मक आकाशः संभूतः समुत्पन्नः। पञ्चीकरणेन हि भूतानि स्थूलीभवन्ति। तथात्वं चांग्रे छान्दोग्योपनिषदर्थकथनप्रस्तावे प्रतिपादयिष्यते। निमित्तकारणवाचिशब्दादपि पञ्चमी भवति हेतौ विधानात्। तथोपादानकारणवाचिशब्दादपि “जनिकर्तुः प्रकृतिः” इति स्मरणात्। एवं चात्र तस्मादिति पञ्चमी तदुभयरूपा तन्त्रेणोपात्ता द्रष्टव्या। ब्रह्मैव हि कार्यस्य जगतो निमित्तमुपादानं च। “सोऽकामयत बहु स्यां प्रजायेय” इति कामयितृत्वेन स्वस्थैव बहुभावेन चाभिन्ननिमितोपादानस्याग्रे प्रतिपादितत्वात्। बादरायणोऽपि ब्रह्मण उभयरूपत्वं सूत्रयामास—“प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात्” इति। ये त्वस्पर्शद्रव्यत्वादात्पवदाकाशस्य नित्यत्वं मन्यमानाः संभूत इत्यभिव्यक्ति , परतयोक्तमर्थमन्यथयन्ति ते बादरायणेनैव ‘न वियदश्रुतेः’ इत्यधिकरणे निरा-कृताः। ननु वियदादिकार्यप्रपञ्चेनैव वस्तुना ब्रह्मणः परिच्छेदः स्यात्। तथा ब्रह्मोपादानं सत्क्षीरदधिन्यायेन जगदाकारेण परिणमतेऽथवा मृद्घटन्यायेन जगदारभत इत्यनयोरन्यतरदङ्गीकर्तव्यम्। तथाच ब्रह्मणोऽनित्यत्वादिप्रसक्तिरित्याशङ्काऽऽह—रज्जुसर्पवदिति। न खल्वनाऽऽरम्भवादः परिणामवादो वाविवक्षितः। येनैवं प्रसज्येत। अपि तु विवर्तवाद एव विवक्षितः। यथा रज्जुः स्वयमविकृतैव सती मायया सर्पाकरेण विवर्तते। एवं ब्रह्मापि निर्विकारमेव सत्स्वमायाशक्तिविलासेन वियदादिजगदाकारेण विवर्तते। कारणस्वरूपाविरोधेन कार्यप्रतिभासो विवर्तः। अतो ब्रह्मणो निर्विकारत्वाविघातान्नानित्यत्वप्रसक्तिरित्यर्थः। अयमेवार्थो बादरायणेनापि ‘कृत्स्नप्रसक्तिर्निरवयवत्वशब्दकोपोवा’ इत्यत्र निर्णीतः। एवं ब्रह्माकारस्य वियदादिभूतभौतिकप्रपञ्चस्याधिष्ठाने ब्रह्मणि कारणे मायापरिकल्पितत्वेन रज्जुसर्पवदेवाधिष्ठानादव्यतिरिक्तत्वात्। यथाच मृत्कार्यं घटशरावोदञ्चनादिकं कारणभूतमृद्व्यतिरेकेणालब्धसत्ताकत्वात्पृथुबुध्नोदराकारादिरूपविशेषस्य तद्वाचकघटादिशब्दस्य च वाचारम्भणमात्रत्वात्का-

आकाशाद्वायुसंज्ञस्तु स्पर्शोऽपञ्चीकृतः पुनः।
वायोरग्निस्तथा चाग्नोपश्चाद्भ्यो वसुंधरा॥३५॥
तानि भूतानि सूक्ष्माणि पञ्चीकृत्यशिवाज्ञया।
तेभ्य एव सराः सृष्टं व्रह्माण्डाख्यमिदं मया॥३६॥

————————————————————————————————————————————————

रणमृन्मात्रमेव न तु ततोऽन्यत्। एवं ब्रह्मकार्यस्यापि कारणानन्यत्वाब्रह्मणस्तत्कृतपरिच्छेदो न शङ्कनीय इत्यर्थः॥३४॥ आकाशादिति। आरोपितस्याऽऽकाशादेरनिर्वाच्यत्वेन कार्यान्तराधिष्ठानत्वायोगात् “इदं सर्वमसृजत यदिदं किंच” “एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च। खं वायुर्जोतिरापः पृथिवी विश्वस्य धारिणी” इति विशेषेण सर्वस्यापि द्वैतप्रपञ्चस्य ब्रह्मकार्यत्वश्रवणाच्चाऽऽकाशादितत्कार्य विशेषारोपाधिष्ठानभूतं तदुपाधिकं ब्रह्मैवोपादानत्वेनाऽऽकाशादित्यादिभिः पञ्चम्यन्तैर्निर्दिश्यते। तस्मादात्मन आकाशरूपापन्नाद्ब्रह्मणः सकाशात्स्पर्शतन्मात्रापरपर्यायः सूक्ष्मो वायुः स्वकारणगुणेन शब्देन स्वगुणेन स्पर्शेन च गुणद्वयवान्समुत्पन्नः। वायोरग्निरिति। एवं वायुरूपापन्नाद्ब्रह्मणः स्वस्वकारणगुणाभ्यां शब्दस्पर्शाभ्यां स्वगुणेन रूपेण च गुणत्रयवान्सूक्ष्मोऽग्निः समुत्पन्नः। तथाच “वायोरग्निः” इति तैत्तिरीयके तेजसो वायुपादानत्वश्रवणात्। छान्दोग्ये च “तत्तेजोऽसृजत” इति सद्रूपब्रह्मोपादानश्रवणाच्च श्रुत्योमिथो विरोधादप्रामाण्यमितिशङ्का निरवकाशा तैत्तिरीयकेऽप्युक्तरीत्या ब्रह्मोपादानत्वस्याविघातात्। अत एव भगवान्व्यासोऽयमुमर्थमसूत्रयत् “तेजोऽतस्तथा ह्याह” इति। अग्नेराप इति। तस्माच्चाग्निरूपापन्नाद्ब्रह्मणः सकाशात्कारणगतैः शब्दाद्यैस्त्रिभिर्गुणैः स्वगुणेन रसेन च गुणचतुष्टयवत्य आपो जाताः। अद्भयो वसुंधरेति। अब्रूपापन्नात्तस्मादेव ह्मणःकारणगतगुणचतुष्टयेन स्वगुणेन च गन्धेन पञ्चगुणा पृथिवी समुत्पन्ना॥३५॥ श्रुतौ “पृथिव्या ओषधय ओषधीभ्योऽन्नमन्नात्पुरुषः” इति भौतिकभोक्तृप्रपञ्चसृष्टिराम्नाता तां संगृह्णाति—तानीति। परमेश्वरसृष्टानि वियदादिसूक्ष्मभूतानि तानि तदाज्ञयैव पञ्चीकरणेन स्थूलीकृत्य तत्कार्यभूतं ब्रह्माण्डादिकं मया निर्मितमिति ब्रह्मण उक्तिः। परशिवो हि स्वसृष्टवियदादि सूक्ष्मभूतोपाधिकः सन्हिरण्यगर्भो यः प्रथमः शरीरी प्रजापतिर्ब्रह्मेति च श

भुवनानि विशेष्टानि निर्मितानि शिवाज्ञया।
बह्माण्डस्योदरे देवा देवाश्च विविधा अमी॥३७॥
देवादयो मनुष्याश्च तथा पश्वादयो जनाः।
तत्तत्कर्मानुरूपेण मया सृष्टाः शिवाज्ञया॥२८॥
ततश्चान्नमयोह्यात्मा विभिन्नश्चान्तरे स्वतः।
अस्थिस्नाय्वादिरूपं यच्छरीरं भाति देहिनाम्‌।
तस्मात्प्राणमयो ह्यात्मा विभिन्नश्चाऽऽन्तरो यतः॥३९॥

————————————————————————————————————————————————

व्यपदिश्यते तत्कर्तृक एव हि सर्वो भौतिकः सर्गः। ब्रह्माण्डसर्गस्य मध्ये पृथिव्यादिलोकास्तेषु चौषधिवनस्पत्यादिकं सर्वे भोग्यजातं देवासुरमनुष्यादिभोक्तंश्चाहं सृष्टवानस्मीत्यर्थः। देवा इत्येकं संबोधनम्। देवादय इति। अत्र देवशब्दः कर्मदेवाभिप्रायः। अन्येषां देवानां देवा इति पदेन पृथक्प्र तिपादितत्वात्। तत्तत्कर्मानुरूपेणेति। तत्तत्प्राणिकृतपरिपक्कपुण्यपापनिवहस्य वैचित्र्येण तत्फलभूत विचित्रसुखदुःखोपभोगाय देवमनुष्यादिभेदेन नानाविधभोगायतनानि निर्मितानीत्यर्थः। सत्स्वपि सर्वेषु प्राणिषु पुरुषस्यैव विद्याधिकार इति तस्यैव सृष्टिः श्रुत्या प्रतिपादिता। अत एव तैत्तिरीयके पुरुषस्याऽऽकारपरिणतदेहमध्येऽवस्थितस्यैवाऽऽत्मनो ज्ञानविशेषाविर्भावेन विद्याधिकारः श्रूयते “पुरुषत्वे वाऽऽविस्तरामात्मा स हि प्रज्ञानेन संपन्नतमो विज्ञातं वदति विज्ञातं पश्यति वेद श्वस्तनं वेद लोकालोकौ मर्त्येनामृतमप्सति” इति॥३६-३८॥ अन्नपरिणामरूपपुरुषशरीरतादात्म्यापन्नस्याऽऽत्मनः सर्वान्तरब्रह्मरूपत्वं प्रतिपादयितुं बाह्याभ्यन्तरभावेनान्नमयप्राणमयमनोमयविज्ञानमयानन्दमयाख्याः पञ्च कोशाः प्रतिपत्तिसौकर्याय “स वा एव पुरुषोऽन्नरसमयः” इत्यादिना श्रुतौ प्रतिपादितास्तान्संगृह्णाति —अस्थीत्यादिना। तत्र तावज्जीवभावेनावस्थितस्यत्रीणि शरीराणि भवन्ति स्थूलसूक्ष्मकारणात्मना। तत्रान्नरसपरिणामरूपं षाट्कौशिकं स्थूलशरीरं तत्तादात्म्यापन्नोऽन्नमय आत्मा भवति। “स वा एष पुरुषोऽन्नरसमयः” इति श्रुतौ तच्छब्देन प्रकृतमात्मानं परामृश्य तस्यान्नमयत्वप्रतिपादनात्। एवं प्राणादिवक्ष्यमाणकोशतादात्म्येन प्राणमयादित्वमपि

योऽयं प्राणमयो ह्यात्मा भाति सर्वशरीरिणाम्।
ततो मनोमयो ह्यात्मा विभिन्नश्चाऽऽन्तरत्वतः॥४०॥

————————————————————————————————————————————————

तस्याऽत्मनोऽधिगन्तव्यम्। तस्य चान्नपरिणामरूपस्य स्थूलशरीरस्याऽऽत्मत्वोपदेशेन स्वशरीरादन्यस्य पुत्रमित्रकलत्रादेरात्मत्वभ्रमो निवर्तितः। तस्य मध्येऽपि सूक्ष्मभूतारब्धं यत्सप्तदशकं लिङ्गं तदात्मनः सूक्ष्मशरीरं तदुभयस्य हेतुभूता या मलिनसत्त्वप्रधानाऽविद्या सुषुप्ताववभासते सा तस्याऽऽत्मनः कारणशरीरम्। तत्र सूक्ष्मशरीरे प्राणमयमनोमयविज्ञानमयाख्यकोशत्रयान्तर्भावः। आनन्दमयस्तु कारणशरीरमिति विवेकः सत्त्वरजस्तमोगुणात्मकमायाकार्यत्वाद्भूतान्यपि गुणत्रयात्मकानि। तत्र वियदादिसुक्ष्मभूतानां ये पञ्च रजोशास्तैरारब्धानि वाक्पाणिपादादीनि पञ्च कर्मेद्रियाणि। तद्रजोश समुदायारब्धः प्राणनादिक्रियाहेतुः क्रियाशक्त्यात्मकः प्राणस्तस्य प्राणापानाद्याः पञ्च वृत्तयः। एवं पञ्चप्राणकर्मेन्द्रियरूपप्राणमयकोशविशिष्टस्याऽऽत्मन उपदेशेन बाह्यस्यानात्मत्वं प्रतिपादयति श्रुतिः “तस्माद्वा एतस्मादन्नरसमयादन्योऽन्तर आत्मा प्राणमयः” इति। तदेवाऽऽह—अस्थीति। अन्नमयस्याऽऽत्मन उपाधिभूतं यदस्थिस्नाय्वादिरूपमन्नकार्यं षाट्कौशिकं शरीरं तस्मात्सकाशादुदीरितप्राणमयकोशविशिष्ट आत्मा विभिन्न एव ज्ञातव्यः। यतः कारणादयमान्तरोऽन्तरे देहमध्ये वर्तमानोऽनुभूयते। अतो बाह्याद्देहात्प्राणमय आत्मा विवेकेन प्रत्येतव्य इत्यर्थः। अत एवासिकोशवद्बहिराच्छादकत्वसामान्यादन्नविकारस्य देहस्य कोशत्वम्। एवमुत्तरत्रापि मनोमयाद्यात्मोपदेशेन पूर्वस्य पूर्वस्य बाह्यतथा विविक्तत्वेनाऽऽत्मत्वभ्रमनिरासात्कोश रूपत्वमवगन्तव्यम्॥३९॥ एवं प्रणमयोपदेशेन बाह्यास्यान्नमयस्यानात्मत्वं प्रतिपाद्य प्राणमयस्यापि कोशरूपत्वेनानात्मत्वं प्रतिपादयितुं तस्मादभ्यान्तरं मनोमयात्मानमुपदिशति श्रुतिः—तस्माद्वा एतस्मात्प्राणमयादन्योऽन्तर आत्मा मनोमयः” इति तत्संगृह्णाति—योऽयमिति। वियदादिपञ्चसूक्ष्मभूत सत्त्वांशैरारब्धानि श्रोत्रादीनि पञ्च ज्ञानेन्द्रि याणि तत्सत्वांशसमुदायपरिणामरूपमन्तःकरणं तदुपादान भूतस्य सत्त्वस्यात्मस्वरूपभूतसुखप्रकाशाभिव्यञ्जकसामर्थ्यं सद्भावात्तत्कार्यमन्तःकरणमपि स्वरूप- सुखाभिव्यञ्जकवृत्त्यात्मना स्वरूपप्रकाशाभिव्यञ्जकवृत्त्यात्मना च द्विधा परिण-

योऽयं मनोमयो ह्यात्मा भाति सर्वशरीरिणाम्‌।
विज्ञानमय आत्मा च ततोन्यश्चाऽऽन्तरो यतः॥४१॥
विज्ञानमय आत्मा यो विभाति सकलात्मनाम्‌।

———————————————————————————————————————————————

मते। तत्र प्रकाशाभिव्यञ्जिका वृत्तिरपीषद्रजोनुवेधात्संकल्पविकल्पात्मिका मनःसंज्ञां लभते। रजः संस्पर्शविरहाच्च नैर्मल्ये सति निश्चयरूपा सती बुद्ध्याख्यां लभते। एवं मनोबुद्धिभेदभिन्नवृत्तिमदन्तःकरणसहकृतानि चक्षुरादीन्द्रियाण्यपि विमर्शनिश्चयरूपद्विविधज्ञान जनकत्वेन द्विविधानि भवन्ति। तत्र विमर्शज्ञानजनकपञ्चज्ञानेन्द्रियसहितमनः संज्ञकवृत्तिमदन्तःकरणो पाधिविशिष्ट आत्मा मनोमयः। स च प्रागुक्तात्प्राणापानादिसंवात्प्राणमयादान्तरत्वेन विभिन्नः। तत्र हेतुमाह—आन्तरत्वत इति। अन्तरवस्थितात्मस्वरूपचैतन्याभिव्यञ्जकत्व लक्षणात्स्वभावभेदादान्तरत्वमित्यर्थः। प्राणमयस्तु रजः परिणामरूपत्वान्नोदीरितं चित्प्रकाशमभिव्यनक्ति। अत एव सुषुप्तौ सत्यामपि प्राणवृत्तौ जाग्रद्वच्चैतन्यस्य विशेषाभिव्यक्तिर्न दृश्यते। उच्छ्वासनिः- श्वासादिक्रियाप्रवर्तकः सन्नन्नमयदेहस्य धारणमेव केवलं करोति। तथाच प्राणवाक्यम् “अहमेवैतत्पञ्चधाऽऽत्मानं प्रविभज्यतैद्वाणमवष्टभ्य विधाश्यामि” इति। एवमनयोर्विविक्तरूपत्वान्मनोमय आत्मा प्राणमयादान्तरो विविक्तश्च प्रत्येतव्य इति भावः॥४०॥ एवं प्राणमयस्य बाह्यत्वे कोशरूपत्वादनात्मत्वं प्रसाध्य मनोमयस्यापि तथात्वं प्रतिपादयितुं अस्मादप्पान्तरं विज्ञानमयमात्मानमुपदिशति श्रुतिः—“तस्माद्वा एतस्मान्मनोमयादन्योऽन्तर आत्मा विज्ञानमयः” इति तत्संगृह्णाति योऽयं मनोमय इति। प्रागुदीरितरीत्या निश्चयज्ञानजनकचक्षुरादीन्द्रियसहितबुद्ध्याख्यवृत्तिमदन्तःकरणविशिष्ट आत्मा विज्ञानमयः। विज्ञायतेऽनेनेति विज्ञानमुक्तविधमन्तःकरणं तन्मयस्तद्विकारः। स च विमर्शरूपान्मनोमयादान्तरत्वेन विभिन्नः। आन्तरत्वं च रजःसंस्पर्शविरहेणान्तरवस्थितात्मचैतन्यस्य निश्चयरूपेण विशेषतस्तत्राभिव्यक्तेः। अनुष्ठेयपदार्थविषयनिश्चयज्ञानवत एव विद्याकर्मणोरधिकार इत्यभिप्रेत्य विज्ञानमयात्मनो यज्ञादिक्रियाहेतुत्वमाम्नायते—“विज्ञानं यज्ञं तनुते कर्माणि तनुतेऽपि च” इति॥४९॥मनोमयवद्विज्ञानमयस्यापि बाह्यत्वेनानात्मत्वं प्रतिपाद

आनन्दमय आत्मा च ततोऽन्यश्चाऽऽन्तरो यतः॥४२॥

————————————————————————————————————————————————

यितुमस्मादप्यान्तरमानन्दमयमात्मानं श्रुतिरुपदिशति “तस्माद्वा एतस्माद्वि- ज्ञानमयादन्योऽन्तरआत्माऽऽनन्दमयः इति “तत्संगृह्णाति-विज्ञानमय इति। विद्याकर्मणोः फलभूतं सुखमानन्दस्तदभिव्यञ्जकोपाधिविशिष्ट आत्माऽऽनन्दमयः। स च फलरूपत्वेनान्तरङ्गत्वाद फलरूपाद्विज्ञानमयादान्तरो विविक्तश्च स एवाऽऽत्मत्वेन बोद्धव्यः। विज्ञानमयन्तु तत्फलसाधनभृतविद्याकर्मनिष्पादकतया बहिरङ्गन्वाद्वाह्योऽनात्मा। एवं प्राणमयादिकोशत्रयस्य विवेकेनाऽऽत्मनः सूक्ष्म-शरीरादपि विवेकः सिद्धो भवति। “ज्ञानेन्द्रियाणि पञ्चैत्र तथा कर्मेन्द्रियाण्यपि। वायवः पञ्च बुद्धिश्च मन सप्तदशं विदुः"॥ इति हि सूक्ष्मशरीरस्वरूपम्। एतस्यैव सप्तदशकस्य प्राणमायादिकोशत्रयरूपेणावस्थितस्य प्रतिपादितत्वात्। एवं स्थूलसूक्ष्मशरीराभ्यामात्मनः सिद्धेऽपि विवेक कारणशरिरादपि तस्य विवेकेन भवितव्यं तदर्थमिदं चिन्तनीयम्। किमानन्दमय एव सर्वान्तर आत्मोत ततोऽप्यान्तरमन्यद्ब्रह्मास्ति तदेव सर्वान्तरमात्मत्वेनाभिमतम्। आनन्दमयस्त्वन्नम- यादिवत्सोपाधिक एवेति। तत्रान्योऽन्तर आत्माऽऽनन्दमय इतिवदस्मादन्यस्या- ऽऽन्तरस्याऽऽत्मनोऽनुपदेशान्मयटो विकारप्रायपठितस्य तद्वाधेन प्राचुर्यार्थतयाऽप्युपपत्तेः प्रियशिरस्त्वादीनां चोपाधित्वेनाप्यस्मिन्संभवात् “यदेष आकाश आनन्दो न स्यात्” “सैषाऽऽनन्दस्य मीमांसा भवति” इत्याद्यानन्दशब्दाभ्यासस्य “वसन्ते वसन्ते ज्योतिषा यजेत” इति ज्योतिः शब्दस्य ज्योति-ष्टोमप्रतिपादकत्वनदानन्दमयपरत्वेन योजयितुं शक्यत्वादभ्यस्यमानः स एव सर्वान्तर आत्मेति चेत्। मैवम्। ‘ब्रह्म पुच्छं प्रतिष्ठा’ इत्यानन्दमयादिसर्वाधारस्य सर्वान्तरस्य ब्रह्मण उपदेशात्तत्खल्वत्र प्राधान्स्येन विवक्षितम्। “ब्रह्म-विदाप्नोति परम्” इति फलवद्ब्रह्मात्मज्ञानं प्रक्रम्य “सत्यं ज्ञानमनन्तं ब्रह्म” “ब्रह्मणा विपश्चितेति” “अस्ति ब्रह्मेति चेद्वेदे” इत्येत्रमभ्यस्यमानत्वात्। अभ्यासो हि ताप्तर्यलिङ्गम्। “उपक्रमोपसंहारावभ्यासोऽपूर्वताफलम्। अर्थवादोपपत्ती च लिङ्ग तात्पर्यनिर्णये” इत्युक्तत्वात्। ब्रह्मशब्दोऽव्यपरिच्छिन्ने निर्विकारे ब्रह्मणि मुख्यः न तु सावयव आनन्दमये। न चैतस्य “ब्रह्म पुच्छं प्रतिष्ठा” इत्यानन्दमयात्रयत्वश्रवणादप्राधान्यमिति मन्तव्यम्। ब्रह्म पुच्छमिति

योऽयमन्नमयः सोऽयं पूर्णःप्राणमयेन तु।
मनोमयेन प्राणोऽपि तथा पूर्णःस्वभावतः॥४३॥

————————————————————————————————————————————————

पदद्वयरूपराद्वाक्यात्प्रतयीमानस्यावयवत्वस्य ब्रह्मपदश्रुत्यां बाधात्‌ श्रतेर्हिवाक्याद्वलीयस्वात्‌। आनन्दराब्दाभ्पासः सोऽपि निरतिशयर्निविकारसुखरूपेब्रह्मणि मुख्यः“विज्ञानमानन्दं ब्रह्म” “आनन्दो ब्रह्मेतिव्यजानात्‌”इत्यादिश्रुतिप्रासिद्धेः। यद्यत्राऽऽनन्दमय एव सर्वान्तर आत्मा स्यात्‌ “असन्नेव स भवति। असद्ब्रह्मति वेद चेत्‌”। इति श्लोकोदाहरणमसंगतं स्यात्‌। तथा “एतमानन्दमयमात्मनमुपसंक्रामति” इत्यन्नमयादिवदुपसक्रमितत्वप्रतिपादनं नोपपद्येत। अन्यस्योपसंक्रमितव्यस्याभावात्‌। तस्माद्ब्रह्मैव सर्वान्तरं स्वप्राधान्येन निर्दिष्टमित्यङ्गीकतव्यम्‌। पुच्छशब्दस्त्ववयवप्रायपठितोऽप्याधारतमात्ररक्षकः। एवं चाऽऽनन्दमय इति मयटो विकारप्रायपाठाऽनुगृहीता भवति। तस्मादन्नमयादिवदानन्द मयोऽप्युपाधिविशिष्ट इति सिद्धम्‌। एतच्चाऽऽनन्दमयोऽभ्यासादित्यधिकरणे निर्णीतम्‌। स चोपाधिः प्रागुदीरितसात्त्विकान्तः करणपरिणामरूपाऽऽत्मस्वरूपसुखाभिव्यञ्जिका वृत्तिः। सा च प्रियमोदादिभेदेन बहुधाभिद्यते। निरतिशयानन्दो ह्यात्मनः स्वरूपम्‌। तच्च शुभकर्मोपस्थापितेष्टपुत्रवित्तकलत्रादिदर्शनलाभोपभागजनितैः प्रियमोदादिसंज्ञकैरन्तःकरणबवृत्तिविशेषैरभिव्यज्यते। अभित्यक्तं च तद्विषयसुखमति लोको व्यवहरति। तत्र क्षणिकत्वप्रतीतिस्तु व्यञ्जकोपाबिकृता। तथाविधाश्च वृत्तयः स्वापप्रच्यादौ स्वकरणे से लीयन्ते। तथाच कारणात्मनाऽवस्थितं तथाविधावृत्तिकं मलिनसत्त्वप्रधानमविद्यापरपर्यायं भावरूपाज्ञानमेवाऽऽनन्दमयोपाधिर्विवक्षितः। स चाऽऽनन्दोन्तः करणवृत्तिविशेषेऽभिव्यज्यते। तथा विविक्ते प्रसन्नेऽन्तःकरण आनन्द इति च वदतो भाष्यकारस्यापि कारणसत्त्वपरत्वमेवाभिप्रेतोऽर्थ इति
व्यास्येयम्‌। ये तरन्यथा व्याचक्षते तेषां तथाविधादज्ञानाद्विवेको न कृताःस्यात्‌। ईदृग्विधोपाधिविशिष्टो योऽयमानन्दमयः सोऽयं प्रागुक्तरीत्या विज्ञानमयादान्तरो ज्ञातव्य इत्यर्थः॥५२॥ एवं पञ्च कोशःप्रतिपादिताः। तत्रबाह्यस्य बह्यस्यान्नमयादेरान्तरेणाऽऽन्तरेण कोशेन यत्पूर्णत्वं श्रुतिः प्रतिपादयाति “तेनैष पूर्णःस वा एष पुरुषविध एव” इति तत्संगृह्णाति-

तथा मनोमयो ह्यात्मा पूर्णो ज्ञानमयेन तु।
आनन्देन सदा पूर्णस्तथा ज्ञानमयः सुराः॥४४॥
तथाऽऽनन्दमयश्चापि ब्रह्मणांऽन्येन साक्षिणः।
सर्वान्तरेण संपूर्णो ब्रह्म नान्येन केनचित्॥४५॥
यदिदं ब्रह्म पुच्छाख्यं सत्यज्ञानाद्वयात्मकम्।
स रसः सर्वदा साक्षान्नान्यथा सुरपुङ्गवाः॥४६॥

————————————————————————————————————————————————

योऽयमिति। योऽयं प्रतिपत्तिसौकर्याय शिरःपुच्छपक्षान्तरादिभेदेन परिकल्पितोऽन्नमयः कोशः सोऽयं स्वस्मादान्तरेण तथाविधपरिकल्पितावयवेन प्राणमयेन पूर्णः। यथा मूषाकारा प्रतिमा स्वात्मनिषिक्तेन द्रुतताम्रेण सर्वशः पूर्यते तद्वत्। एवमुत्तरत्रापि योजना॥४३॥४४॥ ब्रह्मणाऽन्येनेति। यद्यप्यानन्दमयादन्योऽन्तर आत्मेति पृथङ्निर्देशो नास्ति तथाऽपि “ब्रह्म पुच्छं प्रतिष्ठा” इयानन्दमयाधारत्वेन निर्दिष्टं सत्यज्ञानादिलक्षणं स्वात्मनि मायापरिकल्पितान्नमयादिसकलानात्मवस्तुसाक्षिभूतं पञ्चकोशान्तर्गतं सर्वान्तरं यद्ब्रह्म यस्य च तादात्म्याध्यासादन्नमयादयोऽप्यात्मानः स्युस्तेन सर्वाधिष्ठानेन साक्षिचैतन्यरूपेण ब्रह्मणाऽऽनन्दमयोऽपि पूर्णो व्याप्तः। ब्रह्म नान्येनेति। उक्तविधं ब्रह्म तु देशकालवस्तुकृतत्रिविधपरिच्छेदराहित्येनाद्वितीयत्वादन्येन केनचिदपि वस्तुना न व्याप्तम्। स्वयमेव सर्वमापूर्यापरिच्छिन्नं तद्वर्तत इत्यर्थः॥४५॥ एतावता निहितं गुहायामिति मन्त्रवाक्ये यद्गुहानिहितत्वं ब्रह्मणः प्रदर्शितं तद्व्याख्यातं भवति। तथाविधस्य सर्वान्तरस्य ब्रह्मणः प्रतिपत्त्युपायत्वेनान्नमयादिपञ्च कोशाः प्रतिपादिता न तूपासनार्थाः। ननु “येऽन्नं ब्रह्मोपासते ये प्राणं ब्रह्मोपासते” इत्यादिमन्त्रवाक्यादन्नमयादीनामुपासनाङ्गत्वं प्रतीयत इति चेत्। मैवम्। शाखान्तरीयस्योपासनाप्रकरणस्थस्य “अन्नाद्वै प्रजाः प्रजायन्ते” इत्यादिमन्त्रस्य श्रुत्या कोशत्वेन प्रतिपादितान्नप्राणादिसद्भावं द्रढयितुं तत्तत्कोशावसाने संवादत्वेनोदाहृतत्वात्। यद्यत्रैवोपासनाविधिः स्यात्तर्हि परमात्मनो मनोमयकोशोदाहृतश्लोकेऽप्युपास्तिचोदना श्रूयेत। न च श्रूयते। अतो मनोमयकोशस्य तावदुपदेशार्थत्वमेव न तूपासनार्थत्वं तत्सामान्याद-

एतमेव रसं साक्षाल्लब्ध्वा देही सनातनम्।
सुखी भवति सर्वत्र नान्यथा सुरसत्तमाः॥४७॥
असत्यस्मिन्परानन्दे स्वात्मभूतेऽखिलात्मनाम्।
को जीवति नरो देवाः को वा नित्यं विचेष्टते॥४८॥

—————————————————————————————————————————————————

त्रापि तथेत्यङ्गीकार्यम्। इतरथोपासनोपदेशरूपप्रतिपाद्यार्थभेदाद्वाक्यभेदः स्यात्। संभवति च तदैक्ये तद्भेदो न युक्तः “संभवत्येकवाक्यत्वे वाक्यभेदस्तु नेष्यते” इति न्यायात्। एवं सर्वान्तरं ब्रह्मोपदिश्य तस्य निर्विशेषत्वेन वाङ्मनसातीतत्वादसत्त्वमाशङ्क्य तन्निरासाय मन्त्रोऽयमुदाहृतः “असन्नेव स भवति। असद्बह्मेति वेद चेत्। अस्ति ब्रह्मेति चेद्वेद सन्तमेनं ततो विदुः” इति। तत्र यद्यप्यसदेव ब्रह्म तथाऽपि तदस्तीति वेदनीयमित्येवंविधार्थस्य स्फुरणाच्छिष्यस्य संशयो भवति। किमसदेव ब्रह्मोत सदेवेति। तथा तस्य ब्रह्मणः सर्वगतत्वादविद्वानपि तद्ब्रह्म प्राप्नोति न वा। यदि न प्राप्नोति तत्सामान्याद्विद्वानपि तद्ब्रह्म न प्राप्नोति प्राप्नोति वेति। तावेतौ विद्वदविद्वद्विषयौ प्रश्नौ श्रुत्यैव प्रदर्शितौ। “उताविद्वानमुं लोकं प्रेत्य कश्चन गच्छति। आहो विद्वानमुं लोकं प्रेत्य कश्चित्समश्नुता३ उ” इति। अत्र प्लुतिर्विचारार्था। एतेषां त्रयाणामुत्तरभूता श्रुतिः “सोऽकामयत” इत्यादिका। तत्र रसरूपत्वाद्ब्रह्मणो यदस्तित्वं तत्प्रतिपादितं श्रुतौ “रसो वै सः रसं ह्येवायं लब्ध्वाऽऽनन्दी भवति” इति तत्संगृह्याऽऽह—यदिदमिति। “ब्रह्म पुच्छं प्रतिष्ठा” इति यदिदं पञ्चकोशान्तरेऽपरोक्षतया भासमानम् “सत्यं ज्ञानमनन्तं ब्रह्म” इत्युदीरितलक्षणं ब्रह्म सोऽयं मधुरादिरसवत्सर्वदा प्रत्यग्दृष्टिभिर्योगिभिः साक्षादव्यवधानेनाऽऽस्वादनीयत्वाद्रसः॥४६॥ एतद्रसात्मकत्वमुपपादयति—एतमेवेति। आत्मज्ञो हि देही सनातनमनाद्यनन्तमेतमेवाऽऽत्मानं निरतिशयानन्दरूपतया रसात्मकं स्वात्मनि साक्षात्कृत्य सर्वेषु देशेषु सर्वेष्वपि कालेषु सुखी भवति। एतद्व्यतिरिक्तमधुराद्यनित्यबाह्यरसलाभे तु कचित्कदाचिदेव सुखित्वम्। अतो विद्वदनुभवबलादस्य रसात्मकत्वमतो रसत्वाद्ब्रह्मणोऽस्तित्वं सिद्धमित्यर्थः॥४७॥ पुनरपि तत्साधनार्थं श्रूयते “को ह्येवान्यात्कः प्राण्यात्।

तस्मात्सर्वात्मनां चित्ते भासमानो रसो हरः।
आनन्दयति दुःखाढ्यं जीवात्मानं कृपाबलात्॥४९॥
यदा ह्येवैष एतस्मिन्नदृश्यत्वादिलक्षणे।
निर्भेदं परमेकत्वं विन्दते सुरसत्तमाः॥५०॥
तदैवाभयमत्यन्तं कल्याणं परमामृतम्।
स्वात्मभूतं परं ब्रह्म स याति स्वर्गवासिनः॥५१॥

———————————————————————————————————————————————

यदेष आकाश आनन्दो न स्यादेष ह्येवाऽऽनन्दयाति” इति तत्संगृह्णाति—असत्यस्मिन्निति। यदि प्राणिनां शरीरमध्ये परमव्योमसंज्ञकेऽव्याकृताकाशे स्वात्मभूतो निरतिशयानन्दरूपोऽयमात्मा न स्यात्तर्हि को वा जन्तुर्जीवति प्राणधारणं करोति को वा प्राणनादिचेष्टां नित्यं कुर्यात्। तत्सत्ताव्यतिरेकेण तत्राऽऽरोपितस्य सत्त्वानुपतत्तेः। अत आरोपितकार्यसत्त्वानुपपत्त्या तत्कारणस्य ब्रह्मणः सत्त्वमङ्गीकर्तव्यमित्यर्थः॥४८॥ तस्मादिति। यस्मादेवमानन्दरूपो विद्यते तस्मात्सर्वप्राणिहृदय आपरोक्ष्येण भासमानं ब्रह्म रसशब्दाभिधेयं भवति। कुतोऽस्याऽऽनन्दरूपतेत्यत आह—आनन्दयतीति। यस्मादसौ संसारदुःखाभिभूतं जीवात्मानं तत्कृतधर्मानुरूपेण सुखयति तस्मादस्यIऽऽनन्दरूपत्वम्। अत एव चान्यत्राऽऽम्नायते—“एतस्यैवाऽऽनन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति” इति॥४९॥ भयाभयहेतुतयाऽपि ब्रह्मणः सत्त्वं समर्थितं श्रुतौ—“यदा ह्येवैष एतस्मिन्नदृश्येऽनात्म्येऽनिरुक्तेऽनिलयनेऽभयं प्रतिष्ठां विन्दते। अथ सोऽभयं गतो भवति। यदा ह्येवैष एतस्मिन्नुदरमन्तरं कुरुते। अथ तस्य भयं भवति” इति तत्संगृह्णाति—यदेति। अदृश्यत्वादीत्यादिशब्देन श्रुत्युक्तानात्म्यादिसंग्रहः। यदा खल्वेतस्मिन्साक्षिरूपे ब्रह्मणि। किंरूपे। अदृश्ये दृश्यप्रपञ्चरहिते। अनात्म्य आत्मनः संबन्धित्वादात्म्यं स्थूलशरीरं तद्रहिते। अनिरुक्ते सूक्ष्मभूतारब्धत्वात्सूक्ष्ममपि तन्निरुच्यत इति निरुक्तं लिङ्गशरीरं तद्रहिते। श्रूयते हि—“न तस्य कार्यं करणं च विद्यते” इति। अनिलयने। निलीयतेऽस्मिन्कार्याकारणप्रपञ्च इति निलयनं भावरूपमज्ञानं कारणशरीरं तद्रहिते। एवंभूते ब्रह्मणि निर्भेदमहमन्यो ब्रह्मान्यदि-

यदा ह्येवैष एतस्मिन्नल्पमप्यन्तरं नरः।
विजानाति तदा तस्य भयं स्यान्नात्र संशयः॥५२॥
सर्वेषामात्मभूतं यद्ब्रह्म सत्यादिलक्षणम्।
उदास्ते तत्सुरश्रेष्ठा यथाजातजनं प्रति॥५३॥
सम्यग्ज्ञानैकनिष्ठानां तदेव परमं पदम्।
तदा स्वात्मतया भाति केवलं कृपया सुराः॥५४॥

————————————————————————————————————————————————

त्येवंविधभेदरहितं पारमार्थिकमेकत्वं श्रवणमननादिसाधनैः साधको विन्दते लभते तदैव तस्मिन्नेव समयेऽभयं भयरहितम्। भयहेतोर्भेदस्य निवृत्तत्वात्। भेदो हि भयहेतुः। “द्वितीयाद्वै भयं भवति” इति श्रुतेः। निरतिशयनिर्विकारानन्दरूपतयाऽत्यन्तशोभनं परमं सर्वोत्कृष्टममृतं कदाचिदप्यनश्वरमेवंभूतं परब्रह्म स ब्रह्मात्मैकत्वविद्याति प्राप्नोति॥५०॥५१॥ यदा खल्वेतस्मिन्नुक्तलक्षणे ब्रह्मण्यल्पमप्यन्तरं भेदं पश्यति तदा तस्याहमन्यः संसारी मत्तोऽन्यद्ब्रह्मेत्येवं भेददर्शिनस्तद्ब्रह्म भयं भयहेतुः स्यादित्यर्थः॥५२॥ ननु ब्रह्मणः सर्वत्र साम्येनावस्थानात्पक्षपातायोगाच्च भेददर्शिनोऽप्यभयप्राप्तिः किं न स्यादिति तत्राऽऽह—सर्वेषामिति। भेददर्शिनामभेददर्शिनां च सर्वेषां हृदयमध्य आत्मत्वेनोपलभ्यमानं सत्यादिलक्षणं यद्ब्रह्म तन्मूर्खजनं प्रत्युदास्त उदासीनमेव भवति। अनधिकारिणं प्रत्युदासीनमेव ब्रह्म तस्य ब्रह्मजिज्ञासापराङ्मुखत्वान्न प्रकाशत इत्यर्थः॥५३॥ ये त्वद्वितीयनिरतिशयानन्द-ब्रह्मात्मैकत्वविषयनिर्विचिकित्ससाक्षात्कारज्ञानैकनिष्ठास्तेषां पदं पदनीयं परमं सर्वोत्कृष्टं मायातत्कार्यातीतं तदेव केवलं ब्रह्म तदा तस्मिन्साक्षात्कारसमये स्वात्मभावेन कृपया भाति प्रकाशते। अत एवान्यत्राऽऽम्नायते—“नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन। यमेवैष वृणुते तेन लभ्यस्तस्यैव आत्मा विवृणुते तनुं स्वाम्” इति॥५४॥ यस्तु सत्यप्यधिकारे मननादिसाधनेन तत्स्वरूपं न साक्षात्करोति तस्याऽऽलस्योपहतस्य ब्रह्म भयकारणं स्यादित्याम्नातम्। “तत्त्वेव भयं विदुषोऽमन्वानस्य इति” तत्संगृह्णाति—तत्त्वेवेति। तदेव ब्रह्म तु साङ्गवेदाध्यायिनोऽपि ब्रह्मसाक्षात्कारनिमित्तं मन-

तत्त्वेवाधीतवेदस्य सहाङ्गैः सुरपुङ्गवाः।
मननेन विहीनस्य भयहेतुः सदा भवेत्॥५५॥
भीषाऽस्मात्पवते वायुर्भीषोदेति दिवाकरः।
भीषाऽस्मादग्निरिन्द्रश्च मृत्युर्धावति पञ्चमः॥५६॥
अस्यैवाऽऽनन्द्रलेशेन स्तम्बान्ताविष्णुपूर्वकाः।
भवन्ति सुखिनो देवास्तारतम्यक्रमेण तु॥५७॥
तत्तत्पदविरक्तस्य श्रोत्रियस्य प्रसादिनः।
स्वरूपभूत आनन्दः स्वयं भाति पदे यथा॥५८॥

—————————————————————————————————————————————————

नमकुर्वाणस्य भयहेतुर्भवतीत्यर्थः॥५५॥ उक्तं ब्रह्मणो भयहेतुत्वं द्रढयितुं श्रुतिर्मन्त्रान्तरमुदाहरति—“भीषाऽस्माद्वातः पवते भीषोदेति सूर्यः। भीषाऽस्मादग्निश्चेन्द्रश्च मृत्युर्धावति पञ्चमः" इति तदत्र संगृह्णाति भीषेति। वाय्वादीनामखिलजगद्व्यवहारनिर्वर्तनेऽधिकृतानां महाप्रभाववतां देवानामपि ब्रह्म भयहेतुः किल किमु वक्तव्यमन्येषां प्राणिनां भयहेतुरिति भावः॥५६॥ एवं भयाभयहेतुत्वादपि ब्रह्मणोऽस्तित्वं सिद्धम्। “यदेष आकाश आनन्दो न स्यात्। एष ह्येवाऽऽनन्दयाति” इति यन्निरतिशयानन्दरूपत्वं ब्राह्मणोऽस्तित्वसाधनायोपन्यस्तं तदुपपादनाय तल्लेशभूतं सार्वभौमादिहिरण्यगर्भान्तमुत्तरोत्तरं शतगुणभावेनावस्थितमानन्दप्रवाहं प्रतिपादयति श्रुतिः—“सैषाऽऽनन्दस्य मीमांसा भवति" इत्यादिना “स एको ब्रह्मण आनन्दः” इत्येवमन्तेन तत्संगृह्णाति—अस्यैवेति। ब्रह्मस्वरूपभूतो योऽयं निरतिशय आनन्दोऽस्यैवाऽऽनन्दस्यैकदेशेन ब्रह्मादिस्तम्बान्ताः सर्वे देहिनस्तत्तत्त्स्वरूपानन्दाभिव्यञ्जकोपाधिमहत्त्वाल्पीयस्त्वाभ्यां तरतमभावेनावस्थितमानन्दं प्राप्य सुखिनो भवन्तीत्यर्थः॥५७॥ श्रुतौ सार्वभौमाद्यानन्दविशेषमुपन्यस्य तत्र तत्र “श्रोत्रियस्य चाकामहतस्य” इत्याम्नातं तदभिप्रायं संगृह्णाति—तत्तदिति। तेषु तेषु सार्वभौमादिपदेपूत्तरोत्तरं सातिशयत्वादनित्यत्वं परिज्ञाय ततो विरक्तस्यैषणात्रवयविनिर्मुक्तस्य प्रसन्नचित्तस्य श्रवणमननादिसाधनकलापमनुष्ठितवतः

अयमेव शिवः साक्षादादित्यहृदये तथा।
अन्येषां हृदये चैव भाति साक्षितया स्वयम्॥५९॥
विहाय साक्ष्यं देहादि मायान्तं तु विवेकतः॥
सर्वसाक्षिणमात्मानं यः पश्यति स पश्यति॥६०॥
रुद्रनारायणादीनां स्तम्बान्तानां च साक्षिणम्।

—————————————————————————————————————————————————

श्रोत्रियस्य ब्रह्मविदोऽनवच्छिन्नानन्दब्रह्मरूपत्वश्रवणात्तल्लेशभूतः सार्वभौमादिभेदेन तरतमभावेनावस्थितः सर्वोऽप्यानन्दस्तस्य विदुषः स्वरूपभूत इति तत्तत्पदेऽवस्थितस्य सार्वभौमादेर्यथाऽऽनन्दविशेषोऽवभासते तथा विदुषोऽपि स्वयं साधनान्तरनैरपेक्ष्येण तथाविध आनन्दो भातीत्यर्थः॥५८॥ एतेन सार्वभौमादिहिरण्यगर्भान्तं तरतमभावेनावस्थिता आनन्दविशेषा जलतरङ्गबुद्बुदादयः समुद्र इव यत्रैक्यं गतास्तदद्वितीयं ब्रह्म परिच्छेदकाभावान्निरतिशयानन्दरूपं भविष्यतीत्यभिप्रेत्य तत्सिद्ध्यर्थं जीवेश्वरभेदभ्रमं श्रुतिर्व्युदस्यति “स यश्चायं पुरुषे यश्चासावादित्ये स एकः” इति तत्संगृह्णाति—अयमेवेति। योऽयमाकाशादिकारणत्वेन निर्दिष्टो विदुषा स्वस्वरूपतया साक्षात्क्रियमाणो निरतिशयानन्दरूपः परशिव एष एवाऽऽदित्यहृदये। आदित्यो हिरण्यगर्भः “स त्रेधाऽऽत्मानं व्यकुरुताऽऽदित्यं तृतीयं वायुं तृतीयम्” इति श्रुतेः। तस्य प्रथमशरीरिणो हिरण्यगर्भस्य हृदये विशुद्धसत्त्वप्रधानमायोपाधिकः सन्। साक्षादिति व्यवधानाभावमाह। अनावृतज्ञानतया सर्वज्ञ ईश्वरो भातीत्यर्थः। तथैष एव परशिवोऽन्येषां जीवानां हृदये पञ्चकोशमध्ये मलिनसत्त्वप्रधानाविद्योपाधिकः किंचिज्ज्ञः संसारसाक्षित्वेन भाति॥५९॥ एवं विरुद्धस्वभावयोरप्यनयो-र्जीवेश्वरयोरैक्यप्रतिपत्तिप्रकारमाह—विहायेति। माया नामात्र सत्त्वरजस्तमोगुणात्मिका प्रकृतिः। सा चोदीरितजीवेश्वरोपाधिद्वयसाधारणरूपा। अतस्तच्छब्देन तदुभयमत्र विवक्षितम्। तथा चोभयत्र स्थूलशरीरादितत्कारणभूतमायापर्यन्तं सर्वज्ञत्वकिञ्चिज्ज्ञत्वादिविरुद्धधर्महेतुभूतं साक्ष्यत्वादनात्मेति विविच्य तत्परित्यज्य यदुभयत्रानुगतं साक्षिचिन्मात्ररूपमत एव परिच्छेदकाभावात्सर्वसाक्षिभूतं तदेकमेवेत्येवमैक्येन य आत्मानं पश्यति स यथार्थदर्शी॥६०॥

एवं तर्कप्रमाणाभ्यां यः पश्यति स पश्यति॥६१॥
यस्यैवं तर्कमानाभ्यामस्ति विज्ञानमास्तिकाः॥
स लोकादखिलादस्मद्विभिद्याऽऽत्मानमात्मना॥६२॥
अन्नादीनखिलान्कोशानाभासेन विभासितान्॥
उपसंक्रामतीशस्य प्रसादादेव केवलात्॥६३॥

—————————————————————————————————————————————————

रुद्रनारायणादीनामिति॥ ते हि परशिवस्यावतारविशेषा लीलाविग्रहधारिणस्तेषामन्येषां जीवानां च साक्षिभूतं चिन्मात्रमुक्तरीत्या स्वात्मभावेन यः पश्यति स एव ब्रह्मवित्॥ एतेन सच्चिदानन्दरूपस्य परशिवस्य जीवेश्वरोपाधिकृतपरिच्छेदनिरासेन तस्यापरिच्छिन्ननिरतिशयज्ञानानन्दैकरसत्वमुपपादितं भवति॥ यद्यप्येतत्सौत्रपरपदतात्पर्यप्रतिपादकस्य सर्वान्कामानिति मन्त्रभागस्य व्याख्यानरूपत्वादन्ते समाम्नातव्यं तथाऽपि यदेष आकाश आनन्दो न स्यादित्युपन्यस्ततर्कसमर्थनार्थमत्रैव प्रसङ्गादाम्नातमिति द्रष्टव्यम्॥ एवमद्वितीयनिरतिशयनिर्विकारसच्चिदानंदैकरसस्य ब्रह्मणोऽस्तित्वप्रतिपादनादस्ति नास्तीति संशयो निराकृतः॥६१॥ विद्वानपि न प्राप्नोति चेति प्रश्नस्योत्तरभूता श्रुतिः “स य एवं विद्वान् इत्यादिका” ‘एतमानन्दमयमात्मानमुपसंक्रामति’इत्येवमन्ता॥ तदर्थं संगृह्णाति—यस्यैवमिति॥ यस्य खलु विदुष एवमुक्तप्रकारेण निरतिशयानन्दब्रह्मात्मैकत्वज्ञानमस्ति स ब्रह्मवित् दृष्टादृष्टेष्टविषय-समुदायरूपादखिलादास्माल्लेकात्पृथिव्यन्तरिक्षस्वर्गादिभेदभिन्नादनात्मप्रपञ्चादात्मानमात्मना बुद्ध्या विविच्यान्नमयात्मा भूत्वा पुनरपि विवेकेनाऽऽन्तरं प्राणमयाद्यात्मानमवलम्ब्य चिदाभासेन भासितस्य बाह्यस्यान्नमयादेरनात्मत्वं जानानोऽन्नमयादिपञ्चकोशेभ्योऽप्यान्तरं सर्वजगत्कल्पनास्पदं सत्यज्ञानानन्तानन्दैकरसं ‘ब्रह्म पुच्छं प्रतिष्ठा’ इति सर्वाधारत्वेन यन्निर्दिष्टं ब्रह्म तदुपसंक्रामति। साधकः परशिवार्पणबुद्ध्याऽनुष्ठितैर्यज्ञदानादिभिः प्रीणितस्य परमेश्वरस्य प्रसादेन विद्योदये सति भेदहेतोरविद्याया निवृत्तेस्तत्कृतभेदभ्रमनिरासात्सर्वगतत्वेन नित्यप्राप्तमपि ब्रह्म कण्ठगतचामीकरन्यायेन पुनः प्राप्नोतीत्यर्थः॥ एवं च विद्वानेव प्राप्नोतीति प्रतिपादनादविदुषोऽपि ब्रह्मप्राप्तिरस्ति वा न वेति प्रश्नोऽपि निराकृतो वेदितव्यः॥६२-६३॥

यतो वाचो निवर्तन्ते निमित्तानामभावतः।
निर्विशेषे शिवे शब्दः कथं देवाः प्रवर्तते॥६४॥
विशेषं कंचिदाश्रित्य खलु शब्दः प्रवर्तते।
यस्मादेतन्मनः सूक्ष्मं व्यावृत्तं सर्वगोचरम्॥६५॥

—————————————————————————————————————————————————

एवं वेदनमात्राद्ब्रह्मप्राप्तिप्रतिपादनेन ‘ब्रह्मविदाप्नोति’ इति सूत्रवाक्यभागस्तद्व्याख्यानरूपो “यो वेद सोऽश्नुते” इति मन्त्रभागश्च व्याख्यातो भवति। अद्वितीयनिरतिशयानन्दाभयब्रह्मप्राप्तिर्ज्ञानमात्रसाध्येत्यस्मिन्स्वप्रतिपादितेऽर्थे श्रुतिः संवादार्थं कञ्चिन्मन्त्रमुदाजहार। स चैवमाम्नातः—“यतो वाचो निवर्तन्ते, अप्राप्य मनसा सह। आनन्दं ब्रह्मणो विद्वान्न बिभेति कुतश्चन” इति तत्संगृह्णाति—यत इति। यतो यस्मादुक्तलक्षणादत्यन्तनिर्विकल्पकाद्ब्रह्मणः सकाशाद्वाचो निवर्तन्ते। अभिधातुमशक्ताः परावर्तन्त इत्यर्थः। कुत इत्यत आह—निमित्तानामिति। जात्यादीनि हि शब्दानां प्रवृत्तिनिमित्तानि तेषां प्रवृत्तिनि-मित्तानां ब्रह्मण्यभावादित्यर्थः। एतदेवोपपादयति—निर्विशेष इति। यस्मात्, “अस्थूलमनण्वह्रस्वम्” इत्यादिश्रुत्या ब्रह्म निर्विशेषमवगम्यते। अतस्तथाविधे जात्यादिसकलधर्मरहिते कथमभिधावृत्त्या शब्दः प्रवर्तते। नैव प्रवर्तितुं शक्नोतीत्यर्थः॥६४॥ विशेषं कंचिदिति। अभिधेयगतं कंचिद्विशेष प्रवृत्तिनिमित्त-त्वेनोपादायैव हि लोके शब्दः प्रवर्तते। अतस्तद्रहिते ब्रह्मणि शब्दप्रवृत्तिरयुक्तेत्यर्थः। सूक्ष्मं सूक्ष्मार्थग्राहकम्। सर्वेन्द्रियसहकारितया सर्वविषयगोचरमन्तः करणमपि स्ववृत्तिभिः सह यस्मान्निर्विकल्पकाद्ब्रह्मणो व्यावृत्तं निवृत्तम्। ननु तन्निरस्तसमस्तोपाधिकं वाङ्मनसातीतं चेत्तत्सद्भावावेदकप्रमाणाविषयत्वान्नरशृङ्गदसदेव स्यात्। नैष दोषः। अविषयस्यापि तस्य लक्षयितुं शक्यत्वात्। तथा हि सत्यज्ञानादिवाक्यं तावल्लोकसिद्धसत्यादिप्रतिपादनद्वारा यथोदीरितनिर्विशेषं ब्रह्म विधिमुखेन लक्षणया प्रतिपादयति। “अथात आदेशो नेति नेति” इत्यादिकं तु व्यतिरिक्तसकलनिषेधेन प्रपञ्चव्यतिरेकावच्छिन्नं तद्व्यतिरेकमुखेनाभिदधत्तद्व्यतिरेकविनिर्मुक्तं तत्स्वरूपं लक्षयति। न चेदृशस्य वेदान्तवाक्यस्याज्ञातज्ञापकत्वेनोत्पत्तिविधिरूपत्वाद्विधौ लक्षणा न

यस्माच्छ्रोत्रत्वगक्ष्यादिखानि कर्मेन्द्रियाणि च।
व्यावृत्तानि पराग्वस्तुविषयाणि सुरोत्तमाः॥६६॥
तद्ब्रह्माऽऽनन्दमद्वंद्वं निर्गुणं सत्यचिद्घनम्।
विदित्वा स्वात्मरूपेण न बिभेति कुतश्चन॥६७॥

—————————————————————————————————————————————————

न्याय्येति स्थितेस्तत्र लक्षणा न युक्तेति वाच्यम्। प्रतिनियतवाच्यार्थत्यागेन विधौ लक्षणास्वीकारे लक्ष्यार्थस्यानियतत्वादनेकत्वेन संदेहः स्यादित्यभिप्रायेण हि विधौ लक्षणा न न्याय्येत्युच्यते। यत्र तु मुखान्तरेण संदेहो निवार्यते तत्र विधावपि लक्षणा न दुष्यति। यथाऽर्धमन्तर्वेद्यर्धं बहिर्वेदीति। एवमत्रापि व्यतिरिक्तसकलनिषेधादनेकत्वसंदेहाभावात्परिशेषेण तस्यैव लक्ष्यत्वसिद्धेर्विधावपि लक्षणा न दुष्टा। न च लक्ष्यत्वविशिष्टस्यैव ग्रहणान्निरुपाधिकस्य शब्दाविषयत्वमिति मन्तव्यम्। लक्ष्यत्वस्योपलक्षणत्वेन ग्राह्यकोटावननुप्रवेशात्। अतोऽत्र वागविषयत्वोक्तिरभिधावृत्त्यभिप्राया। अत एवोपनिषदे-कवेद्यत्वमप्याम्नातम् “तं त्वौपनिषदं पुरुषं पृच्छामि” इति। विधिनिषेधमुखवाक्यद्वैविध्यात्तज्जनिता ब्रह्माकारमनोवृत्तिरपि द्वेधा भवति। तत्र विधिरूपवाक्यजनिता मनोवृत्तिः स्वोपादानबलेन निरुपाधिकं ब्रह्म विषयीकुर्वतीतदवगमयति। न चैतावता निरुपाधिकस्य मनोवृत्यविषयत्वभङ्गः। मनोवृत्तेरेवोपाधेः सद्भावेनास्य सोपाधिकत्वात्। नाप्यवस्तुत्वम्। उपाधेरुपलक्षणत्वेन विषयकोटावननुप्रवेशात्। एवं विधिनिषेधमुखेन प्रवृत्तवाक्यजनितमनोवृत्तिरपि समस्तोपाधिव्यतिरेकावच्छिन्नं तद्ब्रह्म गोचरयन्ती तदवच्छेदकं व्यतिरेकं स्वात्मानं च कतकरजोन्यायेन निवर्तयति। एतदेवाभिप्रेत्याऽऽम्नायते—“मनसैवेदमाप्तव्यम्” इति। एवमुक्तरीत्योपाधिसंस्पर्शविधुरस्य निरस्तसमस्तोपाधि-कस्यात्यन्तनिर्विकल्पकस्य वाङ्मनसातीतत्वं सिद्धम्॥६५॥ पराग्वस्तुविषयाणीति। पराग्वस्तूनीदंकारास्पदानि शब्दादीनि विषयो येषां तानि तथोक्तानि। तथात्वं च कठैराम्नायते—“पराञ्चि खानि व्यतृणत्स्वयंभूः” इति॥६६॥ इत्थं यद्ब्रह्म वाङ्मनसातीतं तदद्वंद्वमद्वितीयं शीतोष्णादिसकलद्वंद्वनिर्मुक्तं च। अत एव निर्गुणं सत्यज्ञानानन्दैकरसमेवंरूपं ब्रह्म स्वात्मभावेन विदित्वा। ननु कथं तस्य वेदनं संभवति बुद्ध्यविषयत्वात्। नैष दोषः। व्यतिरेकावच्छिन्नं

एवं यस्तु विजानाति स्वगुरोरुपदेशतः।
स साध्वसाधुकर्मभ्यां सदा न तपति प्रभुः॥६८॥
तप्यतापकरूपेण विभातमखिलं जगत्।
प्रत्यगात्मतया भाति ज्ञानाद्वेदान्तवाक्यजात्॥६९॥
कर्ता करयिता कर्म करणं कार्यमास्तिकाः।
सर्वमात्मतया भाति प्रसादात्पारमेश्वरात्॥७०॥
प्रमाता च प्रमाणं च प्रमेयं प्रमितिस्तथा।
सर्वमात्मतया भाति प्रसादात्पारमेश्वरात्॥७१॥
नियोज्यश्च नियोगश्च साधनानि नियोजकः।

————————————————————————————————————————————————

तद्विषयीकुर्वता मनसाऽदूरविप्रकर्षेण व्यवस्थापयितुं शक्यत्वस्योपपादितत्वात्। एवं ज्ञानेनाद्वितीयनिष्प्रपञ्चस्वप्रकाशचिदानन्दब्रह्मात्मभावेनावस्थितो विद्वान्कस्माच्चिदपि न बिभेति। भयहेतोः स्वातिरिक्तस्य द्वितीयस्य वस्तुनोऽभावात्। चनशब्दोऽप्यर्थे श्रुतौ॥६७॥ उक्तब्रह्मविदो यत्फलमाम्नातम् “एतँह वा न तपति किमहँ साधु नाकरवं किमहं पापमकरवम्” इति तदर्थं संगृह्णाति—एवमिति। योऽयमुक्तरीत्या गुरूपदेशक्रमेणाद्वितीयब्रह्मात्मवित्स ब्रह्मीभूतोऽकृतेन साधुकर्मणा पुण्येन कृतेन वाऽसाधुकर्मणा पापेन न तपति। स्वात्मानमिति शेषः। मूलाज्ञाननिवृत्त्या तद्विलसितस्य क्रियाकारकफलात्मकस्य प्रपञ्चस्यापि बाधितत्वात्। अज्ञानी हि मुमूर्षावस्थायां यज्ञदानादिशुभकर्माकरणात्स्वर्गाद्यप्राप्तिं स्वकृतपापफलनरकप्राप्तिं च मनसा समालोकयंस्ताभ्यां बिभेति। ज्ञानी तु भाविजन्मापादककर्मसंचयस्य ज्ञानाग्निना दग्धत्वाद्भाविजन्माभावेन न तपतीत्यर्थः॥६८॥ ‘स य एवं विद्वानेते आत्मानं स्पृणुते’ इति वाक्यस्यार्थमाह—तप्यतापकेति। तप्यस्तपिक्रियाविषयो भोक्तृप्रपञ्चः। तापकानि साध्वसाधुकर्मादीनि। एवं द्वैविध्येनावस्थितमपि सर्वं जगदद्वितीयब्रह्मात्मैकत्वज्ञानाद्विदुषः स्वस्वरूपतयैव भाति न तु स्वातिरिक्तं किंचित्पश्यति येनासौ तप्येत॥६९॥ अत्यल्पमिदमुच्यते क्रियाकारकलक्षणः

सर्वमात्मतया भाति प्रसादात्पारमेश्वरात्॥७२॥
भोक्ता भोजयिता भोगो भोगोपकरणानि च।
सर्वमात्मतया भाति प्रसादात्पारमेश्वरात्॥७३॥
ग्राहकश्च तथा ग्राह्यं ग्रहणं सर्वतोमुखम्।
सर्वमात्मतया भाति प्रसादात्पारमेश्वरात्॥७४॥
अन्यथाज्ञानमज्ञानं संशयज्ञानमेव च।
सर्वमात्मतया भाति प्रसादात्पारमेश्वरात्॥७५॥
घटज्ञानं पटज्ञानं कुड्यादिज्ञानमेव च।
सर्वमात्मतया भाति प्रसादात्पारमेश्वरात्॥७६॥
घटः कुड्यं कुसूलं च पटः पात्रं च पर्वतः।
सर्वमात्मतया भाति प्रसादात्पारमेश्वरात्॥७७॥
पातालाद्याश्च लोकाश्च सत्यलोकादयोऽपि च।
सर्वमात्मतया भाति प्रसादात्पारमेश्वरात्॥७८॥
ब्रह्माण्डं तत्र क्लृप्तानामण्डानां शतकोटयः।
सर्वमात्मतया भाति प्रसादात्पारमेश्वरात्॥७९॥
समुद्राश्च तटाकाश्च नद्यः सर्वनदा अपि।
सर्वमात्मतया भाति प्रसादात्पारमेश्वरात्॥८०॥
मेरुमन्दरपूर्वाश्च पर्वताश्च महत्तराः।
सर्वमात्मतया भाति प्रसादात्पारमेश्वरात्॥८१॥
वनानि वनदेशाश्च वन्यानि विविधानि च।
सर्वमात्मतया भाति प्रसादात्पारमेश्वरात्॥८२॥
वृक्षाश्च विविधाः क्षुद्रतृणगुल्मादयोऽपि च।

सर्वमात्मतया भाति प्रसादात्पारमेश्वरात्॥८३॥
आकाशादीनि भूतानि भौतिकान्यखिलान्यपि।
सर्वमात्मतया भाति प्रसादात्पारमेश्वरात्॥८४॥
शब्दस्पर्शादितन्मात्ररूपाणि सकलानि च।
सर्वमात्मतया भाति प्रसादात्पारमेश्वरात्॥८५॥
कृमिकीटपतङ्गाश्च क्षुद्रा अपि च जन्तवः।
सर्वमात्मतया भाति प्रसादात्पारमेश्वरात्॥८६॥
पशवश्च मृगाश्चैव पन्नगाः पापयोनयः।
सर्वमात्मतया भाति प्रसादात्पारमेश्वरात्॥८७॥
मनुष्याश्चैव मातङ्गा अश्वा उष्ट्राः खरा अपि।
सर्वमात्मतया भाति प्रसादात्पारमेश्वरात्॥८८॥
यक्षराक्षसगन्धर्वप्रमुखाः सिद्धकिन्नराः।
सर्वमात्मतया भाति प्रसादात्पारमेश्वरात्॥८९॥
कर्मदेवाश्च देवाश्च देवराजो विराट्स्वराट्।
सर्वमात्मतया भाति प्रसादात्पारमेश्वरात्॥९०॥
अहं च मद्विभूतिश्च मम भक्ताश्च देहिनः।
सर्वमात्मतया भाति प्रसादात्पारमेश्वरात्॥९१॥
विष्णुर्विष्णुविभूतिश्च विष्णुभक्ताश्च देहिनः।
सर्वमात्मतया भाति प्रसादात्पारमेश्वरात्॥९२॥
रुद्रो रुद्रविभूतिश्च रुद्रभक्ताश्चदेहिनः।
सर्वमात्मतया भाति प्रसादात्पारमेश्वरात्॥९३॥
ईश्वरस्तद्विभूतिश्च तदीयाः सर्वदेहिनः।

सर्वमात्मतया भाति प्रसादात्पारमेश्वरात्॥९४॥
सदाशिवसमाख्यस्तु शिवस्तस्य विभूतयः।
सर्वमात्मतया भाति प्रसादात्पारमेश्वरात्॥९५॥
दिशश्च विदिश्चैव साभ्रं नक्षत्रमण्डलम्।
सर्वमात्मतया भाति प्रसादात्पारमेश्वरात्॥९६॥
वासुदेवः संकर्षणः प्रद्युम्नश्चानिरुद्धकः।
सर्वमात्मतया भाति प्रसादात्पारमेश्वरात्॥९७॥
मत्स्यः कूर्मो वराहश्च नारसिंहोऽथ वामनः।
तद्भक्ताश्च तथा भान्ति प्रसादात्पारमेश्वरात्॥९८॥
आश्रमाश्च तथा वर्णाः संकरा विविधा अपि।
सर्वमात्मतया भाति प्रसादात्पारमेश्वरात्॥९९॥
निषिद्धं चानिषिद्धं च निषेधा विधयोऽपि च।
सर्वमात्मतया भाति प्रसादात्पारमेश्वरात्॥१००॥
शरीरमिन्द्रियं प्राणो मनो बुद्धिरहंकृतिः।
सर्वमात्मतया भाति प्रसादात्पारमेश्वरात्॥१०१॥
कामक्रोधादयः सर्वे तथा शान्त्यादयोऽपि च।
सर्वमात्मतया भाति प्रसादात्पारमेश्वरात्॥१०२॥
जीवात्मा परमात्मा च तयोर्भेदश्च भेदकः।
सर्वमात्मतया भाति प्रसादात्पारमेश्वरात्॥१०३॥
जडशक्तिप्रभेदाश्च चिच्छक्तिस्तद्भिदाऽपि च।
सर्वमात्मतया भाति प्रसादात्पारमेश्वरात्॥१०४॥
अस्तिशब्दोदिता अर्था नास्तिशब्दोदिता अपि।

सर्वमात्मतया भाति प्रसादात्पारमेश्वरात्॥१०५॥
आत्मा नाम सुराः स्वेन भासा यो भाति संततम्।
तमेव त्वमहंशब्दप्रत्ययाभ्यां तु जन्तवः॥१०६॥
व्यवहारे विजानन्ति न जानन्त्येव तेऽर्थतः।
अर्थतश्चास्य वेत्तारो न विद्यन्तेऽद्वयत्वतः॥१०७॥
एवमात्मानमद्वैतमात्मना वेद यः स्थिरम्।
सोऽयमर्थमिमं नित्यं गायन्नास्ते स्वभावतः॥१०८॥

————————————————————————————————————————————————

सर्वोऽपि प्रपञ्चः स्वात्ममात्रतयैव तस्य भातीत्याह—कर्तेत्यादिना॥७०—१०५॥ नन्वेवंविधं सर्वं जगद्विदुषः स्वात्मतया प्रतीयते चेदात्मनः सविशेषत्वापत्तिरित्याशङ्क्याऽऽह—आत्मा नामेति। स्वस्मिन्नारोपितप्रपञ्चस्य भासकं साधनान्तरनिरपेक्षेण स्वयमेत्र प्रकाशमानं यत्साक्षिचिन्मात्रं स एवाऽऽत्मा साक्ष्यं तु जगदध्यस्तत्वाच्छुक्तिरूप्यवन्मिथ्याभूतमित्यर्थः। नन्वेवमात्मा यदि स्वयंप्रका-शस्तर्हि विदुषामिवाविदुषामप्यसौ प्रकाशमान एवेत्ययत्नत एव सर्वे मुच्येरन्नित्यत आह—तमिति। स्वप्रकाशमपि तं त्वमहमिति शब्देन तदर्थविषयमनोवृत्त्या चाहंकारवैशिष्ट्येनैव जानन्ति लौकिकाः परमार्थतो निरस्तसमस्तोपाधिकमद्वितीयं चिन्मात्रस्वरूपं नैव जानन्ति॥१०६॥ अद्वयत्वत इति। अद्वितीयत्वादेवास्यात्मनः परमार्थतो वेदितारो नैव विद्यन्ते। वेदनस्य प्रमातृप्रमाणादिभेदसापेक्षत्वात्॥१०७॥ तर्हि विद्वानपि कथं तं वेदेत्यत आह—एवमिति। एवमुक्तप्रकारेण श्रवणादिसाधनजनितया निरस्तसमस्तोपाधिकब्रह्मात्मविषयमनोवृत्त्याऽऽवरणज्ञानापनयने सत्यद्वितीयमात्मानं स्वरूपप्रकाशेनैव विद्वान्साक्षात्करोति। एवं विदुषो यज्ज्ञानं प्रदर्शितं श्रुतौ “एतत्साम गायन्नास्ते” इत्यादिना “सुवर्न ज्योतीः” इत्यन्तेन तदन्वयप्रयोजनकथनेनोपपादयति—सोऽयमित्यादिना। “हा^(३)वु हा^(३)वु हा^(३)वु” इत्यादि “सुवर्न ज्योतीः” इत्यन्तं साम। तस्य चायमर्थः। यदेतावन्तं कालं भोक्तृभोग्यभोगप्रदरूपं जगद्विभक्तमासीत्तत्सर्वमहमेव न मत्तोऽन्यत्किंचिदस्ति। अहो इदं महदाश्चर्यं स्वप्रकाशचिल्लक्षणपरमज्योतीरूपोऽहमेव तत्सर्वमभिभवा-

यथा नर्तनमीशस्य स्वभावाल्लोकरक्षकम्।
तथा विद्या विनोदाख्या गीतिर्लोकोपकारिणी॥१०९॥
यथैवाऽऽदिगुरोर्गीतिर्लोकानां हितकारिणी।
तथैवास्य गुरोर्गीतिर्लोकानां हितकाम्यया॥११०॥
आप्तकामस्य रुद्रस्य गीतिर्व्याख्यानलक्षणा।
परोपकारिणी तद्वद्गीतिरस्यापि सद्गुरोः॥१११॥
लौकिकेष्वपि गानेषु प्रसादं कुरुते शिवः।
किं पुनर्वैदिके गाने ततो गानं समाश्रयेत्॥११२॥
व्याख्यागानेष्वशक्तस्तु शिवमुद्दिश्य भक्तितः।
लौकिकीमपि वा गीतिं कुर्यान्नित्यमतन्द्रितः॥११३॥
गीतिज्ञानं शिवप्राप्तेः सुतरां कारणं भवेत्।
गीतिज्ञानेन योगः स्याद्योगादेव शिवैक्यता॥११४॥
गीतिज्ञो यदि योगेन न याति परमेश्वरम्।
प्रतिबन्धकबाहुल्यात्तस्यैवानुचरो भवेत्॥११५॥
केवलं लौकिकं गानं न कुर्यान्मोहतोऽपि वा।

—————————————————————————————————————————————————

मीति तत्साम गायन्निममर्थमनुसंदधानो विद्वान्विक्षेपहेतोरभावादव्याकुलमास्त इत्यर्थः॥१०८॥ एतद्दृष्टान्तेनोपपादयति—यथेति॥१०९॥ परमेश्वरनर्तनद्विद्वद्विज्ञानमपि लोकरक्षाहेतुरित्युपपाद्य परतत्त्वप्रतिपत्त्युपायतामपि तस्य दृष्टान्तेनोपपादयति—यथैवेति। आदिगुरोः परमेश्वरस्य। कर्तरि षष्ठी। तत्कर्तृका गीतिः। परतत्त्वव्याख्यानरूपा या ईश्वरगीतेति कूर्मपुराणे प्रसिद्धा सा यथा परतत्त्वोपदेशेन गीतिर्लोकोपकारिण्येवमस्य विदुषो गीतिरपि परतत्त्वप्रतिपादनेन जगदनुग्रहायेत्यर्थः॥११०॥१११॥ नन्वयमुपदेशो वाक्यान्तरादपि प्रसिद्ध इति विदुषो गान्मयुक्तमित्यत आह-लौकिकेष्विति॥११२॥ व्याख्यागानेष्विति। संस्कृतशब्दरूपं गद्यपद्यात्मकं व्याख्यागानम्। तत्तद्दे-

यदि कुर्यात्प्रमादेन प्रायश्चित्ती भवेद्द्विजः॥११६॥
अतः स्वसंसारविनाशने रतः श्रुतिप्रमाणेन च
तर्कवर्त्मना। प्रबोधमासाद्य शिवस्य तं पुनः
सदैव गायन्विचरेदिमां महीम्॥११७॥
इत्युपनिषत्परतत्त्वविषया वः सत्यमुदिता
सकलदुःखनिहन्त्री॥ कष्टहृदयस्य मनुजस्य न
देया भक्तिसहितस्य तु शिवस्य खलु देया॥११८॥

इति श्रीस्कान्दपुराणे सूतसंहितायां चतुर्थस्य यज्ञवैभवख-
ण्डस्योपरिभागे ब्रह्मगीतासु साक्षिशिवस्वरूपकथनं
नाम तृतीयोऽध्यायः॥३॥

अथ चतुर्थोऽध्यायः।

४. तलवकारोपनिषद्व्याख्यानम्।

ब्रह्मोवाच—

अस्ति देवः स्वतः सिद्धः साक्षी सर्वस्य सर्वदा।
संसारार्णवमग्नानां साक्षात्संसारमोचकः॥१॥

_________________________________________________________________________

शीयभाषया परमेश्वरविषया गीतिर्लौकिकी॥११३—११६॥ श्रुतीत्युपनिषदिति॥११७॥ यदिदं ब्रह्मविद्यानिगमनं तत्संगृह्णाति—इतीति। अनेन यथोक्तप्रकारेण परतत्त्वविषयोपनिषदुपदिष्टा। उपनिषन्नाम ब्रह्मविद्या। प्रत्यगात्मानं निरस्तसमस्तोपाधिकं ब्रह्मोपनीय भेदभ्रमहेतुभूतमविद्यातत्कार्यं निवर्तयतीति तच्छब्दव्युत्पत्तेः। उक्तं ह्याचार्यैः—“उपनीयेममात्मानं ब्रह्मापास्तद्वयं स्वतः। निहन्त्यविद्यां तज्जं च तस्मादुपनिषन्मता” इति॥११८॥

इति श्रीसूतसंहितातात्पर्यदीपिकायां चतुर्थस्य यज्ञवैभवखण्डस्योपरिभागे
ब्रह्मगीतासूपनिषत्सु साक्षिशिवस्वरूपकथनं नाम तृतीयोऽध्यायः॥३॥

एवमैतरेयकतैत्तिरीयकस्याप्यैदंपर्यं प्रतिपादितम्। अथ सामवेदोपनि-

सर्वेषां तु मनस्तेन प्रेरितं नियमेन तु।
विषये गच्छति प्राणश्चेष्टते वाग्वदत्यपि॥२॥
चक्षुः पश्यति रूपाणि श्रोत्रं शब्दान् शृणोत्यपि।
अन्यानि खानि सर्वाणि तेनैव प्रेरितानि तु॥३॥
स्वं स्वं विषयमुद्दिश्य प्रवर्तन्ते निरन्तरम्।
प्रवर्तकत्वं चाप्यस्य मायया न स्वभावतः॥४॥

—————————————————————————————————————————————————

षदो ब्रह्मात्मैकत्वपरत्वं वक्तुमारभमाणस्तावज्जैमिनिसामशाखोपनिषदर्थं संगृह्णाति चतुर्थेनाध्यायेन। यथोदीरितं ब्रह्मात्मत्वमुपदेशगम्यमेव न तु तर्कगम्यमित्यमुमर्थं द्योतयितुं श्रुत्या प्रश्नप्रतिवचनाभ्यां ब्रह्मोपदिश्यते। “केनेषितं पतति प्रेषितं मनः केन प्राणः प्रथमः प्रैति युक्तः। केनेषितां वाचमिमां वदन्ति चक्षुः श्रोत्रं क उ देवो युनक्ति” इति प्रश्नः “श्रोत्रस्य श्रोत्रं मनसो मनो यद्वाचो ह वाचं स उ प्राणस्य प्राणश्चक्षुषश्चक्षुः" इति प्रतिवचनं तदेतदुभयमर्थतः संगृह्णाति—अस्ति देव इत्यादिना। स्वतः सिद्ध इति सार्वकालिकं पारमार्थिकं सत्यत्वं विवक्षितम्। साक्षीति स्वपरव्यवहारहेतुभूतचित्प्रकाशरूपत्वं साक्ष्यप्रपञ्चानन्तर्भावेन कूटस्थनित्यत्वं च॥१॥ सर्वेषामिति। तेन सर्वसाक्षिणा स्वतन्त्रेण परमेश्वरेण सर्वप्राणिहृदये जीवभावेनानुप्रविश्यावस्थितेनेच्छामात्रात्प्रेरितं प्रवर्तितं सत्स्वविषये मन्तव्ये मनः प्रवर्तते। न च देहेन्द्रियादिसंघात एव तत्प्रेरक इति वाच्यम्। तस्य प्रसिद्धत्वेनोपदेशवैयर्थ्यप्रसङ्गात्। अतस्तदतिरिक्तेन चिन्मात्रज्योतिषा केनचित्प्रेरितमेव मनः स्वविषयं प्रत्याययतीति युक्तमभ्युपगन्तुम्। प्राणापानादिपञ्चवृत्त्यात्मको मुख्यप्राणश्च तेन प्रेरित एव प्राणनादिचेष्टां करोति। तथा सर्वशब्दव्यवहारहेतुभूतं वागिन्द्रियमपि चिन्मात्रस्वरूपेणैतेन प्रेरितमेवाभिवदनरूपं स्वकार्यं करोति। चक्षुः श्रोत्रयोरप्येवं योज्यम्॥२॥ अन्यानीति। उक्तव्यतिरिक्तानि बुद्धीन्द्रियाणि कर्मेन्द्रियाणि चेत्यर्थः। नन्वसङ्गोदासीनस्य कूटस्थनित्यस्य निस्तरङ्गसमुद्रकल्पस्य चिन्मात्रस्वरूपस्याऽऽत्मनः कथमीदृग्विधं प्रेरकत्वं संभवतीत्यत आह—प्रवर्तकत्वमिति। माययेति। मलिनसत्त्वप्रधानमायापरिणाम-रूपदेहोन्द्रियाद्युपा-

इन्द्रियाणां तु सत्ता च नैव स्वाभाविकी मता।
तप्तायःपिण्डवत्तस्य सत्तयैव सुरर्वभाः॥५॥
श्रोत्रमात्मनि चाध्यस्तं स्वयं देवो महेश्वरः।
अनुप्रविश्य श्रोत्रस्य ददाति श्रोत्रतां हरः॥६॥
मन आत्मनि चाध्यस्तं प्रविश्य परमेश्वरः।
मनस्त्वं तस्य सत्त्वस्थो ददाति नियमेन तु॥७॥
वाचो वाक्त्वमनुप्राप्य प्राणस्य प्राणतां हरः।
ददाति नियमेनैव चक्षुष्ट्वं चक्षुषस्तथा॥८॥

—————————————————————————————————————————————————

धिसंपकर्वशेनेत्यर्थः॥३॥४॥ ननु प्रेरक आत्माऽन्यस्ततोन्यत्प्रेर्यं मनआदिकमिति द्वैतापत्तिर्जायेंतेत्यत आह—इन्द्रियाणामिति। मनः प्रभृतीनामिन्द्रियाणां सद्रूपे तस्मिन्नध्यस्तत्वात्तप्तायःपिण्डन्यायेनाधिष्ठान-सत्त्वमेवाऽऽरोपितेषु मनःप्रभृतिषु धर्मत्वेन प्रतिभाति। नच तेषां स्वाभाविकं सत्त्वमस्तीत्यर्थः॥५॥ एवं मनआदिकं यस्येच्छामात्रात्स्वस्वव्यापारे प्रेर्यते स किंरूप इति प्रश्नोऽनुक्तोऽप्यर्थादवगन्तव्यः। अस्य चोत्तरमाह—श्रोत्रमिति। श्रोत्रं तावदितरप्रपञ्चवदृृश्यत्वात्सर्वाधिष्ठानभूते सच्चिन्मात्र आत्मन्यध्यस्तमित्यविवादम्। तच्च श्रूयतेऽनेनेति व्युत्पत्त्या श्रवणसाधनमिन्द्रियमधिष्ठानत्वेन तदनुप्रविश्य स्वप्रकाशचिद्रूपः परशिवस्तस्य श्रोत्रत्वं श्रोत्रस्य श्रवणसाधनसामर्थ्यं प्रयच्छति। सर्वान्तरस्वप्रकाशात्मचैतन्यज्योतिःसमवधानेन हि तत्स्वविषयशब्दाभिव्यञ्जनसमर्थं भवति। अतः श्रोत्रस्यापि श्रवणसामर्थ्यप्रदानात्तथाविधं सर्वान्तरचैतन्यं श्रोत्रस्य श्रोत्रमिति श्रुत्या निर्दिश्यते। एवं मन आत्मनीत्यादावपि योज्यम्॥६॥ सत्त्वस्थ इति। कार्येऽन्तःकरणेऽनुगतं यत्कारणभूतं सत्त्वं तस्य चैतन्य-प्रकाशाभिव्यञ्जनसामर्थ्यात्तनावच्छिन्न इत्यर्थः। मननसामर्थ्ययुक्तं हि मनस्तच्च सामर्थ्यमुदीरितरीत्या तस्य चैतन्येनाऽऽधीयत इति तन्मनसो मन इत्युपदिश्यते॥७॥ वाचो वाक्त्वमिति। स्वात्मन्यध्यस्तं वागिन्द्रियमनुप्राप्य तस्य स्वस्य समवधानेनाभिवदनसामर्थ्यरूपं वाक्त्वं प्रयच्छतीत्यर्थः। तथा स्वात्मन्यध्यस्तस्य पञ्चवृत्तेः

अन्येषामिन्द्रियाणां तु कल्पितानामपीश्वरः।
तत्तद्रूपमनुप्राप्य ददाति नियमेन तु॥९॥
तत्र चक्षुश्च वाक्चैव मनश्चान्यानि खानि च।
न गच्छन्ति स्वयज्योतिः स्वभावे परमात्मनि॥१०॥
स देवो विदितादन्यस्तथैवाविदितादपि।
वाचा च मनसा चैव चक्षुषा च तथैव च॥११॥

—————————————————————————————————————————————————

प्राणस्यापि प्राणनादिक्रियासामर्थ्यरूपं प्राणत्वं प्रयच्छति। अत एवान्यत्राऽऽम्नायते—“ऊर्ध्वं प्राणमुन्नयत्यपानं प्रत्यगस्यति। मध्ये वामनमासीनं विश्वेदेवा उपासते” इति चक्षुष्ट्वं चक्षुषस्तथेति। यथा श्रोत्रस्य श्रोत्रत्वं तथेत्यर्थः॥८॥ श्रोत्राद्याम्नातस्योपलक्षणार्थत्वादनाम्नातेन्द्रियसंग्रहायाऽऽह—अन्येषामिति। एवं श्रोत्रादिपरिकल्पनास्पदं कल्पितानां च तेषां श्रवणादिसामर्थ्यप्रदं सर्वान्तरं चिदेकरसं ब्रह्मेत्युपदिष्टं भवति॥९॥ नन्वीदृशं वस्तु घटादिवद्विविक्ततया स्पष्टं कस्मान्नानुभूयत इतीमामाशङ्कां निरसितुमाम्नायते—“न तत्र चक्षुर्गच्छति न वाग्गच्छति नो मन” इति। तत्संगृह्णाति—तत्रेति। वाक्चेति। शब्दाभिव्यञ्जकमिन्द्रियं तदभिव्यङ्ग्यः शब्दश्चोभयमत्र वाक्शब्देन विवक्षितम्। तस्मादेतानि चक्षुरादीनि ब्रह्मणि माययाऽध्यस्तत्वात्तदात्मकानि। अतः स्वात्मभूते ब्रह्मणि कथं तेषां प्रवृत्तिर्विषयविषयिभावस्य भेदसापेक्षत्वात्। तदविषयत्वसमर्थनायाऽऽह—स्वयं ज्योतिरिति। स्वप्रकाशचिद्रूपस्य सर्वान्तरस्य चक्षुरादिकरणं प्रति साक्षिणस्तद्विषयत्वानुपपत्तिरित्यभिप्रायः॥१०॥ एवं चक्षुरादिसर्वप्रमाणाविषयं परशिवस्वरूपमागमोऽपि कथं प्रत्याययेदित्याशङ्क्य विदिताविदितव्यतिरेकावच्छिन्नं तत्प्रतिपादयितुं शक्यमित्यभिप्रेत्याऽऽम्नायते—“अन्यदेव तद्विदितादथो अविदितादधि” इति। तत्संगृह्णाति—स देव इति। “श्रोत्रस्य श्रोत्रम्” इत्यादिना निर्दिष्टश्रवणादिसामर्थ्यप्रदो यः सर्वान्तरः स्वप्रकाशः साक्षी चिद्रूप आत्मा स विदिताद्विदिक्रिया-फलव्याप्ताद्विषयादन्यो विलक्षणः। तथाऽविदितादज्ञायमानादपि विलक्षणः स्वयंप्रकाशमानत्वात्। एवं विदिता-

श्रोत्रेणापि सुरश्रेष्ठाः प्राणेनान्येन केनचित्।
न शक्यो गोचरीकर्तुं सत्यमेव मयोदितम्॥१२॥
यस्येदमखिलं नित्यं गोचरं रूपवद्रवेः।
तदेव परमं ब्रह्म वित्त यूयं सनातनम्॥१३॥
एवं जानन्ति ये धीरास्तर्कतश्च प्रमाणतः।
गुरूक्त्या स्वानुभूत्या च भवन्ति खलु तेऽमृताः॥१४॥
सुज्ञातमिति तद्ब्रह्म मनुध्वं यदि हे सुराः।

—————————————————————————————————————————————————

विदिताभ्यामन्यत्वेनाऽऽगमप्रमाणात्प्रतिपत्तुं शक्यत इत्यर्थः। एवमात्मन्युपदिष्टेऽपि ततोऽन्यदेव किंचिदुपासनीयं ब्रह्मेति शिष्यशङ्कानिरासार्थमाम्नायते—‘यद्वाचाऽभ्युदितं येन वागभ्युद्यते। तदेव ब्रह्मत्वं विद्धि नेदं यदिदमुपासते। यन्मनसान मनुते येनाऽऽहुर्मनो मतम्। तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते। यच्चक्षुषा न पश्यति येन चक्षूँषि पश्यति। तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते। यच्छ्रोत्रेण न शृणोति येन श्रोत्रमिदं श्रुतम्। तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते। यत्प्राणेन न प्राणिति येन प्राणः प्रणीयते। तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते” इति। तत्संगृह्णाति—वाचा चेति। यद्वागादिभिरिन्द्रियौर्विषयीकर्तुमशक्यं विदिताविदिताभ्यामन्यत्वेन निर्दिष्टं स्वप्रकाशसाक्षिचिद्रूपं यस्य च सर्वान्तरस्याऽऽत्मनश्चित्प्रकाशेन वाङ्मनसाद्यखिलं जगत्सूर्यप्रकाशेन रूपमिव प्रकाश्यते स्वव्यापारे प्रेर्यते च तदेव च सर्वान्तरं ब्रह्म वित्त जानीत नैतस्मादन्यदिदंकारास्पदमित्येवकारार्थः॥११—१३॥ एवमिन्द्रियादिविविक्तस्य तत्साक्षिणः प्रत्यगात्मनो यद्ब्रह्मरूपत्वज्ञानमुपदिष्टं तस्य फलमाम्नायते—“अतिमुच्य धीराः प्रेत्यास्माल्लोकादमृता भवन्ति” इति। तदर्थं ब्रूते। एवमिति। धीरा धीमन्तो विद्वांसः। एवमुक्तप्रकारेण देहेन्द्रियादिकमात्मनो विविच्य ततो विविक्तमद्वितीयब्रह्मात्मतत्त्वं प्रमाणतर्काभ्यां गुरुमुखादधिगम्य मनननिदिध्यासनजनितनिर्विचिकित्ससाक्षात्कारलक्षणेन स्वानुभवेन ये जानन्ति तेऽमृतत्वलक्षणां मुक्तिं प्राप्नुवन्तीत्यर्थः॥१४॥ इत्थं स्वात्मतयोपदिष्टस्य ब्रह्मणोऽवगतिसमये शिष्यस्याहं मां ब्रह्म जानामीति

दभ्रमेव हि तत्साक्षि ब्रह्म वेद्यं कथं भवेत्॥१५॥
यस्य स्वात्मतया ब्रह्म विदितं कर्मतां विना।
तस्य तज्ज्ञानकर्तृत्वविहीनस्य मतं हि तत्॥१६॥
यस्यामतं तस्य मतं मतं यस्य न वेद सः।
अविज्ञातं विजानतां विज्ञातमविजानताम्॥१७॥

—————————————————————————————————————————————————

कर्मकर्तृभावलक्षणभेदावभासस्यावस्तुविषयत्वं प्रतिपादयितुं तथाविधभेदविनिर्मुक्तमखण्डैकरसं ब्रह्मात्मतत्त्वं स्वरूपप्रकाशेनैव ज्ञापयितुं च गुरुशिष्यकृतोक्ति प्रत्युक्तिरूपेण श्रुतिः प्रवदते—“यदि मन्यसे सुवेदेति दभ्रमेवापि नूनम्। त्वं वेत्थ ब्रह्मणो रूपम्” इति गुरुवाक्यम्। “नाहं मन्ये सुवेदेति नो न वेदेति वेद च” इति तत्प्रतिवचनरूपं शिष्यवाक्यम्। तदेतद्वाक्यद्वयाभिप्रेतमर्थं संगृह्य ब्रह्मा देवान्प्रत्युपदिशति—सुज्ञातमिति। हे देवा यूयं तत्स्वात्मभूतं ब्रह्मं सुज्ञातं सुष्ट्वस्माभिर्बुद्धिवृत्त्या विषयीकृतमिति यदि जानीथ तथाऽवच्छिन्नस्वभावं तद्ब्रह्म बुद्धिवृत्तिपरिच्छेदाद्दभ्रमल्पमेव भवेत्। तथा च वस्तुगोचरमेतज्ज्ञानं स्यादित्यर्थः। तथाविधबुद्धिवृत्तेः साक्षित्वेन भासकं तद्ब्रह्म कथं तत्प्रकाश्यं भवेत्। अतः स्वप्रकाशसाक्षिरूपस्य ब्रह्मणो वेधत्वासंभवाबुद्धिवृत्तिवेद्यं सोपाधिकमेव रूपं न तु निरुपाधिकमिति वेद्यस्य दभ्रत्वम्॥१५॥ यस्य खलु तद्ब्रह्म विदिक्रियाजन्यफलभागित्वमन्तरेणैव स्वात्मतया प्रत्यक्साक्षिरूपेण विदितं स्वरूपप्रकाशेनैव भातं भवति स च प्रकाशो नित्य इति तं प्रति कर्तृत्वमपि नास्ति तस्य विदुषस्तदनवच्छिन्नं निरस्तसमस्तोपाधिकं ब्रह्म ज्ञातं भवति॥१६॥ शिष्याचार्यसंवादेन निर्णीतमर्थं श्रुतिरवधारयति—“यस्यामतं तस्य मतं मतं यस्य न वेद सः। अविज्ञातं विजानतां विज्ञातमविजानताम्” इति तां संगृह्णाति—यस्येति। यस्य साधकस्य तत्स्वात्मभूतं ब्रह्मामतं मनोवृत्त्याऽविषयीकृतं केवलस्वरूपप्रकाशेनैव प्रकाशितं तस्य तद्ब्रह्म मतं ज्ञातं भवति यस्य तु तद्ब्रह्म मतं मनसा विषयीकृतं नासौ तज्जानाति। तस्मात्तद्ब्रह्म वयं जानीम इति बुद्धिवृत्तिविशिष्टरूपेण जानतामनवगतमेव भवति। बुद्धिवृत्त्यवैशिष्ट्येन जानतां तु स्वरूपप्रकाशेनैव तज्ज्ञातं

ब्रह्मज्ञाने घटज्ञाने भ्रान्तिज्ञानेऽपि चाऽऽस्तिकाः।
नैव कर्तृ न कर्मापि ब्रह्म चित्केवलं भवेत्॥१८॥
यस्य कर्तृतया भातं ब्रह्माकर्तृ सुरोत्तमाः।
तस्य ब्रह्मामतं यस्मात्कर्तृ तस्य मतं हि तत्॥१९॥
यस्य कर्मतया भातं ब्रह्माकर्म सुरोत्तमाः।
तस्य ब्रह्मामतं यस्मात्कर्म तस्य मतं हि तत्॥२०॥
अकर्त्रविषयप्रत्यक्प्रकाशः स्वात्मनैव तु।
विना तर्कप्रमाणाभ्यां ब्रह्म यो वेद वेद सः॥२१॥
एवंरूपपरिज्ञानमपि दृश्यतयैव तु।
यस्य भाति स तत्साक्षी ब्रूत ब्रह्मात्मवित्कथम्॥२२॥
ब्रह्मविद्याऽपि जाता चेद्वेद्या भवति कुम्भवत्।
अवेद्यं ब्रह्म वेद्यं स्याद्वेद्यविद्याभिसंगमात्॥२३॥
वेत्ताऽपि विद्यासंबन्धात्सविशेषो भवेद्ध्रुवम्।
निर्विशेषं परं ब्रह्म ततो विद्वान्न चाऽऽत्मवित्॥२४॥
विद्याया आश्रयत्वेन विषयत्वेन वा भवेत्।
ब्रह्म नैवान्यथा तत्र ब्रह्म ब्रह्म भवेत्कथम्॥२५॥

—————————————————————————————————————————————————

भवतीत्यर्थः॥१७॥ ननु यस्य खल्वमतं कथं तस्य तन्मतं स्यात्परस्परविरुद्धत्वादित्याशङ्क्य मतशब्दस्योदीरितार्थप्रतिपादनं समर्थयितुमाम्नायते। ‘प्रतिबोधविदितं मतम्’ इति। बुद्धिवृत्तयो बोधाः सर्वास्वपि वृत्तिषु तद्भासकसाक्षिरूपेणावस्थितमनुगतं स्वप्रकाशचैतन्यं प्रकाशाव्यभिचारान्मतमित्युच्यत इति श्रुतेरित्यर्थमर्थतः संगृह्णाति—ब्रह्मति। यदेतच्छ्रवणमननादिसाधनजनितनिरस्तसमस्तोपाधिकपरमार्थसद्ब्रह्मविषयं ज्ञानं यच्च व्यावहारिकसत्यघटादिविषयं चक्षुरादीन्द्रियसंप्रयोगजनितं ज्ञानं यच्च प्रातीतिकसत्यशुक्तिरूप्यादिविषयं भ्रान्तिज्ञानं तेषु सर्वेषु वृत्तिज्ञानेषु निरुपाधिकं स्वात्मभूतं चिदेकरसं ब्रह्माविक्रिय-

ब्रह्मसंबन्धहीना चेद्विद्या ब्रह्म तु वेदितुम्।
अशक्यं तत्र हे देवाः को वा ब्रह्मात्मविद्भवेत्॥२६॥
ब्रह्मण्यध्यस्तमायादिनिवृत्तिं कुरुते तु सा।
विद्या यदि न मायायाः प्रत्यगात्मन्यसंभवात्॥२७॥
प्रत्यगात्मा परं ज्योतिर्माया सा तु महत्तमा।
तथा सति कथं मायासंभवः प्रत्यगात्मनि॥२८॥

—————————————————————————————————————————————————

त्वात्कर्त्रपि न भवति नापि कर्म किंतु तस्य सर्वस्य साक्षित्वेन भासकं स्वप्रकाशज्ञानमेव केवलं भवेदित्यर्थः॥१८—२५॥ एतदेव ब्रह्मणः कर्तृकर्मभावराहित्यमुपपादयति—ब्रह्मसंबन्धेति। न तावदविक्रियस्यासङ्गस्य ब्रह्मणो विद्यां प्रत्याश्रयत्वं विषयत्वं वा संभवति। तथाविधधर्मत्वेनैव परिच्छेदादपरिच्छिन्नार्थप्रतिपादकब्रह्मशब्दाभिधेयत्वमेव तस्य हीयेत। अतोऽपरिच्छिन्नस्य केनचिदपि पारमार्थिकः संबन्धो दुर्निरूप इति विद्या परमार्थतो ब्रह्मसंबन्धरहितैवेत्यङ्गीकार्यम्। सा चेदेवंविधा तथा सति तथा विद्यया ब्रह्म वेदितुमशक्यम्। विदिक्रियाजन्यफलभागित्वाद्वेद्यत्वस्य स्वयमेव तथाविधफलात्मके ब्रह्मण्युदीरितक्रियाफलभागित्वासंभवादनुपयोगाच्च। न हि परमार्थतो निरस्तसमस्तोपाधिकस्य स्वयंप्रकाशमानस्यानाधेयातिशयस्य विद्यया कश्चिदुपयोगोऽस्ति येन तज्जन्यफलभागितया तद्वेद्यता स्यात्। तत्रैवमवेद्यत्वे सति को नाम ब्रह्मात्मविद्भवेत्। कर्मत्वकर्तृत्व-लक्षणधर्मसंबन्धसव्यपेक्षत्वाद्ब्रह्मात्मवित्त्वस्य। अतो विद्वान्सकलोपाधिव्यतिरेकावच्छिन्नतया तत्स्वात्मभूतं ब्रह्म साक्षात्कुर्वन्वाङ्मनसातीतं स्वप्रकाशं ब्रह्मैव केवलं भवेन्न तु ब्रह्मात्मविदित्यर्थः॥२६॥ एवं स्वप्रकाशे ब्रह्मणि विद्यया प्रकाशजनकत्वासंभवेऽपि तत्स्वरूपावरणाविद्यानिवृत्तिजननद्वारा तत्संबन्धमाशङ्क्य निरस्यति—ब्रह्मणीति। प्रत्यक्त्वेन साक्षात्कृते परमार्थतो निरविद्ये ब्रह्मणि मायातत्कार्यसंस्पर्शासंभवादविद्यानिवृत्त्यर्था विद्येत्येतदपि न विचारसहमित्यर्थः॥२७॥ एतदेवोपपादयति—प्रत्यगिति। सूर्यादीनि प्रसिद्धानि ज्योतींषि तेषामपि चित्प्रकाशाभिसंबन्धबलेनैव प्रकाशकत्वमिति तथाविधस्वप्रकाशचिदात्मा परं ज्योतिः। श्रूयते हि —“येन सूर्य-

तस्मात्तर्कप्रमाणाभ्यां स्वानुभूत्या च चिद्धने।
स्वप्रकाशैकसंसिद्धेर्नास्ति माया परात्मनि॥२९॥
व्यावहारिकदृष्ट्येयं विद्याऽविद्या न चान्यथा।
तत्त्वदृष्ट्या तु नास्त्येव तत्त्वमेवास्ति केवलम्॥३०॥
व्यावहारिकदृष्टिस्तु प्रकाशाव्यभिचारतः।
प्रकाश एव सततं तस्मादद्वैतमेव हि॥३१॥
अद्वैतमिति चोक्तिश्च प्रकाशाव्यभिचारतः।

—————————————————————————————————————————————————

स्तपति तेजसेद्धः” “तमेव भान्तमनु भाति सर्वं तस्य भासा सर्वमिदं विभाति” इति“परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते” इति च। शार्वरतमोवदाच्छादकत्वादविद्यमानस्य नामरूपप्रपञ्चस्योपस्थापनाच्च माया नामाधिकं तम एव। सा च कथमुदीरितलक्षणं ब्रह्माऽऽश्रयेद्विषयीकुर्याद्वा। न हि प्रकाशमानं सूर्यं नैशं तम आश्रयति। विषयी करोतीत्यर्थः॥२८॥२९॥ ननूक्तरीत्या ब्रह्मस्वरूपे विद्याया अकिंचित्करत्वे “ब्रह्मविदाप्नेति परम्” “ब्रह्म वेद ब्रह्मैव भवति” “अथ परा यया तदक्षरमधिगम्यते” इत्यादिश्रुतिभिर्विद्यायास्तत्स्वरूपप्राप्त्युपायप्रतिपादनं व्याहन्येतेत्याशङ्क्याऽऽह—व्यावहारिकेति। व्यवहारमात्रसिद्धं मायापरिकल्पितं प्रपञ्चमाश्रित्य हि प्रत्यक्षादिप्रमाणानि प्रवृत्तानि। अतो वेदोऽपि तदनन्तर्गतत्वाद्व्यावहारिकदृष्ट्यैव विद्याया अविद्या-निवृत्तिद्वारा ततप्त्युपायत्वं शास्ति। अतो विद्याऽविद्या चेत्येतदुभयमपि व्यवहारदृष्ट्यैव। परमार्थदृष्ट्या त्वद्वितीयं स्वप्रकाशं ब्रह्मात्मतत्त्वमेवास्ति॥३०॥ एवं परमार्थतो ब्रह्मणोऽसङ्गत्वेन विद्यासंबन्धाभावाद्ब्रह्मतदितरगोचराणां सर्वासां बुद्धिवृत्तीनां यद्भासकं साक्षिस्फुरणं तत्परिशेषात्स्वप्रकाशमद्वितीयं चेति “प्रतिबोधविदितं मतम्” इति श्रुत्यर्थं निगमयति—व्यावहारिकेति। व्यवहारदृष्टेः पुरुषस्य घटपटादिविषयमनोवृत्तिषु सर्वत्र साक्षिचित्प्रकाशस्य भासकत्वेनाव्यभि-चरितत्वादनुगतस्वपरव्यवहारहेतुप्रकारस्वरूप एव प्रत्यगात्मा। तस्मादव्यभिचारिणि चित्प्रकाशे ब्रह्मणि रज्ज्वा इदमंशे सर्पधारादिवद्व्यभिचारिदृश्यप्रपञ्चस्य परिकल्पितत्वेन मिथ्यात्वात्प्रकाशरूपं ब्रह्माद्वैतमेवेति सिद्धमित्यर्थः॥

प्रकाश एव सततं तस्मान्मौनं हि युज्यते॥३२॥
प्रत्यक्षादिप्रमाणैश्च तर्कैः श्रुत्या तथैव च।
स्वगुरोरुपदेशेन प्रसादेन शिवस्य तु॥३३॥
अर्जितैरपि धर्मैश्च कालपाकेन धार्मिकाः।
अर्थो महानयं भाति शाङ्करः पुरुषस्य तु॥३४॥
यस्य प्रकाशितः साक्षादयमर्थो महत्तरः।

———————————————————————————————————————————————

३१॥ नन्वद्वैतमिति द्वैतनिषेधविशिष्टं ब्रह्म प्रतीयते। तथा च कथं निर्विशेषब्रह्मसिद्धिरित्यत आह—अद्वैतमिति। अद्वैतोक्तिरपि प्रकाशाव्यभिचारादव्यभिचारिचित्प्रकाशात्मनैकरूप्यावगमादित्यर्थः। प्रकाश एव सततमिति। प्रकाशस्वरूपादन्यस्य द्वैतनिषेधस्य द्वैतवत्स्वात्मनोऽप्यन्यत्वसाम्येन स्वेनैव निवर्तनात्तन्निषेधविनिर्मुक्तः केवलं चित्प्रकाश एवावशिष्यते। स च स्वसत्तायां प्रकाशव्यतिरेकविरहितत्वात्स्वप्रकाश इति सततशब्दार्थः। एवं निर्विशेषाचित्प्रकाशात्मनि ब्रह्मणि शब्देन मनसा च विषयीक्रियमाणे तत्तदुपाधिवैशिष्ट्यप्रसङ्गात्तूष्णीमवस्थानमेव विदुषः स्वरूपप्रतिपत्त्युपाय इत्युपसंहरति—तस्मादिति। श्रोत्रादीनीन्द्रियाणि समनस्कानि स्वविषयेभ्यो व्यावृत्यान्तर्मुखे विक्षेपवासनाविनिर्मुक्ते प्रसन्नान्तःकरणे तद्भासकप्रत्यक्चैतन्यस्वरूपं ब्रह्म स्वयमेव प्रकाशत इत्यभिप्रायः। एतावता यस्यामतं तस्य मतमिति श्रुत्यर्थः सम्यगुपपादितो भवति॥३२॥ ननु मौनमात्रं चेद्ब्रह्मोपदेशः स च सर्वेषां सुलभ इति तत्सिद्ध्यर्थं न प्रयतितव्यमित्यत आह—प्रत्यक्षादीति॥३३॥ भवपरंपरासु वर्णाश्रमधर्मरतिभिः परमेश्वरं समाराध्य समासादिततत्प्रसादस्य साधनचतुष्टयसंपन्नस्य कस्यचिदेव मुमुक्षोः पुरुषस्य महान्सूक्ष्मत्वेनातिगम्भीरोऽयमर्थो भाति नान्यस्येत्यर्थः॥३४॥ श्रुतावमृतत्वं हि विन्दत इत्यादिना साधनान्तरनिरपेक्षस्य यथोक्तज्ञानस्य यदमृतत्वप्राप्त्युपायत्वं प्रतिपादितं तत्तात्पर्यार्थकथनेन विवृणोति—यस्येत्यादिना। अद्वयत्वत इति। स्वात्मनोऽद्वितीयब्रह्मसाक्षात्काराज्ज्ञानकर्मणोः साधनभूतवस्त्वन्तरप्रतिभासाभावादद्वितीयब्रह्मात्म-नाऽवस्थितस्य विदुषस्तत्रानधिकार इत्यर्थः॥

तस्य नास्ति क्रियाः सर्वाज्ञानं चाप्यद्व्यत्वतः॥३५॥
अयमर्थो महान्यस्य स्वत एव प्रकाशितः।
न स जीवो न च ब्रह्म न चान्यदपि किंचन॥३६॥
अयमर्थो महान्यस्य स्वत एव प्रकाशितः।
न तस्य वर्णा विद्यन्ते नाऽऽश्रमाश्च तथैव च॥३७॥
अयमर्थो महान्यस्य स्वत एव प्रकाशितः।
न तस्य धर्मोऽधर्मश्च न निषेधो विधिर्नच॥३८॥
एतमर्थं महान्तं यः प्राप्तः शम्भोः प्रसादतः।
स शंभुरेव नैवान्य इति मे निश्चिता मतिः॥३९॥
एतमर्थं महान्तं यः प्राप्तः शंभोः प्रसादतः।
तस्याहं वैभवं वक्तुं न शक्तः सत्यमीरितम्‌॥४०॥
एतमर्थं महान्तं यः प्राप्तः शंभोः प्रसादतः।
वैभवं तस्य विष्णुश्च न शक्तो वक्तुमास्तिकाः॥४१॥
एतमर्थं महान्तं यः प्राप्तः शंभोः प्रसादतः।
वैभवं तस्य रुद्रश्च न शक्तो वक्तुमास्तिकाः॥४२॥
एतमर्थं महान्तं यः प्राप्तः शंभोः प्रसादतः।

———————————————————————————————————————————————

३५॥ न केवलमेतावदेव भेदोपजीवनेन प्रवृत्तः सकलोऽपि व्यावहारस्तस्य न संभवतीत्याह—अयमर्थोमहानित्यादिभिः पर्यायैः॥३६—४०॥ श्रुतावात्मना विन्दते वीर्यमिति यद्विद्याप्रकाशितात्मस्वरूपेणैवाविद्यातत्कार्याभिभवसमर्थं वीर्यंविद्वाल्लँभत इति प्रतिपादितं तद्दर्शयति-वैभवं तस्येति। वैभवं महत्त्वम्। निर्वीर्यस्यमहत्वासंभवात्तेन महत्त्वेन स्वकारणभूतं निरतिशयं वीर्यं लक्ष्यते। धनसहायमन्त्रौषधादिसाधनजनितं वीर्यंह्यनित्यवस्तुजनितत्वादमृतत्वव्यतिरिक्तस्यैव फलस्य साधनमिति तत्परिच्छेत्तुंशक्यम्‌। आत्मविद्याजनितं वीर्यं

वैभवं तस्य वेदाश्च न शक्ता वक्तुमास्तिकाः॥४३॥
अस्मिन्देहे यदि ज्ञातः पुरोक्तोऽर्थो महानयम्‌।
स साक्षात्सत्यमद्वैतंनिर्वाणं याति मानवः॥४४॥
अस्मिन्देहे न विज्ञातः पुरोक्तोऽर्थोमहान्यदि।
विनष्टिरेवमहती तस्य नैव परा गतिः॥४५॥
स्वरारीरेऽन्यदेहेषु समं निश्चित्यतं दृढम्‌।
अथ धीरान जायन्ते ह्यमृताश्च भवान्ति हि॥४६॥

———————————————————————————————————————————————

त्वतथाविधमितीश्वरोऽपि न तद्वक्तुं शक्नोतीत्यर्थः॥४१—४३॥ एषा चामृतत्वसाधनभूता विद्या सुकृतवशाल्लब्धेति विविदिषुभिः शरीरेविद्यमान एव यत्नतः संपादनीया। तस्मिन्सत्यपितदसंपादने पुरुषस्याऽऽत्यन्तिकसंसार एवेतिश्रुतिरधिकारिणं प्रत्युपदिशति—“इह चेदवेदीदथ सत्यमस्ति न चेदिहावेदीन्महती विनष्टिः” इति। अस्याः श्रुतेरर्थंब्रूते—अस्मिन्निति। अस्मिन्विद्याधिकारिणिमनुष्यादिदेहे सत्येव पूर्वोक्तप्रत्यग्ब्रह्मरूपोऽर्थो यदि ज्ञातः स्यात्तदा स विद्वान्परमार्थसत्यंनिरस्तसमस्तोपाधिकमद्वितीयब्रह्मलक्षणं मुक्तिस्वरूपं प्राप्नोति॥४४॥ उक्तमर्थंव्यतिरेकमुखेनोपपादयति—अस्मिन्निति।यद्यस्मिन्विद्याधिकारिणि देहेसत्यप्यालस्योपहतत्वेन श्रवणमननादिसाधनानुष्ठानाद्विद्योदयाभावेन प्रागुक्तार्थो न ज्ञातः स्यात्तदा सत्यं तस्य निरतिशयानन्दावाप्तिलक्षणपरमपुरषार्थहानिर्भवति। तथा च तस्याविदुष संसारप्रताहपात एवेति नैव कदाचिदपि, मुक्तिः सिध्येदित्यर्थः॥४५॥ एवमन्वयव्यतिरेकाभ्यां विविदिषुशरीरे विद्यायाः सौलभ्यमभिधाय तत्फलमाम्नायते—“भूतेषु भूतेषु विविच्य धीराः प्रेत्यास्माल्लोकादमृता भवन्ति” इति। तद्व्याचष्टे—स्वशरीर इति। ये नाम प्राज्ञाः स्वकीयशरीरे देहान्तरेषु सोपाधिषु घटशरावादिषु चन्द्रस्वरूपवत्साम्येनावस्थितमुदीरितलक्षणं ब्रह्मात्मतत्वं श्रवणमननादिभिः साक्षात्कृत्यधीरा धैर्यवन्तो दृढनिश्वयाः संसारभयरहिता वर्तन्ते।ते पुनरेतद्देहपातानन्तरं न जायन्ते। विद्ययासकलसंसारानिदानभूताविद्यायाःसमूलंनिवर्तितत्वात्‌। अपि तु कदाचिदप्यनश्वरब्रह्मात्म-

बद्धो मुक्तो महाविद्वानज्ञ इत्यादिभेदतः।
एक एवसदा भातिनानेव स्वप्नवत्स्वयम्॥४७॥
अतः स्वमुक्त्यैवान्येषामाभासानामपि ध्रुवम्‌।
मुक्तिं जानाति हे देवा आत्मनामात्मविद्वरः॥४८॥
स्वसंसारदशायां तु स्वभ्रान्त्यासर्वदेहिनाम्‌।
आभासानां च संसारं वेदमुक्तिं तथैव च॥४९॥
प्रारब्धकर्मपर्यन्तंकदाचित्परमात्मवित्‌।
जगज्जीवादिकं वेद कदाचिन्नैव वेद्तत्‌॥५०॥

————————————————————————————————————————————————

का एव भवन्ति॥४६॥ नन्वेकस्यैवाऽऽत्मनः स्वेतरसर्वशरीरेषु कथं साम्येनावस्थानं बद्धमुक्तादिव्यवस्थान्यथानुपपत्त्या तन्नानात्वस्यावश्यंभावादित्याशङ्क्याह—बद्ध इति। यथा स्वप्नावस्थायां तैजस आत्मैवमहीधरादिलक्षणस्वाप्नपदार्थरूपेण नानेवावभासते तथैकएव चिदात्मा स्वाविद्यापरिकल्पितोपाधिनानात्ववशेन बद्धोमुक्तो विद्वानज्ञ इत्येवमाद्यौपाधिकविरुद्धधर्मसंसर्गितया नानेव भवति॥४७॥ नन्वेवमात्मन एकस्मिंश्चिदुपाधौकेनचिद्विद्ययाऽऽत्मनि साक्षात्कृते सत्यविद्यानिवृत्त्या तस्यैकस्याऽऽत्मनो मुक्तत्वेन पुनरविद्यासंबन्धानुपपत्तेर्जीवप्रपञ्चस्य सर्वस्यमुक्तिरयत्नतः सिद्धेत्याशङ्क्याऽऽह—अत इति। यत एक एवाऽऽत्माऽतःश्रवणमननादिसाधनकलापमनुष्ठितवतोविदुषः स्वस्य मुक्त्यैव स्वव्यतिरिक्तानामपि तत्तदन्तःकरणोपाधिप्रतिबिम्बरूपेण दर्पणप्रतिबिम्बितमुखाभासवदाभासतया प्रतीयमानानामात्मनां तत्त्वतः स्वस्मादव्यतिरिक्तत्वात्स्वमुक्तिसमये तेषामपि मुक्तिमसौविद्वाञ्जानात्येव। तथाऽपि तु स्वसंसारावस्थायां स्वभ्रान्त्यास्वाविद्यया स्वस्यान्येषां शरीरिणां च संसारमपि जानाति भ्रान्तिनिवृत्तौमुक्तिं च यथैवंतथाऽन्येऽप्याभासरूपा आत्मानः स्वसंसारदशायां स्वस्याऽविद्यया परिकल्पितसंसारं विद्योदयपर्यन्तं जानन्त्येवेतिविद्वदृष्ट्यामुक्तत्वेऽप्यविदुषां न संसारित्वनिवृत्तिरित्यर्थः॥४८॥४९॥ नन्वेवमविदुषां स्वाविद्यावशादस्तु जगत्प्रतिभासः विदुष-

कदाचिद्ब्रह्म जानाति प्रतीतमखिलं सुराः।
कदाचिन्नैव जानाति स्वभावादेव तत्त्ववित्‌॥५१॥
जगज्जीवादिरूपेण यदा ब्रह्मविभासते।
तदा दुःखादिभोगोऽपि भाति चाऽऽभासरूपतः॥५२॥
यदा ब्रह्मात्मना सर्वंविभाति स्वत एव तु।
तदा दुःखादिभोगोऽयमाभासो न विभासते॥५३॥
जगज्जीवादिरूपेण पश्यन्नपिपरात्मवित्‌।
नतत्पश्यतितद्रूपंब्रह्मवस्त्वेव पश्यति॥५४॥

———————————————————————————————————————————————

स्त्वविद्यानिवृत्त्या तत्कार्यस्य जगतः प्रतिभासोऽनुपपन्न इत्यत आह—प्रारब्धेति। कर्माणि द्विविधानि। आरब्धफलान्यनारब्धफलानि च। तत्रानारब्धफलवदारब्धफलानां ज्ञाननिवर्त्यत्वाभावेन भोगेनैव क्षपयितव्यत्वात्तावत्पर्यन्तं कदाचित्फलभोगसमये तत्साधनभूतं भोक्तृभोग्यात्मकंजगद्विद्वानपिजानाति। कदाचिदद्वितीयब्रह्मात्मानुभवसमये तु नैव तज्जगज्जानातीत्यर्थः॥५०॥ नन्वविदुषइव विदुषोऽपि जगत्प्रतीतिरस्ति चेत्तस्यको विशेष इत्यत आह—कदाचिद्ब्रह्मेति। यत्सर्वस्यप्रत्यग्भूते ब्रह्मण्यध्यस्ततया प्रतीयमानमखिलंजगदस्ति तत्सर्वंब्रह्म जानाति।आरोपितस्याधिष्ठानादव्यातिरिक्तत्वादाधिष्ठानब्रह्मात्मनैव कदाचित्प्रतीतिसमये विद्वाञ्जानातीत्यर्थः।कदाचित्समाध्यवस्थायां त्वधिष्ठानब्रह्मयाथात्म्यज्ञानेनाऽऽरोपितस्य विलापनात्स्वात्मनोनिष्प्रपञ्चस्वाभाव्यादेव जगन्नैव जानाति। अतो विदुषोऽध्यस्तत्वेनैवकादाचित्को जगद्भासः। अविदुष इव न परमार्थत्वेन सार्वकालिक इत्यर्थः॥५१॥ जगज्जीवादीति। यदा चैवं विदुषो विक्षेपसमये ब्रह्म-बाध्यभोक्तृभोग्यप्रपञ्चात्मना भासते तदा विदुषस्तत्कृतसुखाद्युपभोगोऽपि साधनवदाभासरूपतयैव भाति॥५२॥ यदा तु समाधिसमये प्रतीतं सर्वंजगत्स्वकीयबाधावधिभूतब्रह्मात्मनाब्रह्मावशेषेण विभाति तदा दुःखसाधनस्य जगतोऽप्रतिभासात्तद्धेतुकः संसारदुःखादिरपि नैव तस्य प्रतीयत इयर्थः॥५३॥ नन्वविद्वा-

ब्रह्मणोऽन्यत्सदा नास्ति वस्तुतोऽवस्तुतोऽपि च।
तथा सति शिवादन्यत्कथं पश्यति तत्त्ववित्‌॥५५॥
ब्रह्मरूपेण वा साक्षाज्जगज्जीवात्मनाऽथवा।
यथा यथा प्रथा साक्षाद्ब्रह्मभाति तथा तथा॥५६॥
यथा यथाऽवभासोऽयं स्वभावादेव भासते।
तथा तथाऽनुसंधानं योगिनः स्वात्मवेदनम्‌॥५७॥
नामतश्चार्थतश्चापि महादेवो यदि प्रभुः।
किं जहाति तदा विद्वान्किं गृह्णाति सुरर्षभाः॥५८॥
ग्राह्यं वा शंकरादन्यत्त्याज्यंवा यदि विद्यते।
महत्वं तस्य हीयेत स्वभावो न विहन्यते॥५९॥

———————————————————————————————————————————————

निव विद्वानपि सकलंजगदन्यूनानुभूतं पश्यति कुतस्तं प्रति जगत आभासरूपतेत्यत आह— जगदिति। आरोपितं जगत्पश्यन्नप्यधिष्ठानसच्चिद्रूपपरमार्थब्रह्मात्मनैव पश्यति न तु नामरूपात्मनेत्यर्थः॥५४॥ एतदेव ब्रह्मव्यतिरिक्तस्यादर्शनं विदुष उपपादयति—ब्रह्मण इति।वस्तुतस्तावद्ब्रह्मव्यतिरिक्तं नास्ति“नेह नानाऽस्तिकिंचन” इति श्रुतेः। अवस्तुतोऽपि नैवास्ति। अवस्तुभूतस्य सर्वस्यजगतस्तत्स्वरूपेऽध्यस्तत्वेन तदनन्यत्वनियमात्‌। एवं च विद्वान्परशिवव्यतिरिक्तंकथं जानीयादित्यर्थः॥५५॥ अतो विदुषः सर्वदा ब्रह्मभानमेवेति निगमयति-ब्रह्मरूपेणेति।अधिष्ठानब्रह्मरूपेण वाऽऽरोपितभोग्यभोक्तप्रपञ्चात्मना वा यथा यथा विदुषः प्रथा प्रतिभानं ज्ञानं भवति तथा तथा साक्षाद्ब्रह्मैवतस्य भातीतिसंबन्धः॥५६॥ उक्तरीत्यासर्वजगदवभासोऽपि विदुषः समाध्यवस्थानतो न विशिष्यत इत्युपसंहरति —यथेति॥५७॥ महादेवशब्दार्थपर्यालोचनयाऽपि न विदुषः स्वस्मादन्यत्किंचिद्धेयमुपादेयं वा संभवतीयाह—नामत इति॥५८॥ महत्त्वं तस्येति।त्रिविधपरिच्छेदराहित्यं हि तस्य महत्वम्‌। तच्चतस्मात्सर्वप्रत्यग्भूतात्परशिवादन्यस्मिन्हेयोपादेयवस्तुनि स्वीक्रियमाणे विहन्येतेत्यर्थः। इष्टापत्तिशङ्कां निवारयति—स्व-

महत्त्वं नैव धर्मोऽस्य भेदाभावात्परात्मनः।
धर्मधर्मित्ववार्ताच भेदे सति हि विद्यते॥६०॥
भेदोऽभेदस्तथा भेदाभेदःसाक्षात्परात्मना।
नास्ति स्वात्मातिरेकेण स्वयमेवास्तिसर्वदा॥६१॥
ब्रह्मैव विद्यते साक्षाद्वस्तुतोऽवस्तुतोऽपि च।
तथा सति शिवज्ञानी किं गृह्णाति जहाति किम्‌॥६२॥
मायया विद्यतेसर्वमिति केचन मोहिताः।
शिवरूपातिरेकेण नास्ति माया च वस्तुतः॥६३॥
मायया वा शिवादन्यद्विद्यते चेच्छिवस्य तु।

———————————————————————————————————————————————

भाव इति। तद्धि महत्त्वंपरमेश्वरस्यस्वरूपम्‌। न च तद्विहन्तुं युज्यते तस्यैवाभावप्रसङ्गादित्यर्थः॥५९॥ ननु महत्त्वं परमेश्वरस्य न स्वभावोऽपि तु तस्य धर्मइति नोक्तदोषापत्तिरित्याशङ्क्याऽऽह—महत्त्वंनैवेति। भेदाभावादिति।परमात्मन एकमेवाद्वितीयमिति स्वगतसजातीयविजातीयभेदनिरासस्य श्रुत्याप्रतिपादितत्वात्‌। प्रत्यक्षादिप्रमाणानां च भेदग्रहणासामर्थ्यस्य दशमेऽध्याये प्रागुपपादितत्वाच्चेत्यर्थः।धर्मधर्मित्वेति।न हि स्वयमेव स्वस्य धर्मो भवतीति धर्मधर्मिभावो नियमेन भेदसापेक्षित इति व्यापकभेदाभावात्तद्व्याप्यधर्मधर्मिभावोऽपि न संभवतीत्यर्थः॥६०॥ ननु कुतश्चिदप्यात्मनोभेदो नास्ति चेद्द्श्यप्रपञ्चतादात्म्यलक्षणोऽभेदः प्राप्नोतीति सविशेषत्वं ब्रह्मण इत्याशङ्क्याऽऽह—भेद इति। भेदवदभेदादेरप्याध्यासिकत्वादात्मस्वरूपव्यतिरेकेण सद्भावो नास्तीत्यर्थः॥६१॥ हेयोपादेयविभागप्रतिपादकाभासराहित्यंविदुषो निगमयति—ब्रह्मैवेति। अधस्तप्रपञ्चस्यसदसद्विलक्षणत्वेन वस्तुतोऽवस्तुतश्चाधिष्ठानाद्ब्रह्मणः पृथगभावादद्वितीयं ब्रह्मैव सर्वतः प्रतिभातीति ज्ञानी किं जह्यात्किं वोपाददीतेत्यर्थः॥६२॥ नास्ति मायेति। प्रपञ्चकारणत्वेन परिकल्प्यमानमायाया अपि सदसद्विलक्षणत्वान्मायामयं जगदस्तीति विरुद्धाभिधानमित्यर्थः॥६३॥ माययेति। यदि

महत्वं परमं साक्षाद्धीयते सुरपुङ्गवाः॥६४॥
महत्त्वस्य तु संकोचो नास्ति सम्यङ्निरूपणे।
अस्ति चेदप्रमाणं स्याच्छ्रुतिः सत्यार्थवादिनी॥६५॥
तस्मादस्ति महादेव एव साक्षात्स्वयं प्रभुः।
आनन्दरूपः संपूर्णोन ततोऽन्यत्तु किंचन॥६६॥
इयमेव तु तर्काणां निष्ठाकाष्ठा सुरोत्तमाः।
प्रयक्षादिप्रमाणानां वेदान्तानामपीश्वराः॥६७॥
स्मृतीनां च पुराणानां भारतस्य तथैव च।
वेदानसारिविद्यानामन्यासामास्तिकोत्तमाः॥६८॥
शैवागमानां सर्वेषां विष्णुप्रोक्तागमस्य च।
अस्मदुक्तागमस्यापि सुराः सूक्ष्मनिरूपणे॥६९॥
बुद्धागमानां सर्वेषां तथेवार्हागमस्य च।
यक्षगन्धर्वसिद्धादिनिर्मितस्याऽऽगमस्य च॥७०॥
परमाद्वैतविज्ञानं कस्य मर्त्यस्य सिध्यति।
कस्य वेदस्य वा साक्षाच्छिवस्यैव हि सिध्यति॥७१॥
परमाद्वैतविज्ञानं शिवस्यामिततेजसः।
स्वभावसिद्धंदेव्याश्च शिवाया आस्तिकोत्तमाः॥७२॥
प्रसादादेव रुद्रस्य शिवायाश्चतथैव च।

———————————————————————————————————————————————

मायायाः सत्यत्वमङ्गीकृत्य तन्मयं जगदस्तीति स्वीक्रियते तर्हिपूर्वोक्तं परशिवस्य त्रिविधपरिन्छेदराहित्यलक्षणं महत्त्वंभज्येतेत्यर्थः॥५४॥ अस्ति चेदिति।आकाशादीनामिव परशिवस्य महत्त्वमापेक्षिकं चेत्तर्हि “अनन्तं ब्रह्म”“एकमेवाद्वितीयम्‌”इति त्रिविधपरिच्छेदराहित्यप्रतिपादिका

परमाद्वैतविज्ञानं विष्णोः साक्षान्ममापि च॥७३॥
विराट्संज्ञस्य देवस्य स्वराट्संज्ञस्य चाऽऽत्मनः।
सम्राट्‌संज्ञस्य चान्येषां प्रसादादेववेदनम्‌॥७४॥
युष्माकमपि सर्वेषां शिवस्य परमात्मनः।
परमाद्वैतविज्ञानं प्रसादादेव नान्यथा॥७५॥
यक्षराक्षसगन्धर्वसिद्धादीनामपीश्वराः।
परमाद्वैतविज्ञानं प्रसादादेव शूलिनः॥७६॥
मनुष्याणां च सर्वेषां पश्वादीनां तथैव च।
परमाद्वैतविज्ञानं प्रसादादेव शूलिनः॥७७॥
प्रसादे सति कीटोवा पतंगो वा नरोऽथवा।
देवो वा दानवो वाऽपि लभते ज्ञानमुत्तमम्‌॥७८॥
एष एव हि जन्तूनां परज्ञानं ददाति च।
न विष्णुर्नाहमन्यश्च सत्यमेव मयोदितम्‌॥७९॥
आदाने च तथा दाने न स्वतन्त्रो महान्‌ हरिः।
तथैवाहं सुरश्रेष्ठाः सत्यमेव मयोदितम्‌॥८०॥
स्वतन्त्रः शिव एवायं स हि संसारमोचकः।
तं विना न मयोद्धर्तुंशक्यते संसृतेर्जनः॥८१॥
विष्णुना च परेणापि महादेवं घृणानिधिम्‌।
विना जन्तुंसमद्धर्तुंशक्यते न हि सत्तमाः॥८२॥

————————————————————————————————————————————————

श्रुतिरप्रमाणं स्यादित्यर्थः॥६५॥ प्रतिपादितमर्थंनिगमयति—तस्मादिति॥६६—७२॥ “ब्रह्म ह देवेभ्यो विजिग्ये”इत्यादिकायाः श्रुतेरर्थंवक्तुमारभमाणस्तदुपोद्धातत्वेन तत्त्वज्ञानस्योमामहेश्वरप्रसादलभ्यत्वं

दर्वीन्यायेन संसारादुद्धरामि जनानिमान्‌।
न स्वातन्त्र्येण हे देवाः साक्षाद्विष्णुस्तथैव च॥८३॥
देवदेवस्य रुद्रस्य स्वरूपं तस्य वैभवम्‌।
को वा जानाति नास्त्येव स्वयं जानाति वा नवा॥८४॥
दुर्विज्ञेयो महादेवो महतामपि देहिनाम्‌।
प्रसादेन विना देवाः सत्यमेव मयोदितम्‌॥८५॥
पुरासुराणां सर्वेषामसुराणां दुरात्मनाम्‌।
महामोहेन संग्रामः संजातो दुर्निवारकः॥८६॥
असुरैः पीडिता देवा बलवद्भिःसुरा भृशम्।
तान्‌ दृष्ट्वाभगवानीशः सर्वज्ञः करुणाकरः॥८७॥
देवानां विजयं देवा असुराणां पराजयम्‌।
ददौतेन सुरैः शीघ्रमसुरास्तुपराजिताः॥८८॥
अविज्ञाय महादेववैभवं परिमोहिताः।
वयं विजयमापन्ना असुराश्च पराजिताः॥८९॥
इत्यहंमानसंछन्नाः सर्वे देवाः पुरातनाः।
अतीव प्रीतिमापन्ना अभवन् सुरपुङ्गवाः॥९०॥
पुनर्विश्वाधिको रुद्रो भगवान्‌ करुणानिधिः।

————————————————————————————————————————————————

दर्शयति—प्रसादादेवेत्यादिना॥७३—८५॥ उदीरितलक्षणस्य परतत्त्वस्यात्यन्तनिर्विशेषत्वेन दुर्ज्ञानत्वान्महतामिन्द्रादिदेवानामप्युपदेशगम्यत्वमीश्वरप्रसादलभ्यत्वं च दर्शयितुमाख्यायिकारूपा श्रुतिराम्नायते—“ब्रह्म ह देवेभ्यो विजिग्ये”इयादिका। अस्याः श्रुतेरभिप्रायं विवृणोति–पुरा सुराणामित्यादिना॥८६—८८॥ “तस्य ह ब्रह्मणो विजये देवाअमहीयन्त त ऐक्षन्तास्माकमेव विजयोऽस्माकमेवायं महिमेति” इति श्रुतिवाक्यस्याभिप्रेतमर्थं दर्शयति—अविज्ञायेत्यादिना॥८९॥९०॥ “तद्धैषां विजज्ञौतेभ्यो ह

स्वस्य दर्शयितुं तेषां दुर्ज्ञेयत्वंतथैव च॥९१॥
तेषां भ्रान्तिनिवृत्त्यर्थमपि साक्षान्महेश्वरः।
आविर्बभूव सर्वज्ञोयक्षरूपेण हे सुराः॥९२॥
तं दृष्ट्वायक्षमत्यन्तं विस्मयेन सहामराः।
विचार्यसर्वे संभूय किमिदं यक्षमित्यपि॥९३॥
पुनरग्निंसमाहूय देवाः सर्वेविमोहिताः।
अब्रुवंस्त्वंविजानीहि किमेतद्यक्षमित्यपि॥९४॥
अग्निस्तथा करोमीति प्रोच्य यक्षं गतोऽभवत्‌।
यक्षरूपो महादेवः कोऽसीत्याहानलंप्रति॥९५॥
अग्निर्वाअहमस्मीति यक्षं प्रत्याह सोऽपि च।
सोऽपि प्रोवाच भगवांस्त्वयि किं वीर्यमित्यपि॥९६॥
इदं सर्वं दहेयं यदिदं भूम्यां व्यवस्थितम्‌।
इत्याहाग्निस्तृणं तस्मैनिधाय परमेश्वरः॥९७॥
एतद्देहेति भगवान्‌ स्मयमानोऽभ्यभाषत।
अग्निःसर्वजवेनैव तद्दग्धुं तृणमास्तिकाः॥९८॥
अशक्तो लज्जया युक्तो भीतोऽगच्छत्सुरान्‌ प्रति।
मया तस्यैव विज्ञातुंन शक्यं वैभवं सुराः॥९९॥
वित्त यूयं महायासादित्याहाग्निःसुरान्‌ प्रति।

————————————————————————————————————————————————

प्रादुर्बभूव”इति श्रुतिवाक्यस्यार्थं ब्रूते—पुनर्विश्वाधिक इत्यादिना। स्वस्य दर्शयितुमिति।स्वस्याऽऽत्मनो दुरवगमत्वंतेषामिन्द्रादीनां दर्शयितुमित्यर्थः॥९१॥९२॥ “तन्न व्यजानन्त किमिदं यक्षमिति” इति श्रुतिवाक्यस्यार्थंब्रूते—तं दृष्ट्वेति॥९६॥ “तेऽग्निमब्रुबन्‌” इत्यादिश्रुतिभागस्यार्थमाह-पुनरग्निमित्यादिना ९७॥९९॥ “अथ वायुमब्रुवन्”इत्यादिश्रुतिवाक्यस्यार्थंसंगृह्णाति—तच्छ्रत्वा

तच्छ्रुत्वा वायुमाहूय विजानीहीति चाब्रुवन्‌॥१००॥
सोऽपि गत्वातथा तेन यक्षरूपेण शंभुना।
भृशंप्रतिहतो भूत्वातथाऽगच्छत्सुरान्‌ प्रति॥१०१॥
पुनरिन्द्रः स्वयं मोहादहंताकंचुकावृतः।
विज्ञातुंयक्षमगमत्स तत्रैव तिरोदधे॥१०२॥
इन्द्रोऽतीव विषण्णस्तु महातापसमन्वितः।
विद्यारूपामुमां देवींध्यात्वाकारुणिकोत्तमाम्‌॥१०३॥
लोकिकैर्वैदिकैःस्तोत्रैस्तुष्टाव परमेश्वरीम्‌।
सा शिवा करुणामूर्तिर्जगन्माता त्रयीमयी॥१०४॥
शिवाभिन्ना परानन्दा शंकरस्यापि शंकरी।
स्वेच्छया हिमवत्पुत्री स्वभक्तजनवत्सला॥१०५॥
महादेवस्य महात्म्यं दुर्ज्ञेयं सर्वजन्तुभिः।
इति दर्शयितुं देवी तत्रैवाऽऽविरभूत्स्वयम्‌॥१०६॥
तामाराध्य शिवामिन्द्रःशोभमानां तु सर्वतः।
उमां पर्वतराजेन्द्रकन्यकामाह वज्रभृत्‌॥१०७॥

————————————————————————————————————————————————

बायुमाहूयेत्यादिना॥१००॥ तथेति।यथा “अग्निर्वाअहमस्मीत्यब्रवीज्जातवेदा वा अहमस्मि” इत्यहंकारग्रस्तत्वेनाग्निर्ब्रह्मणाऽभिभूत एवं वायुरपि“वायुर्वाअहमस्मीत्यब्रवीन्मातरिश्वा वा अहमस्मि” इत्येवमहंकारयुक्तं वाक्यं ब्रुवन्भृशं प्रतिहतोऽभवदित्यर्थः॥१०१॥ “अथेन्द्रमब्रूवन्मघवन्नेतद्विजानीहि किमेतद्यक्षमिति तथेति तदभ्यद्रवत्तस्मात्तिरोदधे” इति श्रुतिवक्यस्यार्थमाह—पुनरिन्द्र इति॥१०२॥१०३॥ एवं भग्नाहङ्काराणां तद्ब्रह्मस्वरूपोपदेशाय परशक्तेः संन्निधानमाम्नायते—“स तस्मिन्नाकाशे स्त्रियमाजगाम बहुशोभमानामुमां हैमवतीं तां होवाच किमेतद्यक्षमिति” “ब्रह्मेति होवाच”

किमेतद्यक्षमत्रैव प्रादुर्भूतंतिरोहितम्‌।
वक्तुमर्हसि देवेशि मम कारुणिकोत्तमे॥१०८॥
देवी परमकारुण्याद्ब्रह्ममे पतिरत्र तु।
प्रादुर्भूतंतिरोभूतमित्याहाशेषनायिका॥१०९॥
दुर्विज्ञेयो महादेवो विष्णोः साक्षादजस्यच।
अन्येषामपि देवानां तवापि मघवन्‌ भृशम्‌॥११०॥
प्रदर्शयितुमीशानो दुर्ज्ञेयत्वं स्वकं परम्‌।
आविर्भूतो न चान्येन कारणेन सुराधिप॥१११॥
स एव सर्वदेवानां तवापि विजयप्रदः।
पराजयकरोऽन्येषां तमेव शरणं ब्रज॥११२॥
इत्युक्त्वासा महादेवी चिद्रूपा सर्वसाक्षिणी।
भक्तानां पाशहन्त्री तु तत्रैवान्तर्हिताऽभवत्‌॥११३॥
पुनर्देवा महादेवं महाकारुणिकोत्तमम्‌।
दुर्विज्ञेयं सुरश्रेष्ठाः स्वतन्त्रं भुक्तिमुक्तिदम्‌।
विदुः सुनिश्चितं त्यक्त्वामात्सर्यंभवकारणम्‌॥११४॥
प्रसादे सति विज्ञातुंशक्यते परमेश्वरः।
प्रसादेन विना नैव शक्यते सर्वजन्तुभिः॥११५॥
प्रसादेन विना विष्णुर्नजानाति महेश्वरम्‌।

————————————————————————————————————————————————

इत्येतद्वाक्यार्थमाह—लौकिकैरित्यादिना॥१०४-१११॥ “ब्रह्मणो वा एतद्विजये महीयध्वम्‌”इति वाक्यस्य तात्पर्यार्थमाचष्टे—स एवेति॥११२॥११३॥ प्रसादे सतीति। उक्तरीत्याइन्द्रादीनामपि तत्त्वज्ञानस्य परमेश्वरप्रसादलभ्यत्वादन्येषामपीश्वरप्रसादे सत्येव परशिवस्वरूप॑ ज्ञातुं शक्यते नान्यथे-

तथा चाहं न जानामि देवताः सकला अपि॥११६॥
प्रसादस्य तु सिद्ध्यर्थंखलु सर्वं सुरर्षभाः।
प्रसादेन विना देवं ये जानन्ति सुरर्षभाः।
ते जानन्ति विना घ्राणं गन्धं हस्तेन केवलम्‌॥११७॥
प्रसादो नाम रुद्रस्य कर्मसाम्ये तुदेहिनाम्‌॥११८॥
देशिकालोकनाज्जातो विशिष्टातिशयः सुराः।
प्रसादस्य स्वरूपं तुमया नारायणेन च॥११९॥
रुद्रेणापि सुरा वक्तुंन शक्यं कल्पकोटिभिः।
केवलं लिङ्गगम्यंतु न प्रत्यक्षं शिवस्य च॥१२०॥
शिवायाश्चहरेः साक्षान्मम चान्यस्य चाऽऽस्तिकाः।
प्रहर्षःस्वरनेत्राङ्गविक्रिया कम्पनं तथा॥१२१॥
स्तोभः शरीरपातश्चभ्रमणं चोद्गतिस्तथा।
आकाशेऽवस्थितिर्देवाः शरीरान्तरसंस्थितिः॥१२२॥
अदर्शनं च देहस्य प्रकाशत्वेन भासनम्‌।
अनधीतस्य शास्त्रस्यस्वत एव प्रकाशनम्‌॥१२३॥
निग्रहानुग्रहे शक्तिः पर्वतादेश्च भेदनम्‌।
एवमादीनि लिङ्गानि प्रसादस्य सुरर्षभाः॥१२४॥
तीव्रात्तीव्रतरः शंभोः प्रसादो न समो भवेत्‌।
एवंरूपः प्रसादश्च शिवया च शिवेन च॥१२५॥
ज्ञायते न मया नान्यैर्नैव नारायणेन च।

————————————————————————————————————————————————

त्यर्थः॥११४-११७॥ प्रसादस्य स्वरूपमाह–प्रसादो नामेति।कर्मसाम्य इति। सुखदुःखहेतुभूतयोर्धर्माधर्मलक्षणयोः कर्मणोरुपभोगेन प्रक्षीणत्वसाम्ये

अतः सर्वं परित्यज्य शिवादन्यत्तु दैवतम्‌॥१२६॥
तमेव शरणं गच्छेत्सद्यो मुक्तिं यदीच्छति।
विष्णुभक्त्या च मद्भक्त्यानास्तिनास्ति परा गतिः॥
शम्भुभक्त्यैव सर्वेषां सत्यमेव मयोदितम्‌।
शम्भुभक्तस्य देहेऽस्मिन्प्रसादो गम्यते यथा॥१२८॥
न तथा विष्णुभक्तस्य न मद्भक्तस्य देहिनः।
तस्मान्मुमुक्षर्मांविष्णुमपि त्यक्त्वा महेश्वरम्‌॥१२९॥
आश्रयेत्सर्वभावेन प्रसादं कुरुते हि सः।
प्रसादे सति देवेशो दुर्ज्ञेयोऽपि सरर्षभाः॥१३०॥
शक्यते मनुजैर्द्रष्टुं प्रत्यगात्मतया सदा।
प्रसादे सति देवेशोदुर्ज्ञेयोऽपि सुरर्षभाः॥१३१॥
शक्यते मनुजैर्द्रष्टुंसदा मूर्त्यात्मनैव तु।
प्रसादे सति देवेशो दुर्ज्ञेयोऽपि सुरर्षभाः॥१३२॥
शक्यते मनुजैर्द्रष्टुं सदा सर्वात्मरूपतः।
सर्वसाक्षिणमात्मानं विदित्वा सकलंजगत्‌॥१३३॥
साक्षिमात्रतया नित्यं यः पश्यति स पश्यति।
परमाद्वैतनिष्ठा हि निष्ठाकाष्ठा सुदुर्लभा॥१३४॥
शिवादन्यतया भ्रान्त्या द्वैतंवा वेद चेत्पशुः।
परमाद्वैतविज्ञानी स्वयं तु परदेवता॥१३५॥
तस्यैव परमा मुक्तिर्नहि संशयकारणम्‌।

————————————————————————————————————————————————

सतीत्यर्थः।प्रागुक्तं शक्तिपातस्वरूपापानिरूपणप्रस्तावे चतुस्त्रिंशेऽध्याये॥११८-१३३॥ साक्षिमात्रतयेति सर्वज्ञमीश्वरं दृश्यंजगच्च स्वप्रत्यग्भूताद्वितीयसा-

गौतमस्य मुनेःशापाद्दधीचस्य च शापतः॥१३६॥
जन्मान्तरकृतात्पापादयमर्थो न रोचते।
महापापवतां नृृणां परमाद्वैतवेदने॥१३७॥
प्रद्वेषो जायते साक्षाद्वेदजन्ये शिवेऽपि च।
महापापवतां नृृणां शिवज्ञानस्य साधने॥१३८॥
सवोङ्गोद्धूलनेतिर्यक्त्रिपुण्ड्रस्यच धारणे।
रुद्राक्षधारणे रुद्रलिङ्गस्यैव तु पूजने॥१३९॥
प्रद्वेषोजायते नित्यं शिवशब्दजपेऽपि च।
अनेकजन्मसिद्धानां श्रौतस्मार्तानुवर्तिनाम्‌॥१४०॥
परमाद्वैतविज्ञानं जायते सुरपुङ्गवाः।
परमाद्वैतविज्ञानी मयाऽऽराध्यः सदैव तु॥१४१॥
नारायणेन रुद्रेण तथा देवैर्विशेषतः।
परमाद्वैतविज्ञानी यत्र कुत्र स्थितः सुराः॥१४२॥
तत्र संनिहिता मुक्तिर्नात्र कार्याविचारणा।
परमाद्वैतविज्ञाननिष्ठस्यैव महात्मनः॥१४३॥
शुश्रूषा क्रियते येन तत्पादौ मम मस्तके।
परमाद्वैतविज्ञाननिष्ठायपरयोगिनः॥ १४४॥
समं देवा न पश्यामि न हरिर्न महेश्वरः।
परमाद्वैतविज्ञाननिष्ठाय परयोगिने॥१४५॥
शरीरमर्थं प्राणांश्च प्रदद्याच्छ्र्द्धयासह।
परमाद्वैतविज्ञाननिष्ठस्य परयोगिनः॥१४६॥
शुश्रूषा शुद्धविद्यायाः साधनं हि न संशयः।

वेदबाह्येषु तन्त्रेषु नराणां वासनाऽपि च॥१४७॥
कुतर्कवासना लोकवासना च सुरर्षभाः।
पुत्रमित्रकलत्रादौ वासना चार्थवासना॥१४८॥
देहेन्द्रियमनोबुद्धिप्राणादावपि वासना।
पाण्डित्यवासना भोगवासना कान्तिवासना॥१४९॥
प्रद्वेषवासना रुद्रवेदपारायणादिषु।
ज्ञानसाधनभूतेषु त्रिपुण्ड्रोद्धूलनादिषु॥१५०॥
प्रद्वेषवासना पापवासना सुरपुङ्गवाः।
परमाद्वैतविज्ञानजन्मनः प्रतिबन्धकम्‌॥१५१॥
तस्मान्मुमुक्षुःश्रद्धालुर्वासनामखिलामिमाम्‌।
विसृज्य परमाद्वैतज्ञाननिष्ठो भवेत्सदा॥१५२॥
वेदोदितमहाद्वैतपरिज्ञानस्य वैभवम्।
न शक्यं वक्तुमस्माभिस्तस्मादेवोपरम्यते॥१५३॥
कथितमखिलदुःखध्वंसकंवः समस्तं परमसुखशिवा-
त्मप्रापकं सद्य एव।विगतसकलदोषा वेदवेदान्त-
निष्ठा हृदयकुहरनिष्ठं कर्तुमर्हन्ति चेतत्‌॥१५४॥

इति श्रीस्कान्दपुराणे सूतसंहितायां चतुर्थस्य यज्ञवैभवख-
ण्डस्योपरिभागे ब्रह्मगीतासूपनिषत्सुतलवकारोपनिषद्व्या
ख्याकथनं नाम चतुर्थोऽध्यायः॥ ४॥

————————————————————————————————————————————————

क्षिचिन्मात्रतयायः पश्यतिस एवयथार्थदर्शीत्यर्थः।निगदव्याख्यानमन्यत्‌॥१३४- १५४॥

इति श्रीसूतसंहितातात्पर्यदीपिकायां चतुर्थस्ययज्ञवैभवखण्डस्योपरिभागे
तलवकारोपनिषद्व्याख्याकथनं नाम चतुर्थोऽध्यायः॥४॥

अथ पञ्चमोऽध्यायः।

५ आदेशकथनम्‌

ब्रह्मोवाच—

अतीव गुह्यमादेशमनन्तार्थप्रकाशकम्।
वक्ष्ये युष्माकमद्याहं शृणुत श्रद्धया सह॥१॥
यस्य श्रवणमात्रेण श्रुतमेवाश्रुतंभवेत्‌।
अमतं च मतं ज्ञातमविज्ञातं च सत्तमाः॥२॥
एकेनैव तुपिण्डेन मृत्तिकाया यथा सुराः।
विज्ञातं मृन्मयं सर्वंमृदभिन्नत्वतः सदा॥३॥

————————————————————————————————————————————————

अथ सामशाखान्तरोपनिषदोऽप्युदीरितब्रह्मात्मैकत्वपरत्वमध्यायद्वयेन प्रतिपाद्यते।अत्र हि श्रुतौनिष्प्रपञ्चमद्वितीयं ब्रह्मस्वात्मत्वेनोपदेष्टुं कार्यप्रपञ्चस्यकारणभूताद्ब्रह्मणोऽनन्यत्वेनैकविज्ञानात्सर्वविज्ञानंप्रतिज्ञाय सदृष्टान्तमुपपादितं “उत तमादेशमप्राक्ष्यः।येनाश्रुतं श्रुतं भवति”इत्यादिना “एवं सोम्य स आदेशो भवति” इत्यन्तेनैतां श्रुतिं तत्पर्यतः संगृह्णाति—अतीवेत्यादिना। अतीवगुह्यमत्यन्तं रहस्यम्‌।उपदेशगम्यमिति यावत्‌। आदिश्यते ज्ञाप्यते तदद्वितीयं सद्ब्रह्मानेनेत्यादेशः।यद्वाऽऽदिश्यत इत्यादेशः इति कर्मणि व्युत्पत्त्योक्तविधं ब्रह्मैवाऽऽदेशब्दार्थः। अनन्तार्थप्रकाशकमिति। अपारिच्छिन्नार्थप्रकाशकंब्रह्म स्वात्मनि परिकल्पितस्य सकलस्यजडप्रपञ्चस्य भासकम्‌॥१॥ स आदेशो विशेष्यते— यस्येति। यस्य खलु कारणभूतस्य सद्रूपस्य ब्रह्मणः। कर्मणि षष्ठी। ब्रह्मविषयेण श्रुतिजनितज्ञानेनाश्रुतंश्रुतिजनितज्ञानाविषयीकृतमपि सर्वंकार्यंजगत्स्वकारणब्रह्मानन्यतया श्रुतमेव भवेत्‌। तथाऽमतमतर्कितमपि कार्यंजगद्यन्मननेन मतं तर्कितं भवति। तथैवाविज्ञातमनिश्चितमपि तद्यद्गोचरनिश्चयज्ञानेन तदनन्यतया विज्ञातं निश्चितमेव भवति तथाविधमादेशमिति संबन्धः॥२॥ नन्वन्यस्मिन्विज्ञाते कथमन्यद्विज्ञातुं शक्यत इत्याशङ्क्यकारणभूतस्य ब्रह्मणः कार्याज्जगतोऽनन्यत्वंदृष्टान्तैरुपपादयति—

एकेन लोहमणिना सर्वंलोहमयं यथा।
विज्ञातं स्याद्यथैकेन नखानां कृन्तनेन च।
सर्वंकार्ष्णायसं ज्ञातं तदभिन्नत्वतः सुराः॥४॥
कार्यं तु कारणाभिन्नं न भिन्नं नोभयात्मकम्‌॥५॥
भिन्नपक्षे तु सद्वाऽसत्कार्यंसदसदेव वा।
सच्चेत्कारणसत्ता वा कार्यसत्ताऽथवा परा॥६॥
यदि कारणसत्तैव कार्यसत्ता न चापरा।
तर्हिकारणसत्तैका कथं सत्ताभिदा भवेत्‌॥७॥
सत्तैकाऽपि भवेद्भिन्नं कारणात् कार्यसंज्ञितम्‌।
इति वार्ताच वार्तैव कार्यंसंज्ञमसत्खलु॥८॥
सत्ताहीनस्य कार्यस्यासत्त्वमेव हि युज्यते।
प्राप्तेसत्त्वेतु कार्यस्य सत्कार्योक्तिर्वृथाभवेत्‌॥९॥

————————————————————————————————————————————————

एकेनैवेत्यादिना। मृदभिन्नत्वत इति। कारणत्वेनानुगृहीतमृद्व्यतिरेकेण घटादिकार्यस्य पृथगलब्धात्मकत्वात्तदभिन्नत्वम्‌॥३॥४॥ नन्वेवं कारणाद्ब्रह्मणः कार्यस्यजगतोऽनन्यत्वेतस्यसविशेषत्वापत्तिरित्यवश्यंजगतस्तद्भिन्नत्वमेवैष्टव्यमित्यत आह—कार्यं त्विति। न भिन्नमिति प्रतिज्ञातमर्थं साधयितुं विकल्पयति—भिन्नपक्ष इति \। तत्राऽऽद्यं पक्षमनुवदति—सच्चेदिति॥५॥६॥ सा किं कार्यगतसत्ता कारणसत्तैवोत ततोऽन्येति विकल्प्याऽऽद्येकार्यस्यासत्त्वमेवाऽऽयातमिति प्रतिपादयाति—तर्हीति।करणसत्तैव चेत्कार्यस्यसत्ता तर्हिसा चैकेति कार्यस्य पृथक्सत्त्वाभावात्कारणाभिन्नत्वमेवेत्यर्थः॥७॥ नन्वेवं सत्ताया एकत्वेऽपि कारणात्कार्यं पृथगेवानुभूयत इतीमामाशङ्कामनूद्य निराचष्टे—सत्तेति। कारणसत्तैव कार्यसत्तेत्यङ्गीकारात्स्वभावतः कार्यमसदेवोपपन्नमिति भिन्नं कार्यंसदित्येतद्वार्तामात्रमित्यर्थः॥८॥ एतदेवासत्यत्वमुपपादयति—सत्ताहीनस्येति।

नैव कारणसत्तैव कार्यसत्ताऽपरैव चेत्‌।

तर्हिं सा कार्यसत्ता तु तया कारणसत्तया॥१०॥

सद्रुपेणैव भिन्ना स्यादसद्रूपेण वा भवेत्‌।

सद्रूपेणेति चेदेका सत्ता भिन्ना न सा भवेत्‌॥११॥

असद्रुपेण सा भिन्ना कार्यसत्ता तया यदि।

तर्हि सा नैव सत्ता स्यादसत्त्वादेव शून्यवत्‌॥१२॥

यद्यसत्कार्यमिष्येत न कार्यं तर्हि तद्भवेत्।

वन्ध्यापुत्रो न कस्यापि वस्तुनः कार्यमिष्यते॥१३॥

प्रध्वंसोऽपि न कार्यं स्यात्तस्योत्पत्तेरसंभवात्‌।

नास्ति कारकसंबन्धः प्रध्वंसस्य सुरोत्तमाः।

शून्यवन्निरुपाख्यत्वात्ततो नास्ति जनिक्रिया॥१४॥

————————————————————————————————————————————————

सत्ताहीनस्य कार्यस्यनरविषाणवदसत्त्वमेव हि युक्तम्‌। न ह्यन्यदीयसत्तयाऽन्यत्सद्भवति। नरविषाणस्यापि सत्त्वप्रसङ्गादित्यत्थः। अत एवास्मिन्पक्षे कार्यस्यासत्त्वे सति सत्कार्यमिति वचनं निरर्थकमित्यर्थः॥९॥ एवं तर्हि कारणसत्तातोऽन्यैव कार्यसत्तेति द्वितीयः कल्पोऽस्त्वित्याशङ्कते-नैवेति। तन्निराकरोति—तर्हिति॥१०॥ कारणसत्तातः प्रथग्भृता सा कार्यसत्ता किं सद्रूपेण भिन्नोतासद्रूपेणेति विकल्प्याऽऽद्यं प्रत्याह—सद्रूपेणेति चेदिति। उभयोरपि सत्तयोः सद्रुपेणेकरूप्यावगमात्तेन रूपेण मेदो न युक्त इत्येकैव सत्ता भवेदियथेः॥११॥ द्वितीयमनूद्य दूषयति—असद्रूपेण सा भिन्नेति। सा सत्तैव न भवति शशबविषाणवदसत्वादेवेल्यर्थः॥१२॥ एवं सत्कार्यपक्षं निराकृत्यासदेव कार्यं कारणाद्भिन्नमेति पक्षमपि निराकरोति। यद्यसदिति\। प्रागसतः सत्तासंबन्धो ह्युत्पत्तिः परैरभिमता। सा च वन्ध्यासुतवदसतः कार्यस्य न संभवतीति तस्य कायत्वमेव हीयेतेश्रथः॥१३॥ ननु प्रध्बंसाभाववदसतोऽपि कार्यता किं न स्यादित्यत आह-प्रध्वंसोऽपीति । प्रध्वंसस्यापि कार्यत्वं न संभवति \। उदीरितलक्षणायाउत्पत्तेस्तत्रयोगात्‌ \। उत्प-

असत्त्वेऽपि विशेषोऽस्ति कार्यस्येति मतिर्यदि॥१५॥
को विरोषोऽस्य संबन्धः कारकैर्यदि तन्न हि।
विशेषे सति संबन्धः संबन्धोऽस्य स एव हि॥१६॥
जनिक्रियाश्रयतत्वं चेद्विशेषोऽस्य तदाऽपि तु।
पूर्वोक्तदोषः संप्राप्तस्तस्य नास्ति निवारकः॥१७॥
सत्तासंबन्धवत्त्वं चेद्विशेषोऽस्य न तत्पटु।
तदाऽपि दोषः पूर्वोक्तः प्राप्नोत्येव न संरायः॥१८॥

————————————————————————————————————————————————

त्यसंभवं प्रतिपादयति—नास्तीति। कर्तृकरणादिकारकसंबन्धवतो हि घटादेर्जनिक्रियोपलम्यते। असतः प्रध्वंसस्य शशविषाणवन्निर्धर्मकत्वात्तथाबिधधर्माश्रयत्वेन भावरूपत्वप्रसङ्गात्कारकसंबन्धलक्षणो धर्मो न संभवति\। अतस्तदपेक्षया जनिक्रियाऽपि नास्तीति तस्य कायेत्वं न युक्तमिद्यथः॥१४॥ नम्व॒सत्त्वेऽपि कार्यस्यात्यन्तासतो बन्ध्यासुताद्विरोषो विदयते तेन च तस्य कार्यत्वं सिध्यतीति शङ्कामनुभाषते-असत्त्वेऽपीति। कोऽसौ विशेषः किं कारकसंबन्ध उत जनिक्रियाश्रयत्वमाहोस्वित्सत्तासंबन्ध इति विकल्प्याऽऽद्यं प्रत्याहको विशेष इत्यादिना। निर्विशोषध्यासतः कारकसंबन्धित्वे वन्ध्यासूनोरपि तत्संबंधित्वसंभावनया कायत्वप्रसक्तिरित्यवश्यं केनचिद्विशेषेण विशेषितेऽसति कारकसंबन्धो वक्तव्यः। स च विशेषोऽयमेव संबन्धश्चेत्तर्हि स्वविशिष्टे स्ववृत्तिरित्यात्माश्रयता। यदि संबन्ध।दन्यः स विशेषस्तेनापिं केनचिद्विशेषित एवासति वर्तितव्यम्‌। स च विशेषः कि पूर्वोक्तः संबन्ध एवान्यो वा तृतीयो विशेषः। आद्येऽन्योन्याश्रयत्वम्‌। द्वितीयेऽपि चतुर्थादिविशेषानङ्गीकरि चक्रकापत्तिः। अङ्गकारे त्वनवस्थत्यसतः कार्यस्य कारकससंबन्धलक्षणो विशेषो दुर्निरूप इत्यथः॥१५॥१६॥ द्वितीय॑ प्रत्याह—जनिक्रियेति। जनिक्रियाश्रयत्वलक्षणो विशेषोऽपि केनचिद्विशेषितस्यासत इति वक्तव्यम्‌। इतरथा नरविषाणस्यापि तादृग्विशोषत्वप्रसङ्गात्‌। स च विशेषः किमिदमेव जनिक्रियाश्रयत्वमन्यो वा। इदमेव चदात्माश्रयत्वमित्यादिप्रागुक्तो दोषः पर्याबर्तत इत्यर्थः॥९७॥ उक्तदोषग्रस्तत्वादेव सत्तासंबन्धलक्षणो विशेष इति

अतोऽसतो न कार्यत्वं सदसत्त्वं न संगतम्‌।

उक्तदोषद्वयापत्तेरतः कार्यंतु कारणात्‌।

अभिन्नमेव भेदस्यासंभवादेव वस्तुतः॥१९॥

भेदाभेदसमाख्या तु सतरां नैव सिध्यति।

कारणात्कार्यजातस्य भेदाभावाच्च वस्तुतः॥२०॥

कार्यकारणभेदश्चकारकव्यावृ(प्र)तिस्तथा।

उत्पत्तिश्च विनाशश्च तथैवार्थक्रियाऽपि च॥२१॥

नामरूपविरोषश्च सर्वं भ्रान्त्याप्रसिध्यति॥२२॥

अतः सर्वो विकारश्च वाचा केवलमास्तिकाः।

अस्तीत्यारभ्यते नामधेयमात्रं हि सत्सदा॥२३॥

————————————————————————————————————————————————

तृतीयः कल्पोऽपि न युक्त इत्याह—सत्तेति॥१८॥ प्रतिपादितमसतः कार्यत्वासंबन्धमुपसंहरति—अत इति। यत उक्तरीत्या नरविषाणवदसतो विशेषसंबन्धोदुर्निरूपोऽतोऽसत्त्वाविशेषात्तद्वदेव तस्य कार्यत्वं न युक्तमित्यर्थः। सदसदात्मकं कर्यमिति तृतीयं कल्पं निरस्यति—सदसत्त्वमित्ति। एवं कारणाद्भिन्नस्य कार्यस्य सदसदादिविकल्पेन निरूपयितुमशक्यत्वात्कारणाभिन्नमेव तत्कार्यमङ्गीकर्तव्यमित्युपसंहरति—अतः कार्यमिति। तत्र हेतुमाह—भेदस्येति। भेदावगमस्य धर्मिप्रतियोगिभेदाधीननिरूपणत्वेनाऽऽत्माश्रयादिदो षग्रस्ततया परमार्थतः क्वचिदपि निरूपणासंभवादित्यर्थः॥१९॥ भेदाभेदेति। भावाभावयोरेकत्र समुच्चेतुमशक्यत्वाद्भेदपक्षोक्तदोषप्रसङ्गाच्च भिन्नाभिन्नंकार्यमीति भेदाभेदपक्षस्तु सुतरां न युक्त इत्यर्थः। ननु कार्यस्य कारणानन्यत्वे भेदप्रतीतेःका गतिरिति तामाह—कारणादिति। परमार्थतः कार्यस्य कारणादभेदेऽप्यविद्यावशात्कार्यकारणादिभेदप्रतिभासः सिध्यतीत्यर्थः॥२०—२२॥ एवं कार्यस्य कारणमात्रत्वंप्रसाध्यास्मिन्नर्थे श्रुतिंयोजगति—अत इति। विक्रियते विविधं क्रियत इति विकारः कार्यवर्गः। यतस्तद्भेदप्रतिभासो

प्रातीतिकेन रूपेण विकारोऽसत्य एव हि।
कारणाकार एवास्य सत्यःसाक्षात्सदा सुराः॥२४॥

कारणाभिन्नरूपेण कार्यं कारणमेव हि।

सद्रूपेण सदा सत्यं भेदेनोक्तिर्मृषा खलु॥८५॥

अतः कारणविज्ञानात्सर्वविज्ञानमास्तिकाः।

सुतरामुपपन्नं हि न संदेहोऽस्ति कश्चन॥२६॥

तच्च कारणमेकं हि न भिन्नं नोभयात्मकम्‌।

भेदः सर्वत्र मिथ्यैव धर्म्यादेरानेरूपणात्‌॥२७॥

————————————————————————————————————————————————

भ्रान्त्याऽतः सर्वोऽपि विकारो वाचैव केवलमस्तीत्यारम्यते न तु वस्तुतोऽस्ति। अतो घटशराब इत्यादिनामधेयमात्रमेव।सदा सर्वदा प्र(ध्वंसा)ध्वस्तावस्थायामिव स्थितिकालेऽपि कार्यस्य कारणमात्रत्वमेवावशिष्यते॥२३॥नन्वेवं विकारस्यनामधेयमात्रत्वेऽर्थादसत्त्वमुक्तं भवति। तादृशस्य कथं कारणभूतसद्ब्रह्मानन्यत्वं सदसतोः परस्परविरोधादित्याशड्क्याऽऽह—प्रातीतिकेनेति। कार्यस्य हि द्वेरूपे पृथुबुध्नोदराद्याकारविशेषात्मकमेकंप्रातीतिकं रूपम्‌। तथाऽनुगतमृदात्मकमपरं कारणरूपम्‌\। तत्र प्रातीतिकेन रूपेणासत्य एव कार्यवर्गःकारणमृद्रूपेण सत्यः॥२४॥नन्वेवं कार्यसंबन्धिकारणरूपमेकं कारणं चान्यदित्यद्वैतकारणत्वव्याकोप इत्यत आह—कारणाभिन्नेति। कार्यसंबान्धिसत्कारणामिन्नं रूपं तत्कारणमेव नानयोर्भेंदो विद्यत इत्यथः। एवमुक्तेऽर्थे मृत्तिकेत्येव सत्यमित्यादिकां कारणमात्रसत्यत्वप्रतिपादिकां श्रुतिं योजयति—सद्रुपेणेति। श्रुतिगतैवकारस्प फलमाह—भेदेनेति॥२५॥ प्रतिपादितमर्थं निगमयति—अत इति। यतो लोके मृदादिकारणेषु ज्ञातेषु तदनन्यतया तत्कार्यघटशराबादिकमपि कारणाकारेण ज्ञातमेव भवति। अतः सर्वजगत्कारणभूतसद्ब्रह्मात्मज्ञानात्तत्कार्यं सवेमपि कारणात्मना ज्ञातमेव भवतीत्येतदुपपद्यत इत्यर्थः॥२६॥ ननु कार्यस्य कारणज्ञानाज्ज्ञानेऽपि कारणजातीयस्य तेन ज्ञातुमशक्यत्वात्कथमेकविज्ञानात्सर्वविज्ञानमित्यत आह—

भेदे ज्ञाते हि धर्म्यादिविभागस्य च वेदनम्‌।
विभेदेनैव धर्म्यादौविज्ञाते भेदवेदनम्‌॥२८॥

भेदानिरूपणादेव भेदाभेदोन संगतः।

अतश्च कारणं नित्यमेकमेवाद्वयं सुराः॥२९॥

कुलालादेर्मृदादेश्च भेदे दृष्टेऽपि भूतले।

अचैतन्यान्मृदादेस्तु कुलालादिरपेक्ष्यते॥३०॥

अत्र कारणमद्वैतं शुद्धं चैतन्यमेव हि।

तेन नापेक्षते ह्यन्यत्कारणं चेतनात्मकम्‌॥२१॥

स्वयं चेतनमप्येतत्कारणं न कुलालवत्।
अपेक्षते मृदा तुल्यमचिद्रूपं तु कारणम्‌॥३२॥

————————————————————————————————————————————————

तच्चेति। तच्च जगत्कारणमेकमद्वितीयमेव न तु भिन्नं नापि भिन्नाभिन्नात्मकम्‌। भेदस्य क्वचिदपि लब्धात्मकत्वाभावेन कारणे शङ्कितुमप्मशक्यत्वादित्यर्थः। ननु घटात्पटो भिन्न इति मेदः प्रतयक्षतोऽनुमृयत एवेत्यत आह—भेदः सर्वत्रेति। धर्मिप्रतियोगिज्ञानाधीननिरूपणो हि भेदावभाषः। भेदेन ज्ञातयेरेव धर्मिप्रतियोगित्वमित्यन्योन्याधीननिरूपणत्वेन क्वचिदपि भेदस्याऽऽत्मलाभासंभवान्मिथ्याभृत एव प्रतीयमानोभेद इत्यर्थः॥२७॥२८॥ अतश्चेति। यतो वेद्यस्य भेदस्याभावात्तद्विषयावभासोऽपि न पारमार्थिकः। अतः कारणाद्विदारणात्मकभेदासंस्पर्शात्कारणं नित्यं स्वगतसजातीयभेदाभावाच्चैकमेवाद्वितीयमिति सिद्धमित्यर्थः॥२९॥ ननु लोके घटादिकार्येषूपादानं निमित्तं चोभयं पृथग्दृश्यते। तथाऽद्वितीयस्य सद्वस्तुनो निमित्तत्वेन निरुपादानं कार्यंनोत्पद्यते तदुपादानत्वे च निर्निमित्तत्वप्रसङ्ग इत्याशङ्कय तस्योभयरूपतामाह-कुलालादेरित्यादिना। गृदादेरचेतनत्वेन हि स्वातिरिक्तचेतनकुलालाद्यपेक्षा। जगदुपादानं तु स्वयमेव चेतनत्वान्नान्य॑ चेतनमपेक्षते तथा चेतनत्वेऽपि कुलालवत्स्वातिरिक्ताचिद्रूपोपादानापेक्षाऽपि नास्ति। अभिन्ननिमित्तोपादानत्वस्य श्रुतत्वात्‌। अत्रैव श्रूयते हि—“तदैक्षत बहु स्यां प्रजायेय”

प्रतीत्या केवलं शक्तिरचिद्रूपा तमोमयी।
सर्वप्रकारैर्विद्वद्भिरनिरूप्याऽस्ति शांकरी ॥ ३३ ॥
तया दुर्घटकारिण्या तादात्म्येनैव संगतम् \।
कारणं सकलस्रष्टृ सर्वसंहर्तृ चाऽऽस्तिकाः ॥ ३४ ॥
पालकं च सदा सच्च चिद्रूपत्वात्सुरोत्तमाः।
चिद्रूपस्य तु सत्यत्वं युक्तमेवाऽऽस्तिकाः सदा ॥ ३५ ॥
अचिद्रूपाहिरज्ज्वादेर्मृषात्वं संमतं खलु।
अतस्तत्कारणं देवाः सदेवैकं च शाश्वतम् ॥ ३६ ॥

____________________________________________________________________________

इति। तत्रेक्षणान्निमित्तत्वं बहुभवनेनोपादानत्वं चाद्वितीयस्य सद्वस्तुनोऽवगम्यते। अतो जगतो निमित्तमुपादानं च स्वयमेवेत्यर्थः ॥ ३०-३२ ॥ नन्वविक्रियस्यासङ्गस्य सद्रूपस्य ब्रह्मणः कथमीदृग्विधं कारणत्वं संभवति माययेति चेत्तर्हि तथा द्वैतापत्तेरित्यत आह—प्रतीत्येति। प्रतीत्या प्रतीतिमात्रेणैव सिद्धा प्रतीत्येकशरीरेति यावत्। स्वप्रकाशब्रह्मस्वरूपाच्छादकत्वात्तमः-प्रधाना निरूपणसमर्थैरपि विद्वद्भिः सदसदा दिसर्वप्रकारैर्निर्वक्तुमशक्या ॥ ३३ ॥ ईदृग्विधमायातादात्म्यस्य सद्रूपे ब्रह्मण्यध्यस्तत्वात्तदीयसत्वरजस्तमोगुणोपाधि- भेदेनाविक्रियस्यापि ब्रह्मणः स्रष्टृत्वादिकमुपपद्यते। नापि द्वैतापत्तिः। मायाया अनिर्वचनीयत्वेन सदन्तराभावात् ॥ ३४ ॥ एवमद्वितीयत्वं प्रसाध्य सद्रूप- त्वमपि साधयति सदा सच्चेति “विज्ञानमानन्दं ब्रह्म इत्यादिश्रुतेश्चिद्रूपं हि जगत्कारणं ब्रह्म। तथाच विमतं सत्। चिद्रूपत्वात्। यत्तु सद्विलक्षणं नासौ चिद्रूपः। यथा रज्जुसर्प इति भावः। व्याप्तिमुपपादयति। चिद्रूपस्येति जडप्रपञ्चप्रतीतिबाधसाक्षितया सर्वदाऽवस्थानाच्चिद्रपस्य तदधिष्ठानस्य ब्रह्मणो युक्तमेव सार्वकालिकं सत्यत्वमित्यर्थः ॥ ३५ ॥ चिद्रूपस्याप्यसत्यत्वं कुतो न भवतीत्यत आह-अचिदिति।अहिरज्ज्वादे रज्जुसर्पादेरित्यर्थः। तत्र हि मिथ्यात्वमचिद्रूपत्वेन व्याप्तं दृश्यते। तच्च चिद्रूपाज्जगत्कारणाद्वयावर्तमानं स्वव्याप्यं मिथ्यात्वमपि व्यावर्तयतीत्यभिप्रायः। अस्मिन्प्रतिपादितेऽर्थे " सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम् " इति श्रुतिं योजयति—अत इति ॥ ३६ ॥

इदं सर्वं जगत्पूर्वंसदेवाऽऽसीत्सुरर्षभाः।
असदासीदिति भ्रान्ता वदन्ति सुरपुङ्गवाः॥ ३७॥

असन्न कारणं युक्तं वस्तुतत्त्वनिरूपणे।

वन्ध्यापुत्रोऽपि सर्वेषां कारणं स्यात्स्वयं खलु॥ ६८॥

स्वशक्त्याऽसच्च सर्वेषां कारणं भवतीति चेत्‌।

शक्तिरप्यसतो नास्ति सतो बीजस्य दर्शनात्॥ २३९ ॥

अङ्कुरोत्पादिका शक्तिः सद्रूपस्यैव दृश्यते।

खलु बीजस्य सर्वत्र नासतस्तददर्शनात्‌॥ ४०॥

————————————————————————————————————————————————

यत्उक्तरीत्या जगत्कारणमद्वितीयं सदेवातः कारणादिदं परिदृश्यमानं नामरूपात्मकं कार्यं सर्वंजगत्सृष्टेःपूर्वं सदेवाऽऽसीत्। सद्रूपकारणत्मनैव वर्ततेन तु नामरूपात्मनेत्यर्थः। एवं सत्कारणवादं प्रस्तुत्यैतद्दार्ढ्यार्थंश्रुत्या। शून्यबाद्यभिमतमसत्कारणपक्षमुपन्यस्य तस्य निरासः कृतः। ‘तद्धैके’इत्यादिना “कथमसतः सज्जायेत” इत्यन्तेन। तस्याः श्रुतेरभिप्रायमाविष्करोति-असदासीदित्यादिना।विनष्टादेव हि बीज देरङ्कुरादिकार्योत्पत्तिदर्शनात्कारणंनानुपमृद्य प्रादुर्भावोऽस्तीत्यभावस्यैव तत्रकारणत्वम्‌।एवं जगन्मूलकारणमपि तादृशमसद्रूपमेवेत्येवं बदन्तोऽसद्वादिनो भ्रान्ताः। मृतदेवदत्तस्य पुत्रोत्पादनशक्तिवन्नष्टस्य कारणस्य कार्यजननशक्त्ययोगात्‌। अङ्कुरादिकार्यसमयेच बीजादिकारणसंस्थानादिविशेषाणां तदवयवानामनुवृत्तेश्च नासतः कारणत्वं युक्तमिति तेषां भ्रान्तम्‌॥३७॥ तदेवोपपादयति-असन्न कारणमित्यादिना।न तावदसतः कारणत्वंयुक्तम्‌।तस्य सर्वप्रकारेणापि निरुपाख्यस्य कारणत्वलक्षणभावरूपधर्माश्रयत्वायोगात्तदाश्रयत्वे च बन्ध्यासुतस्याप्यसत्त्वाबि-शेषात्सर्वकारणत्वं प्रसज्यतेत्यर्थः॥३८॥ नन्वसतोऽपि जगन्मूलकारणस्य स्वशक्तिवशात्कारणत्वं सेत्स्यतीति शङ्कां दूषयितुमनुभाषते-स्वशक्त्येति। तदेतद्दूषयति-शक्तिरिति॥३९॥अङ्कुरादिकार्यजननशक्तिरपि सद्रूपस्यैव बीजादेरन्वयव्यतिरेकाभ्यामवसीयते नासतः।अतो दृष्टविरोधादसतः शक्तिकल्पनमयुक्त-

साऽपि शाक्तिःसती किंवाऽसती सदसती तु वा।
सती चेत्सा सती शाक्तिःकथं वन्ध्यासुताश्रया॥
आश्रयत्वं सतो दृष्टं खलु लोके न चासतः॥ ४१॥
साऽसती चेत्कथं शक्तिः कार्यनिर्वाहिकाऽसती॥४२॥
वन्ध्यापुत्रः स्वय नैव कार्यनिर्वाहकः खलु।
निर्वाहकत्वधर्मश्चसत एव हि दृश्यते॥ 8३॥
शक्तिःसदसती सा चेद्दोषद्वयसमागमः।
अतः स्वशक्त्याचासत्तु सर्वेषां नैव कारणम्‌॥ ४४॥
तस्मात्सोऽयमसद्वादो जल्पमात्रं न युक्तिमान्‌।

————————————————————————————————————————————————

मिर्यर्थः॥४०॥ विकल्पासहत्वेनापिदूषयति-साऽपीति। आद्यं कल्पमनूद्य निराचष्टे सतीचेदिति। भावरूपा शक्तिर्निरुपाख्यस्यासतः कथं घर्मः स्यात्‌। न ह्यत्यन्तासतेबन्ध्यासुतादेस्तादृशशक्तियोगी दृश्यते युज्यते वा। तथाविधरक्त्याश्रयत्वं च सत एव हि बीजादेर्दृष्टं न त्वसतो नरविषाणादेः। अतस्तदाश्रयत्वेबीजादिवदेव भावरूपत्वप्रसङ्गादताऽसतः सद्रूपा शक्तिरस्तीति न युक्तं कल्पयितुमिदत्यथेः॥४१॥ द्वितीयं कल्पमनूद्य निराचष्टे-साऽसती चदिति। असतः कारणत्वोपपादनाय हि या शक्तिः परिकल्प्यते साऽपि यद्यसती स्यात्तर्हितस्या अपिबन्ध्यासुतादिवत्कार्यनिवेहणसामर्थ्यानुपपत्तिः। नन्वसतोऽपि तथाबिधसामर्थ्यदर्शनबलादभ्युपगम्यतामित्यत आह—निर्वहकत्वेति। एवं चासद्रूपा शक्तिः परिकल्पिताऽपि नासतः कारणत्वमुपपादयितुं शक्नोतीत्यर्थः॥४२॥४३॥ तृतीयं निरस्यति–शक्तिः सदसतीति। दोषद्वयसमागम इति। सात्त्वासत्त्वपक्षोक्तयोर्द्वयोरपि दोषयोः प्रसङ्गं इत्यर्थः। प्रतिपादितमसतोऽकारणत्वं निगमयति-अत इति॥४४॥ एवमसत्कारणवादस्यायुक्तत्वाच्छ्रुतौतुशब्देन तन्निराकृत्य यत्प्रकृतसत्कारणवाद निगमनम्‌ “सदेव सोम्येदमग्र असीदेकमेवाद्वितीयम्"इति तद्दर्शयति—अत इति। नासदिति श्रुतिगततुशब्दाभिप्रायकथनम्॥४५॥ एवमेकविज्ञानात्सर्वविज्ञानं प्रतिज्ञाय तदुपपादनाय मूदादिदृष्ठान्तैः

अतः सदेव सर्वेषां कारणं नासदास्तिकाः॥४५॥

सृष्टेस्तु प्रागिदं सर्वं सदेवाऽऽसीत्तु कारणम्‌।

तच्च कारणमाद्यन्तविनिर्मुक्तंसदद्वयम्‌॥४६॥

पूर्वकल्पप्रपञ्चोत्थसंस्कारेणानुरञ्जितम्‌।

कालकर्मविपाकेन सत्त्ववृत्तिसमाश्रितम्‌॥४७॥

सृष्ट्यर्थमैक्षत प्राज्ञा बहुस्यामिति शक्तिमत्‌।

————————————————————————————————————————————————

कार्यस्यकारणानन्यत्वं प्रसाध्य किं तदेकं वस्तु यद्विज्ञानात्सर्वंविज्ञायेतेत्याकाङ्क्षायाम्‌ “सदेवसोम्येदमग्र आसीतू” इति सदद्वितीयंब्रह्मोपदिष्टम्‌। तत्कार्यत्वे हि जगतस्तत्कारणविज्ञानेन विज्ञातत्वामित्यभिप्रेत्य तत्कार्यलप्रातिपादनाय तत्सकाशात्सृष्टिराम्नायते “‘तदैक्षत बहु स्यां प्रजायेय” इत्यादिना। तां सृष्टिंश्रुत्यभिप्रेतार्थाभिधानपुरःसरं गृह्णाति—तच्चेत्यादिना। आद्यन्तबिनिर्मुक्तमिति। आदिरुत्पत्तिरन्तो विनारास्तदुभयविनिर्मुक्तम्‌॥४६॥नन्वद्वितीयात्सद्रुपदेकविधात्कथमनेकविधकार्यप्रपञ्चोत्पत्तिरित्यत आह–पूर्वकल्पेति। अतीतकल्पप्रलीनप्रपञ्चजनिता या वासना तदनुभवजनितो यश्च संस्कारस्तदु भयसवाङ्तमित्यर्थः। कालकर्मनिपाकेनेति। कालकृतः प्राणिक्रमेणां पृण्यपापरूपाणां यः परिपाकः फलप्रदानौन्मुख्यं तेनेत्यर्थः। सत्ववृत्तिसमाश्रितमिति। अन्तःकरणोपादानभूतसत्वपरिणामरूपा स्रष्टव्यकार्यप्रपञ्चविषया वृत्तिस्तयाऽच्छिन्नमित्यर्थः॥४७॥ बहु स्यामिति। उपादानान्तरनेरपेक्ष्येण स्वात्मरूपेणैव बहुविध जगद्भवेयमित्यर्थः। ननु निर्विकारण्य निरबयवस्य चिद्रूपस्याऽऽत्मनोबहुभवनासंभवात्तद्योग्यं सांख्याद्यभिमतप्रधानमेव “तदैक्षत बहु स्यां प्रजायेय”इति श्रृतिबाक्येन प्रतिपाद्यतइति चेत्‌। मैवम्‌। तस्याचेतनलेनेक्षणासंभवात्‌। अत एव भगवान्बादरायणः सूत्रयामास-“ईक्षतेर्नाशब्दम्‌” इति। कथं तर्ह्युक्तविधस्य ब्रह्मणो बहुभवनसंभव इति तत्राऽऽह-शक्तिमदिति। शक्तेः सत्वरजस्तमोगुणात्मिका माया तस्याःसांख्याद्यभिमतप्रकृतिवत्स्वातन्त्र्यशङ्क मा भूदिति शक्तिपदेनाभिधानम्‌। शक्तिमत्वं च परशिवस्य श्वेताश्वतरैराम्नायते—“पराऽस्य शाक्तिर्विबिधैव श्रूयते”इति। यद्यपि छन्दोगशाखायां तेजःप्रभृतेरेव सृष्टिराम्नातः

पुनस्तत्पूर्वसंस्कारादाकाशं वायुमादितः॥४८॥
सृष्ट्वातेजस्ततः सृष्ट्वापुनः सृष्ट्वात्वपस्ततः।
अन्नशब्दोदितां देवाः ससर्ज पृथिवीं पराम्‌॥४९॥
तत्पुनः कारणं ब्रह्म तानि भूतानि पञ्च च\।
एकैकं द्विविधं कृत्वा तेषां मध्ये सुरोत्तमाः॥५०॥

————————————————————————————————————————————————

न वियद्वाय्वोस्तथाऽपि तैत्तिरीयके तयोरपि सृष्टिराम्नातेति गुणोपसंहारन्यायेन तामत्रोपसंहृत्य दर्शयति—पुनस्तदिति। बादरायणेऽपि वियद्वाय्वोरुत्पत्तिम्‌ “न वियदश्रुतेः”“एतन मार्तारेश्वा व्याख्यातः”इत्याधिकरणाभ्यां निर्णीतवान्‌।श्रुतौ “तत्तेजोऽसृजत” इत्यादिना या तेजोबन्नसृष्टिराम्नाता तामाह—सृष्ट्वेति। ततस्तस्माद्वायुरूपापन्नात्स्वात्मनस्तेजः सृष्ट्वा पुनस्तेजोरूपापन्नात्स्वस्मदेवापः ससर्जेत्यर्थः। एवं चात्र तत इति“जनिकर्तुः प्रकृतिः”? इति विहितापादाने पञ्चमी। नतु दिग्योगलक्षणानन्तर्यपञ्चमी। अनन्तरमित्यध्याहारसापेक्षाया उपपदविभक्तेस्तन्निरपेक्षत्वेन कारकविभक्तेर्बलीयस्त्वात्‌।न चैवं तेजसः सद्रूपब्राह्मजत्वव्याकोपः। वायोस्तत्वतोब्रह्मभेदात्‌। बादरायणोऽप्यमुमर्थंसूत्रयामास-“तेजोऽतस्तथा ह्याह”इत्यादिना। अन्नशब्दोदितामिति। “अन्नमसृजन्त” इति श्रुतौया पूथिव्यन्नशन्देनाभिहिता तामित्यर्थः। श्रुतिगतान्नशब्दस्य पृथिव्यभिधायकत्वं च व्यासेन प्रतिपादितम्—“पृथिव्यधिकाररूपशब्दान्तरेभ्यः इति। परामिति। अपञ्चीकृतत्वेन सूक्ष्मामित्यर्थः॥४८॥४९॥ श्रुतौतेजोबन्नसृष्टेरनन्तरं यत्‌ त्रिवृत्करणमाम्नातम्‌ “तासां त्रिवृतं त्रिवृतमेकैकामकरोत्‌” इति तद्भूतसृष्ठौवियद्वायुसृष्टेरप्युपसंहारात्पञ्जीकरणस्योपलक्षण। मिति तदशयति—तत्पुनरित्यादिना। एतच्च पञ्चीकरणं शिवमाहात्म्यखण्डस्य दशमेऽध्याये विस्तरेण प्रागस्माभिः प्रतिपादितम्‌। तेष्वंशानादयिति। तेषु विशतिसंख्याकेषु चतुर्धाकृतांशेषु वियदर्भसंबन्धिनश्चतुरोंऽशानादाय वाय्वादीनां चतुर्णांभूतानां सबंन्धिनस्तांश्चतुरोऽर्धांशांश्चाऽऽदाय कारणं ब्रह्मैकैनार्धेनैकैकमंशं योजयति। एवं वाय्वादिभूतार्धसंबन्धिनोऽपि चतुरोंऽशानादाय तत्तद्भूतव्यतिरिक्तभूतार्धै-

अंशान्पञ्च समादाय तेषामेकैकमास्तिकाः।
कृत्वा चतुर्धातेष्वंशानादाय चतुरः सुराः॥५१॥

यथाक्रमेण भूतानां चतुरस्तांश्च कारणम्‌।

यथाक्रमेण भुतार्धेनैकेनैकं करोति तत्‌॥५२॥

एवमंशान्तरानेतानादाय चतुरः स्वयम्‌।

एकं भूतान्तरार्धेन करोति क्रमशः सुराः॥५३॥

एवं भूतानि सर्वाणि पञ्चीकृत्य सुरषेभाः।

अण्डानि भुवनान्याशु करोति ब्रह्म कारणम्‌॥५४॥

अण्डजं जारजं चैव स्वेदजं चोद्भिजं तथा।

करोति कालपाकेन प्राणिकर्मवशेन च॥५५॥

ब्रह्म सर्वत्र चिद्रूपेणैवानुप्राप्य सात्त्विकाः।

पृथङ्नामानि रूपाणि कुरुते पूर्वकल्पवत्‌॥५६॥

इदं सर्वंजगत्सत्यमिव भातमपि स्वतः।

कारणव्यतिरेकेण नास्त्येवात्र न संजयः॥५७॥

—————————————————————————————————————————————————

श्चतुर्भिरेकमेकं संयोजयतीत्यक्षरार्थः॥५०—५३॥ अण्डजं जारजमुद्भिज्जमिति श्रुतेरभिप्रेतमर्थं दर्शयति—अण्डजमिति। स्वेदजस्य यूकादेरण्डजान्तर्भावमभिप्रेत्य श्रुतौ त्रैविध्यमाम्नातम्‌।अत एवाऽऽहुर्भाष्यकाराः—“स्वेदजसंशोकजयोरण्डजोद्भिज्जयोरापि (रेव)यथासंभवमन्तर्भावः इति। “सेयं देवतेमास्तिस्रोदेवता अनेनैव जीवेनाऽऽत्मनाऽनुप्रविश्य नामरूपे व्याकरोत्‌” इति श्रुतिवाक्यस्यार्थमाह—ब्रह्मेति।जगत्कारणं ब्रह्म जलतरङ्गबुद्बुदादिषु सूर्यबिम्बवत्सवेत्रब्रह्मेन्द्रादिसर्वशरीरेषु चिद्रूपेणैवानुप्राप्य पूर्वकल्पानुसारेणासौ नामाऽयमिदंरूपमिति नामरूपे व्याकरोदित्यर्थः॥५५॥५६॥ मुदादिदृष्टान्तैः प्रागुपपादितं कार्यस्य कारणानन्यत्वंपुनर्द्रढयितुं त्रिवृत्कृतस्थूलभूतकार्यप्रपञ्चस्याप्यत्रिवृत्कृतकारण भूततेजोबन्नमात्रत्वमग्न्यादिभिश्चतुर्भिरुदाहरणैः

यदग्ने रोहितं रूपं तद्रूपं तेजसः सदा।

यच्छुक्लंतदपां रूपं यत्कृष्णं भौममेव तत्‌॥५८॥

नास्ति रूपातिरेकेण सदा सोऽग्नि सुरर्षभाः।

वाचारम्भणमात्रो हि विकारो वह्निसंज्ञितः॥५९॥

त्रीणि रूपाणि हे देवा एव सत्यं न चानलः।

यद्भानो रोहितं रूपं तद्रूपं तेजसः सदा॥६०॥

यच्छुक्लं तदपां रूपं यत्कृष्णं भौममेव तत्‌।

नास्ति रूपातिरेकेण सदाऽऽदित्यो न संरायः॥६१॥

भ्रान्त्या केवलमादित्य इत्याहुरविवेकिनः।

एवं चन्द्रश्च विज्ञेयो विद्युच्चसुरपुङ्गवाः॥६२॥

घटकुड्यादयो भावा भूतानि भुवनानि च।

—————————————————————————————————————————————————

श्रुतौदार्शितम्‘यदग्ने रोहित रूपम्‌’इत्यादिना। इदं पञ्चीकृतभूतकार्यं सर्वं जगत्परमार्थबद्भातमपि कारणसूक्ष्मभूतव्यतिरेकेण नैवास्ति॥५७॥ कथमेतदुपपद्यत इत्याशङ्क्योपपादयति

यदेग्नोरति। त्रिवृत्कृतभृतकार्येष्वग्न्यादिषु लोहितशुक्लकृष्णामकास्त्रयो वर्णा अबभासन्ते।तत्र यल्लौहित्यं तदत्रिवृत्कृतस्य सूक्ष्मस्य तेजसो रूपम्‌। यच्छौक्ल्यं तदपाम्‌। यत्कार्ष्ण्यं तद्भूमेः॥५८॥ नन्वेषां रूपाणामन्यदीयत्वेऽप्यग्निर्नाम धर्मी कुतो न स्यादित्यत आहि

नास्तीति।एतद्रूपत्रयमेव हि मिलितमग्न्यादिपदेनाभिधीयते न तु ततोऽतिरिक्तं किंचित्तत्त्वान्तरमस्तीत्यर्थः। ननु दाहपाकादिसमर्थत्वेनानुभूयमानोऽग्न्यादिपदार्थः कथमपलपितुं शक्यत इत्यत आह–वाचारम्भणमात्र इति। कारणभूतरूपत्रयव्यतिरेकेण योऽयमग्न्यादिपदाभिधेयोविकारः संस्थानविशेषः स वाचैव केवलमारभ्यते न तु वस्तुतोऽस्तीत्यर्थः॥५९ि

६१॥ भ्रान्त्येति। कार्यस्य कारणात्पृथक्त्वेन व्यवहारोभ्रमकृत इयर्थः। “यच्चन्दरमसो रोहितं रूपम्‌” इत्यादिना श्रुतौ विस्तारेणोक्तमर्थमतिदेशेन कथयात–एवमति॥६२॥ घटकुड्यादय इतिय। यथा चेमेऽग्न्यादयः कारणभूततेजोबन्नव्यतिरेकेण न

सर्वं ब्रह्मातिरेकेण नास्ति ब्रह्मैव सत्सदा॥६२॥

पूर्वपूर्वभ्रमोत्पन्नवासनाया बलेन तु।

देहेन्द्रियादिसंघातेऽहंमतिर्जायते दृढम्‌॥६४॥

देहेन्द्रियादयोभावा नाहमर्थानिरूपणे।

भौतिकत्वाच्च भूतांशैःसदैवाऽऽप्यायितत्वतः॥६५॥

मृदम्भसा यथा भित्तिर्निर्मिता वैमृदम्भसा।

आप्यायते तथा भुक्तैर्भूतैर्देहादयोऽपि च॥६६॥

अतो देहादिसंघातेऽहं ममेत्यादिकां मतिम्‌।

विसृज्यसाक्षिचैतन्ये विद्वान्कुर्यादहंमतिम्‌॥६७॥

———————————————————————————————————————————————

सन्ति एवं भूतभौतिकात्मकं सर्वंजगत्कारणभूतब्रह्मव्यतिरेकेण नैवास्ति। सद्रूपं तदेव सर्वदा विद्यत इत्यर्थः॥६३॥ ब्रह्मणः परमार्थत्वे तत्त्वमसीति तदात्मकतयाऽनन्तरमुपदक्ष्यमाणो जीवोऽपि परमार्थ इति तदेकविषयोहंप्रययः कथमसत्यभृतकार्येष्वसत्येषु देहादिष्वहं मनुष्य इति जायत इत्यत आह—पूर्वपूर्वेति। गतजन्मभ्रमजनितवासनामूल इदानीं देहादावहमिति भ्रमः।इत्थं गतजन्मन्यपीत्यनादित्वान्नानवस्थेत्यर्थः॥६४॥ “अन्नमशितम्” इत्यारभ्य “दध्नः सोम्य” इत्यतः प्राक्तनया श्रुत्या मनोवाक्प्राणमांसलोहितमज्जाद्यात्मकस्य शरीरस्थ जडभूतत्रयकार्यत्वेन जडत्वच्चेतनैकगोचरमहंप्रत्ययं प्रति परमार्थतो न विषयत्वमिति प्रपाञ्चितम्‌।तत्संग्रहेण व्याकरोति- देहेन्द्रियादय इति। भ्रान्त्यैवाहमर्थाः देहादयो नतु निरूपणे। पितृमातृभुक्तभूतकार्यत्वात्स्वयं भुज्यमानतेजोबन्नलक्षणभूतत्रयांशैःस्थविष्ठमध्यमसूक्ष्मैरुपचयाच्चेत्यर्थः॥६५॥ उपचयस्तावद्देहादिरनादिभिरुपलभ्यते। अत एव तस्य निर्माणमपि तैरेवेत्यत्र निदर्शनमाह—मृदम्भसेति॥६६॥ व्याख्यातायाः श्रुतेः फालित॑ तात्पर्यमाह—अत इति। यतो देहेन्द्रियमंनसां वाचारम्भणमात्रं तेजोबनभूतकार्यत्वेनानात्मत्वमतस्तत्राहमित्यात्ममतिं परित्यज्य कूटस्थनित्यचिदात्मन्येव तां कूर्यादित्यर्थः॥६७॥ तेजोबन्नविलक्षणानां भूतेन्द्रियमनसां कथं तत्कार्यतेति

दध्नः सर्पिर्यथा जातं मन्थनेन सुरर्षभाः।

तथा बुद्ध्यादयोभावा भूतेभ्यश्चोद्भवन्ति हि॥६८॥

भौतिकं देहसंघातंविसृज्य मतिमान्पुनः।

सर्वसाक्षिणि चिद्रूपे कुर्यान्नित्यमहंमतिम्‌॥६९॥

अन्नेनाऽऽप्यायतेऽभुक्ते नाधीतं तस्य भासते।

ततोऽपि बुद्धिरन्नस्य कार्यमेव न संदायः॥७०॥

अतोऽपि बुद्धिमन्नस्य कार्यं त्यक्त्वा विविक्तधीः।

सर्वसाक्षिणि चिद्रूपे कुर्यान्नित्यमहंमतिम्‌॥७१॥

देहेन्द्रियादिसंघातेऽहंममेयादिकां मततम्‌।

त्यक्त्वा स्वात्मनि चिद्रूपे यदापीतो भवत्ययम्‌॥७२॥

तदा स्वपिति दुःखादिदर्शनं च न विद्यते।

स्वात्मरूपसुखप्राप्तिरेवं दृष्टाऽस्य देहिनः॥७३॥

अतोऽपि मतिमान्नित्यं त्यक्त्वा देहादिगां धियम्‌।
सर्वसाक्षिणि चिद्रूपे साक्षात्कुर्यादहंमतिम्‌॥७४॥

————————————————————————————————————————————————

चेत्‌। दधिविलक्षणस्यसर्पिषो यथा दधिकार्यतेत्युदाहृतं श्रुत्या"दध्नः सोम्य”इति तद्विशदयति—दध्नः सर्पिरिति। दध्नो यथा मन्थनेन विलक्षणः सर्पिष्परिणामः।एवं तेजोबन्नानामौदर्याग्निकृतपाकविशेषेण देहेन्द्रियमनोरूपपरिणामविशेष इत्यर्थः॥६८॥ दधिसर्पिर्दृष्टान्तेन देहादेर्भौतिकत्वसमर्थनेन प्रागुक्ताया व्यतिरिक्तात्मनिष्ठाया निरपवादत्वं सिद्धमित्याह—भौतिकंदेहसंघातमित॥६९॥ वाक्प्राणयोः कार्ययोरस्तु भौतिकत्वं मनस्तु नित्यमिति वैशेषिकास्तत्कथं तस्य भौतिकत्वमित्याशयवता पुत्रेण पृष्टम्‌ “भूय एव मा भगवान्विज्ञापयतु” इति।तत्र पितुरुत्तरम्‌ “षोडशकलः” इत्यादि। षोडशदिनपर्यन्तमनशनेनोपक्षयादधीतवेदानामनवभासः पुनरशनेन तदुपचयादबभास इत्यन्नेनोपचयदर्शनादन्नमयं मन इति पितुराशयस्तं संगृह्णाति—अन्नेनाऽऽप्यायतेऽभुक्ते नेति। बुद्धिरिति मन एवोक्तम्‌॥७०॥ मनसोऽन्नमयस्याऽऽक्षिप्तस्य यत्कृतं समर्थनं तस्यापि प्रागुक्तव्यतिरिक्तात्मनिष्ठा-

यदिदं साक्षिणा वेद्यं तत्सर्वं ब्रह्म केवलम्‌।
तत्सत्यं पूर्णचैतन्यं तत्त्वमर्थो न संशयः॥७५॥

त्वंशब्दार्थो य आभाति सोऽहंशब्दार्थएव हि।
योऽहंशब्दार्थआभाति स त्वंशब्दार्थएव हि॥७६॥

———————————————————————————————————————————————

सिद्धिरेव फरमित्याह—अतोऽपि बुद्धिमन्नस्येति॥७१—७४॥ “एकमेवाद्वितीयम्‌” इत्यद्वितीयंब्रह्म प्रतिज्ञाय तेजोबन्नलक्षणस्य भूतत्रयस्य तदुत्पन्नस्य भौतिकस्य भोग्यजातस्य भोगायतनानां शरीराणां भोगोपकरणानामिन्द्रियाणां च तत्कार्यतयैव वाचारम्भणत्वान्न तत्प्रतियोगिकभेदादद्वै तप्रतिज्ञाभङ्गइत्यध्यायस्य प्रथमभागार्थो ब्याख्यातः। तथाऽपि भोक्तॄणामात्मनां नित्यत्वेन तप्रतियोगिकभेदादद्वैतप्रतिज्ञाभङ्गइति शङ्कां निरसितुमुत्तरो भागः “उद्दालकोहाऽऽरुणिः” इत्यादि।तत्र यद्यपि भोग्यवद्भोक्ता न कल्पितः किंतु परमार्थ एव तथाऽपि न तत्प्रतियोगिकभेदादद्वैतप्रतिज्ञाहानिस्तस्य ब्रह्मस्वषूपत्वेन भेदाभावादियुक्तम्‌ “स एषोऽणिमैतदाप्यमिदं सर्वंतत्सत्यं स आत्मा तत्वमसि श्वेतकेतो” इति। यदेतदवाङ्मनसगोचरत्वादतिसूक्ष्मं ब्रह्मास्मिन्नारोपितत्वाद्दृश्यं सर्बमेतेनैवाऽऽत्मवद्रजतमिव शुक्तिशकलेन तदेव च ब्रह्म सकरुकल्पनाधिष्ठानत्वात्सत्यसर्वस्यकल्पितस्य सत्तास्फूर्तिप्रदत्वादत्मा च। यदेतदुक्तलक्षणं ब्रह्म तदेव त्वमसि न ततो भिद्यसे हे श्वेतकेतो इति। श्चेतकेतुश्च सकलभोक्तृवर्गोपलक्षणमिति तामिमां श्रुतिं व्याकरोति—यदिदमित्यादि।ब्रह्म केवलमिति।ब्रह्मण्यारोपितत्वाद्व्यतिरेकेणाभावात्‌। योऽयं सर्पः स रज्जुर्यदिदं रजतं तच्छुक्तिशकलमिति तद्वाधायां सामानाधिकरण्यम्‌।तत्वमर्थइति। त्वंशब्दार्थो जीवः पुनः परमार्थतस्तदेव पूर्णचैतन्यंब्रह्म न पुनर्दृश्यवत्तत्र कल्पित इत्यसंशयितव्यामित्यर्थः॥७५॥ ननु त्वंशब्दः परागर्थवाचकऽहंशब्दस्तु प्रत्यगर्थवाचक इति परस्परप्रतिद्वंद्वितया ह्रस्वदीर्घशब्दवत्तौविरुद्धार्थौ।अहं ब्रह्मास्मीति प्रतीचो ब्रह्मत्वमुक्तंश्रुत्यन्तरे तदिह “तत्त्वमसि” इति कथं पराचो ब्रह्मत्वमुच्यत इत्यत आह—त्वंशब्दार्थइति।एक एव देवदत्तो यथा पुत्रेण तात इत्युच्यते पित्रा च पुत्र इति न तत्र तातपुत्रपदाभ्यामभिधीयमानं देवदत्तस्वरूपं भिद्यते।

त्वमहंशब्दलक्ष्यार्थःसाक्षात्प्रत्यक्चितिः परा।

तच्छब्दस्य च लक्ष्यार्थःसैव नात्र विचारणा॥७७॥

त्वमहंशब्दवाच्यार्थस्यैव देहादिवस्तुनः।

————————————————————————————————————————————————

वक्तृभेदनिबन्धनस्तु पितृपुत्रव्यवहारभेदो न वक्तव्यनिबन्धनः। तथा जीवस्यैव ब्रह्मतादात्म्यंस्वयमनुभूयमानावस्थमहं ब्रह्मास्मीति व्यपदिश्यते तदेव च जीवपरैक्यंपरस्मै बोध्यमानं तत्त्वमसीति व्यपदिश्यते। अतो वाक्यद्वयस्य समानार्थत्वादविरोध इत्यर्थः॥७६॥ नन्वेवं त्तत्त्वमस्यहं ब्रह्मास्मीत्यनयोः परस्परविरोधो मा भूत्तत्र त्वमहंशब्दाभ्यां पुनरज्ञः संसारी जीवोऽभिधीयते ब्रह्मपदेन तत्पदेन च पुनरसंसारी सर्वज्ञ ईश्वरस्तस्यकथं तेन सह तादात्म्यमित्यत आह—त्वमहंशब्देति।अयमर्थः। सत्यज्ञानानन्तानन्दात्मकमिति प्रतिपादितमखण्डमद्वितीयमेकरसमनाद्यनन्तं परमार्थभूतं वस्तु। सत्त्वरजस्तमोलक्षणत्रयात्मिका या प्रकृतिरनादिरन्तवती तत्तज्ञानैकनिर्त्यतया मिथ्यैव परिकल्पितत्वादवस्तुभूता। सा च द्विविधा। रजस्तमसी अभिभूय विशुद्धसत्त्वैका सा मायेत्युच्यते। रजस्तमोभ्यामभिभवेन मालिनसत्त्वा चापरा साऽविद्येत्येुच्यते। तत्र मायासत्त्वांशे प्रतिबिम्बितः स परमात्मा तां मायां वशीकृत्य सर्वज्ञः सर्वेश्वर इत्युच्यते।अविद्यासत्त्वांशे पुनः प्रतिविम्बिनः स एव परमेश्वरस्तया वशीकृतोऽश्वतन्त्रः कर्ताभोक्ता संसारी जीव इति।स एवतु परमात्मा तमःप्रधानप्रकृत्युपाधिकः सन्भूतभौतिकप्रपञ्चलक्षणभोग्यात्मना बिबर्तते।तत्रैक एव परमात्मा तमःप्रधानप्रकृत्युपाप्रिकतया जगदुपादनम्‌। विशुद्धसत्त्वप्रधानप्रकृत्युपाधिकतया जगतो निमित्तमित्यभिन्ननिमित्तोपदानं सत्‌ “सदेव सोम्येदम्‌” इत्यत्र सच्छब्देनोक्तम्‌।तत्र हि “तदैक्षत” इति चेत—नत्वेन निमित्तम्‌ “बहुस्याम्‌” इति कार्याकारेणविवर्तमानतयोपादानत्वमित्यभिन्ननिमित्तोपादानत्वं विशदम्‌। तदिह प्रकृतत्वात्तत्त्वमसीति वाक्ये प्रकृतपरामर्शिना तच्छब्देनोच्यते। अविद्योपाधिकस्तु जीवः सकलोऽपिपुरोवर्तिनं श्वेतकेतुं निमित्तमात्रं कृत्वोद्दालकेन पित्रा त्वंशब्देनोच्यते। तयोश्च तत्त्वंशब्दवाच्यार्थयोर्मायाविद्योपाधिकचैतन्ययोःपरस्परमत्यन्तविलक्षणतया तादात्म्यविरोधात्तत्वंशब्दौमायाविद्ययोर्भागपरित्यागेनोभयानुगतमेकं चैतन्यमात्रं

न तच्छब्दार्थतां वक्ति श्रुतिस्तत्त्वमसीति सा॥७८॥

तदर्थैक्यविरुद्धांशं यक्त्वा वाच्यगतं श्रुतिः।

अविरुद्धचिदाकारं लक्षयित्वा ब्रवीति हि॥ ७९॥

तदर्थे च त्वमर्थैक्यविरुद्धांरां विनैव तु।

कारणत्वादिवाच्यस्थं लक्षायित्वा तु केवलम्‌॥८०॥

चिदाकारं पुनस्तस्य त्वमर्थैक्यं ब्रवीति च।

तत्त्वंशब्दार्थलक्ष्यस्य चिन्मात्रस्य परात्मनः॥८१॥

एकत्वं यत्स्वतःसेद्धंस हि बाक्यार्थआस्तिकाः।

इतोऽन्यथा यो वाक्यार्थःसोऽवाक्यार्थो न संशयः॥८२॥

————————————————————————————————————————————————

लक्षयतः। एवमहं ब्रह्मास्मीत्यत्रापि॥७७॥ ननु चिदंशे तादात्म्याविरोधेऽपि त्वमहंशब्दवाच्यार्थस्य तत्पदबाच्यार्थेन तादात्म्यं विरुद्धमेवेति चेत्सत्यं विरुद्धं न त्विह तद्विवक्षितमित्याह—त्वमहंशब्दवाच्यार्थस्येति। संसारित्वस्य सर्वज्ञत्वात्मकता नेह श्रुत्या विवक्षितेत्यर्थः॥७८॥शब्देनाभिधीयमानस्य संसारित्वादेरविवक्षाकारणमाह—तदर्थैक्येति।समभिव्याहृतपदान्तरसामानाधिकरण्यविरोध एवाविवक्षाकारणमित्यर्थः॥७९॥ त्वमहंशब्दार्थे कथितमर्थं तच्छन्दार्थेऽपि योजयति- तदर्थेचेति।तत्पदवाच्येन जगत्कारणत्वसर्वज्ञत्वादिना विरुद्धं सांसारिकित्वादिकं त्वंपदवाच्यगतं यथा न विवक्षितं तथा त्वंपदवाच्यगतसंसारित्वादिना विरुद्धं जगत्कारणत्वसर्वज्ञत्वादिकं तत्पदबाच्यगतं न विवक्षितमित्यर्थः। त्वमर्थैक्यविरुद्धं विशेषणभूतं जगत्कारणत्वसर्वज्ञत्वं विना केवलं विशेष्यभूतं चिदाकारं लक्षयित्वातस्य त्वमर्थैक्यं व्रवीतीत्युत्तरेण संबन्धः। एवं तत्त्वंपदार्थयोर्विरुद्धांशपरिहारे सति यो वाक्यार्थः संपद्यते तं दर्शयति-तत्त्वशब्दार्थलक्ष्यस्येति॥८०॥८१॥ उक्तरीत्या तत्त्वशब्दाभ्यां यल्लक्ष्यं चिन्मात्रं निरस्तसमस्तोपाधिकं स एव हि परमात्मा “विज्ञानमानन्दं ब्रह्म’’ इति श्रुतेः। तस्य च त्रिविधपरिच्छेदराहित्येन यतः स्वाभाविकमेकत्वमभेदः सोऽत्र तत्त्वमसिवाक्येन प्रतिपाद्यते

एकत्वप्रमितिं वाक्यं न करोति सुरर्षभाः।
व्यावहारिकमज्ञानं बाधते विद्ययैव तु॥८३॥

सदा प्रमितमेकत्वं स्वत एव न चान्यतः।

अतो न प्रमितिं वाक्यं कुरुतेऽज्ञानबाधकम्‌॥८४॥

वस्तुतो नास्ति चाज्ञानं चित्प्रकाशाविरोधतः।

अतो वाक्यं न चाज्ञानबाधकं च निरूपणे॥८५॥

————————————————————————————————————————————————

न तु जीवब्रह्मणोरन्यतरोद्देशेनान्यतरस्य प्रागसिद्धमेकत्वं बोध्यत इत्यर्थः। ननु परमार्थतो भिन्नस्यैव संसारिणो जीवश्य रससंपर्कवशेन ताम्रस्य सुवर्णत्वापत्तिवदीश्वरानुग्रहवशात्तत्तादात्म्यसंभवात्तादृक्तादात्म्यपरत्वं किमिति वाक्यस्य न स्यादित्यत आह–इतोऽन्यथेति। इतोऽस्मात्स्वाभाविकैकत्वलक्षणात्प्रकारान्तरेण जीवब्रह्मणोः संगर्गरूपो विशिष्टेैकत्वरूपो वा यो वाक्यार्थः स वाक्यार्थ एव न भवति वस्तुतोभिन्नयोस्तयोरन्योन्याभवरस्यानाद्यन्तत्वेन तादात्म्यानुपपत्तेरित्यर्थः॥८२॥ ननु तत्स्वप्रकारस्य ब्रह्मणः स्वरूपभूतमेकत्वमपि तथात्रिधमिति तस्य वाक्यबोध्यत्वे स्वप्रकाशत्वभङ्ग इत्यत आह—एकत्वप्रमितिमिति।यदि वाक्यमेकत्वविषयां प्रमिति न जनयते तर्हि तस्य बैयर्थ्थजातमित्यत आह - व्याबहारिकमिति।वाक्य स्वजन्यया विद्ययैवोदीरितब्रह्मात्मैक्यविषयया मनोत्त्यातदज्ञानं बाधते। अतो न निष्प्रयोजनतेत्यर्थः॥८३॥ नन्वेकत्वप्रमितौ वाक्यव्यापारोनास्ति चेत्ममाणाविषयत्वात्तस्य नरवेषाणवदसत्वमित्यत आह- सदा प्रमितमिति। परप्रकाश्यस्य हि प्रमाणाविषयत्वनिमित्तमसत्त्वमुदीरितमेकत्वं तु स्वप्रकाशचितोऽनन्यत्वात्सदा प्रकाशमानमेवेति नोक्तदोषापत्तिः।अतो वाक्यस्याऽवरणज्ञाननिवृत्ताबेवोपयोगो न स्वरूपप्रकाशन इत्यर्थः॥८४॥ नन्वज्ञानस्यासत्त्वे निवृत्त्यनुपपत्तेर्ब्रह्माभेदे च तस्यापि निवृत्तिप्रसङ्गादतोऽन्यत्किंचिदज्ञानाख्यं वस्त्वङ्गीकर्तव्यम्। तथाच द्वैतापत्तिरित्यत आह—वस्तुत इति। वस्तुतः परमार्थतोऽज्ञानं नास्त्येव। ब्रह्मस्वरूपभूतचित्प्रकाशबिरोधित्वेन तस्याज्ञानस्याऽऽलोकविरोधिनस्तमस इव तत्र स्वरूपलाभासंभवादतस्तत्स्वरूपे पूर्वपूर्वभ्रमसं-

एकत्वं यत्पुरा प्रोक्तं तत्स्वयं सेद्धुमर्हति।
न प्रमाणेन मानानि तस्मिन्कुण्ठीभवन्ति हि॥८६॥

व्यावहारिकमज्ञानमपि ब्रह्मैब वस्तुतः।

अज्ञानमिति वार्ताऽपि त्वर्थसद्भाव एव हि॥८७॥

सत एव हि सद्भावो नासतः सूक्ष्मदर्शने।

सदसत्कोटिनिर्मुक्तमित्युक्तिश्चार्थभासने॥

खलु नाऽऽभासते भानं ब्रह्म वस्त्वेव केवलम्‌॥८८॥

————————————————————————————————————————————————

स्कारशादध्यस्तमेवाज्ञानं विद्ययाहि

तस्य विचार्यमाणे वस्तूपाधौ वाक्यमज्ञानस्यापि बाधकं न भवति व्यवहारदृष्ट्यैवज्ञानवाधकत्वब्यपदेशः॥८५॥ ननु वक्येनाद्वितीयव्रह्मविषयान्तःकरणवृत्तिः स्ववषयावरणाज्ञाननिवर्तिका या जन्यते घटपटादिविषयवृत्यन्तरवत्तस्या अपि स्वविषयप्रकाशनसामर्थ्य कुतो नेत्यत आह—एकत्वंयदिति। यद्ब्रह्यात्मनःस्वाभाविकमेकत्वं प्रागुक्तं तत्स्वरूपभूतचित्प्रकाशानन्यत्वात्स्वयमेव स्वात्मनैव सेद्धुंप्रकाशितुमर्हति न प्रमाणवशात्‌। अत्र हेतुमाह—मानानीति।हि यस्मात्कारणात्तत्स्वरूपप्रकाशनाय प्रवृत्तानि प्रमाणानि तेनैव साक्षिरूपेणावस्थितेन प्रकाशमानानि सवितृप्रकाशेन दीपवत्तस्मिन्स्वप्रकाशे चिदात्मनिनिरुद्धशक्तीनि भवन्ति।अत एवान्यत्राऽऽम्नायते—“न तत्र चक्षुर्गच्छति न वाग्गच्छति नो मनः” इति॥८६॥ व्यावहारिकमज्ञानमित्यादि। यद्वाक्यजन्यया विद्यया निवर्त्यमज्ञानं तदपि वस्तुतो निरूपणे ब्रह्मैव। शुत्क्यादावध्यस्तस्य रजतदेरिव तस्य च ब्रह्मण्यध्यस्तत्वेन तदव्यतिरेकादित्यर्थः। अतश्च वस्तुनिरूपणेऽज्ञानमिति व्यवहारोऽपि न युज्यत इत्याह—अज्ञानमितीति॥८७॥ ननु व्यवहारबलादेवाज्ञानस्य सद्भावः किं न स्वीक्रियते तत्राऽऽह—सत एवेति। सद्रूपस्यैव हि वस्तुनः सद्भावो न तद्विलक्षणस्येत्यर्थः। ननु सन्घटः सन्पटः सत्कुड्यमिति सद्भावोऽनुभूयत एवेति चेत्तत्रऽऽह—सुक्ष्मदर्शन इति।अधिष्ठानसत्त्वमेबाऽऽरोप्यगतसत्त्वेन तत्रप्रतिभासत इत्यर्थः।ननु प्रतीतिबाधास्यथानुपपत्त्यासदसद्विलक्षणं तदज्ञानमस्तीति तत्राऽऽह—सदसत्कोटीति।

भानसंबन्धतोऽभानमिति वार्ताऽप्यसंगता॥८९॥
संबन्धिरूपसद्भावेसति संबन्धसंभवः।

सद्भावे सति संबान्धिरूप ब्रह्मैव केवलम्‌॥९०॥

अनिरूपितरूपेण सद्भाव इति चेन्मतम्‌।

अनिरूपितरूपस्य रूपं तु ब्रह्म केवलम्‌।

ब्रह्मैव रूपं नैवान्यन्न रूपमपरस्य हि॥९१॥

अस्ति चेदपरस्यापि रूपं तर्हि सुरोत्तमाः।

रूप्ररूपेण रूपं च ब्रह्मरूपं भवेत्खलु॥९२॥
ब्रह्मरूपेण नान्यस्य रूपं रूपान्तरेण चेत्‌॥९३॥

————————————————————————————————————————————————

सदसद्वैलक्षण्यप्रतिपादनमपि तत्तत्प्रकारनिरूपणासहत्वप्रतिपादनपरं न तादृगतादृगर्थसद्भावपरम्‌। अत ईदृग्विधार्थभासने हि सदसद्विलक्षणं तदित्यपि व्यवहारो नावभासते। भानरूपब्रह्मवस्त्वेवाज्ञानविनिर्मुक्तंकेवलंभासत इत्यज्ञानस्य भासनं न संभवतीत्यर्थः॥८८॥ ननु मा भूदज्ञानस्य स्वतो भानं भानरूपब्रह्मसंबन्धवशात्कुतो न भायादित्याशङ्क्याऽऽह—भानसंबन्धत इति। संबन्धस्य संबन्धिद्वयसापेक्षत्वाद्ब्रह्यवदज्ञानस्यापि स्वरूपसद्भावोऽवश्यमेष्टव्यः। स च सद्भावोऽधिष्ठानब्रह्मगत एवेति तदेव सत्केवलंन ततोऽतिरिक्तमज्ञानमिति संबन्धिद्वयाभावात्संबन्धो दुर्निरूप इत्यर्थः॥८९॥९०॥ ननु मा भूद्ब्रह्मण इवाज्ञानस्य पारमार्थिकसद्भावः। अपरो पितसद्धावो विद्यत इति तेनैव संबन्धः किं न स्यदित्याशङ्कते–अनिरूपितेति।बिचारासहत्वाकारेणेत्यर्थः।परिहरति—अनिरूपितेति।अविचारितरमणीयरूपस्याध्यस्तस्याधिष्ठानभूतं ब्रह्मैब केवलं स्वरूरं नान्यत्तद्व्यतिरिक्तस्य सर्वस्याज्ञानतत्कार्यस्य तस्मिन्नध्यस्तत्वेन स्वतो निःस्वरूपत्वादित्यर्थः॥९१॥ अस्ति चेदपरस्यापीति। रूप्यत इति रूपं निरूपणार्हसस्‍वरूपं तद्ब्रह्मणोऽन्यस्यापि विद्यते चेत्तदाऽपि रूप॑ ब्रह्मरूपमेव रूपात्मनोभयोरपि भेदाभावादित्यर्थः॥९२॥ भेवदेवं यदि रूपमात्रभेदेन ब्रह्मणो यद्रूपं ततोऽन्येनैव रूपेणाज्ञानस्प रूपबत्त्वामीति

तर्हिं रूपान्तरं रूपाद्भिन्नंवाऽभिन्नमेव वा।
भिन्नाभिन्नं न वा भिन्न यदि रूपाद्विभेदतः॥९४॥

तुच्छवत्तदरूपं स्यादभिन्नं चेत्तदेव तत्‌।

उक्तदोषद्वयापत्तेर्भिन्नाभिन्नंन तद्भवेत्॥९५॥

अत एव सुरश्रेष्ठा अनिरूपितरूपतः।

सद्भाव इति बार्ताच वार्तैव खलु केवलम्‌॥९६॥

तस्मादज्ञानमेवैतद्ब्रह्यैव सततोदितम्‌।

अज्ञानमयमेवेदं सर्वमित्यपि भाषणम्‌॥

नैव भाषणमज्ञानाभावादेव शिवं विना॥९७॥

तस्मादज्ञानमज्ञानकार्यं च सुरपुङ्गवाः॥९८॥

एकं ब्रह्मैव नेवान्यदिति मे निश्चिता मतिः।
ऐतदात्म्यमिदं सर्बमित्याह हि परा श्रुतिः॥९९॥

——————————————————————————————————————————————————

शङ्कते—ब्रह्मेति। तदेतदृूषयितुं विकल्पयति—तर्हीति। तत्किं रूपान्तरं निरूपणार्हाद्वस्तुस्वरूपाद्भिन्नभिन्नंभिन्नाभिन्नं वा। नाद्य इत्याह—भिन्नं यदीति। विमतं न रूपं निरूपणार्हात्स्वरुपाद्भिन्नत्वान्नृशृङ्गवदित्यभिप्रायः। द्वितीये ब्रह्मव्यतिरिक्तस्याज्ञानस्य पृथक्स्वरूपलाभो नास्तीत्याह—अभिन्नं चेदेति। तृतीयं निरस्यति—उक्तदोषेति। भेदाभेदपक्षयोर्यौदोषावुक्तौतयोरापत्तिरित्यर्थः॥९२—९५॥ तथा चानिरूपितरूपेण सद्भाव इति यत्प्रतिज्ञातं तदनया रीत्या वार्तामात्रमेवावशिष्यत इति निगमयति अत-एवेति॥९६॥ एवमज्ञानस्य पृथगात्मत्वाभावाद्व्यावहारिकमज्ञानमपि ब्रह्मैव वस्तुत इति यत्प्रतिज्ञातं तत्सिद्धमिति निगमयति-तस्मादिति। अज्ञानमयमित्यादि। इदं सर्बंजगदज्ञानकार्यमिति यदेतद्वचनं तदपि केवलं शब्द एवं न तस्यार्थोऽस्ति। अधिष्ठानपरशिवस्वरूपव्यतिरेकेणाज्ञानस्यैव दुर्निरूपत्वात्‌॥९७॥ तस्मादज्ञानं तत्कार्यंच ब्रह्मात्मकमेव नान्यदस्तीति प्रतिपादितेऽर्थेश्रुतिं योजयति—ऐतदात्म्यमिति। श्रुतेरक्षरार्थः प्रागेववर्णितः॥९८॥९९॥

साक्षादर्थस्वभावेन श्रुतिः सेयं प्रवर्तते।

श्रोतुश्चित्ताविपाकेन विषण्णाविवशा श्रुतिः॥१००॥

क्वचित्कदाचिदन्यार्थं वक्ति च ब्रह्मणः पृथक्‌।

साध्यसाधनसबन्धकथनं फलभाषणम्‌॥१०१॥

जगद्वैचित्र्यनिर्देशो धर्माधर्मार्थभाषणम्‌।

वर्णाश्रमविभागोक्तिस्तद्धर्मोक्तिस्तथैव च॥१०२॥

शोभनाशोभनोक्तिश्चभूतभौतिकभाषणम्‌।

शब्दानां भेदनिर्देशस्तथाऽर्थानां च भाषणम्‌॥१०३॥

आत्मनोऽन्यस्य सर्वस्य सद्भावोक्तिः सुरर्षभाः।

मिथ्यात्वभाषणं तस्य मायासद्भावभाषणम्‌॥१०४॥

मायात्वोक्तिश्चमायाया बन्ध इत्यभिभाषणम्‌।

गुरुशिष्यकथोक्तिश्चब्रह्मविद्याभिभाषणम्‌॥१०५॥

शस्त्राणामपि निर्देशस्तर्काणामपि भाषणम्।

अन्यद्वितर्कजालं यत्तदुक्तिश्चसमासतः।

अन्यार्थेन परं बह्म श्रुतिः साध्वी न तत्परा॥१०६॥

चित्तपाकानुगुण्येन श्रोतॄणां परमा श्रुतिः।
सोपानक्रमतो देवा मन्दं मन्दंहितं नृणाम्‌॥१०७॥

———————————————————————————————————————————————————

ननु क्रियाकारकफलरूपस्य प्रपञ्चस्य भेदमपि श्रुतिः प्रतिादयति “आत्मन आकाशः संभूतः" “ज्योतिष्टोमेन स्वर्गकामोयजेत” इयादिना। तत्कथं सर्वस्य ब्रह्मात्मत्वमिति तत्राऽऽह—साक्षादिति। “एतदात्म्यमिदं सर्वम्‌” इत्येषा श्रुतिरर्थस्वाभाव्येन साक्षाद्विद्यमानमेवार्थंप्रतिपादयितुं प्रवृत्ता। ईदृग्बिधस्यार्थस्यासंस्कृतचित्तैर्दुरधिगमत्वात्तच्चित्तपरिपाकानुसारेण भेदश्रुतिर्मायामयव्यवहारसिद्धं भेदमनुबदन्ती साध्यसाधनफलादिलक्षणं जगद्वैचित्र्यं प्रतिपादयति न परमार्थत इत्यर्थः॥१००—१०६॥ सोपानक्रमत इति।

उपदिश्य विषण्णाऽपि पुनः पक्वाधिकारिणः।
ऐतदात्म्यमिदं सर्वमित्याह परमाद्वयम्‌॥१०८॥

जगज्जीवेश्वरत्वादिविचित्रविभव विना।

केवलं चित्सदानन्दब्रह्मात्मैक्यपरा श्रुतिः॥१०९॥

जगज्जीवेश्वरत्वादि सर्वं ब्रह्मैव केवलम्‌।

इति स्वपूर्णताज्ञानं परमाद्वैतवेदनम्‌॥११०॥

इतोऽन्यद्यत्परिज्ञानं तदज्ञानं न संशयः।

विचारेणायमेवार्थस्त्वयमेवाविचारणे॥१११॥

न कदाचिद्वहिशेषोऽस्तीत्येतज्ज्ञानं सुदुर्लभम्‌॥११२॥

यथा यथा स्वभावेन यद्यद्भाति सुरर्षभाः।
तथा तथा शिवो भाति स्वयमेव न चापरः॥११३॥

—————————————————————————————————————————————————

श्रोतृचित्तपरिपाकानुसारेण पूर्वकाण्डेऽग्निहोत्रादिधर्मान्क्रमेणोपदिश्य तैः संस्कृतचित्तानां संहितोपासनादिकमुपदिश्यते न प्राप्तैकाग्र्यमनस्कामनामुत्तमाधिकारिणामेवं सोपानक्रमेणैतदात्म्यमिदं सर्वमिति श्रुतिरद्वितीयं ब्रह्मवस्त्ववगमयतीत्यर्थः॥१०७
१०८॥ इदानीमनुसंघानप्रकारमाह—जगज्जीवेश्वरत्वादीति[भोक्तृभोग्यभोगप्रदरूप॑ यदिदं तत्सर्वं बिशुद्धं वह्मैवेति स्वात्मनो यत्परिपूर्णब्रह्मस्वरुपत्वज्ञानं तदद्वैतवेदनमियर्थः॥१०९॥११०॥ इतोऽन्यादिति। इतोऽस्मात्सार्वात्म्यज्ञानाद्यदन्यज्ज्ञानमहमन्यो ब्रह्मान्यादत्येवंविधं तदज्ञानमेव।श्रुतिरप्येबमाह—“अथ योऽन्यादेवतामुपास्तेऽन्योऽसावन्योऽहमस्मीति न स वेद” इति। सदुर्लभमिति। निर्विशेषब्रह्मात्मैक्यसाक्षात्कारस्य वर्णाश्रमधर्मपरितोषित परमेश्वरप्रसादैकसमधिगम्यत्वादित्यर्थः॥१११॥११२॥ यथा यथा स्वभावेनेत्यादि। यद्यद्घटपटादिकं वस्तु येन येन प्रकारेण स्वभावभूतेन भाति तेन तेन प्रकारेण तदधिष्ठानभूतचिद्रूपः शिव एव प्रकाशते।अधिष्ठानस्फुरणमेव तद्गतसत्त्ववदारोप्यधर्मतया भासत इत्यर्थः॥११३॥

यथा यथा प्रभा (था) साक्षाच्छांभवी सा न चापरा।

इति निश्चयविज्ञानं परमाद्वैतवेदनम्‌॥११४॥

यथा यथाऽवभासोऽयं शिव एवेति परयति।

तथा तथा महादेवं भजतेऽयत्नतस्तुसः॥११५॥

यथा यथा प्रथा पुंसस्तद्वस्तुष्वनवस्थिता।

तथा तथाऽनुसंघानं स्वभावेनैव पूजनम्‌॥११६॥

शिवरूपतया सर्वं यो वेद स हि तत्त्ववित्‌।

अशिवं वेद यत्किंचित्स एव परिमोहितः॥११७॥

शिवादन्यतया किंचिदपि यो वेदसोऽधमः।
शिवस्यैवापचारं हि कुरुते स पशुर्नरः॥११८॥

————————————————————————————————————————————————

एवं भावनमात्रस्य शिवरूपत्वमुपपाद्यतस्यानुसंधानप्रकारमाह—यथा यथेति। घटो भाति पटो भातीत्यादौ येन येन प्रकारेण चित्प्रभाऽनुस्यूता लभ्यते सैव तत्तद्विषयांशपरिहारेण साक्षात्परमेश्वररुपभूतेति संशयविपर्यासरहितं यदनुसंधानं तत्परमद्वैतज्ञानमिति योजना॥११४॥ अपि चैवमनुस॑दधानस्य बाह्यः सकलोऽपि व्यापारः परमेश्वरभजनरूपेण संपद्यत इत्याह—यथा यथाऽवभास इति। यद्यद्वस्तु चक्षुःश्रोत्रादिभिः प्रमाणैरवभासते तत्सर्वंव्यवहरन्नेव तदीयं सर्वमवभासमनुगतभानात्मकः शिव एवेति येन येन प्रकारेणानुसंधत्ते स योग्ययत्नतो तेन तेन प्रकारेण वाक्कायनिर्वर्त्यपरमेश्वरभजनमेव करोति न लोकव्यवहारम्‌॥११५॥ तथा येन येन प्रकरेण पुरुषस्य मतिरपि तत्तद्वस्तुष्वनवस्थिता चञ्चाला भवति तेन तेन प्रकरेण तत्र सर्वत्र भानरूपं शिवमनुसंदधानस्तस्य मनसमेव पूजनं करोतीत्यर्थः। अयं योगोऽपि भगवता गीतायामुक्तः—“पश्यञ्श्रृण्वन्स्पृशञ्जिघ्रन्नश्नन्गच्छन्स्वपञ्श्चसन्‌।प्रलपन्विसृजन्गृह्णनन्मिषन्निमिषन्नपि। इन्द्रियाणीन्द्रियार्थेषु बर्तन्त इति धारयन्‌। ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वाकरोति यः॥ लिप्यते न स पपेन पद्मपत्रमिवाम्भसा” इति॥११६—११८॥ एतत्सार्वात्म्यबेदनमन्वयव्यति-

शिवरूपतया सर्वं यस्य भाति स्वभावतः।
स्वेच्छाचारः समाचारस्तस्य चार्चाच शूलिनः॥११९॥

यथा यथा प्रथा शंभोः प्रथा सा सा तदर्चनम्‌।

इत्ययत्नेन विज्ञानात्पूज्यते परमेश्वरः॥१२०॥

क्रीडया जगदाकारा नान्यतश्चाऽऽत्मदेवता।

कीडयैवाऽऽत्मनाऽऽत्मानं भुङ्क्ते सा तद्धि वेदनम्‌॥

इन्द्रियाकारभासा सा विषयाकारभासनम्‌।

क्रीडया देवता भुङ्क्ते स्वत इत्यर्चनं मतम्‌॥१२२॥

परमाद्वैतविज्ञानमिदं भवभयापहम्‌।

भवप्रसादतो लभ्यं भावनारहितं परम्‌॥१२३॥

यथा नक्तंदृशः सूर्यप्रकाशोनावभासते।

तथेदं परमाद्वैतं मनुष्याणां न भासते॥१६४॥

——————————————————————————————————————————————————

रेकाभ्यामुपपादयति—शिवरूपतयेत्यादिना॥११९॥१२०॥ प्रकारान्तरेणानुसंधानमाह—क्रीडयेति। येयमात्मदेवता सा स्वाश्रितमायावशेन लीलयैवभोक्तृभोग्यभोगप्रदरूपजगदाकारा जाता तथा तथैव लीलया भोग्यरूपेणावस्थितमात्मानमेव भोक्तृरूपेणाऽऽमनाभुङ्क्ते॥१२१॥ तथेन्द्रियैरर्थव्यवहारसमये चक्षुरादिकरणजनितवृत्त्यभिव्यक्तेन भानेन शब्दस्पर्शादिविषयाकारं तदधिष्ठानभूतं भानं क्रीड्यैवाऽऽत्मदेवता भुङ्क्ते। एवं यदनुसंधानं तदेवाद्वैतविज्ञानमित्यर्थः॥ १२२॥ परमाद्वैतविज्ञानमित्यादि स्पष्टम्‌। भावनारहितमिति। भावनाजन्यसाक्षात्कारस्य मृतपुत्रसाक्षात्कारवदप्रमाणत्वात्तद्रहितमेव ज्ञानं पुरुषार्थसाधनमित्यर्थः। उक्तं ह्याचार्यैः—“भावनाजं फलं यत्स्याद्यच्च स्यात्कर्मणः फलम्‌। न तत्स्थायीति मन्तव्यं पण्यस्त्रीसंगत॑ यथा”इति॥ द्रविडेष्विव संगतमिति नैष्कर्म्यसिद्धौ॥१२३॥ ननु ज्ञानिनो व्यवहारसमयेऽपि ब्रह्मात्मकत्वं भासते चेदन्येषामबि तत्किमिति

प्रसादादेव रुद्रस्य श्रद्धया स्वस्य धैर्यतः।
देशिकालोकनाच्चैव कर्मसाम्ये प्रकाराते १२५॥

————————————————————————————————————————————————

न भासत इति तत्राऽऽह—यथेति। मनुष्यादीनां प्रकाशमानोऽपि सूर्यप्रकाशो यथा नक्तंदृशो घूकस्य नैव भासत एवं व्यवहारेऽपि ज्ञानिनः सुलभमद्वैतमज्ञानिनां मनुष्याणां न भासत इत्यर्थः॥१२४॥ ज्ञानिनोऽपि कथं तत्प्रतिभासत इत्याशङ्क्यऽऽह—प्रसादादेवेति। श्रद्धयेदमित्थमेवेति विश्वासबुद्धेः। धैर्यं यन्मनसो निश्चलत्वम्‌। ईश्वरप्रसादादिहेतुभिःकर्मसाम्ये धर्माधर्मरूपयोःकर्मणोरुपभुक्तफलयोः फलेन सार्धंक्षयसाम्येसति तस्य संस्कृताचित्तस्य निरावरणं सत्तदद्वैतं भासत इत्यर्थः। उक्तं हि—“जन्तोरपश्चिमतनोः सति कर्मसाम्ये निश्शेषपाशपटलच्छिदुरानिमेषात्‌। कल्याणदेशिककटाक्षनिरीक्षणेन कारुण्यतो भवति शांभववेधदीक्षा” इति॥१२५॥ बहुप्रकारमित्यादि। ब्रह्मत्म्यैक्य लक्षणोयो वाक्यार्थउक्त इममेवार्थं सकृदुपन्यस्तमापि साध्वी मातृवद्धितकारिणी निर्दोषेयं छन्दोगश्रुतिः संसारलक्षणमहायासं प्राप्य दुःखिनां नृणां बहुभिः प्रकारैस्तत्तदाशङ्‌कानिरासेन बहुशो बहुवारं पुनः पुनरुपदिशति। तथा हि—सुषुप्त्युत्क्रान्त्याद्यवस्थासुयेन रूपेण जीवः संपद्यते तत्सद्रुपं ब्रह्म त्वमसीति पित्रा बोधितः श्वेतकेतुराशङ्कते सुषुप्तौसत्संपन्नाःप्रजास्तद्ब्रह्मात्मकत्वं किमिति न विदुरिति। मधुकरैर्मधुत्वेन समाहृतनानावृक्षरससमुदायबद्विवेक्तुमशक्यत्वेन सुषुप्त्यादौ प्राप्तमपि ब्रह्म न ज्ञायत इति तामाशङ्कां निरस्य “स एषोऽणिमैतदात्म्यम्‌"इति प्रागुक्तमेवार्थं पुनरुपदिदेश। ननु युक्तं सुषुप्त्यादौकरणाभावादविज्ञानम्‌। उत्थितस्तु ब्रह्मणोऽहमुत्थित इतिकस्मान्न जानीयादित्याशङ्कायामुक्तम्‌। यथा जलधरैरम्भोनिधित आकृष्य विसृष्टानां पुनः समुद्रं प्राप्तानां नदीनां रसान्यत्वेन समृद्रादागमनं समुद्रात्मत्वं च दुर्ज्ञानमेवं ब्रह्मण उत्थितानां संसारिणां तद्वैलक्षण्यात्तदात्मनाऽवस्थायोत्थिता वयमिति न ज्ञानमिति परिहारेण पागुक्तं वाक्यमेवोपदिष्टम्‌।तथा सुषुप्तौ जीवस्य कारणभावापत्तौ समुद्रवीच्यादिवन्नाशमाशड्क्य यथा वृक्षस्य परश्वादिना छेदे रसस्रावित्वात्सजीवत्वमेबंसुषुप्तदेहेऽपि लोहितदर्शनान्न जीव-

बहुप्रकारं बहुशः श्रुतिः साध्वी सनातनी।
एवमेतं महायासादर्थं वदति दुःखिनाम्‌॥१२६॥

शिव एवास्ति नैवान्यदिति यो निश्चयः स्थिरः।

सदा स एव सिद्धान्तः पूर्वपक्षास्तथा परे॥१२७॥

अयमेव हि वेदार्थो नापरः परमास्तिकाः।
गृह्णामि परशं तप्तं सत्यमेव न संशयः॥१२८॥

————————————————————————————————————————————————

नाश इति परिहारेण प्रागुक्त एवार्थे स्थापिते पुनः श्वेतकेतुराशङ्कते। कथं सूक्ष्माद्ब्रह्मणः स्थूलजगदुत्पत्तिरिति। वटधानान्तर्गतसूक्ष्मरूपाद्वटोत्पत्तिवज्जगदुत्पत्तिसंभवेन तन्निराकृत्य तमेवार्थमुपदिदेश। ननु जगन्मृलकारणं ब्रह्म किमिति नोपलभ्यत इत्याशङ्क्योदकप्रक्षिप्तलवणघनस्य दर्शनस्पर्शनाभ्यामनुपलम्भेऽपि रसाल्लवणसद्भावनिश्चयवच्चक्षुराद्यदृश्यमपि ब्रह्म कार्यलिङ्गादस्तीत्युक्तम्‌। ब्रह्मसाक्षात्कारे कउपाय इत्याशङ्क्य गान्धारदेशारण्ये चौरौर्नीक्षिप्तस्य बद्धचक्षुषः पुरुषस्य नेत्रबन्धनिर्मोकगान्धारोपदेशगमनवदाचार्यकृतादुपदेशाद्ब्रह्मसाक्षात्कारोऽविद्यानिवृत्तिश्रेत्युक्तम्‌।स विद्वान्केन प्रकारेण ब्रह्म संपद्यत इत्यपेक्षायां विद्वान्मनआदेर्लये सति ज्ञानदीपप्रकाशितं ब्रह्मेहैव प्रपद्यते नार्चिरादिक्रममपेक्षते। अविद्वांस्तु देहान्तरं गृह्णातीप्युक्तम्‌।विद्वांस्तु यदि मरिष्यमाणो मोक्षमाणश्च ब्रह्म संपद्यते तर्हिविद्वानप्ययिद्वानिव किमिति नाऽऽवर्तेत इत्याशड्कायामृत्तरम्‌।तप्तपरशुं गृह्णतोः स्तेनास्तेनयोस्तप्तपरशोः करतलसंयोगाविशेषेऽपि सत्यव्यवहितहस्ततलत्वादस्तेनो न दह्यते। स्तेनस्तु दह्यते। एबमन्तकाले विद्वदविदुषोः समानायामपि सत्संपत्तौसत्यब्रह्माभिसंधिः पुनर्नदेहं गृह्णाति।अनतदेहाद्यात्मबुद्धिस्तु पुनः शरीरमुपादत्त इति। एवं तत्तच्छङ्कानिरासेन नवभिः पर्यायेस्तत्त्वमसिवाक्येन प्रागुदीरितंब्रह्मात्मैक्यं श्रुत्योपदिष्टं तदिदमुक्तं बहुप्रकारं बहुश इति॥१२६॥ अभ्यासस्य तात्पर्यलिड्गत्वाद्ब हुशोऽभ्यस्यमानोब्रह्मात्मैकत्वलक्षणोऽर्थ एव श्रुतेस्तात्पर्यगम्योनान्यइति निगमयति–शिव एवेति॥१२७॥ ब्रह्मात्मश्रुतिवत्स्वयमपि प्रमाणभूत इति स्वानुभवसिद्धत्वादप्पयमेवसिद्धान्त इति

अयमेव हि सत्यार्थोनापरः परमास्तिकाः।

विश्वासार्थं शिवं स्पृष्ट्वात्रिर्वःशपथयाम्यहम्‌॥१२९॥

अयमेव हि वेदार्थो नापरः परमास्तिकाः।

अन्यथा चेत्सुराः सत्यं मूर्धा मेऽत्र पतिष्यति॥१३०॥

अयमेव हि सत्यार्थोनापरः परमास्तिकाः।

अत्रैव संनिधिं देवो विश्वासार्थं करिष्यति॥ १३१॥

सूत उवाच—

एवमुक्त्वा तु भगवान्ब्रह्मा सर्बहिते रतः।

प्रणम्य दण्डवद्भूमौभक्त्या परवशोऽभवत्‌॥१३२॥

अस्मिन्नवसरे श्रीमान्‌ शंकरः शशिशेखरः।

नीलकण्ठोविरूपाक्षः साम्बः साक्षाद्घृणानिधिः १३३

ब्रह्मविष्णुमहेशाद्यैरुपास्यो गुणमूर्तिभिः।

आविर्बभूव सर्वज्ञस्तत्रेव सुरसंनिधौ॥ १३४॥

आसनंविमलं दिव्यं शिवार्हं हैममद्भुतम्‌।

आगतं तत्र भगवानास्ते तस्मिन्यथासुखम्‌॥१३५॥

विष्णुर्विश्वजगत्कर्तारिवस्यामिततेजसः।

बुद्ध्वोद्योगं महाप्रीतस्तत्र संनिहितोऽभवत्‌॥९३६॥
पुष्पवृष्टिरभवत्पुनः पुनः शब्दितं च मुनिभिः सनातनैः।

———————————————————————————————————————————————

शपथं करोति–अयमेवेत्यादिना॥१२८—१३०॥ अत्रैव संनिधिमिति। न केवलमहमेबेममर्थं ब्रवीमि। अपि तु परमेश्वरोऽपि भक्तवत्सलतयाऽत्रैव संनिहितः सन्मदुक्तेऽर्थेयुष्माकं विश्वासं जनयिष्यतीत्यर्थः॥ १३१॥ एवमुक्त्वेत्यादि सूतवक्यं स्पष्टम्‌॥१३२॥१३३॥ गुणमूर्तिभिरिति। सत्वरजस्तमोगुणा एव मूर्तयो येषां ते तथोक्ताः॥१३४—१३८॥ स्थान-

शुद्धवेदवचनैः सुशोभनैर्भक्तिमद्भिरपि पूजनं कृतम्।१३७॥
उच्चमन्दमृदुतीव्रकाहलैःशब्दितं च पटहादिभिस्तथा।

तालमानकुशलैस्तथा परैर्भेरिकादिकुशलैःसुधोषितम्‌ १३८

अप्सरोभिरपि नर्तनं कृतं गायनैश्चसहितैर्महत्तरैः।

गीतमाशु कविभिश्चकीर्तितं स्थानमीशदृरिगोचरं द्विजाः॥

विस्मिताश्च मुनयश्च केचन श्रद्धयैव शिरसा च नर्तिताः।

मुष्टियुद्धमपि कुर्यरास्तिकाः श्रद्धयैव परया च केचन॥

मस्तकेन मनुजानतिप्रियान्पृष्ठतश्च चरणेन पाणिना।

दण्डरज्जुरिविकादिभिस्तथा केचिदश्वनिकरैर्वहन्ति च॥

बन्धनं च निगडैश्च गर्विता मोचनं च मनुजानतिप्रियान्‌।

कुर्युरस्त्रनिकेरैश्च केचन च्छेदनं च विवशाश्च केचन १४२

अन्योन्यमालिङ्गनमाचरन्ति प्रियेण केचिन्मुनयश्च केचित्‌।

धावन्ति वेगेन पटं विसृज्य प्रियेण चान्यानपि ताडयन्ति॥

विलोक्य सर्वं शिवया शिवोऽपि प्रहृष्टचित्तस्तु निवार्य सर्वान्‌

हरिं विरिञ्चं च सुरानशेषानतिप्रियेणैव निरीक्ष्य विप्राः॥

उवाच सत्यं करुणानिधानः श्रुतिप्रमाणैकसुनिधितार्थः।

हिताय लोकस्य सुरासुराद्यैःप्रपूजनीयश्चसदा महेशः॥

ईश्वर उवाच—

अहं हि सर्वं न च किंचिदन्यन्निरूपणायामनिरूपणायाम्‌।
इयं हि वेदस्य परा हि निष्ठा ममानुभूतिश्च न संशयश्च॥

————————————————————————————————————————————————

मीशेति।परमेश्वरदृष्टिगोचरमेतत्स्थानं पुष्पवृष्ट्यादिभिरलंकृतमिति शेषः॥१३९॥ नर्तिताइति। अत्र श्रद्धा प्रयोजककर्त्री तया नर्तनंप्रापिताः।

अहं सदाऽधश्च तथाऽहमूर्ध्वंत्वहं पुरस्तादहमेव पश्चात्‌।

अहं च सव्येतरमास्तिकास्तथात्वहं सदैवोत्तरतोऽन्तरालम्‌

परोक्षरूपेण सुसंस्थितोऽहं तथाऽपरोक्षेण सुसंस्थितोऽहम्‌।

अनात्मरूपेण सुसंस्थितोऽहम्‌ सदात्मरूपेण सुसंस्थितोऽहम्‌

जैवेन रूपेण सुसंस्थितोऽहं तथेशरूपेण सुसंस्थितोऽहम्‌।

अज्ञानरूपेण सुसंस्थितोऽहं विज्ञानरूपेण सुसंस्थितोऽहम्‌॥

संसाररूपेण सुसंस्थितोऽहं कैवल्यरूपेण सुसंस्थितोऽहम्‌।

शिष्यादिरूपेणसुसंस्थितोऽहं गुर्वादिरूपेणसुसंस्थितोऽहम्‌॥

वेदादिरूपेण सुसंस्थितोऽहं स्मृत्यादिरूपेण सुसंस्थितोऽहम्‌।

पुराणरूपेण सुसंस्थितोऽहं कल्पादिरूपेण सुसंस्थितोऽहम्‌॥

प्रमातृरूपेण सुसंस्थितोऽहं प्रमाणरूपेण सुसंस्थितोऽहम्‌

प्रमेयरूपेण सुसस्थितोऽहं मितिस्वरूपेण सुसंस्थितोऽहम्‌॥

कर्तृस्वरूपेण सुसंस्थितोऽहं क्रियास्वरूपेण सुसंस्थितोऽहम्‌।
तद्धेतुरूपेण सुसंस्थितोऽहं फलस्वरूपेण सुसंस्थितोऽहम्॥

—————————————————————————————————————————————————

नृतेर्ण्यन्तात्कर्मणि निष्ठा॥१४०–१४५॥ ऐतदात्म्यमिदं सर्वमित्यादिश्रुत्यर्थतया भौक्तृमोग्यभोगलक्षणस्य सबस्पाद्वितीयब्रह्मात्मत्वं यद्ब्रह्यणोदीरितं तत्सत्यमेवेति परमेश्वरः स्वात्मनः सार्वात्म्यं प्रकटयाति-अहं हि सर्वमित्यादिना। विचारदशायां तावद्रज्जुतत्त्वे सर्पधारादिवदध्यस्तस्याज्ञानतत्कार्यस्य मय्येव विलयान्मत्तोऽतिरिक्तंकिंचिन्नास्ति\। “अधिष्ठानावशेषो हि नाशः कल्पितवस्तुनः” इति ह्युक्तम्‌। तथाच यदिदं सर्वंन तत्सर्वं किं त्वहमेवेति बाधायां सामानाधिकरण्यम्‌। अविचारदशायामध्यारोपितस्य सर्वस्याधिष्ठानादनन्यत्वादहमेव प्रतिभासमानसकलवस्त्वात्मक इति संसर्गे सामानाधिकरण्यम्‌।“ इदं सर्वंयदयमात्मा"इति श्रवणाद्वेदस्याप्ययमेव तात्पर्यगम्योऽर्थ इत्याह-इयं हीति॥१४६॥ “स एवाधस्तात्स उपरिष्टात्‌” इतियत्सनक्तुमारनारदसंवादे भूम-

भोक्तृस्वरूपेण सुसंस्थितोऽहं भोगस्वरूपेण सुसंस्थितोऽहम्‌।

तद्धेतुरूपेण सुसंस्थितोऽहं भोग्यस्वरूपेण सुसंस्थितोऽहम्‌

पुण्यस्वरूपेण सुसंस्थितोऽहं पापस्वरूपेण सुसंस्थितोऽहम्‌।

सुखस्वरूपेण सुसंस्थितोऽहं दुःखस्वरूपेण सुसंस्थितोऽहम्‌॥

रुद्रप्रभेदेन सुसंस्थितोऽहं विष्णुभ्रभेदेन सुसंस्थितोऽहम्‌।

ब्रह्मप्रभेदेन सुसंस्थितोऽहं देवप्रभेदेन ससंस्थितोऽहम्‌॥

मर्त्यप्रभेदेन सुसंस्थितोऽहं तिर्यक्प्रभेदेन सुसंस्थितोऽहम्।

कृमिप्रभेदेन सुसंस्थितोऽहं कीटप्रभेदेन सुसंस्थितोऽहम्‌॥

वृक्षप्रभेदेन सुसंस्थितोऽहं गुल्मप्रभेदेन सुसंस्थितोऽहम्‌।

लताप्रेभेदेन सुसंस्थितोऽहं तृणप्रभेदेन सुसंस्थितोऽहम्‌॥

कालप्रभेदेन सुसंस्थितोऽहं घटप्रभेदेन सुसंस्थितोऽहम्‌॥

पटप्रभेदेन सुसंस्थितोऽहं कुड्यादिभेदेन सुसंस्थितोऽहम्‌।

अन्नप्रभेदेन सुसंस्थितोऽहं पानप्रभेदेन सुसंस्थितोऽहम्‌।

वनप्रभेदेन सुसंस्थितोऽहं गिरिप्रभेदेन सुसंस्थितोऽहम्‌॥

नदीप्रभेदेन सुसंस्थितोऽहं नदप्रभेदेन सुसंस्थितोऽहम्‌।

समुद्रभेदेन सुसंस्थितोऽहं तटप्रभेदेन सुसंस्थितोऽहम्‌॥

तडागभेदेन सुसंस्थितोऽहमभ्रप्रभेदेन सुसंस्थितोऽहम्‌।

नक्षत्रभेदेन सुसंस्थितोऽहं ग्रहप्रभेदेन सुसंस्थितोऽहम्‌॥

मेघप्रभेदेन सुसंस्थितोऽहं विद्युत्प्रभेदेन सुसंस्थितोऽहम्‌।

यक्षप्रभेदेन सुसंस्थितोऽहं रक्षःप्रभेदेन सुसंस्थितोऽहम्‌॥

गन्धर्वभेदेन सुसंस्थितोऽहं सिद्धप्रभेदेन सुसंस्थितोऽहम्‌।

अण्डप्रभेदेन सुसंस्थितोऽहं लोकप्रभेदेन सुसंस्थितोऽहम्‌॥

देशप्रभेदेन सुसस्थितोऽहं ग्रामप्रभेदेन सुसंस्थितोऽहम्‌।

गृहप्रभेदेन सुसंस्थितोऽहं मठप्रभेदेन सुसंस्थितोऽहम्‌॥

कटप्रभेदेन सुसंस्थितोऽहं प्राकारभेदेन सुसंस्थितोऽहम्‌।

पुरप्रभेदेन सुसंस्थितोऽहं पुरीप्रभेदेन सुसंस्थितऽहम्‌॥

व्योमादिभेदेन सुसंस्थितोहं शब्दादिभेदेन सुसंस्थितोऽहम्‌।

शरारीरभेदेन सुसंस्थितोऽहं प्राणप्रभेदेन सुसंस्थितोऽहम्‌॥

श्रोत्रादिभेदेन सुसंस्थितोऽहं पादादिभेदेन सुसंस्थितोऽहम\।

मनःप्रभेदेन सुसंस्थितोऽहं बुद्धिप्रभेदेन सुसंस्थितोऽहम्‌॥

अहंप्रभेदेन सुसंस्थितोऽहं चित्तप्रभेदेन सुसंस्थितोऽहम्‌।

संघातभेदेन सुसंस्थितोऽहं जन्मादिभेदेन सुसंस्थितोऽहम्‌॥

जाग्रत्प्रभेदेन सुसंस्थितोऽहं स्वप्नप्रभेदेन सुसंस्थितोऽहम्‌।

सुषुप्तिभेदेन सुसंस्थितोऽहं तुरीयभेदेन सुसंस्थितोऽहम्‌॥

दृश्यप्रभेदेन सुसंस्थितोऽहं द्रष्टृप्रभेदेन सुसंस्थितोऽहम्‌।

साक्षिस्वरूपेण सुसंस्थितोऽहं सर्वस्वरूपेण सुसंस्थितोऽहम्‌।

अस्तिनास्तिवचनेन भाषितं भाति शब्दपरिभाषितं तथा।

भानहीनपरिभाषितं च मे रूपमेव हि न संशयः क्वचित्‌॥

शब्दगोचरतया स्थितं सदा शब्दगोचरविहीनरूपतः।

यत्स्थितं तदहमेव संततं प्रत्ययेऽपि गतिरेवमेव हि॥१७३॥

विद्यायामाम्नायतेऽत्र प्रसङ्गात्तदर्थमाह- अहं सदाऽधश्चेति ॥ १४७-१६८ अहंप्रभेदेनाति। अहंकारप्रभेदेनेत्यर्थः॥ १६९- १७१ ॥ अस्तिनास्तीति। सत्वासत्वाभ्यां भातत्वाभातत्वाभ्यां च यदुपन्यस्यते तत्सर्वं मत्स्वरूपमित्यर्थः॥ १७२ ॥ शब्दगोचरतयेति। शब्देन यद्विषयीकृतं यच्च शब्दो विषयीकर्तुं न शक्नोति तत्सर्वमहमेव। उक्तमर्थं बुद्धिवृत्तावप्यातिदिशाति-प्रत्ययेऽपीति॥ १७३॥

नित्यशुद्धपरिवुद्धमुक्ततांयस्य नित्यमिति वक्ति वाक्‌ श्रुतेः।

तस्य सत्यसुखबोधपूर्णता तथ्यमेव मम नास्ति संशयः १७४॥

यत्स्वरूपमहमात्मना तथा यत्स्वरूपमिदमात्मनैव तु।

भाति तत्तु मम चिद्वपुः सदा भाति नान्यदिति निश्चयो मम्‌॥

अहं समस्तं मम रूपतःपृथङ्न किंचिदस्तीतिसुनिश्चयःकृतः।

मया तुवेदान्तवचोभिरञ्जसा पितामहनापिचसत्यमीरतम्‌॥

अत्र संशयमतिर्विनश्यति भ्रष्ट एव परमार्थदर्शनात्‌।

अत्र निश्चयमतिस्तु मुच्यते कष्टरूपभवपाशबन्धनात्‌॥

सूत उवाच-

एवमुक्त्वामहादेवः साम्बः संसारमोचकः।

समालिङ्ग्य महाविष्णुं ब्रह्माणमपि सादरम्‌॥ १७८॥

विलोक्य देवानखिलान्विशुद्धेनैव चेतसा।

भद्रमस्तु सुरश्रेष्ठा युष्माकमिति चाब्रवीत्‌॥ १७९ ॥

देवाश्च देवदेवेशं प्रसन्नं करुणानिधिम्‌।

पूजयामासुराह्लादात्पत्रपुष्पफललादिभिः॥ १८० ॥

विष्णुर्विश्वजगत्कर्ताविश्वेशाङ्ध्रिसरोरुहम्‌।

स्वमूर्ध्निभक्त्यानिक्षिप्य पुनः परवशोऽभवत्‌॥१८९॥

पितामहोऽपि सर्वात्मा शिवपादाम्बुजद्वयम्‌।

स्वमूर्ध्नि भक्त्या निक्षिप्य तथा परवशोऽभवत्‌॥ १८२॥

वाक्‌ श्रुतेरिति। श्रुतेवाक्यमित्यर्थः॥१७४॥ अहमात्मनेति\। यस्य चिन्मात्रपरशिवस्य स्वरूपमहमात्मनाऽहंकारास्पदेन भोक्तृरूपेण तथेदमात्मनेदंकारास्पदेन भोग्यरूपेण च भाति तच्चिन्मात्रमेव मदीयं स्वरूप॑ नान्यदित्यर्थः॥१७५॥ यस्मान्मदीयो निश्चय एवंरूपस्तस्मात्सार्वोत्म्यप्रातिपादिका श्राुतिस्तदर्थप्रतिपादको ब्रह्मा चोभावपि सत्यवादिनाविति निगमयति-मया त्विति॥१७६-१८२॥

देवदेवो महादेवः साम्बः संसारमोचकः।

ननर्तपरमं भावमैश्वरं संप्रदर्शयन्‌॥ १८३ ॥

करतालं महादेवी करुणासागरा परा ।

चकार परमप्रीत्या समालोक्य महेश्वरम्‌॥१८४ ॥

विष्णुर्ब्रह्मासुराः सर्वे तत्र संनिहिता जनाः।

सर्वे संतोषतस्ततत्र नृत्यन्ति स्म यथाबलम्‌॥ : ८५॥

देवदेवो महदेवोमहानन्दोदधिद्विजाः।

विलोक्य सर्वान्सुप्रीतस्तैत्रवान्तर्हितोऽभवत्‌॥ १८३ ॥

विष्णुर्ब्रह्माणमालिङ्ग्यविलोक्य सकलन्सुरान्‌।

प्रसन्नः पद्मया सार्धंवैकुण्ठमगमत्प्रभुः॥ १८७ ॥

ब्रह्माऽपि विस्मयापन्नो विलोक्य सकलान्सुरान्‌।

अवशः सन्पुनश्चाऽऽह श्रद्धयैव तु केवलम्‌॥ १८८॥

ब्रह्मोवाच —

विद्याः सर्वा नृणां साक्षात्संसारस्य प्रवर्तिकाः।

परमं भावमिति। परशिवस्य निरतिशयपरमानन्दाबिपयोयः परमो भावस्तत्प्रदर्शयन्नभिनयार्थं नृत्त कृतवान्‌। तस्य च भावस्य स्वरूपनिरूपणं शिवमाहात्म्यखण्डस्य तृतीयेऽध्याये विस्तरेण कृतम्‌ ॥ १८२- १८७ ॥ अवशः सन्निति। एवं परमेश्वरविष्णोश्चान्तर्हितयोःसतोः शिवभत्क्या परवश एव सरह्मा श्रद्धावशाधूर्वेक्तिस्य श्रुव्यथश्य शेष॑ पुनराहेति सूतवक्थम्‌। १८८॥ छन्दोग्ये सप्तमे या भूमविद्या सनत्कुमारेण नारदायोपदिष्टा तां संजिधृक्षुस्तत्राउडत्मबिद्याव्यतिरिक्तानां वियानां स्वरूपज्ञाननिवेतक॒लभावेन प्रव्युतम्रन्थतदथेधारणनिमित्तशोकहेतुत्वमबति यदाम्नातम्‌ “ऋग्वेदं मगवोडब्येमि’ इय।दिना तत्संगृह्णाति विद्याः सवौ इति । सर्बशब्देन “ स यो नाम ब्रह्मेत्युपास्ते” इत्येबमाम्नातनामवागादितत्त्वोपास्तीनां संग्रहस्तासामपि“यावन्नाम्नोगतं तत्रास्य यथाकामचारोभवति" इत्येवं तत्तद्वाक्यरोषाबगतैहिकामुष्मिकफलसाधनत्वावगमात्‌। तदुपनिषद्व्यतिरिक्तवेदानां च सांसारिकफलविषयत्वं भगवताप्युक्तम्–त्रैगुण्य-

आत्मविद्या तुसंसारतमसः प्रतिघातिनी॥ १८९ ॥

आत्मविद्याविहीनस्य शोकसागर एव हि।

मुक्तिरेवाऽऽत्मनिष्ठस्य नास्ति संशयकारणम्‌॥१९०॥

यत्रान्यत्पश्यति प्राणी शृणोत्यन्यत्तथैव च।

अन्यज्जानाति चाल्पं तद्यदल्पं मर्त्यमेव तत्‌॥१९१॥

यत्र परयति नान्यच्च न शृणोत्यन्यदास्तिका।

अन्यच्च न विजानाति स भूमा सुरपुङ्गवाः॥ १९२ ॥

विषया वेदा निस्त्रैगुण्यो भवार्जुन" इति। ‘श्रुतं ह्येव मे भगवद्दृशेभ्यस्तरति शोकमात्मवित्‌ ” इति यदाम्नतं तस्यार्थमाह–आत्मविद्येति। संसारतमस इति। संसारस्य निदानभूतमज्ञानाख्यं यसमस्तस्येत्यर्थः॥ १८९॥ ननु विधान्तरस्यापि संसारनिवर्तकत्वंकुतो नेत्यतआह-आत्मविद्येति। खस्वरूपज्ञानं हि संसारहेतुः। न ह्यनात्मविषयेण ज्ञानेन तन्निवर्त्यते\। अत आत्मविद्यारहितस्य संसारपात एव सर्वदेत्यर्थः।

अत एवसकलविद्यानिष्णातस्याप्यनात्मविदो नारदस्य वाक्यमेवमाम्नातम्‌ “सोऽहं भगवः शोचामि तं मा भगवाञ्शोकस्य पारं तारयतु” इति। मुक्तेरेवेति।आत्मज्ञानिनस्तु तद्याथात्म्यज्ञानेन तदावरणाविधानिवृत्तौ निरूपादानस्य संसारात्मकस्य शोकस्योदयासंभवान्मुक्तिरेवेत्यत्र संशयो नास्तीत्यर्थः॥१९०॥ श्रुतौनामादिप्राणान्तानि तत्त्वान्युत्तरोत्तरव्यापकानिबुद्धेःपरतत्त्वावतरणेपायत्वेन सोपानक्रमेणोपदिश्य “भूमा त्वेव विजिज्ञासितव्यः “इत्यनवच्छिन्नसुखरूपस्य सर्वव्यापकस्याऽऽत्मनोज्ञातव्यत्वंप्रतिज्ञाय “यत्र नान्यत्पश्यति” इयादिना भूमवस्तुलक्षणम्नातं तत्संगृह्णति –यत्रान्यदित्यादिना।

भूमवस्तुप्रतियोगित्वेन यदल्पस्य लक्षणमाम्नातम्‌ “अथ यत्रान्यत्पश्यति“ इति तत्प्रतिपत्तिसौकर्याय प्रथममत्र प्रतिपाद्यत इति द्रष्टव्यम्‌।तदयमर्थः।यत्र खलु वस्तुनि प्रमातृप्रमाणप्रमेयादिमेदन्यवहारस्तदल्पं परिच्छिन्नमत एव मर्त्यं नश्वरम्‌\। ईदृशस्त्रिपुटीव्यवहारो यस्मिन्वस्तुनि नास्ति सोऽनवच्छिन्नो भूमशब्दाभिधेय आत्मेति॥ १९१ ॥ १९२ ॥ “यो वै भूमा तत्सुखम्‌! इति श्रुतिवाक्यस्यार्थमाह –योवा इति। यदपरिच्छिन्नमात्मवस्तु तदेव हि सुखं

यो वैभूमा सुखं तद्धि तद्धि कैवल्यमुत्तमम्‌।

नाल्पे चास्ति सुखं तस्मान्महाद्वैतपरोभवेत्‌॥ १९३ ॥

महाद्वैतपरस्यास्यन नाशो जन्म नैव च।

नैव गत्यागती नान्यद्बन्धनं न विमोचनम्‌॥ १९४॥

अत्रैव लीयत सम्यक्सर्वमात्मतयास्वतः

घृतकाठिन्यवत्स्वप्नप्रपञ्चप्रतिभासवत्‌॥ १९५ ॥

सर्वमेतदतिशोभनं परं केवलं करुणयैव भाषितम्‌।

देवदेवचरणप्रसादतो नेतरिद्धि कथनीयमस्ति वः॥१९६॥

इति श्रीसूतसांहितायां यज्ञवैभवखण्डस्योपरिभागे ब्रह्मगी-

तासूपनिषत्सु आदेशकथनं नाम पञ्चमोऽध्यायः॥५॥

निरतिशया मुक्तिश्च। परिच्छिन्ने तु सुखं नैवास्ति। परिच्छेदकवस्तुकृतभयादेरवश्यंभावात्‌। “द्वितीयाद्वै भयं भवति”इति ह्याम्नातम्‌। अतोऽनवच्छिन्नसुखस्वरुपात्मनिष्ठैव संपादनीयेति निगमयति– तस्मादिति॥ १९३ ॥ महाद्वैतपरस्येत्यादि। एवमपरिच्छिन्नसुखात्मकब्रह्मात्मनिष्ठस्य जन्मनाशबन्धमोक्षादिसकलपरिच्छेदव्यवहारोनैवास्ति\। किंतु तत्सर्वमत्रैवास्मिन्भूमवस्तुनि याथात्म्येन ज्ञायमाने तत्वस्वरूपतयैवसम्यग्लीयते न पुनरुत्तिष्ठति। तत्र दृष्टान्तमाह–घृतेति। ननु घृतमग्निसमयोगात्प्राक्कठिनम्। तत्संयोगे च तत्काठिन्यं बिलीयते। एवं ब्रह्मापि स्वगोचरज्ञानात्प्रग्वस्तुतः प्रपञ्चात्मकमासीत्पश्चाच्च निर्विशेषमिति विकारित्वादनित्यत्वं स्यादित्याशङ्क्य निदर्शनान्तरमाह–स्वप्नेति\। अपरिच्छिन्ने निर्विकारे ब्रह्मवस्तुनि स्वप्नप्रपञ्चप्रतिभासवदेव सर्वजगत्प्रतिभासः। अतःप्रतिभासैकशरीरं तन्न स्वाश्रये विकृतिमावहतीत्यर्थः। १९६

इति श्रीसृतसंहितातात्पर्यदीपिकायां चतुर्थस्य यज्ञवैभवखण्डस्योपरिभागे

ब्रह्मगीतासूपनिषत्स्वादेशकथनं नाम पञ्चमोऽध्यायः ॥ ५ ॥

अथ षष्ठोऽध्यायः।

दहरोपासनविवरणम्‌।

ब्रह्मोबाच—

अस्मिन्ब्रह्मपुरे वेश्म दहरंयदिदं सुराः।

पुण्डरीकं तु तन्मध्य आकाशो दहरोऽस्ति तु॥ १ ॥

स शिवः सच्चिदानन्दः सोऽन्वेष्टव्यो मुमुक्षभिः।

स विजिज्ञासितव्यश्च विना संकोचमास्तिकाः॥ २ ॥

एवंदिग्देशकालाद्यनवच्छिन्नमद्वितीयं सच्चित्सुखात्मकं ब्रह्माऽऽत्मत्वेनोपदिष्टम्‌। तच्च मन्दबुद्धिभिर्द्रागेव साक्षान्नावगन्तुं शक्यत इति हृत्पुण्डरीकमध्ये सत्यकामत्वादिगुणवैशिष्ट्येन तस्यैव ब्रह्मण उपासनं ब्रह्मचर्यादिसाधनसंपन्नस्य मुमुक्षोरुपदिशति “अथ यदिदमस्मिन्ब्रह्मपुरे”इत्यादिका श्रुतिस्तामत्र दहरविद्या संगृह्णाति—अस्मिन्ब्रह्मपुर इत्यादिना। ब्रह्मणः पुरं ब्रह्मपरामिति तदुपलब्धिस्थानं विद्याधिकारिशरीरमुच्यते। उक्तं हि– “उपलब्धेरधिष्ठानं ब्रह्मणो देह इष्यते। तेनासाधारणत्वेन देहो ब्रह्मपुरं भवेत्‌” इति॥ अस्मिंश्च विद्याधिकारीणि देहे यदिदं दहरमल्पपरिमाणं हृत्पुण्डरीकं तेनावच्छेदात्सर्वगतोऽपि दहरोऽल्पपरिमाणो य आकाशः श्रुत्या तन्मध्ये जिज्ञास्यत्वेनोपदिष्टः स सत्यज्ञानानन्दात्मकः परशिव एव। आकाशशब्दो ह्यासमन्तात्काशत इति व्युत्पत्त्या स्वप्रभेब्रह्मणि मुख्यः। अत एवान्यत्रऽऽम्नायते–“‘आकाशो वैनाम नामरूपयोर्निर्वाहिता” इति। तत्र भगवान्बादरायणो ऽप्याकाशशब्दस्य ब्रह्मपरत्वंसूत्रयामास–“आकाशस्तल्लिङ्गात्‌”इति। अयमेवाऽऽकाशाख्यः परशिवो मुमक्षुभिः शमदमादिसाधनकलापैरन्वेषणीयः। श्रवणमननादिसाधनजनितेन ज्ञानेन ज्ञातव्यश्च। एवं वदता श्रुतौतस्मिन्यदन्तरिति तच्छब्दस्य व्यवहितपुण्डरीकपरामर्शकत्वं व्याख्यातं भवति\। दहराकाशपरामर्शे हि तन्मध्ये व्यवस्थितत्वेन वक्ष्यमाणं द्यावाप्रथिव्यादिकमेबोपास्यंस्यात्तच्चायुक्तम्‌। “अथ य इहाऽऽत्मानमनुविद्य ब्रजन्त्येतांश्च सत्यान्कामांस्तेषां सर्वेषु लोकेषु कामचारो मवति” इत्यात्मोपास्तेः फलवत्त्वावगमात्‌। नन्वेवं

स्वाभिन्यञ्जञकसंकोचात्संकोचप्रतिभाऽऽत्मनः।

न स्वरूपेण चिद्रूपं सर्वव्यापि सदा खलु॥ ३ ॥

ज्ञातरूपेण चाज्ञातस्वरूपेण च साक्षिणः।

सर्वंभाति तदाभाति ततस्तद्व्यापि सर्वदा॥ ४ ॥

स्वयं सेद्धुमशक्यं हि जडात्मकमिदं जगत्‌।

चित्संबन्धबलेनैव खलु भति न चान्यथा॥ ५ ॥

अतोऽवभास्यं सकलं व्याप्य तद्भासकः शिवः॥

स्वतो व्यापी न चाव्यापी संकोचश्चान्यसंगमात्‌॥ ६ ॥

परिच्छिन्नमेव ब्रह्मोपासनीयम्‌। नेत्याह— विना संकोचमिति। हृत्पुण्डरीकोपाधिकृतं परिच्छेदं विहाय स्वाभाविकानवरच्छिन्नरूपेणोपासनीयमित्यर्थः॥ १ ॥ २ ॥ ननु मा भूदौपाधिक संकोचश्चिद्रुपस्याऽऽत्मनश्चैत्रादिदेहेषु स्वाभाविक एव संकोचो दृश्यत इत्यत आह-स्वाभिव्यञ्जकेति\। स्वस्याऽऽत्मनः स्वप्रकाशचिद्रूपस्याप्यावरणाज्ञानापनयनद्वारा यदभिव्यञ्जकमन्तःकरणादि तत्परिच्छेदवशेन हि चिदात्मनि परिच्छेदप्रतिभासो रक्तः स्फटिक इत्ति वन्न स्वभाविक इत्यर्थः। कुत इत्यत आह— चिदिति। सदा सवैदोत्पत्तिस्थिययादिकाले सवेस्यापि प्रपञ्चघ्याध्यस्तस्य चिल्लक्षणं ब्रह्म हि खूपं स्वरूपम्‌ अध्यस्तस्थाधिष्ठानाद व्यातिरिक्तत्वात्‌ एतेन कालवस्तुकृतों पर्च्छिदौ निरस्तो॥३॥ देशकृतमपि निरध्यति–ज्ञातरूपेणोति। प्रतिभासमानमपि सर्वंजगज्ज्ञातरुपेण ज्ञानविषयीक्रतत्वाकारेण तथाज्ञातरूपेणज्ञानविष्यत्वाकरेण च साक्षिचिन्मात्रस्याऽऽमनो भाति। अतश्रित्रकाशव्यतिरेकः कुत्रापि नास्तीति देशकृतपरिच्छेदोऽपि न क्रियत इलयथेः। एतदाचार्यैरप्युक्तम्‌-“सर्वं वस्तु ज्ञाततयाऽज्ञाततया वा साक्षिचैतन्यस्य विषय एव”इति\। तदाभातीति\। तत्तु चिदात्मकं ब्रह्माऽऽसमन्तात्सवेदा स्वयमेव भाति जडप्रपञ्चवनान्यं प्रकाशमपक्षते॥ ४ ॥ ननुजगदपि स्वत एव के न भायात्तत्राऽऽह-स्वयमिति\। जडात्मकमिति हेतुगर्भविशेषणम्‌ ॥५॥एवं परशिवस्य प्रतिपादितं व्यापित्वंनिगमयति-

यावान्वा अयमाकाशस्तावानाकाश आन्तरः।

द्यावापृथ्वी उभे अस्मिन्नन्तरेव समाहिते॥ ७ ॥

उभावग्निश्च वायुश्च सूर्याचन्द्रमसावुभौ।

नक्षत्राणि च वद्युच्चास्तित्वेन भासते॥ ८ ॥

यच्च नास्तितया भाति सर्वं तस्मिन्समाहितम्‌।

अतः सर्वांश्रयः शंभुः सर्वव्यापी स्वभावतः॥ ९ ॥

एष आत्मा परो व्यापी पाप्मभिः सकलैः सदा।

असौचा(ना)पहतः साक्षी विमृत्युर्विजरः सुराः॥ १०॥

विशोको विजिघत्सोऽपिपासः सत्यादिलक्षणः।

सत्यकामस्तथा सत्यसंकल्पश्च सरर्षभाः॥ ११ ॥

अत इति।दृश्यमज्ञानतत्कार्यलक्षणं सर्वंजगद्व्याप्य वर्तमानः स्वभावतः एव व्यापी। परिच्छेदस्तु तस्यान्तःकरणाद्युपाधिसंपर्कवशादिति सिद्धम्‌॥६॥ एवमुपपादितेर्थे “यावान्वा अयमाकाशस्तावानेषोऽन्तर्हृदय आकाशः” इत्यादिकां श्रुतिं योजयाति– यावान्वा इत्यादिना। तवानाकाश इति प्रसिद्धभूताकाशसाम्येन सर्वगतत्वप्रतिपादनपरं न तु तत्परिमाणत्वं ब्रह्मणस्तस्याऽऽकाशादिसर्वजगद्व्यापकत्वादत एवाऽऽम्नायते- “यनाऽऽवृतं खं च दिवं महीं च”इति। एतदेव सर्वव्यापित्वमुपपादयति- द्यावापृथ्वी इत्यादिना। अनेन च उभे यस्मिन्द्यावापृथिवी अन्तरेव समाहिते” इयादिका “यच्चास्येहास्ति यच्च न”इयेवमन्ता श्रुतिर्व्याख्याता भवति॥७—९॥ नन्वेवमीश्वरः सर्वव्यापी भवतु। जीवस्य तथाभावे किमायातमित्याशङ्‌क्याऽऽह–एष इति\। एष एवेश्वर आत्मा सर्वप्रत्यग्भूतः। न ततोऽतिरिक्तो जीवो नामास्ति\। नन्वसौ धर्माघर्मादाश्रयभूतोऽन्यो विद्यते तत्राऽऽह–पाप्मभिरिति।पापग्रहणं संसारफलहेतोःपुण्यस्याप्युपलक्षणम्‌\। पुण्यपापयोरन्तःकरणधर्मत्वात्तद्विविक्तस्तत्साक्षी चिदात्मा ताभ्या न स्पृश्यत इत्यर्थः।

यथा कर्मजिता लोकाः क्षीयन्ते भुवि सत्तमाः\।

तथा पुण्यजिता लोकाः क्षीयन्ते हि परत्र च॥ १२॥

येऽविदित्वा परात्मानं ब्रजन्ति सकलाः क्रियाः।

तेषां सर्वेषु लोकेषु कामचारो न विद्यते॥ १३ ॥

ये विदित्वा परात्मानं ब्रजन्तीव क्रियाः स्थिताः।

तेषां सर्वेषु लोकेषु कामचारस्तुविद्यते॥ १४ ॥

यथा हिरण्यं निहितं क्षेत्रज्ञानविवर्जिताः॥

उपर्युपरि गच्छन्त्यो न विन्देयुः प्रजा इमाः॥ १५ ॥

तथा सुषुप्तौ गच्छन्तो ब्रह्मलोकं स्वयंप्रभम्‌ ।

न विन्दन्ति महामोहादहो मोहस्य वैभवम्‌॥ १६ ॥

साक्षिणो नास्तीत्याह–बिमृत्युरित्यादिना। सत्यकामः सत्यसंकल्प इत्युपास्यगुणकथनम्‌। एष आत्माऽपहतपाप्मा विजर इत्यादिसत्यसंकल्प इत्येव मन्ता श्रतिः संगृहीता॥ १ ०॥ ११॥ एवं निर्गुणस्य सगुणस्य वा ब्रह्मणो यज्ज्ञानं तस्यैवाक्षयफलहेतुत्व॑ न त्वग्निहोत्रादिकर्मण इत्यस्यार्थस्य प्रतिपादकम्‌ “तद्यथेह कर्मजितो लोकः”” इत्यादिश्रुतिवाक्यंसंगृह्णति–यथेति। कृतकत्वस्यानित्यत्वव्याप्तिनियमादिति भावः॥ १२ ॥ “तद्यइहाऽऽत्मानमननुविद्य”इतिवा-क्यस्यार्थमाह–येऽविदित्वेति । अविदित्वाऽज्ञात्वेत्यर्थः॥ १३ ॥अथ य इहाऽऽत्मानमनुविद्य” इति वाक्यस्यार्थमाह–ये विदित्वेति। ये तूदीरितलक्षणमात्मानं ज्ञात्वा स्थितास्तेऽग्निहोत्रादिकाः क्रिया व्रजन्तीव न पुनर्व्रजन्ति।कर्तृत्वभोक्तृत्वादिमदन्तःकरणस्य विविक्तत्वात्‌\। आत्मविद्यायाः फलमाह–तेषामिति। सर्वेषु लोकेष्विति। ये च लोकाः कामविशेषाश्च “स यदि पितृलोककामो भवति" इत्यादिना श्रुतौप्रपञ्चितास्तेषु सर्वेषु विदुषः कामचारो भवति। हन्मध्येऽवस्थितस्य दहरत्रह्मणः सलयकामादिगुणैरपस्यमानस्य निरातिशयानन्दस्वरूपतया सवेकमानां तदेकदेशव्वादियथैः ॥ १४ ॥ ननु सुषुप्तौ तथाविधं ब्रह्म प्राप्यते “सता सोम्यतदासंपन्नो भवति”इति

अयं हृदि स्तिथः साक्षी सर्वेषामविरोषतः।

तेनायं हृदयं प्रोक्तं शिवः संसारमोचकः।

य एवं वेद स स्वर्गं लोकमेति न संशयः॥ १७ ॥

अस्माच्छरीरादुत्थाय सुषुप्तौयः सुरर्षभाः॥ १८ ॥

परं ज्योतिःस्वरूपं तं शिवं संपद्यते सुराः।

अभिनिप्पद्यते स्वेन रूपेणैव स्वभावतः॥ १९ ॥

एष आत्मा न चैवान्यः सत्यमेव मयोदितम्‌।

श्रुतेः। तथाच विदुष इव सुषुप्तस्यापि सर्बकामावाप्तिः किं न स्यादित्याशङ्क्य सदृष्टान्तमाह—यथा हिरण्यामिति। ब्रह्मलोकमिति। लोक्यत इति लोको ब्रह्मैव लोको ब्रह्मलोकः। सुषुप्तावस्थायां स्वप्रकाशं ब्रह्म सर्वप्राणिभिः प्राप्तमप्यविद्यावशादप्राप्तमेव भवति। निक्षेपस्थानमजानतः पुरुषस्य निधिवदित्यर्थः। अनेन च “तद्यथा हिरण्यनिधिम्‌” इतिश्रुत्यर्थः संगृहीतः॥ १५। १६॥ हृदयशब्दनिर्वचनादपि सर्वगस्य ब्रह्मणो हृन्मव्येऽवस्थानं श्रुत्या दर्शितम्‌ “स बा एष आत्मा हृदि” इत्यादिना तत्संगृह्णाति—अयं हृदि स्थित इति। एतस्य हृन्मध्यावस्थितब्रह्मज्ञानस्य “अहरहर्वा एवंवित्स्वर्गम्‌”इति श्रुतिप्रतिपादितं फलमाह—य एवमिति। अनेन हार्दब्रह्मवेदनेन स्वर्गं लोकं लोक्यमानदुःखासंस्पृष्टं परानन्दरूपं ब्रह्म प्राप्नोतीत्यर्थः॥ १७ ॥ अथ य एष संप्रसाद इत्यादि श्रुत्या यस्तद्ब्रह्मप्राप्तिप्रकारो दर्शितस्तमभिधत्ते–अस्मादिति। स्थूलसूक्ष्मादिशरीराभिमानं परियज्य सुषुप्त्यवस्थायां जाग्रत्स्वप्नविषयोपभोगकृतकालुष्यराहित्येन प्रसन्नो यश्चिन्मात्ररूपः साक्षी हार्दब्रह्मविद्ययाऽज्ञानलक्षणं कारणशरीरमपि विहाय विकारजातात्परं तदसंस्पृष्टं ज्योतिःस्वरूपकेवलं चैतन्यप्रकशात्मक॑ परशिवस्वरूपं संपद्य स्वात्मतया ज्ञात्वाऽविद्याकृतं परिच्छेदं विहाय स्वकीयेनैव रूपेणाभिनिष्पद्यते प्राप्नोति प्राप्ति श्चेयं कण्ठगतचामी करन्यायेन प्राप्तप्राप्तिरूपत्वाज्ज्ञानमात्रसाध्या न तु ग्रामाद्ग्रामान्तरप्राप्तिवत्कर्मसाध्येति पूर्वभास्याष्टात्रिंशेऽध्याये प्रतिपादितमत्रानुसंधेयम्‌॥ १८।१९ ॥ “एषआत्मेति होवाच” इतिवाक्यस्यार्थमाह-एष आत्मेति । य एवमभि-

एतदेवामृतं साक्षादभयं बह्म हे सुराः॥ २० ॥

य आत्मा दहराकाशः स सेतुर्विधृतिः सुराः।

असंभेदाय लोकानामेषामेतं महेश्वरम्‌॥ ९१ ॥

अहोरात्रे न तरतो न मृत्युर्नजराऽपि च।

न शोको नैव सुकृतं न दुष्कृतमपीश्वराः॥ २२॥

अतः सर्वे निवर्तन्ते पाप्मानः सुरपुङ्गवाः।

एषोऽपहतपाप्मा हि ब्रह्मलोकः स्वयंप्रभः॥ २३ ॥

तस्माद्वै सेतुमेतं तु तीर्त्वाऽन्धः सन्सुरर्षभाः।

निष्पद्यत एषएवाऽऽत्मा नान्यः।इतोऽतिरिक्तस्य देहादिविशिष्टस्य सोपाधिकत्वेनानात्मत्वादित्यर्थः। “एतदमृतम्‌”इतिश्रुतिसंगृह्णाति–एतदेवेति\। एतदेवापरिच्छिन्नमात्मवस्त्वमृतमविनाशि “यो वैभूमा तदमृतम्‌” इति श्रुतेः। अत एवाभयम्‌। भयहेतोर्द्वितीयस्याभावात्‌। अत एवाभयत्वादेतदेव ब्रह्म “ अभयं वे जनक प्राप्तोऽसि"“अभयं हि ब्रह्म”इत्याादिशृतेः॥ २० ॥ अथ य आत्मा स सतुरित्यायनुपतापी मवतव्येवमन्ता श्रुतेः संग्रृह्मते—य आसेत्यादिना। संतुर्विधृतिरिते। सेतुरिति सेतुरिव सेतुर्मर्यादाभूतः। वणाध्रमादिभेदेन क्रियाकारकफलरूपेण प्रतिनियत प्रपञ्चस्य विधारणा विधृति;\। किमर्थं तद्धिरणामीति चेत्तत्राउप5ह—असंभेदायेति। एषां भूरारिलोकानां कर्तृकर्मफलाश्रयाणामसंभेदायाविदारणायाबिनाशायेत्यर्थः। सेतुष्वैरेष्यतेअहोरात्रे इत्यादिना। सषेस्य जनिमतः प्राणिनः परिच्छेदके ये भहोरात्रे ते एनं सेतुभूतमात्माने न तरतो नातिक्रामतः। इतरप्राणिवदहोरात्रादिलक्षणेन कालेन परिच्छेद्यो न भवति। तस्य तत्खरूपेडच्यस्तत्वेन तत्परिच्छेदकत्वानुपपत्तेरित्यर्थः। तथा मृत्युजरादिकमपि देहादिधर्मत्वात्तद्विविक्तंसेतुभूत-मात्मानं न प्राप्नोति॥ २१॥ २२॥ अप्राप्य चातोऽस्मास्प्रतिहताः सर्वे निवतन्ते कुत इयत आह-एष इति । छोक्यत इति लोक अत्मा । ब्रह्मव छोको त्रह्मलोकः \। एष हि यस्मादपहतपाप्माऽतो निवर्तन्त इत्यर्थः॥ २३ ॥ तस्माद्वा

भवत्यनन्धोविद्धःसन्नविद्धस्तद्वदेव तु।

उपतापी तु सन्देवा नोपतापी भवत्यपि॥ २४ ॥

य एषो दहराकाश इत्युक्तः परमेश्वरः।

स देहादिविशेषेभ्य पृथग्भृतः सनातनः॥ २५ ॥

जाग्रत्स्वप्नसुषुप्त्याख्याऽवस्था या भाति देहिनाम्‌।

तस्या अपि महादेवः साक्षी भिन्नः स्वयंप्रभः॥ २६॥

तस्मिन्नध्यस्तरूपेण सा विभाति न भाति च॥ २७॥

स्वदृश्येन शरीरेण सशरीरस्य सर्वदा।

प्रियाप्रियाभ्यां संबन्धो भवत्येव न संशयः॥ २८॥

अशरीरं वाव सन्तं विद्यया न प्रियाप्रिये।

स्पृशतः सत्यमेवोक्तं नात्र संदहेकारणम्‌॥ २९ ॥

य एष दहराकाशः स एव सुरपुङ्गवाः।

इत्यादि।यस्मद्दिहादिविविक्तस्तस्माद्विद्वानिमं सेतुभूतमात्मानं तीर्त्वा प्रप्यान्धादिधर्मस्य स्थृलशरीरादिधर्मेणैव सह निवृत्तत्वात्तद्रहित एवभवतीत्यर्थः॥ २४ ॥ एवं दहरविद्याविषयं ब्रह्मोपदिश्य जाग्रदाद्यवस्थाविनिर्मुक्तब्रह्मप्रतिपादनपरा प्रजापतिनेन्द्रायोपादिष्टा या विद्या “य एषोऽक्षिणि पुरुषो दृश्यते इत्यादिना श्रुत्या प्रदार्शिता तां संगृह्णाति-य एष इत्यादिना। देहादेर्जाग्रदाद्यवस्थायाश्चजडत्वेन साक्ष्यत्वात्तत्त्साक्षी स्वप्रकाश आत्मा ततः पृथग्भूत एव प्रतिपत्तव्य इत्यर्थः। अनात्मनः साक्ष्यत्वमुपपादयाति-तस्मिन्निति। तस्मिन्ब्रह्मणि स्वरूपेणाध्यस्तं जडं जगत्कदाचित्प्रकाशते कदाचिन्नेति तदन्याधीनप्रकाश्ं तस्य स्प्रकाशले ह्यात्मवजगतोऽपि सर्वदा भानप्रसङ्ग इति भावः ॥२५—२ ७॥“ न ह वै सशरीरस्य सतः ” इत्यादिश्रुत्यर्थंसंगृह्णाति—स्वदृस्येनेत्यादिना। यतो देहादिविशिष्टस्यैव सुखदुःखोपभोगलक्षणः संसारः। देहादिविविक्तं कवलमात्मानंजानतस्तु संसारस्पर्शएव नास्तीत्यर्थः॥२८॥२९॥ दहराकाशशब्दस्य ब्रह्मपरत्वंं द्रढयितुं श्रुत्यन्तरगतम्‌ “ अकाशो ह वै

नामरूपस्य निर्माता तदेव ब्रह्म शाश्वतम्‌॥ ३० ॥

अमृतं च तदेवैतत्स आत्मा सर्वदेहिनाम्।

ततो नान्यत्परं किंचिन्नापरं नास्ति किंचन॥ ३१ ॥

स एव सर्वरूपेण विभाति न विभाति च।

अहो रुद्रस्य देवस्य पूर्णता को नु वेद ताम्‌॥३२॥

यथा मृत्स्वविकारेषु तत्तद्रूपेण संस्थिता।

तथा सर्वत्र तत्साक्षी तत्तद्रूपेण संस्थितः॥ ३३ ॥

यथा वारिविकारेषु जलं तत्तत्स्वरूपतः।

तथा सर्वत्र तत्साक्षी तत्तद्रूपेण संस्थितः॥ ३४ ॥

यथाऽग्निःस्वविकारेषु तत्तद्रूपेण संस्थितः॥

तथा सर्वत्र तत्साक्षी तत्तद्रूपेण संस्थितः॥ ३५॥

यथा वा स्वविकारेषु वायुस्तत्तत्स्वरूपतः।

तथा सर्वत्र तत्साक्षी तत्तद्रूपेण संस्थितः॥ ३६॥

यथा वा सर्वगं व्योम स्वकारेणैव संस्थितम्‌।

तथा सवोत्मकः साक्षी साक्षिरूपेण संस्थितः॥ ३७ ॥

घटाकाशादिभेदेन विभिन्नोऽप्यविभागवान्‌।

आकाशस्तद्वदीशानो विभिन्नोऽप्यविभागवान्‌॥ ३८॥

नाम नामरूपयोर्निर्वहिता ” इतिवाक्यं संगृह्णाति—य एव इति। य आकाशाख्यो हृन्मध्येऽवस्थित आत्मा घटपटादिनामधेयस्य तदभिषेयाथेजातस्य च निमोता तदेवानादिनिधनं ब्रहमेत्यथः ॥ ३० ॥ अमृतमिव्यायक्ताथम्‌ ॥ ३१ ॥ ३२ ॥ ब्रह्मणः स्वकार्येषु भूतभौतिकादिष्वनुगतिप्रदर्शनार्थो यथा मृदिति दृष्टान्तः।॥३३-३६॥ अनुगतस्यापि निरुपलप्रतिपादनार्थं यथा वा सर्वगं व्योमेति निदशनान्तरम्‌ ॥ ३७॥

महादेवोऽविभागेन विभागेन च भासते।

अन्यथा चेन्महादेवो महादेवः कथं भवेत्‌॥ ३९ ॥

महादेवो महादेव एव नैवामहानयम्‌।

तथा सति महादेव एव सर्वं न चापरम्‌॥ ४० ॥

येन केनापि रूपेण यद्यद्भाति न भाति च।

तेन तेनैव रूपेण शिव एवावभासते॥ ४१ ॥

यथाभातेन रूपेण शिव एवेति या मतिः।

सा शिवा परमा संविन्नापरा न हि संशयः॥ ४२॥

अहमिति शिवसत्यचिद्धनः स्फुरति सदा प्रथगस्ति

नैव वस्तु।इदमिति वपुषा च तेन बन्धनं न हि

मनुजस्य विमोचन च किंचित्‌॥ ४३॥

शिव इति सकलंयदा विभासते न च मरणं जननं

तदाऽस्ति किंचित्‌। इति हृदये वचनं मदीयमेतन्नि-

शितमतिः सततं निधाय तिष्ठेत्‌॥ ४४ ॥

परमशिवः परमेश्वरः प्रसन्नो यदि विमला परमानुभूतिरेषा ।

न हि सकलैर्विमलैरुपायबृन्दैर्नच हरिणा न मया न चापरेण

घटाकाशादीत्यनेन तात्त्विकाभेदप्रतिपादनम्‌ ॥ ३८ ॥ महादेव इति नामधेय बलादप्यस्य सार्वात्म्यं प्रतिपादयाति—महादेवोऽविभगेेत्यादिना ॥ ३९ ॥ अन्वर्थसंज्ञा चेयमित्याह- महादेव महादेव एवेति\। यद्यसौमहान्न स्यान्माहांश्चासौ देवो महादेव इतीदृशी संज्ञा कथं सिध्येदित्यर्थः॥ ४० ॥ ४१ ॥ यथाभातेनेति। येन येन प्रकारेण यद्यद्भाति तेन सर्वेण रूपेण तदधिष्ठानसच्चिदानन्दात्मकःशिव एव भातीति या मतिःसाऽपि संविद्रूपा परमा शाक्तिरेव नान्येत्यर्थः ॥ ४२ ॥ अहमित्यादिप्रातिपादितः श्रुत्यर्थप्रपञ्चः॥ ४३ ॥५३ ॥

परमशिवः परमेश्वरः स्वतन्त्रो यदि कुरुते मनुजस्य वेदनं हि तत्। परमपदं विमलंप्रयाति मर्त्यो
यदि कुरुते न शिवः प्रयाति बन्धम्‌ ॥ ४६ ॥

दिनकरकिरणैर्हिशार्वरं तमो निबिडतरं झटिति प्रणाशमेति। घनतरभवकारणान्तरं तमः शिवदिनकृत्प्रभया न चापरेण॥ ४७ ॥

हरिरहमप्यपरे सुरासुराद्याः परमशिवप्रभया तिरस्कृताश्च। रविकिरणैरखिलान्यहानि यद्वत्परमशिवः स्वत एव बोधकारी॥ ४८ ॥

शिवचरणस्मरणेन पूजया च स्वकतमसः परिमुच्यते हि जन्तुः। न हि मरणप्रभवप्रणाशहेतुः शिवचरणस्मरणादृतेऽस्ति किंचित्‌॥ ४९ ॥

परमशिवः खलु नः समस्तहेतुः परमशिवः खलु नः समस्तमेतत्‌। परमशिवः खलु नः स्वरूपभूतः परमशिवः खलु नः प्रमाणभूतः॥ ५० ॥

परमशिवः सकलागमादिनिष्ठः परमशिवः परमानुभृतिगम्यः। परमशिवः परमानुभूतिरूपः परमशिवः परमानुभूतिदश्च॥ ५१ ॥

परमशिवसमुद्रेऽहंहरिः सर्वदेवा मनुजपशुमृगाद्याः शीकरा एव सत्यम्‌। विमलमतिभिरेवं बेदवेदा-न्तनिष्ठैर्हृदयकुहरनिष्ठं वेदितुं शक्यते हि॥ ५२ ॥

मायाबलेनैव हरिं शिवेन समानमाहुःपुरुषाधमाश्च।

मोहेन केचिन्मम साम्यमाहुर्माया तुशैबी खलु दुस्तरेयम्‌॥ ५३ ॥

खद्योतो यदि चण्डभानुसदृशस्तुल्योहरिः शंभुना

किंपाको यदि चन्दनेन सदृशस्तुल्यऽहमीशेन च।

अज्ञानं यदि वेदनेन सदृशं देवेन तुल्याजनाः

किं वक्ष्ये सुरपुङ्गवा अहमहो मोहस्य दुश्चेष्टितम्‌॥ ५४ ॥

अतः शिवेनैव समस्तमेतद्भवत्यनन्तेन न चापरेण।

शिवस्वभावेन शिवः समस्तं शिवप्रभावेन जगद्विचित्रम्‌।

तत्त्वदृक्सकलमद्वयं सदा पश्यति स्म परिमोहितः पुमान्‌।

कष्टरिष्टघटकुड्यरूपतः कष्टमेव खलु तस्य वेदनम्‌॥ ५६॥

इदं जगदिति स्वतः सकलजन्तोः प्रतीतिदेढा

परं जगदिति स्फुरत्यमलबोधस्वभावेन च।

इदं हि परवेदनं विमलचित्तस्य पुंसः सदा

भवं तरति मानवः परमबोधेन चैतेन हि॥ ५७ ॥

छन्दोगश्रुतिमस्तके विनिहितं विज्ञानमेतन्मया

जन्तूनामविवेकिनामतितरामज्ञनविध्वस्तये।

कारुण्यादमराधिपाअतिशुभब्रह्यामृतावाप्तये

देवानामधिपाधिपस्य वचनादुक्तं महेशस्य च॥ ५८॥

इति श्रीसूतसंहितायां यज्ञवैभवखण्डस्योपरिभागे बह्य-

गीतासु दहरोपासनविवरणं नाम-षष्ठोऽघ्यायः॥ ६ ॥

किंपाको यदीति। किंपाको नाम वृक्षविशेषः॥ ५४–५७ ॥ प्रतिपादितमर्थमुपसंहरति–छन्दोगेति। ब्रह्मविद्यायाः संसारकारणविद्यानिवृत्तिः प्रथमं प्रयोज-

सप्तमोध्यायः॥

७ .वस्तुस्वरूपविचारः।

ब्रह्मोवाच—

अस्ति तत्त्वं परं साक्षादक्षरं क्षरवस्तुनाम्‌।

अधिष्ठानमनौपम्यमवाद्मनसगोचरम्‌॥ १ ॥

तस्मिन्सुविदिते सर्वं विज्ञानं स्यादिदं सुराः।

तदात्मकत्वात्सर्वस्यनास्त्येव हि भिदा स्वतः॥ २॥

नम्‌ । आवरणाज्ञानेडपनीते सति स्वस्वरूपभूतनिरतिशयानन्दाविभावश्च द्वितीयं प्रयोजनम्‌ । तदुभयसिद्धये ब्रह्मविद्योपदिष्टेयथेः ॥ ५८ ॥

इति श्रीसूतसंहितातात्पर्यदीपिकायां चतुरस्य यज्ञवैभवग्वण्डस्योपारेभागे

ब्रह्मगीतासूपनिषत्सु दहरोपासनविवरणं नाम प्ठऽध्यायः ॥ ६॥

एवं वेदत्रयेपनिपदो ब्रह्म/मैक्यपरत्व॑ व्याख्यायाथवणमुण्डकोप निपदोऽपि तत्परं व्याचिख्यासुस्तामुपानिपदं संगृहण।ति—अस्ति तत्वामेल द्विना । तत्व परमार्थभूतम्‌ । शिवशक्लदौनि पदूत्रिशदपरतत्वानि व्यावतेयितुं विशिनि प्रमिति । यते। विकार जतिभ्यः परमत ण्वाक्षरमावेनारी सयभूतम्‌ \। तस्मादेव क्षरवस्तूनां नश्वराणां जडपद्‌(थौनामधिष्ठानम्‌ । सय हि मेध्याभूतस्याधिष्ठानं मवति \। अनेपम्धसुपमानभूतस्य वस्वन्तरस्यामवात्‌ । निविशेषचेन वाब्यनसयोरविषयभूतम्‌ । क्षरस्तुनामियत्र संज्ञको विशरानिय इति नामि दयो न क्रियते ॥ १ ॥ श्रतौ “ कस्मिन्न॒ भगवो विज्ञाते समिदं विहातं भवति"? इत्यादिना प्रश्नप्रतिवचनरूपेण यदधेष्ठानभूताक्षरब्र ह्मवेदनादारोपितसर्वजगद्विञ्दशित ततसंगृहणाति—तस्मिनिति । प्रतिहञतेऽथं हेतु माह—तदातकत्वादिति । तदधिष्ठानं ब्रहैवाऽऽत्मा स्वरूप यत्याऽ ऽरोपितप्र-पञ्चस्येति विग्रहः । न खल्वारोपितरजतादिकर्मात्रेष्ठानशुक्स। दिव्यतिरेकेण परथगात्मानं कमत इति भावः । नास्ये हैं ति \। प्रपञ्चस्य ब्रह्मणः सकाशास्वाभावरिवमेदस्त॒ युक्तिमिरसङकप्रगिव निरस्त इति हते रथैः ॥ २ ॥ एवं

द्वे विद्ये वेदितव्ये हि परा चैवापरापि च।

तत्रापरा तु विद्यैषा ऋग्वेदी यजुरेव च॥ ३ ॥

सामवेदस्तथाऽथर्ववेदःशिक्षा सुरर्षभाः।

कल्पोव्याकरणं चैव निरुक्तं छन्द एव च।

ज्योतिषं च तथाऽनात्मविषया अपि बुद्धयः॥ ४ ॥

अथैषा पराविद्या सा यया तत्परमक्षरम्।

गम्यते सुदृढंप्राज्ञैः साक्षाच्छंभोः प्रसादिभिः॥१५॥

यत्तदद्रेश्यमग्राह्ममगोत्रं रूपवर्जितम्।

प्रारिप्सिताया उपनिषदोऽभिधेयमर्थं संग्रहेण प्रदर्श्यास्मिन्नर्थे “द्वेविद्ये वेदितव्ये इति ह स्म यद्ब्रह्मविदोवदन्तिः" इत्यादिकामुपनिषदं योजयति—द्वेविद्ये इति\। तत्रापरेत्यादि। ऋग्वेदादिलक्षणा श्रुतिपरिगणिता याऽपरविद्या सा तावदनात्मविपयत्वादुदीरितमद्वितीयंतत्वं न प्रतिपादयति। तथा तज्जन्या बुद्धयोऽप्यग्निहोत्रादिकर्मविपयत्वादनात्मविषया इति तासामप्यपरविद्यात्वमित्यर्थः॥ ३॥ ४9 ॥“अथ परा यया तदक्षरमधिगम्यते’’ इति श्राति वाक्यं संगृह्णाति—-अथैपेति। यया तत्त्वमस्याद्युपनिषद्वाक्यजनितया बिद्ययावक्ष्यमाणलक्षणं तदश्वरं व्रह्मावगम्यते प्राप्यते साऽऽत्मविषयज्ञाननिवर्तकत्वेन मोक्षमाधनत्वापरविद्येत्यर्थः॥ ५॥ “यत्तदद्रेश्यम्‌”इत्यादिका श्रुतेः स्वरूपतोऽप्यत्र संगृह्यत इतीतः परं न पृथक्मोदाह्रियते\। तदक्षरमित्युक्तं किं तदिति विशिनष्टि- -यत्तदित्यादिना\। अद्रेश्यमदृश्यम्\। चक्षुःश्रोत्रादिज्ञानेन्द्रि-याणामगम्यामित्यर्थः। अग्राह्ममिति वाक्पाण्यादिककर्मेन्दियाविपयत्वम्‌\। अगोत्रमनन्वयम्‌। न ह्यन्यदस्य कारणमस्ति येन सहान्वयः स्यात्\। अवर्णामिति श्रौतपदस्यार्थमाह— रूपवर्जितमिति। रूप्यन्त इति रूपाणि स्थूलत्वादयो द्रव्यघर्मास्तद्रहितम्‌\। “यः सर्वज्ञःसर्ववित्‌” इति चेतनवत्वाविशेषात्संसा रिणामिवास्यापि प्रसक्तं चक्षुःश्रोत्रादिकारणसद्भावं व्यावर्तयति – अचक्षुःश्रोत्रमिति\। अपाणिपदमिति कर्मेन्द्रियराहित्यम्‌\। यत एवं ग्राह्यग्राहकरहितमतो

अचक्षुःश्रोत्रमयर्थं तदपाणिपदं सदा॥ ६ ॥

नित्यं विभुं सर्वगतं सुसूक्ष्मं च तदव्ययम्‌।

यद्भूतयोनिं धीमन्तः परिपश्यन्ति चात्मना॥ ७ ॥

यथोर्णनाभिः सृजते गृह्णते च सुरर्षभाः।

यथा पृथ्व्यामोषधयः संभवन्ति यथा सतः॥ ८ ॥

पुरुषात्केशलोमानि तथा चैवाक्षरात्सुराः।

विश्वं संभवतीहैवंतत्सर्वंस्वपनोपमम्‌॥ ९ ॥

तपसा चीयते ब्रह्म तदन्नमभिजायते।

नित्यम्‌। विभुम्‌। विविधं व्रह्मादिस्थावररान्तप्राणिभेदैर्भवतीति विभुः। अत एव सर्वगतमाकाशवद्व्यापरकम्‌। अथापि सुसूक्ष्मम्‌। अपञ्जीकृतभूतानि हि सूक्ष्माणि तत्कारणत्वात्ततोऽप्यतिशयेन सुसूक्ष्मम्। उदीरितरूपत्वादेव तदब्ययम्‌ ; न ह्यनवयवस्य निर्गुणस्यावयवगुणापचयलक्षणं। व्ययः संभवति। भूतयोनिं भूतानांवियदादीनां योनिःकारणभूतम्‌। धीरा इत्यत्र रोमत्वर्थीय-इति व्योचष्टे– धीमन्त इति। यदेतददृश्यत्वादिलक्षणं व्रह्म धीमन्त आत्मना आत्मरूपेण स्वस्वरूपतया परिपरितः पश्यन्ति तदक्षरं ब्रह्म यया गम्यते सा परविद्येति संवन्धः\। एतस्य श्रुतिवाक्यस्य व्रह्यपरत्वं भगवत्ता व्यासेनापि निर्णीतम्‌ -“अदृश्यत्वादिगुणकोधर्मोकितेः’’ इति॥ ६ ॥ ७ ॥ उक्तंभूतयोनित्वं दृष्टान्तैरुपपादयति-ययेति। ऊर्णनाभिर्लूता

काटः। स यथा कारणान्तरानपेक्षः स्वशरीरत्तन्तून्बहिः सारयत स्वात्मन्येवोपसंहरति च। यथा च ब्रीद्याद्योपवयः स्वकारणसद्शःः प्रधिव्यामु्द्यन्त यथा च सतो विद्यमानाज्जीवतः पुरुपादचतनाने केशलोमानि संभवन्ति। एवमेव कारणान्तरानपेक्षादक्षराद्ब्रह्मणः सलक्षणं विलक्षणं चेतनाचेतनात्मकं सर्वं जगदुत्पद्यते। न चाविक्रियस्य ब्रह्यणः परमार्थतोजगद्भावः संभवर्तति

म.य.मयत्वन्तत्सर्वं सूष्टं जगत्स्वप्नप्रञ्चसदृशमित्यर्थः॥ ८ ॥ ९॥ वृदाण उत्प

पमान जगदनेन क्रमणोत्पद्यत इति दर्शयति—- तस्येति \। तज्जगत्कारणं

गराशव्ट तरर) पथग-

अन्नात्प्राणो मनः सत्यं लोकाः कर्मसु चामृतम्‌ ॥१०॥

यः सर्वज्ञः सर्वविद्यो यस्य ज्ञानमयं तपः॥ ११॥

तस्मादेतत्सुरा ब्रह्य नामरूपान्नपूर्वकम्‌।

जायते सत्यवत्स्वप्नप्रपञ्चोपममेव तत्‌॥ १२ ॥

तदेतदक्षरं सत्यं तद्विज्ञाय विमुच्यते।

तपसा परिपक्वप्राणिकर्मवशादुत्पन्नेन स्रष्टव्यपर्यालोचनरूपेण ज्ञानेन चीयत उपचीयते प्रगत्यन्तनिर्विकल्पकं सत्तद्वशादीषद्विकल्पानुविद्धं भवतीत्यर्थः। तेन च ज्ञानेनोपचितात्तस्मद्ब्रह्मणः सकाशादद्यते भुज्यते संसारिभिरित्यन्नमव्याकृतं भोग्यप्रपञ्चस्य निदानं तद्व्याचिकीर्पितस्वरूपेणोत्पद्यते स्रष्टव्यपर्यालोचनावस्थमायाशबलं तद्ब्रह्य व्याचिकीर्षावस्थां प्रापदित्यर्थः। तस्माच्चन्नशब्दाभिधेयादव्याकृताक्षितिपवनसलिलसंयोगवशेनोच्छूनावस्थाद्वी जादङ्कुर इवापञ्जीकृतपञ्चभूततत्कार्यलिङ्गशरीरसमष्ट्युपाधिकः सर्वज्ञः प्राणशब्दाभिधेयो हिरण्यगर्भउत्पन्नः\। अत्र हि हिरण्यगर्भोत्पत्यभिधानेनैवापञ्जीकृतभूतानां तत्सत्वरजोंशप-रिणामरूपलिड्गशरीरस्य चोत्पत्तिरर्थादुक्तेति द्रष्टव्यम्‌। तरमा प्रणणात्पश्चीकरणविपयं मन उत्पन्नम्‌। ततश्च सत्यं सत्यशब्द।भेघेयाने वेयदादीनि पञ्चीकृतानि पञ्चभूत।न्युत्यन्नानि। सच्छब्देन हि प्रत्यश्षग्राहयपृथन्यदि मृतत्रयमुच्यते। वाय्वाकाशौ तु परोक्षवात्परोक्षवाचिना त्यच्छब्देन \। अत एव श्रयते ।“सच्च व्यच्चाभवत्‌’ इति । एवं भृतेपूत्पन्नेषु पुनरण्डादिक्रमेण भूरादयो छोकास्तेषु च मनुष्यादीनां वणाश्रमचोदितानि कमोणि तेषु च।मृतं कल्पकोटि-शतावस्थायित्वादनश्वर॑ तत्फलमित्येतान्यनेन क्रमेणेत्पन्नानीत्यथः ॥ १० ॥ उक्तेमेवार्थमुपसंहरति– यः सर्वज्ञ इति\। सामान्यतः सर्वंजानातीति सर्वज्ञः। विशेषतोऽपि सर्वं वेत्तीति सर्ववित्‌। यस्य च तपो ज्ञानमयं सर्वज्ञस्वभावत्वाज्ज्ञानात्मकंन तु कृच्छ्रचान्द्रायणादिप्रयासलक्षणम्‌। तस्माद्ब्पह्मण उक्तं कार्यरूपं हिरण्यगर्भाख्यं बह्म देवदत्तो यज्ञदत्त इत्यादिनामधेयं तदभिधेयं नीलपीतादिरूपवद्‌द्रव्यजातं व्रीहियवादिलक्षणमन्नं च सर्वं पूर्वक्तेक्रमेण जायत इत्यर्थः॥ ११ ॥ १२॥ एवं परविद्याविषयमक्षरं ब्रह्म स्वरूपतटस्थलक्षणाभ्यामुप-

कर्मणा नास्ति तत्प्राप्तिः संसारस्य विनाशनम्‌।

प्लवा ह्यते सुरा यज्ञा अदृढाश्च नसंशयः॥ १३॥

एभिरेव परं श्रेय इति जानन्ति ये जनाः।

ते मूढा अनिशं मृत्युं जरां चैवापियन्ति हि॥ १४ ॥

कर्मनिष्ठाः स्वयं धीरा मर्त्याः पण्डितमानिनः॥ १५ ॥

मूढा एव न विद्वांसस्तेषां नास्ति परा गतिः\।

अन्धेनैव यथा चान्धा नीयमानाः सुदारुणे॥ १६॥

अन्धकूपे पतन्त्येव तथा कर्मरता जनाः\।

कर्मनिष्ठा वयं सर्वे कृतार्था इति मोहिताः॥ १७ ॥

अभिमन्यन्ति ते कर्मक्षयेऽवश्यं पतन्ति हि।

विना नास्तिपरं ज्ञानं तेषां कैवल्यमुत्तमम्‌॥ १८ ॥

इष्टापूर्तं मन्यमाना वरिष्ठमिति ये जनाः।

ते मूढाः परमं श्रेयो नैव यान्ति नसंशयः॥ १९॥

अनेकजन्मसंसिद्धः श्रौतस्मार्तपरायणः।

दिश्य तद्विज्ञानमेव मोक्षसाधनमिति निगमयति– तदेतदिति। श्रुतौमन्त्रेषु कर्माणीत्यपरविद्याविषयप्रतिप्रादनस्य वैराग्यजननार्थत्वात्तत्सिद्धवत्कृता तस्य ल्पवा ह्येत इत्यादिना प्रतिपादितं मोक्षासाधनत्वमेव संगृह्णाति—कर्मणेति। अदृढा इति। दृढो हि प्लवः पारप्राप्तिक्षमः। अदृढस्तु मध्येसमुद्रं निमज्जति। अदृढाश्चेमे यज्ञादय इति न साक्षान्मोक्षहेतव इत्यर्थः॥ १३ ॥ कर्मैब परमपुरुषार्थसाधनमिति ये मन्यन्ते तान्निन्दति–एभिरेवेति। ते मूढा इति। स्वर्गादिलक्षणकार्यफलसाधनस्याकार्यव्रह्मप्राप्त्युपायत्वेनान्यथाग्रहणात्तेषां मौढ्यम्‌॥ १४७ ॥ एतदेव प्रपञ्चयति– कर्मनिष्ठाइति॥ १५–१९ ॥ एवं श्रतिप्रतिपादितामपर।विद्यात्रिषयकर्म निन्दां प्रदर्श्य“परीक्ष्य लोकान्कर्मचितान्‌”इति श्रुतिप्रतिपादितं वैराग्यविधिं संगृह्णाति अनेकेति । “परीक्ष्य लोकान्कर्म-

अनित्यामिति विज्ञाय जगद्वैराग्यमाप्नुयात्‌॥ २० ॥

ज्ञानादेव हि संसारविनाशो नैव कर्मणा।

इति ज्ञात्वा शिवज्ञानसिद्ध्यर्थं पुनरास्तिकाः॥ २१॥

श्रोत्रियंबह्मानिष्ठंच गुरुं गच्छेत्प्रियेण च\।

गुरस्तस्मैपरां विद्यां दाद्याच्च सुरपुङ्गवाः॥ २२ ॥

विस्फुलिड्गायथा चाग्नेः सुदीप्तात्प्रभवन्ति च\।

अपियन्ति तथा भावा अक्षरे शिवसंज्ञके॥ २३॥

दिव्यो ह्यमूर्तः पुरुषः सबाह्याभ्यन्तरो ह्यजः।

चितान्ब्राह्मणो निर्वेदमायात्‌ इति ह्यत्र मूलभृता श्रुतिः। परीक्ष्येत्यस्यपदस्यार्थकथनमनित्यमिति विज्ञायेति॥ २० ॥ “नास्त्यकृतः कृतेन” इति वाक्यस्याभिप्रायमाह– ज्ञानादेवेति। एवं नित्यानित्यवस्तुविवेकज्ञानेन विरक्तस्य श्रुत्युदीरितलक्षणगुरूपसदनमेव कर्तव्यमित्याह–इति ज्ञात्वेति। गुरुस्तस्मा इति। अपरवेयाविपयात्ससारफलाद्विरक्तायेत्यर्थः॥ २१ ॥ २२ ॥ एवं साधनचतुष्टयसंपन्नस्य ब्रह्मविद्योपदेष्टव्येत्युक्तम्‌। तदेततसत्यामिति तद्विषयस्य ब्रह्मण एव सत्यत्वावघारणमयुक्त जीवानामपि पृथन्विद्यमान्वादित्याशङ्क्य तदव्प.तेरेक इष्टान्तेनोपपादयति—विस्फुलिड़्गा इति । प्रभवन्ति चेति चशब्देन श्रुत्यक्तस्तत्रैबाप्पयः संगृह्यते। यथा स्फुलिङ्गा दीप्तादग्नेर्जायमानास्तत्रैव पुनर्लीयमाना न ततोऽतिरिक्ता एवं चिद्रूपा अः॥ जीवलक्षणा भावा अपि देहेन्द्रियादिलक्षणोपाधिजननवशेन चिद्रपाढ्ह्मणं। ज.यमानास्तत्रैव शिवसंज्ञेउक्षरे तदुपाधरिट्येनापरिच्छिने नमन्ति घटाकाशादिवल्लीयमाना न तताऽतिर्च्यन्त इत्यर्थः ॥ २३ ॥ ननु जीववत्तस्यापि प्राणादिमत्त्वंकि न स्यादित्याशङ्क्य सर्वोपाधिविनिमुक्त स्वरूपमाह - दिव्य इति। दिविद्योतमाने स्वप्रकाशचैतन्यलक्षणे स्वात्मनि भवो दिव्यः\। स्वमहिमप्रतिष्ठ इति यावत्‌। स च हि यस्मादमूर्तो मूर्तिरहितः। अत एव पुरुषः सर्वासु पूर्षु शरीरेषु व्याप्य वर्तमानः \। व्राह्यममाभ्यन्तरं च सकलं व्याप्यताभ्यां सह वर्तत इने सबाह्याभ्य-

अप्राणो ह्यमनाः शुभ्रो मायाया जीवतः परः॥ २४॥

एतस्माज्जायतेप्राणोमनः सर्वेन्द्रियाणिच ।

खं वायुर्ज्योतिरापश्च भूमिर्विश्वस्य धारिणी॥ २५॥

अग्निर्मूर्धा चक्षुषी चन्द्रसूर्यौ दिशः श्रोत्रे वाग्वि-

वृताश्च वेदाः । वायुःप्राणोहृदयं विश्वमस्य

पद्भ्यां भूमिःशंकरोयंहि सत्यः ॥ २६ ॥

तस्मादाग्निःसमिधो यस्य सूर्यः सोमाद्वृष्टिश्चौ

षधयः

————————————————————————————————

न्तरः। अजो जानिरहितः। एतच्च सर्वभावविकारोपलक्षणम्‌। एवंरूपोऽयमविद्यादृष्टिभिःप्राणादिमत्वेन ज्ञायते। तत्वदृष्ट्या त्वस्य प्राणमनसी न स्तः।अत्र प्राणशब्देन प्राणनादिव्यापारनिमित्तभूता क्रियाशक्तिरुच्यते। एतच्च कर्मेन्दियोपलक्षणम्‌। संकल्पाद्यात्मकं मनस्तच्च बुद्धेर्ज्ञानेन्दियाणां चोपलक्षणम्‌। हि यस्मादेवमस्य प्राणादिसंवन्धो नास्ति। अतः शुभ्रोनिर्मलः। धर्माधर्मसंस्पर्शाभावात्तन्मूलत्वात्सकलसंसारमालिन्यस्येति भावः। अतोभोग्यप्रपञ्चोप्रादानभृताया मायायारतद्भोक्तृसोपाधिकाज्जीवाच्चायमुदीरितरूपो निरुपाधिक आत्मा पर इत्यर्थः। एतेनाक्षरात्परतः पर इति श्रुतिर्व्याख्याता॥ २४॥ उक्तमप्राणादिमत्वमुपपादयितु प्राणादीनां तत उत्पत्तिमाभधरत्त– -एतस्मादति। प्राणादयस्तत्कारणाने पञ्च मतानि चेदीरितरूपाद्रह्मण उत्पद्यन्त । उत्पतेः प्रागतर्यमानस्तः कमं कारणमृतं ब्रह्म, प्रणादिमत्स्या्रम्यथः ।२५ ॥ हिरण्यगभवद्रह्माण्डान्तवातनरतदाभिमाननो विराजोडपे पराशवादुत्पात्ति तदनन्यत्र च प्रतिपादयति- -अग्निर्मूर्धेति। “असौ कव लोकोगौतमाग्निः”इति श्रुतेरत्राग्निशब्दो द्युलोकवचनः। वाग्विवृता उद्घाटिता वेदा अस्य बागित्यर्थः। हृदयं विश्वमस्येति । विश्वं सत्र जगदस्य विराजो हृदयमन्तःकरणम्‌ । पद्भयां भूमिरिति । उत्पन्नेति शेपः।शंकरोऽयमिति ।अयमुदारितरूपो विराडप्युपाध्यपगमे सति सत्यस्वभावःपराशिव एवं नान्यइत्यर्थः॥ २६॥ उक्तमेव सृष्टिं विणेति - तस्मादिति॥ तरमरेवतपररमत्पुरुपादग्निजीयते।

प्रथिव्याम्‌ । पुमान्‌ रेतः सिञ्चति

योषितायां बह्वीः प्रजा बहुधा संप्रसूताः ॥ २७ ॥

तस्मादृचःसाम यजूंषि दीक्षा यज्ञाश्च सर्वे

क्रतवो दक्षिणाश्च। संवत्सरो यजमानश्च

लोकः सोमो यत्र पवते यत्र सूर्यः ॥ २८ ॥

तस्माद्देवा बहुधा संप्रसूताः साध्या मर्त्याः

पशवः पक्षिणश्च । प्राणापानौ ब्रीहियवौ

तपश्च श्रद्धा सत्यं ब्रह्मचर्यं विधिश्च॥ २९ ॥

____________________________________________________

ते विशिनष्टि—समिध इति। यस्याग्नेःसूर्यःसमिधः समिन्धनहेतुः। सूर्येणसमिध्यमानो द्युलोकोऽत्राग्निशब्दाभिधेय इत्यर्थः। छन्दोगोपनिपदि “असौवाव लोको गौतमाग्निस्तस्याऽऽदित्य एव समित्‌’’ इत्यादिना पञ्चाग्निविद्यायां द्युपर्जन्यप्रथिवीपुरुषयोषिद्रूपाःपञ्चाग्नयउपदिष्टाः।द्युलोकाग्नेरुत्पन्नात्सोमापर्जन्यो जायते। तस्माच्च पृथिव्यामोषधयो व्रीहियवाद्याःसंभवन्ति। तासु च पुरुषाग्नोहुतासु स पुरुपस्तदन्नरसरेतरूयेण परेणतं योपितायां योपिद्रूपेऽग्नौसिञ्चति। अनेन क्रमेणोत्पाद्यमाना अपि सर्वाः प्रजास्तस्मादेव ब्रह्मण उत्पद्यन्त इत्यर्थः॥ २७ ॥ तस्मादृच इत्यादि। ऋक्सामादीनि कर्मसाधनानि कर्माणि तत्फलं च सर्बमपि तस्मदेवोत्पन्नमित्यर्थः। यूपरहिता अग्निहोत्रादयोयज्ञाः।तद्वन्तो ज्योतिष्टोमादयःक्रतवः। संवत्सरः कर्माङ्गभूतः कालः। यजमानस्तत्कर्ता। लोकस्तत्फलभूतः। स विशेष्यते— सोमो यत्रेति। अविदुषा विदुषा च यथाक्रमं प्राप्यौसोमसूर्यलोकावित्यर्थः॥ २८ ॥ एवं कर्माङ्गभूता देवाद्या अपि तत एवोत्पन्ना इत्याह–तस्माद्देवा इति। बहुधा वसुरुद्रादिगणभेदेन बहुप्रकारा इत्यर्थः। साध्या देवविरोषाः। मर्त्यादीनां संबन्धिनौ प्राणापानौ। हविरर्थे व्रीहियवौ। पुरुषसंस्कारलक्षणं कर्माङ्गं तपः स्वतन्त्रं च फलसाधनम्‌। सत्यब्रह्मचर्ये प्रसिद्धे। विधिरित्थं कर्तव्यमिति विधानम्‌॥ २९॥ तस्मत्प्राणा इत्यादि। सप्त शीर्षण्याश्रक्षुःश्रोत्रादयः प्राणाः। तथा तेषां

तस्मात्प्राणा अर्चिषः सप्त होमाः सुरश्रेष्ठाः

समिधः सप्त चैव । लोकाः सर्वे चोद्भवन्त्याशु

पूर्वंयथा तद्वत्स्वप्नतुल्यं तथापि॥ ३० ॥

अतः समुद्रा गिरयश्च नद्यस्तथा सर्वाओष-

धयोरसाश्च ।सर्बस्यात्मा सर्वसाक्षीपरात्मा

नित्यानन्दोऽयं पुराणः सुपूर्णः ॥ ३१ ॥

इदं सकलमास्तिकाः पुरुष एव नैवापरं

न किचिदपरं ततः सकलमस्ति सत्यं हि तत्‌ ।

इदं हि मम वेदनं मुनिगणरय शंभोर्हरे-

र्नकश्चिदपि संशयःश्रुतिमतरययुक्तः खलु॥ ३२॥

अहो विषयमायया मरणपूर्वदुःखोदधौ

पतन्ति मनुजा अमी परशिवस्थ विद्यां विना ।

तरन्ति जननार्णवं परशिवस्य विद्याबलत्‌

इदं तुशिववेदनं शिवपदस्य सेवाबलात्‌ ॥ ३३ ॥

_________________________________________________________________

सप्तार्चिपोविषयप्रकाशनशक्तयःसप्तहोमास्तज्जन्यानि विषयज्ञानानि। समिध इन्द्रियसमिन्धनहेतबो विषयाः। लोकास्तेषां सप्तानामिन्द्रियाणां संचरणार्थानि गोलकानि॥३०॥ अतः समुद्रा इत्यादि निगदसिद्धम्‌। सर्वस्याऽऽत्मेति। उक्तरीत्या साक्षिभूतः परमात्मा सर्वस्यानात्मप्रपञ्चस्य आत्मा स्वरूपमतस्तत्कृतपरिच्छेदानुपपत्तेरयं परिपूर्णो नित्यश्चेत्यर्थः॥ ३१ ॥ एवं संग्रहविस्तराभ्यां सृष्टिप्रतिपादनेनाक्षरस्वरूपं प्रतिपाद्य “पुरुष एवेदं विश्वम्‌” इति श्रुत्या सृष्टस्य जगतस्तदनन्यत्वमवधारितं तत्संगृह्णाति–इदमिति। न किंचिदपरमिति। उक्तरीत्या ब्रह्मादिस्तम्बान्तस्य सर्वस्य तत्कार्यत्वात्तस्मात्परं नास्ति। अपरमिति प्रतीयमानं कार्यजातं तत्स्वरूपे अध्यस्तत्वेन शुक्तिरूप्यवन्मिथ्यात्वाद्वस्तुतो नैव विद्यत इत्यभिप्रायः॥ ३२ ॥ ३३ ॥ गुहायां निहितमित्यादि।

गुहायां निहितं साक्षादक्षरं वेद चेन्नरः ।

छित्त्वाऽविद्यामहाग्रन्थिं शिवं गच्छेत्सनातनम्‌ ॥ ३४॥

तदेतदक्षरं ब्रह्म स प्राणस्तदुवाङ्मनः।

तदेतदमृतं सत्यंतद्वेद्धव्यं मनीषिभिः ॥ ३५ ॥

धनुस्तारं शरो ह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते ।

अप्रमत्तेन वेद्धव्यं शरवत्तन्मयो भवेत्‌ ॥ ३६ ॥

लक्ष्यं सर्वगतं चैव शरोऽयं सर्बतोमुखः ।

वेद्धा सर्वगतश्चैव विद्धं लक्ष्यं न संशयः ॥ ३७ ॥

_______________________________________________________________

तदुदीरितस्वरूपमक्षरं ब्रह्म गुहाशब्दवाच्ये हृन्मध्येऽवस्थितंयः स्वात्मतया साक्षात्करोति स तद्विद्यया स्वसंसारे हेतुभूतमविद्याग्रन्थिंछित्वा सर्वदा बाधरहितं चिदेकरसं पराशिवस्वरूपं प्राप्नोतीत्यर्थः॥ ३४ ॥ तदेतदक्षरमिति।तत्ताटस्थ्येन प्रागुक्तमेतदिदानीं गुहायां निहितत्वेन स्वात्मतयोक्तमनश्वरं यच्चैतन्यरूपंब्रह्म तदात्मको हि सर्वः प्राणेन्द्रियादिसंघातः “प्राणस्य प्राणम्‌”इत्यादिश्रुतेः। अतस्तदेवामृतं नशरहितमत एव सत्यं तच्च मनीषिभिर्विद्विद्भिर्वेद्धव्यं मनसाधारयितव्यम्‌। तद्विषयं मनः कर्तव्यमित्यर्थः॥३५ ॥ वेधनप्रकारमाह—धनुस्तारमिति। यथा लौकिकं धनुर्लक्ष्ये शरस्य प्रवेशकारणं तथाऽत्मशरस्य लक्ष्ये ब्रह्मणि प्रवेशकारणमित्योंकारोधनुः। सर्वप्रत्ययसाक्षी सोपाधिक आत्मा शरः।स खलूपाधिपरित्यागेन शरवल्लक्ष्ये ब्रह्मणि स्वात्मनैव समर्प्यते। तच्च ब्रह्म लक्ष्मम्‌।एतैश्च धनुरादिभिः साधनैरप्रमत्तेन विषयतृष्णादिप्रमादरहितेनैकाग्रचित्तेन पुंसा वेद्धव्यम्‌। ततः स वेधनादूर्ध्वं शरवद्यथा शरो लक्षेणैकीभवति तथा देहादिसाक्षी तत्साक्ष्याभिमानपरित्यागेन लक्ष्यभूतेन तेन ब्रह्मणैकीभूतस्तद्रूपो भवतीत्यर्थः॥३६ ॥ लौकिकवेधवैलक्षण्यमाह— लक्ष्यमिति। लौकिकवेधस्य हि लक्ष्यं परिच्छिन्नम्‌। बाणोऽप्येकमुखः। वेद्धा च क्वचिदेवावस्थितः। अतस्तस्य लक्ष्यप्राप्तिविरहः पाक्षिकः संभवति। अत्र तु तद्वैलक्षण्यादुक्तलक्ष्यं विद्धमेव भवती-

आत्मानमरणिं कृत्वाप्रणवं चोत्तरारणिम्‌ ।

ध्याननिर्मथनाभ्यासाद्देवं पश्येन्निगूढवत्‌ ॥ ३८ ॥

द्यौरन्तरिक्षं भूमिश्च मनः प्राणः सुरोत्तमाः ।

यस्मिन्नोतं तमेवैकं विद्यात्प्राज्ञः समाहितः ॥ ३९ ॥

ब्रह्मैकविषयांवाचं बदेत्सततमास्तिकाः ।

अन्या वाचस्त्यजेदेष सेतुरेवामृतस्य च ॥ ४० ॥

यः सर्वज्ञः सर्वविद्योयस्यैष महिमा भुवि ।

दिव्येब्रह्मपुरे व्योम्नि शिवः साक्षात्प्रतिष्ठितः ॥ ४१ ॥

मनोमयः प्राणशरीरनेता प्रतिष्ठितः सर्व-

_________________________________________________

त्यर्थः॥ ३७ ॥ प्रणवेनाऽऽत्मनो ब्रह्मरूपत्वज्ञानं श्रुत्यन्तरं प्रतिपादितमिति संवादत्वेन दर्शयति –आत्मानमिति। एतञ्च ब्रह्मोपनिषद्याम्नातम्‌। यथा अधरोत्तरारणिभ्यां निर्मथनेन निगूढं दारूमध्ये निलीनमग्निं पश्यति, एवं प्रणवेन जाग्रदाद्यवस्थोपलक्षितं चिन्मात्रमात्मानं ब्रह्मरूपत्वेनानुसंदधानस्तदभ्यासवशेन तद्रूपत्वं साक्षात्करोतीत्यर्थः॥३८॥ उक्तलक्षणमतिसूक्ष्मत्वाद्दुर्लभमित्यभिप्रेत्य पुनरप्युपदिशति— द्यौरन्तरिक्षमिति। इदमुपलभ्यमानं लोकत्रयं मनस्तद्व्यतिरिक्तानीन्द्रियाणि च तत्सर्वं यस्मिन्नक्षरे ब्रह्मण्योतंसमर्पितंसमाहितमनस्केन विदुपा तदेवैकं ज्ञातव्यम्‌॥ ३९ ॥ तथाच तदेकविपायामेत्वचं वदेत्‌। अन्यारत्वनात्मविषया वाच उत्सुजेत्‌ । तत्र कारणमाह- एषइति । एषखल्वात्मा ससाराब्धरुत्तरणेनामृतत्वप्राप्तेः सेतुः। अतस्तदेकविषर्यैव वागुच्चरितव्येत्यर्थः॥४० ॥ स चोक्तविध आत्मा कुत्रोपलव्धव्य इति तत्राऽऽह– यः सर्वज्ञइति । सर्वज्ञ सर्वविदित्यतावुक्तार्थौ। यस्यैष पूर्वोक्तमहिमा विभूतिर्भुविलोके दृश्यते स शिवोदिव्ये सर्वज्ञानानामुत्पत्तिस्थानतया प्रकाशमाने ब्रह्मणः पुरे हृत्पुण्डरीके तत्रस्थेव्यम्निप्रतिष्ठितः। उपलब्ध्यभिप्रायमेतत्‌। आकाशवत्सर्वगतस्य क्वचिदवस्थानानुपपत्तेः॥ ४१ ॥ तस्य स्वरूपं विशिनष्टि– मनोमय इति। यः सर्वप्राणिहृदयमध्येऽवस्थि-

हृदम्बुजान्तः । ताद्विज्ञनेन परिमुच्यान्ति

धीरा यद्भाति चानन्दवपुः स्वभावात्‌ ॥ ४२ ॥

भिद्यते हृदयग्रन्थिच्छिद्यन्ते सर्वसंशयाः \।

क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे ॥ ४३ ॥

हिरण्मये परे कोशेविरजं व्रह्म निष्कलम्‌ \।

तच्छुभ्रंज्योतिषां ज्योतिस्तद्यदात्मविदोविदुः॥ ४४॥

न तत्रसूर्यश्चन्द्रश्चतारका विद्‌युतोऽनलः।

_______________________________________________________

तश्चिद्रूपःशिवः समनोवृत्तिरेव तत्रोपलभ्यत इति मनोमयः।प्राणशरीरनेता। प्राणरूपं यत्सूक्ष्मं शररं तस्य स्थूलशरीरान्तरं प्रति प्रापयितेत्यर्थः। ईदृग्भूतं यदक्षरं ब्रह्म स्वभावात्कारणान्तस्मरमनपेक्ष्य दुःखासंस्पृष्टं नित्यनिरतिशयानन्दस्वरूपं स्वभासैव भाति तज्ञानं विवेकिनां मुक्तसाधनमियथः ॥ ४२ ॥ अस्य ब्रह्मात्मज्ञानस्य फलमाह—भिद्यत इति । परं कारणम्‌ । अवरं कार्यम्‌।तदुभयरूपणावस्थिते तस्मिन्नद्वेतीये ब्रह्मणि याथात्म्येन दष्टे साक्षाकृते सति हृदये मनसिग्रन्थिरूपेणावस्थितोऽविद्यावासनाप्रचयों भिद्यते विनश्यति । विद्याया अविद्यानिवर्तकत्वात्‌ । अत णव कारणाभावात्सर्वज्ञेयविषयाःसंशयाश्छियन्ते ।अस्य च निवृत्ताविद्यस्थ छिन्नसंशयस्यविदुप इह जन्मनि जन्मान्तरे वा संचितानि भाविजन्मापादकान्यप्रवृत्तफलानि पुण्यपापरूपाणि कर्मणि क्षीयन्ते । तथा च वैयासिकं सूत्रम्—“तदधिगम उत्तरपूर्वधयोरश्लेषविनाशौतद्व्यपदेशात्‌” इति ॥ ४३ ॥ हिरण्मय इत्यादि । हिरण्मये ज्योतिमये विज्ञानप्रकाशसहितेऽसिकोशवद्ब्रह्मण उपलब्धिहेतुत्वेन कोशभूते सर्वान्तरत्वात्परे। एवंविधहार्दाकाशेऽवस्थितम्‌। विरजमविद्यादिरजोमलवर्जितम्‌ । निष्कलंनिर्गताःकलाअवयवा यस्मात्तथाविध ब्रह्म देशतो वस्तुतश्चापरिच्छन्नं यत्परशिवस्वरूपं तदुक्तविशेषणत्वाच्छुभ्रंशुद्धंज्योतिषां सर्वप्रकाशात्मनामग्न्यादीनां ज्योतिरवभासकम्‌। न हि चैतन्यप्रकाशव्यतिरेकेणाग्न्यादयः प्रकाशन्ते। आत्मविदो यत्तत्वं विवेकतो जानन्ति तदुक्तविधमित्यर्थः॥ ४४ ॥ कथमेतज्ज्यो-

र्विभार्न्ति शंकरे साक्षात्स्वयंभाने चिदात्मके॥ ४५ ॥

तमेव सकलंभान्तमनुभाति स्वभावतः।

तस्य भासा सर्वमिदं विभाति तत एव हि॥ ४६॥

न तत्र चन्द्रार्कवपुःप्रकाशते न भ्रान्ति वाताः।

सकलाश्च देवताः।

स एष देवः कृतभूतभावनः

स्वयं विशुद्धोविरजः प्रकाशते॥ ४७॥

ब्रह्मैवेदममृतं तत्पुरस्ताद्ब्रह्मानन्तं परमं चैव पश्चात्।

ब्रह्मानन्तं परमं दक्षिणे च ब्रह्मानन्तं परमं चोत्तरे च। ४८॥

द्वौसुपर्णौशरीरेऽस्मिञ्जीवेशाख्यौसह स्थितौ।

तेयोर्जीवः फलंभुङ्क्ते कर्मणो न महेश्वरः॥ ४९॥

केवलं साक्षिरूपेण विना भोगं महेश्वरः।

__________________________________________________________

र्तिषां ज्योतिरिति तत्प्रतिपादयति–न तत्रेति॥ ४५ ॥ सूर्यादीनां तत्राविभासने कारणमाह– तमेवेति।चैतन्यस्य स्फुरणपुरःसरं हि चेत्यस्य स्फुरणम्‌। अतः पश्वाद्भासमानं तत्प्रथमभाविनश्चैतन्यस्य न प्रकाशकामत्यर्थः\। न चानुभानमपितस्य स्वाभाविकमित्याह– तस्य भासेति। तस्य परशिवस्वरूपचित्प्रकाशेनैव सर्वमिदं तत्राध्यस्तं विविधं भाति न त्वात्मीयेनेत्यर्थः ॥ ४६ ॥ एवं न तत्र सूर्यो भाति” इति श्रुतिंसंगृह्य तस्यास्तात्पर्यगम्यमर्थमाविष्करोति— न तत्र चन्द्रार्केति॥ ४७ ॥ एवं स्वप्रकाशचिद्रूपस्य ब्रह्मणः सर्वजगत्कारणत्वेन यत्साव्रत्यनुपपादितं तदुपसंहरति—बूह्मैवेदमिति॥४८॥ ननु जीवेश्वरौसंसारित्वादिधर्मभेदाच्छायातपवद्विलक्षणस्वभावौ। कथमनयोरेक्यमित्याशङ्क्ये निरस्यति- दौ सुपर्णाविति। सुपर्णौशोभनपत(नौ)त्रौ। जवः फलमिति।उपाधितादात्म्यापन्रत्वाज्जीवस्तत्कृतपुण्यपापफलंसुखदुःखात्मकं भुडक्ते।ईश्वरस्तूपाधिसंस्पर्शविरहेण कर्तृत्वाभावात्तत्फलं न भुड्क्ते। अतो भोगं विहाय केवलं साक्षिचिद्रूपेण साक्षाद्विविक्त एव स्वयं प्रकाशते। एवं च तयोर्भोक्तृत्वा-

प्रकाशते स्वयं भेदः कल्पितो मायया तयोः॥ ५० ॥

यथाकाशो घटाकाशमहाकाशप्रभेदतः।

कल्पितः परचिज्जीवः शिवरूपेण कल्पितः॥ ५१ ॥

तत्त्वतश्चिच्छिवः साक्षाच्चिज्जीवश्च ततः सदा।

चिच्चिदाकारतोऽभिन्ना न भिन्ना चित्त्वहानितः॥ ५२॥

चितश्चिन्न चिदाकाराद्भिद्यते जडरूपतः।

भिद्यते चेज्जडे भेदश्चिदेका सर्वदा खलु॥ ५३ ॥

तर्कतश्च प्रमाणाच्च चिदेकत्वे व्यवस्थिते।

अपि पापवतां पुंसां विपरीता मतिर्भवेत्॥ ५४ ॥

श्रौतस्मार्तसमाचारैर्विशुद्धस्यमहात्मनः।

प्रसादादेव रुद्रस्य चिदेकत्वे मतिर्भवेत्‌॥ ५५ ॥

___________________________________________________________

भोक्तृत्वलक्षणधर्मभेदात्प्रतिभासमानो यो भेदः स मायया परिकाल्पितो न वास्तवः॥ ४९ ॥ ५०॥ प्रतिज्ञातमर्थं दृष्टान्तेनोपपादयति— यथेति। यथैकमेवाऽऽकाशस्वरूपमुपाधिभेदाद्धटाकाशमहाकाशप्रभेदेन कल्प्यत एवमेव चिद्रूपं ब्रह्मोपाधिगतमालिन्यविशुद्धिभ्यां जीवेश्वरभेदेन परिकल्प्यते॥ ५१ ॥ परमार्थतस्तूपाधिकृतभेदपरित्याग उभयोरपि तयोरनादिनिधना संविदेव स्वरूपमित्यर्थः। नन्वीश्वरस्य चित्सर्वविषया जीवस्य तु परेमितविषयेति कथमनयोरेकत्वमित्यत आह—चिच्चिदाकारत इति। चितो यत्पारिमितसर्वविषयत्व॑ तदुपाधिगतमालिन्यविशुद्धिकृतं न तु स्वरूपकृतम्‌। अतश्चिदाकारेण जीवेश्वरयोरुभयत्रावस्थिता चिदेकैव न भिन्ना। किंच सा भिद्यत इति वदन्वादी प्रष्टव्यः। किं सा चिदाकारेण भिद्यत उत जडरूपेणेति विकल्प्याऽऽद्यं प्रत्याह— चित्वहानित इति। विमता चिन्न भवति चिदाकाराद्भिन्नत्वात्कुड्यवदित्येवं चित्वहानिप्रसङ्गादित्यर्थः॥ ५२ ॥ द्वितीये तु जडस्यैव स भेदो न चित इत्याह— जडरूपत इति॥७३ ॥ तर्कतश्चप्रमणश्चेति उदीरितरूपा-

चिदेकत्वपरिज्ञानान्न शोचति न मुह्यति।

अद्वैतं परमानन्दं शिवं याति तु केवलं॥ ५६ ॥

शिवस्थाने शरीरोस्मिन्स्थितेऽपि स्वात्ममायया।

दुःखादिसागरे मग्नो मुह्यमानश्च शोचति॥ ५७ ॥

स्वस्मादन्यतया भातमीशं स्वेनैव सेवितम्‌।

अधिष्ठानं समस्तस्य जगतः सत्यचिद्धनम्‌॥ ५८ ॥

अहमस्मीति निश्चित्य वीतशोको भवत्ययम्‌।

अस्य चिन्मात्ररूपस्य स्वस्य सर्वस्य साक्षिणः॥ ५९॥

महिमानं यदा वेद परमाद्वैतलक्षणम्‌।

तदैव विद्यया साक्षाद्वितशोको भवत्ययम्‌॥ ६० ॥

ब्रह्मयोनिं सदा पूर्णं रुक्मवर्णं महेश्वरम्‌।

____________________________________________________________

त्तर्कात्‌ “चिद्धीदं सर्वं काशते कशते च”इत्येवमाद्यागमप्रमाणाच्चिदेकत्वमित्यर्थः॥ ५४ ॥ ५५५॥ चिदेकत्वपरिज्ञानादिति। एकस्मिन्‌ शरीरे विद्यमानयोभोक्त्रभोक्‍त्रोर्जीवेश्वरयोरुपाधिकृतभेदपरित्यागेन यच्चिन्मात्ररूपेणैक्यं तज्ज्ञानमेव शोकमेहादिसंसारभयनिवर्तनेन परमानन्दावाप्तिलक्षणाया मुक्तेः कारणमित्यर्थः॥ ५६ ॥ एवं“द्वासुपर्णा” इति मन्त्रस्य तात्पर्यब्याख्यानेन भेदपरत्वं व्युदस्योक्तार्थस्य साक्षात्प्रतिपादकम्‌ “समाने वृक्षे”इति मन्त्र व्याचष्टे—शिवस्थान इति। स्वात्ममाययेति। स्वात्मनो जीवस्योपाधिभूता या माया मलिनसत्वप्रधाना तया वशीकृत इत्यर्थः॥ ५७ ॥ स्वस्मादन्यतयेति। स्वस्मात्संसारिणोऽन्यतया बैलक्षण्येन भासमानं सकरसांसारिकदुःखव्रातहीनं स्वात्मनैव श्रवणमननादिभिरुपायैःसेवितं पररिवस्वरूपमेव जाननस्योदीरितं परमाद्वैतलक्षणं महिमानं यदा साक्षात्करोति। स्वस्य स्वस्येति समानाधिकरणे पष्ठयौ। स्वशब्देन कारणं ब्रह्म परामृद्यते । स्वात्मकस्य स्वाविवतेस्थ सवस्य साक्ष्यस्येत्यर्थः।तदैव स्वात्मनो ब्रह्मरूपत्वगोचरया विद्यया संसारबन्धविनिर्मुक्तो भवतीत्यर्थः ॥ ५८– ६० ॥ ननु भाविजन्मापादकयोः पुण्यपापयो-

विद्या तद्विनाशेन स्वसाम्यं याति नान्यथा।

अतः साम्यं तयोः साक्षादैक्यमेव न चेतरत्‌॥ ७३ ॥

एवं जीवः स्वकं रूपं शिवं पश्यति चेद्दृढम्‌।

स्वात्मन्येव रतिं क्रीडामन्यच्च कुरुते सदा॥७४ ॥

बहिश्चेष्टा च मय्येव शिवे सत्यसुखात्मके।

इति जानाति सर्वं तु स्वात्मनैव हि भासते॥ ७५॥

स्वत्मनैव शिवं (स्वयं) सर्वं यदा पश्यति निर्भयः।

तदा मुक्तो न मुक्तश्च बद्धस्य हि विमुक्तता॥ ७६॥

एवंरूपा परा विद्या सत्येन तपसापि च।

_______________________________________________________

नन्दैकरसत्वं परशिवस्यैव। “सत्यंज्ञानमनन्तम्‌”इति श्रुत्या तादृग्रूपत्वं प्रतिपादितमिति तयोर्लक्षणैकत्वम्‌। तस्मात्समानलक्षणयोगित्वात्तयोरेकत्वं सर्बदा सिद्धमित्यर्थः। अविद्यया भिन्नवदिति। अविद्या हि स्वतो मिथ्याभूता परशिवस्वरूपस्य न पारमार्थिकं भेदमावहतीति श्रुतेर्थः॥ ७१ ॥ ७२ ॥ विद्यया चाविद्यानिवृत्तौ स्वतः सिद्धमैक्यमेव जीवेश्वरयोरवशिष्यते तदेव साम्यशब्देन विवक्षितमिति निगमयति—अत इति॥ ७३ ॥ प्राणो ह्येष इति वाक्यस्यार्थं तात्पर्यतः संगृह्णाति–एवमिति। उक्तरीत्या यदि जीवस्याऽऽत्मनो निष्प्रपश्चशिवरूपतां निर्विचिकित्सं साक्षात्करोति तदा वस्त्वन्तराभावात्स्वात्मविषयमेव क्रीडादिकं तस्य विदुषो भवतीत्यर्थः। अन्यच्चेति । ध्यानपूजादिकमित्यर्थः॥ ७४ ॥ क्रियावानिति श्रुतिपदं व्याचष्टे—बहिरिति। हस्तपादादिचलनरूपा या ब्रह्यक्रिया साऽपि मत्तोनातिरिक्तेति जानतो न किंचित्कर्तव्यमवशिष्यत इत्यर्थः॥ ७५ ॥ तदा मुक्तो न मुक्तश्चेति । बन्धस्याविद्यामयत्वान्मोक्षोऽपि तादश इति परमार्थदृष्टौ मुक्तत्वमापे तस्य नास्तीत्यथंः।अत एवोक्तमाचर्यैः—“न निरोधो न चोत्पात्तिर्न बद्धो न च साधकः।न मुमुक्षुर्न वैमुक्त इत्येषा परमार्थता”इति॥ ७६ ॥ अथ परिविद्योत्पत्तौसहकारिसाधनप्रतिपादकम् “सत्येन लभ्यस्तपसा”इति मन्त्रं संगृह्णाति—एवं-

ब्रह्मचर्यादिभिर्धर्मैर्लभ्या वेदोक्तवर्त्मना॥ ७७॥

शरीरेन्तः स्वयंज्योतिःस्वरूपं स्वकमैश्वरम्‌\।

क्षीणदोषाः प्रपश्यन्ति नेतरे माययाऽऽवृताः॥ ७८ ॥

एवंरूपपरिज्ञानं यस्यास्ति परयोगिनः।

कुत्राचिद्गमनं नास्ति तस्य संपूर्णरूपिणः॥ ७९॥

आकाशमेकं संपूर्णं कुत्रचिन्नैव गच्छति।

तद्वत्स्वात्मविभुत्वज्ञः कुत्रचिन्नैव गच्छति॥ ८० ॥

न चक्षुषा गृह्यते नापि वाचा नान्यैर्देवेस्तपसा

______________________________________________________________________________

रूपेति।सत्यं मृषावादपरित्यागः। तपश्चित्तैकाग्र्यंतध्द्यत्मदर्शनानुकूलं नतु कृच्छ्रचान्द्रायणादि।अत एव स्मयते— “मनसश्चेन्द्रियाणां च ऐकाग्र्यं तपउच्यते”इति। ब्रह्मचयोदिभिरित्यादिशब्देनाहिंसास्तेयादियोगाङ्गस्प संग्रहः। वेदोक्तवर्त्मनेति। “श्रोतव्यो मन्तव्यो निदिध्यासितव्यः” इत्यनेन प्रकारणेत्यर्थः॥ ७७ ॥ शरीरेऽन्तरिति। शरीरमध्यस्थे हृत्पुण्डरीक इति यावत्‌। क्षीणदोषा इति। कामक्रोधादयश्चित्तमालिन्यापादका दोषस्ते क्षणाः प्रशान्ता येषां ते तथोक्ताः। “सत्यमेव जयति नानृतम्‌” इतिवाक्यस्यार्थमाह—नेतर इति। मायया ह्यावृतरूपा अतस्तया वशीकृताःस्वस्वरूपयाथत्म्य न द्रंष्टुंप्रभवन्तीत्यर्थः॥७८॥ “वृहच्च तद्दिव्यम्‌”इति मन्त्रं तात्पर्यतःसंगृह्णाति– एवंरूपमिति। स्वात्मनोऽपरिच्छिन्नपराेशिवस्वरूपत्वं विदुपोगमनादिकं न संभवति । तस्य परिच्छिन्नधर्मत्वात्‌॥ ७९ ॥ तदेव दृष्टान्तेनोपपादयति— आकाशमिति ॥ ८० ॥ यदेतत्स्वात्मनः परिपूर्णशिवस्वरूपत्वं तदुपलब्धौसहकाश्साधनं सत्यादिकमुपदेष्टम्‌ । अधुना त्वसाधारणं कारणमुपदिशति— न चक्षुषेति । रूपादिराहित्याच्चक्षुराद्यविषत्वम्। नान्यैर्देवैरेति। चक्षुर्वागतिरिक्तैर्ज्ञानिद्रियैःकर्मेन्द्रियैश्चेेत्यर्थः। तपसा कृच्छ्रचान्द्रायणादिना । कर्मणाऽग्निहोत्रादिरूपेण । ननु चक्षुरादिभिर्न गृह्यते चेत्कथं ताह तदुपलब्धिस्तत्राह—ज्ञानप्रसदेनेति । विशुद्धसत्वो विशुद्धान्तःकरणः पुरुषोज्ञान-

कर्मणा वा। ज्ञानप्रसादेन विशुद्धसत्त्वः

स निष्कलंपश्यति रूपमैशम्‌॥ ८१॥

ध्यानेन परमेशस्य साम्बमूर्तिधरस्य च।

स्वनिष्कलपरिज्ञानं जायते नान्यहेतुना॥ ८२ ॥

एष आत्मा सुसूक्ष्मोऽपि वेदितव्योऽग्र्यया धिया।

पञ्चधा संनिविष्टोऽसुर्यस्मिन्सर्वाश्रये सुराः॥ ८३ ॥

संविभाति स्वचित्तेन यं यं लोकं विशुद्धधीः।

सदा कामयते यांश्च तज्जयत्यखिलं ततः॥ ८४ ॥

तस्मादात्मविदं साक्षादीश्वरं भवतारकम्‌।

अर्चयेद्भूतिकामरतु स्वशरीरेण चार्थतः॥ ८५ ॥

नायमात्मा प्रवचनेन लभ्यो न मेधया न बहूना

__________________________________________________________

प्रसादेन विषयेन्दियसंसर्गजनितरागादिमलकृतकालुष्यविरहे सति ज्ञानस्य यः प्रसाद आदर्शवत्स्वच्छता तेन स्वकीयं सर्वोपाधिविनिर्मुक्तं पारमेश्वरं रूपं साक्षात्करोति॥ ८१ ॥ विशुद्धसत्वस्य सगुणध्यानमपि निष्कलज्ञानोत्पत्तौकारणमित्याह— ध्यानेनेति॥ ८२ ॥ “एषोऽणुरात्मा इति वाक्यं संगृह्णाति—एष आत्मेति। सर्वजगत्कल्पनास्पदे यस्मिन्दहरमध्यावस्थिते परमात्मन्यसुः प्राणः प्राणापानादिपञ्चवृत्तिभेदेन प्रविष्टवान्‌। एष आत्माऽवच्छेदकोपाधिवशात्सूक्ष्मोऽपि ज्ञानप्रसादेन हेतुभूतेनैकाग्रेण मनसा पूर्वप्रकरेणापरिश्छिन्न" परशिवस्वरूपत्वेन ज्ञातव्य इत्यर्थः॥ ८२ ॥ एवमुक्तरक्षणं सर्वात्मानमात्मत्वेन प्रतिपनस्य सर्वावाप्तिलक्षण फलमाह—संविभातीति। एवं विशुद्धधीर्विद्वान्स यदि पितृलोककामो भवतीत्यादिना श्रुत्यन्तरे प्रतिपादितं यं यं लोकं मनसा भावयति यांश्च तत्रत्यान्कामयते तस्य सर्वस्य स्वात्मनोऽनन्यत्वेन तत्सर्वमेव हेलयैव प्राप्नोतीत्यर्थः॥ ८४ ॥ यस्मादवं सर्वे कामा विदुषः स्वरूपभूतास्तस्मात्तत्परिचर्यानिरतस्याभिलषितफलावाप्तिः सिध्यतीत्यर्थः॥ ८५ ॥ उदीरितिमात्मतत्त्वमु-

श्रतेन। यमेवैष वृणुते तेन लभ्यस्तस्यैष

आत्मा विवृणुते तनुं स्वाम्‌॥ ८६ ॥

नायमात्मा वलहीनेन लभ्यः प्रमादत-

स्तपसो नान्यलिङ्गात्। एतैर्यत्नं यः करोत्येव

धीमांस्तस्यात्मायं विशते बह्म धामः॥ ८७॥

संप्राप्यैनमृषयो ज्ञानतृप्ताः कृतात्मानो वीत-

शोकाःप्रशान्ताः।ते सर्वगं सर्वशः प्राप्य

___________________________________________________________

क्तोपायव्यतिरिक्तेनान्येन न ज्ञातुं शक्यत इति दर्शयति—नायमिति। प्रवचनेन वेदशास्त्राणां पठनेन। मेधया ग्रन्थार्थधारणशक्त्या। बहुना श्रुतेन बहुकृत्वः श्रवणेन। एतैरुपायैर्नलभ्यो लब्धुं शक्यः ।केन तर्हिलभ्य इति। उच्यते। एष विद्वान्यमेवोक्तविधं परमात्मानं वृणुते प्राप्तुमिच्छति तेन कारणेन स परमात्मा लभ्यो नान्येन साधनान्तरेण। तस्य श्रवणमननादिभिस्तत्प्राप्ति प्रार्थयमानस्य विदुष एषअत्माऽविद्यांसंछन्नां स्वकीयां तनुं विवृणुते प्रकाशयति। श्रवणादिसाधनजनितया विद्यया तदविद्यानिक्त्तौ तत्स्वरूपमाविर्भवतीत्यर्थः॥ ८६ ॥ आत्मप्रार्थनासहायभूतानि बलादीनि च संपादनीयानीत्याह— नायमिति। आत्मनिष्ठाजनितं वीर्यं बलं तद्रहितेन पुंसा नासौ लब्धव्यः। तथा पुत्रपश्वादिविषयासङ्गनिमित्तात्प्रामादादनवधानात्‌। अन्यलिङ्गादुत्तमाश्रमलिङ्गरहितात्तपसः । तपोऽत्र ज्ञानम्‌ ।तथाविधाज्ज्ञानादपि नासौ ज्ञातुं शक्यते । अतो बलाप्रमादतपांसे विशिष्टश्रमयुक्तानि तदधिगमेऽन्तरड्गसाधनानीत्यथेः । “एतैरुपायैर्यतते” इतिश्रतिवाक्यं संगृह्णाति–एतैर्यत्नमिति।एतैरक्तैर्वलादिभिरित्यथः। तस्यात्मायमिति \। बलादिभिर्यतमानस्य तस्य विदुषोऽयमात्मा साक्षिचिन्मात्ररूपोऽयं धाम तेजोरूपमपरिच्छन्नं ब्रह्म विशते प्राप्नोतीत्यर्थः॥ ८७ ॥ विदुषस्तत्प्राप्तिप्रकारमाह—संप्राप्येति। एनमात्मानं संप्राप्य सम्यग्ज्ञानेनावाप्य ऋषयो दर्शनबन्तस्तेनैब ज्ञानेन तृप्ताः। कृतात्मानः कृतनिश्चयाः। वीतशोकाः शोकमोहादिंसांसारिकदुःखरहिताः। प्रशान्ता उपरतेन्द्रियाः।ते आत्मविदः सर्वगमा-

धीरा युक्तात्मानः सर्वमेवाविशन्ति ॥ ८८ ॥

वेदान्तविज्ञानसुनिश्चितार्थाः संन्यासयोगा-

द्यतयः शुद्धसत्त्वाः। ते ब्रह्मलोके तु परान्त-

काले परामृतात्परिमुच्यन्ति सर्वे ॥ ८९ ॥

गताः कलाःपञ्चदश प्रतिष्ठा देवाश्च सर्वे

प्रतिदेवताश्च । कर्माणि विज्ञानमयश्च आत्मा

____________________________________________________________________

काशवत्सर्वगतं सर्वप्रकारेणापि प्राप्योपाधिकृतं परच्छेदं विहाय धीरा विवेकिनःसन्तो युक्तात्मानो नित्यसमाहितमनस्काः शरीरपातकालेऽपि भिन्नघटाकाशवदविद्याकृतोपाधिपरिच्छेदनाशेन सर्वात्मकमपरिच्छिन्नंब्रह्मैवाऽऽविशान्ति॥ ८८ ॥ वेदान्तविज्ञनेति। तत्वमस्यादिवेदान्तमहावाक्यजनितं ब्रह्मात्मैक्यविषयं यद्विशिष्टं ज्ञानं तेन सुनिश्चित उदीरितरूपोऽर्थ येषां ते तथोक्ताः। संन्यासयोगात्सर्वकर्मरित्यगेन केवलब्रह्मनिष्ठास्वरूपाद्योगाद्यतयो यतनशीलाः ।अत एव शुद्धान्तःकरणाः। एवंभूतास्तेसर्वे परान्तकाले भूतभौतिककायोपेक्षया परं तत्कारणमज्ञानं तस्य विनाशकालेसमुपजातात्परामृतान्निरतिशयामृतत्वसाधनाज्ज्ञानाद्ब्राह्मलोके लोक्यत इति लोको ब्रह्मैब लोको ब्रह्मलोकः स्वस्वरूपतया लोक्यमाने ब्रह्मणि परिमुच्यन्ति परितः सर्वस्मादपि संसारबन्ध नान्मुच्यन्ते \। अत्र स्थिता एव ज्ञानेनोपाधिविलयेसति घटाकाशादिवदपरिच्छिनब्रह्मरूपतां भजन्त इत्यर्थः ॥ ८९ ॥ तस्य मुक्तस्य प्राणाद्याः कलाः कथं भवन्तीत्येतत्प्रतिपादयति—गताः कला इति । ताश्च प्रश्नोपनिषदि “षोडश कलाः प्रभवन्ति” इति प्रस्तुत्याम्नायन्ते—स प्राणमसृजत प्राणाच्छ्रद्भांवायुर्ज्योतिरापः पृथिवीन्दियं मनः । अन्नमन्नाद्वीर्यं तपो मन्त्राः कर्मलोका लोकेषु च नाम इति । ताश्च प्राणाद्याः कलाः संसारिणो देहान्तरारम्भहेतवः । विदुषस्तु मुक्तिसमये नामातिरिक्तास्ताः पञ्चदश कला; प्रतिष्ठाः। द्वितीयाबहूवचनान्तमेतत्‌ । स्वस्वकारणं गतास्तत्र प्रलीना भवन्तीत्यथंः ।ये च चक्षुरादीन्दिरयष्वनुग्राहकत्वेन स्थिता आदित्यादिदेवाः “आदित्यश्चक्षु-

परेऽव्यये सर्वएकी भवन्ति॥ ९० ॥

यथा नद्यः स्यन्दमानाः समुद्रेअस्तं यान्ति

नामरूपे विहाय । तथा विद्वान्नामरूपा-

द्विमुक्तः परात्परं पुरुषं ब्रह्म याति॥ ९१॥

स यो ह वैतत्परमं ब्रह्म वेद सुरर्षभाः।

ब्रह्मैव भवति ज्ञनान्नास्ति संशयकारणम॥ ९२॥

सुनिश्चितं परं ब्रह्मवेद चेत्स्वानुभूतितः।

कुले भवति नाब्रह्मवित्तस्य सुरपुङ्गवाः॥ ९३ ॥

रभकं तरति पाप्मानं गहाग्रन्थिर्विनश्यति\।

अमृतो भवति प्राज्ञः सत्यमेव मयोदितम॥ ९४ ॥

________________________________________________________________

र्भूत्वाऽक्षिणी प्राविशत्‌”इत्यादिश्रुतेः\। तेऽपिप्रतिनियतं स्वं स्वंदेवशरीरमेव गता भवन्तीत्यर्थः। यानि चानारब्धफलानि कर्माणि यश्च विज्ञानमयो विज्ञानप्रायोबुद्ध्य द्युपाधिविशिष्टःकर्तात्माते सर्वेऽव्यये नाशरहिते विकारजातात्परेऽद्वितीये ब्रह्मण्येकीभवन्ति। यथा जलभाजनात्तदाधारापनये तत्रत्त्याः सूर्यप्रतिबिम्बाःसूर्ये तद्वदित्यर्थः॥ ९० ॥ उक्तमेकीभावं दृष्टान्तेनोपपादयति—यथा नद्य इति। नामरूपादिति। देवदत्तोयज्ञदत्त इत्यादि नाम। रूप्यत इति रूप॑ स्थूलशरीरादिलक्षणमुपाधिः। भेदहेतोस्तरमाद्विमुक्तो विविक्तः सन्परात्सकार्यव्यापकत्वात्परं माया ततः परं पुरुषं पुरिशयं पूर्णं ब्रह्म स्वरूपं प्राप्नोति॥ ९१ ॥ जीवब्रह्मभेदस्याविद्यामात्रनिबन्धनत्वात्तन्निवृत्तौच विद्यातिरिक्तसाधनानपेक्षत्वाद्वेदनमात्रेण कण्ठगतचामीकरवद्ब्रह्मप्राप्तिःसिध्यतीति दर्शयति– यो ह वा इति॥ ९२ ॥ “नास्याब्रह्मवित्कुले भवति” इत्यस्यार्थमाह— मुनिश्चितमिति। ब्रह्म विदुषः कुछे यो यो जायते स सर्वोऽपि ब्रह्मविदेव भवतीत्यर्थः॥ ९३ ॥ शोकं तरतीत्यादि। शोकमनेकेष्टवैकल्यनिमित्तं मानसं तापंतरति जीवन्नेवातिक्रामति। पाप्मानं

सर्वमुक्तमतिरोभनं मया शोकमोहपटलस्य भेदकम्‌ । आशु सत्यसुखबोधवस्तुदं वेदमाननिरतस्य भासते ॥ ९५ ॥

इति श्रीसूतसंहितायां यज्ञवैभवखण्डस्योपरिभागे बह्मगीता-
सु वस्तुस्वरूपविचारो नाम सप्तमोऽध्यायः ॥ ७ ॥

अष्टमोऽध्यायः॥

.

८. तत्ववेदनविधिः

ब्रह्मोवाच—

अस्ति तत्त्वं परं साक्षाच्छिवरुद्रादिसंज्ञितम्‌।

तदवश्यंमहायासाद्वेदितव्यं मनीषिभिः॥ १ ॥

तद्विद्या यतिभिः सेव्या निगूढातीव शोभना ।

___________________________________________________________________

ससारहेतुभूतं धर्माघर्मात्मकमपि तरति। गुहाग्रन्थिर्हृदयस्थाविद्यावासनाग्रन्थिःसोऽपे विनश्याति। एवं प्राज्ञो विशुद्धचित्प्रकाशः सन्विद्ययाऽमृतत्वंप्राप्नोतीत्यर्थः॥ ९४ ॥ प्रतिपादितमुपनिषदर्थं निगमयति। सर्वमुक्तमिति॥ ५॥

इति श्रीसूतसंहितातात्पर्यदीपिकायां यज्ञवैभवखण्डस्योपरिभागे ब्रह्मगीतासु
वस्तुस्वरूपरविचारो नाम सप्तमोध्यायः॥७॥

अथ कैवल्योपनिषदोप्युक्तब्रह्मात्मैक्यपरत्वं दिदर्शयिषुस्तां संगृह्णाति—अस्ति तत्वमित्यादिना। शिवरुद्रादिसंज्ञितमिति। निरतिशयानन्दरूपत्वाच्छिव इति रुत्संसारदुःखं तस्य द्रावकत्वाद्रुद्र इत्येतादृशीं संज्ञां प्राप्तमित्यर्थः। एवं विद्याविषयं प्रतिज्ञाय तस्यामधिकारिणं प्रयोजनं च क्रमेण दर्शयति—तदवश्यमित्यादिना। एवं हि श्रूयते— अथाश्वलायनो भगवन्तं परमेष्टिनं परिसमेत्योवाच। अधीहि भगन्ब्रह्मविद्यां बरिष्ठां सदा सद्भिःसेव्यमानां निगूढाम्‌। ययाचिरात्सर्वपापं व्यपोह्य परात्परं पुरुषं याति विद्वान् ” इति ।

अचिरात्सर्वपापघ्नीपरव्रह्यप्रदा नृणाम्‌ ॥ २॥

श्रद्धया परया (च महा) भक्त्या ध्यानेन च सरोत्तमाः ।

योगेन च परा विद्या लभ्या सा नैव कर्मणा ।

न प्रजाभिर्नचार्थेन त्यागेनैषां सरर्षभाः ॥ ३॥

ये वेदान्तमहावाक्यश्रवणोत्पन्नविद्यया ।

सुनिश्चितार्था यतयो वरिशुद्धहृदया भृशम्‌ ॥ ४ ॥

ब्रह्मदृश्ये शरीरे ऽस्मिन्नन्तकाले परस्य तु ।

अज्ञानाख्यस्य ते सर्वेमुच्यन्ति हि परामृतात॥ ५॥

तो विद्याप्तिसिद्ध्यर्थंमुमुक्षुर्मतिमत्तमः ॥ ६॥

विविक्तं देशमाश्रित्य सुखासीनो महाशुचिः ।

समग्रीवशिरःकायः सितभस्मावगुण्ठितः ॥ ७॥

इन्द्रियाणि समस्तानि निरुध्य सुरपुंगवाः ।

प्रणंस्यस्वगुरुं भक्त्या विचिन्य हृदयाम्बुजम्‌ ॥ ८ ॥

__________________________________________________________

एवं सर्वत्र वक्ष्यमाणेष्वर्थेषु मूलश्रुतिरनुमेया॥ १ ॥ २ ॥ तस्याः परविद्याया उत्पत्तावनुकूलसाधनान्युपदिशति— श्रद्धयेति। श्रद्धा गुरूपदिष्टेऽर्थे विश्वासः ।भक्तिःसर्वदा तत्र तात्पर्यम्‌।तस्मिन्नुपदिष्टेेऽर्थे सजातीयप्रत्ययप्रवाहोध्यानम्‌। “ विविक्तदेशे च सुखासनस्थः ‘‘इति श्रुत्युक्तोऽत्र वक्ष्यमाणस्वरूपोयोगः।एतत्सर्वं परविद्योत्पत्तौसाधनम्‌। ईदृग्विधसाधनसंपन्नस्यैपणात्रयपरित्याग एवं मोक्षसाधन नान्‍यदिति दर्शयति—सा नैवेति। कर्मणा यज्ञदानादिना।प्रजाभिःपत्रपौत्रादिभिः।अर्थेन धनेन। एतानि ह्यनित्यफलसाधनानि परविद्या त्वतथाविधेत्येषांकर्मादीनां त्यागेनैव प्राप्येत्यर्थः॥ ३ ॥ अथ परविद्योत्पत्तावसाधारणकारणाभिधानपुरःसरमधिकारिणस्तथा प्राप्यं फलमाह— ये वेदान्तेति। उक्तार्थमेतद्गतेऽध्याये॥ 9 ॥ ५ ॥ एवं विषयप्रयोजन-

विशुद्धं विरजं तस्य मध्येविशदमीश्वरम्‌।

अनन्तं शुद्धमव्यक्तमचिन्त्यं सर्वजन्तुभिः॥ ९॥

शिवं प्रशान्तममृतं वेदयोनिं सुरर्षभाः।

आदिमध्यान्तनिर्मुक्तमेकंसाक्षाद्विभुं तथा॥ १०॥

अरूपं सच्चिदानन्दमद्भुतं परमेश्वरम्‌।

उमासहायमोमर्थंप्रभुं साक्षात्त्रिलोचनम्‌।

नीलकण्ठं प्रशा(भा)न्तस्तं(स्थं)ध्यायेन्नित्यमतन्द्रितः॥

________________________________________________________________

साधनाधिकारिभिसह विद्यास्वरूपमुपदिष्टम्। अथ तत्साधनभूतं योगमुपदिशति—अत इत्यादिना ॥ ६– ८ ॥ विशुद्धं विरजमिति। विषयवैतृष्ण्येन तदुपभोगजनितकालुष्यराहिव्याद्विरजं निर्मलमत एव विशुद्धं हृदयाम्बुजमिति संवन्धः।तस्मिन्हृदयकमलमध्येऽनुसंघेय वस्तु संदर्शयति—विशदमिति।विशदं निर्मलम्‌। विशुद्धसत्वप्रधानमायोपाधिवशादीश्वरम्‌ । अनन्तमन्तो विनाशस्तद्रहितम्‌।अत एवं शुद्धम्‌। शब्दस्पर्शादीनामभिव्यक्तिहतूनामभावादव्यक्तम्‌। अत एवात्यन्तनिर्विकल्पकत्वान्मनसाप्यचिन्त्यम्‌ ॥ ९ ॥ परानन्दरूपतय। शिवं मड्गलात्मकम्‌। संसारसंस्पर्शविरहान्निस्तरड्गसमुद्रवत्प्रशान्तम्‌अभृतममृतत्वसाधनभूतम्‌। वेदयोनिर्मिति श्रुतिगतत्रह्मपदस्य व्याख्यानम्‌। आदिमध्यान्तनिर्मुक्तमादौमध्ये चन्ते चवास्थतेन वस्त्वन्तरेणपरिच्छदकेन विनिर्मुक्तम्‌। एकमद्वितीयम्‌।विभुं सर्वव्यापकम्‌ ॥ १० ॥ अरूपं लौकिकाकाररहितम्‌ । एवं ताटस्थ्येन प्रतिपादितस्य स्वरूपप्रतिपादनं सच्चिदानन्दमिति । उमासहायमिति स्वशक्त्यासहितम्‌ । सा हि परशिवस्य स्वरूपानातिरेकिणीति प्राक्परतिपादितम्‌ । अत एवोमर्थं प्रणवप्रतिपाद्यम्‌। शिवशक्तिबाचकस्य सोऽहमिति परमात्ममन्त्रस्य सकारहकारयोर्लोपे सति प्रणवस्योत्पन्नत्वात्‌ । उक्तं ह्याचार्यैः— “सकारं च हकारं च लोपयित्वा प्रयोजयेत्‌ । संधिं वै पूर्वरूपाख्यं ततोऽसौ प्रणवो भवेत्‌”इति । एवं निष्कलंरूपमभिधाय ध्येयत्वेन लीलाविग्रहमुपदिशति–त्रिलोचनमिति ॥ ११ ॥

एवं ध्यानपरः साक्षान्मुनिर्ब्रह्मात्मविद्यया॥ १२॥

भूतयोनिं समस्तस्य साक्षिणं तमसः परम्‌।

गच्छत्येव न संदेहः सत्यमुक्तं मया सुराः॥ १३ ॥

योऽयं ध्येयश्च विज्ञेयः शिवः संसारमोचकः।

स ब्रह्मा स शिवः सेन्द्रः सोक्षरः परमः स्वराट्‌॥ १४॥

स एव विष्णुः स प्राणः स कालोऽग्निःस चन्द्रमाः।

स एव सर्वं यद्भुतं यच्च भव्यंसमासतः॥ १५ ॥

स एव विद्याविद्या च न ततोऽन्यत्तु किंचन।

ज्ञात्वा तं मृत्युमत्येति नान्यः पन्था विमुक्तये॥ १६॥

सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि।

__________________________________________________________

एवं ध्यानपर इति। उक्तविधं परशिवस्वरूपं स्वकीयहृदयाम्बुजे ध्यायन्नात्मनस्तद्रूपत्वसक्षात्कारेण वियदादिभूतभौतिकस्य सर्वस्य जगतः कारणं तस्य सर्वस्य साक्षिणं तमसो मायायाः परमेवविधं परशिवस्वरूप॑ प्राप्नोति॥ १२ ॥ ॥ १३ ॥ तस्य ज्ञेयत्वेनोपदिष्टस्य परशिवस्वरूपस्योक्तमद्वितीयत्वंसार्वात्म्येन प्रतिपादयति-— योऽयमिति। ब्रह्यादिदेवतारूपेण परशिव एव तत्तदुपाधिना व्यपादिश्यते । अतोऽस्मतत्ते न प्रथग्मूताः स तथाविधः पररिवोऽक्षरो नाशरहितः। ब्रह्मेन्द्रादीनामपिकारणत्वात्परमः। स्वराट्‌ स्वयमेव राजमानः स्वतन्त्रः। अन्ये तु तत्पारतन्त्रयान्न स्वराजः॥ १४॥ कि बहुना द्विविधं सर्वंजगद्भूतमतीतकालावब्छिन्नंभव्यमागामिकारवच्छिनं तदुभयमपि तत्स्वरूपानतिरिक्तम्‌॥ १५ ॥ एवं परशिवस्वरूपव्यतिरिक्तिस्य कस्यचिदप्यभावादात्मनस्तद्रपत्वाज्ञानमेव मुक्तयुपाय इति दर्शयति—ज्ञात्वति । मृत्युं मरणजननादिलक्षणं संसारम्‌ ॥ १६ ॥ सर्वभूतस्थमिति। भूतभौतिकप्रपञ्चस्य प्रतिभासावस्थायामपि तत्र सर्वत्र कारणत्वेनावस्थितमात्मानं पश्यति। आत्मनि च कार्यतस्याऽध्यस्तानि तानि सर्वाणि भूतानि पश्यति।एवं सार्वात्म्यं पश्यन्नने-

संपश्यन्ब्रह्म परमं याति नान्येन हेतुना॥ १७ ॥

आत्मानमरणिं कृत्वा प्रणवं चोत्तरारणिम्‌।

ध्याननिर्मथनादेवपा(शा)पान्दहतिपाण्डितः॥ १८ ॥

स एव भगवानीशो माययैवात्ममूतया।

मुह्यमान इव स्थित्वा स्वस्वातन्त्र्य

बलेन तु॥ १९॥

शरीरमिदमास्थाय करोति सकलंपुनः।

जाग्रत्संञ्जमिदंधाम प्रकल्प्य स्वीयमायया ॥ २० ॥

राजपुत्रादिवत्तस्मिन्क्रीडया केवलंहरः

अन्नपानादिभिः स्त्रीभिस्तृप्तिमेति सुरर्षभाः॥ २१ ॥

स्वप्नकालेतथा शंभुजीवत्वेन प्रकाशितः।

सुखदुःखादिकान्भोगान्भुङ्क्ते स्वेनैव निर्मितान्‌॥२२॥

सुषुप्तिकालेसकलेविलीने तमसावृतः।

स्वस्वरूपमहानन्दंभुङ्क्तेविश्व(दृश्य)विवर्जितः॥

पुनः पूर्वक्रियायाज्जीवत्वेन प्रकाशितः।

_____________________________________________________________

नैव ज्ञानेन तदद्वितीयं परं ब्रह्म प्रप्नोतीत्यर्थः॥१७॥ नन्वीदृग्बिधा ज्ञनोत्पत्तिःप्रतिबन्धकपापव हुत्यान्न संभवतीत्याशङ्क्यतन्निवृत्युपायमाह—आत्मनमित।उक्तर्थमकपूर्वस्मिन्नध्याये। ब्रह्यध्यानस्य पापक्षयहेतुत्वं स्मृतावपि प्रसिद्धम्‌—उपपातकपूर्वेषुपातकेषु गुहत्मुच । प्रविश्यरजनीपारदं ब्रह्मध्यानंसमाचरेत्‌’’ इति ॥ १८ ॥ जाग्रदाद्यवरथासु सुखदुःखोपभोक्ता संसारीजीबः।ईश्वस्वतथाविधइतिकथमनपोरेकत्वमित्यतआह—स एवेति।मुह्यमान इवेति।न तु परमार्थतस्तस्य मोहः संभवतीतीवशब्दार्थः॥ १९—२२ \। सकले विलीन इति।स्वप्नावस्थायां हि ब्रह्मेन्द्रियेषूपरतेष्वपि तत्तत्स्वप्नपदार्थाकारेण परिणममानमन्तः करणमस्ति तदपि सुषुप्तिकाले

जाग्रत्संज्ञामिदं धाम यात स्वप्नमथापि वा॥ २४ \।\।

पुरत्रयमिदं पुंसो भोगायैव विनिर्मितम्‌।

भोगश्चास्य सदा क्रीडा न दुःखाय कदाचन॥ २५ ॥

विश्वाधिको महानन्दः स्वतन्त्रोनिरुपद्रवः।

असक्तः सर्वदोषैश्च कथं दुःखी भवेद्धरः॥ २६॥

स न जीवः शिवादन्यो यो भुङ्क्तेकर्मणां फलम्‌ ।

भेदाभावाच्चितश्चेत्यं न कर्मफलमर्हति॥ २७॥

अतः सर्वजगत्साक्षी चिद्रूपः परमेश्वरः।

विलीयते।अतः सर्वास्मिन्करणग्रामेविलीने सति भावरूपाज्ञानरूपेण तमसावृतःसन्स्वस्वरूपभूतमानन्द भुङ्क्ते साक्षात्करोति\। अत एवहि स्वापोत्थितस्यसुखमहमस्वाप्समिति परामर्शः॥ २३ ॥ २४ ॥ पुरत्रयमिदमिति। जाग्रत्स्वप्नसुषुप्याख्यंस्थानत्रयंपुस्पस्य भोगार्यव परमेश्वरमायया विनिर्मितमित्यर्थः। नन्वीश्वर एव चेज्जीबखरमूपेणावस्थितस्तस्थ च भोगो न युज्यते “अनश्नन्नन्यो अभिचाकशीति" इतिश्रुतेरित्यत आह—भोगश्चास्यति । स्वगेनरकादिसकलदुःखोपभोगोऽप्यस्य क्रीडा न दुःखहेतुः॥ २५ ॥ कुत इत्यत आह–विश्वाधिक इति ।यस्मादसौविश्वस्मादपि जगतोऽधिकस्तदारोपब्रा धयोरधिषठानावधित्वेनावस्थात्तश्चावास्तवो भागोऽस्यन दुःखहेतुः। किचायं महानन्दः। अस्य लेशभागोन्यानि सुखानि। इतोपि वैषयिकसुखोपभोगो लीलामात्रमित्यर्थः\। स्वतन्त्रो निरपुद्रव इति । पारतन्त्रयादिकं हि दुःखहेतुः । अयं तदभावात्कथं दुःखी भवेदित्यथः ॥ २६ ॥ नन्वेवमीश्चर एवं भवतु । जावस्त॒ तत्परतन्त्र इति तस्यवास्तव एवं भोगः किं न स्यादित्यत आह–स न जीव इति \। जीवेश्वरयोर्वास्तवभेदो नास्ति । उभयत्रावस्थितस्य चिन्मात्ररूपस्य भेदाभावस्य प्रागेव प्रतिपादितत्वात्‌। किंच चेत्यं हि कर्मफलम्‌। तदपि चित्स्वरूपेऽध्यस्तत्वेन मिथ्याभूतम्‌।अतः कथं तद्विषयोपभोगश्चिद्रूपस्यात्मनो वास्तवः स्यादित्यर्थंः॥ २७॥ एवं जाग्रत्स्वप्नसुषुप्त्यवस्थासु

अद्वितीयो महानन्दः क्रीडया भोगमर्हति॥ २८ ॥

धामत्रयमिदं शंभोर्न दुःखाय कदाचन।

क्रीडारामतया भाति न चोद्यार्होमहेश्वरः॥ २९॥

इदं धामत्रयं शंभोर्विभेदेन न विद्यते।

शंभुरेव तथा भाति न ह्यन्यत्परमेश्वरात्‌॥ ३० ॥

जाग्रत्स्वप्नसुषुप्त्यख्यावस्थारूपेण भाति यः।

स विश्वतैजसप्राज्ञसमाख्यःक्रमशोभवेत्॥ ३१ ॥

विश्चो हि स्थूलभुङ्नित्यं तैजसःप्रविविक्तभुक्‌।

प्राज्ञस्त्वानन्दभुक्साक्षी केवलः सुखलक्षणः॥ ३२ ॥

त्रिषु धामसु यद्भोग्यं भोक्ता यश्च प्रकीर्तितः।

_______________________________________________

जीवभावापन्नस्यपरशिवस्यवास्तवभोगासंभवात्तत्तदवस्थानिर्माणं तत्तद्भोगश्च सर्वोऽपि लीलामात्रमितिनिगमयति अत इति॥२८॥ क्रीडारामतयेति।जाग्रदादिस्थानत्रयमीश्चरस्यकेवलंक्रीडार्थमुद्यानम्।आप्तकामस्यतस्य तत्र प्रयोजनान्तरासंभवात्‌। अतोन तस्य भोगप्रसक्तिरिति न चोदनीयामित्यर्थः॥ २० ॥ नन्वेतत्स्थानत्रयं क्रीडारामतया विद्यते चेद्द्वैतापत्तिरित्यत आह–इदमिति॥३० ॥ स व्रिश्वतैजसेति। स्वस्मिन्परिकल्पितजाग्रदाद्यवस्थारूपसापेक्ष्यभेदात्तत्तत्साक्ष्यविशेषघटितत्तत्साक्षिचिन्मात्ररूप आत्मा विश्वतैजसादिसंज्ञां क्रमेण लभत इत्यर्थः॥ ३१ ॥ तेषां स्वरूपविशेषमाह—विश्वो हीति। जाग्रदवस्थासाक्षी विश्वास्य आत्मा स्थूलभुक्।पञ्जीकृतशब्दस्पर्शादिविषयःस्थूलः। यद्वासर्वभोक्तृसाधारण्येनेशवरमायया निर्मितोभाग्यप्रपञ्चःस्थूलस्तस्य भोक्ता। तैजसस्तु स्वप्नास्थासाक्षीप्रविविक्तभूक्। प्राविविक्तं भोक्त्रन्तरात्प्रकर्षेण विविक्तं स्वाविद्यापारिकल्पितमसाधारणमेव विषयजातंभुङ्क्ते। प्राज्ञः सुषुप्त्यवस्थासाक्षी सविषयस्येन्द्रियवर्गस्यान्तःकरणेन सार्धं स्वकारणभूतेऽज्ञाने विलयाद्विक्षेपाभावेन स्वरूपभूतमानन्दं भुङ्क्ते। एवमवस्थासंबन्धकृत एवास्य भोगः। स्वरूपतस्तु परानन्दरूपःकेवलःसाक्षी चिन्मात्ररूपः॥ ३२ ॥

उभयं ब्रह्म यो वेद स भुञ्जानो न लिप्यते॥ ३३॥

अश्वमेधसहस्राणि ब्रह्महत्याशतानिच।

कुर्वन्नपि न लिप्येत यद्येकत्वं प्रपश्यति॥ ३४ ॥

जीवरूप इव स्थित्वायः क्रीडति पुरत्रये।

स न जीवः सदा शंभुः सत्यमेव न संशयः॥ ३५॥

ततस्तुजातं सकलं विचित्रं सत्यवत्सुराः।

स सत्योऽसत्यसाक्षित्वात्साक्षित्वाच्चित्सुखं तथा॥ ३६॥

प्रेमास्पदत्वादद्वैतो भेदाभावात्सुरर्षभाः।

तस्मिन्नेव लयंयाति पुरत्रयमिदं ततः॥ २७ ॥

न जीवो जीववद्भाति साक्षाद्ब्रह्मैव केवलम्‌।

__________________________________________________________

त्रिषु धामस्विति। जग्रदादिस्थानत्रयेऽपि भोग्यप्रपञ्चस्य निरुपाधिकपरशिवरूपेऽध्यस्तत्वेन मिथ्यात्वाद्भोक्तुश्चोपाध्यपगमे सति तदनन्यत्वाद्भोक्तृभोग्यात्मकमुभयमपि ब्रह्यैवेति विजानतो भोगजनितपुण्यपापकृतलेपो न भवतीत्यर्थः॥ ३३ ॥ एतदेव विवृणोति - अश्चमेधेति॥ २४ ॥ एवमेकत्वज्ञानस्य फलमुक्त्वातदेकत्वमुपपादयति—जीवरूप इवेति । ईश्वर एवं क्रीडाव्याजेन जीवरूपेणावस्थितो न तु जीवम्ततेऽन्य इति ॥ ३० ॥ प्रतिज्ञावमर्थं साधयति – ततस्तु जातमिति। यदद्वितीयं ब्रह्म ततस्तस्मदेव भाक्तृभोग्यात्मकं विचित्रमिदं सर्वं जगन्मायावशात्सत्यवदुत्पन्नं न तु परमार्थतः सत्यम्‌। । चिन्मात्ररूपस्य स्वात्मनो ब्रह्मलक्षणयोगात्तदेकत्व॑ वक्तुं सच्चित्सुखात्मतां प्रतिपादयति स सत्य इति। असत्यस्य सर्वस्य दृशेयत्वनियमात्तत्साक्षी दृग्रूप आत्मा सत्य एवैष्टव्यः। अतेएव जडप्रपञ्चसाक्षित्वाच्चिद्रूपः। परप्रेमास्पदत्वात्सुखरूपः। प्रागुक्तरीत्या क्वचिदपि भेदस्य दुर्निरूपत्वेन स्वरूपलाभाभावादद्वैतः। एवं सच्चिदानन्दरूपो यः साक्षी तस्मिन्नेव जाग्रदाद्यवस्थात्रयं लीयते। यस्मादवस्थात्रयसाक्ष्येवंरूपस्तस्मादसौ न जीवः। किंतूपाधिवशाज्जीववदवभासमानःस निरस्तसमस्तोपाधि-

अज्ञानाज्जीवरूपेण भासते न स्वभावतः॥ ३८ ॥

ब्रह्मणो जायते प्राणो मनः सर्वेन्द्रियाणि च।

खंवायुर्ज्योतिरापश्च भूमिर्विश्वस्य धारिणी॥ ३९॥

यत्परं ब्रह्म सर्वात्मा विश्वस्याऽऽयतनं महत्‌।

सूक्ष्मात्सूक्ष्मतमं नित्यं तत्त्वंशब्दार्थएव हि॥ ४० ॥

यस्त्वंशब्दस्य लक्ष्यार्थःस तच्छब्दार्थएव हि।

तत्त्वंशब्दौस्वतःसिद्धे चिन्मात्रे पर्यवस्यतः॥४१॥

यः पदद्वयलक्ष्यार्थस्तस्मिन्भेदः प्रकल्पितः।

मायाविद्यात्मकोपाधिभेदेनैव न वस्तुतः॥ ४२ ॥

स्वतःसिद्धैकताज्ञानं व्युदस्य श्रुतिरादरात्‌।

________________________________________________________________

कत्वेन ब्रह्मैव। कस्तर्हि जीववद्भान उपाधिरित्यत आह–अज्ञानादिति॥ ३६–३ ८ ॥ एवंजीवस्य सच्चिदानन्दाद्वितीयत्वलक्षणं स्वरूपं प्रतिपादय ब्रह्मणोऽपि तटस्थलक्षणतया तत्प्रतिपादयति– ब्रह्मणो जायत इत्यादिना॥३९॥ सूक्ष्मात्सृक्ष्मतममिति। सूक्ष्मपञ्चीकृतं वीयदादिकं ततोऽपि सूक्ष्ममव्याकृतं तस्मादपि सूक्ष्म यज्जगत्कारणं ब्रह्म। तदेव जीववाचिनस्त्वंशब्दस्यार्थः॥ ४०॥ जगत्कारणवाचिनस्तच्छब्दस्य देहादुपाधिविशिष्टात्मवाचिनस्त्वंशब्दस्य च विरुद्धांशत्यागिनोभयत्रानुगतचिन्मात्ररूपेणैकत्वप्रतिपादनपरत्वंपञ्चमेऽध्याये प्रपञ्चितं “त्वमहंशब्दवाच्यार्थस्यैव” इत्यादिना। तदेतत्सिद्धवत्कृत्योच्यते–चिन्मात्रे पर्यवस्यत इति॥ ४१ ॥ यः पदद्वयलक्ष्यार्थ इति। तत्वमितिपदद्वयेन वाच्यगतं संसारिलादिविरुद्धांश परियज्य लक्षणया यश्चिन्मात्ररूपोऽथः प्रतिपादितः स एव पारमार्थिकः।तस्मिन्मायाविद्योपाधिवशाज्जीवेश्वरयोर्भेदःकल्पितः। विशुद्धसत्वप्रधाना स्वाश्रयाव्यामोहकरी मायेश्वरोपाधिः। मलिनसत्वप्रधाना स्वाश्रयव्यामोहकर्यविद्या जीवोपाधिः।अतस्तयोस्तद्वशादेव भेदो न वास्तव इत्यर्थः॥ ४२ ॥ एकताज्ञानमिति। स्वतःसिद्धं यदेकत्वंतस्याऽऽच्छा-

स्वभावसिद्धमेकत्वंबोधयत्यधिकारिणः॥ ४३ ॥
जाग्रत्स्वप्नसुषुप्त्यादिप्रपञ्चत्वेनभाति यत्। `
तद्ब्रह्माहमिति ज्ञात्वा सर्वबन्धैःप्रमुच्यते॥ ४४ ॥
यस्तु व्रह्म विजानाति स्वात्मना सुदृढंनरः।
तस्य स्वानुभवस्त्वेवंस्वभावादनुवर्तते॥ ४५ ॥
त्रिषु धामसु यद्भोग्यं भोक्ता भोगश्च यस्तथा।
तेभ्यो विलक्षणः साक्षी चिन्मात्रोऽहं सदाशिवः॥४६॥
मय्येव सकलं जातं मयि सर्वं प्रतिष्ठितम्‌।
मयि सर्वं लयं याति तद्ब्रह्याद्वयमस्म्यहम्‌॥ ४७ ॥
अणोरणीयानहमेव तद्वन्महानहं विश्चमहं
विशुद्धः।पुरातनोऽहं पुरुषोऽहमीशो
हिरण्मयोऽहं शिवरूपमस्मि॥ ४८ ॥
अपाणिपादोऽहमचिन्त्यशक्तिःपश्याम्यचक्षुश्च
शृणोम्यकर्णः। अहं विजानामि विवि-
क्तरूपो न चास्ति वेत्ता मम चित्सदाऽहम्‌॥ ४९ ॥
वेदैरनेकैरहमेव वेद्यो वेदान्तकृद्वेदविदेव
चाहम्‌ । न पृण्यपापे मम नास्ति नाशो
न जन्म देहेन्द्रियवुद्धयश्च॥ ५० ॥
न भूमिरापो मम नैव वह्निर्नचानिलोमेऽस्ति
न चाम्बरं च । सदाहमेवाहमिति स्फु
रामि स्वभावतश्चेदमिति स्फुरामि ॥ ५१ ॥

_________________________________________________________

दकमक्ञानमियरथः । श्रतिरादरादिति । सा श्रतिरेया—“सूक्ष्मात्सूक्ष्मतर नियं

अभातरूपेण तथैव सर्वदा विभातरूपेण च

भानरूपतः।अभानरूपेण च सर्वरूपतः

स्फुरामि देवोऽहमतः पुरातनः॥ ५२ ॥

एवं विदित्वा परमात्मरूपं गुहाशयं निष्कलम-

द्वितीयम्‌। समस्तभानं सदसद्विहीनं

प्रयाति शुद्धं परमात्मरूपम्‌॥ ५२ ॥

अतश्च वेदान्तवचोभिरञ्जसा मुमुक्षुभिर्नित्यम-

शेषनायकः। गुरुपदेशेन च तर्कतस्तथा

विचिन्तनीयश्च विशेषतः शिवः॥ ५४ ॥

कैवल्योपनिषत्परा परकृपायुक्तायदुच्चैर्मुदा

प्रोवाच प्रथितौजसैरपि हरिब्रह्मादिभिश्चादृतम्।

हे देवा अहमुक्तवाननिशुभब्रह्मापरोक्षाय तत्सर्वेषाम-

धिकारिणां मतमिदं वित्तातिभक्त्या सह॥ ५५ ॥

_____________________________________________________________

तत्वमेव त्वमेव तत्‌’ इति।अस्य श्रुतवाक्यस्य निष्पन्नमर्थमनुवदति–जाग्रदिति। जाग्रदाद्यवस्थारूपेण प्राणमनः प्रभृतिप्रपञ्चरूपेण च यद्ब्रह्य पारोक्ष्येणभाति तदेव त्वमहंशब्दलक्ष्यमापरोक्ष्येण भासमानंप्रत्यक्चैतन्यमिति वाक्यार्थः॥ ४२३–४५ ॥ एंव ब्रह्मात्मैकत्ववदुपोजीवन्मुक्तस्यानुसंधानप्रकारमाह–त्रिष्वित्यादिना॥ ४६—9८ ॥ न चास्ति वेत्तेति।अन्यो वेदिता मम नैवास्ति। अहमेव सर्वदा चिद्रूपःसर्वस्य वेदितेत्यर्थः॥ ४९.—५२्‌ ॥ईदृग्विधानुसंधानस्य फलमाह - - -एवमिति॥ ५३ ॥ प्रतिपादितमर्थं निगमयति–अत इति ॥ ५४ ॥ वित्तातिभक्त्येति। एवं कैवल्योपनिषदस्तात्पर्यगम्यं मया प्रतिपादितमर्थं हे देवा यूयं वित्त जानीतेत्यर्थः॥ ५५ ॥

इति श्रीस्कान्दपुराणे सूतसंहितायां यज्ञवैभवखण्डस्योपरि-

भागे व्रह्मगीतासु तत्त्ववेदनविधिर्नामाष्टमोऽध्यायः॥ ८॥

अथ नवमोऽध्यायः॥

९. आनन्दस्वरूपकथनम्

ब्रह्मोवाच—

प्रत्यग्रूपः शिवः साक्षात्परानन्दस्वलक्षणः।

परप्रेमास्पदत्वेन प्रतीतत्वात्सुरर्षभाः।

परप्रेमास्पदानन्दः सुराआनन्द एव हि॥ १ ॥

प्रियो भवति भार्यायाः पतिः सोऽयं सुरर्षभाः॥ २॥

पतिर्न पत्युः कामाय प्रियो भवति सर्वथा।

_____________________________________________________________

इति श्रीसूतसंहितातात्पर्यदीपिकायां चतुर्थस्य यज्ञवैभवखण्डस्योपरिभागे

ब्रह्मगीतासूपनिषत्सु तत्ववेदनविधिर्नामाष्टमोऽध्यायः॥८॥

अथ वृहदारण्यकस्याप्युक्तब्रह्मात्मैक्यपरत्वमध्यायद्वयेनप्रतिपाद्यते। तत्र मैत्रेयीब्राह्मणेऽमृतत्वसाधनस्याद्वितीयात्मदर्शनस्य तत्साधनानां श्रवणादीनां च प्रतिपादनेन संपूर्णोपदेशरूपत्वात्तदर्थं प्रथमं संगृह्णाति - प्रत्यग्रूप इत्यादिना। अहमिति प्रत्यक्त्वेन भासमानो जीवमभावापन्नोयः परशिवःस साक्षात्परमानन्दरूपः।तत्र हेतुमाह–परेति। हेतोरप्रयोजकत्वं निरस्यति– परप्रेमेति। यद्यपि परप्रेमास्पदभूतः पुत्रवित्तादिविषयजनित आनन्दःसाक्षादानन्दोनभवति। तस्यान्यशेपत्वात्‌। तथापि यो निरतिशयप्रेमास्पद आनन्दःस तु स्वप्राधान्यात्साक्षादानन्द एवेति परप्रेमास्पदत्वमानन्दरूपत्वस्यगमकमित्यर्थः॥१॥ तच्चात्मन्यसिद्धमित्याशङ्क्य श्रुतौ“न वा अरे पत्युःकामाय पतिः प्रियो भवति" इत्यादिभिर्बहुभिः पर्यायैपतिजायापुत्रवित्तादीनामात्मशेषतयैव प्रियत्वोपन्यासेन तस्य यत्सर्वप्रियतमत्वं प्रतिपादितं तदभिवते—प्रियोभवतीत्यादिना। भार्यायाःप्रतिः प्रियो भवतीति यत्तन्न पत्युःकामाय । किंतु जा-

किं त्वात्मनस्तु कामाय ततः प्रियतमः स्वयम्‌॥ ३॥
जायायास्तुन कामाय न हि जाया प्रिया मता।
किं त्वात्मनस्तु कामाय ततः प्रियतमः स्वयम्‌॥ ४॥
षुत्राणां तु न कामाय प्रियाः पुत्रा भवन्ति च।
किं त्वात्मनस्तु कामाय ततः प्रियतमः स्वयम्‌॥ ५॥
ब्रह्मणस्त्वेव कामाय न ब्रह्म भवति प्रियम्‌।
किं त्वात्मनस्तु कामाय ततः प्रियतमः स्वयम्‌॥ ६॥
क्षत्त्रस्यैव तु कामाय न क्षत्रं भवाति प्रियम्‌।
किं त्वात्मनस्तु कामाय ततः प्रियतमः स्वयम्‌॥ ७ ॥
वित्तस्यैव तु कामाय न वित्तं भवति प्रियम्‌।
किं त्वात्मनस्तु कामाय ततः प्रियतमः स्वयम्‌॥ ८॥
लोकानामेव कामाय न भवन्ति प्रियाश्चते।
किं त्वात्मनस्तु कामाय ततः प्रियतमः स्वयम्‌॥ ९॥
देवानामपि कामाय प्रिया देवा भवन्ति न।
किं त्वात्मनस्तु कामाय ततः प्रियतमः स्वयम्‌॥ १०॥
वेदानामेव कामाय प्रिया वेदा भवन्ति न।
किं त्वात्मनस्तु कामाय ततः प्रियतमः स्वयम्‌॥ ११॥

___________________________________________________

यायाः स्वात्मनः सुखायैव। तथाच यो यच्छेपतया प्रियस्ततोऽपि तस्मिञ्शेषिणिप्रीतिविशेषोभवति।यथा पुत्रशेषतया तद्भार्यादिकात्पुत्रे। एवं स्वात्मशेषतया प्रियात्पत्युरपि जायायाः स्वात्माऽतिशयेन प्रिय इत्यर्थः॥ २ ॥ ३॥ जायायास्त्विति। पत्युर्जाया प्रिया भवतीति यत्तन्न जायायाः सुखाय। किंतु पत्युः स्वात्मनः सुखायेति पूर्ववत्ततोऽपि प्रियतमः पत्युः स्वात्मा। एवं पुत्राणां तु न कामायेत्यादिषु पर्यायान्तरेष्वपियोजना \।\। ४॥ ५ ॥ ब्रह्मणस्त्वेवेति।

भूतान्यपि च भूतानां कामाय न भवन्ति च।

किं त्वात्मनस्तु कामाय ततः प्रियतमः स्वयम्‌॥१२॥

सर्वस्यैव तु कामाय न सर्वंभवति प्रियम्‌।

किं त्वात्मनस्तु कामाय ततः प्रियतमः स्वयम्‌॥१३॥

अतः प्रियतमो ह्यात्मा सुखवत्सुखलक्षणः।

सुखाभिलाषिभिः सोऽयं त्यक्‍त्वाकर्माणि सादरम्‌ १४

द्रष्टव्यस्तु सुरा नित्यं श्रोतव्यश्च तथैव च।

मन्तव्यश्च विचिन्त्यश्चसर्वं तद्दर्शनादिभिः।

_________________________________________________________

ब्राह्मणजातेरित्यर्थः॥६–१२॥ एवं पतिजायापुत्रवित्तादिकान्प्रियविषयान्भावविशेषानुपन्यस्या-नुक्तसंग्रहायाऽऽह। सर्वस्यैवेति॥१३ ॥ अतः प्रियतम इति। यत एवं सर्वमात्मशेषतया प्रियतममतः सर्वप्रियतम आत्मा। हिशब्दो हेतौ। यस्मादेवं परप्रेमास्पदस्तस्मात्सुखलक्षणो निरतिशयानन्दस्वरूपः। अतः परिच्छिन्नसुखसाधनानि कर्माणि परित्यज्यापरिच्छन्नसुखाभिलाषिभिर्मुमुक्षभिस्तादृग्रूप आत्मा सादरं द्रष्टव्यः साक्षात्कर्तव्यः। तस्य च दर्शनस्य मनननिदिध्यासनसहकृतं वेदान्तमहावाक्यश्रवणमेव साधनमित्याह- -श्रोतव्यश्चेति।तत्र श्रवणं नाम शब्दशक्तितात्पर्यार्थन्यायानुसंधानम्‌।न्यायतः श्रुतिप्रतिपादितस्यार्थस्यासंभाव्रनादिनिरासेन तथात्वगमकयुक्त्यनुसंधानं मननम्‌ ।एवं श्रवणमननाभ्यामधिगतेऽर्थेसाक्षत्कारं जनयितुं विजातीयप्रत्ययानन्तरितः सजातीयप्रत्ययप्रवाहो निदिध्यासनापरपर्यायं विचिन्तनम्‌ । तथा चाऽऽम्नातम्‌ “आत्मा वा अरे द्रष्टव्यः श्रोतव्यों मन्तव्यो निदेध्यासितव्यः” इति।अस्य च वाक्यस्य तात्पर्यमाचार्यैरुक्तम्– आत्मदर्शनफलमुद्दिश्य मनननिदिध्यासनाभ्यां फलोपकार्यङ्गाभ्यां श्रवणं नामाङ्गि विधीयत इति ।“आत्मनोवा अरे दर्शनेन”इत्यादिना यद्दर्शनस्य सर्वावाप्तिलक्षणफलमाम्नातंतद्व्याचष्टे—सर्वं तदिति। दर्शनादिभिरित्यादिशब्देेन श्रुत्युक्तश्रणमनननिदिध्यासनसंग्रहः। तस्मिन्प्रियतम आत्मतत्त्वे श्रवणादिभिर्दृष्टे सति यत्तस्मिन्नध्यस्तं तच्छेषतया प्रियं

विदितं तदभेदेन भवत्यत्र न संशयः॥ १५॥

दुःखराशोर्विनाशाय परमाद्वैतविद्भवेत्॥ १६ ॥

परमाद्वैतविज्ञानात्संसारः प्रविनश्यति।

स्वतः सिद्धाद्वयानन्दः स्वयमेव विभाति च॥ १७॥

परादात्तं सुरा ब्रह्म स्वतोऽन्यद्ब्रह्य वेद यः।

तथा परादात्क्षत्त्रं तं लोका अपि तथैव च॥ १८॥

देवा वेदाश्च भूतानि परादुः खलु तं पशुम्‌

_____________________________________________________________

प्रागुपन्यस्तं सर्वंजगत्तत्सर्वं तदभेदेन वस्तुतस्तदनन्यत्वेन विदितमेव भवतीत्यर्थः॥ १४ ॥ १५ \। ननु तावत। कथं संसारदुःखनिवृत्तिरिति तत्राऽऽह—दुःखराशेरिति। परमाद्वैताविदः पुरुषस्य स्वातिरिक्तदुःखहेत्वभावाद्भवपरंपरार्जितो दुःखाराशिर्विनश्यतीत्यर्थः। ननु दुःखराशेर्विनाशेऽपि स्वर्गादिसुखहेतोः पुण्यस्य सद्भावात्ततिमित्तःसंसारो विदुषोऽपिकुतो नेत्यत आह –परमाद्वैतेति। अद्वितीयब्रह्मात्मक्यसाक्षात्कारोत्तरकालं कर्तृत्वभोक्तूत्वादिमदन्तः करणस्य निखिलपुण्यपापाश्रयस्य विविक्तत्वात्तत्कूतःसुखदुःखोपभोगलक्षणःसर्वोऽपि संसारो विदुषः प्रविनश्यति। ईदृग्विधस्य में क्षस्य सुखदुःखवत्स्वर्गादिसुखस्यापि निवर्तनादपुरुषार्थत्वमाशङ्क्याऽऽह ~. -स्वतःसिद्धेति। कारणान्तरानपेक्षोय अत्मनः स्वरूपभूतो नित्यनिरतिशयाद्वितीय आनन्दस्तस्य स्वरूपप्रकाशननैव स्फुरणान्नोक्तदोषइत्यर्थः ॥ १६ ॥ १७ ॥ एवं मोक्षसाधमद्वितीयपरमानन्दात्मदर्शनमुपन्यस्यया भेददर्शननिन्दा “ब्रह्म तं परादात्‌" इत्यादिभिः पर्यायैःश्रुतौ प्रतिपादिता तां संगृह्णाति- -परादात्तमिति । यः पुरुषःस्वात्मनोऽन्यद्ब्राह्म ब्राह्मणजातिं वेद तद्ब्रह्मभेददर्शिनं तं पुरुषं परादाद्बहिस्त्यजतितदनधानं सत्तस्य सुखदुःखहेतुर्भवतीत्यर्थः। एवंपरादात्क्षत्त्रमित्यादेषु योजना ।तं पशुमिति । यो हि ब्रह्मक्षत्त्रादिकं जगत्स्वव्यतिरेकेण पश्यत्ययथार्थदर्शित्वात्स एव पशुः। तथा चाऽऽम्नातम्‌"अथ योऽन्योदेवतामुपास्तेऽन्योऽसावन्योऽहमस्मीति न स वेद यथा पशुरेवं स देवानाम्‌?” इति।

स्वस्वरूपात्परं किंचिदपि पश्यन्प्रणश्यति॥ १९॥

ब्रह्मक्षत्त्रादिभेदेन प्रतीता ह्यखिला अमी।

वर्णास्तथाऽऽश्रमाः सर्वे संकराः सकला अपि॥ २० ॥

देवगन्धर्वपूर्वाश्च भूतानि भुवनानि च।

अस्ति नास्तीति शब्दार्थौतथैवान्यच्च किंचन॥ २१

मायाविद्यातमोमोहप्रभेदा अखिला अपि।

सर्वमात्मैव नैवान्यदन्यबुद्धिर्हि संसृतिः॥ २२ ॥

निर्विकल्पे परे तत्त्वेविद्यया बुद्धिविश्रमः।

________________________________________________________

अस्त्वेवं ब्रह्मक्षत्रादिभिरात्मनः परादानं ब्रह्मक्षत्त्रादिभेदस्त्वनुभवसिद्धः कथमपलपितुं शक्यत इत्यत आह–स्वस्वरूपादिति। प्रतीयमानस्य भेदस्य शुक्तिकारजतादिवद्भ्रमत्वाद्वस्तुतःस्वातिरिक्तं ब्रह्मक्षत्रादिकं जगत्पश्यंस्तत्कृतपुण्यपापवशीकृतो जन्ममरणादिलक्षणं संसारं प्राप्नाति।श्रूयते हि– “मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति"इति॥ १८ ॥ १० ॥ कथं तर्हिं प्रतीयमानं ब्रह्मक्षत्त्रादिकं वेदनीयमित्याशङ्क्यतत्सर्वमात्मतयव ज्ञातव्यमिति यदाम्नातम्‌ ‘‘इदं ब्रह्मेदं क्षत्त्रम’ इत्यादिना तदाह – -ब्रह्मक्षत्रादिभेदेनेयादिना॥ २०॥ २१ ॥ मायाविद्येति। विशुद्धसत्त्वप्रधाना प्रकृतिर्मायेश्वरोपाधिः। मलिनसत्त्वप्रधाना त्वविद्या जीवोपाधिः\। तमःशब्देन वियदादिभूतोपादाना तमःप्रधाना प्रकृतिरुच्यते ।मोहशब्देन कार्यभूतशुक्तिरूप्यादिविभ्रमोविवक्षितः । सर्वमाकवेत \। यटिंद अहमम्ततत्रादिक मयातत्कायजातमनुक्रान्तं तत्सवैमात्मेव न तते।इति रिक्तम्। तत्सस्पड्थस्तलेन शुक्तरूप्यादिवदाधिष्टानादन्‍यलेन निवेक्तुमशक्यलात्‌। अन्यवुद्धिहीति । अद्मक्षत्रीदजगतः प्रत्यगामनश्च या भेदबुद्धिः सा संसारहेतुः “‘द्वितीयद्र सयं भवति!" इत्यादिश्वतरिव्यर्थः॥ २२ ॥ तस्मादद्विनीयब्रह्मात्मवद्यैव निःशेषदःखोच्छित्तिनिरतिशयानन्दावाप्तिलक्षणाया मुक्तेःसाधनमित्याह–निर्विकल्प इति । निविकस्पे निरस्तसमस्तोपाधिके सत्यज्ञानानन्तानन्दैकरसे विकारजतिभ्यःपरे ब्रह्मणि

सा हि संसारविच्छित्तिर्नापरा पुरुषाधिका॥ २२ ॥

प्रतीतमविशेषेण सकलंब्रह्म यः पुमान्‌।

वेदतं शिरसा नियं प्रणमामि जगद्गुरुम्‌॥ २४ ॥

वेदा बहूमुखा भान्ति स्मृतयश्च तथैव च।

पुराणानि समस्तानि बद्धार्हाद्यागमान्तराः॥ २५ ॥

शैवाश्चवैष्णवाश्चैव मदुक्ता आगमा अपि।

अपभ्रंशाः समस्ताश्च केवलंलौकिकी मतिः॥ २६॥

तर्काश्चविविधाः सूक्ष्माः स्थूलाश्चसकला अपि।

परस्परविरोधेन प्रभान्ति सकलात्मनाम्‌॥ २७ ॥

तेषामेवाविरोधे तुकालोयाति च धीमताम्‌।

कथंचित्कालसद्भावेऽप्यविरोधो न सिध्यति॥ २८ ॥

अतः सर्वं परित्यज्यमनसो मलकारणम्‌।

__________________________________
श्रबणादिसाधनजनितया तद्गोचरया विद्यया तदावरणाविद्यानिवृत्तौसत्यां विषयान्तराभावेन विक्षेपवासनारहितायाश्चित्तवृत्तेस्तत्र प्रत्युग्रूपे ब्रह्मणि यो विश्रम उपरमः स ह्युदीरितलक्षणो मोक्ष इत्यर्थः॥ २३॥ ज्ञानिनः प्रभावमाह—प्रतीतमिति॥२४॥ नन्वेवंविधमद्वितीयब्रह्मात्मविज्ञानं किमिति न सर्वत्र सुलभमिति तत्कारणमाह – वेदा इति। परस्पराविरोधिनेति \। “यावज्जी वमग्निहोत्रं जुहुयात्‌“न कर्मणा न प्रजया धनेन’’ द्वासुपर्णासयुजा सखाया” “एको देवः सर्वभूतेषु गूढः" इत्येवं परस्परविरुद्धार्थप्रतिपादकत्वेन श्रुतिस्मृतिपुराणादयः सर्वेषामविशेषतः प्रतिभासन्ते ॥२५—२७॥ धीमतां विदुषामपि तेषांश्रुतिस्मृतिपुराणादीनामविरोधे परस्परविरोधपरिहारे कर्तव्ये सति तादर्थ्येन सर्वमायुरपगच्छति। कथंचित्सद्धावेऽप्यविरोधो न सिध्यति। ततच्छास्त्रपरिशीलन एव बुद्धेरुपक्षीणत्वादित्यर्थः। एतेन “अस्य महतो भूतस्य निःश्वसितमेतदृग्वेदो यजुर्वेदः’” इत्यादिश्रुतेस्तात्पर्यं वर्णितं भवति॥ २८ ॥

ष्यते चिताऽवशेषश्चन तस्य तत्त्वतः॥ ५५॥

निष्ठा तस्य महात्मनः सुरवरा वक्तुंमया शक्यते

न प्रौढेन शिवेन वा मुनिगणैर्नारायणेनापि च।

वेदेनापि पुरातनेन परया शक्त्या परेणाथ वा

मूकीभावमुपैति तत्र विदुषां निष्ठा हि तादृग्विधा॥ ५६॥

सर्वमुक्तमिति वः सुरर्षभाः केवलेन करुणाबलेन च।

वेद एव सकलार्थबोधकः शेष एव वचनं च तस्य मे। ५७।

इति श्रीसूतसंहितायां यज्ञवैभवखण्डस्योपरिभिगे बह्मगीता-

सु वस्तुस्वरूपविचारो नाम नवमोऽध्यायः॥ ९॥

अथ दशमोऽध्यायः।

१०.आत्मनोब्रह्मत्वप्रतिपादनम्।

अबह्मोवाच—

अस्ति सर्वान्तरः साक्षी प्रत्यगात्मा स्वयंप्रभः।

____________________________________________________________

ष्यते चिन्मात्ररूपेणैव केवलंविद्वानवतिष्ठते। तस्यचिद्रूपस्य परमार्थतोऽवशिष्टत्वमपि न संभवति। अवशेषप्रतियोगिनोऽन्यस्य कस्यचिदप्यभावादित्यर्थः॥५५— ५७॥

इति श्रीसूतसंहितातात्पर्यदीपिकायां यज्ञवैभवखण्डस्योपरिभागे ब्रह्मगीतासु
वस्तुस्वरूपविचारो नाम नवमोऽध्यायः॥ ९॥

एवमद्वितीयात्मविज्ञानं निःश्रेयसमाधनमित्युक्तं। स चाऽऽत्मा किंरूप इत्येतत्सविशेषं प्रतिपादयितुमुपस्तब्राह्यणं संगृह्णाति।अस्ति सर्वान्तर इत्यादिना। तत्र हि याज्ञवल्क्यं प्रत्युषस्तप्रश्नएवमाम्नायते —“यत्साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तरस्तं मे व्याचक्ष्व’’ इति। अस्य च प्रश्नस्यएषत आत्मेत्यभिनयेन स्वानुभवगम्यात्मविषयं प्रतिवचनमुपन्यस्तम्‌। एवंप्रश्नप्रतिवचनाभ्यां

तदेव ब्रह्म संपूर्णमपरोक्षतमं सुराः॥ १॥

प्राणापानादिभेदस्य यः सत्तास्फुरणप्रदः।

यस्य संनिधिमात्रेण चेष्टते सकलं सुराः॥ २॥

यश्च सर्वस्य चेष्टायामसक्तो निष्क्रियः स्वयम्‌।

स हि सर्वान्तरः साक्षादात्मा नान्यः सुरर्षभाः॥ ३॥

योऽयं सर्वान्तरः स्वात्मा सोऽहमर्थाोन विग्रहः।

दृश्यत्वादस्य देहस्य द्रष्टा योऽस्य स एव सः॥ ४॥ ।

योऽयं सर्वान्तरः स्वात्मा सोऽयं न प्राणपूर्वकः।

_______________________________________________________

सिद्धोऽर्थः संगृह्यते। अस्ति सर्वान्तर इति। सर्वान्तरः सर्वस्मात्कारणसंघातादभ्यन्तरः। साक्षी साक्षादव्यवघानेन सर्वस्य द्रष्टा।सोपाधिकस्य ह्यापेक्षिकमान्तरत्वमन्तःकरणवृत्तिव्यवधानेनैव द्रष्टूत्बम्‌। यस्तु सर्वान्तरो निरुपाधिकः साक्षादीक्षणात्साक्षो स्वयंप्रकाशमानश्चस सर्वप्रत्यम्भूत आत्मा तदेवाऽऽत्मतत्त्वं श्रुतिप्रसिद्धमपरोक्षतमं स्वयंप्रकाशमानमपरिच्छिन्नं ब्रह्म। नानयोर्भेदो विद्यत इत्यर्थः॥१॥ “एष त आन्मा’‘इत्यभिनयेन निरुपाधिकमात्मस्वरूपमपदिष्टमप्यजानानस्योपस्तस्य बोधनाय “यः प्राणेन प्राणिति" इत्यादिना श्रुतौयत्तटस्थलक्षणमाम्नातं तन्संगृह्णाति— प्राणापानादिभेदस्येते। भेदेन प्रतिभासमानस्य प्राणःप्रनादिकायकारणसंघातस्य दारयन्त्रवव्छभावतोऽचेतनस्य यदधिप्रानवशात्सत्तास्फुरण भवतस्तन्च प्राणापानादिक सवं यत्संनिधिमत्रेण प्राणापानादचष्टवद्रवलययरकःन्तसंनंहितायवत्‌॥ २॥ यश्चेति। तस्य सर्वस्य कार्यकारणसंघरातस्य सत्यमपि प्राणापानादिरूपायां चेष्टायां यो निरुपाधिकश्चिन्मात्ररूप आत्मा स्वयमविक्रियः संस्तत्कृतैःपुण्यपापादिभिर्न सज्जते स खलु प्रागुदीरितःसर्वान्तरत्वादिलक्षण आत्मेत्यर्थः॥ ३॥ यो योऽयमित्यादि। “अहं ब्रह्मास्मि” इत्यादौप्रत्यगर्थवाचिनोऽहमित्यरमच्छब्दस्य सर्वान्तरः सर्वप्रत्यग्भूत उदीरित आत्मैव मुख्योऽर्थः। न तु षाट्कौशिकंस्थूलशरीरम्‌। घटादिवदचेतनत्वेन तस्य दृश्यत्वात्‌। अस्य च स्थूलदेहस्य

दृश्यत्वात्प्राणपूर्वस्य द्रष्टा योऽस्य स एव सः॥ ५॥

दृष्टेर्द्रष्टाश्रुतेः श्रोता मतेर्मन्ता च यः सुराः।

वि

ज्ञातेरपि विज्ञाता स हि सर्वान्तरः परः॥ ६॥

अतोऽन्यदार्तं सकलं न सत्यं तु निरूपणे।

स एव सर्वं नैवान्यदिति सम्यङ्निरूपणे॥ ७॥

यथा पृथिव्यामोतं च प्रोतं च सकलं सुराः।

_____________________________________________________

यो द्रष्टा स एव सर्वान्तर आत्मेत्यर्थः॥४॥ एवं स्थूलशरीरादात्मन आन्तरत्वं प्रतिपाद्य लिङ्गशरीरादपि तत्प्रतिपादयति— योऽयमिति। न प्राणपूर्वकंइति। प्रणापानाद्याः पञ्च वायवो धीकर्मेन्द्रियाणि दश बुद्धिमनसी चेत्येवं सप्तदशात्मको यः सूक्ष्मदेहः सोऽपि नाऽऽत्मा। तस्यापि भूतकार्यत्वेन दृश्यत्वात्‌। तत्कार्यमेवं च शिवमाहात्म्यखण्डे प्रतिपादितम्‌। एवं कार्मकारणसंघातस्य यो द्रष्टा स सर्वान्तर आत्मेति ताटस्थ्येन निरुपाधिकस्वरूपं लक्षितम्‌॥ ५॥ “न हि दृष्टेर्द्रष्टारं पश्येत्‌” इत्यादिना श्रतौ साक्षादेव तत्स्वरूपं शृङ्गग्राहिकया स्वप्रकाशचिदात्मक लक्षितं तत्संगृह्माति— दृष्टेर्द्रष्टेति रूपशब्दादिविषयसंप्रयुक्तचक्षुरादिद्वारा रूपाद्यपरागेण जायमाना स्वरूपचिच्छायानव्याप्ता बुद्धिवृत्तिर्द्दष्टिश्रुत्यादिपष्ट्यन्तपदैर्वक्षिता। दृष्टिश्रुत्यादयो ह्यनात्मभूतं रूपादिविषयजातमेव प्रकाशयन्ति न तु स्वात्मनश्चैतन्यप्रकाशेनव्याप्तारं रूपादिरहितं प्रयगात्मानम्‌। स खलुलौकिक्या दृष्टेर्द्रष्टा चैतन्यस्वरूपया स्वमवमूतया दृष्टया व्याप्तया कथं कर्मभूतया लछोकिक्या दृष्टया व्याप्यत। एवं श्रतेः श्रोतेत्यादावपि योजनीयम्‌। एवं बुद्धिवृत्तः प्रकाशकः स्वप्रकाश— चिदात्मा स एवोक्तविधः सर्वान्तरः परमात्मेत्यर्थः॥ ६॥ इत्थं सर्वान्तरमापमान स्वरूपतटस्थलक्षणाम्यामुपदिश्य तद्ब्यतिरिक्तस्य मिथ्यात्वमाम्नायते— ‘‘अतोऽन्यदार्तम्‌’ इति तदभिप्रायमाविष्करोति—अत इति। अतोऽस्मात्सर्वान्तरादात्मनोऽन्यद्यत्कार्यकारणादिकं भूतभौतिकं जगदस्ति तदार्तमधिष्ठानतया यथात्म्यज्ञानेन शुक्तिरूप्यवद्वाधितम्‌। अतस्तस्य व्यवहारदशायामेव स-

तथाऽप्सु सकलंदेवा ओतं प्रोतं न संशयः॥

आपश्च वायौहे देवा ओताः प्रोतास्तथैव च।

अन्तरिक्षेषु वायुश्च लोकेषु सुरपुङ्गवाः॥ ९॥

अन्तरिक्षाश्च लोकाश्चतथा गन्धर्वकेषु च।

लोकेष्वादित्यलोकेषु स्थिता गन्धर्वसंज्ञिताः॥ १०॥

चन्द्रलोकेषु चाऽऽदित्यलोका ओतास्तथैव च।

चन्द्रलोकाश्चनक्षत्रलोकेषु सुरपुङ्गवाः॥ ११ ॥

देवलोकेषु नक्षत्रलोका ओतास्तथैव च।

__________________________________________________________

त्यत्वम्‌। परमार्थनिरूपणे तु नैव तत्सत्यम्‌। किंतु सर्बान्तरे प्रत्यगात्मन्यध्यस्तत्वेन तत्रैव लीयमानमाधिष्ठानमात्रेणावशिष्यत इत्यर्थः॥ ७ ॥ एवमध्यात्मं प्रत्यगात्मनःसर्वान्तरत्वमुपदिश्याधिभूतमपि तदुपदेष्टुंगार्गीब्राह्मणं संगृह्णाति– यथा पृथिव्यामित्यादिना \। तत्र हि सवोन्तरस्याऽऽत्मनो निरतिशयं सूक्ष्मत् व्यापित्वं च दशयितुं प्रथिव्यादीनां ब्रह्मलोकान्तानामुत्तरोत्तरमोतप्रोतभावेन सूक्ष्मताव्यापिव्वेन तरतमभावेनाऽऽम्नायतं “यदिदं सवमोतं च प्रोतं च’’ इत्यादिना। यथा तन्तुषु पटो दीर्घसूत्रैस्वियेकमूत्रश्चतप्रोतभाव्रेनावस्थितस्तथा पाधिव सवं जगत्क.रणभूतायां सूक्ष्मायां व्यापिकायां प्रथिव्यामोतप्रोतभावेनावस्थितं यथेतरे तथा तत्सवं पृधिवरीतच्चं कारणमूतास्वप्छोतप्रोतमव्रेनवस्थितम्‌ \। एवमुत्तरत्र पि योज्यम ॥ ८ ॥ आपश्च वायात्रिति \। नन्वपामश्निः कारणम्‌ “ अग्नेरापः" इति श्रुतः । तथा चाऽऽपोऽग्नाविति वक्तयम्‌ । नैषदोषः।अग्नेः पार्थिवंकयव्यं वा धातुमनाश्रियेतरभूतवत्स्वालन्त्र्येणावस्थानं नास्तीति तत्कारणभूते वायापावपमोतप्रोतभावो व्यपादस्यते ॥ ९ ॥ अन्तरिक्षेषु वायुश्चेत्यादि । अन्तारिक्षलोकानां वायोः संचरणस्थानत्वात्स तत्रोतप्रोतभावेनावस्थितः। सूक्ष्मतारतम्यभावक्रेमणोत्तरोत्तरं सातिशयमभोगश्रायाकारेण परिणतानि संहतानि पञ्चभूतान्येवावस्थानविशेषैस्तत्तल्लोकत्वेन व्यपदिश्यते। अत एव

देवलोकाश्चहे देवा इन्द्रलोकेषु संस्थिताः॥ १२॥

प्राजापत्येषु लोकेषु स्थिता ऐन्द्राः सुरर्षभाः।

प्राजापत्यास्तथा लोका ब्रह्मलोकेषु संस्थिताः॥ १३ ॥

विष्णुलोकेषु हेदेवा ब्रह्मलोकाः सुसंस्थिताः।

विष्णुलोकास्तथा ओता रुद्रलोकेषु हेसुराः॥ १४ ॥

रुद्रलोकाः स्थिता लोकेष्वीश्वरस्य सुरर्षभाः।

सदाशिवस्य लोकेषु स्थिता ह्यैशाः सुरर्षभाः॥ १५ ॥

ओताः प्रोताश्च ते लोका ब्रह्मसंज्ञे परे शिवे।

एवं सर्वे सदा साक्षिस्वरूपे प्रत्यगात्मनि॥ १६ ॥

सर्वान्तरतमे प्रोता ओता अध्यासतः स्थिताः॥ १७॥

सर्वाधिष्ठान(रूप)भूतस्तु प्रत्यगात्मा स्वयंप्रभः।

_________________________________________________

सर्वत्रान्तरिक्षलोकेषु गन्धर्वलोकेष्वित्येवमेकैकस्मिन्नपि लोकेबहुबचनप्रयोगः॥ १०—१२ ॥ प्राजापत्येष्विति। प्रजापतिः स्थूलशरीराभिभानी विराट्। तच्छरीरारम्भकाणि बैराजपदोपभोगसाधनानि पञ्च भृतानि प्राजापत्या लोकास्तेष्वित्यर्थः। प्राजापत्यास्तथेति। हिरण्यगर्भरूपापन्नेन ब्रह्मणा पञ्जीकृतानि ब्रह्माण्डारम्भकाणि तान्येव वियदादिभृतानि ब्रह्मलोकशब्देनोच्यन्ते।तेषु कारणभूतेषु कार्यभूताःप्राजापत्यलोका ओतप्रोतभावेनावस्थिता इत्यर्थः॥ १३—१६ ॥ अध्यासतः स्थिता इति। यथैवमेते सर्वे लोकाःस्वस्वव्यापकेष्वध्यासत एवावस्थिता अतोन वास्तवाः। एवमेव सर्वदाते सर्वे ब्रह्मलोकान्ताः स्वप्रतीत्यधिष्टानभूते सच्चिद्रूपे प्रत्यगात्मनि सर्वान्तरे मायावशेनोतप्रोतभावेनावस्थिताः। सर्वाधिष्ठानभूतस्तु प्रत्यगात्मा स्वव्यतिरक्तेकस्मिंश्चिदोतप्रोतभावेनावस्थितोन भवति किंतु स्वमहिमप्रतिष्ठः। पराधीनप्रकाशानां सद्विलक्षणानामेव सन्तास्फुरणसिद्धये तादृशे वस्तुन्योतप्रोतभावः। अयं तु स्वयंप्रभःस्वयंप्रकाशमानः" सत्स्वभावश्च कुतोऽन्यस्मिन्नाधार ओतप्रोतभावेना-

न कस्मिंश्चित्स्थितः साक्षी सत्स्वरूपः सुरर्षभाः॥ १८॥

यस्मिन्नध्यस्तरूपेण स्थितंसर्वं निरूपणे।

स एव सकलंनान्यदिति सम्यङ्निरूपणम्‌॥ १९

योऽयमात्मा स्वयं भाति सत्तयाऽन्यविवर्जितः।

स एव साक्षात्सर्वेषामन्तर्यामी न चापरः॥ २० ॥

पृथिव्यामपि यस्तिष्ठन्पृथिव्या अन्तरः सदा।

यं न वेद सुराः पृथ्वी शरीरं यस्य भूरपि॥ २१ ॥

योऽन्तरो यमयत्येतां भूमिं निष्क्रियरूपतः।

एष एव हि नः साक्षादन्तर्यामी परामृतः॥ २२ ॥

अप्सु तिष्ठन्नपां देवा अन्तरो यंन ता विदुः।

आपः शरीरं यस्यैता योऽन्तरो यमयत्यपः।

_____________________________________________________

वतिष्ठेतेत्यर्थः॥ १७ ॥ १८ ॥ एवंपृथिव्यादीनां ब्रह्मलोकान्तानां सर्वान्तरेप्रत्यगात्मन्यध्यस्ततया प्रतीतिं प्रतिपाद्य परमार्थतोऽधिष्ठानाव्यतिरिक्तत्वमाह–यस्मिन्निति॥ १९ ॥ एवं सर्वजगत्कल्पनास्पदत्वेनाऽऽत्मनःसर्वान्तरत्वमुपपाद्यान्तर्यामितयाऽपि तत्प्रतिपादयितुमन्तर्यामिब्राह्मणं संगृह्णाति–योऽयमात्मेत्यादिना। योऽयं सर्बान्तरः प्रागुदीरित आत्मा सत्स्वभावः स एव सर्वेषां हृद्यन्तरवस्थाय नियमनादन्तर्यामी। न तु प्रत्यगात्मनस्तस्मादन्यः कश्चिदित्यर्थः॥ २० ॥ श्रूतौह्यधिदैवतमधिभूतमध्यात्मं च तदुपादानत्वेनान्तरवस्थितो निरस्तसमस्तोपाधिकः प्रत्यगात्मा तत्तन्नियमनव्यापारयोगादन्तर्यामीत्याम्नातम् “यः पथिव्यां तिष्ठन्‌” इत्यादिना तच्छ्लोकी करोति—पृथिव्यामिति। यः करणभूत आत्मा पृथिव्यामभितस्तिष्ठन्भवति पृथिव्या बहिरवस्थितो न तां नियन्तुं शक्नोतीत्यभिप्रेत्य विशिनष्टि—पृथिव्या अन्तर इति । उपादानकारणत्वेनपृथिव्या अभ्यन्तरप्रदेशेऽपि व्याप्य वर्तमानत्वात्स पृथिव्या अन्तरः। एवमन्तर्वर्तमानं यं पृथिवी देवता न वेद ममाप्यन्यः कश्चिन्नियन्ता वर्तत

एष एव हि नः साक्षादन्तर्यामी परामृतः॥ २३॥

एवमग्नेश्च यो नेता चान्तरिक्षस्य हे सुराः॥ २४॥

वायुपूर्वस्य सर्वस्य चेतनाचेतनस्य च।

एष एव हि नः साक्षादन्तर्यामी परामृतः॥ २५ ॥

अदृष्टोऽयं सुरा द्रष्टा श्रोतैवायं तथाऽश्रुतः।

__________________________________________________________

इति। यस्य चैषा पृथिवी शरीरं शरीरवदाच्छादिका न ततोऽतिरिक्तं शरीरमस्ति। एवंभूतो यः परमात्मैतां भूमिमन्तरवस्थितः सन्नियमयति स्वव्यापारे प्रेरयत्येष एवान्तर्यामी। नन्वन्तर्यमनलक्षणव्यापारयोगात्तस्य विक्रियाप्रसक्तिरित्यत आह— निष्क्रियेति। यत्तस्य पारमार्थिकं निष्क्रियं रूपं तदपरित्यागेनैवोपाधिवशान्नियच्छतीत्यर्थः। ननु सोपाधिकत्वादयमप्यस्मदादिवत्कश्चिज्जीव एवेत्याशङ्क्याऽऽह– परामृत इति।अन्तर्यमनोपाधेरात्मीयत्वेनानभिमानात्साक्षादयमेव परामृतः। विकारजतेभ्यः परःसांसारिकदुःखाद्यसंस्पृष्टःपरमात्मेत्यर्थेः। अप्सु तिष्ठन्निति पयीयेऽप्येवं योज्यम्‌॥ २१– २३ ॥ एवं पर्यायद्वयं यथाश्रुति ग्रन्थायित्वा “योऽग्नौ तिष्ठन्‌" “योऽन्तरिक्षे तिष्ठन्‌" इत्येवमा-दीन्पर्यान्समानपाठत्वादतिदेदेन संगृह्णाति—एवमिति। वायुपूर्वस्येति। “यो वायो तिष्ठन्‌ इति निर्दिष्ट वायुः पूर्वोयस्य “दिवि तिष्ठन्‌”इत्यादिना निर्दिष्टस्य द्युप्रभृतेः स तथोक्तः।तस्य चेतनाचेतनात्मकस्य सर्वस्य कार्यप्रपञ्चस्ययो नेता स्वव्यापरिषु नियमेन प्रेरयितैप एवसर्वान्तरः प्रयोगत्मैवान्त्यैमनयोगादन्तर्यामी भवतीत्यर्थः॥ २४ ॥ २५॥ नन्विममन्तर्यामिण स्वात्मनि तिष्ठन्तमप्मदादिवत्पृथिव्यादिदेवता। अपि कस्मान्न विदुरेयत आह—अदृष्टोऽयमिति । रूपराहित्येन कस्यचिदपि चक्षुर्दर्शनस्यायमविषयइत्यदृष्ट। स्वयं तु चक्षुषिसंहिनित्वाद्दृशेस्वरूप इति द्रष्टा। तथा शब्दराहित्यात्कत्यात्कस्यचिदपि श्रोत्रविषयतामापन्न इत्यश्रुतः । सर्वश्रोत्रेषु संनिधानेनालुप्तश्रवणशक्तित्वाच्छ्रोता संकल्पविकल्पात्मकंमनस्तेनाविषयीकृतत्वादमतः स्वयमलुप्तमननशक्तिःसन्सर्वत्र मनत्सु संनिधानान्मन्ता निश्चयात्मिका बुद्धिर्विज्ञानं तत्रः

अमतश्च तथा मन्ता विज्ञाता केवलं सुराः॥ २६ ॥

रविसोमाग्निपूर्वेषु विनष्टेष्वयमास्तिकाः।

चित्तसाक्षितया भाति स्वप्रकाशेन केवलम्‌॥ २७ ॥

चित्तव्यापारनाशे तु तदभावं सुरर्षभाः।

स्वप्रकाशेन जानाति सुषुप्तौ देव तामपि॥ २८ ॥

_______________________________________________________

संनिधानात्केवलंविज्ञातैव न तु ते न विज्ञानेन विषयीकृत इत्यर्थः। एतेन “अदृष्टोद्रष्टाऽश्रुतःश्रोता”इति श्रुतेरर्थः संगृहीतः। एवमन्तर्यामिण एव द्रष्ठृश्रोतृमन्तृत्वादिरूपेण प्रतिपादनान्नियन्तव्यानां द्रष्टूप्रभृतीनामन्य एवनियन्तेति भेदभ्रमोव्युदस्तः।अत एव श्रूयेत “नान्योऽतोऽस्ति द्रष्टानान्योऽतोऽस्ति श्रोता”इत्यादि॥२६ ॥ नन्वन्तयामिणोऽप्यन्य एव जाग्रत्स्वप्नाद्यवस्थासुसुखदःखभोक्तारःसंसारिणो जीवा इत्याशङ्क्यतदनन्यत्वप्रातपादनाय षष्ठाध्यायगतं ज्योतिर्ब्राह्मणं संगृह्णाति—रविसोमेत्यादिना। ज्योतिब्राह्मणे हि जाग्रत्सप्तायवस्थासुतत्तदवस्थागतपदार्थैर्व्यवहारतोऽप्यस्पोक्तविधस्याऽऽत्मनस्तत्कृतपुण्य-पापादिसकलधर्माननुगमनमसङ्गंत्वं स्वयंज्योतिष्ठ्वादिनिरतिशयानन्दस्वाभाव्यमद्वितीयत्वं चेत्येतानि प्रतिपादितानि। तत्रावस्थात्रयसाक्षिण आत्मनः स्वथत्यातिप्रप्रतिपादनाय यदाम्नायत - “*अम्तामेत आदित याज्ञवल्क्य चन्द्रमस्यस्तमित शान्त्या शान्तायां वाच्च किंव्यातरत्रायं पुरुष इत्यात्मैवास्य ज्योतिभवति’’ इत्यादि तन्सगृह्णाति - रविस।मति । सूयोदिषु बाह्मज्यो,तःपु व्यावृतिष्वप्पत्मा स््रस्वरूपमूतचतन्यप्रका्ाधरत्तस्थान्तःकरणस्य साक्षितया स्वस्वरूपप्रक शनव सवद्‌। भाति नतु स्त्रप्रतिभान वाद्यं ज्योतिरपक्षत इत्यर्थः एनेन ज.ग्रदत्रस्था वणिता ॥ २७॥ चित्तव्यापारति। यदा तु स्वप्नावस्थायां चक्षुरादीन्द्रियाणामुपरतत्वाच्चित्तस्यापि बाह्यविषयव्यापारपरमः केवलंस्वप्नपदार्थकारपरिणामेनावस्थानम्‌। तदा स एवाऽऽत्मा प्रकाशान्तरनेरपेक्षेण स्वरूपचित्प्रकाशेनैव स्वप्नावस्थां जानाति। सुषप्तौवेदेति।यदा तु कारणभूते भावरूपाज्ञान इन्द्रियान्तरवच्चित्तमपि लीयते तदा सुषुप्तावस्था तदानीं केबलाज्ञानमयी तामप्यवस्थां स्वरूपचित्प्रकाशेनैवायमात्मा जानाति॥ २८ ॥

आविर्भावतिरोभावरहितस्तु स्वयंप्रभः।

भावाभावात्मकं सर्वं सदाऽयं वेद केवलः॥ २९.॥

भावाभावात्मना वेद्यं समस्तं सुरपुङ्गवाः।

वेत्तैवायं न चैवान्यदिति सम्यङ्निरूपणम्‌॥ ३० ॥

एवं द्वैतं विचारेण स्वात्मना वेद यः पुमान्‌।

स योगी सर्वदा द्वैतं पश्यन्नपि न पश्यति॥ ३१ ॥

द्रष्टुर्दृष्टेर्ननाशोऽस्ति दृश्यमेव विनश्यति।

_________________________________________________

अतस्तिसृष्ववस्थासु स्वयंप्रकाशमानश्चिदात्माऽऽविर्भावतिरोभावधर्मरहितः। अत एवसदा सर्वदा भावाभावात्मकं ज्ञाताज्ञातभेदेन द्विविधं सर्वं जगत्केवलो निरस्तसमस्तोपाधिकः स्वप्रकादशचिन्मात्ररूपोऽयमात्मा जानाति॥ २९ ॥ भावाभावात्मनेति। ज्ञाताज्ञातरूपेणत्यर्थः। उक्तं ह्याचार्यैः“सर्बं वस्तु ज्ञाताज्ञाततया साक्षिचैतन्यस्यविषय एव” इति। एवं रविसोमादिवाह्यप्रकाशनिरपेक्षत्वाज्जाग्रदाद्यवस्थासु स्वयंसर्वस्य भासकत्वादात्मनः स्थयंज्योतिष्ट्वं व्यावर्तमानास्ववस्थास्वनवरततरतम्नल्यतिकश्रयेतावरसिद्धमिति निगमयति— वतवते । वेत्ता वेदितेब केबल विद्यत न चान्यदरेद्यमम्ति तस्य परिकल्पितत्वेन मिथ्यात्वादित्यर्थः \।\। ३० ॥ “यद्वैतन्न पश्यति पश्यन्वै तन्न पश्यति" इत्याद्यां श्रुतिंव्याचष्टे एवं द्वैतमित्यादिना। एवमुक्तरीत्याऽवस्थात्रयसाक्षिणं ततो विविक्तं स्वयंज्योतिःस्वभावमेव तमात्मानं स्वात्मत्वेन यो जानाति स योगी सर्वदा स्वावस्थास प्रव्यन्नपि द्वैतं न परच्यतीन्यन्वयः । अयमर्थः । व्रिदुषः स्वव्यातिगिक्तिस्याविद्यातक्कार्यस्थ विद्यया निवर्तितत्वादसौ द्वैतं जगच्चक्षुरादीन्द्रि-यजनितविशेषविज्ञानेन पश्यति। अथापि स्वरूपज्ञानेन भासमान एवभवति॥३१ ॥ कुत इत्यत आह– द्रष्टुर्दृष्टेरिति। द्रष्टरात्मनश्चित्प्रकाशरूपा या दृष्टिस्तस्या नाशोनास्ति। यथाऽग्नेरौष्ण्यं यावदग्निभावि तथाऽविनाशिन आत्मनो दृष्टिरप्यविनाशिनी यावद्द्रव्यभाविनी। अतस्तस्या नाशाशङ्का न कार्येत्यर्थः। एतेन “न हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यतेऽविनाशित्वात्‌”? इत्येषा

तच्च द्वैतं दृशेर्दृश्यंनास्ति द्रष्टाऽस्ति केवलम्‌॥ ३२ ॥

एषाऽस्य परमा संपद्गतिश्च परमाऽस्य तु।

एषोऽस्य परमो लोक एतद्धिपरमं सुखम्‌॥ ३३ ॥

अहिनिर्ल्वयनीं मुक्तां यथाऽहिः स्वात्मना पुनः।

न पश्यति तथा विद्वान्न देहेऽहंमतिर्भवेत्‌॥ ३४ ॥

____________________________________________________________

श्रुतिर्व्याख्याता। ननु सा दृष्टिः सर्वदा विद्यते चेत्तयैव सर्वदा दृश्यजगत्प्रतिभासः कुतो नेत्यत आह—दृश्यमेवेति। हि यस्माद्दृश्यं दृग्बिषयं द्वैतं जगन्नपश्यति। अधिष्ठानयाथात्स्यज्ञानेन प्रतिपन्नोपाधौविलापितं भवति। अतो विषयाभावकृत एव विशेषाप्रतिभासो न तु चित्स्वरूपविपरिलोपकृत इत्यर्थः। अतस्तद्द्वैतं दृशेःप्रत्यगात्मस्वरूपप्रकाशेन प्रकाश्यं समााधिसुषुप्त्याद्यवस्थासु नैवास्ति।द्रष्टा चिदात्मैब केवलं विद्यते।एतेन “न तु तद्वितीयमस्ति”इत्यादिश्रुतिरुक्तार्थाभवति॥ ३२ ॥ एवमद्वितीयात्मज्ञाननिष्ठस्य यद्गत्यादीनां निरतिशयत्वमाम्नायते “एषाऽस्य परमा गतिः” इत्यादिना तत्संगृह्णाति—एषाऽस्येति। यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति सैषा ब्रह्मनिष्ठा परमा संपत्‌। इतरासां संपदां कृतकत्वेनानित्यत्वान्नित्याद्वितीयब्रह्मात्मनिष्ठैव विशिष्टा संपदित्यर्थः। तथैपैवास्य विदुषो गतिः परमा। ब्रह्मादिस्तम्बपर्यन्तास्त्वन्या गतयोऽविद्यापरिकाल्पितत्वादपरमा इत्यर्थः\। तथाऽस्य विदूष एषएव परमोलोकः।ये कर्मफलाश्रया लोकास्तेऽपरमाः। उदीरितब्रह्मात्मनिष्ठा तु स्वाभाविकत्वान केनचित्कर्मणा जायत इति निरतिशयत्वल्लोक्यमानत्वाच्च परमो लोक इत्यर्थः। एतदेव हि परमं सुखंयन्निरतिशयानन्दब्राह्मात्मभावेनावस्थानं तत्खलु नित्यत्वात्परमं वैषयिकमुखं ह्यनित्यत्वादपरमं तल्लेशभूतत्वादुपेक्षणीयमित्यर्थः॥ ३३ ॥ एवं ब्रह्मीभूतः पुरुषः पुनः कार्यकारणसंघातं नाऽऽत्मत्वनाभिमन्यत इत्येतत्सदृष्टान्तं श्रुत्याप्रतिपादितम्‌ “तद्यथाऽहिनिर्ल्वयनी वल्मीके मृता” इत्यादिना तत्संगृह्णाति–अहिनिर्ल्वयनीं मुक्तामिति। अहिनिर्ल्वयनी सर्पत्वक्‌। सर्पाश्रये वल्मीकादौनिर्मुक्तां तां त्वचंयथाऽहिः सर्पः पुनः स्वात्मभावेन न पश्यति ।एवं ब्रह्म विद्वानपि विविक्तं देहादिकं

सर्वाधारे स्वतःसिद्धे शिवसंज्ञे तुनिर्मले।

प्रत्यग्रूपे परानन्दे नेह नानाऽस्ति किंचन ॥ ३५ ॥

मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति।

तस्मादध्यस्तमज्ञानं तत्कार्यं चाऽऽत्मरूपतः ॥ ३६ ॥

एकधैव महायासाद्द्रष्टव्यो हि मुमुक्षुभिः।

अयमात्माऽप्रमेयश्च विरजश्च महान्धुवः॥ ३७ ॥

___________________________________________________

नकदाऽप्यात्मभावेनाभिमन्यत इत्यर्थः॥ ३४ ॥ अपि च ।देहाद्यात्मभावस्यभेदाधीनत्वात्तस्य चानिरूपणादित्यभिप्रेत्य तन्निषेधश्रुतिमुदाहरति—नेह नानाऽस्तीति। अत्रेहेति सप्तम्यन्तेन यन्निबेधाधिकरणत्वेन निर्दिष्टं तद्विवृणोति–सर्वाधार इति। यस्मादुक्तविधं ब्रह्मद्वैतजगत्प्रतिभासस्याधिष्ठानमतस्तदेव तन्निषेधस्यावधिरिति यदुक्तं द्वैतप्रपञ्चवत्तस्याप्यध्यस्तत्वशङ्कांवारयति–स्वतःसिद्ध इति। स्वत एव सिद्ध न पुनरधिष्ठानान्तरेऽध्यस्तत्वेनान्यार्धी नसत्ताकमिति यावत्‌ ।निमे इति मायाया व्युदास; । एवंभूते शिवसंज्ञे प्रत्यग्रपेणावस्थितेऽस्मिन्नात्मनि पृथग्भुते किमपि वस्तु परमार्थतो नास्तीत्यर्थः॥ ३५ ॥
श्रुत्युक्त विपक्षे बाधकमुदाहरति–मृदयोरिति । योऽरिमन्भरयगारमभाबेनावस्थिते ब्रह्मणि भेदं परयलयदमन्योऽन्यज्नगदीश्चरयादि कामिति सोऽयमविद्यावशीकृतः सन्म्रत्योमेरणात्पुनसेत्युं मरणं प्राति पुनः पुनजौयमानो म्रियमाणश्च भ्रवतीतत्यर्थः\। अत उक्तविधमद्वितीयात्मदर्शनमेव प्रशस्तमिति निगमयति- तस्मादिति ।यदेवं पारमार्थिको भदो नास्तितस्मादृक्षानं तत्कार्यं च वियदादिभूतमौतिकं जगश्च सव॑मादितीये ब्रह्मण्यध्यस्तम्‌। अतश्चेदं सर्वमधिष्ठानात्मरूपेणैकप्रकारेणैब द्रष्टव्यम्‌।यस्मादेकधैवेत्ययमुत्तरशेषः॥ ३६ ॥ एवं ह्याम्नातम्‌–“ एकधैवानुद्रष्टव्यमेतदप्रमेयमजं ध्रुवम्‌इति।तस्यायमर्थः।एकधैवैकेनैव प्रकारेण विज्ञानधनैकरसत्वलक्षणेनायमात्मा मुमुक्षुभिर्महायासाद्द्रष्टव्यः। शान्तिदान्त्यादि-

तमेव धीरो विज्ञाय प्रज्ञां कुवीत ब्राह्मणः ।

नानुध्यायाद्बहूञ्शब्दान्वाचो बिग्लापनं हि तत्‌ ॥ ३८ ॥

स वा एप महानात्मा जन्मनाशावेवर्जितः ।

वशी सवस्य लोकस्य सर्वस्येश्चान एव च ॥ ३९ ॥

_________________________________________________________

लक्षणसाधनकडापानुष्ठानजनित महायासं प्राप्याऽऽत्मसाक्षत्कारः संपादनीयः। महायासादिति कर्मणि ल्यब्लोपिपञ्चमी। ननु दृग्रूप आत्मा चेद्द्रष्टव्यस्तर्हिदृशिकर्मत्वाद्धटवत्तस्य दश्यत्वंस्यादियत आह–अग्रमेयश्वेति। अन्यत्खल्वन्येन प्रमीयते । अद्धितीयस्त्वात्मा कथमन्येन प्रमेय! स्यादतः स्वविषयतसाक्षात्कारे संजाते सति स्वरूपभ्रकाशेनेव प्रकाशत इति भवत्यसावप्रमेय; \। विरजश्वेति रजो नाम धमाधमादिमं तद्रदित! । महान्सवेकारणत्वेन सवेभ्यापी । घव; कूटस्थनिलय; ॥ ३७ ॥ तमेव धीर’ इति मन्त्र संगृहातितमेवेति । तथुक्तविधम।त्मानमेव धीरो घीमानुपदेशत; शाखतश्च विज्ञाय पुनस्ताद्विषयां साक्षात्काररूपिणीं प्रज्ञां कुर्वीति । न रूट्वपरोक्ष भ्रमपराक्षज्ञानेन निवतेत इति भावः।एबमात्मविद्नात्मतिषयन्बहून्शब्दाज्ञानुध्यायान्नानुचिन्तयेत्‌। ध्यायतेर्लवट्याडागम\। कत इयत आह—वाच इति । हि यर्मात्त द्वहुशब्दानुचिन्तन वाचो विग्लापन वागिन्द्रियस्य विशेषण ग्लानिकर॑तस्मादितल्यथे; ॥ ३८ ॥ उत्तवक्ष्यमाणकृत्ल्लोपनिषत्प्रतिपादनपरा ‹स वा एष महानज आत्मा इयादिका येय कण्डिका समान्नता तां संगहाति—खवा एष इति । तत्र तावहेधस्वरूपं प्रतिपाद्यते । स पूर्वोक्तो जगत्कारणभूत एष हृन्मध्येऽवरस्थितो योऽयं महानपरिच्छिन्न आत्मा जन्मनाश्चा-दिसकलसांसारिकभावविकार रहित) स एव सवस्य नदयन्द्रादिजनस्य वश्ची सर्वो क्ष्य वशे वर्तते ।आंम्रायते हि– ‘भीषास्माद्रातः पवत ।भीषोदेति सूर्यः? इयादि । न केवलंवशी । तस्य च ब्रह्मादिस्तम्बन्तस्यसर्वेस्थेशान ईशिता भवति ॥ ३९॥ तत्रशानत्वंनिरङ्कुशमित्याह– सवेस्याधिप-

सर्वस्याधिपतिः शुद्धो नभूयान्साधुकर्मणा।

कर्मणाऽसाधुना नैव कनीयान्सुरपुङ्गवाः॥ ४० ॥

एष सर्वेश्वरः साक्षाद्भूताधिपतिरेव च।

भूतपालश्चलोकानामसंभेदाय हे सुराः॥ ४१ ॥

एष सेतुर्विधरणस्तमेव ब्राह्मणोत्तमाः।

वेदानुवचनेनापि यज्ञेन सकलेन च॥ ४२ ॥

_________________________________________________

तिरिति।अधिपतिरधिष्ठाय पालयिता।स्वतन्त्र इत्यर्थः। यो ह्यधिष्ठाय पालयति स ईष्टे यश्चेशानः स वशी भवेत्येवं त्रयाणां विशेषणानामुत्तरोत्तरस्य पूर्वपूर्वहेतुत्वं द्रष्टव्यम्‌।यतोऽयमात्मा शुद्धोऽनाधेयातिशयस्वरूपः। अतःसाधुना शास्त्रविहितेनाग्निहोत्रादिकर्मणा न भूयान्भवति। पूर्वाबस्थातःकेनचिद्धर्मेणोपवितो न भवतीत्यर्थः। तथाऽसाधुना शास्त्रप्रतिषिद्धेन ब्रह्महननादिना कनीयानल्परतरोऽपि न भवति।पूर्वावस्थातो नहीयत इत्यर्थः।कर्मवशीकृतस्य ह्यात्मनः साध्वसाधुकर्मजन्यातिशयभाक्त्वं सभमवति। एष तु निरुपाधिक आत्मा सर्वेश्वरः कर्मसहितस्य सर्वस्थ जगत ईशनशीलः।अतस्तत्परतन्त्रे साध्वसाधुकर्मणी तस्मिन्नुपचयापचयलक्षणं विकारं जनयितुं न प्रभवत इत्यर्थः॥ ४० ॥ तथा साक्षादेष एवं प्रत्यगात्मा ब्रह्मादिस्तम्बान्तानां सर्वेषां भूतानामधिपतिः। तथा तानि भूतानि पालयतीति भूतपालः। लोकानां भूरादीनां ब्रह्मलोकान्तानामसंभेदाय तत्तन्मर्यादायाः संभेदोऽतिक्रमो मा भूदित्येतदर्थम्‌॥४१॥ एष एवाऽऽत्मा विधरणो वर्णाश्रमादिव्यवस्थाया विधारयिता सन्सेतुर्भवति। यथा लौकिकः सेतुरसंभेदहेतुस्तद्वदयं भवतीत्यर्थः। अयं भावः। तत्प्रणीतश्रुतिस्मृत्युक्तमार्गं योऽनुतिष्ठति तज्जन्यसुकृतेन संसारार्णवं संतारयतीति सेतुः।एवं वेद्यस्वरूपं प्रतिपाद्य तद्विद्योत्पत्तौ बेदानुवचनादेर्यत्साधनत्वमाम्नातम्‌– तमेतं वेदानुवचनेन’। इत्यादि तत्संगृह्णाति–तमेवेति।मन्त्रव्राह्मणात्मकस्य कृत्स्नस्य . बेदस्य

दानेन तपसा देवास्तथैवानशनेन च।

वेत्तुमिच्छति यो विद्वान्स मुनिर्नेतरो जनः॥ ४३ ॥

नेति नेतीति निष्कृष्टो य एष सर्वसाधकः।

सोऽयमात्मा सदा ग्राह्यस्वरूपो न हि गृह्यते॥ ४४ ॥

______________________________________________________

यन्नित्यस्वाध्यायलक्षणमनुवचनं तेन।तथा तत्प्रतिपाद्येन नित्यनैमित्तिकरूपेण यज्ञेनाग्निहोत्रादिना ॥ ४२ ॥ दानेन श्रुतिस्मृतिपुराणविहितेन तुलापुरुषादिना। तथाऽनशनरूपेण तपसान तु कृच्छ्रचान्द्रायणादिना। अत्रानशनशब्देन कामानशनं विवक्षितं न तु भोजननिवृत्तिः।तथा सति जीवनलोपप्रसङ्गेन विद्यानुत्पत्तिप्रसङ्गात्। एवमेतैर्वेदानुवचनादिभिस्तमुक्तविधमात्मानमेव यो वेत्तुंवेदितुं ज्ञातुमिच्छति।अत्र तृतीयाश्रुत्याऽन्तःकरणशुद्धिद्वारा वेदानुवचनादीनां विविदिषासाधनत्वमुपन्यस्तम्‌।स चोत्पन्नविविदिषः पुनर्वक्ष्यमाणैःशान्तिदान्त्यादिभिः श्रवणादिभिश्चोत्पन्नया विद्यया तमुदीरितरूपमात्मानं साक्षात्कुर्वन्नेवमननधर्मयोगान्मुनिर्योगी भवति।न त्वितरोऽनात्मज्ञो जनः।तस्य ह्यनात्मविषये सत्यपि मनने कर्मसंबन्धात्कर्मित्वमेव न मुनित्वम्‌। आत्मवित्त कृतकर्तव्यत्वात्कवलंमुनिरेव ।अनेन च ‘एतमेव विदित्वा मुनिर्भवति’इति श्रोतमवधारणं व्याख्यातं भवति \।\। १३ ॥ सर्वस्य वशी सर्वस्येशनइत्यादिना विधिमुखेन प्रतिपादितस्याऽऽत्मतत्त्वस्य सोपाधिकत्वशङ्का मा भूदित्यधुव्यातिरेकमुखेन यदवाड्मनसगम्यं स्वरूपं प्रतिपादितम्‌ “स एषनेति नेत्यात्मा इत्यादिश्रुत्या तत्संगृह्णाति–नेति नेतीति।इदमर्थवाचिनेतिशब्देन संनिहितंदृश्यं परामृश्यते। वीप्सया च तस्य सर्वस्य निषेधः। तदयमर्थः–यदिदं दृश्यं द्वैतजातमस्ति तत्सर्वंनेति नेतीति बिलाप्य सर्वनिषेधावधिभूतो योऽयं निष्कृष्टो निरस्तसमस्तोपाधिक आत्मा स एष सर्वसाधकः। अविद्याकर्मादिसर्वव्य वहारनिप्पादकः। नातोऽन्यः कश्चित्कर्ताभोक्ता परमार्थतो विद्यत इत्यर्थः।

तथाऽशीर्यस्वभावश्चहे देवा नैव शीर्यते।

असङ्गरूपो भगवान्सर्वदा न हि सज्जते॥ ४५॥ `

एषनित्यो महिमा ब्राह्मणस्य

न वर्धते कर्मणा नो कनीयान्‌।

तस्यैव स्यात्पदवित्तं विदित्वा

न लिप्यते कर्मणा पापकेन॥ ४६ ॥

___________________________________________________________________

तस्य च सर्वनिषेधावधिभूतस्याऽऽमनः स्वाभाविकं रूपमाह–सोऽयमिति।योऽयमुदीरितरूपः प्रत्यगात्मा सर्वदा हस्तपादादिभिरिन्द्रियैरग्राह्यस्वभावः। न ह्यसौ केनचिदिन्द्रियेण गृह्यते। इन्द्रियाणां रूपादिमद्वस्तुविषयत्वात्‌॥ ४४ ॥ तथाऽयमात्माऽध्यस्तप्रपञ्चवद्विशरणशीलस्वरूपोऽपि न भवति। न खल्वसौशीर्यते। निरवयवत्वेन विशरणासंभवात्‌।अतो दृश्यनिषेधात्रधिभूतं तत्तत्त्वंसर्वदा बाधविधुरस्वरूपमित्यर्थः। ननूपगमापगमधर्मवतो दृश्यस्य संपर्कवशात्तदधिष्ठानस्याऽऽत्मनोऽपि विकारःकिं न स्यादित्यत आह –असङ्गरूप इति\। पद्मपत्रवन्निर्लेपस्वरूपः। न ह्यसौ क्वचित्सज्जत आत्मीयत्वेन क्वचिदप्यभिमानाभावात्‌।आसक्तिहेतोर्दृश्यस्य च मिथ्याभूतस्य परमार्थतयाऽऽसखकत्वासंभवात्‌।न हि मरुमरीचिकाजलैर्मरुभूमिरार्द्रीक्रियत इति भावः॥ ४५ ॥ “‘तदेतदृचाऽभ्युक्तम् इति श्रुत्या प्रतिपादितार्थसंवादित्वेनीदाहृतमृङ्मन्त्रं संगृह्णति-एष नित्य इति \। स एप नेति नेत्यात्मोत श्रुत्याऽतद्वयावृत्तिमुखेन यदात्मनः स्वरूप॑ प्रतिपादितमेष एव ब्राह्मणस्य ब्रह्मविदो नित्यो महिमा अन्ये तु महिमानः कर्मकृतत्वादनित्याः। अयं तु स्वाभाविकत्वान्नित्य इत्यर्थः। कुत इत्यत आह-न वर्धत इति\। पुण्यपापरूपेण द्विविधेन कर्मणा वृद्ध्यवृद्धिलक्षणां विक्रियां न प्राप्नोति। विकारहेतुसङ्गविरहस्य प्रतिपादितत्वात्‌।अतो निर्विकारत्वादेष एवनित्यो महिमेत्यर्थः।तथा च तस्यैव महिन्मः

तस्माद्ब्रह्मज्ञानलाभाय विद्वान्‌

शान्तो दन्तः सत्यवादी भवेच्च।

कर्मत्यागी सर्ववेदान्तसिद्धं

विद्याहेतुं सततं त्वभ्युपेयात्‌॥ ४७ ॥

त्रिपुण्ड्रमुद्धूलनमास्तिकोत्तमाः

सदाऽऽचरेच्छंकरवेदने रतः।

शिवादिशब्दं च जपेद्विशेषतः

प्रपूजयेद्भक्तिपुरःसरं हरम्‌॥ ४८ ॥

___________________________________________________________

पदवित्स्यात्‌। पद्यते गम्यते ज्ञायत इति पदं स्वरूपं तस्य पदस्य वेदिताभवेदित्यर्थः। तद्वेदनस्य फलमाह –तं विदित्वेति। तं नित्यमहिमरूपमात्मानं साक्षात्कृत्यविद्वान्पापकेन कर्मणा न लिप्यते। अत्र पापशब्देन पापवत्पुण्यस्यापि संसारहेतुत्वात्तदुभयं विवक्षितम्‌। अतः संसारहतुभूतेन पुण्यपापरूपेण द्विविधेन कर्मणा न लेपो विदुषो विद्यया निवर्त्यंत इत्यर्थः॥ ४६ ॥ तत्र विद्योत्पतौबहिरङ्गसाधनानि वेदानुवचनादीनि प्राग्दर्शितानि । अथ तस्मदेवंविच्छान्तो दान्त इत्यादिश्रतिप्रतिपादितान्यन्तरङ्गसाधनानि दर्शयति- तस्मादिति । यस्मादद्वितीयात्मविज्ञानस्येदृग्विधं फलं तस्मात्तल्लाभायशान्त्यादिगुणयुक्तोभवेत्‌।तत्र शान्तो बाह्यन्द्रियव्यापारादुपरतः ।दन्तो मानसविषयद्ष्णाभ्यो निषृत्तः । सत्यवादीति ।एतश्च सत्यवदनं कृत्स्नयोगाङ्गोपलक्षणम्‌ । कर्मत्यागीति भ्रतिगतोपरतपदस्य व्याख्यानम्‌ । लोकान्तरसाधनानि विद्याया विरोधीनि यानि कमोणि तत्त्यागी भूत्वेत्यर्थः।सर्ववेदान्तसिद्धमिति । श्रोतव्यो मन्तव्य इत्यादिवेदान्तप्रतिपादितं श्रवणमननादिकं विद्याहेतुं निरन्तरमुपगच्छेदिर्थः॥ ४७ ॥ तथा जाबालोपनिषदादिषु प्रतिपादितं त्रिपुण्ड्रधारणादिकमपि शिवप्रीतिकरत्वेन परविद्योत्पत्तावन्तरङ्गसाधनमित्याह–त्रिपुण्ड्रमिति॥ ४८ ॥ साधनैःसकलैरित्यादि ।

साधनैःसकलैः सहितः सुरा

वेदनेन समस्तमिदं जगत्‌।

देवरूपतयैव तु निश्चितं

वेद हस्ततलस्थितबिल्ववत्‌॥ ७९॥

नैनं पाप्मा तरति ब्रह्मनिष्ठं

सर्वं पापं तरति प्राकृतं च।

नैनं पाप्मा तपति ब्रह्मनिष्ठं

सर्वं पापं तरति प्राकृतं च ॥ ५०॥

______________________________________________________

वेदानुवचनादिभिः शान्तिदान्त्यादिभिः श्रवणमननादिभिश्चेत्यर्थः। हस्ततलेति।हस्ततलस्थितबिल्वफलवत्सर्वस्य दृश्यजातस्यपरशिवस्वरूपत्वमापरोक्ष्येण यो बेद जानाति ॥ ४९ ॥ तस्य कि भवतीत्येतत्प्रतिपादयति— नैनमिति । एवं सम्यरज्ञानिन पाप्मा पुण्यपापलक्षणो न तरति नातिक्रामति स एव त्रह्मविद्धवपरंपरोपभोग्यफल तत्सवं पुण्यपापमतिक्रःमति \। तथा यच्चान्यत्पाकृतं मायामयं कायजातमस्ति तत्सवेमतिक्रामति \। एवं हि श्रूयते—‘एतमु हेवेते न तरत इत्यत; पापमकरवमित्यतः कल्याणमकरबमित्युभे उ हैवैष एते तरति नैनं कृताकृते तपतः” इति \। तत्र च कृताकृतयोरुभयोरपि पृण्यपापयोस्तरणीयत्वमतापक्खं च प्रतिपादितम्‌ । अतोऽत्रापि पापग्रहणमुभयोरुपलक्षणाथ द्रष्टव्यम्‌ । नेन पाप्मा तरतीति भ्रति व्याख्याय नेन पाप्मा तपतीत्यत्तापकत्वप्रतिपादिकां श्रतिममि सयृह्वति- नैनमिति \। ऋताकृतछक्षण; पुण्यपापरूपः पाप्मन ब्रह्मविदं न तपति ।ब्रह्मविदेवाऽऽत्मज्ञानाग्निनासर्वंनिर्दहति । कृताकतयोःपुण्यपापयोरतापकत्वं तैतिरीयकेऽप्याम्नातम्‌ – ’ एतँ ह वाव न तपति किमहं साधु नाकरवं किमहं पापमकरवम्‌’ इति। तथा गीतास्वात्मज्ञानस्य कृत्स्नपापनिर्दाहकत्वं भगवताप्युक्तम्‌—‘यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन। ज्ञानाग्निःसर्वकर्माणि भस्मसात्कुरुते तथा॥

इत्थं ब्रह्म स्वात्मभूतं विदित्वा

श्रद्धापूर्वंदेहमेतं स्वकीयम्‌।

अर्थं सर्वंक्षेत्रजातं समस्तं

दद्यादस्मै देशिकेन्द्राय मर्त्यः॥ ५१ ॥

यश्चाऽऽतृणत्त्यवितथेन कर्णा-

वदुःखं कुर्वन्नमृतं संप्रयच्छन्‌।

तं विद्यात्पितरं मातरं च

तस्मै न द्रुह्येत्कृतमस्य जानन्‌॥ ५२॥

स्वदेशिकस्यैव शरीराचिन्तनं

भवेदनन्तस्य शिवस्य चिन्तनम्‌ ।

स्वदेशिकस्यैव तु पूजनं तथा

भवेदनन्तस्य शिवस्य पूजनम्‌ ॥ ५२ ॥

______________________________________________________________

इति ॥ ५० ॥ “सोऽहं भगवते विदेदान्ददामि मां चापि सह दास्यायेति’इति श्रुत्या स्वात्मसहितं सर्वस्वं ब्रह्मोपदेशकारिणे गुरवे देयमिति प्रतिपादितं तदप्याह— इत्थमिति॥ ५१ \।\। तथाविधस्य गुरोर्मातापितृरूपत्वेन सर्वदा द्रोहो न कार्यइत्यस्यार्थस्य प्रतिपादकं यास्कोदाहृतमपि मन्त्रं स्वयं दर्शयति—य इति। अवितथेन परमार्थोपदेशेन यो गुरः कृर्णावातृणत्त्याविध्यति। किं कुर्वन्नदुःखं दुःखमकुर्बन्। लौकिकं हि कर्णभेदनं दुःखहेतुभवति। न केवलं दुःखाकरणमात्रम्‌। अपि तहोमृतमनश्वरमात्मस्वरूपं संप्रयच्छन्‌ । स्वस्वरूपमूतोऽप्यास्मा प्रागज्ञानाबृतत्वेन नष्टप्राय आसीत्पुनगुरोरुपदेशन कण्ठगतचामीकरवत्पुनलेभ्यमानो भववीयभिप्रायः। तममृतत्वस्य प्रदातारं गुरुमेव मातापिवृबुद्धधा जानीयात्‌ । स्मयेते हि - “स हि विध्यातस्तं जनयति तच्छ्रेष्ठं जन्म शरीरमेव मातापितरौ जनयतः” इति। अतः कारणादस्य गुरोः संबन्धि कृतममुतत्वसाधनब्रह्मात्मज्ञानोपदेशरूपं कर्मजानन्कृतज्ञतया तस्मैकदाचिदपि

अनुप्रविष्टं सर्वत्र गुहायां निहितं परम्‌॥ १ ॥

तद्विदित्वा महाधीरो हर्षशोकौजहाति च।

धर्मादिभ्यः परं तत्तु भूताद्भव्याच्च सत्तमाः॥ २॥

यदामनन्ति वेदाश्च तपांसि परमं पदम्‌ \।

ब्रह्मचर्यं यदिच्छन्तश्चरन्ति शिवएव सः॥ ३ ॥

एतद्ध्येवाक्षरं ब्रह्म एतद्ध्येवाक्षरं परम्‌।

एतद्ध्येवाक्षरं ज्ञात्वा यो यदिच्छति तस्य तत्‌॥ ४ ॥

_____________________________________________________________

अस्ति तत्त्वमिति। तत्र च तं दुर्दर्शमित्यतःप्राक्तनस्य मन्त्रसंदर्भस्याऽऽख्यायिकारूपत्वेन विद्यास्तुत्यर्थत्वात्परित्यज्य विद्यास्वरूपोपयोगिमस्तं दुर्दर्शमित्यादिका एव मन्त्राः स्वरूपतोऽर्थतश्च संगृह्यन्ते।यत्र समानः पाठस्तत्र न पृथक्‌श्रुतिरुदाहर्तव्या।यत्र तु पाठे विशेषस्तत्र मूलभूतां श्रुतिमप्युदाहरामः।तदयमर्थंः। दुर्दर्शं दुःखेन दर्शनीयमतिसूक्ष्मत्वाज्ज्ञातुमशक्यम्‌। गूढं गहनंस्थानमनुप्रविष्टम्‌। प्राकृतविषयज्ञानैःसंछन्नमित्यर्थः। गुहायां वुद्धो निहितं स्थितम्‌। विकारजातेभ्यः परमीदृग्विधमात्मतत्त्वं विद्यते । १ ॥ तद्विदित्वा साक्षात्कृत्योत्कषापकषेकृतौ दृषशोकौविद्वाञ्जहीति।ज्ञेयस्याऽऽत्मतत्त्वस्य निरतिशयत्वेन हर्षशोककारणयोरुत्कर्षापकर्षयोस्तत्रासंभवादित्यर्थः। अन्यन्न धर्मादिति मन्त्रस्यार्थं संगृह्णाति –धर्मादिभ्य इति ।आदिशब्देन श्रत्युक्ताधर्मादिसंग्रहः। धर्माच्छास्त्रीयधर्मानुष्ठानात्परं प्रथग्भूतं तथाऽधर्माद्विहिताचरणरूपात्पापात्यरम्‌ ।पुण्यपापसंस्पशरहितमित्यर्थः। भूताद्भूतकालावच्छिन्नाद्भव्याद्भविष्यकालावच्छिन्नात्परम्‌। नित्यं वर्तमानमिति यावत्‌ ॥ २॥ ईदृग्विधं यत्तत्त्वं सर्वे वेदाः प्रतिपादयन्ति। सर्वाणि च तपांसि। पदं पदनीयं यद्वस्तु वदन्ति यत्प्राप्त्यर्थानि भवन्तीयर्थः। तथा यत्तत्त्वंज्ञाप्तुमिच्छन्तो गुरुकुलबासादिलक्षणमन्यदपि ब्रह्मचर्यं चरन्ति मुमुक्षवः सतादृशोऽर्थः।शिव एव ॥ ३ ॥ एतद्धयेवाक्षरमित्यादिकम्‌ “तत्ते पदं

एतदालम्बनं श्रेष्ठमेतदालम्बनं परम्‌।

एतदालम्बनं ज्ञात्वा ब्रह्मलोके महीयते॥ ५॥

न जायते म्रियते वा विपश्चि-

न्नायंकुतश्चिन्न बभूवकश्चित्‌।

अजो नित्यः शाश्वतोऽयं पुराणो

न हन्यते हन्यमाने शरीरे॥ ६ ॥

____________________________________________________________

संग्रहेण ब्रवीम्योमित्येतत्‌’ इति श्रुतौ यत्प्रणवात्मकमक्षरमाम्नातंतदेवैतच्छब्देन परामृश्यते। एतदेव प्रणवात्मकमक्षरं हिरण्यगर्भादिलक्षणमपरं ब्रह्म\। तथैतदेवाक्षरं निरस्तसमस्तोपाधिकं सिच्चिदानन्दैकरसं परं ब्रह्म\। प्रणवस्य तदुभयप्रतीकत्त्वात्तादात्म्यव्यपदेशः। अत एतदेवाक्षरमपरं ब्रह्मासनोपास्यं विज्ञातव्यं परं ब्रह्म च स्वाधिकारानुरूपेण ज्ञाता यो यदिच्छति क्षातव्यं पर ब्रह्य प्राप्रव्यमपरं ब्रह्म वा तस्य तद्भवति ॥ ४॥ अव एवं तत्परापरब्रह्मपराप्त्युपायत्वाद्रह्प्राप्टयाङम्बनानां मध्ये श्रेष्ठ. प्रशस्ततमम्‌ ।अत एतेद्वाऽऽटम्बन परं ब्रह्मविषयत्वात्‌।अतः परापरब्रह्मात्मनैतत्प्रणवात्मकमालम्बनं ज्ञात्वाऽपरब्रह्मज्ञानादर्चिरादिमार्गेण ब्रह्मलोकं प्राप्यात्रमहीयते \। तेन तु प्रणवेन परं ब्रह्म जानन्‌ । लोक्यत इति लोको व्रह्मैव लोको ब्रह्मलोकः।हार्दाकाशमध्यस्थिते लोकनीये परस्मिन्ब्रह्मण्येकीभूतःसन्महीयते ॥ ५ ॥ अथ तेन प्रणवेन ज्ञातव्यं परं ब्रह्म स्वरूपतो निर्दिशति— न जायत इति। जननमरणयोराद्यन्तमावतिकारयोरास्मनि प्रतिषेधात्तन्मध्यवर्विनो विकारा अपि तत्र न सन्तीत्यर्थात्प्रतिपादितंभवति ।स च सर्वविक्रियारहित आत्मा विपश्चिन्मेधावी । अपरिलुप्तप्रज्ञास्वाभाव्यात्‌ ।किंच नायमात्मा कुताश्चत्कारणान्तरदिद्वैतवदुत्पद्यते तथाविधस्यवस्त्वन्तरस्यैवाभावात्‌ । ननु वियदादिकं वस्तुं विद्यतेइति तत्राऽऽह— न बभूवेति । तस्मादारमनः कश्चिदर्थान्तरभूतः पदार्थों बभूव नोन्पन्नः। आत्मन आकाशः संभूतः, इत्यधि

य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम्‌।

तावुभौन विजानीतो नायं हन्ति न हन्यते॥ ७ ॥

अणोरणीयान्महतो महीया-

नात्माऽस्य जन्तोर्निहितो गुहायाम्‌।

तमक्रतुः पश्यति वीतशोको

धातुप्रसादान्महिमानमस्य॥ ८ ॥

______________________________________________________________

श्रुतिस्तु मायावशाद्द्वैतप्रपञ्चस्याद्वितीये बह्मण्यध्यासप्रविपादनपरा। तस्मात्कारणान्वराभावादयमात्माऽजो जनिरहितः। अत एबं नित्योधुव । शाश्वतोऽपक्षयवर्जितः\। पुराणः पूर्वकालेऽपि नवः। निश्यवस्वेन तदुपचयापचययोरभाबात्सर्वदैकरूप एवेत्यर्थः। एवंविध आत्मा स्वाधिष्ठिते शरीरे शखर दिभिहेन्यमानेऽपि न हन्यते न हस्यते ॥ ६ ॥ ननु लोके कश्चित्प्रयतमान आत्माऽन्यस्याऽऽत्मनो हन्ता दृश्यते। अतस्तावात्मानो हन्तृहन्तव्यरूपेण सर्वजनसंमतावित्यतआह- य एनमिति।एनभ्रुक्तविधमात्मानं हन्तारं यो वेत्त्ययस्य हन्तेति जानाति यश्चैनमात्मानं हतं हननक्रियाव्याप्तंमन्यते तावुभौ नैः जानीतः । बतो नायमात्मा हन्ति न चासौहन्यते ।निर्विकारस्याऽऽत्मनः, क्रियाश्रयत्वतद्विषयत्वयोरसंमवादित्यर्थः॥ ७ ॥ अणोरणीयानित्यादि। अणोरल्पपरिमाणाद्द्रव्यादप्यणीयानतिशयेनाणुः। तथा महतोमहत्परिमाणादपिमहीयान्महत्तरः ।अणुर्महद्वायदस्ति लोके वस्तु तत्स्रर्वमनेनैवकारणभूतेनाऽऽत्मना रब्धसत्ताकंभवतीति तदुभयव्यापकत्वाहात्मनोऽणीयस्त्वादिव्यपदेश। स आत्माऽस्य जन्तोर्जविमतो ब्रह्मादिस्तम्बान्तस्य प्राणिजातस्य गुहायां हृदये निहितः। आत्मभावेनावस्थित इत्यर्थः। तं तथाविधमात्मानमक्रतुरकामो दृष्टादृष्टे विषयेवितृऽणः पुरुषः करयति साक्षात्करोति । धातुप्रसादान्मन आदीनि करणानि शरीरधारणाद्धातश्च. उच्यन्ते तेषां धातूनां प्रधादाद्विषयोपभोगजनितकालुष्यविररहा-

दूरं व्रजति चाऽऽसीनः शयानो याति सर्वतः।

कस्तं साक्षान्महादेवं मदन्यो ज्ञातुमर्हति॥ ९ ॥

अशरीरं शरीरेषु ह्यनवस्थेष्ववस्थितम्‌।

महान्तं विभुमात्मानं मत्वा धीरो न शोचति॥ १० ॥

नायमात्मा प्रवचनेन लभ्यो

न मेधया न बहुना श्रुतेन।

यमेवैष वृणुते तेन लभ्य

स्तस्यैष आत्मा विबृणुते तनूंस्वाम्‌॥ ११ ॥

_______________________________________________________________

दस्य च प्रत्यगात्मनो महिमानमनवच्छिन्नब्रह्मरूपत्वलक्षणं यदाऽऽपरोक्ष्येण जानाति तदा वीतशोकःसंसारबन्धविमुक्तो भवतीत्यर्थः॥ ८ ॥ दूरं ब्रजतीत्यादि । आसीनोऽवस्थितोऽचलएव सन्‌ दूरं ब्रजति ।तथा शयानः सन्सर्वतो याति गच्छति।सर्वगते प्रत्यगात्मन्यासनब्रजनशयनादीनां परस्परविरुद्धानामध्यस्तत्वाद्युगपत्तप्नतिभासो न विरुध्यत इत्यर्थं। सच विरुद्धधर्मयोगः परिच्छिन्नस्य न संभवतीत्यपरिच्छिन्नोऽयमात्मां महदेवः। एतेन श्रुतिगतं मदामदमिति पदमुक्तार्थं भवति। तं महादेव मत्तोऽन्यः को वा साक्षादयमहमस्मीति ज्ञातुमर्हतीति नाचिकेतसं प्रति मृत्युवाक्यम्‌ ॥ ९ ॥ अशरीरमिति । स्वेन स्वरूपेण शरीररहितमाकाशकल्पम्‌।अनवस्थेष्ववस्थानरहितेष्वनित्येषु देवपितृमनुष्यादीनां शरीरेष्वात्मभाबेनावस्थितं स्वयं नित्यं महान्तम्‌ । आकाशादिवदस्य महत्त्वमपेक्षिकं मा भूदिति विशिनष्टि– विभुमिति । विभुंव्यापिनमपरिच्छिन्नमात्मानं सर्वप्राणिष्वहमिति प्रत्यक्स्वेनोल्लिख्यमानं मत्वा मननेन निश्चित्यपुनः संसारशोकं न प्राप्रोति ॥ १० ॥ नायमात्मेति । अयमात्मा प्रवचनेनानेकवेदाध्ययनेन न लभ्यो लब्धुमशक्यः।नापि मेधया ग्रन्थधारणशक्त्या च । न बहुविधेनानात्मशास्रश्रवणेन ।केन तर्ह्युपायेनासौलभ्य इति । उच्यते ।यमेव स्वात्मानमेष साधको वृणुते प्रार्थयते तेनैव

नाविरतो हुश्चरितान्नाशान्तो नासमाहितः।

नाशान्तमनसो वाऽपि प्रज्ञानेनैनमाप्नुयात्‌॥ १२ ॥

यस्य ब्रह्म च क्षत्त्रं च उभेभवत ओदनः।

कइत्थं वेददेवो वा मनुष्योऽन्यश्च यत्र सः॥ १३॥

ऋतं पिबन्तौसुकृतस्य लोके

गुहां प्रविष्टौपरमे परार्धे ।

__________________________________________________________

साधकेनायमात्मा लभ्य उपलब्धव्यः। तस्य च साधकस्यैष आत्मा स्वांतनूं निरस्तसमस्तोपाधिकं स्वकीयं रूपं विवृणुते प्रकाशयति॥११॥ नाविरत इति। दुश्चरितात्पापाचरणादविरतोऽनुपरतः। एनमुदीरितमात्मानं न प्राप्नुयात्‌। नाप्यशान्त इन्द्रियलौल्यादनुपरतः। तथाऽसमाहितश्चित्तैकाग्रयरहितोऽप्येनं प्राप्तं नशक्नोति। तथाऽशान्तमानसः ।अशान्तमव्यावृत्तं विषयेभ्यो मानसंयस्य सोऽपि ।नैनं प्राप्नोति ।यस्तु दुश्चरिताद्विरत इन्द्रियलोल्याच्च शान्तः समाहितचित्त उपशान्तमानसश्च स एवैनमात्मानं गुरुशास्रकृतेन प्रज्ञानेन प्रकृष्टेन निर्विचिकित्सापरोक्षज्ञानेनप्राप्नोतीत्यर्थः॥१२ ॥ यस्य ब्रह्मेति ।यस्याऽऽत्मनो ब्रह्म क्षत्त्रंचोभे अप्योदनोऽशनं भवतः ।उपलक्षणमेतत्‌ ।ब्रह्मक्षत्त्राद्युपलक्षितं सर्वं जगदुपसंह्रियमाणं सद्यस्यपरमात्मन इदमोदनस्थानीयंभवति । सर्वहरो मृत्युश्चोपदंशस्थानीयः । श्रूयते हि—मृत्युर्यस्योपसेचनमिति । स च परमात्मा यत्र वर्तते तत्स्वरूपमिस्थमेर्वप्रकारविशिष्टमिति देवमनुष्यादीनां मध्ये को नाम जानीयात्‌ ॥ १३॥ उक्तमर्थं रथरूपकल्पनया प्राप्तप्राप्तव्यभावेन विशदयितुं जीवेश्वरयोरौपाधिकं लोकसिद्धं भेदमनुवदति “ऋतंपिबन्तौ, इति मन्त्रस्तस्याभिप्रायमाविष्कतुं तं पठति– ऋतं पिबन्ताविति ।सुकृतस्य स्वयंकृतस्य स्वात्मना निर्वर्तितस्य कर्मणः फलभूते लोके लोक्यमानेऽस्मिञ्शरीरे गुहां सत्त्वपरिणामरूपां बुद्धि प्रविष्टौ\। बाह्यभूताकाशापेक्षया हार्दाकाशं

छायातपौब्रह्मविदो बदन्ति

शरीरभृच्छंकरसंज्ञितौ तौ॥ १४॥

शरीरभृत्कर्मफलं भुङ्क्ते योजयिता शिवः।

प्रतीतितो विरुद्धौ तौभेदस्त्वौपाधिकस्तयोः॥ १५॥

आत्मानं रथिनं विद्याच्छरीरं रथमेव तु।

बुद्धिं तु सारथिं विद्यान्मनः प्रग्रहमेव च॥ १६ ॥

___________________________________________________________

परमं तच्चपरब्रह्मोपलब्ध्यधिकरणत्वात्परार्धमुत्कृष्टं स्थानं तत्र प्रविष्टौ। हार्दाकाशावस्थितबुद्धिसत्त्वान्तर्गतावित्यर्थः।तौ च जीवपरमात्मानावृतं सत्यमवश्यंभावि कर्मफलंपिबन्तौभुञ्जानौ।तत्र जीव एवकर्मफलभोक्ता न तु परमात्मा अनश्नन्नन्यो अभिचाकशीति’ इति श्रुतेः। अतोऽत्र छत्रिन्यायेन पिबदपिबत्समुदाये पिवच्छब्दप्रयोगः ।तौच छायातपवत्परस्परविलक्षणौ संसारित्वासंसारित्वभेदेन ब्रह्मविदः प्रतिपादयन्ति । ये च पश्चाग्नयःपञ्चाग्निविद्यायुक्ताः।त्रिवारं नाचिकेतोऽग्निश्चितोयैस्ते त्रिणाचिकेताः। एतेऽप्येवमेवाऽऽत्मानौप्रतिपादयन्ति। अस्य चमन्त्रस्य जीवपरमात्मपरत्वं भगवता व्यासेनापि सूत्रितम्‌—गुहां प्रविष्टावात्मानौहि तद्दर्शनात्‌ः इति ॥ १४॥ न चानयोर्भेदो वास्तव इत्युक्तार्थपरत्व॑ मन्त्रस्य दर्शयति— शरीरभृदिति। तयोर्जीवेश्वरयोर्भेदस्त्वौपाधिकः । तदुपाध्योर्मायाविद्ययोर्भेद एवापरिच्छिन्ने ब्रह्मण्युदशरावस्थभेदश्चन्द्रबिम्ब इव प्रतीयते । अतः प्रातीतिक एवानयोर्भेदो न वास्तव इदत्यर्थः॥ १५ ॥ तत्राविद्योपाधिकृतोयो जीवस्तस्याविद्यया संसारगमनं विद्यया मोक्षगमनं चोभयं रथरूपकल्पनया प्रतिपादयति-आत्मानमिति। कर्मफलोपभोक्तारं संसारिणमात्मानं रथिनं रथस्वामिनं जानीयात्‌। तदधिष्ठितं शरीरं रथं जानीयात्‌ ।तद्धि रथोऽश्वैरिन्द्रियैराकृष्यते। व्यवसायलक्षणान्तःकरणपरिणामरूपां बुद्धिं सारथिंविद्यत्‌।बुद्ध्या हीन्द्रियादिक प्रेर्यते।संकल्पादिलक्षणं मनस्त- ˆ

इन्द्रियाणि हयान्विद्याद्विषयानपि गोचरान्‌।

आत्मेन्द्रियमनोयुक्तंविद्याद्भोक्तारमास्तिकाः॥ १७ ॥

यस्त्वविज्ञानवान्मर्त्योऽयुक्तेन मनसा सदा।

तस्येन्द्रियाण्यवश्यानि दुष्टाश्वा इव सारथेः॥ १८ ॥

यस्तु विज्ञानवान्मर्त्यो युक्तेन मनसा सदा।

तस्येन्द्रियाणि वश्यानि सदश्वा इव सारथेः॥ १९ ॥

यस्त्वविज्ञानवान्मर्त्यो ह्यमनस्कः सदाऽशुचिः।

न स तत्पदमाप्नोति संसारं चाधिगच्छति॥ २० ॥

_______________________________________________________________

त्प्रग्रहं रशनां जानीयात्‌॥ १६ ॥ चक्षुरादीन्द्रियाण्यश्वाः। रूपादिविषयास्तत्संचरणप्रदेशाः।एवं शरीरादीनां रथादिरूपत्वमात्मनस्तत्स्वामित्वंचकल्पितम्‌। तत्र शरीरादिविशिष्टस्यैवाऽऽत्मनो भोक्तृत्वं न चिन्मात्ररूपस्येति दर्शयति– आत्मेन्द्रियेति।आत्मशब्दःशरीरवाची। देहेन्द्रियमनोभिःसंयुक्तमेवाऽऽत्मनं भोक्तारं जानीयात्‌। तद्रहितश्चिन्मात्रस्वरूपस्त्वभोक्ता “ध्यायतीव लोलायतीव’ “अनश्नन्नन्यो अभिचाकशीति’ इति श्रुतेः॥ १७ ॥ उक्तां रथक्लृप्तिमुपजीव्याविवेकिन इन्द्रियपारवश्यं विवेकिनः स्वाधीनेन्द्रियत्वं च प्रतिपादयति - यस्त्विति। यस्तु मर्त्यःसंसार्यात्माविज्ञानवान्कार्याकार्यविवेकनज्ञानरहितो भवति।तथाऽयुक्तेनाप्रतिगृहीतेनासमाहितेन मनसा युक्तो भवति। तस्याज्ञानिनश्चक्षुःश्रोत्रादीन्द्रियाणि दुष्टाश्ववदवश्यानि वशीकर्तुमशक्यानि।दुर्निवारणीयानीति यावत्‌॥ १८॥ यस्तु पुनरुक्तवैपरीत्येन विवेकज्ञानवान्युक्तेन समाहितेन मनसा च युक्तोभवति तस्य विवेकिन इन्द्रियाणि स्ववशानि दान्ताश्ववत्प्रवर्तयितुं निवर्तयितुं च शक्यानीत्यर्थः॥ १९ ॥ एतौचोभौक्रमेण संसारमोक्षयोरधिकारिणावित्याह–यस्त्विति। यस्त्वविज्ञानवान्प्रागुक्तः। अगृहीतमकाश्च। अत एवाशुचिरशुद्धःकामवशीकृतत्वेनाकार्येऽपि प्रवर्तनात्सोऽस्तप्रामुक्तं पदं पदनीयमक्षराख्यं प्रणवप्रतीकं परं ब्रह्म न प्राप्नोति। न

यस्तु विज्ञानवान्मर्त्यःसमनस्कःसदा

शुचः।

स तु तत्पदमाप्नोति यस्माद्भूयो न जायते॥ २१॥

विज्ञानसारथिर्यस्तु मनः प्रग्रहवान्नरः।

सोऽध्वनः पारमाप्नोति तद्विष्णोःपरमं पदम्‌॥ २२॥

पदंयत्परमं विष्णोस्तदेवाखिलदेहिनाम्‌।

पदं परममद्वैतं स शिवः साम्बविग्रहः॥ २३॥

रुद्रविष्णुप्रजेशानामन्येषामपि देहिनाम्‌।

ऋते साम्बं महादेवं किं भवेत्परमं पदम्‌॥ २४ ॥

__________________________________________________________________

केवलंतदप्राप्तिमात्रं प्रत्युतानर्थं जन्ममरणादिलक्षणं संसारं प्राप्नोति॥२०॥यस्तु तद्विपरीतो विवेकविज्ञानवान्समाहितमनस्कोऽत एव सदा सर्वदा शुचिः शुद्धश्च भवति। स तु तत्प्रागुक्तं पदनीयं ब्रह्म प्राप्नोति । तत्पदनीयं विशिनष्टि -यस्मादिति। यस्मादाप्तात्पदादच्युतः सन्‌ भूयः पुनर्नजायते संसारमण्डलं न प्रविशति तादृशमपुनरावृत्तिलक्षणं ब्रह्मस्वरूपंप्राप्नोतीत्यर्थः॥२१॥ पुनस्तत्पदं विशिनष्टि–विज्ञानेति। निश्चयरुपात्मानात्मविवेकबुद्धिर्विज्ञानम्‌। संकल्पाविकल्पात्मकं मनः। तथाचविज्ञानरूपसारथिना नीयमानः प्रगृहीतमनस्कश्च सन्स विद्वानघ्वनःसंसारगतेःपारमन्तं प्राप्नोति।स्वस्वरूपयाथात्म्यज्ञानेन संसारबन्धाद्विमुच्यते। तश्च पारं विष्णोर्व्यापनशीलस्यब्रह्मणः परमं प्रकृष्टं पदं पदनीयं प्रष्टव्यं सच्चिदानन्दैकरसं स्वरूपमिति यावत्‌ ॥ २२ ॥ तद्विष्णोः परमं पदमिति श्रुतिवाक्यं स्वयं व्याकरोति—पदंयदिति। “यत्रनान्यत्पश्यति नान्यच्छृणोति’ इत्येवं त्रिपुटीहीनं यद्द्वितीयं तत्त्वंतदेवाखिलदेदिनां देवमनुध्यादीनां सर्वेषां परमं पदं निरतिशयानन्दरूपतया सर्वेरभिलषितत्वादीदृग्विध परमं पदमेव लीलायाऽर्धनारीश्वरविग्रहःशिवः संपन्नः॥ २३ ॥ एतदेव सच्चिदानन्दैकरसं परशिवस्वरूपंरुद्रविष्ण्वादीनां गुणमूर्तीनामन्येषामिन्द्रादीनां च परमं पदं भवतीत्यर्थः

इन्द्रियेभ्यः परा ह्यर्थाअर्थेभ्यश्च परंमनः।

मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान्परः॥ २५॥

महतः परमव्यक्तमव्यक्तात्पुरुषःपरः।

पुरुषान्न परं किंचित्सा काष्ठा सा परा गतिः॥ २६ ॥

॥२४॥इन्द्रियादीनामुत्तरोत्तरं सूक्ष्मत्वव्यापकत्वप्रत्यक्त्वतारतम्यक्रमेण पदनीयस्य परशिवस्वरूपस्य निरतिशयं सूक्ष्मत्वादिकं प्रतिपादयति—इन्द्रियेभ्य इत्यादिना। भूतकार्याणि तावदिन्द्रियाणि स्थूलानि च यैरर्थैःशब्दादिविषयैःस्वात्मप्रकाशनायाऽऽरब्धानि तेऽर्था इन्द्रियेभ्यःस्वकार्येभ्यःपराःसुक्ष्मामहान्तश्च।तेभ्योऽप्यर्थेभ्यश्च मनःशब्दवाच्यं मनसआरम्भकं भूतसूक्ष्मं परम्‌।तस्मान्मनसोऽपि परा सूक्ष्मतरा महत्तरा प्रत्यगात्मभूता च बुद्धिः।अध्यवसायाध्यारम्भकं भूतसूक्ष्मं बुद्धिशब्दवाच्यम्‌। तस्याअपि बुद्धेर्महानात्मा परः।तत्समष्टिरूपा हैरण्यगर्भी बुद्धिर्महानात्मेत्युच्यते ।सा सर्वासां बुद्धीनां कारणत्वात्सूक्ष्मतरा व्यापिनी प्रत्यग्भूता च। तस्मादपि महतः परं सूक्ष्मतरं प्रत्यग्मूतंसर्वभहत्तरं चाव्यक्तमव्याकृतं नामरूपात्मकं सर्वस्य जगतो बीजभूतं माचाप्रकृत्याद्यपरपयाय तस्त्वमू । तस्भाद्प्यन्यक्तात्परः सूक्ष्मतरः; सर्वेकारणभूव; प्रत्यगात्मा अत एव पुरुषःसर्वेस्य कार्यप्रपञ्चस्यस्वस्वरुपेण पूरायेता । यद्वासर्वासु पूर्षु शेत इति पुरुषः। सर्वान्तरत्वात्‌ । ततोऽन्यस्य सूक्ष्मस्य प्रसङ्गं निवारयन्नाह –पुरुषादिति \। पुरुषात्सर्बान्तराच्चिद्धनस्वरूपात्‌ प्रत्यगात्मनः परं किंचिदपि वस्तु नास्त्येव \। सूक्षसत्वमहत्त्वप्रत्यगात्मत्वानां तत्रेव परिसमापनात्‌ ।सैव परा काष्टा पर्ववसामभूमिः। सैवगन्तृृणांसंख्रारिणां परा प्रकृष्टा गातिर्गन्तव्यं प्राप्तत्वंवस्तु।अन्यास्तु गतयः पुनरावृत्तिमत्त्वादपराः।

उक्तविधातु मतिःपुनरावृत्तिराहित्येनन परा । अत एवभगवतोक्तम्‌–

यद्गत्द्यज ‘निवर्तन्ते तद्धाम परमं मम इति। एषा च प्रत्यगात्मत्वेन प्राप्तप्राप्ति-

पुरुषो नाम संपूर्णःशिवः सत्यादिलक्षणः।

साम्बमूर्तिधरो नान्यो रुद्रो विष्णुरजोऽपि वा॥ २७ ॥

एष सर्वेषु भूतेषु गूढात्मा न प्रकाशते।

दृश्यते त्वग्र्यया बुद्ध्यासूक्ष्मया सूक्ष्मदर्शिभिः॥ २८ ॥

यच्छेद्वाङ्मनसि प्राज्ञस्तद्यच्छेञ्ज्ञान आत्मनि।

महत्यात्मनिविज्ञानं तद्यच्छेच्छान्त आत्मनि॥ २९ ॥

________________________________________________________

रूपत्वाज्ज्ञानमात्रप्राप्या।अतो गत्यन्तरवत्‌ क्रियासाध्यत्वादनित्यत्वमस्य न शङ्कनीयमित्यर्थः॥ २५ ॥ २६ ॥ श्रुतिगतं पुरुषपदं स्वयं व्याकरोति–पुरुषो नामेति। त्रिविधपरिच्छेदरहितः सत्यज्ञानादिलक्षणःपरशिव एवं साक्षात्पुरुषशब्दाभिधेयः। स एवलीलया स्वस्य शिवशक्तिरूपतामाविष्कर्तुमर्धनारीश्वरविप्रहो भवति। गुणमूर्तयो रुद्रादयोऽपि न ततःपृथग्भूता इत्यर्थः॥ २७॥ एष सर्वेष्विति। एषउदीरितरूपः पुरुषःसर्वेषु ब्रह्मादिस्तम्बान्तेषु भूतेष्वावरणाविद्यया गूढः संछन्नः।आत्मत्वेनावस्थितोऽपि मोहवशाद्देहेन्द्रियादिविविक्ततया न प्रकाशते।एवमपि सूक्ष्मदर्शिभिरिन्द्रियेभ्यःपरा ह्यर्थाइत्युक्तप्रकारेण निरतिशयसूक्ष्मात्मतत्त्वंद्रष्टुं शक्तैर्विद्वद्भिर्गुरुशास्त्रसंस्कृतया प्राप्तैकाग्रतयाऽत एव सूक्ष्मया बुद्धयास पुरुषो दृश्यते द्रष्ट शक्यते ॥ २८ ॥ तद्दर्शनोपायमाह–यच्छेदिति । प्राज्ञो विवेकवान्वाक्शब्दोपलक्षितं कृत्स्नंवाह्यविषयमिन्द्रियजातं मनसियच्छेन्नियच्छेदुपसंहरेत्‌। अत्र मनसीति सप्तन्यन्तं पठता यच्छेदाङ्धनसीति श्रतिपाठगतं दैर्ध्यं छन्दसमिति व्याख्यातं भवति । उपसंहृतवाह्मकरणं तच्चमनो ज्ञाने प्रकाशस्वरूपे बुद्धवाल्यआत्मन्युपसंहरेत्‌। निश्चयज्ञानरूपं तं च बुद्ध्यत्मानं महत्यात्मनि तत्समष्टिभूते सूक्ष्मतरे हिरण्यगर्भोपाधौनियच्छेत्‌ \। तच्च महदात्माभिधं हैरण्यगर्भं बुद्धिसत्त्वं शान्ते प्रत्यस्तमिताशेषविशेषरूपे निर्बिकारे अर्वान्तरे साक्षिचिन्मात्ररूपे मुख्य आत्मनि नियच्छेत्‌।एबमिन्द्रियादिकं

अशब्दमस्पर्शमरूपमव्ययं

तथाऽरसं नित्यमगन्धवच्च यत्‌।

अनाद्यनन्तं महतः परं ध्रुवं

निचाय्य तं मृत्युमुखात्प्रमुच्यते॥३० ॥

पराञ्चि खानि व्यतृणन्महेश-

स्तस्मात्पराङ्पश्यति नाऽऽत्मरूपम्।

कश्चिद्धीरः प्रत्यगात्मानमैक्ष-

दावृत्तचक्षुरमृतत्वमिच्छन्‌॥ ३१ ॥

_________________________________________________________

कारणपर्यन्तं विलाप्य परिपूर्णस्वप्रकाशचिदात्मानुसंधानपरो भवेदित्यर्थः॥२९॥ पृथिव्यादीनां भूतानामुत्तरोत्तरमेकैकगुणन्यूनत्वात्सूक्ष्मतातारतम्यं दृष्टं किमुवक्तव्यं शब्दादिसर्वगुणरहितस्य निरतिशयं सूक्मत्वमित्यभिप्रेत्य तन्निषेधेन तत्स्वरूपमुपलक्षयति– अशब्दमिति।अशब्दमित्याद्युक्तार्थम्‌।अव्ययमिति।यद्धि शब्दादिमद्भवति तत्खलु व्ययधर्मवत्‌ इदं तु परशिवस्वरूपं शब्दादिरहितत्वान्न व्येति न हीयत इत्यव्ययमनश्वरम्‌। अरसमित्याप्यगुणस्य रसस्य व्युदासः। अव्ययत्वादेव नित्यं यदीदृग्विधं तत्वम्‌। अनादीति।आदिः कारणं तद्रहितम्‌। अन्तः कार्यं तद्रहितम्‌।सकारणत्वं कार्यात्मना परिणामश्चानित्यत्वकारणमिति तदुभयमनेन व्यावर्त्यते। महतो महत्त्वाद्‌बुद्ध्यख्यात्परं विलक्षणं नित्यविज्ञानात्पिस्वरूपामिति यावत्। ध्रुवं कूटस्थं नित्यं निर्विकारम्‌।तमीदृग्विधं ब्रह्मात्मानं निचाय्य निश्चित्य मृत्युमुखान्मृत्युगोचरादविद्याकामकर्मलक्षणात्संसारान्मुच्यते॥३०॥ ननूक्तविध आत्मा कस्मात्सर्वैर्न दृश्यत इति तत्र कारणमाह-पराञ्चीति। महेशो जगत्स्रष्टा परमेश्वरःखानि स्वमाकाशं तदुपलक्षितानि श्रोत्रादीनीन्द्रियाणि। पराञ्चि परागञ्चनस्वभावानि बाह्यशब्दादिविषयप्रकाशनाय प्रवर्तमानानि बहिर्मुखानि सृष्ठा तानि व्यातृणद्धिंसितवान्। “उ तृदिर्हि-

पराचः कामाननुयन्ति बाला

मृत्योः पाशं तेऽपियन्ति स्वमोहात्‌।

अथ धीरा अमृतत्वं विदित्वा

ध्रुवं तत्त्वं यान्ति कामैरसक्ताः॥ ३२ ॥

येन रूपान्रसान्गन्धाञ्शब्दान्स्पर्शांश्चमैथुनान्‌।

एतेनैव विजानाति किमत्र परिशिष्यते॥ ३३ ॥

___________________________________________________

सानादरयोः’इति धातुः। यस्मादेवं तस्मात्तैरिन्द्रयैःपुरुषः पराङ्पश्यति बाह्याञ्शब्दस्पर्शादिविषयानेवोपलभते नाऽऽत्मस्वरूपं जानाति। एवमपि कश्चित्पुनर्धीरो धीमानमृतत्वं मोक्षमिच्छन्नावृत्तचक्षुर्बाह्यविषयदर्शनसाधनं चक्षुःश्रोत्रादिकमिन्द्रियमावृत्तं स्वस्वविषयेभ्यो व्यावर्तितं येन तथाविधो भूत्वा प्रत्यगात्मानमुदीरितलक्षणमसंसार्यात्मतत्त्वमैक्षत्पश्यति। ‘छन्दसि लुङ्लङ्लिटः’ इति वर्तमाने लङ्॥३१॥ पराच इति\। बाला अज्ञजना मनुष्याः कामान्काम्यमानाञ्शब्दादि बाह्यविषयाननुयन्त्यनुसरन्ति। ते कामिनो मृत्योरविद्याकामकर्मसमुदायस्य प्रसारितं पाशजालमपियन्त्यपिगच्छन्ति\। तत्र कारणमाह – स्वेति । स्वस्याऽऽत्मनो मोहो यदावरणमज्ञान तद्वशादित्यर्थः\। अथेत्युक्तवैपरीत्ये। धीरा विवेकिनो जनाः प्रत्यगात्मस्वरूपावस्थानरुक्षणम मृतत्वं विदित्वा साक्षात्कृत्य तैः कामैरसक्ता असंबद्धाः सन्तो ध्रुवं कूटस्थं नित्यं परमार्थभूतं ब्रह्मत्मानं यान्ति प्राप्नुवन्ति॥ ३२ ॥ तदधिगमोपायमाह- येनेति। येन विज्ञानेन बाह्मान्‌ रूपादि विषयान्मेथुनान्मिथुनसंबन्धानसुखविश्षेषांश्च विजानाति विस्पष्टं जानाति । एतेनैव देहादि संधातविलक्षणेन चिन्मात्रप्रकाशेनाऽऽत्मना तान्विजानाति \। यो रूपादिसकलप्रत्ययसाक्षी स एवाऽऽत्मा न तु देहेन्द्रियादिसंघातस्तसय रूपादिमत्त्वेन घटादिवदनात्मतत्वादिति भावः। अत्रास्मिॅल्लोके विज्ञेयं किं परिशिष्यते। सर्वमेव तु चिन्मात्ररूपेणाऽऽत्मना विज्ञेयमेव भवति न किंचित्परिशिष्यत इत्यर्थः॥३३॥ तस्य साक्ष्यात्मनः

जाग्रत्स्वप्नसुषुप्त्याख्यं परं येनानुपश्यति।

माहान्तं परमात्मानं मत्वा धीरो न शोचति॥ ३४ ॥

जाग्रदादित्रयं यस्तु विजानाति चिदात्मना।

ततो भेदेन नैवास्ति पुरत्रयमिदं सदा॥ ३५ ॥

चैतन्यमात्रोभगवाञ्शिव एव स्वयंप्रभः।

पुरत्रयात्मना भाति न भाति च महाप्रभुः॥ ३६ ॥

इहामुत्र स्थितं तत्त्वं सदेकं न ततोऽपरम्‌।

मृत्योः स मृत्युमाप्नोति योऽन्य देवं प्रपश्यति॥ ३७ ॥

________________________________________________________

स्वरूपं विशेषेण प्रतिपादयति- जाग्रदिति। जाग्रदादिस्थानत्रयं येन चिन्मात्ररूपेणाऽऽत्मनाऽनुगतेन पश्यति जानाति।महान्तमित्याद्युक्तार्थम्‌।एतेन स्वप्नान्तं जागरितान्तं चोभौ येनानुपश्यतीति श्रुतिरवस्थात्रयोपलक्षणार्थाव्याख्याता॥ ३४ ॥ अथ तस्याः श्रुतेस्तात्पर्यमाह—जाग्रदादीति ।चिदात्मना भास्यं जाग्रदादिस्थानत्रयमितरशदृयवश्चिद्रूपे तस्मिन्नध्यस्तत्वात्ततोभेदेन नैव विद्यते।३५ ॥ पुरत्रयाधिष्ठानं यश्चैतन्यमात्रं सएव स्वयंप्रकाशमानः परशिवः परिच्छेदप्रतीतेरौपाधिकत्वादतोमहाप्रभुः स्वतन्त्रः परशिव एवस्वमायाविलासेन कदावित्पुरत्रयात्मनाभाति।तत्त्वदृष्ट्य तु तदात्मना नैव भाति। किंतु निरस्तसमस्तोपाधिकः स्वयमेव प्रकाशते॥ ३३ ॥ यदाम्नायते– यदेबेह तदमुत्र यदमुत्र तदन्विह” इति तदभिप्रायमाह–इहामुत्रेति। इहास्मिन्कार्यकारणसंघाते यदवस्थितं सच्चिदानन्दैकरसं तत्त्वं यच्चामुत्र जगत्कारणे सर्वज्ञे सूर्यात्मके ब्रह्मण्यवस्थितं तदुभयं सर्वदैकं न तयोर्भेदो विद्यते, किंचिज्ज्ञत्वसर्वज्ञत्वादिभेदप्रतिभासस्य मायाऽविद्योपाधिकृतत्वादित्यर्थः। अत एवैतरेयकतैत्तिरीयकयोःसमाम्नातम्‌–’ तद्योऽहं सोऽसौयोऽसौसोऽहम् इति ।“सयश्चायं पुरुषे यश्चासावादित्ये स एकः। ‘इति च। विपक्षे बाधकमाह–मृत्योरिति। यस्तु स्वात्मनः सकशादेवं

अग्निर्यथैको भुवनं प्रविष्टो रूपं रूपं प्रतिरूपो बभूव।

एकस्तथा सर्वभूतान्तरात्मा रूपं रूपं प्रतिरूपो बहिश्च॥ ३८ ॥

वायुर्यथैको भुवनं प्रविष्टो रूपं रूपं प्रतिरूपो बभूव।

एकस्तथा सर्वभूतान्तरात्मा रूपं रूपं प्रतिरूपो बहिश्च॥ ३९ ॥

सूर्यो यथा सर्वलोकस्य चक्षुर्नलिप्यते चाक्षुषैर्वाह्यदोषैः।

एकस्तथा सर्वभूतान्तरात्मा न लिप्यते लोकदुःखेन बाह्यः॥ ४० ॥

________________________________________________________

द्योतमानं परशिवमन्यं पश्यति स मृत्योर्मरणात्पुनर्मृत्युं प्राप्नोति। जन्ममरणप्रवाहपतितो भवतीत्यर्थः॥ ३७ ॥ ननु परस्माद्ब्रह्यणःसर्वस्य जगतो भेदोऽनुभूयत एवेत्याशङ्क्य दृष्टान्तैस्तत्तादात्म्यं प्रतिपादयति-अग्निर्यथेत्यादिना।यथा खल्वयमग्निःस्वयमेक एव भवत्यस्मिन्भूतजातानीति भुवनमयं लोकस्तं प्रविष्टः सन्‌ रूपं रूपं काष्ठादिकं सर्वं दाह्यभेदं प्राप्य तत्तत्प्रतिरूपो बभूव। दाह्यसमानाकृतिर्भवतीत्यर्थः। तथैक एव सच्चिदानन्दरूपः परशिवः सर्वभूतान्तरात्मा सर्वेषां भूतानामन्तरात्मां भूत्वा तत्तदेव मनुष्यादिशरीरं प्रविश्य तत्तत्प्रतिरूपो बभूव\। तथा प्रपञ्चाद्वहिरपि स्वेन निरुपाधिकेनाविकृतरूपेणावतिष्ठते।वायुर्यथैक इत्यत्राप्येवं योज्यम्‌॥ ३८ ॥ ३९ ॥ एवमेकस्यैवाऽऽत्मनस्तत्र तत्र प्रतिरूपत्वावस्थानेन तत्कृतसंसारदुःखानुभवोऽपि स्यादित्याशङ्क्य सदृष्टान्तं निर्लेपतामाह–सूर्योयथेति।यथा सूर्यःसर्वलोकस्य चक्षुरालोकेन चक्षुरिन्द्रियस्योपकारं कुर्वंश्चक्षुर्भूतोऽप्यशुच्यादिदर्शनजनितैश्चाक्षुषैराध्यात्मिकैर्बाह्मैःपापदोषैश्चन लिप्यते न स्पृश्यते तथैक एव शिवःसर्वभूतान्तरात्मा सन्नपि बाह्यस्तस्मात्सर्वश्माद्भूत जाताद्विविक्तःसंस्तदीयदुःखेन न लिप्यते। अविद्यया ह्यात्मनः संसारप्रतीतिर्नच सा परमार्थोपाधौ विद्यत इत्यसता संसारदुःखेन कथं परमार्थभूतस्याऽऽत्मनो लेपसंभव इत्यर्थः॥४० ॥ एको वशीति ।एकःसर्वमुख्यः। न जानेन्न सदृशोऽधिको वा कश्चिदस्ति।वशी स्वतन्त्रः। यतः सर्वं जगदस्व वक्षे

एको वशी सर्वभूतान्तरात्मा

एकं रूपं बहूधा यः करोति।

तमात्मस्थं येऽनुपश्यन्ति धीरा-

स्तेषां सुखं शाश्वतं नेतरेषाम्‌॥ ४१॥

येनैव नित्याश्च सचेतनाश्च

यस्मिन्विभक्ताः प्रविभान्ति मोहात्‌।

तमात्मस्थं येऽनुपश्यन्ति धीरा-

स्तेषां शान्तिः शाश्वती नेतरेषाम्‌॥ ४२ ॥

तदेतदिति मन्यन्तेऽनिर्देश्यं परमं सुखम्‌।

कथं नु तद्विजानीयात्किमु भाति विभाति वा॥ ४३॥

_______________________________________________________

वर्तते। तदपि कुत इत्यत आह— सर्वेति।सर्वान्तरात्मत्वमपि कुत इति तदाह—एकमिति।एकमेकरसं विशुद्धविज्ञानलक्षणमात्मीयं रूपं बहुधा बहुप्रकारं विचित्रोपाधिभेदवशेन यः करोति तमात्मस्थमात्मनि शरीरे हार्दाकाशमध्ये स्थितमभिव्यक्तं गुरुशास्त्रोपदेशेन येऽनुपश्यन्तिसाक्षादनुभवन्ति धीरा विवेकिनस्तेषां विदुषां ब्रह्मीभूतानामेव सुखं शाश्वतं नित्यनिरतिशयाभिव्यक्तिर्भवति।इतरेषामज्ञानिनां तु यच्छब्दस्पर्शादिविषयभोगसुखं तच्छाश्वतं न भवति। शुभकर्मोपस्थापितबुद्धिवृत्त्यनु विधायित्वेन तस्य क्षणिकत्वादित्यर्थः॥ ४१ ॥ ‘नित्यो नित्यानां चेतनश्चेतनानाम्‌’इति श्रुतेरर्थमाह-येनैवेति।व्यावहरिकनित्याकाशादयो येन यत्सत्तानुवेधबलेन नित्याः। तथा यच्चैतन्यानुवेधबलेन देवमनुष्यादयः सचेतनाः।ते च यस्मिन्स्वप्रकाशे ब्रह्मण्यध्यस्ततया विभक्ताः सन्तो मोहाद्‌ज्ञानवशाद्विभान्ति विचित्रनामरूपात्मना विविधं भासन्ते। तमात्मस्थमित्यादि पूर्ववत्। शान्तिःसर्वविषयेभ्यउपरतिः॥ ४२ ॥ तदेतदित्यादि।ग्रदात्मस्वरूपभूतंसुखमनिर्देश्यं निर्देष्टुमशक्यमवाङ्मनसगोचरं परमं निरतिशयं तदेतदित्यापरोक्ष्येण ब्रह्मनिष्ठा मन्यन्तेऽनुभवन्ति तदात्मसुख-

आदित्यचन्द्रानलतारकाद्या
न भान्ति यस्मिन्ननिशं महान्तः।
प्रकाशमानं तमनुप्रभान्ति
प्रभानमस्यैव हि नेतरेषाम् ॥ ४४ ॥

ऊर्ध्वमूलस्त्ववाक्शाख एषोऽश्वत्थः सनातनः।
तदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यते ॥ ४५ ॥
तस्मिल्ँलोकाः श्रिताः सर्वे तदु नात्येति कश्चन।
एतद्वै तस्सुरश्रेष्ठाः सम्यगेव मयोदितम् ॥ ४६ ॥

________

मिदानींतनोऽपि कथं नु केन खलु प्रकारेण त्रिस्पष्टं जानीयात्। तत्किं भाति दीप्यते भासमानं हि तदस्य विस्पष्टं भाति किंवा न भातीति बहिरेव कोट्यन्तरम् ॥४३ ॥भाति च विभाति चेत्यस्योत्तरं विवक्षन्नतत्र सूर्यो भातीति श्रुतेरर्थमाह—आदित्येति। तमनुप्रभान्तीति। चैतन्यज्योतिषि तस्मिन्नध्यस्तत्वात्तत्स्फुरणमनुसृत्यैव सूर्यादयः प्रदीप्यन्ते। अतः स्वाभाविकं भानमात्मज्योतिष एव नान्येषां भौतिकानां तेजसाम्। अतः स्वप्रकाशचिदेकरसं तत्स्वरूपभूतं निरतिशयसुखं स्वयमेव भाति च विभाति चेत्यर्थः ॥ ४४ ॥ दृश्यमानस्य कार्यप्रपञ्चस्य मूलकारणमन्तरेणानुपपत्तेस्तदस्तित्वं प्रतिपादयति– ऊर्ध्वमूल इति। ऊर्ध्वं संसारमण्डलस्थोपर्यवस्थितं तद्विष्णोः परमं पदमिति प्रागुपन्यस्तं निरस्तसमस्तोपाधिकं ब्रह्म मूलं कारणं यस्य स तथोक्तः। अव्यक्तादिस्थावरान्तः संसारवृक्षः। स च स्वर्गनरकतिर्यक्स्रोतोभिः शाखाभिरर्वाचीनशाखः। स च सना- तनोऽनादिः। अस्थिरत्वाच्छ्वोन तिष्ठतीत्यश्वत्थः। अस्य च संसारवृक्षस्य यन्मूलं कारणं तदेव शुकं शुद्धं सांसारिकदोषासंस्पृष्टं तदेव ब्रह्मामृतमविनाशिस्वभावं कथ्यते। तत्कार्यभूतसंसारवृक्षो वाचारम्भणमात्रत्वाद्गन्धर्वनगरादिवन्मिथ्याभूत इत्यर्थः ॥ ४५ ॥ तस्मिन्नित्यादि। तस्मिन्परमार्थसत्ये ब्रह्मणि मायाविलासवशेन सर्वे लोकाः श्रिता आकिलाः

इवं सर्वंजगत्साक्षाच्छिवः कम्पयते ध्रुवम्।
महद्भयमिदं वज्रं विदित्वा मुच्यते नरः॥ ४७॥
तपत्यस्य भयादग्निर्भयात्तपति भास्करः।
भयादिन्द्रश्च वायुश्च मृत्युर्धावति पञ्चमः॥ ४८॥
वर्तमाने शरीरेऽस्मिन्न शक्तो बोद्धुमीश्वरम्।
नरः सर्वेषु लोकेषु शरीरित्वाय कल्पते॥ ४९॥
यथाऽऽदर्शे स्वकं रूपं यथावन्निर्मले नरः।
तथा पश्यति देहेऽस्मिन्नात्मानं ब्रह्म केवलम्॥ ५०॥

_______

परमार्थवत्प्रतीयन्त इत्यर्थः। अतः समस्तजगदुत्पत्तिस्थितिलयकारणं तद्ब्रह्म कश्चिदपि विकारो नात्येति नातिवर्तते। एतदेव खलु तद्वस्तु यद्विज्ञानादमृतत्वप्राप्तिर्वण्यते॥ ४६॥ ‘यदिदं किंच’ इति श्रुतेस्तात्पर्यमाह—इदं सर्वमिति। इदं पराग्भूतं सर्वं जगत्कारणभूतः परशिवः कम्पयते। तत्प्रशासनभयात्स्वस्वव्यापारेषु प्रवर्तमानं जगत्प्रेरयतीत्यर्थः। भयमुद्यतमुद्धृतं वज्रमिव महाभयहेतुः। ध्रुवं कूटस्थं नित्यं तमात्मानं विदित्वा संसारबन्धान्मुच्यत इत्यर्थः॥ ४७ ॥उक्तं भयहेतुत्वं विवृणोति—तपत्यस्येति। अग्न्यादिलोकपाला अपि तद्भयात्स्वस्वव्यापारे प्रवर्तन्ते किमु वक्तव्यमन्येषां भयहेतुरिति भावः॥ ४८॥ ‘इह चेदशकत्’ इति श्रुतिंव्याचष्टे–वर्तमान इति। विद्याधिकारयोग्येऽस्मिञ्शरीरे विद्यमान एव प्रत्यगात्मनोऽनवच्छिन्नपरशिवस्वरूपं यो बोद्धुं न शक्तः स सर्वेषु लोकेषु पुण्यपापवशेन शरीरधारणाय कल्पत इत्यर्थः॥४९॥’ यथाऽऽदर्शे’ इति श्रुतिं संगृह्णाति — यथेति। यथा निर्मल आदर्शे स्वकीयं रूपं सम्यक्पश्यति तथास्मिन्मानुषशरीरे श्रवणमननादिसाधनकला पानुष्ठानेनात्मानंब्रह्मरूपत्वेन साक्षात्कर्तुं शक्नोति। अन्यत्र तु साधनानुष्ठानासंभवात्तज्ज्ञानंन सुलभमिति भावः ॥५० ॥‘इन्द्रियाणां पृथग्भावम्’ इति वदान्नातं तदभिप्रायमाह—जन्मनाशेति। विदित्वाऽनात्मरूपत

जन्मनाशवतां खानां पृथग्भावं परात्मनः।
तेषां जन्मविनाशौ च विदित्वाऽनात्मरूपतः॥५१॥
पश्चादनात्मरूपेण विदितं केवलात्मना।
विदित्वा स्वानुभूत्यैव स धीरस्तु न शोचति॥५२॥
इन्द्रियेभ्यो मनः श्रेष्ठं मनसः सत्त्वमुत्तमम्।
सत्त्वादपि महानात्मा महतोऽव्यक्तमुत्तमम्॥५३॥
अव्यक्तात्तु परः साक्षाद्व्यापकोऽलिङ्ग एव च।
विदित्वा नरः साक्षादमृतत्वं हि गच्छति॥५४॥
न संदृशे तिष्ठति रूपमस्य
न चक्षुषा पश्यति कश्चिदेनम्।

____________________________________________________________

इत्यादि। आत्मसकाशाद्विविक्तमिन्द्रियादिकं प्रथममनात्मरूपेण विदित्वा तथाऽवस्थितं तत्पश्चात्केवलात्मभावेन विदित्वा। अधिष्ठानभूते स्वात्मनि तत्सर्वं विलाप्येत्यर्थः॥५१॥५२॥ एवं मन आदिकमपि स्वस्वकारणभावापत्त्वाविलाप्य सर्वाधिष्ठानभूतमुदीरितरूपं पुरुषस्वरूपमेव मुमुक्षुणा ज्ञातव्यमिति प्रतिपादयति— इन्द्रियेभ्य इत्यादिना। चक्षुरादीन्द्रियेभ्यः स्रकाशान्मनः श्रेष्ठम्। तदन्तरेण तेषां कार्यकारणत्वाभावात्। तस्माच्चमनसस्तत्कारणभूतं सत्त्वं श्रेष्ठम्। तस्मादपि महानात्मा हैरण्यगर्भी बुद्धिः प्रशस्ता। ततोऽपि प्रशस्तमव्यक्तं तत्कारणत्वेनातिसूक्ष्मत्वात्। तस्मादपि सर्वान्तरःपुरुषःपूर्णोऽनवच्छिन्न आत्मा। अव्यक्तादिस्थावरान्तस्य सर्वस्य कारणत्वात्साक्षाद्व्यापकः स चालिङ्गो लिङ्गयते गम्यते येन बुद्धयादि तन्न विद्यते यस्य स तथोक्तः। सकलसांसारिकपुण्यपापलेपस्य लिङ्गशरीराश्रितत्वातन्निषेधेनाऽऽत्मनः संसारास्पर्शो वर्जितो भवति॥५३॥५४॥ नन्वसौ निरुपाधिक आत्मा कथं वेदितुं शक्य इत्याशङ्कयाऽऽह— न संदृश इति। संदृशे संदर्शनविषये प्रत्यगात्मनो रूपं स्वरूपं सतिष्ठति । अतो न चक्षुषा। उपलक्षणसेतत्। चक्षुरादिसर्वे

हृदा मनीषा मनसाऽभिक्लृप्तः
साक्षादात्मा शक्यते वेदितुं सः॥५५॥
एवं साक्षात्सच्चिदानन्दरूपं
भावाभावाशेषलोकस्य हेतुम्।
श्रुत्या युक्त्या ब्रह्म जानन्ति मर्त्या
विद्यायोगादेव मुक्ता भवन्ति॥५६॥
विद्यावेद्यं ब्रह्म यद्वेदसिद्धं
तस्याचिन्त्या काचिदस्त्येव शक्तिः।
शक्त्या भिन्नं तद्भवत्यद्वयं स-
त्सत्यानन्दासङ्गबोधैकरूपम्॥५७॥

___________________________________________________________

न्द्रियेण कश्चिदप्येनमात्मानं न पश्यति कथं तर्हि स द्रष्टव्य इति। उच्यते। हृदा हृत्स्थया मनीषा मनसः संकल्पादिरूपत्येष्ट इति मनीट् तथाविधया बुद्ध्या मनसा मननरूपेण सम्यग्दर्शनेन चाभिक्लृप्तोऽभिप्रकाशितोऽयमात्मा साक्षाद्यथावद्वेदितुं शक्यते॥५५॥ ‘य एतद्विदु’ इति श्रुतिवाक्यस्यार्थं ब्रुवन्नवशिष्टश्रुतिसंदर्भस्यार्थं तात्पर्यतः संगृह्णाति—एवमिति॥५६॥ इति कठवल्लीव्याख्यानम्। एवं सच्चिदानन्दैकरसब्रह्मात्मैक्यपरत्वं कठशाखोपनिषदो दर्शितम्। अथ श्वेताश्वतरशाखोपनिषदोऽपि तत्परत्वं दर्शयति—विद्यावेद्यमित्याद्यध्यायशेषेण। तत्र हि यज्जगत्कारणं तद्ब्रह्मेत्यवगमयितुम् ‘कालः स्वभावो नियतिर्यदृच्छा’ इत्यादिना कालादीनां जगत्कारणत्वं पूर्वपक्षीकृत्य ‘ते ध्यानयोगानुगता अपश्यन्देवात्मशक्तिं स्वगुणैर्निगूढाम्’ इति मायाशक्तिसहितस्य द्योतमानस्य स्वप्रकाशचिदात्मकस्य ब्रह्मणो जगत्कारणत्वं वर्णितम्। तादृक्शक्तियोगं तस्य प्रतिपादयति—विद्यावेद्यमिति। या विद्या प्रागनुक्रान्ता ‘तया वेद्यं सकलवेदान्तेषु प्रसिद्धं यद्ब्रह्म तस्याचिन्त्येदृग्विधेति चिन्तयिमतुशक्या सर्वदुर्धष्टकारिणी काचिच्छक्तिरस्येव। सद्वहिक्तस्याशक्तस्य

एकं रूपं ब्रह्मणो जीवरूपं
भोग्यं विश्वं ब्रह्मणस्त्वन्यरूपम्।
अन्यद्रूपं ब्रह्मणः सर्वशास्त्रं
प्रज्ञामात्रं शुद्धरूपं परस्य॥५८॥
सर्वाजीवे सर्वसंस्थे बृहन्ते
तस्मिञ्जीवी भ्राम्यते ब्रह्मचक्रे।
ब्रह्मात्मानं प्रेरितारं च युक्त्या
मत्वा चैकं याति मर्त्योऽमृतत्वम्॥५९॥

_________________________________________________________

‘तत्तेजोऽसृजत’ इत्यादिश्रूयमाणकारणत्वानुपपतेरित्यर्थः। अत्र भोक्ता भोग्यं भोगप्रदश्चेति त्रैविध्यं प्रतिपित्सितम्। तच्चाद्वितीये ब्रह्मणि कथं घटत इत्याशङ्कय सा शक्तिस्तद्धटयतीत्याह—शक्त्येति। यत्सत्यादिलक्षणमद्वितीयं ब्रह्म तच्छक्त्या सत्त्वरजस्तमोगुणात्मिकया मायया घटाद्युपाधिभिराकाशवद्भिन्नं भेदयुक्तं भवति॥५७॥ तत्र मलिनसत्त्वप्रधानमायावच्छिन्नं यद्ब्रह्मणो रूपं तज्जीवसंज्ञां लभते। तमःप्रधानमायावछिन्नं तु भोग्यं जगद्भवति। विशुद्धसत्त्वप्रधानमायोपाधिकं त्वन्यद्रूपमीश्वराख्यं तद्भोगप्रदं भवति। अन्यद्रूपमिति। परस्य मायातीतस्य तस्य ब्रह्मणः कृत्स्नवेदान्तप्रतिपाद्यं केवलं चिदेकरसं यच्छुद्धरूपं तत्तु सोपाधिकरूपत्रितयादन्यद्विलक्षणामित्यर्थः। वक्ष्यति हि भोक्ता भोग्यमिति॥५८॥ श्रुतौ सर्वाजीव इति मन्त्रेण जीवस्याविद्यया संसारचक्रे भ्रमणं विद्यया ब्रह्मतादात्म्यं च यदाम्नातं तदाह—सर्वाजीव इति। आ समन्ताज्जीवनमाजीवः सर्वेषामाजीवो यस्मिंस्तत्सर्वाजीवं तस्मिन्सर्वसंस्थे सर्वेषां संस्था मरणं स्थितिर्वा यस्मिंस्तत्सर्वसंस्थं तस्मिन्सर्वसंस्थे। बृहन्ते ‘जृृविशिभ्यां झच्’ इति विधीयमानो झज्बाहुलकाद्ष्टंहतेरपि द्रष्टव्यः। बृहति विस्तृते तस्मिन्ब्रह्मचक्रे ब्रह्मणा निर्मिते संसारचक्रे स्वाविद्यया संसरष्जीवो भोगप्रदेनेश्वेरण भ्राम्यते। स च जीवः

ज्ञाज्ञौ जीवाजीवसंज्ञौ प्रतीत्या
श्रुत्या युक्त्या स्वानुभूत्या ह्यभिन्नौ।
माया भोक्तुर्भोगहेतुः परात्मा
रूपैरेभिर्विश्वरूपो ह्यकर्ता॥६०॥
क्षरं माया चाक्षरं जीवरूपं
क्षरात्मना भिद्यते देव एकः।
तस्य ध्यानाद्योजनात्तत्त्वभावा-
द्भूयश्चान्ते विश्वमायानिवृत्तिः॥६१॥

__________________________________________________

स्वार्जितसुकृतवशात्परमेश्वरानुग्रहेण चानुष्ठितश्रवणमननादिसाधनकलापः संस्तेन गुरूपदिष्टशास्त्रश्रवणेन प्रत्यगात्मानमीश्वरं चैकत्वेन ज्ञातं युक्त्या मत्वा साक्षात्कृत्यामृत्युत्वं मोक्षं प्राप्नोतीत्यर्थः॥५९॥ अस्य जीवेश्वरतादात्म्यस्य विस्पष्टं प्रतिपादकमन्यं मन्त्रमुपस्कृत्य व्याचष्टे— ज्ञाज्ञाविति। ज्ञोऽपरिच्छिन्नचैतन्यैकस्वभावस्तत्पदार्थः परशिवः। अज्ञः कर्ता भोक्ताऽऽवृतज्ञानस्त्वंपदार्थः। तावेतौ जीवाजीवसंज्ञौ प्रतीत्या भिन्नौ। परमार्थतस्तु ‘तत्त्वमसि’ ‘अहं ब्रह्मास्मि’ इत्यादिश्रुत्या तदनुसारिण्या युक्त्या विद्वदनुभवेन च तावभिन्नौ। उपाधिकृत एव तयोर्भेदो न वास्तव इत्यर्थः। तयोर्भेदापादकमुपाधिं दर्शयति—मायेति। भोक्तुः संसार्यात्मनो भोगहेतुर्माया मलिनसत्त्वप्रधाना। मायावशीकृतो हि प्रत्यगात्मा कर्ता भोक्ता भवति। परमात्मा तु स्वाधीनमायत्वादेभिर्दृश्यमानैः परिकल्पितैः सर्वैरपि रूपैर्विश्वरूपो नानाविधरूपः सन्नप्यकर्ता कर्तृत्वादिसकलसंसारधर्मरहितः। अतस्तदुपाधिपरित्यागेन तयोरैक्यं स्वध्यवसानमिति भावः॥६०॥ ‘क्षरं प्रधानममृताक्षरं हरः’ इति मन्त्रस्यार्थमाह—क्षरं मायेति। क्षरं क्षरणशीलं नश्वरं विद्यानिवर्त्यत्वान्मायातत्त्वम्। अक्षरमनश्वरं जीवभावापन्नं ब्रह्मणो रूपम्। तदुभयात्मनैक एव स्वयंप्रभः परशिवो भिद्यते भिन्नो भासते। मायातत्कार्यभेदश्व

ज्ञात्वा देवं सर्वपाशापहानिः
क्षीणैः क्लेशैर्जन्ममृत्युप्रहाणिः।
तस्य ध्यानान्मूलमायाविभेदे
विश्वैश्वर्यं याति कैवल्यरूपम्॥६२॥
एतज्ज्ञेयं नित्यमेवाऽऽत्मसंस्थं
नातः परं वेदितव्यं हि किंचित्।
भोक्ता भोग्यं प्रेरितारं च मत्वा
सर्वं प्रोक्तं त्रिविधं ब्रह्ममेतत्॥६३॥

_______________________________________________________________

तस्मिन्नध्यस्तत्वेन तदव्यतिरेकादित्यर्थः। आत्मज्ञानात्सद्यो मुक्तेरदर्शनात्तस्य तत्साधनत्वं प्रत्यक्षविरुद्धमिति भ्रमव्युदसनाय तस्याभिध्यानादिति श्रुतिमुदाहरति—तस्येति। तस्य निरस्तसमस्तभेदस्य चिदानन्दैकरसस्य च ब्रह्मणो ध्यानात्सर्वं खल्विदं ब्रह्मेति ताटस्थ्यज्ञानाच्छ्रवणजनितात्प्रत्यग्ब्रह्मैक्यविषयात्परोक्षज्ञानाद्वा भेदप्रपञ्चस्य निवृत्तिर्भवति। तदेवाहं ब्रह्मास्मीत्यात्मतया योजनादेकीकरणाद्यौक्तिकान्मननज्ञानाद्वा प्रतीचस्त्वब्रह्मरूपा माया निवर्तने पुनस्तत्त्वभावानद्रूपत्वभावनान्निदिध्यासनपर्यायात्तद्विषथमपरोक्षज्ञानं जायते। तेन च मायातद्विलासं निवार्यते। तस्यां निवारितायामपि तज्जनिता वासना प्रारब्धकर्मफलक्षयपर्यन्तमनुवर्ततेऽतो विदुषोऽपि तत्पर्यन्तो देहयात्राद्यर्थो व्यवहारो न विरुद्धः। भूयः पुनश्चान्ते प्रारब्धकर्मफलोपभोगावसाने विदेहकैवल्याबसरे स्ववासनया सह कृत्स्नमायानिवृत्तिर्भवतीत्यर्थः॥६१॥ उक्तध्यानादेः फलप्रतिपादिकां श्रुतिं संगृह्णाति—ज्ञात्वेति। देवं द्योतमानं स्वयंप्रकाशं परमात्मानमुदीरितरीत्या सर्वात्मत्वेन ज्ञात्वा सर्वपाशापहानिः। मूलमायाकर्मादयः पाशास्तेषां सर्वेषामविद्यास्मितादीनां क्लेशानां च परिक्षयं प्राप्नोतीत्यर्थः। तस्याभिध्यानात्तृतीयं देहभेद इति श्रुतिं व्याचष्टे—तस्येति। अद्वितीयब्रह्मात्मसाक्षात्कारेण मूलाज्ञाननिवृतौ

वह्नेर्यथा योनिगतस्य मूर्ति-
र्न दृश्यते नैव च लिङ्गनाशः।
स भूय एवेन्धनयोनिगृह्य-
स्तद्वोभयं वै प्रणवेन देहे॥६४॥

स्वदेहमरणिं कृत्वा प्रणवं चोत्तरारणिम्।
ध्याननिर्मथनाभ्यासाद्देवं पश्येन्निगूढवत्॥६५॥

____________________________________________________________

सत्यां कैवल्यरूपं केवलात्मावस्थानलक्षणं सर्वैश्वर्यमनपेक्षकमीश्वरत्वं प्राप्नोति॥६२॥आप्तकामत्वान्मायाशक्तिवशाद्भोक्तृभोग्यादिभावेन भिन्नं रूपं परित्यज्य यदेतदुक्तं वास्तवमभिन्नं कैवल्यरूपमेतदेव नित्यं सर्वदाऽऽत्मस्थं प्रत्यगात्मभावेन स्थितं ज्ञेयं साक्षात्कर्तव्यम्। नन्वितोऽन्यदपि किंचिज्ज्ञातव्यं स्यादित्यत आह—नातः परमिति। अतोऽस्मान्निरतिशयानन्दलक्षणाद्ब्रह्मात्मनोऽन्यद्वेदितव्यं किमपि तत्त्वं नास्ति ‘अतोऽन्यदार्तम्’ इति श्रुतेः। यत्तावद्भोक्तृभोग्यादिभेदेन त्रिविधं जगत्प्रतिभाति तदपि निरूप्यमाणे मायातीते ब्रह्मण्यध्यस्तत्वात्ततो न व्यतिरिच्यत इत्यस्यार्थस्य प्रतिपादकं मन्त्रमुदाहृत्य व्याचष्टे—भोक्तेति। ब्रह्ममेतदिति। अम्भावश्छान्दसः॥६३॥ तथाविधस्य ब्रह्मणो ज्ञानोपायं बोधयितुं यदान्नातं वह्नेर्यथेति तत्संगृह्णाति—वह्नेरिति। योनिगतस्य योनिः कारणमरणिस्तद्गतस्याग्नेर्मूर्तिः स्वरूपं न दृश्यते चक्षुषा त्वगिन्द्रियेण वा नोपलभ्यते। अथापि नैव लिङ्गनाशः। मथ्यमाने सति यदग्निसद्भावगमकं लिङ्गमौष्ण्यं तस्य च नाशो नैव विद्यते। सोऽग्निः पुनर्मथनोपायेनेन्धनयोनिरिन्धनादरणिरूपात्काष्ठाज्जायमानः सन्निन्द्रियग्राह्यो भवति। यथाऽयं दृष्टान्तस्तथा ब्रह्मापि कार्यकारणसंघाते प्रविष्टं सद्विवेकेनानुपलभ्यमानमप्युपायविशेषेण ग्रहीतुं शक्यते तमुपायं दर्शयति—तद्वेति। वाशब्दश्चार्थे। तच्चब्रह्मोभयविधं परं चापरं च देहे शरीरे हृदयाम्बुजमध्ये ध्वेयत्वेन ज्ञेयत्वेन चावस्थितं प्रणवेनोंकारेण गृह्यत इत्यर्थः॥६४॥ कथं

तिलेषु तैलं दधिनीव सर्पि-
रापः स्रोतस्स्वरणीषु चाग्निः।
एवमात्माऽऽत्मनि गृह्यतेऽसौ
सत्येनैवं तपसा योऽनुवेत्ति॥६६॥
सर्वव्यापिनमात्मानं क्षीरे सर्पिरिवार्पितम्।
आत्मविद्यातपोमूलं तद्बह्मोपनिषत्परम्‌॥६५७॥

_____________________________________________________________

प्रणवस्य तद्ग्रहणोपायत्वमिति तदाह–स्वदेहमिति। स्वदेहोपलक्षितं हृदयमधरारणिं कृत्वोंकारं चोत्तरारणिं कृत्वा ध्याननिर्मथनाभ्यासाद्ध्यानं प्रणवाभिधेयत्वेन तदालम्बनत्वेत वा परस्यापरस्य वा ब्रह्मणश्चिन्तनं तदेव निर्मथनं तस्याभ्यासो यावत्साक्षात्कारमनुवृत्तिस्तस्मादुपायद्देवं द्योतमानं स्वप्रकाशं निरुपाधिकमात्मस्वरूपं पश्येत्साक्षात्करोति। निगूढवत्‌। यथा काष्ठे निगूढं विलीनमग्निमधरोत्तरारणिभ्यां निर्मथनेनाऽऽवर्तनेनोपलभते तद्वदित्यर्थः॥६५॥ विहितमात्मदर्शनमनेकैर्दृष्टान्तैरुपपादयन्सत्यादिसाधनमुपदिशति–तिलेष्विति। यथा तिलेषु तैलं व्याप्य वर्तते। यथा वा दध्नि सर्पिराज्यं स्त्रोतस्सु सिकताविशिष्टासु नदीष्वापोऽभ्यन्तरे व्याप्य वर्तन्ते। अरणीषु काष्ठेऽवाग्निः। यथैते तैलादयस्तिलादिषु विवेकतोऽनुपलभ्यमाना आप पीडनालोडनखननमथनैर्नर्विवेकनोपलभ्यन्त एवमेव त्वयमात्मा निरुपाधिकः सच्चिदानन्दैकरस अत्मानि हृदये गृह्यते श्रवणमननादिसंस्कृतेन मनसा साक्षात्क्रियते। योऽसावेवंविवमात्मानं सत्येन वचनेन तपसा कृच्छ्रचान्द्रायणादिलक्षणेन वर्णाश्रमविहितेन स्वधर्मेण साधकोऽनुवेत्त्यनुपश्यति तेन सत्यादिसाधनवता पुरुषेण गृह्यत इति संवन्धः। अत एवाथर्वणोपनिषद्यप्याम्नातम्—‘सत्येन लभ्यस्तपसा ह्येष आत्मा’ इति॥६६॥ तिलादिषु तैलादिवद्व्याप्य वर्वमानो यः सर्वव्यापक आत्मा नासावुपचरितः किंतु साक्षाद्ब्रह्मैवेति प्रतिपादयति—सर्वव्यापिनमिति। क्षीरे कारणात्मनाऽवस्थितं धृतं यथा तद्व्याप्नोत्येवं कारणात्मना कार्यं जगत्कृत्स्नं व्याप्नोती-

यज्ञदानादिभिः पुण्यैर्योगसिद्धिर्भविष्यति।
योगात्संजायते ज्ञानं ज्ञानान्मुक्तिर्न कर्मणा॥६८॥
अत्याश्रमिभ्यः शान्तेभ्यो वक्तव्यं ब्रह्मवेदनम्‌।
नाप्रशान्ताय दातव्यं नापुत्राय कदाचन॥६९॥

_______________________________________________________

ति सर्वव्यापी। तस्य ब्रह्मस्वरूपत्वसंदर्शने साक्षात्साधनमाह—आत्मेति। आत्मनश्चिदानन्दैकरसस्य श्रवणमननादिसाधनजन्या साक्षात्काररूपा या विद्या यश्च तपो वर्णाश्रमविहितं यज्ञदानादिकर्म तदुभयं मूलमुपलब्धिकारणं यस्य स तथोक्तः। एवंभूतं य आत्मानं विद्वान्पश्यति तदेव परं ब्रह्म। तद्विशिनष्टि—उपनिषदिति॥ उपनिपूर्वात्सदेरयं शब्दस्तस्य च विशरणगत्यवसादनलक्षणास्रयोऽर्थाः। अद्वितीयं ब्रह्म सर्वप्राणिष्वात्मभावमुपेत्य निरुपाधिकरूपेण प्रकाशमानं सन्नितरां तदीयं संसारं विशृणाति हिनस्तीत्युपनिषत्‌। यद्वा जीवभावेनावस्थितं साक्षि चैतन्यं नितरां स्वात्मानमुपगमयत्यैक्यं प्रापयति तदविद्यामवसादयति शिथिलीकरोतीति वोपनिषत्परं ब्रह्म। यद्वोपनिषत्पदमिति श्रुतौ पठनादत्रापि तथैव पठनीयम्‌। तथाचोपनिषच्छब्देन बह्मविद्योच्यते तया पदनीयं प्राप्तव्यमित्यर्थः॥६७॥ एवमद्वितीयस्य ब्रह्मणः स्वशक्तिवशाद्भोक्तृभोग्यभोगप्रदरूपेणावस्थानं तद्विविक्तस्यापरिच्छिन्नचिदानन्दैकरसस्य निरुपाधिकरूपस्य ज्ञानान्मोक्षश्चेति कृत्स्नशास्त्रार्थस्य संग्रहेण प्रतिपादकं सूत्रभूतं श्वेताश्वतरोपनिषदि प्रथमाध्यायं व्याख्याय ‘युञ्जानः प्रथमं मनः’ इत्याद्यध्यायपञ्चकस्य तद्विवरणरूपतया गतार्थत्वात्संगृह्य व्याचष्टे—यज्ञदानेति। ‘युञ्जानः प्रथमं मनः’ इयादिमन्त्रेष्वग्न्याहरणाद्युपलक्षितस्याग्निहोत्रादिनित्य-नैमित्तिकादिकर्मजातस्य योगहेतुत्वश्रवणात्परमेश्वरार्पणबुद्ध्याऽनुष्ठितेन नित्यनैमित्तिककर्मणा त्रिरुन्नतं स्थाप्य समं शराीरामित्यादिश्रुत्युक्तरूपस्य योगस्य सिद्धिर्भवति। युक्तमनस्कस्य श्रवणनननाद्यनुष्ठानादनायासेन ब्रह्मात्मैकत्वज्ञानं जायते। तेन च मुक्तिरि-

अग्निरित्यादिभिर्मन्त्रैर्भस्मनोद्धूलनं तथा।
त्रिपुण्ड्रधारणं चापि वदन्त्यत्याश्रमं बुधाः॥७०॥
यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ।
तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः॥७१॥
श्रुतिवचनेन मयैव समस्तं परमकृपाबलतः पठितं च।
यदि विदितं स नरः स्वकमोहं तरति शिवं विशति प्रियरूपम्॥७२॥

इति श्रीसूतसंहितायां यज्ञवैभवखण्डस्योपरिभागे ब्रह्मगीतासु कठवल्लीश्वेताश्वतरव्याख्यायामेकादशोऽध्यायः॥११॥

द्वादशोऽध्यायः॥

१२. शिवस्याऽहंप्रत्ययाश्रयत्वम्।

ब्रह्मोवाच—

वक्ष्ये सारतरं साक्षात्सर्वशास्त्रार्थसंग्रहम्।
श्रद्धया सहिता यूयं शृणुतातीव शोभनम्॥१॥

____________

त्यध्यायपञ्चकस्य तात्पर्यार्थः॥६८॥ ब्रह्मविद्यासंप्रदायगोपनार्थमत्याश्रमिभ्यः परमं पवित्रमित्यादिना श्रुतौ यदधिकारिलक्षणमात्रातं तदाह—अत्याश्रमिभ्य इति॥६९॥ कः पुनरस्य चात्याश्रमो यद्योगादधिकारीति तत्राऽऽह—अग्निरिति। जाबालश्रुतिगतैरग्निरिति भस्मेत्यादिमन्त्रैर्भस्मनोद्धूलनं त्रिपुण्ड्रधारणं च। तच्छब्दोऽनुक्तसमुच्चयार्थः। तेन च शिवमन्त्रजपतत्पूजादिकं संगृह्यते। एतदुद्धूलनादिकमत्याश्रमं कथयन्त्यभिज्ञाः॥७०॥ शिवभक्तिवद्गुरुभक्तिरपि विद्योत्पत्तावन्तरङ्गसाधनमिति श्रुतिमुदाहरति—यस्येति॥७१॥ प्रतिपादितमुपनिषदर्थं निगमयति—श्रुतीति। प्रियरूपमिति। निरतिशयानन्दरूपमित्यर्थः॥७२॥

इति श्रीसूतसंहितातात्पर्यदीपिकायां यज्ञवैभवखण्डस्योपरिभागे ब्रह्मगीतासु कठवल्लीश्वेताश्वतरव्याख्यायामेकादशोऽध्यायः॥११॥

अस्ति तावदहंशब्दप्रत्ययालम्बनं परम्‌।
सर्वेषां नः परं ज्ञानं स एवाऽऽत्मा न संशयः॥२॥
सोऽयं स्वाविद्यया साक्षाच्छिवः सन्नपि वस्तुतः।
स्वशिवत्वमविज्ञाय संसारीवावभासते॥३॥
वेदोदितेन मार्गेण पारंपर्यक्रमेण तु।
मुमुक्षुत्वं दृढं प्राप्य पुनः शान्त्यादिसाधनेः॥४॥
सहितः शिवभक्त्या च गुरोः पादौ प्रणम्य च।
वेदान्तानां महावाक्यश्रवणेन तथैव च॥५॥
मननेन तथा देवा ध्यानेन परमात्मनः।
प्रत्यग्ब्रह्मैकताज्ञानं लब्ध्वायाति शिवं परम्‌॥६॥

____________

एवमैतरेयकादिसर्वशाखागता उपनिषदो व्याख्याय प्रतिपत्तिसौकर्याय तासु सर्वासु परिनिष्ठितमर्थं संग्रहेणाऽऽख्यातुं प्रतिजानीते—वक्ष्य इति। सर्वशास्त्रार्थेति। सर्वासामुपनिषदां येऽर्था विस्तरेण प्रतिपादितास्तेषां संग्रहमित्यर्थः॥१॥ स च सर्वोपनिषत्समाम्नातोऽर्थः प्रत्यग्ब्रह्मतादात्म्यरूप इत्याह—अस्तीति। स एवाऽऽत्मेति। कार्यकारणसंघातविशिष्टस्य चैतन्यस्याहंशब्दवाच्यतयाऽऽत्मत्वे प्रतिभासमानेऽपि देहेन्द्रियादेश्चिद्भास्यत्वाद्धढादिवदनात्मत्वेन सर्वान्तरः साक्षी चिन्मात्ररूप एवाहंशब्दलक्ष्य आत्मा न देहादिरित्यर्थः। स्वाविद्ययेति। स्वस्यासंसारिब्रह्मरूपत्वावरणाज्ञानेनेत्यर्थः। शिवः सन्नपीति। सर्वगतः शिव एव हि सर्वप्राणिषु तत्तदुपाधिवशाज्जीवभावेन परिच्छिन्नो भासते ‘अनेन जीवेनाऽऽत्मनानुप्रविश्य नामरूपे व्याकरवाणि’ इति श्रुतेः॥२॥३॥ एवं संसारित्वस्य स्वस्वरूपाज्ञानणात्रकृतत्वात्तत्प्राप्तौ ज्ञानादन्यं नापेक्षते तच्च ज्ञानमनेन क्रमेण सिध्यतीत्याह—वेदोदितेनेति। पारंपर्यक्रमेणेति। गुरुपरंपरायाः क्रमेणेत्यर्थः॥४—६॥ प्रत्यगात्मानमिति। शान्तिदान्त्यादिभिः श्रवणमननादिभिश्चोत्पन्नज्ञानेन

प्रत्यगात्मानमद्वंद्वमहंशब्दोपलक्षितम्‌।
शिवरूपेण संपश्यन्नेवयाति स्वपूर्णताम्‌॥७॥
शिवरूपतया भाते हंशब्दार्थे मुनीश्वराः।
अविद्या विलयं याति विद्यया परयैव तु॥८॥
विद्यया परयाऽविद्यानिवृत्तौ ब्रह्म केवलम्‌।
शिष्यते खलु नाभावो भावोनान्यस्तथाऽपि च॥९॥
व्यवहारदृशाऽविद्या तन्निवृत्तिश्च कथ्यते।
तत्त्वदृष्ट्या तु नाविद्या तन्निवृत्तिश्च हे सुराः॥१०॥

____________

साक्षिचिन्मात्ररूपं सुखदुःखादिसकलद्वंद्वनिर्मुक्तं त्वमहंशब्दाभ्यां लक्षितमपरिच्छिन्नपरशिवरूपेण सम्यक्पश्यन्साक्षात्कुर्वंस्तत्समकालमेव स्वात्मनः परिपूर्णतां प्राप्नोति। श्रु

तिरपि ज्ञानसमकालमेव सार्वात्म्यप्राप्तिं विदुषो दर्शयति—‘तद्धैतत्पश्यन् ऋषिर्वामदेव प्रति

पदे अहं मनुरभवं सूर्यश्च’ इति॥७॥८॥ शिष्यते खलु नाभाव इति। भावाभावात्मकस्य सकलस्याविद्यापारिकल्पितत्वात्तस्याश्च प्रतीतिमात्रशरीरत्वेन सदसद्विलक्षणत्वाद्विद्यया तन्निवृत्तौ केवलं ब्रह्मैवावशिष्यते।न तु भावात्मकमभावात्मकं वा किंचित्परिशिष्यते॥९॥ नतु तस्यामवस्थायामविद्यानिवृत्तिरप्यस्ति न वा। न चेदविद्यैव विद्यत इति कथं केवलपरिशेषः। अस्ति चेत्सा निवृत्तिरपि पारिशिष्यतइत्यत आह—व्यवहारेति। व्यवहारदृष्ट्यैवाविद्या तन्निवृत्तिश्च कथ्यते। परमार्थदृष्टया तु ते उभे अपि न स्त इत्यर्थः। अत एवोक्तमाचार्यैः—‘अस्यां विद्येत्त्यविद्यायामेवासित्वा प्रकल्प्यते। ब्रह्मदृष्ट्या त्वविद्येयं न कथंचन युज्यते’ इति॥ किं तर्हि तत्त्वदृष्ट्यः अ

सत् इति तदाह—तत्त्वेति। एतच्च पञ्चमेऽध्यायेऽपि प्रतिपादितम्

व्यावहारिकमज्ञानमपि ब्रह्मैव वस्तुत इत्यादिना। तस्मातत्त्वदृष्ट्यास्वदृष्ट्याभावाभावादिभेदाश्रितं कृत्स्नं जगत्कारणभूतब्रह्मात्मनवैष्वभासत इति प्रतिपादयति–जगद्रूपतयेत्यादिनां

ब्रह्मरूपतया ब्रह्म केवलं प्रतिभासते।
जगद्रूपतयाऽप्येतद्ब्रह्मैव प्रतिभासते॥११॥
विद्याविद्यादिभेदेन भावाभावादिभेदतः।
गुरुशिष्यादिभेदेन ब्रह्मैव प्रतिभासते॥१२॥
ब्रह्म सर्वमिति ज्ञानं ब्रह्मप्राप्तेस्तु साधनम्‌।
जगन्मायेति विज्ञानमज्ञानं फलतो भवेत्‌॥१३॥
तथाऽपि परमाद्वैतज्ञानस्येदं तु वेदनम्‌।
उपकारकमत्यन्तं तद्दृष्ट्वा वक्ति च श्रुतिः॥१४॥
यथा भातस्वरूपेण सत्यत्वेन जगच्छ्रुतिः।
अङ्गीकृत्य हितं नृृणां कदाचिद्वक्ति सादरम्‌॥१५॥
सत्यत्वेन जगद्भानं संसारस्य प्रवर्तकम्‌।
असत्यत्वेन भानं तु संसारस्य निवर्तकम्‌॥१६॥

____________

॥१०—१२॥ अज्ञानं फलत इति। ब्रह्मात्मना यत्सर्वजगद्विषयं ज्ञानं तद्ब्रह्मप्राप्तिसाधनम्। यत्ततोऽन्यत्वेन जगद्विषयं ज्ञानं फलतस्तदज्ञानमेव। अन्यथावस्थितस्यान्यथाग्रहणादित्यर्थः॥१३॥ किमर्थं तर्हि ‘आत्मन आकाशः संभूतः’ इत्यादिकया सृष्टिश्रुत्या भेदेन जगत्प्रतिपादनमित्यत आह—तथाऽपीति। जगदध्यारोपापवादयोः सतोनिष्प्रपञ्चमद्वैतं ब्रह्म प्रत्येतुं शक्यते। अतस्तत्प्रत्युपकारकत्वेन द्वैतजगद्वर्णनमित्यर्थः॥१४॥ ननु जगन्मिथ्याभूतं चेत्कथं तर्हि ‘यावज्जीवमग्निहोत्रं जुहुयात्‌’ ‘तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति’ इत्यादिका श्रुतिः साध्यसाधनभावं प्रतिपादयतीति तत्राऽऽह—यथेति। सत्यत्वेन जगदङ्गीकृत्य सा श्रुतिः साध्यसाधनभावमात्रप्रतिपादनपरा न तु तस्य पारमार्थिकं सत्यत्वं प्रतिपादयतीत्यर्थः॥१५॥ सत्यत्वेन जगद्भानमित्यादि। यत्पारमार्थिकसत्यतया जगद्भानं तन्मिथ्याज्ञानत्वात्संसारस्य हेतुः। असत्यतया तज्ज्ञानं तु परमार्थत्वात्संसारनिवर्तकम्‌॥१६॥

अतः संसारनाशाय कदाचित्परमा श्रुतिः।
जगत्सर्वमिदं माया वदत्यत्यन्तनिर्मला॥१७॥
अतीव पक्वचित्तस्य चित्तपाकमपेक्ष्य सा।
सर्वं ब्रह्मेति कल्याणी श्रुतिर्वदति सादरम्‌॥१८॥
ब्रह्मैव केवलं शुद्धं विद्यते तत्त्वदर्शने।
न च विद्या न चाविद्या न जगच्च न चापरम्‌॥१९॥
अतः परमनिर्वाणनिष्ठस्प परयोगिनः।
यथा यथाऽवभासोऽयं शिव एव न चापरम्‌॥२०॥
भूतपूर्वानुसंधानात्कथ्यते न च वस्तुतः।
यथा यथाऽवभासोऽयं शिव इत्यपि वेदनम्‌॥२१॥
न हि निर्वाणनिष्ठस्य शिवस्य परयोगिनः।
यथा यथेति यत्किंचिद्भासते परमार्थतः॥२२॥

____________

परमा श्रुतिरिति। ‘मायां तु प्रकृतिं विद्यान्मायिनं परमेश्वरम्‌’ ‘इन्द्रो मायाभिः पुरुरूप ईयते’ ‘मायामात्रमिदं द्वैतम्‌’ इत्यादिका श्रुतिः॥१७॥ सर्वं ब्रह्मेति। ‘सर्वं खल्विदं ब्रह्म’ ‘इदं सर्वं यदयमात्मा’ इत्यादिका श्रुतिः प्रतीयमानस्य कृत्स्नस्य जगतोऽखण्डैकरसब्रह्मात्मत्वं बोधयतीत्यर्थः॥१८॥१९॥ यथा यथाऽवभास इति। ब्रह्मनिष्ठप्य येन येन प्रकारेण जगत्प्रतिभासस्तेन तेन सर्वेणापि प्रकारेण तत्तत्साक्षिभूतः शिव एवावभासते न चान्यत्किंचिदित्यर्थः॥२०॥ भूतपूर्वेति। योऽयं सर्वजगद्विषयोऽवभासः स एव शिव इत्येवंरूपा या बुद्धिः साऽपि भूतपूर्वगत्या तदानीं सर्वस्य जगतोऽप्रतिभासनात्‌। भूतपूर्वगत्याश्रयणेनेदृशी बुद्धिः साऽपि तदानीं न संभवतीत्याह— यथेति। ईदृग्विधस्य वेदनस्याप्यविद्याकार्यत्वेन कारणनिवृत्त्या निवृत्तत्वादित्यर्थः। स्तिमितोदधिवदिति। निस्तरङ्गसमुद्रवद्विक्षेपहेतोर्द्वैतस्याभावादत्यन्तनिर्विकल्पेन चिदानन्दैकरसस्वभावेन निश्चलं तिष्ठती-

तथा तथाऽवभासेन स्वेन रूपेण केवलम्‌।
स्तिमितोदधिवद्योगी स्वयं तिष्ठति नान्यथा॥२३॥
परनिर्वाणनिष्ठस्य योगिनः परमां स्थितिम्‌।
स्वयं च न विजानाति न हरिर्न महेश्वरः॥२४॥
न मया च परिज्ञातुं शक्यते योगिनः स्थितिः।
नापि वेदेन मानेन न च स्मृतिपुराणकैः॥२५॥
अहो निर्वाणनिष्ठस्य योगिन परमा स्थितिः।
यादृशी परमा निष्ठा तादृश्येव हि केवलम्‌॥२६॥
एवंरूपा परा निष्ठा शिवस्यास्ति स्वभावतः।
शिवायाश्चाभ्बिकाभर्तुः प्रसादेन हरेरपि॥२७॥
तथा ममापि चान्येषां न चोद्यार्हो महेश्वरः।
तादृग्रुपो महादेवः खलु साक्षात्सनातनः॥२८॥
ईदृशी परमा निष्ठा गुरो साक्षान्निरीक्षणात्‌।
कर्मसाम्ये त्वनाया

सात्मिध्यत्ये न संशयः॥२९॥
देशिकं देवदेवश शिवं विद्य द्वि

च उणः।
तदिष्टं सर्वयत्नेन प्रकुर्यात्सर्वदाऽऽदरात॥३०॥
स्वस्यानिष्टमपि प्राज्ञःप्रकुर्यादगुरुणोदितः।
गुरोरिष्टं प्रकृर्वाणः पर निर्वाणमृच्छति॥३१॥
स्वाश्रमं च स्वजातिं च स्वकीर्ति च तथैव च।
स्वादृष्टं लोक

रिदृष्टं वन्धुपुत्रादिसंगमम्॥३२॥

__________

त्यर्थः॥२१—२३॥

स्वयंच ना विजानातीति। स्वप्रकाशब्रह्मात्मनाऽवस्थितस्य विदुषं

न्तन तन कमार ना विद्याकार्यत्वाद्विद्यया तन्निवर्तनात्स्वयं विद्वानपि तामवस्थां कर्मकर्तृभावेन न जानातीत्यर्भः॥२४—२८॥ कर्मसाम्ये

त्वानायासादिति। कर्मणोः सुकृतदुष्कृतयोः फलभोगेन साम्ये क्षये सतीत्यर्थः। उक्तं हि—‘जन्तोरपश्चिमतनोः

गृहक्षेत्रधनादीनां हानिं क्लेशं सुखं तथा।
अनवेक्ष्य गुरोरिष्टं कुर्यान्नित्यमतन्द्रितः॥३३॥
गुरौ प्रीते शिवः साक्षात्प्रसन्नः प्रतिभासते।
गुरोर्देहे महादेवः साम्बः संनिहितः सदा॥३४॥
गुरोरनिष्टं मोहाद्वा न कुर्यात्कुरुते यदि।
पच्यते नरके तीव्रे यावदाभूतसंप्लवम्‌॥३५॥
शिवे क्रुद्वे गुरुस्त्राता गुरौ क्रुद्धे न कश्चन।
तस्मादिष्टं गुरोः कुर्यात्कायेन मनसा गिरा॥३६॥
गुरुर्नामाऽऽत्मनो नान्यः सत्यमेव न संशयः।
आत्मलाभात्परो लाभो नास्ति नास्ति न संशयः॥३७॥
अनात्मरूपं देहादि यो ददाति पिता तु सः।
न गुरु कथितः प्राज्ञैः क्लेशहेतुप्रदो हि सः॥३८॥
अष्टैश्वर्यप्रदस्तद्वद्गन्धर्वादिपदप्रदः।
सार्वभौमप्रदश्चापि न गुरूः क्लेशदो हि सः॥३९॥
मन्त्रतन्त्रादिदस्तद्वल्लौकिकोपायदस्तथा।
न गुरुः कथितः प्राज्ञैः क्लेशहेतुप्रदो हि सः॥४०॥
सत्यवत्सकलं भातं निश्चित्यासत्यरूपतः।
सर्वसाक्षितयाऽऽत्मानं विभज्य परचेतनम्‌॥४१॥

____________

सति कर्मसाम्ये’ इति॥२९—३६॥ आत्मनो नान्य इति। परमात्मनो न व्यतिरिक्तः स एव गुरुमूर्तिमास्थायावतिष्ठते। उक्तं हि तत्त्वप्रकाशे—‘योजयति परे तत्त्वे स दीक्षयाऽऽचार्यमूर्तिस्थः’ इति॥३७—४०॥ सत्यवत्सकलमिति। सन्घटः सन्पटः इत्यादिना सत्यवत्प्रतिभातमपि कृत्स्नं द्वैतरूपमसत्यरूपेण निश्चित्य देहेन्द्रियादिसंघातसाक्षिचिन्मात्ररूपमात्मानं ततो विभज्यानवन्छिन्नचिदात्मकं यत्परं ब्रह्म तदेव त्वमसीति वेदान्तमहावाक्यलक्षणेन प्रदीपेनैवं ब्रह्मात्मतत्त्वं बोधयत्येष

यस्त्वं तदिति वेदान्तप्रदीपेन स्वकं निजम्‌।
शिवत्वं बोधयत्येष गुरूः साक्षान्न चापरः॥४२॥
दृश्यरूपमिदं सर्वं दृग्रूपेण विलाप्य च।
दृग्रूपं ब्रह्म यो वक्ति स गुरुर्नापरः पुमान्‌॥४३॥
परमाद्वैतविज्ञानं कृपयैव ददाति यः।
सोऽयं गुरुगुरूः साक्षाच्छिव एव न संशयः॥४४॥
तादृशं देशिकं साक्षाद्वेदान्ताम्बुजभास्करम्‌।
तोषयेत्सर्वयत्नेन श्रेयसे भूयसे नरः॥४५॥
सर्ववेदान्तवाक्यानामर्थः संग्रहरूपतः।
कथितश्च मया देवा मामाह परमेश्वरः॥४६॥
सर्वज्ञः सर्ववित्साक्षादाप्तकामः कृपाकरः।
सर्वदोषविनिर्मुक्तः सत्यमेवाब्रवीन्मम॥४७॥
यथाऽऽह सर्ववेदानामर्थं सर्वज्ञ ईश्वरः।
तथैव कथितोऽस्माभिः सत्यमेव न संशयः॥४८॥
स्वप्रकाशस्वरूपस्य स्वत शुद्धस्य शूलिनः।
करामलकवत्सर्वं प्रत्यक्षं हि न संशयः॥४९॥
वेदानामन्यथैवार्थं ये वदन्ति विमोहिताः।
महासाहसिका एव ते नरा न हि संशयः॥५०॥
मदुक्तार्थप्रकारेण विना ये प्रवदन्ति ते।
अन्धकूपे निरालम्बे पतन्त्येव संशयः॥५१॥
वेदार्थः परमाद्वैतं नेतरत्सुरपुङ्गवाः।

__________

एव साक्षाद्गुरुर्नान्यः। निःशेषदुःखेच्छित्तिनिरतिशयानन्दवाप्तिलक्षणस्य पुरुषार्थस्य प्रापकत्वादित्यर्थः॥४१॥४२॥ तदेव प्रपञ्चयति—दृश्यरूपमित्यादिना॥४३॥ गुरुगुरुरिति । गुरवः पित्राद्यास्तेषामप्यसो विद्वान्गुरूः॥४४॥४५॥ प्रतिज्ञातमर्थमुपसंहरति—

नो चेदत्रैव मे मूर्धा पतिष्यति न संशयः॥५२॥
अन्यथा वेदवाक्यानामर्थ इत्यभिशङ्कया।
अनिश्चितार्थाश्चेन्मूर्धा युष्माकं च पतिष्यति॥५३॥
इतः परं न वक्तव्यं विद्यते सुरपुङ्गवाः।
सत्यमेव मया प्रोक्तं शंभोः पादौ स्पृशाम्यहम्‌॥५४॥

सूत उवाच—

एवमुक्त्वा महातेजा ब्रह्मा च सुरपुङ्गवान्‌।
प्रत्यग्भूतं परानन्दं पार्वतीपतिमीश्वरम्‌॥५५॥
परमाद्वैतरूपं तं भवरोगस्य भेषजम्‌।
स्मृत्वा नत्वा पुनः स्तुत्वा भक्त्या परवशोऽभवत्‌॥५६॥
देवाश्च देवदेवेशं स्मृत्वा साम्बं त्रियम्बकम्‌।
प्रणम्य दण्डवद्भूमौ विवशा अभवन्मुदा॥५७॥
देवदेवो महादेवो महाकारुणिकोत्तमः।
तत्रैवाऽऽविरभूद्देव्या सह सत्यतपोधनाः॥५८॥
विष्णुश्च पद्मया सार्धं तत्रैव ब्रह्मवित्तमाः।
आगतो भगवान्द्रष्टुमशेषसुरनायकम्‌॥५९॥

पुष्पवृष्टिरभवद्यथा पुरा स्वस्तिपूर्ववचनानि चाभवन्‌।
तत्र भक्तिसहितेन विष्णुना पद्मया च परिपूजितः शिवः॥६०॥
शंकरोऽपि शशिशेखरः परस्त्वम्बयैव सहितः सनातनः।
तत्र नृत्यमकरोदतिप्रभुः स्वस्वरूपपरवेदनप्रियात्‌॥६१॥
सर्वलोकजननी शिवा परा पापनाशकरबोधदायिनी।
ब्रह्मवज्रधरपूर्वकानिमान्स्वानुभूतिसहितेन चक्षुषा॥६२॥`

विलोक्य कारुण्यबलेन केवलं

प्रबोधयामास सुरोत्तमानिमान्‌।

पुनः प्रजानाथपुरःसराः सुराः

प्रनृत्यमानं तु शिवं शिवामपि॥६३॥

त्वक्चक्षुषैव ददृशुः श्रुतिमस्तकोत्थ-

विज्ञानरूपपरलोचनगोचरार्हम्‌।

भक्त्या पुनः परमकारूणिकं महान्तं

पञ्चाक्षरेण भवपाशहरेण पूज्य॥६४॥

तुष्टुवुः श्रुतिवचोभिरादरान्नष्टकष्टभवपाशवन्धनाः।
इष्टसिद्धिरभवद्धि वः सुरा इत्यवोचदशुभापहः शिवः॥६५॥
शांकरी च शरणागतप्रिया बन्धहेतुमलनाशकारिणी।
मत्प्रसादबललब्धवेदना इत्यवोचदभवन्नतिप्रिया॥६६॥
केशवोऽपि सुरपुङ्गवान्प्रति प्राह शंभुरयमद्भुतः प्रभुः।
सर्ववेदशिरसामगोचरः प्रीत एव भवतामिति द्विजः॥६७॥

देवोऽपि कारुण्यरसार्द्रमानसः सुरानशेषानजपूर्वकान्प्रति।
उवाच गीतामतिशोभनामिमां ममानुकूलामपि यः पठेद्द्विजः॥६८॥
स याति मामेव निरस्तबन्धन परा शिवा वाचि सदैव वर्तते।
दिवाकरेणापि समश्च तेजसा श्रिया मुकुन्देन समः सदा भवेत्‌॥६९॥
एषा गीता ब्रह्मगीताभिधाना श्रुत्या युक्ता सर्वगीतोत्तमा च।
वेदाकारा वेदनिष्ठैर्द्विजेन्द्रैर्भक्त्या पाठ्या नैव शूद्रादिभिश्च॥७०॥
इत्येवं परमशिवः प्रभाष्य नाथः शिष्टानामशुभहरः पुरत्रयारिः।
भक्तानाममलसुखप्रबोधकारी तत्रैव स्फुरणसुखे तिरो बभूव॥७१॥
दैवी सा सकलजगद्विचित्रचित्रा कारुण्यादखिलसुरानजं विलोक्य।
सुपीता परमसुखप्रबोधरूपा तत्रैव स्फुरणसुखे तिरो बभुव॥७२॥
विष्णुर्लक्ष्म्या साकमाश्वास्य देवान्हृष्टस्तुष्टः स्वस्य वेकुण्ठमाप।
ब्रह्मा देवानात्मविद्याभियुक्तांस्त्यक्त्वा रुद्रध्याननिष्ठो बभूव॥७३॥
देवाः सर्वे दण्डवद्भूमिभागे भक्त्या सार्धं पद्मयोनिं प्रणम्य।
हृष्टात्मानः सत्यबोधैकनिष्ठाः सद्यः स्वं स्वं देशमीयुर्द्विजेन्द्राः॥७४॥
इत्थं साक्षाद्ब्रह्मगीता भवद्भिः शुद्धज्ञानैरादरेण श्रुतैव।
मत्तः श्रद्धाभक्तियुक्तस्य विप्रा नित्यं देया नेतरस्यातिशुद्धा॥७५॥

इति परशिवभक्त्या प्राप्तविद्यस्तु सूतः

सुखघनशिवतत्त्वप्रापिकामेव गीताम्‌।

मुनिगणहितबुद्ध्याऽऽभाष्य निर्वाणरूपं

परतरमवलोक्य प्रज्ञया मौनमाप॥७६॥

मुनयश्च गुरुं परवोदनं प्रणिपत्य समस्तहितप्रदम्‌।
हृदयस्थमहंपदलक्षितं परतत्त्वतयैव विदुः स्थिरम्‌॥७७॥

इति श्रीस्कान्दपुराणे सूतसंहितायां चतुर्थस्य यज्ञवैभवखण्डस्योपरिभागे ब्रह्मगीतामूपनिषत्सु शिवस्याहंप्रत्ययाश्रयत्वं नाम द्वादशोऽध्यायः॥१२॥

_____________

श्रीमत्सूतसंहितायां। चतुर्थस्ययज्ञवैभवखण्डस्योपरिभागे

सूतगीताप्रारम्भः। प्रथमोऽध्यायः।

१. सूतगीतिः।

ऐश्वरं परमानन्दमनन्तं सत्यचिद्धनम्‌।
आत्मत्वेनैव पश्यन्तं निस्तरङ्गसमुद्रवत्‌॥१॥
निर्विकल्पं सुसंपूर्णं सुप्रसन्नं शुचिस्मितम्‌।
भासयन्तं जगद्भासा भानुमन्तमिवापरम्‌॥२॥

_____________

सर्ववेदान्तेति। स्पष्टोऽर्थः॥४६—५४॥ एवमुक्त्वेत्यादि सूतवाक्यम्‌॥५५—७५॥ इति परशिवभक्त्येति कविवाक्यम्‌॥७६॥७७॥

इति श्रीमत्काशीविलासश्रीक्रियाशक्तिपरमभक्तश्रीत्र्यम्बकपादाब्जसे

बापरायणेनोपनिषन्मार्गप्रवर्तकेन माधवाचार्येण विरचितायां सूत

संहितातात्पर्यदीपिकायां चतुर्थस्य यज्ञवैभवखण्डस्योपरि

भागे ब्रह्मगीतासूपनिषत्सु ब्रह्मविद्यायां शिवस्याहं

प्रत्ययाश्रयत्वं नाम द्वादशोऽध्यायः॥१२॥

इति समाप्तेयं ब्रह्मगीता।

प्रणम्य मुनयः सूतं दण्डवत्पृथिवीतले।
कृताञ्जलिपुटा भूत्वा तुष्टुवुः परया मुदा॥३॥
नमस्ते भगवन्‌ शम्भुप्रसादावाप्तवेदन।
नमस्ते भगवन्‌ शम्भुचरणाम्भोजवल्लभ॥४॥
नमस्ते शम्भुभक्तानामग्रगण्य समाहित।
नमस्ते शम्भुभक्तानामतीव हितबोधक॥५॥
नमस्ते वेदवेदान्तपद्मखण्डदिवाकर।
व्यासविज्ञानदीपस्य वर्तिभूताय ते नमः॥६॥
पुराणमुक्तामालायाः सूत्रभूताय ते नमः।
अस्माकं भववृक्षस्य कुठाराय नमोऽस्तु ते॥७॥
कृपासागर सर्वेषां हितप्रद नमोऽस्तु ते।
नमोऽविज्ञातदोषाय नमो ज्ञानगुणाय ते॥८॥
मातृभूताय मर्त्यानां व्यासशिष्याय ते नमः।
धर्मिष्ठाय नमस्तुभ्यं ब्रह्मनिष्ठाय ते नमः॥९॥

____________

अथ विद्यार्थिना गुरुनमरकारस्तुती प्रथमतः कर्तव्ये इति व्युत्पादयितुं सूतगीतां श्रोतुकामैर्नैमिषीयैः कृते नमस्कारस्तुती उपनिबध्नाति—ऐश्वरमिति। आनन्दमनन्तमित्यादिविशेषणमसकृदुक्तार्थम्‌। आत्मत्वेनैवेति। सच्चिदानन्दैकरसमद्वितीयं यत्परं ब्रह्म तदात्मभावेनैव साक्षात्कुर्वन्‍तम्‌। अत एव निस्तरङ्गसमुद्रवन्निर्विकल्पम्‌। विकल्पहेतोस्तत्त्वतोऽसंभवात्‌। अत एव सुसंपूर्णमपरिच्छिन्नम्‌। अवाप्तनिरतिशयानन्दरूपतया सुप्रसन्नम। अत एव शुचिस्मितमात्मीयतेजसा कृत्स्नं जगद्भासयन्तं तदानीमपरसूर्यमिव स्थितम्‌। एतावद्भिर्विशेषणैस्तस्य बक्ष्यमाणार्थोपदेशसामर्थ्यप्रतिपादनेन नमस्कारयोग्यत्वमवधारितम्॥१—३॥ नमस्ते भगवन्नित्यादि नैमिषीयैर्ऋषिभिः कृतं सूतस्तोत्रम्॥४—७॥ अविज्ञातदोषायेति। अविद्यमानदोषायेत्यर्थः॥८–११॥ प्रश्नं प्रचक्रिर

समाय सर्वजन्तूनां सारभूताय ते नमः।
साक्षात्सत्यपराणां तु सत्यभूताय तेनमः॥१०॥
नमो नमो नमस्तुभ्यं पुनर्भूयो नमो नमः।
अस्माकं गुरवे साक्षान्नमः स्वात्मप्रदायिने॥११॥
एवं गोत्रर्षयः स्तुत्वा सूतं सर्वहितप्रदम्‌।
प्रश्नं प्रचक्रिरे सर्वे सर्वलोकहितैषिणः॥१२॥
सोऽपि सूतः स्वतः सिद्धः स्वरूपानुभवात्परात्।
उत्थाय स्वगुरुं व्यासं दध्यौ सर्वहिते रतम्‌॥१३॥
अस्मिन्नवसरे व्यासः साक्षात्सत्यवतीसुतः।
भस्मोद्धूलितसर्वाङ्गस्त्रीपुण्ड्राङ्कितमस्तकः॥१४॥
कृष्णाजिनी सोत्तरीय आपाढेन विराजितः।
रुद्राक्षमालाभरणस्तत्रैवाविरभूत्स्वयम्‌॥१५॥
तं दृष्ट्वा देशिकेन्द्राणां देशिकं करुणाकरम्‌।
सूतः सत्यवतीसूनुं स्वशिष्यैः सह सत्तमैः॥१६॥
प्रणम्य दण्डवद्भूमौ प्रसन्नेन्द्रियमानसः।
यथार्हं पूजयामास दत्त्वा चाऽऽसनमुत्तमम्॥१७॥
भगवानपि सर्वज्ञ साक्षात्सत्यवतीसुतः।
प्राह गम्भीरया वाचा स्वशिष्यं प्रति सत्तमः॥१८॥
भद्रमस्तु सुसंपूर्णं सूत शिष्य ममाऽऽस्तिक।
तवैषामपि किं कार्यं मया तद्ब्रूहि मेऽनघ॥१९॥
एवं व्यासवचः श्रुत्वा सूतः पौराणिकोत्तमः।
उवाच मधुरं वाक्यं लोकानां हितमुत्तमम्‌॥२०॥

——————

इति। सूतगीताविषयं प्रश्नं कृतवन्त इत्यर्थः॥१२॥ गुर्वनुज्ञामन्तरेण यथाव

त्सतीत्यसंभवाद्गुरुणा व्यासेनानुज्ञात एवहमिभां गीतां व्रवाणीत्यभिप्रायेण हि तद्धपानादिकं कृतवानित्याह—सोऽपीति॥१३-२२॥

सूत उवाच—

इमे हि मुनयः शुद्धाः सत्यधर्मपरायणाः।
मद्गीताश्रवणे चैषामस्ति श्रद्धा महत्तरा॥२१॥
भवत्प्रसादे सत्येव शक्यते सा विभाषितुम्।
यदि प्रसन्नो भगवन्‌ वदेत्याज्ञापयाद्य माम्‌॥२२॥
इति सूतवचः श्रुत्वा भगवान्‌ करुणानिधिः।
त्वदीयामद्य तां गीतां वदैषामर्थिनां शुभाम्॥२३॥
इत्युक्त्वा शिष्यमालिङ्ग्य हृदयं तस्य संस्पृशन्।
साम्बं सर्वेश्वरं ध्यात्वा निरिक्ष्यैनं कृपाबलात्॥२४॥
स्थापयित्वा महादेवं हृदये तस्य सुस्थिरम्‌।
तस्य मूर्धानमघ्राय भगवानगमद्गुरुः॥२५॥
सोऽपि सूतः पुनः साम्बं ध्यात्वा देवं त्रियम्बकम्‌।
प्रणम्य दण्डवद्भूमौ स्मृत्वा व्यासं च सद्गुरुम्॥२६॥
कृताञ्जलिपुटो भूत्वा मन्त्रमाद्यं षडक्षरम्‌।
जपित्वा श्रद्धया सार्धं निरीक्ष्य मुनिपुङ्गवान्‌॥२७॥
कृतप्रणामो मुनिभिः स्वगीतामतिनिर्मलाम्‌।
वक्तुमारभते सूत सर्वलोकहिते रतः॥२८॥

इति श्रीसूतसंहितायां यज्ञवैभवखण्डस्योपरिभागे सूतगी

तायां सूतगीतिर्नाम प्रथमोऽध्यायः॥१॥

___________

व्यासोऽपि कृतसंनिधानः सन्‌ सूतस्य पूजानमस्कारादिना तुष्टो भूत्वा तस्य परमार्थदर्शनसामर्थ्यात्तदाधारकं परमेश्वरं तद्धृदये स्थापयामास॥२३—२५॥ सूतोऽपि स्वेष्टदेवतानमस्कारपूर्वकं मुनिभिः पृष्टामात्मीयां गीतां वक्तुं प्रारब्धवानिति प्रकटार्थः॥२६—२८॥

इति श्रीसूतसंहितातात्पर्यदीपिकायां यज्ञवैभवखण्डस्योपरिभागे

सूतगीतायां सूतगीतिर्नाम प्रथमोऽध्यायः॥१॥

द्वितीयोऽध्यायः।

२. आत्मना सृष्टिकथनम्‌।

सूत उवाच—

शृणुत ब्रह्मविच्छ्रेष्ठा भाग्यवन्तः समाहिताः।
वक्ष्यामि परमं गुह्यं विज्ञानं वेदसंमतम्‌॥१॥
अस्ति कश्चित्स्वत सिद्धः सत्यज्ञानसुखाद्वयः।
विश्वस्य जगतः कर्ता पशुपाशविलक्षणः॥२॥
आकाशादीनि भूतानि पञ्च तेषां प्रकीर्तिताः।
गुणाः शब्दादयः पञ्च पञ्च कर्मेन्द्रियाणि च॥३॥
ज्ञानेन्द्रियाणि पञ्चैव प्राणाद्या दश वायवः।
मनो बुद्धिरहंकारश्चित्तं चेति चतुष्टयम्‌॥४॥

_______________________________________________________________________________________________________________

अथ सूत आत्मीयां गीतां वक्तुमारभमाणः श्रोतृृनभिमुखीकरोति—शृणुतेति। विज्ञायतेऽनेनेति विज्ञानम्‌। वेदसंमतं मूलप्रमाणस्य वेदवाक्यस्याभिमतमतो वक्ष्यमाणेऽर्थे क्वचिदप्यप्रामाण्यशङ्का न कार्येत्यर्थः॥१॥ तत्र वेदसिद्धान्पतिपाशपशुपदार्थान्क्रमेण दर्शयति—अस्ति कश्चिदित्यादिना। स्वतः सिद्ध इति। स्वाधीना सिद्धिर्नान्यस्मात्कारणादस्य सिद्धिः किंतु सर्वदा सिद्धस्वभाव एवायम्‌। अनेन नित्यत्वमुक्तं भवति। श्रुतिसिद्धं तस्य स्वरूपलक्षणं दर्शयति—सत्येति। ‘सत्यं ज्ञानमनन्तं ब्रह्म’ इति श्रुतेः। साक्षात्स्वरूपज्ञानस्य दुरवगाहत्वात्तटस्थलक्षणमाह—विश्वस्येति। सष्टिस्थितिसंहृतीनां कर्ता यः स एव परशिवः स एव वक्ष्यमाणेभ्यः पशुपाशेभ्यो विलक्षणत्वात्स्वतन्त्रः पतिपदार्थः॥२॥ पाशपदार्थं दर्शयति—आकाशादीनीति। मायाशबलाद्ब्रह्मण उत्पन्नानि वियदादिभूतानि पञ्च। तेषां गुणाः शब्दस्पर्शादयः पञ्च। धीकर्मेन्द्रियाणि दश। प्राणापानाद्याः पञ्च ‘नागः कूर्मोऽथ कृकलो देवदत्तो धनंजयः’ इत्युक्ताः पञ्चेति दश वायवः। अन्तःकरण-

तेषां कारणभूतैकाऽविद्या षट्त्रिंशकः पशुः।
विश्वस्य जगतः कर्ता पशोरन्यः परः शिवः॥५॥
आत्मानः पशवः सर्वे प्रोक्ता अज्ञानिनः सदा।
अज्ञानमात्मनामेषामनाद्येव स्वभावतः॥६॥
संसारबीजमज्ञानं संसार्यज्ञः पुमान्यतः।
ज्ञानात्तस्य निवृत्तिः स्यात्प्रकाशात्तमसो यथा॥७॥
अज्ञानाकारभेदेनाविद्याख्येनेव केवलम्‌।
पशूनामात्मनां भेदः कल्पितो न स्वभावतः॥८॥

__________

चतुष्टयं चेति चतुस्त्रिंशत्‌॥३॥४॥ एषां कारणभूता या मूलाविद्या सा पञ्चत्रिंशी। एवम् काशादिपञ्चत्रिंशत्तत्त्वात्मकः प्रपञ्चो जीवस्य बन्धहेतुत्वात्पाशस्तेन च बध्यमानो यो जीवात्मा स एव षट्‌त्रिंशत्संख्यापूरकः पाशबद्धत्वात्पशुरित्युच्यते। पशोरन्य इति। स्वाश्रयव्यामोहकाविद्योपाधिको हि पशुः। तदव्यामोहकमायोपाघिकः सर्वज्ञः सर्वजगत्कर्तेश्वरः पशुपतिः। अतस्त्वनयोरेकत्वशङ्का न कार्येत्यर्थः॥५॥ अज्ञानिनः सदेति। अज्ञानोपाधिभिन्ना य आत्मानस्ते सर्वे पशवः प्रोक्ताः। अनाद्येवेति। जीवोपाधिभूतं तदज्ञानमनद्येवाङ्गीकर्तव्यम्‌। आदिमत्त्वे हि ततः प्राक्तस्य संसाराभावप्रसङ्गात्॥६॥ नन्वन्यस्मादेव कारणात्संसारो भविष्यतीति तत्राऽऽह—संसारेति। यतो यस्मादज्ञः स्वस्वरूपया थात्म्यमजानान एव पुरुषः संसारी देहेन्द्रियादिसंघातकृतपुण्यपापफलयोः सुखदुःखयोरात्मन्यध्यासेन तदुपभागेलक्षणसंसारभोगवान्भवति तस्मादज्ञानमेव संसारस्य निदानं नान्यदितत्यर्थः। ज्ञानात्तस्येति। तस्य संसारकारणस्याऽऽत्मनोऽज्ञानस्य तमस आलोकेनैव ज्ञानेनैव निवृत्तिर्भवति। अतश्च भावरूपमपि तज्ज्ञाननिवर्त्यत्वादज्ञानमिति व्यपदिश्यत इत्यर्थः॥७॥ अज्ञानाकारेत्यादि। तस्य च भावरूपाज्ञानस्य मूलप्रकृतिमायाद्यपर्यायस्य यस्य द्वावाकारौ। मलिनसत्त्वप्रधानाविद्याख्य एक

अज्ञानाकारभेदेन मायाख्येनैव केवलम्‌।
विभागः कल्पिता विप्राः परमात्मत्वलक्षणः॥९॥
घटाकाशमहाकाशविभागः कल्पितो यथा।
तथैव कल्पितो भेदो जीवात्मपरमात्मनोः॥१०॥
यथा जीवबहुत्वं तु कल्पितं मुनिपुङ्गवाः।
तथा परबहुत्वं कल्पितं न स्वभावतः॥११॥
यथोच्चाबचभावस्तु जीवभेदे तु कल्पितः।
तथोच्चावचभावश्च परभेदे च कल्पितः॥१२॥
देहेन्द्रियादिसंघातवासनाभेदभेदिता।
अविद्या जीवभेदस्य हेतुर्नान्यः प्रकीर्तितः॥१३॥
गुणानां वासनाभेदभेदिता या द्विजर्षभाः।
माया सा परभेदस्य हेतुर्नान्यः प्रकीर्तितः॥१४॥

___________

आकारः। अपरस्तु विशुद्धसत्त्वप्रधानो मायाख्यः। तत्र तावदविद्याख्य आकारः सत्वमालिन्यतरतसभावभेदेन बहुधा भिद्यते। तेन च पशुनां जीवात्मनां भेदः कल्पितः। न त्वसौ वास्तवः॥ मायाख्येन त्वज्ञानाकारेण सर्वज्ञेश्वरमनु विभागः कल्पितः॥८॥९॥ उक्तमर्थं दृष्टान्तेनोपपादयति—घटेति। यथैकमेवाऽऽकाशमुपाधिवशाद्धटाकाशमहाकाशात्मना भिन्नवत्प्रतिभाति तथैक एव परशिव उदीरितोपाधिद्बयपरिच्छेदवशाज्जीवेश्वरभावेन कल्पित इत्यर्थः॥१०॥ यथा जीवबहुत्वमित्यादि। उक्ताविद्योपाध्याकारनानात्वेन यथा जीवानां बहुत्वं कल्पितमेवमीश्वरस्यापि मायोपाधिकगुणनानात्वेन ब्रह्मविष्ण्वादिभेदेन बहुत्वं कल्पितमित्यर्थः॥११॥१२॥ जीवानामवान्तरभेदजनकमुपाधिं दर्शयति—देहेन्द्रियेति। विचित्रो हि देहेन्द्रियादिसंघातोऽतस्तज्जन्या वासना अपि तथाविधा अतस्तासां भेदेन भेदिता स्वयमेकाऽप्यविद्या जीवनानात्वहेतुर्भवति॥१३॥ परनानात्वकारणमाह—गुणानामिति।

यस्य मायागत सत्त्वं शरीरं स्यात्तमो गुणः।
संहाराय त्रिमूर्तीनां स रुद्रः स्यान्न चापरः॥१५॥
तथा यस्य तमः साक्षाच्छरीरं सात्त्विको गुणः।
पालनाय त्रिमूर्तीनां स विष्णुः स्यान्न चापरः॥१६॥
रजो यस्य शरीरं स्यात्तदेवोत्पादनाय च।
त्रिमूर्तीनां स वै ब्रह्मा भवेद्विप्रा न चापरः॥१७॥
रुद्रस्य विग्रहं शुक्लं कृष्णं विष्णोश्च विग्रहम्‌।
ब्रह्मणो विग्रहं रक्तं चिन्तयेद्भुक्तिमुक्तये॥१८॥
शौक्ल्यं सत्त्वगुणाज्जातं रागो जातो रजोगुणात्‌।
कार्ष्ण्यं तमोगुणाज्जातमिति विद्यात्समासतः॥१९॥
परतत्त्वैकताबुद्ध्या ब्रह्माणं विष्णुमीश्वरम्‌।
परतत्त्वतया वेदा वदन्ति स्मृतयोऽपि च॥२०॥
पुराणानि समस्तानि भारतप्रुमुखान्यपि।
परतत्त्वैकताबुद्ध्या तात्पर्यं प्रवदन्ति च॥२१॥

___________

सत्वरजस्तमोगुणात्मिका हि माया तेषां गुणानां परिणामभेदेन तज्जन्या वासना बहुविधास्तासां भेदेन भेदिता माया सा ब्रह्मविष्ण्वादिलक्षणस्येश्वरभेदस्य हेतुर्भवति॥१४॥ उच्चावचभेदेनावस्थितान्‌ परभेदाननुक्रामति— यस्येत्यादिना॥१५-१७॥ रुद्रस्य विग्रहमिति। यत एते रुद्रविष्णुप्रजापतयः क्रमेण सत्वतमोरजोमूर्तयोऽतः स्वीकृतलीलाविग्रहा अपि क्रमेण शुक्लकृष्णरक्तवर्णाश्चिन्तनीयाः॥१८॥ एतेषामीदृग्वर्णत्वमुपपादयति—शौक्ल्यमिति। ‘अजामेकां लोहितशुक्लकृष्णाम्’इति मन्त्रवर्णात्क्रमेण सत्त्वरजस्तमोगुणाः शुक्लरक्तकृष्णवर्णाः। अतस्तदुपाधिकानां तादृग्वर्णत्वं युक्तमिति भावः॥१९॥ एतेषां पराभेदत्वमुपपादयति—परतत्वैकतेति। विशुद्धसत्वोपाधिकत्वेनान वृतज्ञानतया परतत्वस्यैषां च भेदो नास्तीत्येकताबुद्धिरेव ब्रह्मविष्ण्वादीनां परतत्वस्व-

ब्रह्मविष्ण्वादिरूपेण केवलं मुनिपुङ्गवाः।
ब्रह्मविष्ण्वादयस्त्वेव न परं तत्त्वमास्तिकाः॥२२॥
तथाऽपि रुद्रः सर्वेषामुत्कृष्टः परिकीर्तितः।
स्वशरीरतया यस्मान्मनुते सत्त्वमुत्तमम्‌॥२३॥
रजसस्तमसः सत्वमुत्कृष्टं हि द्विजोत्तमाः।
सत्त्वात्सुखं च ज्ञानं च यत्किंचिदपरं परम्‌॥२४॥
परतत्त्वप्रकाशस्तु रुद्रस्यैव महत्तरः।
ब्रह्मविष्ण्वादिदेवानां न तथा मुनिपुङ्गवाः॥२५॥
परतत्वतया रुद्रः स्वात्मानं मनुते भृशम्‌।
परतत्वप्रकाशेन न तथा देवतान्तरम्‌॥२६॥
हरिब्रह्मादिरूपेण स्वात्मानं मनुते भृशम्‌।
हरिब्रह्मादयो देवा न तथा रुद्रमास्तिकाः॥२७॥

____________

रूपत्वव्यवहारे कारणमित्यर्थः॥२०॥२१॥ ब्रह्मविष्ण्वादिरूपेणेत्यादि। ब्रह्मादीनां हि द्वे रूपे अनावृतज्ञानतया परतत्वात्मकत्वं ब्रह्मविष्ण्वादिविशेषरूपत्वं च। तत्राऽऽद्येन परतत्वतोक्ता द्वितीयेन तु तेषामपरतत्त्वरूपतेत्यर्थः॥२२॥ त्रयाणां गुणमूर्तीनां ब्रह्मविष्ण्वादिविशेषरूपेण परतत्त्वरूपत्वे समानेऽपि रुद्रस्योत्कर्षमाह—तथाऽपीति। तत्र कारणमाह—यस्मादिति॥२३॥ सत्वस्य रजस्तमोभ्यामुत्कर्षं प्रतिपादयति—सत्त्वात्सुखं चेति॥२४॥ परतत्त्वप्रकाशस्त्विति। निरतिशयसत्त्वशरीरत्वाद्रुद्रस्यैव परतत्त्वविषयप्रकाशो महत्तरो न तथा ब्रह्मादीनाम्‌। तेषां तादृग्विधसत्त्वयोगविरहादित्यर्थः॥२५॥ एतदेव विवृणोति—परतत्त्वतयेति। निरतिशयरुपत्ववशन रुद्रः सर्वदा स्वात्मानं परतत्वात्मकमेव मन्यते। न कदाचिदपि तस्य तत्वविषया विस्मृतिर्भवति। देवतान्तरं तु तथाविधसत्वयोगाभावाद्धरिब्रह्मादिरूपेणैव स्वात्मानं मनुते न परतत्वरूपेणेति। रुद्रं तुक्तोपाधिवशाद्ब्रह्मादयोऽपि परतत्त्वरू-

रुद्रः कथंचित्कायार्थं मनुते रुद्ररूपतः।
न तथा देवताः सर्वा ब्रह्मस्फूर्त्यल्पताबलात्‌॥२८॥
ब्रह्मविष्ण्वादयो देवाः स्वात्मानं मन्वतेऽञ्जसा।
न कश्चित्तत्त्वरूपेण न तथा रुद्र आस्तिकाः॥२९॥
ब्रह्मविष्ण्वादयो देवाः स्वात्मानं मन्वतेऽञ्जसा।
कथंचित्तत्त्वरूपेण न तथा रुद्र आस्तिकाः॥३०॥
तत्त्वबुद्धिः स्वतःसिद्धा रुद्रस्यास्य तपोधनाः।
हरिब्रह्मादिबुद्धिस्तु तेषां स्वाभाविकी मता॥३१॥
हरिब्रह्मादिदेवान्ये पूजयन्ति यथाबलम्‌।
अचिरान्न परप्राप्तिस्तेषामस्ति क्रमेण हि॥३२॥
रुद्रं ये वेदविच्छ्रेष्ठाः पूजयन्ति यथाबलम्‌।
तेषामस्ति परप्राप्तिरचिरान्न क्रमेण तु॥३३॥
रुद्राकारतया रुद्रो वरिष्टो देवतान्तरात्‌।
इति निश्चयबुद्धिस्तु नराणां मुक्तिदायिनी॥३४॥

_____________

पमेव मन्यन्ते न तु स्वसदृशमित्यर्थः॥२६॥२७॥ रुद्रः कथंचिदित्यादि। यथा हरिब्रह्मादीनां हरिब्रह्मरूपत्वाभिमानः। स्वाभाविको न तथा रुद्रस्य रद्रत्वाभिमानः। किंतु संहारादिकार्यार्थं कथंचित्प्रयत्नवशेन रुद्ररूपेण स्वात्मानं मन्यत इत्यर्थः॥२८॥ ब्रह्मविष्ण्वादय इति। अयमत्र विवक्षितोऽर्थः। ब्रह्मविष्ण्वादीनां सत्त्वगुणसम्वन्धविरहाद्ब्रह्मविष्ण्वादिवुद्धिरेव स्वाभाविकी। परतत्त्वबुद्धिस्तु यत्नसंपाद्या। रुद्रस्य तु सत्वोत्कर्षवशात्स्वात्मनः परतत्वबुद्धिः स्वाभाविकी। रुद्रत्वबुद्धिस्तु यत्नसंपाद्येति॥२९॥३१॥ एवं परतत्त्वाविर्भाववशेन ब्रह्मादिदेवताभ्यो रुद्रस्योत्कर्षः प्रतिपादितः। अतः साक्षान्मुक्तेः साधनं तस्य पूजादिकमन्यदीयं तु परंपरयेत्याह–हरिब्रह्मादीति॥३२॥३३॥ रुद्राकारतयेति। ब्रह्मविष्ण्वादयो हि परतत्त्वरूपेण श्रेष्ठा न तु ब्रह्मत्ववि-

गुणाभिमानिनो रुद्राद्धरिब्रह्मादिदेवताः।
वरिष्ठा इति बुद्धिस्तु सत्यं संसारकारणम्‌॥३५॥
परतत्त्वादपि श्रेष्ठो रुद्रो बिष्णुः पितामहः।
इति निश्चयबुद्धिस्तु सत्यं संसारकारणम्‌॥३६॥
रुद्रो विष्णुः प्रजानाथः स्वराट्सम्राट्पुरंदरः।
परतत्त्वमिति ज्ञानं नराणां मुक्तिकारणम्‌॥३७॥
अमात्ये राजबुद्धिस्तु न दोषाय फलाय हि।
तस्माद्ब्रह्ममतिर्मुख्या सर्वत्र न हि संशयः॥३८॥
तथाऽपि रुद्रे विप्रेन्द्राः परतत्त्वमतिर्भृशम्‌।
वरिष्ठा न तथाऽन्येषु परस्फूर्त्यल्पताबलात्॥३९॥
अस्ति रुद्रय विप्रेन्द्रा अन्तः सत्वं बहिस्तमः।
विष्णोरन्तस्तमः सत्वं बहिरस्ति रजोगुणः॥४०॥
अन्तर्बहिश्च विप्रेन्द्रा अस्ति तस्य प्रजापतेः।
अतोऽपेक्ष्य गुणं सत्वं मनुष्या विवदन्ति च॥४१॥
हरिः श्रेष्ठो हरः श्रेष्ठ इत्यहो मोहवैभवम्‌।
सत्वाभावात्प्रजानाथं वरिष्ठं नैव मन्वते॥४२॥

___________

ष्णुत्वादिविशेषरूपेण। रुद्रस्तु रुद्रत्वाकारेणापि देवतान्तरच्छ्रेष्ठो भवति। रुद्रत्वस्य विशिष्टसत्त्वोपाधिकयुक्तत्वादित्यर्थः॥३४॥३५॥ परतत्त्वादपीति। रुद्राद्ब्रह्मादिदेवतान्तराधिक्यज्ञानवद्रुद्रसहितानां सर्वेषां देवानां परतत्त्वादाधिक्यज्ञानमपि संसारकारणमित्यर्थः॥३६॥३७॥ तस्माद्ब्रह्ममतिरिति। राजपुरुषे राजबुद्धिवद्धरिब्रह्मादिषु सर्वत्र ब्रह्मबुद्धिः कर्तव्येति सूचितं ब्रह्मदृष्टिरुत्कर्षादिति॥३८॥३९॥ बहिस्तम इति। रुद्रस्यान्तः सत्त्वं शरीरभूतम्‌। तमस्तु संहाराय बहिरेव स्थितम्‌। विष्णोस्तु तमः शरीरं सत्त्वं तु पालनाय बहिरेवावतिष्ठते। ब्रह्मणस्तु शरीरमपि रजोगुणात्मकं बहिरपि सृष्टये तदेव रजः। अतश्च सत्त्वगुणयोगाद्रुद्रविष्णू-

अनेकजन्मसिद्धानां श्रौतस्मार्तानुवर्तिनाम्।
हरः श्रेष्ठो हरेः साक्षादिति बुद्धिः प्रजायते॥४३॥
महापापवतां नृृणां हरिः श्रेष्ठो हरादिति।
बुद्धिर्विजायते तेषां सदा संसार एव हि॥४४॥
निर्विकल्पे परे तत्वे श्रद्धा येषां विजायते।
अयत्नसिद्धा परमा मुक्तिस्तेषां संशयः॥४५॥
निर्विकल्पं परं तत्वं नाम साक्षाच्छिवः परः।
सोऽयं साम्बस्त्रिनेत्रश्च चन्द्रार्धकृतशेखरः॥४६॥
स्वात्मतत्वसुखस्फूर्तिप्रमोदात्ताण्डवप्रियः।
रुद्रविष्णुप्रजानाथैरूपास्यो गुणमूर्तिभिः॥४७॥
ईदृशी परमा मूर्तिर्यस्यासाधारणी सदा।
तद्धि साक्षात्परं तत्त्वं नान्यत्सत्यं मयोदितम्‌॥४८॥
विष्णुं ब्रह्माणमन्यं वा स्वमोहान्मन्वते परम्‌।
न तेषां मुक्तिरेषाऽस्ति ततस्ते न परं पदम्‌॥४९॥
तस्मादेषा परा मूर्तिर्यस्यासाधारणी भवेत्‌।
स शिवः सच्चिदानन्दः साक्षात्तत्वं न चापरः॥५०॥
ब्रह्मा विष्णुश्च रुद्रश्च विभक्ता अपि पण्डिताः।
परमात्मविभागस्था न जीवव्यूहसंस्थिताः॥५१॥

____________

लोके पूजनीयै दृश्येते। ब्रह्मा तु तद्विरहात्तादृशं श्रैष्ठ्यं न प्राप्नोति॥४०—४५॥ इतोऽपि शिवज्ञानं मुक्तिसाधनमित्याह—निर्विकल्पमिति। प्रत्यस्तमितसकलविकल्पजात एतस्मिन्ब्रह्मणि येषां निष्ठा तेषां मुक्तिरयत्नतः सिद्धा। तच्च निर्विकल्पं परं ब्रह्म साक्षात्स्वयं शिव एव स्वलीलया स्वस्य शिवशक्त्यात्मकतामाविष्कर्तुमर्धनारीश्वरविग्रहो जातस्तस्मादीदृग्विग्रहवान्शिव एव साक्षात्परतत्त्वम्‌। हरिब्रह्मादयस्तु तादृशविग्रहादिराहित्यान्न तादृग्रपत्वव्यपदेशभाज इत्यर्थः॥४६—४९॥

अविद्योपाधिको जीवो न मायोपाधिकः खलु।
मायोपाधिकचैतन्यं परमात्मा हि नापरम्‌॥५२॥
मायाकार्यगुणच्छन्ना ब्रह्मविष्णुमहेश्वराः।
मायोपाधिपरव्यूहा न जीवव्यूहसंस्थिताः॥५३॥
परमात्मविभागत्वं ब्रह्मादीनां द्विजर्षभाः।
समानमपि रुद्रस्तु वरिष्ठो नात्र संशयः॥५४॥
ब्रह्मा विष्णुश्च रुद्रस्य स्वासाधारणरूपतः।
स्वविभूत्यात्मना चापि कुर्वाते एव सेवनम्‌॥५५॥
रुद्रः स्वेनैव रूपेण विष्णोश्च ब्रह्मणस्तथा।
सेवनं नैव कुरुते विभूतेर्वा द्वयोरपि॥५६॥
केवलं कृपया रुद्रो लोकानां हितकाम्यया।
स्वविभूत्यात्मना विष्णेर्ब्रह्मणश्चापरस्य च॥५७॥
करोति सेवां हे विप्राः कदाचित्सत्यमीरितम्‌।
न तथा ब्रह्मणा विष्णुर्न ब्रह्मा न्‌ पुरंदरः॥५८॥

___________

प्रतिपादितमर्थं निगमयति—तस्मादिति॥५०॥ तत्किं रुद्रवैलक्षण्याद्धरिब्रह्मादयो जीवा नेत्याह—ब्रह्मेति॥५१॥ परमात्मविभागस्था इति प्रतिज्ञातमर्थमुपपादयति—अविद्योपाधिक इति। अविद्यामाथे तु प्रागुक्तरूपे॥५२—५४॥ स्वविभूत्यात्मना चेति। ब्रह्मविष्णू रुद्रस्य परतत्त्वासाधारणरूपतया श्रेष्ठत्वात्स्तात्मना स्वविभूत्या च तस्यैव सेवां कुर्वाते। रुद्रस्तु स्वरूपेण विष्ण्वादिसेवां न करोति। परतत्त्वविभागेन स्वातन्त्र्यादिति भावः॥५५॥५६॥ ननु तत्र तत्र पुराणादिषु रुद्रोऽपि विष्ण्वादिदेवतापूजनं कृतवानिति दृश्यते तत्कथमित्यत आह—केवलमिति। न तथा ब्रह्मणेति। यथा लोकानुग्रहायाधिकेनापि सता रुद्रेण विष्ण्वादिदेवताः पूज्यन्ते न तथा ब्रह्मणा विष्णुः पूज्यते न च ब्रह्मा विष्णुना। उभयोरपरतत्त्वरूपत्वात्‌। परतत्वरूपतया तूभावपि तौ

एतावन्मात्रमालम्ब्य रुद्रं विष्णुं प्रजापतिम्।
मन्वते हि समं मर्त्या मायया परिमोहिताः॥५९॥
केचिदेषां महायासात्साम्यं वाञ्छन्ति मोहिताः।
हरेरजस्य चोत्कर्षं हराद्वाञ्छन्ति केचन॥६०॥
रुद्रेण साम्यमन्येषां वाञ्छन्ति च विमोहिताः।
ते महापातकैर्युक्ता यास्यन्ति नरकार्णवम्‌॥६१॥
रुद्रादुत्कर्षमन्येषां ये वाञ्छन्ति विमोहिताः।
पच्यन्ते नरके तीव्रे सदा ते न हि संशयः॥६२॥
केचिदद्वैतमाश्रित्य बैडालव्रतिका नराः।
साम्यं रुद्रेण सर्वेषां प्रवदन्ति विमोहिताः॥ ६३॥
देहाकारेण चैकत्वे सत्यपि द्विजपुङ्गवाः।
शिरसा पादयोः साम्यं सर्वथा नास्ति हि द्विजाः॥६४॥
यथाऽऽस्यापानयोः साम्यं छिद्रतोऽपि न विद्यते।
तथैकत्वेऽपि सर्वेषां रुद्रसाम्यं न विद्यते॥६५॥
विष्णुप्रजापतीन्द्राणामुत्कर्षं शंकरादपि।
प्रवदन्‍तीव वाक्यानि श्रौतानि प्रतिभान्ति च॥६६॥
पौराणिकानि वाक्यानि स्मार्तानि प्रतिभान्ति च।

तानि तत्त्वात्मना तेषामुत्कर्षं प्रवदन्ति हि॥६७॥

____________

परस्परं पूज्यावित्यर्थः॥५७॥५८॥ उक्तमेव रुद्राधिक्यं देवतान्तरसाम्याधिक्यनिन्दया प्रतिपादयति—एतावन्मात्रमित्यादिना॥५९—६२॥ वैडालव्रतिका इति। बिडालो मार्जारस्तस्य मूषकादिजिघृक्षया यन्निश्चलावस्थानं तद्बिडालव्रतम्‌। तेन च युक्ताः केचित्परमार्थमद्वैतमेकमाश्रित्य रुद्रस्यापि सोपाधिकत्वाविशेषाद्धरिब्रह्मादिसाम्यं वदन्ति तेऽप्यज्ञानिन इत्यर्थः॥६३॥ सोपाधिकत्वे समानेऽप्यस्त्येव रुद्रस्योत्कर्षबिशेष इति दृष्टान्तैरूपपादयति—देहकारेणेति॥६४—६६॥ ननु

विष्णुप्रजापतीन्द्रेभ्यो रुद्रस्योत्कर्षमास्तिकाः।
वदन्ति यानि वाक्यानि तानि सर्वाणिहे द्विजाः॥६८॥
प्रवदन्ति स्वरूपेण तथा तत्त्वात्मनाऽपि च।
नैवं विष्ण्वादिदेवानामिति तत्त्वव्यवस्थितिः॥६९॥
बहुनोक्तेन किं जीवास्त्रिमूर्तीनां विभूतयः।
वरिष्ठा हि विभूतिभ्यस्ते वरिष्ठा न संशयः॥७०॥
तेषु रुद्रो वरिष्ठश्च ततो मायी परः शिवः।
मायाविशिष्टात्सर्वज्ञः साम्बः सत्यादिलक्षणः॥७१॥
वरिष्ठो मुनयः साक्षाच्छिवो नात्र विचारणा।
शिवाद्वरिष्ठो नैवास्ति मया सत्यमुदीरितम्‌॥७२॥
शिवस्वरूपमालोड्य प्रवदामि समासतः।
शिवादन्यतया भातं शिव एव न संशयः॥७३॥
शिवादन्यतया भातं शिवं यो वेद वेदतः।
स वेद परमं तत्त्वं नास्ति संशयकारणम्॥७४॥

____________

श्रुतिस्मृत्यादिवाक्यानि हरिब्रह्माद्युत्कर्षप्रतिपादकान्यपि दृश्यन्ते तत्राऽऽह—तानीति। परतत्त्वात्मना तेषामुत्कर्षप्रतिपादनं न तु हरिब्रह्माद्यात्मना॥६७॥ वाक्यानीति। श्रौतानि ‘विश्वाधिको रुद्रो महर्षिः’ इत्येवमादीनि रुद्राधिक्यप्रतिपादकानि श्रुतिवाक्यानि तथैव पौराणिकादीन्यपि द्रष्टव्यानि। रुद्राधिक्यप्रतिपादकानि तु वाक्यानि स्वरूपेण रुद्राकारेणैवोत्कर्षं प्रतिपादयन्तीति विशेषः॥६८—७०॥ तेषु रुद्र इति। तेषु ब्रह्मादिषु। मायी पर इति। ‘मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम्‌’ इति सिद्धस्त्रीमूर्तीनां कारणभूतः शिवो मायी। तस्मादपि सिसृक्षावस्थापन्नः शिवशक्त्यात्मना द्विधा प्रतिभासमानः सत्यादिलक्षणः परशिवः श्रेष्ठः। शिवशक्तिभागं परित्यज्य प्राप्तसामरस्यः स्वप्रतिष्ठः परशिवस्ततोऽपि श्रेष्ठ इत्यर्थः। अत्र परशिवमारभ्योत्तरोत्तरमुपाधितरत-

यः शिवं सकलं साक्षाद्वेद वेदान्तवाक्यतः।
स मुक्तो नात्र संदेहः सत्यमेव मयोदितम्‌॥७५॥
भासमानमिदं सर्वं भानमेवेति वेद यः।
स भानरूपं देवेशं याति नात्र विचारणा॥७६॥
प्रतीतमखिलं शंभुं तर्कतश्च प्रमाणतः।
स्वानुभूत्या च यो वेद स एव परमार्थवित्‌॥७७॥
जगद्रूपतया पश्यन्नपि नैव प्रपश्यति।
प्रतीतमखिलं ब्रह्म संपश्यन्न हि संशयः॥७८॥
प्रतीतमप्रतीतं च सदसच्च परः शिवः।
इति वेदान्तवाक्यानां निष्ठाकाष्ठा सुदुर्लभा॥७९॥
हति सकलं कृपया मयोदितं वः श्रुतिवचसा कथितं यथा तथैव।
यदि हृदये निहितं समस्तमेतत्परमगतिर्भवतामिहैव सिद्धा॥८०॥

इति श्रीसूतसंहितायां यज्ञवैभवखण्डस्योपरिभागे सूतगीतायां आत्मना सृष्टिकथनं नाम द्वितीयोऽध्यायः॥२॥

___________

मभावेन निष्कर्षः प्रत्येतव्यः॥७१—७३॥ वेदत इति। ‘इदं सर्वं यदयमात्मा’ इत्यादिवेदवाक्यादित्यर्थः॥७४॥७५॥ भासमानमिदमिति। चिदनुविद्धमिदं सर्वं जगच्चिद्रूपे ब्रह्मणि परिकल्पितत्वात्स्वयंप्रकाशज्ञानरूपं ब्रह्मैवेति यो जानीयादित्यर्थः अत एवाऽऽम्नायते ‘चिद्धीदं सर्वं काशते काशते च’ इति॥७६॥७७॥ जगद्रूपतयेति। शुक्तौ रूप्यवज्जगद्विषयज्ञानस्य मिथ्याज्ञानत्वात्तद्रूपतया पश्यन्न पश्यत्येव पश्यन्नपि नैव पश्यति। ब्रह्मरूपतया त्वारोप्य सर्वं यतः पश्यति स एव ज्ञानीत्यर्थः॥७८॥ प्रतीतमिति। प्रतीत्या विषयीकृतं प्रतीतमविषयीकृतमप्रतीतं तदुभयमपि प्रत्येकं भावाभावात्मकं भवति तस्य सर्वस्य दृश्यत्वधर्मक्रान्तत्वाद्दृग्रूपात्परशिवादनन्यत्वमिति वेदान्तवाक्यानां तात्पर्यमित्यर्थः॥७९॥८०॥

तृतीयोऽध्यायः।

३. सामान्यसृष्टिकथनम्‌।

सूत उवाच—

शिवात्सत्यपरानन्दप्रकाशैकस्वलक्षणात्‌।
आविर्भूतमिदं सर्वं चेतनाचेतनात्मकम्‌॥१॥
अद्वितीयोऽविकारी च निर्मलः स शिवः परः।
तथाऽपि सृजति प्राज्ञाः सर्वमेतच्चराचरम्‌॥२॥
मणिमन्त्रौषधादीनां स्वभावोऽपि न शक्यते।
किमु वक्तव्यमाश्चर्यं विभोरस्य परात्मनः॥३॥

___________

इति श्रीसूतसंहितातात्पर्यदीपिकायां यज्ञवैभवखण्डस्योपरिभागे सूतगीतायां आत्मना सृष्टिकथनं नाम द्वितीयोऽध्यायः॥२॥

अद्वैतज्ञानमेव वेदान्तवाक्यानां निष्ठाकाष्ठेत्युक्तं तदुपपादयितुमारभते—शिवादिति। सत्यपरानन्देति शिवस्य ‘सत्यं ज्ञानमनन्तम्‌’ ‘आनन्दं ब्रह्मः’ इतिश्रुतिसिद्धस्वरूपाख्यानम्‌। आविर्भूतमिति। एतेन प्रागसदेव जगत्कारणादुत्पद्यत इत्यसत्कार्यवादो निरस्तः॥१॥ अद्वितीय इत्यादिविशेषणैर्लैकिककारणवैलक्षण्यप्रतिपादनम्‌। मृच्चक्रादिपदार्थान्तरयुक्तो हि कुलालादिर्घटादिकार्यं सृजति शिवस्त्वद्वितीयः कथमन्यत्स्रष्टुं शक्नुयात्‌। विक्रियावद्धि क्षीरादिकं दध्यादिभावेन परिणतं दृष्टं शिवस्त्वविकारी विक्रियारहितः। अथोच्येत स्वाश्रितया मायया सर्वं जगत्सृजतीति तत्राऽऽह—निर्मल इति। नहि निर्विकारे ब्रह्मणि परमार्थतो मलं संभवति। मायाया अविचारितरूपत्वेन तस्य तदाश्रयत्वासंभवादित्यर्थः। एवं लौकिकस्रष्टृवैलक्षण्यं श्रुतिपाद्य तथाविधस्यापि स्रष्टृत्वमाह—तथाऽपीति॥२॥ मणिमन्त्रादिदृष्टान्तोपकरणेन तस्य सर्जनोपयुक्तं प्रभावविशेषं कैमुतिकन्यायेन दर्शयति—मणिमन्त्रेति॥३॥ ननु विरुद्धमिदमुच्यते

श्रुति सनातनी साध्वी सर्वमानोत्तमोत्तमा।
प्राह चाद्वैतनैर्मल्यं निर्विकारत्वमात्मनः॥४॥
सर्गस्थित्यन्तमप्याह चेतनाचेतनस्य च।
अतीन्द्रियार्थविज्ञाने मानं नः श्रुतिरेव हि॥५॥
श्रुत्यैकगम्ये सूक्ष्मार्थे स तर्कः किं करिष्यति।
मानानुग्राहकस्तर्को न स्वतन्त्रः कदाचन॥६॥
श्रुतिः सनातनी शंभोरभिव्यक्ता न संशय।
शंकरेण प्रणीतेति प्रवदन्त्यपरे जनाः॥७॥

____________

निर्मलो निर्विकारश्चाथापि स्रष्टेति तत्राऽऽह—श्रुतिरिति। तस्या अप्रामाण्यशङ्कां वारयति—सनातनीति। सा हि परशिवस्य नैर्मल्यादिकं प्रतिपादयति। तथा तस्मात्परशिवात्कारणाश्चेतनाचेतनात्मकस्य सर्वस्य जगतः सर्गस्थित्यन्तं सृष्टिस्थितिसंहृतिरिति प्रतिपादयति। अत एवाऽऽन्नातम् ‘यतो वा इमानि भूतानि जायन्ते। येन जातानि जीवन्ति। यत्प्रयन्त्यभिसंविशन्ति’ इति। वैयासिकं सूत्रमपि—‘जन्माद्यस्य यतः’ इति। ननु दृष्टविरोधान्निर्विकारस्य स्रष्टृत्वप्रतिपादिका श्रुतिरप्रमाणमित्याशङ्क्याऽऽह—अतीन्द्रियेति। देशकालस्वरूपविप्रकृष्टा अर्था अतीन्द्रियार्थास्तादृगर्थप्रतिपत्तौ श्रुतिरेव हि प्रमाणम्‌। तस्मिञ्श्रुत्यैकसमधिगम्ये सूक्ष्मेऽर्थे प्रत्यक्षप्रमाणगृहीतव्याप्त्युपजीवी तर्कः किं करिष्यति। श्रुतिगतार्थस्य प्रत्यक्षादिप्रमाणान्तराननुभूतचरत्वेन तर्कविषयत्वायोगात्‌। ननु तर्कोऽपि प्रमाणान्तरवत्स्वयमपि स्वातन्त्र्येणार्थव्यवस्थापक इत्यत आह—मानेति। उक्तं ह्यभियुक्तैः—‘प्रत्यक्षादेः प्रमाणस्य तर्कोऽनुग्राहको भवेत्‌। पक्षे विपक्षजिज्ञासाविच्छेदस्तदनुग्रहः’ इति॥४—६॥ अप्रामाण्यं ह्यर्थान्यथात्वकारणदोषज्ञानाभ्यां भवति। न च तदुभयमप्रामाण्यकारणं श्रुतौ विद्यत इति प्रतिपादयितुं वेदापौरुषेयत्ववादिमीमांसकमतं सर्वज्ञप्रणीतत्ववादिनैयायिकमतं

यदा साऽनादिभूतैव तदा भानमतीव सा।
स्वतश्च परतो दोषो नास्ति यस्माद्द्विजर्षभाः॥८॥
स्वतो दोषो न वेदस्य विद्यते सूक्ष्मदर्शने।
अस्ति चेद्व्यवहारस्य लोप एव प्रसज्यते॥९॥
परतश्च न दोषोऽस्ति परस्याभावतो द्विजाः।
स्वतो दुष्टोऽपि शब्दस्तु मानमेवाऽऽप्तसंगमात्‌॥१०॥
इति वार्ताऽपि वार्तैव मुनीन्द्राः सूक्ष्मदर्शने।
स्वतो दुष्टः कथं मानं भवत्यन्यस्य संगमात्‌॥११॥

____________

च क्रमेणोपन्यस्यति—श्रुतिः सनातनीति। नित्या श्रुतिः शंभोः परमेश्वरसकाशादभिव्यक्ता न तु तेनार्थं बुद्ध्वा विरचितेत्यर्थः। अत एव श्रुतिस्मृती भवतः ‘वाचा विरूपनित्यया’ ‘अनादिनिधना नित्या वागुत्सृष्टा स्वयंभुवा’ इति च। नैयायिकास्त्वाप्तवाक्यमागम इति तल्लक्षणं ब्रुवाणा वेदानां सर्वज्ञेश्वरप्रणीतत्वेन प्रामाण्यं मन्यन्ते। तत्र तावद्वेदापौरुषेयत्ववादिनां मीमांसकानां मते श्रुतिप्रमाणस्य दोषासंभवमाह–यदेति। श्रुतेस्तावत्स्वरूपतो दोषो नास्ति। विशिष्टार्थप्रत्यायकत्वात्‌। नापि परतः। अपौरुषेयत्वेन पुरुषदोषाणां शब्देऽननुप्रवेशात्‌॥७॥८॥ तत्र स्वतो निर्दोषतामुपपादयति—स्वत इति। ननूदितानुदितहोमादिविरुद्धार्थप्रतिपादकत्वात्स्वाभाविको दोषो विद्यत इति चेत्तत्राऽऽह—सूक्ष्मदर्शन इति। आपातत एव स विरोधो निरूपणे त्वधिकारिभेदेन व्यवस्थितत्वान्न विरोध इत्यर्थः। अस्ति चेदिति। शब्दप्रमाणस्य यदि दोषसद्भावः स्वाभाविकः स्यात्तदा तदधीनसकलव्यवहारलोपप्रसङ्गः॥९॥ परतश्चेति। परतोऽपि दोषो नास्ति परस्य विरचयितुः पुरुषस्यानङ्गीकारादित्यर्थः। परतःप्रामाण्यवादिमतमनूद्य निरस्यति—स्वतो दुष्टोऽपीति। स्वतो दुष्टस्यापि शब्दस्य यत्प्रामाण्यं तदाप्तप्रणीतत्वकृतमिति यत्परतः प्रामाण्यवादिवाक्यं तदपि वार्तामात्रमेव। तदेतदुपपादयति—स्वतो दुष्ट

यत्संबन्धेन यो भावो यस्य प्राज्ञाः प्रसिध्यति।
स तस्य भ्रान्तिरेव स्यान्न स्वभावः कथंचन॥१२॥
जपाकुसुमलौहित्यं विभाति स्फटिके भृशम्‌।
तथाऽपि तस्य लौहित्यं भ्रान्तिरेव न वास्तवम्‌॥१३॥
वह्निपाकजलौहित्यमिष्टकायां न वास्तवम्‌।
लौहित्यं तेजसांशस्तु नेष्टकाया निरूपणे॥१४॥
अन्यत्रान्यस्य धर्मस्तु प्रतीतो विभ्रमो मतः।
आप्तापेक्षी तु शब्दस्तु प्रामाण्याय न सर्वथा॥१५॥
अनाप्तयोगाच्छब्दस्य प्रामाण्यं मुनिपुङ्गवाः।
स्वतःसिद्धं तिरोभूतं स्वनाशाय हि केवलम्‌॥१६॥

____________

इति। यदि हि शब्दः स्वतो दुष्टः स्यात्कथं तर्हि तस्यान्यसंगमात्प्रामाण्यं भवेत्‌। अन्याधीनं च तत्प्रामाण्यं शब्दे प्रतिभासमानं स्फटिके जपाकुसुमलौहित्यवदारोपितं स्यात्‌। तथा च भ्रान्तिरवश्यंभाविनीत्यर्थः॥१०—१३॥ ननु तत्र जपाकुसुमस्योपाधेः संनिधानादारुण्यप्रतीतिः स्फटिक औपाधिकीत्याशङ्क्य निदर्शनान्तरेण परतः प्रामाण्यवादिनां शब्दप्रामाण्यस्य भ्रान्तित्वमुपपादयति—वह्निपाकजेति। ‘यदग्ने रोहितं रूपं तेजसस्तद्रूपम्‌’ इति श्रुतेर्लौहित्यस्य तेजोधर्मत्वात्पाकनिमित्तमिष्टकासु तत्प्रतीतिर्भ्रान्तिरिति न तु स्वाभाविकी॥१४॥ ईदृग्विधस्य ज्ञानस्य विभ्रमरूपतां वक्तुं तल्लक्षणमाह—अन्यत्रेति। वस्त्वन्तरे शङ्खादौ पीतादिवस्त्वन्तरगतपीतिमादिधर्मसंसर्गप्रतिभासो विभ्रमोऽभिमतः ‘अतस्मिंस्तद्बुद्धिर्विपर्ययः’ इति तल्लक्षणयोगात्। किंच परतः प्रामाण्यं क्वचिदपि नाऽऽत्मानं लभत इत्याह—आप्तापेक्षीति। आप्तप्रणीतत्वेन शब्दप्रामाण्याङ्गीकारे केनचिज्ज्ञानेन तदाप्तिर्ज्ञातव्या। तच्च स्वप्रामाण्याय संवादकमन्यज्ज्ञानमपेक्षते। तदप्येवमित्यनवस्था स्यात्‌। अतः सर्वप्रकारेणाप्याप्तप्रणीतत्वापेक्षः शब्दो न प्रमाणं भवितुमर्हतीति॥१५॥ ननु

यदा सा शंकरेणोक्ता तदाऽपि श्रुतिरास्तिकाः।
प्रमाणं सुतरामाप्ततम एव महेश्वरः॥१७॥
सर्वदोषविहीनस्य महाकारुणिकस्य च।
सर्वज्ञस्यैव शुद्धस्य कथं दोषः प्रकपल्प्यते॥१८॥
सर्वदोषविशिष्टस्य निर्घृणस्य दुरात्मनः।
अल्पज्ञस्य च जीवस्य दृष्टाऽनाप्तिर्हि सत्तमाः॥१९॥
यस्य स्मरणमात्रेण समलो निर्मलो भवेत्‌।
ब्रूत सत्यतपोनिष्ठाः कथं स मालिनो भवेत्‌॥२०॥
अतः पक्षद्वयेनापि वेदो मानं न संशयः।
वेदोऽनादिः शिवस्तस्य व्यञ्जकः परमार्थतः॥२१॥

____________

शब्दस्वरूपमात्रानुबन्धि चेत्प्रामाण्यं तर्हि विप्रलम्भकादिवाक्यानामपि तत्स्यादित्यत आह—अनाप्तेति। अनाप्तपुरुषबुद्धिप्रभवतया कारणदोषसद्भावात्स्वतःसिद्धं प्रामाण्यं तत्रापोद्यत इत्यर्थः॥१६॥ एवं नित्यत्वपक्षे स्वतःप्रामाण्यं प्रतिपाद्य सर्वज्ञेश्वरप्रणीतत्वपक्षेऽपि प्रामाण्यं समर्थयते—यदेत्यादिना॥१७॥ तस्याऽऽप्ततमत्वमुपपादयितुं निर्दोषतामाह—सर्वदोषेति। रागद्वेषादयो दोषास्तैः सर्वैर्विहीनस्यात एव महाकारुणिकस्य लोकानुग्रहैकशीलस्य शुद्धस्याऽऽवरणमलापेतस्यात एवानावृतज्ञानतया सर्वज्ञस्य शिवस्य कथं दोषः प्रकल्पयितुं शक्यते। अतो वेदस्य तत्प्रणीतत्वेऽपि तदीयदोषाभावेन तत्प्रयुक्तमप्रामाण्यं न भवतीत्यर्थः॥१८॥ सर्वदोषविरहादीनामाप्ततमत्वहेतुत्वं विशदयितुं तत्सद्भावस्यानाप्तिहेतुत्वमाह—सर्वदोषेति॥१९॥ यस्य स्मरणेति। उक्तहेतुभिर्मलिनो जीवो यद्रूपस्मरणेन निर्मलो भवति तस्य नैर्मल्यापादकस्य कथं मालिन्यं संभवतीत्यर्थः। तस्मादाप्तप्रामाण्यादपि तत्प्रणीतानां वेदानां प्रामाण्यं स्वध्यवसानमित्यर्थः॥२०॥ एवं वादिविप्रतिपत्तिमुदाहृत्योभयथाऽपि प्रामाण्यं प्रतिपाद्य तत्र स्वाभिमतं पक्षमाह—वेदोऽनादि-

अभिव्यक्तिमपेक्ष्यैव प्रणेतेत्युच्यते शिवः।
तस्माद्वेदोपदिष्टार्थो यथार्थो नात्र संशयः॥२२॥
इह तावन्मया प्रोक्तमद्वितीयः परः शिवः।
तथाऽपि तेन सकलं निर्मितं तत्स एव हि॥२३॥
चित्स्वरूपः शिवश्चेत्यं जगत्सर्वं चराचरम्‌।
तथा सति विरुद्धं तज्जगच्छंभुः कथं भवेत्‌॥२४॥
इत्येवमादिचोद्यस्य द्विजेन्द्रा नास्ति संभवः।
यत्र वेदविरोधः स्यात्तत्र चोद्यस्य संभवः॥२५॥
चोदनालक्षणे धर्मे न यथा चोद्यसंभवः।
तथा न चोदनागम्ये शिवे चोद्यस्य संभवः॥२६॥

___________

रिति। परमार्थतस्तु वेदोऽनादिरादिरहितो नित्यः। शिवस्तु तस्याभिव्यञ्जको न तु स्वबुद्ध्या विरचयिता। यथावस्थिताभिव्यञ्जकत्वमपेक्ष्यैव वेदस्य प्रणेतेत्यपि व्यवहारः। अत एवोक्तम्—‘कर्त्रपि ब्रह्म वेदस्य न पूर्वक्रमतोऽन्यतः। क्रमं करोति वाग्वज्रपातो मा भून्नृणामिति॥’ इति॥२१॥ एवं श्रुतेः स्वतःसिद्धस्य प्रामाण्यस्यापवादासंभवाद्यथावस्थितार्थप्रतिपादकत्वं सिद्धमिति निगमयति—तस्मादिति॥२२॥ श्रुतिप्रतिपाद्यत्वेन प्रागुक्तमर्थमुपपादयितुमनुवदति—इह तावदिति। प्राह चाद्वैतनैर्मल्यमित्यादिना परशिवस्याद्वितीयनिर्विकारत्वादिकं चेतनाचेतनात्मकस्य कृत्स्नस्य जगतस्तत्सकाशात्सृष्टिश्चेत्येतावत्प्रतिज्ञातम्। तत्स एवेति। तच्चराचरात्मकं सर्वं जगन्मायानिर्मितं विश्वरूपं परशिव एव। यतश्चेत्यं चिद्रूपेऽध्यस्तं तस्य हि तद्भोग्यत्वाञ्चेत्यत्वमध्यस्तं चाधिष्ठानादव्यतिरिक्तमिति रज्जुसर्पादौ दृष्टमिति भावः। तथा सतीति। एवमविरोधे सति नामरूपात्मना विकृतं जगद्विकृतपरशिवस्वरूपं कथं भवेदित्येवमादिचोद्यस्यानवसरः। निर्विकाररूपजगद्रूपत्वयोरुभयोरमि श्रुतिसिद्धत्वादित्यर्थः॥२३—२५॥ श्रुतिसिद्धे चार्थे चोद्या-

बाध्यबाधकभावस्तु व्याधिभेषजयोर्यथा।
शास्त्रेण गम्यते तद्वदयमर्थोऽपि नान्यतः॥२७॥
ईश्वरस्य स्वरूपे च जगत्सर्गादिषु द्विजाः।
अतीन्द्रियार्थेष्वन्येषु मानं नः श्रुतिरेव हि॥२८॥
अथवा देवदेवस्य सर्वदुर्घटकारिणी।
शक्तिरस्ति तया सर्वं घटते माययाऽनघाः॥२९॥
प्रतीतिसिद्धा सा माया तत्त्वतोऽत्र न संशयः।
तया दुर्घटकारिण्या सर्वं तस्योपपद्यते॥३०॥

____________

संभवं सदृष्टान्तमाह—चोदनालक्षण इति। ‘अथातो धर्मजिज्ञासाः’ इति जिज्ञासां प्रतिज्ञाय धर्मस्वरूपमेव लक्षितम् ‘चोदनालक्षणोऽर्थो धर्मः’ इति। लक्ष्यतेऽनेनेति लक्षणं प्रमाणम्‌। चोदनेति क्रियायाः प्रवर्तकं वचनम्‌। यथा चोदनाप्रमाणके धर्मे स्वर्गादिसाधनत्वेन प्रतिपादिते यागादौ विप्रतिपत्तिर्नास्त्येवमुत्पत्तिविधिरूपवेदान्तवाक्यप्रतिपाद्ये परशिवस्वरूपेऽपि परिचोदना न युक्तेत्यर्थः॥२६॥ बाध्यबाधकेति। यथा व्याधिभेषजयोर्वाध्यवाधकभावः शास्त्रेण बोध्यते तद्वदेवेश्वरस्य रूपं प्रपञ्चलक्षणार्थश्च बाध्यबाधकतया वेदेन प्रतिपाद्यते। नान्यस्मान्मानान्तरात्तत्सिद्धिरित्यर्थः॥२७॥ अतः श्रुतिगम्य एतादृग्विधोऽर्थ इति निगमयति—ईश्वरस्येति। अन्येष्विति। स्वर्गापूर्वदेवतादिष्वियर्थः॥२८॥ एवं मायामनुपजीव्यैव श्रुतिप्रामाण्यबलात्परशिवस्य निर्विकाररूपत्वं जगद्रूपत्वं चोभयं प्रतिपादितम्‌। इदानीं तु किं विवादेन माययैव स विरोधः परिह्रियत इत्याइ—अथवेत्यादिना। सर्वदुर्घटकारिणीति। विरुद्धार्थघटनमेव तस्याः शीलमित्यर्थः। निर्विकारस्य परमेश्वरस्येदृग्विधशक्तिसद्भावं श्वेताश्वतरा आमनन्ति—‘न तस्य कार्यं करणं च विद्यते न तत्समश्चाभ्यधिकश्च दृश्यते। पराऽस्य शक्तिर्विविधैव श्रुयते स्वाभाविकी ज्ञानबलक्रिया च’ इति॥२९॥ प्रतीतिसिद्धा सा

सा तिष्ठतु महामाया सर्वदुर्घटकारिणी।
वेदमानेन संसिद्धं सर्वं तद्ग्राह्यमेव हि॥३१॥
चोद्यानर्हे तु वेदार्थे चोद्यं कुर्वन्‌ पतत्यधः।
अतः सर्वं परित्यज्य वेदमेकं समाश्रयेत्‌॥३२॥
रूपावलोकने चक्षुर्यथाऽसाधारणं भवेत्‌।
तथा धर्मादिविज्ञाने वेदोऽसाधारणः परः॥३३॥
रूपावलोकनस्येदं यथा घ्राणं न कारणम्‌।
तथा धर्मादिबुद्धेस्तु द्विजास्तर्को न कारणम्‌॥३४॥
तस्माद्वेदोदितेनैव प्रकारेण महेश्वरः।
अद्वितीयः स्वयं शुद्धस्तथाऽपीदं जगत्ततः॥३५॥

_________

मायेति। तत्त्वतस्तत्त्वभूतात्परमेश्वरात्सा च माया सिद्धा तस्मिन्नाश्रिता तत्परतन्त्रेति यावत्‌। यद्वा शौवागमप्रसिद्धशिवशक्त्यादितत्त्वमध्ये या परिगणिता सा मायेत्यर्थः। तथा चोक्तम्‌—‘माया च वस्तुस्वरूपा मूलं विश्वस्य नित्या सा’ इति॥३०॥ वेदमानेनेति। ईदृग्विधमायासद्भावश्च श्रुतिप्रमाणबलादिति वक्तव्यम्‌। तथा च तेन प्रमाणेन विरुद्धमविरुद्धं वा यद्यत्प्रतिपाद्यते तत्सर्वं तथैवाभ्युपेतव्यम्‌॥३१॥ विपक्षे बाधकमाह—चोद्यानर्ह इति॥३२॥ तत्त्वविषये व्यतिरिक्तप्रमाणपरित्यागेन वेदस्यैकस्यैव समाश्रयणे कारणमाह—रूपावलोकन इति। रूपोपलव्धौ यथा चक्षुरिन्द्रियमसाधारणं कारणमेवं धर्मब्रह्मादिविज्ञाने वेदस्यैवासाधारणं प्रामाण्यमियर्थः॥३३॥ तदसाधारण्यं सदृष्टान्तमितरनिषेधेनोपपादयति—रूपावलोकनस्येति॥३४॥ एवमाम्नायसिद्धार्थस्य पर्यनुयोगासंभवं प्रतिपाद्य प्रतिज्ञातमर्थं निगमयति—तस्मादिति। तथाऽपीति। यद्यपि ‘एकमेवाद्वितीयम्‌’ ‘नेह नानाऽस्ति किंचन’ इत्यादिश्रुत्या परमार्थतः परशिवस्वरूपं निर्विकाराद्वितीयत्वादिलक्षणं नित्यशुद्धबुद्धमुक्तस्वभावं तथाऽपि मायाशक्तिवशात्तस्मिन्नेव ब्रह्मणीदंकारास्पदं

आविर्भूतं तिरोभूतं स एव सकलं जगत्।
वैभवं तस्य विज्ञातुं न शक्यं भाषितुं मया॥३६॥
स एव साहसी साक्षात्सर्वरूपतया स्थितः।
परिज्ञातुं च वक्तुं च समर्थो नापरः पुमान्‌॥३७॥
यथाऽयः पावकेनेद्धं भातीव दहतीव च।
तथा वेदः शिवेनेद्धः सर्वं वक्तीव भासते॥३८॥
अयोऽवयवसंक्रान्तो यथा दहति पावकः।
तथा वेदेषु संक्रान्तः शिवः सर्वार्थसाधकः॥३९॥
तथाऽपि वेदरहितः स्वयं धर्मादिवस्तुनि।
न प्रमाणं विना तेन वेदोऽपि द्विजपुङ्गवा॥४०॥

_________

सकलं जगदाविर्भावयुक्तमवभासते। एवं च निर्विकारत्वं जगद्रूपत्वं चोभयमपि वेदसिद्धमिति न तत्र विप्रतिपत्तव्यमित्यर्थः॥३५॥ ननु निर्विकारस्य सतः परशिवस्य जगद्रूपत्वेन भानं सर्वथा विप्रतिषिद्धमिति चेत्तत्राऽऽह—वैभवमिति। तस्य परशिवस्यैष महिमा यदयं निर्विकार एवाऽऽविर्भावतिरोभावधर्मकजगदात्मनाऽवभासत इति। अतो न तद्युक्तिभिरन्यथा कर्तुं शक्यत इत्यर्थः॥३६॥ स एवेति। यस्तु स्वात्मनस्तादृग्

वि परशिवस्वरूपतां जानन्सर्वजगद्रुपतां पश्यति स एव तत्स्वरूपं ज्ञातुं वक्तुं श्क्नोति नेतरोऽज्ञः॥३७॥ न केवलं पुरुष एव। वेदोऽपि परशिवस्वरूपानुविद्ध एव शब्दब्रह्मातीन्द्रियार्थस्य भासक इति सदृष्टान्तं प्रतिपादयति—यथाऽय इति। अग्निना तप्तमयो यथा तदीयाभ्यां दाहप्रकाशाभ्यां युज्यते तद्वद्वेदोऽपि सर्वावभासकेन सर्वज्ञेन शिवेनेद्धः सन्सर्वमतीन्द्रियमप्यर्थजातं वक्तीव प्रतिपादयतीव भासत इव च। इवशब्दोऽपरमार्थे। सर्ववस्तुप्रतिपादनसामर्थ्यं मानं चोभयमपि स्वप्रकाशस्य ब्रह्मण एव। तदेव तत्कार्यगतं सत्तदीयत्वेनावभासत इत्यर्थः॥३८॥ स्वयं विवृणोति—अयोऽवयवेत्यादिना॥३९॥

तस्माद्वेदो महेशेद्धः प्रमाणं सर्ववस्तुनि।
अन्यथा न जडः शब्दोऽतीन्द्रियार्थस्य साधकः॥४१॥
मेरूपार्श्वे तपस्तप्त्वा दृष्ट्वा शंभुं जगद्गुरुम्‌।
अयमर्थो मया ज्ञातस्ततस्तस्य प्रसादतः॥४२॥
तदाज्ञयैव विप्रेन्द्राः संहितेयं मयोदिता।
अहं क्षुद्रोऽपि युष्माकं महतामपि देशिकः॥४३॥
अभवं सा शिवस्याऽऽज्ञा लङ्घनीया न केनचित्‌।
शिवस्याऽऽज्ञाबलाद्विष्णुर्जायते म्रियतेऽपि च॥४४॥
ब्रह्मा सर्वजगत्कर्ता विराट्सम्राट्स्वराडपि।
खरोष्ट्रतरवः क्षुद्रा ब्रह्मविष्ण्वादयोऽभवन्‌॥४५॥
तस्माद्‌ गुरुत्वं मे विप्रा युज्यते न हि संशयः।
शिष्यत्वं चापि युष्माकं स्वतन्त्रः खलु शंकरः॥४६॥
महादेवस्य भक्ताश्च तद्भक्ता अपि देहिनः।
स्वतन्त्रा वेदविच्छ्रेष्ठाः किं पुनः स महेश्वरः॥४७॥
स्वातन्त्र्याद्धि शिवेनैव विषं भुक्तं विनाऽमृतम्।
ब्रह्मणश्च शिरश्छिन्नं विष्णोरपि तथैव च॥४८॥

___________

तथाऽपि वेदरहित इति। यद्यपि स्वयं शिवः सर्वावभासकस्तथाऽपि वेदोपाध्यनवच्छिन्नोऽसौ साधारणप्रकाशकत्वान्न धर्मादिवस्तुन्यसाधारणं प्रमाणम्‌। वेदोऽपि सर्वावभासकेन परशिवेन विना स्वयमपि जडत्वान्न प्रमाणमित्यर्थः॥४०॥ उक्तमर्थं निगमयति—तस्मादिति। सर्वावभासकेन शिवस्वरूपेणेद्धः प्राप्तप्रकाशनसामर्थ्यः सन्धर्मब्रह्मादिविषये वेद एव प्रमाणं भवतीत्यर्थः॥४१॥ उक्तार्थस्यातिरहस्यत्वं ज्ञापयन्स्वस्य तत्प्राप्तिप्रकारमाह—मेरुपार्श्वइति॥४२॥४३॥ देवतान्तरेभ्यः शिवस्य स्वातन्त्र्यं प्रतिपादयति—शिवस्याऽऽज्ञोत्यादिना॥४४—४७॥ विषं भुक्तमिति। समुद्रमथनसमये जातं कालकूटाख्यं विषमित्यर्थः॥४८—

स्वातन्त्र्याद्धि कृतं तेन मुनीन्द्रा ब्रह्मवादिनः।
तत्प्रसादान्मया सर्वं विदितं करबिल्ववत्‌॥४९॥
प्रसादबलतः साक्षत्सत्यार्थः कथितो मया।
प्रसादेन विना वक्तुं को वा शक्तो मुनीश्वराः॥५०॥
तस्मात्सर्वं परित्यज्य श्रद्धया परया सह।
मदुक्तं परमाद्वैतं विद्याद्वेदोदितं बुधः॥५१॥
विज्ञानेन विनाऽन्येन नास्ति मुक्तिर्न संशयः।
अतो यूयमपि प्राज्ञा भवताद्वैतवादिनः॥५२॥
परमाद्वैतविज्ञानं सिद्धं स्वानुभवेन च।
श्रुतिस्मृतिपुराणाद्यैस्तर्कैर्वेदानुसारिभिः॥५३॥
परमाद्वैतविज्ञानमेव ग्राह्यं यथास्थितम्‌।
नान्यतर्कैश्च हन्तव्यमिदमाम्नायवाक्यजम्‌॥५४॥
विनैव परमाद्वैतं भेदं केचन मोहिताः।
कल्पयन्ति तदा शंभुःसद्वितीयो भविष्यति॥५५॥
आम्नायार्थं महाद्वैतं नैव जानन्ति ये जनाः।
वेदसिद्धं महाद्वैतं को वा विज्ञातुमर्हति॥५६॥

___________

५०॥ तस्मात्सर्वमिति। यस्मात्स्वतन्त्रपरशिवप्रसादादेव मया परमाद्वैतमुपदिष्टं तस्मादन्यत्सर्वमनात्मजातं परित्यज्य बुधो हेयोपादेयविवेकज्ञानी पुरुषः परमाद्वैतमेव जानीयादित्यर्थः॥५१॥ तज्ज्ञानस्य परमपुरुषार्थस्वरूपतामाह—विज्ञानेनेत्यादिना॥५२॥ तस्मिन्परमाद्वैतविज्ञाने प्रमाणमुपन्यस्यति—श्रुतिस्मृतीति॥५३॥ नान्यतर्कैरिति। आगमविरुद्धैस्तर्कैरागमैकसमधिगम्यं तदद्वैतस्वरूपं न बाधनीयम्‌। अत एवाऽऽन्नायते ‘नैषा तर्केण मतिरापनेया प्रोक्ताऽन्येनैव सुज्ञानाय प्रेष्ठा’ इति॥५४॥ ये तूक्तं परमाद्वैतमसहमानाश्चेतनाचेतनात्मकस्य जगतस्ततो भेदं मन्यन्ते तेषां तथाविधव्यवहारो मोहकृत इति प्रतिपादयति—

भिन्नाभिन्नतया देवं परमाद्वैतलक्षणम्‌।
कल्पयन्ति महामोहात्केचित्तच्च संगतम्‌॥५७॥
भेदाभेदेऽपि भेदांशो मिथ्या भवति सत्तमाः।
भेदानिरूपणादेव धर्म्यादेरनिरूपणात्‌॥५८॥
तस्मान्नास्तीश्वरादन्यत्किंचिदप्यास्तिकोत्तमाः।
द्वितीयाद्वै भयं जन्तोर्भवतीत्याह हि श्रुतिः॥५९॥
को मोहस्तत्र कः शोक एकत्वमनुपश्यतः।
इति चाऽऽह हि सा साध्वी श्रुतिरद्वैतमास्तिकाः॥६०॥
एकत्वमेव वाक्यार्थो नापरः परमास्तिकाः।
स्तुतिनिन्दे विरुध्येते भेदो यदि विवक्षितः॥६१॥

_________

विनैवेति। सद्वितीयो भविष्यतीति। एकमेवाद्वितीयमिति श्रुतिसिद्धमद्वैतं व्याहन्येतेत्यर्थः॥५५॥भेददर्शिनां मोहकारणमाह—वेदसिद्धमिति। वेदैकसमधिगम्यं परमाद्वैतं तदनभिज्ञो जनः को नाम ज्ञातुं शक्नुयात्‌। ईश्वरानुग्रहसमासादितश्रुतिप्रमाणैकनिष्ठः पुरुषो हि तज्ज्ञातुमर्हतीत्यर्थः॥५६॥ भेदाभेदपक्षोऽपि न युक्त इत्याह—भिन्नेति॥५७॥ भेदांशो यदि प्रमाणसिद्धः स्यात्तदा हि भेदाभेदपक्षोपकल्पनेन तत्सिद्धिरस्तीत्याह—भेदाभेद इति। भेदानिरूपणादिति तस्मिन्मिथ्यात्वे हेतुः। भेदस्य प्रमाणेन निरूपयितुमशक्यत्वादित्यर्थः। अनिरूपणे कारणमाह—धर्म्यादेरिति। इदमस्माद्भिन्नमिति भेदज्ञानं धर्मिप्रतियोगिज्ञानाधीनं स च धर्मिप्रतियोगिभावो न भेदमन्तरेणेत्यात्मान्योन्याश्रयचक्रकानवस्थादूषणानां प्रसक्तेस्तद्धेतुकभेदो दुर्निरूपः। एतच्च पूर्वभागस्य दशमेऽध्याये—‘स्वरूपत्वेन वा विप्रा धर्मत्वेनैव वा भिदा। अपि वर्षशतेनापि वस्तुतो न निरूप्यते’ इत्यादिना प्रपञ्चितम्‌॥५८॥ प्रतिपादितमर्थमुपसंहरति—तस्मादिति। तत्र श्रुती प्रमाणयति–द्वितीयादिति। वाजसनेयकेऽप्याम्नायते—‘द्वितीयाद्वै भयं भवति’ इति॥५९॥६०॥ ‘तत्र को मोहः कः

अतीव शुद्धचित्तानां केवलं करुणाबलात्।
परमाद्वैतमाम्नायात्प्रभाति श्रद्धया सह॥६२॥
शिवभट्टारकस्यैव प्रसादे पुष्कले सति।
परमाद्वैतमाभाति यथावन्नान्यहेतुना॥६३॥
न भाति परमाद्वैतं प्रसादरहितस्य तु।
दुर्लभः खलु देवस्य प्रसादः परमास्तिकाः॥६४॥
अतश्च वेदोदितवर्त्मनैव विहाय वादान्तरजन्मबुद्धिम्।
विमुक्तिकामः परमाद्वितीयं समाश्रयेदेव शिवस्वरूपम्‌॥६५॥

इति श्रीसूतसंहितायां यज्ञवैभवखण्डस्योपरिभागे सूतगीतायां सामान्यसृष्टिकथनं नाम तृतीयोऽध्यायः॥३॥

चतुर्थोऽध्यायः।

४. विशेषसृष्टिकथनम्‌।

सूत उवाच—

ईश्वरो जगतः कर्ता मायया स्वीयया पुरा।
अभेदेन स्थितः पूर्वकल्पवासनयान्वितः॥१॥

__________

शोकः’ इत्यद्वैतज्ञानस्य या स्तुतिर्या ‘द्वितीयाद्वै भयं भवतिः’ इति द्वैतज्ञानस्य निन्दा ते उभे अपि भेदविवक्षायां विरुध्येते इत्यर्थः॥६१॥ नन्‍वेतादृशं वेदवाक्यमधीयाना अपि संसारिणो दृष्टास्तत्राऽऽह–अतीवेति। परमेश्वरार्पणबुद्ध्याऽनुष्ठितनित्यनैमित्तिकपरितोषितपरशिवप्रसादवतामेव वेदादीदृगर्थप्रतिपत्तिर्जायते नान्येषामित्यर्थः॥६२—६५॥

इति श्रीसूतसंहितातात्पर्यदीपिकायां यज्ञवैभवखण्डस्योपरिभागे सूतगीतायां सामान्यसृष्टिकथनं नाम तृतीयोऽध्यायः॥३॥

इत्थमद्वितीयाद्ब्रह्मणः सृष्टेरसंभवमाशङ्क्य श्रुतिप्रामाण्यबलान्मायाशक्तिवशाच्च सा जगत्सृष्टिरुपपन्नेति प्रतिपदितम्‌। तां सृष्टिं विस्तरेण प्रतिपादयितुमारभते—ईश्वरो जगतः कर्तेति। तत्र तावत्सृष्ट्यभिधानो-

कालकर्मानुगुण्येन स्वाभिन्नस्वीयमायया।
अभिन्नोऽपि तया स्वस्य भेदं कल्पयति प्रभुः॥२॥
कल्पितोऽयं द्विजा भेदो नाभेदं बाधते सदा।
कल्पितानामवस्तुत्वादविरोधश्च सिध्यति॥३॥

__________

पोद्धातत्वेन प्रलीनावस्था प्रतिपाद्यते। योऽयं जगत्स्रष्टेश्वरः स पुरा सृष्टिकाले स्वसंबन्धिन्या मायया सत्त्वरजस्तमोगुणात्मिकयैकीभावेन स्थितः। स्वीययेति विशेषणात्सांख्याभिमतप्रकृतिवन्मायायाः स्वातन्त्र्यः व्युदासः। यद्यपि प्रलीनावस्थायां स्वप्रतिष्ठे ब्रह्मणि स्थिता माया स्वगोचरवृत्त्यभावान्न विशेषेण प्रतीयते तथाऽपि सा ब्रह्मरूपचित्प्रकाशेनैव भास्यत इति नासत्त्वम्। अत एव मायायास्तदानीमवस्थानात्पूर्वस्मिन्कल्पे मायाकार्याणां वियदादिभूतभैतिकादीनां प्रलीनानां मायागतवासनाभिरप्यन्वित एव तदानीमीश्वरो भवतीत्यर्थः॥१॥ सा च माया प्रलीनावस्थायामपि क्षोभहेतोरभावादविक्षुब्धैव सत्यसत्प्राया भवति। यदा पुनरसौ मायीश्वरः सिसृक्षति तदा केन क्रमेण सृजतीति स प्रतिपाद्यते—कालकर्मेति। प्राणिनां परिपक्कपुण्यपापात्मककर्मफलभूतसुखदुःखोपभोगार्था हि पारमेश्वरी जगत्सृष्टिः। तानि च प्राणिकर्माणि यदा कालवशात्परिपक्कानि भवन्ति तदानीं तत्कर्मानुगुण्येन स्वरूपादभिन्नया स्वसंबन्धिन्या मायया स्वयमेकीभूतोऽपीश्वरस्तया मायया स्वस्य भेदं परिकल्पयति। स्वयमेकः शक्तिभूता माया चान्येति। एतच्च भेदपरिकल्पनं तथैव मायया सोपाधिकस्येति द्रष्टव्यम्‌। असङ्गोदा

सीनकूटस्थचिन्मात्ररूपस्य परशिवस्य निरुपाधिकस्येदृग्विधव्यवहारानुपपत्तेरित्यर्थः॥२॥ नन्वीश्वरेण भेदोऽपि निर्मितश्चेदद्वैतव्याघात इत्याशङ्क्याऽऽह—कल्पितोऽयमिति। ईश्वरेण मिथ्याभूतत्वेनैव परिकल्पितत्वात्तेन वास्तवाभेदबाधो न संभवतीत्यर्थः। कुत इत्यत आह—कल्पितानामिति। शुक्त्यादौ कल्पित्तस्य रूप्यादेरवस्तु

त्प्रदर्शन्म-

पुनः पूर्वक्षणोत्पन्नवासनाबलतोऽनघाः।
ईक्षिता पूर्ववद्भूत्वा स्वशक्त्या परया युतः॥४॥
मायाया गुणभेदेन रुद्रं विष्णुं पितामहम्‌।
सृष्ट्वानुप्राविशत्तेषामन्तर्यामितया हरः॥५॥
तेषां रुद्रः पराभेदात्परतत्त्ववेदव तु।
करोति सर्गस्थित्यन्तं रुद्ररूपेण सत्तमाः॥६॥
संहरत्यविशेषेण जगत्सर्वं चराचरम्‌।
विष्णुरप्यास्तिकाः साक्षात्पराभेदेन केवलम्‌॥७॥
करोति सर्गस्थित्यन्तं विष्णुरूपेण हे द्विजाः।
पालयत्यविशेषेण जगत्सर्वं चराचरम्‌॥८॥

__________

द्भेदस्यापि कल्पितत्वाविशेषात्तथात्वमभ्युपेतव्यम्‌। अत एव वस्तूपाधावभेदो मायोपाधौ भेद इति भिन्नविषयत्वात्तयोरविरोधश्च सिध्यति॥३॥ पुनः पूर्वेत्यादि। एवं मायायाः स्वस्य च भेदं परिकल्प्य पुनः पूर्वस्मिन्कल्पे मायासंबन्धिनो ये गुणाः सत्त्वरजस्तमोरूपास्तज्जनितवासनाबलेन तदुपाधिकः परशिवः पूर्वकल्प इवेक्षिता भूत्वा स्रष्टव्यजगत्पर्यालोचनमीक्षणं करोति। तथा चाऽऽम्नातम्‌—‘तदैक्षत बहु स्यां प्रजायेय’ हति। एवमीक्षित्रवस्थां प्राप्तः स्वकीयया शक्‍त्या सहितः सन्पुनः प्राणिकर्मवशात्तस्या मायायाः प्रविभक्ता ये गुणाः सत्त्वरजस्तमोलक्षणास्तदुपाधिवशेन रुद्रादीन्‍सृष्ट्वा तेषामन्तर्यामितया सृस्टिस्थित्यादिव्यापारेषु तान्नियन्तुं स्वयमीश्वरः प्रविष्टवानित्यर्थः॥४॥५॥ तेषां रुद्र इत्यादि। एते च मायाया गुणोपाधिकत्वान्मायायाश्च जीवोपाध्यविद्यावत्स्वाश्रयव्यामोहकत्वाभावात्स्वात्मनः परतत्त्वरूपानुसंधानेनाभेदेनावस्थितास्तथा चैषां परतत्त्वरूपत्वं साधारणम्‌। रद्रादिरूपत्वं तु प्रतिनियतम्‌। तत्र परतत्त्वरूपणैव त्रयोऽपि सृष्टिस्थितिसंहृतीनां कर्तारः। प्रतिनियतरुद्रादिरूपेण तु संहृत्यादेरेकैकस्यैव कर्तार इत्यर्थः॥६—९॥ शब्दा-

ब्रह्माऽपि मुनिशार्दूलाः पराभेदेन केवलम्‌।
करोति सर्गस्थित्यन्तं ब्रह्मरूपेण सत्तमाः।
करोति विविधं सर्वं जगत्पूर्वं यथा तथा॥९॥
शब्दादिभूतसृष्टिस्तु परस्यैव शिवस्य तु॥१०॥
सर्वान्तःकरणानां तु समष्टेः सृष्टिरास्तिकाः।
त्रिमूर्तीनां हरस्यैव प्राधान्येन न संशयः॥११॥
प्राणानामपि सर्वेषां समष्टेः सृष्टिरास्तिकाः।
अपि रुद्रस्य तस्यैव प्राधान्येन न संशयः॥१२॥
सर्वज्ञानेन्द्रियाणां तु समष्टीनां जनिर्द्विजाः।
त्रिमूर्तीनां हरस्यैव प्राधान्येन न संशयः॥१३॥
सर्वकर्मेन्द्रियाणां तु समष्टीनां जनिर्द्विजाः।
त्रिमूर्तीनां हरस्यैव प्राधान्येन न संशय॥१४॥
तथाऽपि परमं तत्त्वं त्रिमूर्तीनां तु कारणम्‌।
ब्रह्मविष्णुमहेशानां सृष्टावुपकरोति च॥१५॥
उपचारतया तेऽपि स्रष्टार इति शब्दिताः।
तत्रापि तत्त्वतः स्रष्टृ ब्रह्मैवाद्वयमास्तिकाः॥१६॥

________

दीत्यादि। यद्यपि ब्रह्मविष्ण्वादयो मायागुणभेदोत्पन्नास्तथाऽपि शब्दतन्मात्रादिलक्षणसूक्ष्मवियदादिभूतसृष्टिस्तु मायिनः परशिवस्यैव न तु रजोगुणाधिकस्य ब्रह्मणः। तत्र सृष्टानां सूक्ष्मभूतानां ये पञ्च सत्त्वांशास्तत्परिणामरूपाणि प्राणिनामन्तःकरणानि। तेषां समष्टिः सकलसत्त्वांशाख्यं हैरण्यगर्भमन्तःकरणं तत्सृष्टिस्तु त्रिमूर्तीनां मध्ये रुद्रस्यैव। स खलु निरतिशयसत्त्वोपाधिकतया सार्वज्ञेन हरिब्रह्मादिभ्यो विशिष्यत इत्युक्तम्॥१०—१४॥ तथाऽपीति। समष्ट्यन्तःकरणसृष्टौ रुद्रस्य स्रष्टृत्वम्‌। तथाऽपि त्रिमूर्तीनां कारणभूतं यत्परशिवस्वरूपं तद्ब्रह्मविष्ण्वादिष्वनुगतं तत्कर्तृसृष्टावप्युपकरोति। अतः सर्वस्य परशिवस्यैव परमार्थतः

व्यष्टयस्तु समष्टिभ्यो जायन्ते ब्रह्मणानघाः।
समष्टिषु विजायन्ते देवताः पूर्वकल्पवत्‌॥१७॥
समष्टिव्यष्टिरूपाणां सृष्टानां पालको हरिः।
रुद्रस्तेषां तु संहर्ता द्विजा रूपान्तरेण च॥१८॥
या देवताऽन्तःकरणसमष्टौ पूर्वकल्पवत्।
विजाता स मुनिश्रेष्ठा रुक्मगर्भ इतीरितः॥१९॥
जाता प्राणसमष्टौ या स सूत्रात्मसमाह्वयः।
दिग्वाय्वर्कजलाध्यक्षपृथिव्याख्यास्तु देवताः।
जायन्ते क्रमशः श्रोत्रप्रमुखेषु समष्टिषु॥२०॥

____________

स्रष्टृत्वम्‌। तदभेदज्ञानबलाद्विष्ण्वादयोऽप्युपचारेण स्रष्टार उच्यन्त इत्यर्थः॥१५॥१६॥ व्यष्टयस्तु समष्टिभ्य इति। तथा च वियदादिभूतजगत्सर्वसत्त्वांशैरारब्धं समष्ट्यन्तःकरणम्। तथा तद्गतसर्वरजोंशैरारब्धः समष्टिप्राणः। एकैकभूतगतसर्वसत्वांशैरारब्धानि हैरण्यगर्भाणि समष्टिरूपाणि ज्ञानेन्द्रियाणि। तथैकैकभूतगतसर्वरजोंशैरारब्धानि हैरण्यगर्भाणि समष्टिकर्मेन्द्रियाणि। एवमीश्वरेणान्तःकरणादीनां समष्टिषूत्पादितासु तेषां व्यष्टयस्तु समष्टिसकाशादेव जायन्ते। समष्ट्यन्तःकरणाद्युपाधिक एवेश्वरो व्यष्ट्यन्तःकरणादीनां स्रष्टेत्यर्थः। समष्टिषु विजायन्त इति। तासु चान्तःकरणादिसमष्टिषु वक्ष्यमाणदेवताः पूर्वकल्पानुसारेणोत्पद्यन्ते॥१७॥ समष्टिव्यष्टिरूपाणामित्यादि। बहिरवस्थितसत्ववशेन हरिस्तेषां सर्वेषां पालकः। रुद्रस्तु स्वात्मनः सृष्टानामपि समष्टीनां रूपान्तरेण परतत्वरूपाद्रूपान्तरं रुद्रत्वाकार एव तेन संहर्ताऽपि भवतीत्यर्थः॥१८॥ अथ समष्टिषु विजाता देवताः क्रमेण दर्शयति—या देवतेत्यादिना। अन्तःकरणसमष्टौ या देवता जायते सा हिरण्यगर्भाभिधेयेत्यर्थः। एतच्च शिवमाहात्म्यखण्डे ‘हिरण्यगर्भं वक्ष्यामि’ इत्यादिना विस्तरेण प्रतिपादितम्‌॥१९॥ जाता प्राणसमष्टाविति। प्रागुदीरितप्राणसमष्टौ

पादपाण्यादिषु प्राज्ञाः कर्मेन्द्रियसमष्ठिषु।
त्रिविक्रमेन्द्रप्रमुखा जायन्ते देवताः क्रमात्‌॥२१॥
समष्टिषु विजाता या देवतास्ता यथाक्रमम्‌।
व्यष्टिभूतेन्द्रियाणां तु नियन्त्र्यो देवता द्विजाः॥२२॥
मारुतस्त्वगधिष्ठाता दिग्देवी कर्णदेवता॥२३॥
नेत्राभिमानी सूर्यः स्याज्जिह्वाया वरुणस्तथा।
घ्राणाभिमानिनी देवी पृथिवीति प्रकीर्तिता॥२४॥
अग्निर्वागभिमानी स्यादुपस्थस्य प्रजापतिः।
पायोर्मित्रोऽभिमान्यात्मा पादस्यापि त्रिविक्रमः॥
इन्द्रो हस्तनियन्ता स्याज्छिवः सर्वनियामकः॥२५॥
मनो बुद्धिरहंकारश्चित्तं चेति चतुर्विधम्‌।
स्यादन्तःकरणं प्राज्ञाः क्रमात्तेषां हि देवताः॥२६॥
चन्द्रो वाचस्पतिर्विप्राः साक्षात्कालाग्निरुद्रकः।
शिवेश्चेति मया प्रोक्ताः साक्षाद्वेदान्तपारगाः॥२७॥

___________

जायमाना या देवता स एव सूत्रात्मेत्युच्यते। तदपि प्रागुक्तम्—‘समष्टिभूतः प्राणानां भवेत्प्राणः शिवाज्ञया। तत्रस्थो भगवान्विष्णुः सुत्रात्मेति प्रकीर्तितः’ इति। समष्टिरूपेषु श्रोत्रादीन्द्रियेषु वाक्पाण्यादिकर्मेन्द्रियेषु क्रमेण जायमानान्देवान्दर्शयति—दिग्वाय्वित्यादिना। जलाध्यक्षो वरुणः॥२०॥ त्रिविक्रमेन्द्रप्रमुखा इति। प्रमुखग्रहणेन वागभिमानिनो वक्ष्यमाणा अग्न्यादयः संगृहीताः॥२१॥ समष्टिषु विजाता इति। समष्ट्यन्तःकरणादिषु या देवता जातास्ता व्यष्टीनां निवन्त्र्यो भवन्ति॥२२॥ तत्र ज्ञानेन्द्रियाणां दर्शयति—मारुत इति॥१३॥॥२४॥ कर्मेन्द्रियाणामपि ता दर्शयति—अग्निर्वागित्यादिना। शिवः सर्वनियामक इति। एतेषु वाय्वादिष्वधिष्ठातृदेवेषु तद्रूपेणावस्थितः शिव एव सर्वस्य नियामकः। वाय्वादीनामपि नियन्तव्यत्वेन पर-

आकाशादीनि भूतानि स्थूलानि पुनरास्तिकाः।
जायन्ते सूक्ष्मभूतेभ्यः पूर्वकल्पे यथा तथा॥२८॥`
अण्डभेदास्तथा लोकभेदास्तेषु च चेतनाः।
अचेतनानि चान्यानि भौतिकानि च पूर्ववत्‌॥२९॥
विजायन्ते च भोगार्थं चेतनानां शरीरिणाम्‌।
भोक्तारः पशवः सर्वे शिवो भोजयिता परः॥३०॥
सुखदुःखादिसंसारो भोगः सर्वमिदं सुराः।
स्वप्नवद्देवदेवस्य माययैव विनिर्मितम्‌॥३१॥
मायया निर्मितं सर्वं मायैव हि निरूपणे।
कारणव्यतिरेकेण कार्यं नेति हि दर्शितम्‌॥३२॥
मायाऽपि कारणत्वेन कल्पिता मुनिपुङ्गवाः।
अधिष्ठानातिरेकेण नास्ति तत्त्वनिरूपणे॥३३॥

__________

मार्थतो नियन्तृत्वासंभवादित्यर्थः । अन्तःकरणचतुष्टयस्य क्रमेण देवता दर्शयति–चन्द्र इति॥२५–२७॥ एवं सूक्ष्मभूतानां तत्कार्याणां च समष्टिव्यष्टिभावेनावस्थितानां साधिष्ठातृकाणां सृष्टिं प्रतिपाद्य स्थूलभूतानां तत्कार्यस्थूलप्रपञ्चस्य च सृष्टिं प्रतिपादयति—आकाशादीनीत्यादिना॥२८—३०॥ स्वप्नवदिति। यथा स्वप्ने भोक्तृभोग्यभोगप्रदरूपेण त्रिधाऽवस्थितः प्रपञ्चोऽनुभूयत एवमेव परमेश्वरमायया निर्मितं भोक्तृभोग्यादिलक्षणं जगत्प्रत्येतव्यमित्यर्थः॥३१॥ ननु मायाया अपि कैश्चिद्वस्तुत्वमङ्गीकृतमतस्तन्निर्मितस्य जगतोऽपि प्राग्वस्तुत्वं किं न स्यादित्यत आह—माययेति। यन्मायाकार्यं तत्सर्वं निरूपणे कारणभूतमायैवेत्यङ्गीकार्यम्‌ कारणव्यतिरेकेण कार्यं नास्तीतिच्छन्दोगश्रुतिव्याख्यानावसरे यस्य स्मरणमात्रेणेत्यादिना प्रतिपादितत्वात्‌। एवं हि तत्र श्रुतावाम्नातम्‌—‘वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्‌’ इति। अनेन चावधारनेन कार्यस्य घटशरावादेः सर्वस्य कारणमात्ररूपता

व्यवहारदृशा मायाकल्पना नैव वस्तुतः।
वस्तुतः परमाद्वैतं ब्रह्मैवास्ति न चेतरत्‌॥३४॥
मायारूपतया साक्षाद्ब्रह्मैव प्रतिभासते।
जगज्जीवादिरूपेणाप्यहो देवस्य वैभवम्‌॥३५॥
स्वस्वरूपातिरेकेण ब्रह्मणो नास्ति किंचन।
तथाऽपि स्वातिरेकेण भाति हा दैववैभवम्॥३६॥
जगदात्मतया पश्यन्बध्यते न विमुच्यते॥३७॥
सर्वमेतत्परं ब्रह्म पश्यन्स्वानुभवेन तु।
मुच्यते घोरसंसारात्सद्य एव न संशयः॥३८॥

___________

निर्धारिता। अतः कार्यस्यापि तदव्यतिरेकोऽवगन्तव्यः॥३२॥ तर्हि माययैव द्वैतापत्तिरित्यत आह—मायाऽपीति। यदि माया पृथग्वस्तुभूता स्यात्तदाऽद्वैतव्याकोपः। सा तु चिन्मात्ररूपे परशिवस्वरूपे ब्रह्मणि विक्रियमाणजगदुपादानत्वेन कल्पिता। अतः साऽपि विचार्यमाणा शुक्तिरूप्यादिवदधिष्ठानद्ब्रह्मणो न व्यतिरिच्यत इत्यर्थः॥३३॥ व्यवहारदृशेति। व्यवहारदृष्ट्यैव मायापरिकल्पनं न तु वस्तुतः। प्रातीतिकरूपेणैव व्यवहारस्योत्पन्नत्वादिति भावः। यद्वस्तु पारमार्थिकं तद्दर्शयति—वस्तुत इति॥३४॥ मायारूपतयेति। तत्पारमार्थिकं ब्रह्मैवाविद्यमानमायातत्कार्यजगज्जीवादिभेदभ्रमस्याधिष्ठानं सत्तदात्मना भासते॥३५॥ न तु ततोऽतिरिक्तं किंचिदस्तीत्याह—स्वस्वरूपेति। स्वस्वरूपातिरेकेण प्रतिभाने कारणमाह—तथापीति॥३६॥ जगदात्मतयेति। तत्र जगद्रूपेण ज्ञानं संसारकारणं सर्वस्य विकारप्रपञ्चस्य ‘इदं सर्वं यदयमात्मा’ इत्यादिश्रुतिप्रमाणबलेन ब्रह्मात्मना ज्ञानं मोक्षसाधनमित्यर्थः। तत्राप्यपरोक्षज्ञानस्य विशेषमाह—सर्वमेतदिति। यदेतत्सर्वं जगद्ब्रह्मेति श्रुत्या बोधितमर्थं मनननिदिध्यासनाभ्यां समुपनीतेन स्वानुभवेन साक्षात्कुर्वंस्तत्समकालमेव संसारान्मुच्यत इत्यर्थः॥३७॥३८॥

सर्वमेतत्परं ब्रह्म विदित्वा सुदृढं बुधाः।
मानतर्कानुभूत्यैव गुरूक्त्या च प्रसादतः।
ज्ञानप्राकट्यबाहुल्याज्ज्ञानं च स्वात्मनैव तु॥३९॥
स्वात्मना केवलेनैव तिष्ठन्मुच्येत बन्धनात्‌।
य एवं वेद वेदार्थं मुच्यते स तु बन्धनात्‌॥४०॥
सोपानक्रमतश्चैवं पश्यन्नात्मानमद्वयम्‌।
सर्वं जगदिदं विप्राः पश्यन्नपि न पश्यति॥४१॥
भासमानमिदं सर्वं भानरूपं परं पदम्‌।
पश्यन्वेदान्तमानेन सद्य एव विमुच्यते॥४२॥
एवमात्मानमद्वैतमपश्यन्नेव पश्यतः।
जगदात्मतया भानमपि स्यात्मैव केवलम्‌॥४३॥

___________

एतदेव विवृणोति—सर्वमेतदिति। प्रमाणतर्कानुभवैर्गुरूपदेशतत्प्रसादाभ्यां च विज्ञानाविर्भावस्यातिशय उपलभ्यते। तथाऽऽविर्भूतं ज्ञानं स्वरूपाज्ञानं निवर्तयत्कतकरजोन्यायेन स्वात्मनैव चिन्मात्ररूपेणावशिष्यत इत्यर्थः॥३९॥ स्वात्मना केवलेनेति। केवलेन निरस्तसमस्तोपाधिना स्वप्रकाशचिन्मात्ररूपेणैव तिष्ठ

न्तंसारबन्धविनिर्मुक्तो भवति॥४०॥ सोपानक्रमत इति। प्रथमं शाब्दज्ञानं तस्य च मनननिदिध्यासनाभ्यामनुभवपथप्रापणं पुनर्निःशेषसंशयोच्छेदेन ज्ञानप्रावट्यलाभः तस्यापि ज्ञानस्य स्वरूपचिन्मात्रे पर्यवसानमित्यनेन सोपानक्रमेणेत्यर्थः। पश्यन्नपीति। अज्ञजनव्यवहारदशायां चक्षुरादीन्द्रियैरनात्मवस्तु जानन्नपि कारणब्रह्मात्मनैव विद्वान्पश्यति॥४१॥ एतदेव विशदयति—भासमानमिति। चित्प्रकाशबलेन भासमानं सर्वमिदं जगच्चिन्मात्ररूपं विकारजेभ्यः परं पदं पदनीयं निरातिशयानन्दरूपतया प्राप्तव्यं ब्रह्म वेदान्तवाक्यरूपेण प्रमाणेन जानन्सद्य एव विमुच्यते॥४२॥ पश्यत इति। उक्तविधमद्वितीयमात्मतत्वं दर्शनक्रियाविषयत्वाभावात्कर्मकर्तृभावेनैवापश्यन्नेव

विदित्वैवं महायोगी जगद्भानेऽपि निश्चलः।
यथाभातमिदं सर्वमनुजानाति चाऽऽत्मना॥४४॥
निषेधति च तत्सिद्धिरनुज्ञातस्य केवलम्‌।
तदसिद्धिर्निषेधोऽस्य सिद्ध्यसिद्धी च तस्य न॥४५॥
प्रकाशात्मतया साक्षात्स्थितिरेवास्य केवलम्‌।
विद्यते नैव विज्ञानं नाज्ञानं न जगत्सदा॥४६॥
प्रकाशात्मतया साक्षात्स्थितिरित्यपि भाषणम्।
अहं वदामि मोहेन तच्च तस्मिन्न विद्यते॥४७॥
तस्य निष्ठा मया वक्तुं विज्ञातुं च न शक्यते।
श्रद्धामात्रेण यत्किंचिज्जप्यते भ्रान्तचेतसा॥४८॥

___________

स्वरूपप्रकाशेन यः पश्यति तस्येत्यर्थः। जगदात्मतथा भानमिति। यथा स्वात्मतिषयं ज्ञानं ततः स्वात्ममात्रं भवति तथा जगदात्मतया भानमपि विषयजगद्विनिर्मुक्तं सत्केवलं स्वात्मैव भवति। अद्वितीयात्मदर्शनेन जगतो ग्रस्तत्वादिति भावः॥४३॥ इत्थं सम्यग्ज्ञानवतो जीवन्मुक्तस्य स्थितिप्रकारमाह—विदित्वैवामिति। एवं निर्विचिकित्सितं ज्ञात्वऽऽत्मानं विद्वाञ्जगत्प्रतीतावपि स्वयं निश्चलो भवति। नैश्चल्यमेव स्फेरयति–यथेति। येन येन प्रकारेण यद्यदिदं भासते तत्सर्वं साक्षिरूपेणानुक्रमेण जानाति। अविद्यमानं च निषेधति। स्वात्मना न दर्शयति। साक्षिचैतन्यात्मनैव भावाभावात्मकं द्विविधं जगदवस्थितं प्रकाशयतीत्यर्थः। तस्य प्रतीयमानस्य सिद्धिः सद्भावोऽसिद्धिरसद्भवश्चेत्येतदुभयमनुज्ञातस्य निषिद्धस्य च भवति। न तु तस्यानुज्ञातुर्निषेद्धुश्च चिन्मात्ररूपस्याऽऽत्मनस्ते सिद्ध्यसिद्धी भवतः॥४४॥४५॥ अस्य तु केवलं चित्प्रकाशात्मतयाऽऽपरोक्ष्येण स्थितिरेव भवति। न च तस्यामवस्थायां तत्त्वज्ञाननिवर्त्यमज्ञानं तत्कार्यं जगद्वा किंचिदपि विद्यते। सकार्यस्याज्ञानस्‍य ज्ञानेन निवर्तितत्वात्‌ ज्ञानस्य च कतकरजोन्यायेन स्वयमेव लीनत्वादित्यर्थः॥४६॥

इति गुह्यमिदं कथितं मया निखिलोपनिषद्धृदयंगमम्‌।
हरपङ्कजलोचनपालितं विदितं यदि वेदविदेव सः॥४९॥

इति श्रीसूतसंहितायां यज्ञवैभवखण्डस्योपरिभागे सूतगीतायां विशेषसृष्टिकथनं नाम चतुर्थोऽध्यायः॥४॥

पश्चमोऽध्यायः

५. आत्मत्वरूपकथनम्।

सूत उवाच—

वक्ष्यामि परमं गुह्यं युष्माकं मुनिपुङ्गवाः।
विज्ञानं वेदसंभूतं भक्तानामुत्तमोत्तमम्‌॥१॥
रुद्रविष्णुप्रजानाथप्रमुखाः सर्वचेतनाः।
स्वरसेनाहमित्याहुरिदमित्य

ति च स्वतः॥२॥
इदंबुद्धिश्च बाह्यार्थे त्वहंबुद्धिस्तथाऽऽत्मनि।
प्रसिद्धा सर्वजन्तूनां विवादोऽत्र न कश्चन॥३॥

___________

प्रकाशात्मतयेति। एतदपि पदकदम्बकरूपं वाक्यम्‌। तच्च बहुषु पदार्थेषु सत्स्वेव प्रयोक्तुं शक्यते। अद्वितीये तु वस्तुनीदृग्विधवाक्यप्रयोगोऽपि मदज्ञानविलसित इति ब्रुवता सूतेन तस्यावाङ्मनसगम्यत्वं प्रतिपाद्यते॥४७—४९॥

इति श्रीसुतसंहितातात्पर्यदीपिकायां यज्ञवैभवखण्डस्योपरिभागे सूतगीतायां विशेषसृष्टिकथनं नाम चतुर्थोऽध्यायः॥४॥

इत्थं परागर्थप्रपञ्चस्य परशिवस्वरूपान्मायावशात्सृष्टिं प्रतिपाद्य तदुपलक्षितमद्वितीयं परशिवस्वरूपमेव मोक्षार्थिभिर्ज्ञातव्यमित्युपदिष्टम्‌। अथाहमर्थविवेकेनापि तत्स्वरूपं प्रतिपादयितुमुपक्रमते—वक्ष्यामीति॥१॥२॥ अहमर्थस्य चिन्मात्ररूपतां वक्‍तुमिदंबुद्धेरनात्मविषयत्वमहंबुद्धेश्चाऽऽत्मविषयत्वं लोकसिद्धमिति दर्शयति—इदंबुद्धिश्चेत्यादिना

इदमर्थे घटाद्यर्थेऽनात्मत्वं सर्वदेहिनाम्।
अहमर्थे तथाऽऽत्मत्वमपि सिद्धं स्वभावतः॥४॥
एवं समस्तजन्तूनामनुभूतिव्यवस्थिता।
भ्रान्ता अपि न कुर्वन्ति विवादं चात्र सत्तमाः॥५॥
एवं व्यवस्थिते ह्यर्थे सति बुद्धिमतां वराः।
संसारविषवृक्षस्य मूलच्च्छेदनकाङ्क्षिभिः॥६॥
यत्र यत्रेदमित्येषा बुद्धिर्दृष्टा स्वभावतः।
तत्र तत्र त्वनात्मत्वं विज्ञातव्यं विचक्षणैः॥७॥
यत्र यत्राहमित्येषा बुद्धिर्दृष्टा स्वभावतः।
तत्र तत्र तथात्मत्वं विज्ञातव्यं मनीषिभिः॥८॥
शरीरे दृश्यते सर्वैरिदंबुद्धिस्तथैव च।
अहंबुद्धिश्च विप्रेन्द्रास्ततस्ते भिन्नगोचरे॥९॥
शरीरालम्बना बुद्धिरिदमित्यास्तिकोत्तमाः।
चिदात्मालम्बना साक्षादहंबुद्धिर्न संशयः॥१०॥
इदमर्थे शरीरे तु याऽहमित्युदिता मतिः।
सा महाभ्रान्तिरेव स्यादतस्मिंस्तद्ग्रहत्वतः॥११॥

___________

॥३—५॥ एवं व्यवस्थित इति। इदमहंबुद्ध्योरनात्मात्मविषयत्व एवं लोकत एव सिद्धे सति मोक्षार्थिभिः सर्वत्रेदंकारास्पदेऽनात्मत्वं ज्ञातव्यमहंकारास्पदेऽप्यात्मत्वं ज्ञातव्यम्‌॥६—८॥ ननु क्वचिद्देहेन्द्रियादौ ममेदं शरीरमहं मनुष्य इत्येवं प्रत्यया दृश्यन्ते तत्र कथमित्याशङ्क्याऽऽह—शरीर इति। इदमहंबुद्ध्योरुभयोर्नियतपराक्प्रत्यगर्थविषयत्वेनैकत्वासंभवात्ते बुद्धी भिन्नविषये कर्तव्ये॥९॥ तत्र साक्षिचिदात्मनोर्विविक्तं यत्साक्ष्यं देहेन्द्रियादिकं तदालम्बनेदंबुद्धिः स्यादनुभवतोऽनिदंरूपत्वेऽपि चिद्भास्यत्वलक्षणयोगेन यौक्तिकविवेकाद्बाह्यद्रव्यवदिदंकारास्पदत्वात्‌। अहंबुद्धिस्तु देहान्द्रियादेः साक्षी चिदात्मा तदालम्बना॥१०॥

अचिद्रूपमहंबुद्धेः पिण्डं नाऽऽलम्बनं भवेत्‌।
मृत्पिण्डादिष्वदृष्टत्वात्ततोऽनात्मैव विग्रहः॥१२॥
अचित्त्वादिन्द्रियाणां च प्राणस्य मनसस्तथा।
आलम्बनत्वं नास्त्येव बुद्धेश्चाहंमतिं प्रति॥१३॥
बुद्धेरचित्त्वं संग्राह्यं दृष्टत्वाज्जन्मनाशयोः।
अचिद्रूपस्य कुड्यादेः खलु जन्मावनाशनम्॥१४॥
अहंकारस्य चाचित्त्वाच्चित्तस्य च तथैव च।
आलम्बनत्वं नास्त्येव सदाऽहंप्रत्ययं प्रति॥१५॥

___________

अहं मनुष्यः स्थूलोऽहं कृशोऽहमिति मनुष्यत्वादिधर्मयुक्तदेहेन्द्रियादिसामानाधिकरण्यादहंप्रत्ययस्य तद्विषयत्वमनुभवसिद्धमिति चेत्तत्राऽऽह—इदमर्थ इति। चिद्भास्यत्वलक्षणयोगान्निश्चितेदमर्थे शरीरादौ जायमानोऽहंप्रत्ययः स्फटिके रक्तिमबुद्धिरद्भ्रान्तिरेव स्यात्। ‘अतस्मिंस्तद्बुद्धिर्विपर्ययः’ इति तल्लक्षणयोगादित्यर्थः॥११॥ भूतकार्यत्वादपि देहादिनाहंबुद्धिर्विषय इत्याह—अचिद्रूपमिति। अन्नपरिणामरूपत्वाज्जडं पिण्डं स्थूलशरीरं तावदहंप्रत्ययस्य नाऽऽलम्बनं तदालम्बनत्वस्य मृत्पिण्डादौ जडेऽदृष्टत्वात्ततोऽहंबुद्ध्यनालम्बनत्वात्स्थूलदेहोऽनात्मा॥१२॥ इन्द्रियादीनामपि तदनालम्बनत्वं प्रतिपादयति—अचित्त्वादिति। स्थूलदेहवदिन्द्रियादीनामप्यचिद्रूपत्वसामान्यादहंप्रत्ययानालम्बनत्वम्॥१३॥ नन्विन्द्रियादीनां चिद्भास्यत्वादस्त्वहंबुद्ध्यविषयत्वम्। बुद्धिस्तु चिद्रूपैवेति तस्यास्तदालम्बनत्वं युक्तमित्यत आह—बुद्धेरिति। उत्पत्तिविनाशौ हि जडधर्मौ। तद्योगाद्बुद्धेरप्यवश्यमचिद्रूपत्वमभ्युपेतव्यम्। अयं भावः। विमता बुद्धिरचिद्रूपोत्पतिविनाशधर्मवत्त्वाद्धटादिवदिति। व्याप्तिं दर्शयति—अचिद्रूपस्येति॥१४॥ एवं मनोबुद्ध्योरचित्त्वेनानात्मत्वं प्रतिपाद्याहंकारचित्तयोरेतत्प्रतिपादयति—अहंकारस्येति। एतयोरपि सत्त्वपरिणामरूपान्तःकरणकार्यतया चिद्भास्यत्वेन जडत्वाद्धटादिवदहंप्रत्ययालम्बन-

सर्वप्रत्ययरूपेण सदाऽहंकार एव हि।
निवर्तते तोऽहंकारस्त्वनात्मैव शरीरवत्॥१६॥
परिणामस्वभावस्य क्षीरादेर्द्विजपुङ्गवाः।
अचेतनत्वं लोकेऽस्मिन्प्रसिद्धं खलु संततम्॥१७॥
तस्माच्चिद्रूप एवाऽऽत्माऽहंबुद्धेरर्थ आस्तिकाः।
अचिद्रूपमिदंबुद्धेरनात्मैवार्थ ईरितः॥१८॥
सत्यपि प्रत्ययार्थत्वे प्रत्यगात्मा स्वयंप्रभः।
वृत्त्यधीनतया नैव विभाति घटकुड्यवत्॥१९॥
स्वच्छवृत्तिमनुप्राप्य वृत्तेः साक्षितया स्थितः।
वृत्त्या निवर्त्यमज्ञानं ग्रसते तेन तेजसा॥२०॥

___________

त्वमित्यर्थः॥१५॥ नन्वहंप्रत्ययस्याहंकारानालम्बनत्वं व्याहतमित्यत आह—सर्वप्रत्ययेति। अहंबुद्धिस्तावदात्मैकविषयेत्युक्तम्। अहंकारस्तावदात्मा न भवति। अहं सुखी दुःखीत्येवं सर्वप्रत्ययरूपेण विवर्तमानत्वात्तस्यापि विकारित्वेन शरीरवदनात्मत्वमेव युक्तम्। किंच दध्याकारपरिणामिनः क्षीरादेरनित्यत्वमचेतनत्वं च लोकप्रसिद्धत्वात्सर्वप्रत्ययात्मना परिणममानस्याहंकारस्य तथाविधमचेतनत्वं को निवारयेत्॥१६॥१७॥ एवमहंबुद्ध्यालम्बनत्वेन प्रसक्तानां देहेन्द्रियादीनां तदालम्बनत्वप्रतिषेधे सति पारशेषाच्चिन्मात्रालम्बनत्वं तस्य सिद्धमिति निगमयति—तस्मादिति। अहमिति प्रत्यगर्थविषयाया बुद्धेरुक्तरीत्या देहेन्द्रियादीनां चिद्भास्यत्वेन घटादिवत्परार्थत्वात्प्रत्यग्भूतः साक्षी चिन्मात्ररूप एवाऽऽत्मा विषयो नाचिद्रूपं जडं देहेन्द्रियादिकम्। इदंबुद्धेश्चानात्मैव विषय इति न तयोः क्वापि सांकर्यमित्यर्थः॥१८॥ यदि चिन्मात्ररूप आत्माऽहंबुद्धिविषयस्तर्हि तस्य स्वप्रकाशत्वभङ्ग इत्यत आह—सत्यपीति। सर्वान्तरस्य प्रत्यगात्मनोऽहंप्रत्ययविषयत्वे सत्यप्यसौ स्वयंप्रकाश एव भवति। ननु बुद्धिवृत्तिविषयत्वं स्वप्रकाशत्वं च परस्परविरुद्धमित्यत आह—वृत्त्यधीनेति।

अनुप्रविष्टचैतन्यसंबन्धात्‌ वृत्तिरास्तिकाः।
जडरूपं घटाद्यर्थं भासयत्यात्मरूपवत्‌॥२१॥
अतोऽहंप्रत्ययार्थेऽपि नानात्मा स्याद्घटादिवत्‌।
स्वयंप्रकाशरूपेण साक्षादात्मैव केवलम्‌॥२२॥
यत्संबन्धादहंवृत्तिः प्रत्ययत्वेन भासते।
स कथं प्रत्ययाधीनप्रकाशः स्यात्स्वयंप्रभः॥२३॥

_________

सर्वप्रत्यक्चिदात्मनः सत्यपि बुद्धिवृत्तिव्याप्यत्वे घटकुड्य दिवत्स्फुरणं न तदधीनम्। किंतु स्वच्छां निर्मलां बुद्धिवृत्तिमनुव्याप्य तस्या वृत्तेर्भासकसाक्षिविद्रूपेणायमवस्थितः स्वयं प्रकाशते। घटकुड्यादिकं तु जडत्वात्स्वगोचरवृत्त्यनुप्रविष्टचैतन्येनापि व्याप्य वर्तत इति पराधीनप्रकाशमित्यर्थः। नन्वहमर्थश्चिदात्मा स्वयंप्रकाशमानश्चेदहमाकारवृत्तिस्तर्हि किमर्थेत्यत आह—वृत्येति। आत्मस्वरूपावरणभूतं यदज्ञानं तदात्मविषयवृत्त्यैव निवर्तनीयम्। अतोऽज्ञाननिवृत्तौ बुद्धिवृत्तेरुपयोगस्तत्र चेत्यमानमज्ञानं स्वस्वरूपेऽध्यस्तत्वादात्मा स्वेनैव चित्प्रकाशेन ग्रसते तदज्ञाननिवृत्तिरपि चिन्मात्ररूपेणावशिष्यत इत्यर्थः॥१९॥२०॥ बुद्धिवृत्तेर्घटादिविषयप्रकाशजनन-सामर्थ्यवदात्मविषयप्रकाशजननसामर्थ्यमपि किं न स्यादित्यत आह—अनुप्रविष्टेत्यादिना। सत्त्वपरिणामरूपत्वेन निर्मला बुद्धिवृत्तिः स्वात्मन्यनुप्रविष्टचैतन्यसंबन्धबलात्सवितृप्रतिबिम्बयुक्तादर्शवज्जडं घटादिविषयजातमापरोक्ष्येण भासयति। आत्मा तु स्वप्रकाशचिद्रूपत्वात्स्वरूपप्रकाशेनैव केवलं भासते॥२१॥२२॥ एतदुपपादयति—यदिति। यस्य चित्प्रकाशात्मनः संबन्धबलादहमर्थविषया वृत्तिः प्रतीतिकरणत्वेन भासते स चिदात्मा कथं प्रत्ययाधीनप्रकाशः स्यात्। प्रतीयतेऽनेनेति प्रत्ययो बुद्धिः। स च साक्षिचैतन्येन प्रकाश्यमानः कथं स्वमाक्षिणं प्रकाशयितुं शक्नुयात्। अतो बुद्धिवृत्तेरात्मविषयप्रकाशजननसामर्थ्याभावात्साक्षिभूतश्चिदात्मा स्वयंप्रकाशमान एवेत्यर्थः॥२३॥ नन्वहं

अहंवृत्तिः स्वतःसिद्धचैतन्येद्धाऽवभासते।
तत्संबन्धादहंकारः प्रत्ययीव प्रकाशते॥२४॥
आत्माऽहंप्रत्ययाकारसंबन्धभ्रान्तिमात्रतः।
कर्ता भोक्ता सुखी दुःखी ज्ञातेति प्रतिभासते॥२५॥
वस्तुतस्तस्य नास्त्येव चिन्मात्रादपरं वपुः।
चिद्रूपमेव स्वाज्ञानादन्यथा प्रतिभासते॥२६॥
सर्वदेहेष्वहंरूपः प्रत्ययो यः प्रकाशते।
तस्य चिद्रूप एवाऽऽत्मा साक्षादर्थो न चापरः॥२७॥

___________

जानामीत्यहंकारस्य ज्ञातृत्वमवसीयते कुतस्तस्यानात्मत्वभित्यत आह—अहंवृत्तिरिति स्वतःसिद्धं स्वप्रकाशं यत्साक्षिचैतन्यं तेनेद्धा तत्तादात्म्याध्यासेन प्रदीप्ताऽहंवृत्तिरवभासते। तच्चैतन्यप्रकाशसंबन्धवशादेवानात्मभूतोऽप्यहंकारः प्रत्ययीव प्रत्ययाः शब्दादिविषयज्ञानानि तद्युक्तो ज्ञातेव प्रकाशते। परमार्थतस्तु प्रत्ययी चिदात्मैव॥२४॥ नन्वात्मा प्रत्ययी चेत्तस्य ज्ञानक्रियाकर्तृत्वादिप्रसङ्गात्तस्य चिन्मात्ररूपता न सिध्येदित्यत आह—आत्मेति। कर्तृत्वभोक्तृत्वादिधर्मवदहंकारतादात्म्यसंबन्धवशाश्चिदात्मनि तद्धर्माध्यारोपेण कर्तृत्वादिप्रतीतिः॥२५॥ परमार्थतस्तु चिन्मात्रादन्यत्तस्य स्वरूपं न भवतीत्यर्थः। एतदुक्तं भवति। अहंकारचैतन्ययोः परस्परतादर्थ्याभिसंबन्धाच्चिदात्मधर्मः प्रत्ययित्व

प्यहंकारधर्मत्वेन भासते। अहंकारधर्माः कर्तृत्वभोक्तृत्वादयश्चिदात्मधर्मत्वेन प्रतिभासन्ते। तयोर्विवेके तु चिन्मात्रमेवाऽऽत्मस्वरूपं परिशिष्यत इति। अन्यथा प्रतिभाने कारणमाह—चिद्रूपमेवेति। विशुद्धचैतन्यमेवाऽऽत्मतत्त्वं स्वस्वरूपाज्ञानादन्यथा प्रकारान्तरेण कर्ता भोक्ता सुखी दुःखीत्यादिबहुप्रकारेण भासते॥२६॥ सर्वदेहेष्विति। सर्वप्राणिशरीरेष्वहमिति प्रत्ययोऽनुवृत्तः प्रतीयते। तस्य च केनचिदनुगतेन तादृशेनार्थेन भवितव्यम्। तादृशस्त्वर्थश्चिदात्मैव नापरः कश्चिदस्ति। चिदात्माति-

गौरिति प्रत्ययस्यार्थो यथा गोत्वं तु केवलम्।
तथाऽहंप्रत्ययस्यार्थश्चिद्रूपात्मैव केवलम्॥२८॥
व्यक्तिसंबन्धरूपेण गोत्वं भिन्नं प्रतीयते।
चिदहंकारसंबन्धाद्भेदेन प्रतिभाति च॥२९॥
यथैवैकोऽपि गोशब्दो भिन्नार्थो व्यक्तिभेदतः।
तथैवैकोऽप्यहंशब्दो भिन्नार्थो व्यक्तिभेदतः॥३०॥
यथा प्रतीत्या गोव्यक्तिर्गोशब्दार्थो न तत्त्वतः।
तत्त्वतो गोत्वमेवार्थः साक्षाद्रेदविदां वराः॥३१॥

________

रिक्तस्य सर्वस्य व्यावृतस्वभावत्वात्॥२७॥ उक्तमर्थं सदृष्टान्तमुपपादयति—गौरिति। यथा शाबलेयादिष्वनुगतस्य गौरिति प्रत्ययस्य गोत्वमेवार्थो न तु व्यावृतास्तद्व्यक्तयः। तथा च सर्वप्राणिशरीरेष्वनुगतस्याहंप्रत्ययस्यानुगतचिदात्मैव विषयो न तु तच्छरीरादिकमित्यर्थः॥२८॥ नन्वहंप्रत्ययस्य भिन्नविषयत्वमित्यत आह—व्यक्तीति। यथैकमपि गोत्वं तत्तच्छाबलेयादिव्यक्तिभिन्नाकारेण भिन्नं प्रतीयते। एवमेकैव चित्तदहंकारवशाद्भेदेन प्रतिभाति न तु चित्स्वरूपपर्यालोचने भेद उपलभ्यते॥२९॥ एवं प्रत्ययोपाधावहमर्थस्यैक्यमुपपाद्य शब्दार्थोपाधावपि तत्प्रतिपादयति–यथैवैकोऽपीति। यथैवैकोऽपि गोशब्दः स्वाभिधेयगोत्वजातिव्यञ्जकव्यक्तिभेदवशाद्भिन्नार्थो भवति तथैवैकोऽप्यहंशब्दः प्रतिशरीरं स्वाभिधेयचिद्व्यञ्जकाहंकारव्यक्तिभेदेन भिन्नार्थो न विरुध्यते॥३०॥ तत्र च यथा गोशब्दस्य व्यक्तिः प्रातीतिकोऽर्थो न तात्त्विकः। अनुगतस्यैकस्य गोशब्दस्य व्यावृत्तासु गोव्यक्तिषु संगतिग्रहणासंभवात्। परमार्थतस्तु सर्वासु गोव्यक्तिष्वनुगतं गोत्वमेव तस्यार्थः। व्यक्तिष्वनुगतयोस्तयोर्वाच्यवाचकभावेन संगतिग्रहणासंभवात्। एवमेव सर्वप्राणिष्वनुगतस्याहंशब्दस्याननुगताहंकारार्थत्वं प्रातीतिकम्। यस्तु प्रत्यक्चिदात्मा सर्वत्रानुगतः स एव तस्यानुगतस्याहंशब्दस्य मुख्योऽर्थः। तस्यानुगतिमभि-

तथा प्रतीत्याऽहंकारोऽहंशब्दार्थो न तत्त्वतः।
तत्त्वतः प्रत्यगात्मैव स एवाखिलसाधकः॥३२॥
एकत्वेऽपि पृथक्त्वेन व्यपदेशोऽपि युज्यते।
अन्तःकरणभेदेन साक्षिणः प्रत्यगात्मनः॥३३॥
रुद्रविष्णुप्रजानाथप्रमुखाः सर्वचेतनाः।
चिन्मात्रात्मन्यहंशब्दं प्रयुञ्जन्ते हि तत्त्वतः॥३४॥
सुषुप्तोऽस्मीति सर्वोऽयं सुपुप्तादुत्थितो जनः।
सुषुप्तिकालीनस्वात्मन्यहंशब्दं द्विजोत्तमाः॥३५॥
प्रयुङ्क्ते तत्र देहादिविशेषाकारभासनम्।
न हि केवलचैतन्यं सुषुप्तेः साधकं स्वतः॥३६॥
प्रतिभाति ततस्तस्मिंश्चिन्मात्रे प्रत्यगात्मनि।
अहंशब्दप्रवृत्तिः स्यान्न तु सोपाधिकात्मनि॥३७॥

____________

प्रेत्य विशिनष्टि—अखिलमिति। यतोऽयं चिदात्माऽखिलव्यवहारसाधकोऽतः सर्वप्राणिषु तत्तद्व्यवहारसाक्षितयाऽऽकाशवदनुगतो वर्तत इत्यर्थः॥३१॥३२॥ एकत्वेऽपीति। एवमहमर्थस्य चिदात्मन एकत्वेऽप्यहं देवदत्तोऽहं यज्ञदत्त इत्यादिभेदव्यपदेशोऽपि न विरुध्यते प्रतिशरीरमन्तःकरणभेदेन तत्साक्षिणश्चिदात्मनोऽपि तथात्वप्रतीतेरित्यर्थः॥३३॥ इत्थं स्वप्रतिपादितेऽर्थे रुद्रादीनामपि व्यवहारं संवादयति—रुद्रेति॥३४॥ ननु ते सर्वेऽहंकारसहिते चैतन्येऽहंशब्दं प्रयुञ्जते चिदात्मन इवाहंकारस्यापि तच्छब्दान्वयव्यतिरेकानुविधायित्वादित्याशङ्क्य केवलव्यतिरेकलाभाच्चिदात्मैवाहंशब्दार्थ इति प्रतिपादयति—सुषुप्तोऽस्मीत्यादिना। एतावन्तं कालमहं सुषुप्तोऽस्मीति स्वापादुत्थाय परामृशन्स्वापकालीनात्मविषयेऽहंशब्दं प्रयुङ्क्ते न च तस्यामवस्थायामहंकारोऽपि तस्यापि स्वकारणे लीनत्वेन तदानीं सकलविशेषप्रतिभासाभावात्तत्प्रतिभाने च सुषुप्तिभङ्गप्रसङ्गात्। अतस्तस्याभवस्थायां सुषुप्तेः प्रकाशकाहंकाराविशि-

यथाऽयो दहतीत्युक्ते वह्निर्दहति केवलम्।
नायस्तद्वदहंशब्दश्चैतन्यस्यैव वाचकः॥३८॥
प्रतीत्या वह्निसंबन्धाद्यथाऽयो दाहकं तथा।
चित्संबन्धादहंकारोऽहंशब्दार्थः प्रकीर्तितः॥३९॥
चैतन्येद्धाहमः स्पर्शाद्देहादौ भ्रान्तचेतसाम्।
अहंशब्दप्रयोगः स्यात्तथाऽहंप्रत्ययोऽपि च॥४०॥
इत्थं विवेकतः साक्ष्यं देहादिप्राणपूर्वकम्।
अन्तःकरणमात्मानं विभज्य स्वात्मनः पृथक्॥४१॥
सर्वसाक्षिणमात्मानं स्वयंज्योतिःस्वलक्षणम्।
सत्यमानन्दमद्वैतमहमर्थं विचिन्तयेत्॥४२॥

___________

ष्टात्मनीत्यर्थः। एवं सुषुप्त्यवस्थानामात्मनि प्रयुज्यमानस्याहंशब्दस्य प्रत्यगर्थवाचिनः सर्वत्रप्रत्यग्भूतचैतन्यमेवार्थः। न त्वहंकारस्तस्य तदवभास्यत्वेन परागर्थत्वात्॥३५—३८॥ अहंकाराभिधायकत्वं न तु तस्य प्रातीतिकमिति सदृष्टान्तमाह—प्रतीत्येति। अग्निसंयोगवशात्स्वभा-वतोऽनुष्णस्पर्शस्याप्ययसो दाहकत्वं यथा प्रतीतिमात्रसिद्धमेवं चित्संबन्धबलादहंकारोऽपि प्रतीतितोऽहंशब्दार्थः। परमार्थतस्तु यथाऽग्नेरेव दाहकत्वमेवं चैतन्यस्यैवाहंशब्दार्थतेत्यर्थः॥३९॥ कथं तर्ह्यहं मनुष्य इति देहादावहंशब्दप्रयोग इति तत्राह—चैतन्येति। स्वप्रकाशचैतन्यतादात्म्यापन्नो योऽहंकारस्तस्य स्पर्शादापादमस्तकव्यापनाद्देहादावहंशब्दप्रयोगप्रत्ययावन्यतोऽन्यदीययोस्तयोरन्यत्र प्रयोगो भ्रान्तिकृत इत्यर्थः॥४०॥ प्रतिपादितमर्थं निगमयन्नात्मस्वरूपमवधारयति—इत्थमिति। इत्थमनेनोक्तप्रकारेण साक्ष्यं देहेन्द्रियादिकमहंकर्त्रात्मानं यौक्तिकविवेकेन स्वात्मनः सकाशात्पृथग्विभज्य देहेन्द्रियादिसर्वसाक्षिणं स्वप्रकाशचिद्रूपमुक्तरीत्याऽहंशब्दप्रतिपाद्यमात्मानं सत्यादिलक्षणं ब्रह्म चिन्तयेत्॥४१॥४२॥ अहमर्थस्यात्मनो ब्रह्मस्वरूपत्वं संवादेन द्रढयति—रुद्रेति

रुद्रविष्णुप्रजानाथप्रमुखाः सर्वचेतनाः।
अहमेव परं ब्रह्मेत्याहुरात्मानमेव हि॥४३॥
ते तु चिन्मात्रमद्वैतमहमर्थतया भृशम्।
अङ्गीकृत्याहमद्वैतं ब्रह्मेत्याहुर्न देहतः॥४४॥
चिन्मात्रं सर्वगं सत्यं संपूर्णसुखमद्वयम्।
साक्षाद्ब्रह्मैव नैवान्यदिति तत्त्वविदां स्थितिः॥४५॥
शास्त्रं सत्यचिदानन्दमनन्तं वस्तु केवलम्।
शुद्धं ब्रह्मेति सश्रद्धं प्राह वेदविदां वराः॥४६॥
प्रत्यगात्माऽयमद्वंद्वः साक्षी सर्वस्य सर्वदा।
सत्यज्ञानसुखानन्तलक्षणः सर्वदाऽनघाः॥४७॥
अतोऽयं प्रत्यगात्मैव स्वानुभूत्येकगोचरः।
शास्त्रसिद्धं परं ब्रह्म नापरं परमार्थतः॥४८॥
एवं तर्कप्रमाणाभ्यामाचार्योक्त्या च मानवः।
अविज्ञाय शिवात्मैक्यं संसारे पतति भ्रमात्॥४९॥

__________

॥४३॥ अहमेव परं ब्रह्मेति रुद्रविष्ण्वादिव्यवहारेऽपि चिन्मात्रस्यैवाहमर्थतामाह—ते त्विति। ते रुद्रविष्ण्वादयो निरस्तसमस्तोपाधिकं साक्षिचिन्मात्रमेवाहमर्थतया स्वीकृत्याहं ब्रह्मेति ब्रह्मतादात्म्येन व्यवहरन्ति न तु देहादिविशिष्टम्। तस्य संसार्यात्मनोऽसङ्गब्रह्मतादात्म्यानुपपत्तेरित्यर्थः॥४४॥ ननु चिन्मात्रस्वरूपस्यापि साक्षिणः कथं ब्रह्मरूपतेति तत्राह—चिन्मात्रमिति। यद्धि चिन्मात्रं तदेव साक्षात्सत्यादिलक्षणं परं ब्रह्म न तद्व्यतिरिक्तमिति परमार्थविदां निर्णयः॥४५॥ शास्त्रस्यापीदृगर्थपरत्वमाह—शास्त्रमिति॥ ‘सत्यं ज्ञानमनन्तं ब्रह्म’ इत्यादि शास्त्रं ब्रह्मणः सत्यज्ञानानन्तानन्दैकरसत्वं तात्पर्येण प्रतिपादयति। अयमपि प्रत्यगात्माद्वंद्वः सांसारिकसुखदुःखादिद्वंद्वरहितस्तस्य सर्वस्य सर्वदा साक्षी साक्षाद्दृष्टाऽत एव सत्यज्ञानादिलक्षणः॥४६॥४७॥ एवं तत्त्वंपदार्थौ

शास्त्राचार्योपदेशेन तर्कैः शास्त्रानुसारिभिः।
सर्वसाक्षितयाऽऽत्मानं सम्यङ्निश्चित्य सुस्थिरः॥५०॥
स्वात्मनोऽन्यतया भातं समस्तमविशेषतः।
स्वात्ममात्रतया बुद्ध्वा पुनः स्वात्मानमद्वयम्॥५१॥
शुद्धं ब्रह्मेति निश्चित्य स्वयं स्वानुभवेन च।
निश्वयं च स्वचिन्मात्रे विलाप्याविक्रियेऽद्वये॥५२॥
विलापनं च चिद्रूपं बुद्ध्वा केवलरूपतः।
स्वयं तिष्ठेदयं साक्षाद्ब्रह्मवित्प्रवरो मुनिः॥५३॥
ईदृशी परमा निष्ठा श्रौती स्वानुभवात्मिका।
देशिकालोकनेनैव केवलेन हि सिध्यति॥५४॥
देशिकालोकनं चापि प्रसादात्पारमेश्वरात्।
सिध्यत्ययत्नतः प्राज्ञाः सत्यमेव मयोदितम्॥५५॥
सत्यं सत्यं पुनः सत्यमुद्धृत्य भुजमुच्यते।
प्रसादादेव सर्वेषां सर्वसिद्धिर्महेशितुः॥५६॥
प्रसादे शांभवे सिद्धे सर्वं शंभुतया स्वतः।
विभाति नान्यथा विप्राः सत्यमेव मयोदितम्॥५७॥

________

दर्शयित्वा तदेकत्वलक्षणं वाक्यार्थमाह—अतोऽयमिति॥४८॥॥४९॥ प्रत्यगात्मनः परशिवस्वरूपज्ञाननिष्ठायां क्रममाह—शास्त्रेत्यादिना। प्रथमं गुरुशास्त्रोपदेशेनाऽऽत्मस्वरूपं ज्ञात्वा पुनः शास्त्रानुसारिभिर्न्यायैर्देहेन्द्रियादिसाक्षितयाऽवस्थितं चिन्मात्रस्वरूपमात्मानं निश्चित्य स्वात्मनोऽन्यत्वेन प्रतिभातं सकलं साक्ष्यं जगत्स्वाविद्याविलसितत्वेन स्वात्ममात्रतया बुद्ध्वा तथाविधं स्वात्मानमद्वितीयं परं ब्रह्मेति प्रत्यग्ब्रह्मणोरैक्यं साक्षात्कृत्य तं च साक्षात्कारं स्वरूपभूते चिन्मात्रे कतकरजोन्यायेन विलाप्य विलापनक्रियां चाधिष्ठानचिदव्यतिरेकेण बुद्ध्वा केवलं चिदानन्दैकरसरूपेण स्वयं तिष्ठतीत्यर्थः॥५०—५३॥ उक्तब्र-

यदा शंभुतया सर्वं विभाति स्वत एव तु।
तदा हि शांभवः साक्षात्प्रसादः सत्यमीरितम्॥५८॥
शिवादन्यतया किंचिदपि भाति यदा द्विजाः।
तदा न शांकरो बोधः संजात इति मे मतिः॥५९॥
शिवादन्यतया सर्वं प्रतीतमपि पण्डितः।
तत्त्वदृष्ट्या शिवं सर्वं सुस्थिरं परिपश्यति॥६०॥
शिवाकारेण वा नित्यं प्रपञ्चाकारतोऽपि वा।
जीवाकारेण वा भातं यत्तद्ब्रह्म विचिन्तयेत्॥६१॥
शंभुरेव सदा भाति सर्वाकारेण नापरः।
इति विज्ञानसंपन्नः शांकरज्ञानिनां वरः॥६२॥
शंभुरूपतया सर्वं यस्य भाति स्वभावतः।
न तस्य वैदिकं किंचित्तान्त्रिकं चास्ति लौकिकम्॥६३॥
यथाभातस्वरूपेण शिवं सर्वं विचिन्तयन्।
योगी चरति लोकानामुपकाराय नान्यथा॥६४॥
स्वस्वरूपातिरेकेण निषिद्धं विहितं तु वा।
न पश्यति महायोगी भाति स्वात्मतयाऽखिलम्॥६५॥
चण्डालगेहे विप्राणां गृहे वा परमार्थवित्।
भक्ष्यभोज्यादिवैषम्यं न किंचिदपि पश्यति॥६६॥

____________

ह्मात्मनिष्ठायां साधनमाह—ईदृशीत्यादिना॥५४—५९॥ तत्त्वदृष्ट्येति। व्यवहारदृष्ट्यैव हि जगत्प्रतिभासः। तत्त्वदृष्ट्या तु परशिवस्वरूपेऽध्यस्तस्य सर्वस्य तदनन्यत्वाच्छिवात्मकमेव सर्वं जगत्सुदृढं परिपश्यतीत्यर्थः॥६०॥ शिवाकारेणेति। भोगप्रदभोग्यभोक्त्रात्मना यत त्रिविधं जगद्भाति तत्सर्वं भानमात्ररूपं परं ब्रह्म विचिन्तयेत्। यतस्तद्भानरूपे ब्रह्मण्यध्यस्ततयैव भातीत्यर्थः॥६१॥६२॥ एवं प्रतिपन्नस्य जीवन्मुक्तस्य स्थितिमाह—शंभूरूपतयेत्यादिना। न तस्य वैदिकमिति।

यथेष्टं वर्तते योगी शिवं सर्वं विचिन्तयन्।
तादृशो हि महायोगी को वा तस्य निवारकः॥६७॥
बहुनोक्तेन किं साक्षाद्देशिकस्य निरीक्षणात्।
प्रसादादेव रुद्रस्य परशक्तेस्तथैव च॥६८॥
श्रुतिभक्तिबलात्पुण्यपरिपाकबलादपि।
शिवरूपतया सर्वं स्वभावादेव पश्यति॥६९॥
शिवः सर्वमिति ज्ञानं शांकरं शोकमोहनुत्।
अयमेव हि वेदार्थो नापरः सत्यमीरितम्॥७०॥
श्रुतौ भक्तिर्गुरौ भक्तिः शिवे भक्तिश्च देहिनाम्।
साधनं सत्यविद्यायाः सत्यमेव मयोदितम्॥७१॥
सोपानक्रमतो लब्धं विज्ञानं यस्य सुस्थिरम्।
तस्य मुक्तिः परा सिद्धा सत्यमेव मयोदितम्॥७२॥
नित्यमुक्तस्य संसारो भ्रान्तिसिद्धः सदा खलु।
तस्माज्ज्ञानेन नाशः स्यात्संसारस्य न कर्मणा॥७३॥
ज्ञानलाभाय वेदोक्तप्रकारेण समाहितः।
महाकारुणिकं साक्षाद्गुरुमेव समाश्रयेत्॥७४॥

इति श्रीसूतसंहितायां यज्ञवैभवखण्डस्योपरिभागे सूतगीतायां आत्मस्वरूपकथनं नाम पञ्चमोऽध्यायः॥५॥

___________

क्रियाकारहेतूनां ब्राह्मण्यादीनामनात्मतया विविक्तत्वादित्यर्थः॥६३—७१॥ सोपानक्रमत इति। शास्त्राचार्योपदेशेत्यादिना प्रागुक्तेन क्रमेणेत्यर्थः॥७२॥ ननु ज्ञानमात्रात्कथं मुक्तिसिद्धिरिति तत्राऽऽह—नित्यमुक्तस्येति। आत्मा हि नित्यमुक्तस्वभावः ‘असङ्गो ह्ययं पुरुषः’ इति श्रुतेः। तस्य च संसारो भ्रान्तिसिद्ध एवेति वक्तव्यम्। सम्यग्ज्ञानमात्रस्वरूपयाथात्म्यज्ञानेन भ्रमकृत्संसारनिवृत्तौ सत्यां स्वभावभूता मुक्तिः स्वत एव सिध्यतीति ज्ञानमेव तत्प्राप्तौ साधनं न कर्मेत्यर्थः॥७३॥७४॥

षष्ठोऽध्यायः।

६. सर्वशास्त्रार्थसंग्रहवर्णनम्।

सूत उवाच—

वक्ष्यामि परमं गुह्यं सर्वशास्त्रार्थसंग्रहम्।
यं विदित्वा द्विजा मर्त्यो न पुनर्जायते भुवि॥१॥
साक्षात्परतरं तत्त्वं सच्चिदानन्दलक्षणम्।
सर्वेषां नः सदा साक्षादात्मभूतमपि स्वतः॥२॥
दुर्दर्शमेव सूक्ष्मत्वाद्देवानां महतामपि।
रुद्रः स्वात्मतया भातं तत्सदा परिपश्यति॥३॥
विष्णुः कदाचित्तत्तत्त्वं कथंचित्परिपश्यति।

तथा कथंचिद्ब्रह्माऽपि कदाचित्परिपश्यति॥४॥

____________

इति श्रीसूतसंहितातात्पर्यदीपिकायां यज्ञवैभवखण्डस्योपरिभागे सूतगीतायां आत्मस्वरूपकथनं नाम पञ्चमोऽध्यायः॥५॥

उक्तविधं परशिवस्वरूपात्मज्ञानं तदनुग्रहव्यतिरेकेण न सिध्यतीति तत्सिद्ध्युपायभूतं मूर्तिध्यानं वक्तुमुपक्रमते—वक्ष्यामीति॥१॥ साक्षात्परतरमिति। यत्सच्चिदानन्दैकरसं परशिवस्वरूपमेतदेव हि मुख्यं परतरमतिशयेन परं तत्त्वम्। मायायास्तु स्वकार्यापेक्षयैव परत्वं ब्रह्मापेक्षया त्वपरत्वमेवेति परत्वं नास्ति। ईदृग्विधं ब्रह्मैव नोऽस्माकं सर्वेषां सर्वदाऽऽपरोक्ष्येण स्वभावत आत्मभूतमपि निर्विशेषत्वेन सूक्ष्मत्वात्स्थूलदृष्टिभिर्दुर्दर्शं द्रष्टुं दुःशकम्। अतस्तत्साक्षात्कारो यत्नसाध्य इत्यर्थः। रुद्रः स्वात्मतयेत्यादि। त्रिमूर्तीनां मध्ये रुद्रस्तु रजस्तमोभ्यामसंस्पृष्टविशुद्धसत्त्वोपाधिकत्वाज्ज्ञानोत्कर्षबलेन स्वात्मतया प्रकाशमानं तद्ब्रह्म सर्वदा जानाति। हरिब्रह्मणोस्तु स्वोपाधिभूताभ्यां रजस्तमोभ्यां सत्त्वस्याभिभूतत्वाद्रुद्रवज्ज्ञानोत्कर्षविरहेण तत्तत्त्वसाक्षात्कारः कादाचित्को यत्नसाध्यश्चेत्यर्थः॥२—४॥ तस्यापि साधकमिति। एवं रुद्रविष्ण्वादीनां स्वात्मभू-

त्रिमूर्तीनां तु यज्ज्ञानं ब्रह्मैकविषयं परम्।
तस्यापि साधकं तत्त्वं साक्षित्वान्नेव गोचरम्॥५॥
प्रसादादेव तस्यैव परतत्त्वस्य केवलम्।
देवादयोऽपि पश्यन्ति तत्रापि ब्रह्म साधकम्॥६॥
अतः प्रसादसिद्ध्यर्थं परया श्रद्धया सह।
ध्येयमेव परं तत्त्वं हृदयाम्भोजमध्यगम्॥७॥
त्रिमूर्तीनां तु रुद्रोऽपि शिवं परमकारणम्।
सदा मूर्त्यात्मना प्रीत्या ध्यायति द्विजपुङ्गवाः॥८॥
त्रिमूर्तीनां तु विष्णुश्च शिवं परमकारणम्।
सदा मूर्त्यात्मना प्रीत्या ध्यायति द्विजपुङ्गवाः॥९॥
त्रिमूर्तीनां विरिञ्चोऽपि शिवं परमकारणम्।
सदा मूर्त्यात्मना प्रीत्या ध्यायति द्विजपुङ्गवाः॥१०॥
ब्रह्मविष्णुमहेशानां त्रिमूर्तीनां विचक्षणाः।
विभूतिरूपा देवाश्व ध्यायन्ति प्रीतिसंयुताः॥११॥
घृतकाठिन्यवन्मूर्तिः सच्चिदानन्दलक्षणा।
शिवाद्भेदेन नैवास्ति शिव एव हि सा सदा॥१२॥

____________

तपरशिवस्वरूपविषयं यज्ज्ञानं विचार्यमाणे तस्यापि तत्त्वं न विषयभूतं किंतु साधकं प्रकाशकम्। ब्रह्माकारमनोवृत्तेरपि घट

पटादिविषयवृत्त्यन्तरवत्साक्षिभास्यत्वादित्यर्थः॥५॥ रुद्रादीनामपि तत्साक्षात्कारे परशिवप्रसाद एव कारणमित्याह—प्रसादादेवेति। ब्रह्म साधकमिति। परशिवप्रसादहेतुकं यद्ब्रह्मगोचरं ज्ञानं जन्यते तत्रापि तद्ब्रह्म साधकं न तु तेन विषयतया प्रकाश्यमित्यर्थः॥६॥ यतो देवादीनामपि परतत्त्वसाक्षात्कारे परशिवप्रसाद एवासाधारणं निमित्तमतस्तत्सिद्धये तत्परतत्त्वं स्वहृदम्बुजे ध्येयमित्यर्थः॥७॥ साम्बमूर्त्यात्मनैव तदध्येयमिति विधित्सू रुद्रविष्ण्वादीनां तथाविधं परतत्त्वध्यानं दर्शयति—त्रिमूर्तीनामित्यादिना॥८-११॥

ब्रह्मविष्णुमहेशाद्याः शिवध्यानपरा अपि।
परमात्मविभागस्था न जीवव्यूहसंस्थिताः॥१३॥
ब्रह्मविष्णुमहेशानामाविर्भावा अपि द्विजाः।
परामात्मविभागस्था न जीवव्यूहसंस्थिताः॥१४॥
परतत्वं परं ब्रह्म जीवात्मपरमात्मनोः।
औपाधिकेन भेदेन द्विधाभूतमिव स्थितम्॥१५॥
पुण्यपापावृता जीवा रागद्वेषमलावृताः।
जन्मनाशाभिभूताश्च सदा संसारिणोऽवशाः॥१६॥
ब्रह्मविष्णुमहेशानां तथा तेषां द्विजर्षभाः।
आविर्भावविशेषाणां पुण्यपापादयो न हि॥१७॥

_________

ननु साम्बमूर्तिरनित्या तद्ध्यानेन कथं परशिवस्वरूपप्राप्तिरित्यत आह—घृतकाठिन्यवदिति। यथा घृतकाठिन्यं घृतातिरिक्तवस्त्वन्तरेणासंस्पृष्टमेव मूर्तिभूतं दृश्यत एवं परशिवमूर्तिरपि मायातत्कार्यासंस्पृष्टा केवलं सच्चिदानन्दैकरसस्वभावा परशिवस्वरूपाद्भेदेन नैवास्ति। शिव एव तथाविधमूर्त्यात्मना भातीत्यर्थः॥१२॥ परमात्मविभागस्था इति। अविद्योपाधिका जीवा मायोपाधिकस्तु जगत्कर्तेश्वरः। मायासत्त्वादिगुणोपाधिकत्वाद्रुद्रादयोऽपीश्वरभेदा नास्मदादिवज्जीवसंघमध्यपातिन इत्यर्थः॥१३॥ तथा रुद्रादीनां त्रिमूर्तीनां येऽवतारविशेषास्तेषामप्यपरिलुप्तसार्वज्ञस्वाभाव्यादीश्वरप्रभेदत्वमेवेत्यर्थः॥१४॥ अहं ब्रह्मेति जीवेश्वरभेदस्य स्वाभाविकत्वमाशङ्क्य निरस्यति—परतत्त्वमिति। यन्मायातीतं परं ब्रह्माद्वितीयं तदेव मायाविद्योपाधिप्रयुक्तभेदेन जीवपरमात्मभावेन द्वेधा भवति न तु वास्तवस्तयोर्भेद इत्यर्थः॥१५॥ पुण्यपापावृताइति। यतः स्वाश्रयव्यामोहकर्यविद्या जीवोपाधिरतस्तत्कृतपुण्यपापैस्तद्धेतुभूतरागद्वेषादिभिश्च जीवा आवृता भवन्ति। अतस्तत्फलभूतजन्ममरणप्रवाहपतिता अविद्यापरवशाः संसारिणो भवन्तीत्यर्थः॥१६॥ पुण्यपा-

आज्ञया परतत्त्वस्य जीवानां हितकाम्यया।
आविर्भावतिरोभावौ तेषां केवलमास्तिकाः॥१८॥
हरिब्रह्महरास्तेषामाविर्भावाश्च सुव्रताः।
सदा संसारिभिर्जीवैरुपास्या भुक्तिमुक्तये॥१९॥
उपास्यत्वे समानेऽपि हरः श्रेष्ठो हरेरजात्।
न समो न विहीनश्च नास्ति संदेहकारणम्॥२०॥
विहीनं वा समं वाऽपि हरिणा ब्रह्मणा हरम्।
ये पश्यन्ति सदा ते तु पच्यन्ते नरकानले॥२१॥
हरिब्रह्मादिदेवेभ्यः श्रेष्ठं पश्यन्ति ये हरम्।
ते महाघोरसंसारान्मुच्यन्ते नात्र संशयः॥२२॥
प्राधान्येन परं तत्त्वं मूर्तिद्वारेण योगिभिः।
ध्येयं मुमुक्षुभिर्नित्यं हृदयाम्भोजमध्यमे॥२३॥
कार्यभूता हरिब्रह्मप्रमुखाः सर्वदेवताः।
अप्रधानतया ध्येया न प्रधानतया सदा॥२४॥
सर्वैश्वर्येण संपन्नः सर्वेशः सर्वकारणम्।
शंभुरेव सदा साम्बो न विष्णुर्न प्रजापतिः॥२५॥
तस्मात्तत्कारणं ध्येयं प्राधान्येन मुमुक्षुभिः।
न कार्यकोटिनिक्षिप्ता ब्रह्मविष्णुमहेश्वराः॥२६॥

____________

पादयो न हीति। विशुद्धसत्त्वप्रधानमायोपाधिकत्वाद्ब्रह्मविष्ण्वादीनां रागद्वेषादिमलानावृतत्वेन पुण्यपापादयो न सन्तीत्यर्थः॥१७॥ किंनिमित्तस्तेषामवतार इति तदाह—आज्ञयेति॥१८॥ जीवैरुपास्या इति । स्वाधीनमायोपाधिकत्वेन जीवापेक्षितफलप्रदानसामर्थ्ययोगाद्ब्रह्मविष्ण्वादीनामुपासनीयत्वम्॥१९—२२॥ परतत्त्वस्य त्रिमूर्तीनां चोपासने विशेषमाह—प्राधान्येनेति। स्वप्राधान्येन ध्येयं परं ब्रह्म। हरिब्रह्मादयस्तूपहितब्रह्मरूपत्वात्सोपाधिकरूपाः। प्राधान्येन निरुपाधिकं

शिवंकरत्वं सर्वेषां देवानां वेदवित्तमाः।
स्वविभूतिमपेक्ष्यैव न परब्रह्मवत्सदा॥२७॥
शिवंकरत्वं संपूर्णं शिवस्यैव परात्मनः।
साम्वमूर्तिधरस्यास्य जगतः कारणस्य हि॥२८॥
अतोऽपि स शिवो ध्येयः प्राधान्येन शिवंकरः।
सर्वमन्यत्परित्यज्य दैवतं परमेश्वरात्॥२९॥
साक्षात्परशिवस्यैव शेषत्वेनाम्बिकापतेः।
देवताः सकला ध्येया न प्राधान्येन सर्वदा॥३०॥
शिखाप्याथर्वणी साध्वी सर्ववेदोत्तमोत्तमा।
अस्मिन्नर्थे समाप्ता सा श्रुतयश्चापरा अपि॥३१॥
यथा साक्षात्परं ब्रह्म प्रतिष्ठा सकलस्य च।
तथैवाथर्वणो वेदः प्रतिष्ठैवाखिलश्रुतेः॥३२॥
कन्दस्तारस्तथा विन्दुः शक्तिस्तारो महाद्रुमः।
स्कन्धशाखा अकाराद्या वर्णा यद्वत्तथैव तु॥३३॥

_____________

ब्रह्माऽऽत्मतयैव ध्येयमित्यर्थः॥२३—२८॥ यदथर्वशिखायामाम्नायते—‘शिव एको ध्येयः शिवंकरः सर्वमन्यत्परित्यज्य’ इति तदभिप्रायमाविष्कुर्वन्परशिवस्यैव प्राधान्येन ध्येयत्वं निगमयति—अत इति॥२९॥॥३०॥ यदुक्तपरशिवस्वरूपेऽथर्वशिखैव साक्षात्प्रमाणमित्याह—शिखेति। अथर्वणा दृष्टाऽथर्वणी शिखा वेदमूर्ध्न्यवस्थानाच्छिखा। तादृशी श्रुतिरस्मिन्परशिवस्वरूपे ध्येयत्वेन प्रतिपादने समाप्ता पर्यवसितेत्यर्थः। अपरा अपीति। ऐतरेयकाद्युपनिषदित्यर्थः॥३१॥ आथर्वणश्रुतेः प्राधान्यं सदृष्टान्तमुपपादयति—यथेति। यथा परं ब्रह्म स्वात्मन्यध्यस्तस्य सकलस्य जगतः प्रतिष्ठाऽऽश्रय एवमाथर्वणी श्रुतिरपि रहस्यार्थप्रतिपादकत्वादखिलश्रुतेराश्रयभूतेत्यर्थः॥३२॥ एतदेव सदृष्टान्तमुपपादयति—कन्दस्तार इति। दुःखात्तारयतीति तारः प्रणवः। तथैवाथर्व-

तारस्कन्दः श्रुतेर्जातिः शक्तिराथर्वणो द्रुमः।
स्कन्धशाखास्त्रयो वेदाः पर्णाः स्मृतिपुराणकाः॥३४॥
अङ्गानि शाखावरणं तर्कास्तस्यैव रक्षकाः।
पुष्पं शिवपरिज्ञानं फलं मुक्तिः परा मता॥३५॥
बहुनोक्तेन किं विप्राः शिवो ध्येयः शिवंकरः।
सर्वमन्यत्परित्यज्य दैवतं भुक्तिमुक्तये॥३६॥
सर्वमुक्तं समासेन सारात्सारतरं बुधाः।
शिवध्यानं सदा यूयं कुरुध्वं यत्नतः सदा॥३७॥

इति श्रीसूतसंहितायां यज्ञवैभवखण्डस्योपरिभागे सूतगीतायां सर्वशास्त्रार्थसंग्रहो नाम षष्ठोऽध्यायः॥६॥

___________

शिखायामाम्नातम् ‘सर्वेभ्यो दुःखेभ्य एभ्यः संतारयतीति तारणात्तारः’ इति। स चाकारोकारमकारबिन्दुनादशक्तिशान्ताख्यावयवैः सप्तावयवः। स च मूलाधारे परावाग्रूपेण वर्तमानो वक्ष्यमाणस्य वृक्षस्य कन्दो मूलम्। तत्र च बिन्द्वाख्यो योऽवयवः सैव तस्य कन्दस्य शक्तिः सामर्थ्यम्। यश्च वैखरीरूपोऽभिव्यक्तस्तारः प्रणवः स एव महावृक्षः। अकाराद्या ये पञ्चाशद्वर्गास्ते प्रणवावयवेभ्यो जातत्वात्तस्य द्रुमस्य स्कन्धशाखात्मकाः। यद्वदयं दृष्टान्तः तद्वदेवाखिलश्रुतेः प्रणव एव कन्दः। श्रुतिजातिः शक्तिः प्रणवात्मकस्य तज्जननसामर्थ्यम्। अथर्वणा दृष्टो यो वेदः स एव द्रुमः। ऋग्यजुःसामाख्यास्त्रयो वेदाः स्कन्धशाखाः। तस्य वृक्षस्य स्मृतिपुराणादीनि पर्णानि। कल्पसूत्रादीनि षडङ्गानि शाखावरणं रक्षणाय बहिरावरणम्। तर्कास्तस्यैवाऽऽवरणस्य संरक्षकाः। परशिवस्वरूपं यज्ज्ञानं तदेव तस्य वृक्षस्य पुष्पम्। तत्प्राप्या मुक्तिरेव फलम्॥३३—३५॥ एवमथर्ववेदस्य प्राधान्यात्तदुक्तप्रकारेण शिवस्वरूपमेव ध्येयमिति निगमयति—बहुनोक्तेनेति॥३६॥३७॥

इति श्रीसूतसंहितातात्पर्यदीपिकायां यज्ञवैभवखण्डस्योपरिभागे सूत-

सप्तमोऽध्यायः।

७. रहस्यविचारः।

सूत उवाच—

रहस्यं संप्रवक्ष्यामि समासेन न विस्तरात्।
शृणुत श्रद्धया विप्राः सर्वसिद्ध्यर्थमुत्तमम्॥१॥
देवताः सर्वदेहेषु स्थिताः सत्यतपोधनाः।
सर्वेषां कारणं साक्षात्परतत्त्वमपि स्थितम्॥२॥
पञ्चभूतात्मके देहे स्थूले पाट्कौशिके सदा।
पृथिव्यादिक्रमेणैव वर्तन्ते पञ्च देवताः॥३॥
कार्यं ब्रह्मा महीभागे कार्यं विष्णुर्जलांशके।
कार्यं रुद्रोऽग्निभागे च वाय्वंशे चेश्वरः परः।
आकाशांशे शरीरस्य स्थितः साक्षात्सदाशिवः॥४॥

___________

गीतायां सर्वशास्त्रार्थसंग्रहो नाम षष्ठोऽध्यायः॥६॥

इत्थं सम्यग्ज्ञानहेतोः परशिवप्रसादस्य सिद्धये तद्ध्यानं साक्षात्साधनमुपदिष्टम्। स्वशरीरावयवेषु वक्ष्यमाणदेवताध्यानमपि परंपरया तत्साधनमिति वक्तुं प्रतिजानीते-रहस्यमिति॥१॥ देवताः सर्वदेहेष्विति। सर्वेशरीरेषु तत्तद्देहावयवानामिन्द्रियादीनां च नियमनार्थं तत्तदाभिमानिन्यो देवताः स्थिताः। सनियन्तृकाणां सर्वेषां शरीरादीनां यत्कारणं परं ब्रह्म तदपि कृत्स्नशरीरेषु व्याप्य वर्तत इत्यर्थः॥२॥ कुत्र का देवता ध्येयेत्येतद्विभजति–पञ्चभूतात्मक इत्यादिना। षाट्कौशिक इति। त्वगसृङ्मांसमेदोऽस्थिमज्जेति षट्कौशिके शरीर इत्यर्थः। तत्र स्थूलशरीरारम्भकाणि यानि पृथिव्यादिपञ्चभूतानि तेषु ब्रह्मविष्णुरुद्रेश्वरसदाशिवाः क्रमेणाधिष्ठाय वर्तन्ते। अतस्ते तत्र ध्येया इत्याह—पृथिव्यादीति॥३॥ कार्यं ब्रह्मेति। ब्रह्मविष्णुरुद्रा हि गुणमूर्तित्वात्परब्रह्मणः कार्यभूता अतस्ते त्रयोऽप्यत्र कार्यमिति विशेष्यते। यद्वा पृथिव्यादिभूतेषु तत्तदनुग्रहाय

शरीरस्य बहिर्भागे विराडात्मा स्थितः सदा॥५॥
अन्तर्भागे स्वराडात्मा सम्राड्देहस्य मध्यमे।
ज्ञानेन्द्रियसमाख्येषु श्रोत्रादिषु यथाक्रमात्॥६॥
दिग्वाय्वर्कजलाध्यक्षभूमिसंज्ञाश्च देवताः।
कर्मेन्द्रियसमाख्येषु पादपाण्यादिषु क्रमात्॥७॥
त्रिविक्रमेन्द्रवह्न्याख्या देवताश्च प्रजापतिः।
मित्रसंज्ञश्च वर्तन्ते प्राणे सूत्रात्मसंज्ञितः॥८॥
हिरण्यगर्भो भगवानन्तःकरणसंज्ञिते।
तदवस्थाप्रभेदेषु चन्द्रमा मनसि स्थितः॥९॥
बुद्धौ बृहस्पतिर्विप्राः स्थितः कालाग्निरुद्रकः।
अहंकारे शिवश्चित्ते रोमसु क्षुद्रदेवताः॥१०॥
भूतप्रेतादयः सर्वे देहस्यास्थिषु संस्थिताः।
पिशाचा राक्षसाः सर्वे स्थिताः स्नायुषु सर्वशः॥११॥
मज्जाख्ये पितृगन्धर्वास्त्वङ्मांसरुधिरेषु च।
वर्तन्ते तत्र संसिद्धा देवताः सकला द्विजाः॥१२॥

___________

ब्रह्मादीनां योंऽशो निहितस्तदभिप्रायमिदं कार्यमिति विशेषणम्॥४॥ शरीरस्य बहिर्भाग इति। स्थूलशरीरस्य बहिर्भागे स्थूलशरीराभिमानी विराडात्मा स्थितः। अन्तर्भागे तु सूक्ष्मशरीराभिमानी स्वराडात्मा। देहद्वयस्य कारणशरीराभिमानी सम्राडात्माऽवस्थितो ध्येय इत्यर्थः। ज्ञानेन्द्रियसमाख्येष्वित्यादिना दिग्वाय्वादिदेवतानां समष्टिश्रोत्रादिषु जातत्वात्तस्य व्यष्टीनां तेषां नियमनकारित्वस्य च प्राक्प्रतिपादितत्वात्तत्र तत्र श्रोत्रादौ दिग्वःय्वादिदेवताः क्रमेण ध्यातव्या इत्यर्थः। उक्तं हि चतुर्थे—‘दिग्वाय्वर्कजलाध्यक्षपृथिव्याख्यास्तु देवताः। जायन्ते क्रमशः श्रोत्रप्रमुखेषु समष्टिषु’ इत्यादिना॥५—८॥ अन्तःकरणसंज्ञित इति। अन्तःकरणाख्येऽवयवे तत्समष्टौ जातत्वाद्धिरण्यगर्भोऽवतिष्ठते।

त्रिमूर्तीनां तु यो ब्रह्मा तस्य घोरा तनुर्द्विजाः।
दक्षिणाक्षिणि जन्तूनामन्तर्भागे रविर्बहिः॥१३॥
त्रिमूर्तीनां तु यो ब्रह्मा तस्य शान्ता तनुर्द्विजाः।
वर्तते वामनेत्रान्तर्भागे बाह्ये निशाकरः॥१४॥
त्रिमूर्तीनां तु यो विष्णुः स कण्ठे वर्तते सदा।
अन्तः शान्तनुर्घोरा तनुर्बाह्ये द्विजर्षभाः॥१५॥
त्रिमूर्तीनां तु यो रुद्रो हृदये वर्तते सदा।
अन्तः शान्तनुर्घोरा तनुर्बाह्ये द्विजर्षभाः॥१६॥
सर्वेषां कारणं यत्तद्ब्रह्म सत्यादिलक्षणम्।
ब्रह्मरन्ध्रे महास्थाने वर्तते सततं द्विजाः॥१७॥
चिच्छक्तिः परमा देहमध्यमे सुप्रतिष्ठिता।
मायाशक्तिर्ललाटाग्रभागे व्योमाम्बुजादधः॥१८॥
नादरूपा परा शक्तिर्ललाटस्य तु मध्यमे।
भागे बिन्दुमयी शक्तिर्ललाटस्यापरांशके॥१९॥

___________

तदप्युक्तम्—‘या देवताऽन्तःकरणसमष्टौ पूर्वकल्पवत्। विजायते मुनिश्रेष्ठा रुक्मगर्भ इतीरिता’ इति। रुक्मशब्दो हिरण्यशब्दपर्यायः॥९—१२॥ त्रिमूर्तीनां त्वित्यादि। ब्रह्मविष्ण्वादीनां घोरशान्तभेदेन प्रत्येकं शरीरद्वयं चक्षुःकण्ठहृदयेष्वन्तर्बहिर्भागेण ध्येयमित्यर्थः। ब्रह्मणस्तु घोरशान्ततनूर्दक्षिणवामचक्षुषोरन्तर्भागे वर्तते। बहिस्तु सूर्याचन्द्रमसौ। अत एवान्यत्राऽऽम्नातम्—‘अग्निर्मूर्धा चक्षुषी चन्द्रसूर्यौ’ इति॥१३—१६॥ सर्वेषां कारणमित्यादिनोक्तानां सर्वेषां देवानां यत्कारणं सत्यादिलक्षणं ब्रह्म तद्ब्रह्मरन्ध्रे द्वादशान्तमध्ये वर्तते॥१७॥ तस्य ब्रह्मणः स्वरूपभूता चेत्यप्रतियोगिनी या चिच्छक्तिः सा देहमध्ये मूलाधारे प्रतिष्ठिता। या तु सत्त्वरजस्तमोगुणात्मिका मायाशक्तिः सा ब्रह्मरन्ध्रादधस्ताल्ललाटाग्रभागे स्थिता॥१८॥ नादरूपा शब्दब्रह्मात्मिका

बिन्दुमध्ये तु जीवात्मा सूक्ष्मरूपेण वर्तते।
हृदये स्थूलरूपेण मध्यमेन तु मध्यमे॥२०॥
देवी सरस्वती साक्षाद्ब्रह्मपत्नी सनातनी।
जिह्वाग्रे वर्तते नित्यं सर्वविद्याप्रदायिनी॥२१॥
विष्णुपत्नी महालक्ष्मीर्वर्ततेऽनाहते सदा।
रुद्रपत्नी तु रुद्रेण पार्वती सह वर्तते॥२२॥
सर्वत्र वर्तते साक्षाच्छिवः साम्बः सनातनः।
सत्यादिलक्षणः शुद्धः सर्वदेवनमस्कृतः॥२३॥
सम्यग्ज्ञानवतां देहे देवताः सकला अमूः।
प्रत्यगात्मतया भान्ति देवतारूपतोऽपि च॥२४॥
वेदमार्गैकनिष्ठानां विशुद्धानां तु विग्रहे।
देवतारूपतो भान्ति द्विजा न प्रत्यगात्मना॥२५॥
तान्त्रिकाणां शरीरे तु देवताः सकला अमूः।
वर्तन्ते न प्रकाशन्ते द्विजेन्द्राः शुद्ध्यभावतः॥२६॥

_________

या परा शक्तिः सा ललाटस्य मध्यमदेशे स्थिता। या तु बिन्दुरूपिणी शक्तिः सा ललाटस्यापरांशके भ्रुवोर्मध्ये स्थिता॥१९॥ तस्य च बिन्दोर्मध्ये जीवात्मा सूक्ष्मरूपेण वर्तते। हृदये स्थूलरूपेण विशेषविज्ञानात्मना वर्तते। बिन्दुहृदययोर्मध्यदेशे तु स्थूलसूक्ष्मोभयसाधारणेन मध्यमरूपेण वर्तते इत्यर्थः। देवी सरस्वतीत्यादि निगदसिद्धम्॥२०॥॥२१॥ अनाहते सदेति। अनाहताख्यं हृन्मध्यस्थानम्॥२२॥२३॥ सम्यग्ज्ञानवतामिति। ज्ञानिनां देह एता उक्ताः सर्वदेवताः साम्येनावस्थितास्ताश्चज्ञानिनां प्रत्यगात्मत्वेन भान्ति देवतारूपत्वेन च॥२४॥ वेदमार्गैकनिष्ठानामिति। ये त्वज्ञानिनः केवलं वेदमार्गैकनिष्ठा अत एव शुद्धास्तेषामात्मज्ञानाभावात्तच्छरीरे देवतास्वरूपेणैव भान्ति न प्रत्यगात्मरूपेणेत्यर्थः॥२५॥ तान्त्रिकाणामिति। शिववैष्णवागमादिकं तन्त्रम्।

यथाजातजनानां तु शरीरे सर्वदेवताः।
तिरोभूततया नित्यं वर्तन्ते मुनिसत्तमाः॥२७॥
अतश्च भोगमोक्षार्थी शरीरं देवतामयम्।
स्वकीयं परकीयं च पूजयेत्तु विशेषतः॥२८॥
नावमानं सदा कुर्यान्मोहतो वाऽपि मानवः।
यदि कुर्यात्प्रमादेन पतत्येव भवोदधौ॥२९॥
दुर्वृत्तमपि मूर्खं च पूजयेद्देवतात्मना।
देवतारूपतः पश्यन्मुच्यते भवबन्धनात्॥३०॥
मोहेनापि सदा नैव कुर्यादप्रियभाषणम्।
यदि कुर्यात्प्रमादेन हन्ति तं देवता परा॥३१॥
न क्षतं विग्रहे कुर्यादस्त्रशस्त्रनखादिभिः।
तथा न लोहितं कुर्याद्यदि कुर्यात्पतत्यधः॥३२॥
स्वदेहे परदेहे वा न कुर्यादङ्कनं नरः।
यदि कुर्याच्च चक्राद्यैः पतत्येव न संशयः॥३३॥

__________

ये वेदानधिकृतास्तन्त्रोक्तसंस्कारेण संस्कृतास्तेषां शरीरे वर्तमाना अप्युक्तदेवताः स्वरूपेण प्रतिभासमाना अपि स्पष्टं न प्रकाशन्ते। तत्र हेतुः शुद्ध्यभावत इति। विशुद्धे ह्याधारे निर्मलादर्श इव देवतामूर्तिर्भाति। तेषां च वैदिकसंस्काराभावेन विशुद्धिर्नास्तीत्यभिप्रायः॥२६॥ यथाजातजनानामिति। यथाजातजना अज्ञजनास्तेषां शरीरे नित्यं तिरोहिततयास्वरूपतोऽपि न प्रकाशन्त इत्यर्थः॥२७—३०॥ एवं सर्वशरीरेषु देवतानामवस्थानं प्रतिपाद्य तत्प्रयोजनमाह—मोहेनापीत्यादिना। अप्रियभाषणहननलोहितकरणानि तत्तच्छरीरावस्थितदेवतापराधाभावाय न कार्याणीत्यर्थः। श्रुतिरपि—‘योऽपगुराते शतेन यातयात्’ इत्युपक्रम्य ‘तस्माद्ब्राह्मणाय नापगुरेत न निहन्यान्न लोहितं कुर्यात्’ ‘इत्यप्रियभाषणादीनि निषेधति। तस्मात्स्वशरीरवत्परकीयशरी-

रहस्यं सर्वशास्त्राणां मया प्रोक्तं समासतः।
शरीरं देवतारूपं भजध्वं यूयमास्तिकाः॥३४॥

इति श्रीसूतसंहितायां यज्ञवैभवखण्डस्योपरिभागे सूतगीतायां रहस्यविचारो नाम सप्तमोऽध्यायः॥७॥

अष्टमोऽध्यायः।

८. सर्ववेदान्तसंग्रहः।

सूत उवाच—

अथ वक्ष्ये समासेन सर्ववेदान्तसंग्रहम्।
यं विदित्वा नरः साक्षान्निर्वाणमधिगच्छति॥१॥
परात्परतरं तत्त्वं शिवः सत्यादिलक्षणः।
तस्यासाधारणी मूर्तिरम्बिकासहिता सदा॥२॥
स्वस्वरूपमहानन्दप्रमोदात्ताण्डवप्रिया।
शिवादिनामान्येवास्य नामानि मुनिपुङ्गवाः॥३॥
ब्रह्मा विष्णुश्च रुद्रश्च परतत्त्वविभूतयः।
त्रिमूर्तीनां तु रुद्रस्तु वरिष्ठो ब्रह्मणो हरेः॥४॥

____________

रेष्वपि सर्वत्र देवतामयत्वं चिन्तनीयमित्यर्थः॥३१—३४॥

इति श्रीसूतसंहितातात्पर्यदीपिकायां यज्ञवैभवखण्डस्योपरिभागे सूतगीतायां रहस्यविचारो नाम सप्तमोऽध्यायः॥७॥

एवं वेदान्तवाक्यानां विस्तरेण प्रतिपादितमर्थं सुखावबोधार्थं संगृहाति—अथ वक्ष्य इत्यादिना॥१॥ वेदान्तेषु वेद्यं ब्रह्मणो रूपं तत्प्राप्त्युपायभूता विद्या तत्साधनादीनि श्रवणादीनि तत्फलं चेत्येतानि प्रतिपादितानि। तत्र वेद्यस्वरूपं निष्कलसकलभेदेन द्विविधमपि दर्शयति—परादिति। असाधारणी मूर्तिरिति। शिवशक्त्यात्मकं हि परशिवस्वरूपं तदभिव्यक्तिहेतुत्वादर्धनारीश्वरमूर्तिस्तस्यासाधारणी। न हि मूर्त्यन्तरात्तादृगात्मकत्वं शिवस्य प्रकटीभवतीत्यर्थः। एवमद्वितीयस्य वस्तुनः

संसारकारणं माया सा सदा सद्विलक्षणा।
प्रतीत्यैव तु सद्भावस्तस्या नैव प्रमाणतः॥५॥
सा पि ब्रह्मातिरेकेण वस्तुतो नैव विद्यते।
तत्त्वज्ञानेन मायाया बाधो नान्येन कर्मणा॥६॥
ज्ञानं वेदान्तवाक्योत्थं ब्रह्मात्मैकत्वगोचरम्।
तच्च देवप्रसादेन गुरोः साक्षान्निरीक्षणात्।
जायते शक्तिपातेन वाक्यादेवाधिकारिणाम्॥७॥
ज्ञानेच्छाकारणं दानं यज्ञाश्च विविधा अपि।
तपांसि सर्ववेदानां वेदान्तानां तथैव च॥८॥
पुराणानां समस्तानां स्मृतीनां भारतस्य च।
वेदाङ्गानां च सर्वेषामपि वेदार्थपारगाः॥९॥

__________

परशिवस्वरूपस्यापि प्रत्यगात्मनः संसारप्रतीतौ कारणमाह—संसारेति।ननु सन्घटः सन्पट इत्यादिमायाकार्यस्यापि घटादेः सत्ताव्यवहारदर्शनात्तत्कारणभूता मायाऽप्यात्मवत्परमार्थसती किं न स्यादित्यत आह—प्रतीत्यैवेति।अधिष्ठानसत्त्वमेवाऽऽरोप्यगतत्वेन प्रतीयते।अतः प्रातीतिकमेव मायातत्कार्यस्य सत्त्वं न वास्तवमित्यर्थः॥२—५॥तत्त्वज्ञानेनेति।शुक्तिरजतादिविभ्रमस्याधिष्ठानयायार्थ्यज्ञाननि- वर्त्यत्वदर्शनात्परशिवस्वरूपेऽध्यस्तमायातत्कार्यजातस्य तत्कारणयाथात्म्यज्ञानमात्रनिवर्त्यत्वासत्तत्प्राप्तौ तत्त्वज्ञानमेव साधनं नान्यदित्यर्थः॥६॥एवं विद्यायास्तत्प्राप्तिसाधनत्वमुपदिश्य तदुत्पत्तिसाधनमाह—ज्ञानमिति।तत्त्वमस्यादिवेदान्तमहावाक्यानि ब्रह्मात्मैकत्वविषयाणि मुक्ति- साधनविद्योत्पत्तौ प्रमाणमित्यर्थः।एवं साक्षाद्विद्यासाधनमुक्त्वा तदुपकारकमन्तरङ्गसाधनमाह—तथेति।वाक्यादेवेति।ईश्वरप्रसादादिसह- कृतादेव वेदान्तवाक्याच्छमादिसाधनसंपन्नस्याधिकारिणां ब्रह्मात्मैकत्वविषयं ज्ञानं जायत इत्यर्थः॥७॥ ‘तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति’ इत्यादिश्रुत्या यानि

अध्यापनं चाध्ययनं वेदार्थे त्वरमाणता।
उपेक्षा वेदबाह्यार्थे लौकिकेष्वखिलेष्वपि॥१०॥
शान्तिदान्त्यादयो धर्मा ज्ञानस्याङ्गानि सुव्रताः॥
ज्ञानाङ्गेषु समस्तेषु भक्त्या लिङ्गे शिवार्चनम्।
प्रतिष्ठा देवदेवस्य शिवस्थाननिरीक्षणम्॥१२॥
शिवभक्तस्य पूजा च शिवभक्तिस्तथैव च।
रुद्राक्षधारणं भक्त्या कर्णे कण्ठे तथा करे॥१३॥
अग्निरित्यादिभिर्मन्त्रैर्भस्मनैवावगुण्ठनम्।
त्रिपुण्ड्रधारणं चापि ललाटादिस्थलेषु च॥१४॥
वेदवेदान्तनिष्ठस्य महाकारुणिकस्य च।
गुरोः शुश्रूषणं नित्यं वरिष्ठं परिकीर्तितम्॥१५॥
चिन्मन्त्रस्य पदाख्यस्य हंसाख्यस्य मनोर्जपः।
षडक्षरस्य तारस्य वरिष्ठः परिकीर्तितः॥१६॥
अविमुक्तसमाख्यं च स्थानं व्याघ्रपुराभिधम्।
श्रीमद्दक्षिणकैलाससमाख्यं च सुशोभनम्॥१७॥
मार्गान्तरोदिताचारात्स्मार्तो धर्मः सुशोभनः।
स्मार्ताच्छ्रौतः परो धर्मः श्रौताच्छ्रेष्ठो न विद्यते॥१८॥

__________

बहिरङ्गसाधनान्याम्नातानि तान्यपि दर्शयति—ज्ञानेच्छेति॥८—१०॥ यज्ञदानादिभिः परिपक्वचित्तस्य विद्योत्पत्तावनुकूलत्वेन यानि शमदमादीनि साधनान्याम्नायन्ते ‘शान्तो दान्त उपरतस्तितिक्षुः’ इत्यादिना तान्यपि दर्शयति—शान्तीति। श्रौतयज्ञदानाद्यनुष्ठानवत्स्मृतिपुराणागमप्रसिद्धशिवलिङ्गार्चनादिधर्मस्यापि विद्योत्पत्तिसाधनतामाह—भक्त्या लिङ्ग इत्यादिना॥११—१५॥ चिन्मन्त्रस्येति। सच्चिद्रूपिण्याः परशक्तेर्वाचको हृल्लेखाख्यो यो मन्त्रस्तस्येत्यर्थः। ‘अपदं पदमापन्नम्’ इति मातृकोत्पत्तायुक्तत्वात्पदमन्त्रो मातृका। हंसाख्यस्येत्यादि स्पष्टम्

अतीन्द्रियार्थे धर्मादौ शिवे परमकारणे।
श्रुतिरेव सदा मानं स्मृतिस्तदनुसारिणी॥१९॥
आस्तिक्यं सर्वधर्मस्य कन्दभूतं प्रकीर्तितम्।
प्रतिषिद्धक्रियात्यागः कन्दस्यापि च कारणम्॥२०॥
शिवः सर्वमिति ज्ञानं सर्वज्ञानोत्तमोत्तमम्।
तत्तुल्यं तत्परं चापि न किंचिदपि विद्यते॥२१॥
वक्तव्यं सकलं प्रोक्तं मयाऽतिश्रद्धया सह।
अतः परं तु वक्तव्यं न पश्यामि मुनीश्वराः॥२२॥
इत्युक्त्वा भगवान्सुतो मुनीनां भावितात्मनाम्।
साम्बं सर्वेश्वरं ध्यात्वा भक्त्या परवशोऽभवत्॥२३॥
अथ पर शिवभक्त्या सच्चिदानन्दपूर्णं

परशिवमनुभूय त्वात्मरूपेण सूतः।

मुनिगणमवलोक्य प्राह साक्षाद्घृणाब्धि-

र्जनपदहितरूपं वेदितव्यं तु किंचित्॥२४॥

श्रुतिपथगलितानां मानुषाणां तु तन्त्रं

गुरुगुरुरखिलेशः सर्ववित्प्राह शंभुः।

श्रुतिपथनिरतानां तत्र नैवास्ति किंचि-

द्धितकरमिह सर्वं पुष्कलं सत्यमुक्तम्॥२५॥

_________

॥१६—२२॥ प्रतिपादितमर्थं निगमयति—इत्युक्त्वेत्यादि कविवाक्यम्॥२३॥२४॥ एवमुपनिषदामागमानां चाद्वितीयब्रह्मपरत्वं प्रतिपाद्य तत्राधिकारिभेदेन व्यवस्थामाह—श्रुतिपथेति। यद्यपि कामिकादिप्रभेदानामागमानां श्रुतीनां चोक्तरीत्याऽद्वितीयपरशिवस्वरूपात्मप्रतिपादने विप्रतिपत्तिर्नास्ति तथाऽपि य उपनीतास्त्रैवर्णिकाः श्रुतावधिकृतास्तेषां तन्मुखादेव परतत्त्वमधिगन्तव्यम्। येषां श्रुतावनधिकारस्तेषामागममुखादिति विवेकः॥२५॥ वर्णाश्रमधर्मा अपि तान्त्रिकाणां

श्रुतिरपि मनुजानां वर्णधर्मं बभाषे
परगुरुरखिलेशः प्राह तन्त्रेषु तद्वत्।
श्रुतिपथगलितानां वर्णधर्मं घृणाब्धिः
श्रुतिपथनिरतानां नैव तत्सेवनीयम्॥२६॥
श्रुतिपथनिरतानामाश्रमा यद्वदुक्ताः
परगुरुरखिलेशस्तद्वदाहाऽऽश्रमांश्च।
श्रुतिपथगलितानां मानुषाणां तु तन्त्रं
हरिरपि मुनिमुख्याः प्राह तन्त्रे स्वकीये॥२७॥
विधिरपि मनुजानामाह वर्णाश्रमांश्च
श्रुतिपथगलितानामेव तन्त्रे स्वकीये।
श्रुतिपथनिरतानां ते न संसेवनीयाः
श्रुतिपथसममार्गो नैव सत्यं मयोक्तम्॥२८॥
हरहरिविधिपूजा कीर्तिता सर्वतन्त्रे
श्रुतिपथनिरतानां यद्वदुक्ता तु पूजा।
श्रुतिपथगलितानामेव तन्त्रोक्तपूजा
श्रुतिपथनिरतानां सर्ववेदोदितैव॥२९॥
श्रुतिपथगलितानां सर्वतन्त्रेषु लिङ्गं
कथितमखिलदुःखध्वंसकं तत्र तत्र।
श्रुतिपथनिरतानां तत्सदा नैव धार्यं
श्रुतिरपि मनुजानामाह लिङ्गं विशुद्धम्॥३०॥
शिवागमोक्ताश्रमनिष्ठमानव-
स्त्रिपुण्ड्रलिङ्गं तु सदैव धारयेत्।

____________

वैदिकानां च तत्तद्वयवस्थयैव प्रयोक्तव्या इत्याह—श्रुतिरपीति॥२६॥न केवलं शौवागमानामेवं व्यवस्था।विष्णुब्रह्मागमानामपि श्रुत्यनधिकृतविषयत्वं दर्शयति—श्रुतिपथेति॥२७—३१॥ श्रुतावधिकृ-

तदुक्ततन्त्रेण ललाटमध्यमे

महादरेणैव सितेन भस्मना॥३१॥

विष्ण्वागमोक्ताश्रमनिष्ठमानवस्तथैव पुण्ड्रान्तरमूर्ध्वरूपकम्।
त्रिशूलरूपं चतुरश्रमेव वा मृदा ललाटे तु सदैव धारयेत्॥३२॥
ब्रह्मागमोक्ताश्रमनिष्ठमानवो ललाटमध्येऽपि च वर्तुलाकृतिम्।
तदुक्तमन्त्रेण सितेन भस्मना मृदाऽथवा चन्दनतस्तु धारयेत्॥३३॥
अश्वत्थपत्रसदृशं हरिचन्दनेन मध्येललाटमतिशोभनमादरेण।
बुद्धागमे मुनिवरा यदि संस्कृतश्चेन्मृद्वारिणा सततमेव तु धारयेच्च॥३४॥

ऊर्ध्वपुण्ड्रत्रयं नित्यं धारयेद्भस्मना मृदा।
ललाटे हृदये बाह्वोश्चन्दनेनाथवा नरः॥३५॥
सितेन भस्मना तिर्यक्त्रिपुण्ड्रस्य च धारणम्।
सर्वागमेषु निष्ठानां तत्तन्मन्त्रेण शोभनम्॥३६॥
शिवागमेषु निष्ठानां धार्यं तिर्यक्त्रपुण्ड्रकम्।
एकमेव सदा भूत्या नैव पुण्ड्रान्तरं बुधाः॥३७॥
वेदमार्गैकनिष्ठानां वेदोक्तेनैव वर्त्मना।
ललाटे भस्मना तिर्यक्त्रिपुण्ड्रं धार्यमेव हि॥३८॥
ललाटे भस्मना तिर्यक्त्रिपुण्ड्रस्य तु धारणम्।
विना पुण्ड्रान्तरं मोहाद्धारयन्पतति द्विजः॥३९॥
विष्ण्वागमादितन्त्रेषु दीक्षितानां विधीयते।
शङ्खचक्रगदापूर्वैरङ्कनं नान्यदेहिनाम्॥४०॥
दीक्षितानां तु तन्त्रेषु नराणामङ्कन द्विजाः।
उपकारकमेवोक्तं क्रमेण मुनिपुङ्गवाः॥४१॥

____________

तस्य पुरुषस्य त्रिपुण्ड्रधारणं विधाय तदनधिकृतानां वैष्णवाद्यागमोक्तसंस्कारसंस्कृतानां तत्तदागमप्रतिपादितोर्ध्वपुण्ड्र्येपुण्डधारणादीन्यपि श्रेयःसान्धनानीत्याह—विष्ण्वागमेति॥३२—४४॥ शैववैष्णवादितन्त्रो-

पुण्ड्रान्तरस्य तन्त्रेषु धारणं दीक्षितस्य तु।
उपकारकमेवोक्तं क्रमेण मुनिपुङ्गवाः॥४२॥
वेदमार्गैकनिष्ठस्तु मोहेनाप्यङ्कितो यदि।
पतत्येव न संदेहस्तथा पुण्ड्रान्तरादपि॥४३॥
नाङ्कनं विग्रहे कुर्याद्वेदपन्थानमाश्रितः।
पुण्ड्रान्तरं भ्रमाद्वाऽपि ललाटे नैव धारयेत्॥४४॥
तन्त्रोक्तेन प्रकारेण देवता या प्रतिष्ठिता।
साऽपि वन्द्या सुसेव्या च पूजनीया च वैदिकैः॥४५॥
शुद्धमेव हि सर्वत्र देवतारूपमास्तिकाः।
तत्तत्तन्त्रोक्तपूजा तु तन्त्रनिष्ठस्य केवलम्॥४६॥
तन्त्रेषु दीक्षितो मर्त्यो वैदिकं न स्पृशेत्सदा।
वैदिकश्चापि तन्त्रेषु दीक्षितं न स्पृशेत्सदा॥४७॥
राजा तु वैदिकान्सर्वांस्तान्त्रिकानखिलानपि।
असंकीर्णतया नित्यं स्थापयेन्मतिमत्तमाः॥४८॥
अन्नपानादिभिर्वस्त्रैः सर्वान् राजाऽभिरक्षयेत्।
वैदिकांस्तु विशेषेण ज्ञानिनं तु विशेषतः॥४९॥
महादेवसमो देवो यथा नास्ति श्रुतौ स्मृतौ।
तथा वैदिकतुल्यस्तु नास्ति तन्त्रावलम्बिषु॥५०॥
शिवज्ञानसमं ज्ञानं यथा नास्ति श्रुतौ स्मृतौ।
तथा वैदिकतुल्यस्तु नास्ति तन्त्रावलम्बिषु॥५१॥
यथा वाराणसीतुल्या पुरी नास्ति श्रुतौ स्मृतौ।
तथा वैदिकतुल्यस्तु नास्ति तन्त्रावलम्बिषु॥५२॥
षडक्षरसमो मन्त्रो यथा नास्ति श्रुतौ स्मृतौ।
तथा वैदिकतुल्यस्तु नास्ति तन्त्रावलम्बिषु॥५३॥
यथा भागीरथीतुल्या नदी नास्ति श्रुतौ स्मृतौ।
तथा वैदिकतुल्यस्तु नास्ति तन्त्रावलम्बिषु॥५४॥

ओदनेन समं भोज्यं यथा लोके न विद्यते।
तथा वैदिकतुल्यस्तु नास्ति तन्त्रावलम्बिषु॥५५॥
देवदेवो महादेवो यथा सर्वैः प्रपूज्यते।
तथैव वैदिको मर्त्यः पूज्यः सर्वजनैरपि॥५६॥
आदित्येन विहीनं तु जगदन्धं यथा भवेत्।
तथा वैदिकहीनं तु जगदन्धं न संशयः॥५७॥
प्राणेन्द्रियादिहीनं तु शरीरं कुणपं यथा।
तथा वैदिकहीनं तु जगद्व्यर्थं न संशयः॥५८॥
अहो वैदिकमाहात्म्यं मया वक्तुं न शक्यते।
वेद एव तु माहात्म्यं वैदिकस्याब्रवीन्मुदा॥५९॥
स्मृतयश्च पुराणानि भारतादीनि सुव्रताः।
वैदिकस्य तु माहात्म्यं प्रवदन्ति सदा मुदा॥६०॥
वेदोक्तं तान्त्रिकाः सर्वे स्वीकुर्वन्ति द्विजर्षभाः।
नोपजीवन्ति तन्त्रोक्तं वेदः साक्षात्सनातनः॥६१॥
इत्युक्त्वा भगवान्सुतः स्वगुरुं व्याससंज्ञितम्।
स्मृत्वा भक्त्या वशो भूत्वा पपात भुवि दण्डवत्॥६२॥
अस्मिन्नवसरे श्रीमान्मुनिः सत्यवतीसुतः।
शिष्यस्मृत्यङ्कुशाकृष्टस्तत्रैवाऽऽविरभूत्स्वयम्॥६३॥
तं दृष्ट्वा मुनयः सर्वे संतोषाद्गद्गदस्वराः।
निश्चेष्टा नितरां भूमौ प्रणम्य करुणानिधिम्॥६४॥

___________

क्तधर्मव्यवस्थावत्तदागमोक्तप्रकारेण प्रतिष्ठापितदेवतानमस्कारपूजनादिकमपि तेषामेव धर्मो न वैदिकानामित्याशङ्कयाऽऽह—तन्त्रोक्तेनेति। देवतास्वरूपस्य निर्दोषत्वात्तत्प्रतिष्ठाप्रकारभेदेऽपि देवतास्वरूपप्रयुक्तनमस्कारपूजादिकं वैदिकैरपि कर्तव्यमेव। तत्तदागमोक्तप्रकारविशिष्टा पूजैव तेषां केवलं व्यवतिष्ठत इत्यर्थः। तन्त्रेषु दीक्षितो मर्त्य इत्यादि

स्तोत्रैः स्तुत्वा महात्मानं व्यासं सत्यवतीसुतम्।
पूजयामासुरत्यर्थं वन्यपुष्पफलादिभिः॥६५॥
भगवानपि सर्वज्ञः करुणासागरः प्रभुः।
उवाच मधुरं वाक्यं मुनीनालोक्य सुव्रतान्॥६६॥

व्यास उवाच—

शिवमस्तु मुनीन्द्राणां नाशिवं तु कदाचन।
अहो भाग्यमहो भाग्यं मया वक्तुं न शक्यते॥६७॥
श्रूयतां मुनयः सर्वे भाग्यवन्तः समाहिताः।
प्रसादादेव रुद्रस्य प्रभोः कारुणिकस्य च॥६८॥
पुराणानां समस्तानामहं कर्ता पुराऽभवम्।
मत्प्रसादादयं सूतस्त्वभवद्रुद्रवल्लभः॥६९॥
रुद्रस्याऽऽज्ञाबलादेव प्रभोः कारुणिकस्य च।
पुराणसंहिताकर्ता देशिकश्चाभवद्भृशम्॥७०॥
पुरा कृतेन पुण्येन भवन्तोऽपीश्वराज्ञया।
सूतादस्माच्छ्रुतेरर्थं श्रुतवन्तो यथातथम्॥७१॥
कृतार्थाश्च प्रसादश्च रौद्रः किं न करिष्यति।
आज्ञया केवलं शंभोरहं वेदार्थवेदने॥७२॥
संपूर्णः सर्ववेदान्तवाक्यानामर्थनिश्चये।
समर्थश्च नियुक्तश्च सूत्रारम्भकृतेऽपि च॥७३॥
आज्ञया देवदेवस्य भवतामपि योगिनाम्।
ज्ञाने गुरुगुरुश्चाहमभवं मुनिपुङ्गवाः॥७४॥
भवन्तोऽपि शिवज्ञाने वेदसिद्धे विशेषतः।
भक्त्या परमया युक्ता निष्ठा भवत सर्वदा॥७५॥

___________

वैदिकप्रशंसापरम्॥४५—६०॥ आगमिकैरुपजीव्यत्वादपि वेदमार्गः श्रेयानित्याह—वेदोक्तमिति॥६१—८१॥ इत्थं ज्ञानयज्ञवैभवं

इत्युक्त्वा भगवान् व्यासः स्वशिष्यं सूतमुत्तमम्।
उत्थाप्याऽऽलिङ्ग्य देवेशं स्मृत्वा नत्वाऽगमद्गुरुः॥७६॥
पुनश्च सूतः सर्वज्ञः स्वशिष्यानवलोक्य च।
प्राह गम्भीरया वाचा भवतां शिवमस्त्विति॥७७॥
मयोक्ता परमा गीता पठिता येन तस्य तु।
आयुरारोग्यमैश्वर्यं विज्ञानं च भविष्यति॥७८॥
शिवप्रसादः सुलभो भविष्यति न संशयः।
गुरुत्वं च मनुष्याणां भविष्यति न संशयः॥७९॥
विद्यारूपा या शिवा वेदवेद्या

सत्यानन्दानन्तसंवित्स्वरूपा।

तस्या वाचः सर्वलोकैकमातु-

र्भक्त्या नित्यं चाम्बिकायाः प्रसादात्॥८०॥

गुरुप्रसादादपि सुव्रता मया

शिवप्रसादादपि चोत्तमोत्तमात्।

विनायकस्यापि महाप्रसादा-

त्षडाननस्यापि महाप्रसादात्॥८१॥

यज्ञवैभवसमाह्वयः कृतः

सर्ववेदमथनेन सत्तमाः।

अत्र मुक्तिरपि शोभना परा

सुस्थितैव न हि तत्र संशयः॥८२॥

यज्ञवैभवसमाह्वयं परं

खण्डमत्र विमलं पठेन्नरः।

सत्यबोधसुखलक्षणं शिवं

सत्यमेव झटिति प्रयाति हि॥८३॥

___________

प्रतिपाद्य मानसवाचिककायिकभेदेनावस्थितसकलयज्ञवैभवं प्राक्प्रतिपादितं

मदुक्तसंहिता परा समस्तदुःखहारिणी
नरस्य मुक्तिदायिनी शिवप्रसादकारिणी।
समस्तवेदसारतः सुनिर्मिताऽतिशोभना
महत्तरानुभूतिमद्भिरादृता न चापरैः॥८४॥
मदुक्तसंहिता तु या तया विरुद्धमस्ति चे-
दनर्थकं हि तद्बुधा वचः प्रयोजनाय न।
श्रुतिप्रमाणरूपिणी सुसंहिता मयोदिता
श्रुतिप्रमाणमेव सा महाजनस्य संततम्॥८५॥
मदुक्तसंहितामिमामतिप्रियेण मानवः
पठन्न याति संसृतिं प्रयाति शंकरं परम्।
अतश्च शोभनामिमामहर्निशं समाहितः
श्रुतिप्रमाणवत्पठेदतन्द्रितः स्वमुक्तये॥८६॥
पुराणसंहितामिमामतिप्रियेण यः पुमान्
शृणोति संसृतिं पुनर्न याति याति शंकरम्।
परानुभूतिरद्वया विजायते च तस्य सा
शिवा च वाचि नृत्यति प्रियेण शंकरोऽपि च॥८७॥
सत्यपूर्णसुखबोधलक्षणं
तत्त्वमर्थविभवं सनातनम्।
सत्स्वरूपमशुभापहं शिवं
भक्तिगम्यममलं सदा नुमः॥८८॥
याऽनुभूतिरमला सदोदिता
वेदमाननिरता शुभावहा।
तामतीव सुखदामहं शिवां
केशवादिजनसेवितां नुमः॥८९॥
वेदपद्मनिकरस्य भास्करं
देवदेवसदृशं घृणानिधिम्।

व्यासमिष्टफलदं गुरुं नुमः
शोकमोहविषरोगभेषजम्॥९०॥
ये वेदवेदान्तधना महाजनाः
शिवाभिमानैकनिरस्तकिल्बिषाः।
नमामि वाचा शिरसा हृदा च तान्
भवाहिवेगस्य निवारकानहम्॥९१॥

इति श्रीस्कन्दपुराणे सूतसंहितायां चतुर्थस्य यज्ञवैभव

खण्डस्योपरिभागे सूतगीतायां सर्ववेदान्त

संग्रहो नामाष्टमोऽध्यायः॥८॥

सूतगीता समाप्ता।

ॐ तत्सत्

_______

निगमयति—यज्ञवैभवेति॥८२—९१॥ व्याख्या समाप्ता॥

इति श्रीमत्काशीविलासक्रियाशक्तिपरमभक्तत्र्यम्बकपादाब्जसेवापरायणेनोपनिषन्मार्गप्रवर्तकेन श्रीमाधवाचार्येण विरचितायां सूत संहितातात्पर्यदीपिकायां चतुर्थस्य यज्ञवैभवखण्डस्योपरिभागे सूतगीताव्याख्यायां सर्ववेदान्तसंग्रहो नाम अष्टमोऽध्यायः॥८॥

<MISSING_FIG href=”../books_images/U-IMG-1703516903छवि1088.JPG”/>

समाप्तेयं सुतसंहिता।

_________________________
श्रीबालमनोरमा प्रेस्, मैलापूर्, मद्रास्

]


  1. " कुर्वतेपा-ग" ↩︎

  2. “कृण्डलि- तोयंग्रंथः स्वपुस्तक एव दृश्यते।” ↩︎

  3. " इहसूतप्रोक्तसहितामध्ये पा-ख." ↩︎

  4. “श्रुत्यवगत प-ख.” ↩︎

  5. “मंगलाचरणं पा-ग” ↩︎

  6. “स्वयंकृतं पा-ग.” ↩︎

  7. " अयमपि स्व. पुस्तकस्थः" ↩︎

  8. " स्वपुस्तकस्थः" ↩︎

  9. “सर्वत्र सर्वकर्तारं -स्व, अयमपि ख. पुस्तकएव. " ↩︎

  10. " एते श्लोकाः पञ्चदश्यां कूटस्थदीप्रकरणे [श्लो५६-५९ ।” ↩︎

  11. " भासपा-ग. " ↩︎

  12. " प्रकृत्य, पा-ग " ↩︎

  13. " भावैककारणं । भूतभौतिक भावानां नियमस्यैतदेवहि पाग." ↩︎

  14. “तत्र ऐश्वरं रूपमपरमचलतनयाद्युपाधिविशिष्टं। परमं निरस्तसमस्तोपाधिकं स्वप्रतिष्ठमखण्डसच्चिदानन्दैकरसमद्वितीयं तत्तत्वं। इति ग-पाठः.” ↩︎

  15. “तदसंस्पर्श ग.” ↩︎

  16. “कलातत्वसहभावि ग.” ↩︎

  17. “कर्तृत्वार्थे ग.” ↩︎

  18. " कलाचविद्याचरागश्चेति ख." ↩︎

  19. " तथाच ग." ↩︎

  20. " इद ख." ↩︎

  21. " कामिके अर्चनाविधिपटले श्लो." ↩︎

  22. “तै ब्र. व. अनु-६.” ↩︎

  23. “पारमर्षं ग.” ↩︎

  24. “ब्र.सू. अ १ पा ४. सू. २३.” ↩︎

  25. " आधार इतिभ्रमंव्युदस्यति ग." ↩︎

  26. " छा. अ. ७ ख २४. मं १." ↩︎

  27. “नियस्तृत्वे.ग” ↩︎

  28. “पूजाद्यर्थं ग.” ↩︎

  29. “सुप्रभेदंमहाशास्त्रं दशेशस्यप्रकीर्तितं। विघ्नेश्वरो दशेशाच्य शशी प्राप्तो गणेश्वरात्॥ कामिके तन्त्राबतारपटले श्लो० ५०. " ↩︎

  30. “दोषपारतन्त्र्यात्‌ ग.” ↩︎

  31. “तत्राह ईशानमनीशमिति ग.” ↩︎

  32. " अनीशेतृत्वात्‌ ग.” ↩︎

  33. “विरहेण. ख.” ↩︎

  34. “अंबुनिधिःग.” ↩︎

  35. " कालकृत ख." ↩︎

  36. " कव्यवहारसाधारणं ग." ↩︎

  37. " स्यप्यनन्तत्वं ग." ↩︎

  38. " निधिनारूपं ग" ↩︎

  39. " अज्ञानेनावृतोरामः साक्षन्नारायणेपिच । स्वस्वरूपंतुनाज्ञासीत्‌ इति ग" ↩︎

  40. “एवेत्यभिप्रायः ग.” ↩︎

  41. " अत्रनिष्क ग." ↩︎

  42. “पूूर्वोक्तिं” ↩︎

  43. " विधायऋषि ग." ↩︎

  44. " रभते, ग, * रोमहर्षणं, ग." ↩︎

  45. “प्राङ्महाकग.” ↩︎

  46. “शुद्धयु ग.” ↩︎

  47. " विद्याग्रहणाधिकारगुणकलापः ख." ↩︎

  48. " रात्रावसाना ख" ↩︎

  49. " तै, सं० का, ७. प्र. ५. अ. १," ↩︎

  50. “तै काठ. प्र. ३ . अ, ९.” ↩︎

  51. " श्री, भा. स्क, १. अ, १ श्लो. ४." ↩︎

  52. “नापुपलक्षणं*” ↩︎

  53. “बृ. आ. अ. ४, ब्रा. ४. म०, २२. अथ म. ३५.” ↩︎

  54. “क०. व.” ↩︎

  55. “म० ५ः” ↩︎

  56. " कव, ३ः मं८." ↩︎

  57. " यो. सू सा. पा. सू, ५४." ↩︎

  58. " निरासद्वारा. ग." ↩︎

  59. “अनमिभूतहृदया. ग.” ↩︎

  60. “पुण्यां ख.” ↩︎

  61. " कंमुदा, ग" ↩︎

  62. “सम्मतां. ख,” ↩︎

  63. “महत्तपःप्रकर्षादा, ख. महादेवप्र. ग.” ↩︎

  64. “मुनाभिधानात्‌ ग.” ↩︎

  65. " विशेषतोजनकयाज्ञवल्क्यसंवादः बृहदारण्यकेचतुर्थाध्यायप्रारंम्भे" ↩︎

  66. “भग अ. ४.श्लो, " ↩︎

  67. " पुरस्सरावलोकन, ख” ↩︎

  68. " श्वे. अ ६, मं. २३." ↩︎

  69. “ततः परंख.” ↩︎

  70. " वैवर्त, ग." ↩︎

  71. “वराहंच, ग.” ↩︎

  72.  ↩︎
  73. " स्थापयितुं, ग." ↩︎

  74. " प्रगीत, ग" ↩︎

  75. " माहेश्वरावतारत्व०. ग," ↩︎

  76. “णान्यतुक्रामति. ग.” ↩︎

  77. “कृण्डलितौ श्लोकौख.पुस्तकस्थौ.” ↩︎

  78. “नान्दमेव चग,” ↩︎

  79. “वामनं ख..” ↩︎

  80. " परमपुरुषावतारेण ख. " ↩︎

  81. " सार्वज्ञ्यंख," ↩︎

  82. “साक्षात्‌, ख. " ↩︎

  83. “महाद्भुतं ग.” ↩︎

  84. “पराशरं ग.” ↩︎

  85. " भार्गवाख्यं ग.” ↩︎

  86. “विभज्यामि ख” ↩︎

  87. “विप्राः ग.” ↩︎

  88. “रान्या,” ↩︎

  89. “वंश ख.” ↩︎

  90. " चेदि-ख." ↩︎

  91. " कर्म-ख." ↩︎

  92. “उपायः-ख.” ↩︎

  93. " उपायः-ख," ↩︎

  94. “गीता-ख. " ↩︎

  95. " ब्रह्मत्व-ग.” ↩︎

  96. “सृतगीता-ख.” ↩︎

  97. “कुण्डलितमधिकतया-ख पुस्तके दृश्यते. " ↩︎

  98. " वस्थायामे-ख” ↩︎

  99. " बाधक-ख." ↩︎

  100. “जै, १-३-३.” ↩︎

  101. “.तादृक्तत्‌ ग. " ↩︎

  102. “द्वयाप्रमाण्यं ल” ↩︎

  103. “अयंश्लोकः मनुरिति संजीविनी।” ↩︎

  104. " वेदसंग.” ↩︎

  105. " तै-सं-का. १, प्र. ८. अनु. ६" ↩︎

  106. “अथ, म० १. ४. श्वे.” ↩︎

  107. " श्वे. अ. ६. मं. १८." ↩︎

  108. “गुरुःख.” ↩︎

  109. “मुण्ड-१-मं-३.” ↩︎

  110. " शिष्येष्वस्यति, ख." ↩︎

  111. " सार्वज्ञ्यंप्रथयितुम्‌ ।" ↩︎

  112. “त्मानः ख. " ↩︎

  113. " पापप्रणाशिनी, ख.” ↩︎

  114. " वचस्तस्य, ग." ↩︎

  115. " स्ताषौन्मेहामतिः ख" ↩︎

  116. “यद्दुखं दुःखहेतु वा विद्रावयति स प्रभु.ख.” ↩︎

  117. " केन. मं १४." ↩︎

  118. “केन, म ५. १६.” ↩︎

  119. “यष्टव्यं , ग,” ↩︎

  120. “कठ०, अ. २. वृ, ५, म०. १५,” ↩︎

  121. " ब्रह्मन्‌. ग." ↩︎

  122. “कस्मात् , ग.” ↩︎

  123. “कादेन्नो. ख.” ↩︎

  124. " जगदुत्पत्तिश्च, ख." ↩︎

  125. " न कारणतो. ग." ↩︎

  126. " समाविशन्‌, ख." ↩︎

  127. “कारुण्यात्‌. ग.” ↩︎

  128. " विपाकोस्ति ग," ↩︎

  129. " श्रीकरवीरेशौ. ख." ↩︎

  130. “अथ.म० १.” ↩︎

  131. " गद्धेतुः ख." ↩︎

  132. “अथ म.” ↩︎

  133. " पशुनां ग," ↩︎

  134. “यद्माया. ख.” ↩︎

  135. " अथ. म०, १," ↩︎

  136. “सत्याभावात्‌, ख.” ↩︎

  137. " सत्युपा, ख." ↩︎

  138. " म. भ. ३४, श्लो. १०" ↩︎

  139. “ब्र, सू. अ. ३. पा २, सू ३८.” ↩︎

  140. " वर्तयति. ख," ↩︎

  141. " पृर्णंरूपं समाविशतुग." ↩︎

  142. " श्वे. अ. १.म०-१२." ↩︎

  143. " भावः. ग." ↩︎

  144. “भूत्वा. ख.” ↩︎

  145. “कामिके. पट. ३. श्लो. ५१४.” ↩︎

  146. " त्रिरा. ख." ↩︎

  147. " अथ. म०. १." ↩︎

  148. “स्तुवन्ति. ग,” ↩︎

  149. " नारा. ३. अन. ३५." ↩︎

  150. “त्वादस्य ख.” ↩︎

  151. “मिव्यक्त, ग.” ↩︎

  152. “अथ, ०.३५.” ↩︎

  153. “रमोचनः.ख.” ↩︎

  154. “तं न निष्कलं.ग” ↩︎

  155. “छा. अ. ७. द, २४. म०. ?.” ↩︎

  156. " तै. ब्र. व. अतु १ " ↩︎

  157. “मुनिषु. ख.” ↩︎

  158. “तदेव. ग.” ↩︎

  159. “४ बृह० अ० " ↩︎

  160. “ब्रा ३ म. ३१. ५ बृह. अ. ४. ब्रा. ४ म. २२” ↩︎

  161. “सत्यविज्ञानं. ख.” ↩︎

  162. " पश्यति. ग.” ↩︎

  163. “तै. ब्र, व अनु. १.” ↩︎

  164. “निह्नव ख. " ↩︎

  165. “गद्धेतु.” ↩︎

  166. “पराशवेन ख.” ↩︎

  167. “योभिजानाति. ख.” ↩︎

  168. " मुण्ड०, ख०. २. म. १०,” ↩︎

  169. “ब्र.सू. अ. ३. पा३, सू. ३.” ↩︎

  170. “द्विजश्रेष्ठाः. ख.” ↩︎

  171. “वर्त्मनाग.” ↩︎

  172. “नत्वा.ख. " ↩︎

  173. “नमस्कृत्य.ग.” ↩︎

  174. “साकल्यस्य, ख” ↩︎

  175. “शिव एव्‌, ग.” ↩︎

  176. " मति*जते. ख.” ↩︎

  177. “सादरम्‌ ख. " ↩︎

  178. “सुरूपेण. ग.” ↩︎

  179. “जातो भूताकरे पुनः ख” ↩︎

  180. " दान्तरी. ख. " ↩︎

  181. " संस्कृतपवनचलनेन, ख.” ↩︎

  182. “वर्णसंघः ग.” ↩︎

  183. " एषु. ख. " ↩︎

  184. " परांसि, ख." ↩︎

  185. “पतिष्वं. ग.” ↩︎

  186. “तास्तु ग.” ↩︎

  187. " पितृृणां. च, ग," ↩︎

  188. “अभिन्न.ग,।” ↩︎

  189. “एवा. ख,” ↩︎

  190. “त्सर्वं. ख.” ↩︎

  191. “तथा.ग.” ↩︎

  192. “मुनिश्रेष्ठाः।ख” ↩︎

  193. “न्तनीरादिकंग. `” ↩︎

  194. " स्‍तांमणि ग" ↩︎

  195. " जनालोकनि ख" ↩︎

  196. “ब्रह्मणः पतये ख” ↩︎

  197. " जगतःपतये " ↩︎

  198. “परम्‌. ख, ,” ↩︎

  199. “ते नमः गः” ↩︎

  200. " दग्धवि, ग" ↩︎

  201. " स्थस्य महतः ग" ↩︎

  202. “.तत्रेद ख” ↩︎

  203. “परमां. ग.” ↩︎

  204. “अंशभूतो.” ↩︎

  205. “. दुःखाढ्याःग.” ↩︎

  206. “कल्पायृनू ख.” ↩︎

  207. " समुनीन्‌ग" ↩︎

  208. " संभवः ग." ↩︎

  209. " स्तोमम्‌. ग," ↩︎