सावित्री

[[सावित्री Source: EB]]

[

सावित्री

सावित्री सूर्यसुषमा दद्याच्छक्तिं धियं श्रियम् ।
सततं शुष्यमाणेभ्यः जीवनं च महीतले ॥

नान्द्यन्ते

सूत्रधारः – प्रिये चारुशीले ! इतः समेहि ।

नटी – एषाऽस्मि । को विशेषः ।

सूत्रधारः – पश्य ।

विभावरी शरच्यन्द्र-चन्द्रिका सागरे परम् ।
स्नात्वाम्बराभूषितासौ शारदेव विराजते ॥

नटी – कल्पनाविलासनम् इदं प्रियं भाति ।

सूत्रधारः – अद्य अस्मिन् शरदृतौ कार्तिक पौर्णमास्यां भारतीयस्त्रींणां कीदृशी शक्तिः विद्यते इति दर्शयितुम् अपि च स्त्रियः सर्व-शक्तिसम्पन्नाः पुरुषेभ्यः समधिकतरं सम्माननीयाः इति प्राचीन-परम्परागत भावनां प्रसन्नीकृत-मृत्युं सावित्री-नाटकरूपेण प्रदर्शयितुं समुत्सुकोऽस्मि । विषयेऽस्मिन् कस्ते अभिप्रायः ।

नटी – अयं प्रपञ्चः पुरुष-प्रकृति- विलसितः । सहजतया स्त्री-पुरुषयोः समानता केवलं जन्मतः सङ्क्रामति । स्त्रियः पुरुषाणाम् अपेक्षया अधिकतरं सम्माननीयाः इत्येषा भावना सहजा नहि किन्तु समानतया द्रष्टव्या इति मे मनीषा । अपि च, कोऽयं कविः ? किं तस्याभिधानम् ?

सूत्रधारः – अस्य कवेर्नाम परीक्षित् शर्मा । अयं गीर्वाणान्ध्रभाषा प्रवीणः कलाभिमानी महाकविश्च ।

नटी – प्रशंसनीयः अस्य प्रयत्नः यतः भारत-जीवन-शक्ति-भूतां सुरभारतीं विस्मृत्य सर्वे भारतीयाः अर्थ-सङ्ग्रहणे सुखानुभवे च निरन्तरलोलुपाः भान्ति । किन्तु अयं कविः कालप्रवाहस्य प्रतिकूलो भूत्वा सुखार्थाम्भावनां सन्त्यज्य साधारण-जीवनं कुर्वन् सुरभारत्याम् । विलिखति । किमेतद् आश्चर्यम् ? अयं भारत-साम्प्रदायाभिलाषी देशभक्तः इव आभाति ।

सूत्रधारः – अयं ललित-गीता-लहरी इति गेय-काव्यं यशोधरामहाकाव्यं च विरचितवान् सुरभारत्याम् ।

नटी – अस्य भाषाभिमानः भाषाभिनिवेशश्च प्रशंसनीयौ ।

सूत्रधारः – प्रिये देवतार्चन-घण्टारवः श्रूयते । सावित्री मृत्युञ्जयम् अर्चयन्ती आस्ते । एहि गच्छावः ।

(इति निष्क्रान्तौ)

(ततः सावित्री मृत्युञ्जयम् अर्चयन्ती मङ्गलारतिं विदधती गायति)

गीतम् (कानडारागे)

जय जय जय गौरीरमण !
भक्तजनावलि-सङ्कट-हरण ! जय जय ॥ ध्रु. ॥

पटुतर-भव-भय निरत-विदूरण !
उडुपति-रेखा पन्नग-भूषण !
सतत-भयङ्कर-मृत्युनिरासन !
कैलासाचल-शिखर-सुखासन ॥ जय जय 1

पतित-जनावलि-निरत-विरञ्जन
अहित-जनावलि-सतत-विभञ्जन
पापौघाखिल-जलद प्रभञ्जन
सत्य-नयापार-सज्जन-रञ्जन ॥ जय जय 2

सन्ध्या-ताण्डव-मधु-भीकर-रूप
सकल-धरातल-नेत्रायुध-भूप
त्रिगुणात्मक-काल-नियन्ता
धर्मारक्षण-भीकर-कालं हन्ता ॥ जय जय 3

(इति आरतिं नेत्राञ्जनं करोति । अन्ततः नमस्करोति)

सावित्री – (सविषादम्) प्रभो पशुपते । अद्य सत्यवतः सः दिवसः समायातः । त्वमेव रक्षकोऽसि । मृत्युञ्जयोऽसि । मया सभक्तितं यद् आचरणीयं तत् सर्वं यथाविधि कृतम् । अन्यथा शरणं नास्ति त्वमेव शरणं मम । (इति नमस्करोति)

(ततः प्रविशति सत्यवान्)

सत्यवान् – (आगत्य आरतिं नेत्राञ्जनं कृत्वा नमस्करोति) प्रिये ! सावित्रि अतिताव्रीऽयम् आरम्भः । इदं व्रतं त्रिसृणां वसतीनां परम-दुश्चरं भवति । विरम । न युक्तं ते ।

सावित्री – प्रिय ! मयि सन्तापः न कार्यः । अहम् इदं व्रतं पारयिष्यामि ।

सत्यवान् – व्रतं भिन्धि इति वक्तुं न शक्तः । किन्तु पारयस्वेति वक्तुं सुकरमेव ।

सावित्री – (मनसि) अयं विचारणीयः दिवसः ।

सत्यवान् – प्रिये व्रतं यथोपदिष्टं पारितं त्वया । सम्प्राप्तः आहारकालः । भुज्यताम् ।

सावित्री – प्रिय ! आदित्ये अस्तङ्गते भोक्तव्यम् इति मम हृदि सङ्कल्पः । एवमेव मया समयश्च कृतः ।

सत्यवान् – यथा रोचते ते, तथैव कुरु ।

सावित्री – भवत्कृते सर्वमहं विदधामि नाथ !

सत्यवान् – अधुना गन्तव्यं वनं समिदाहरणाय ।

(इति पार्श्वस्थितं परशुम् आदाय सत्यवान् वनं प्रस्थितः भवति)

सावित्री –प्रिय ! अद्याहं व्रतलग्नास्मि । त्वयाद्य वनं न गन्तव्यम् ।

सत्यवान् – समिदाहरणार्थम् अद्यैव गन्तव्यम् ।

सावित्री – प्रिय ! एकाकी त्वं गन्तुं नार्हसि । त्वया सह आगमिष्याम्यहम् ।

सत्यवान् – प्रिये ! त्वमपि मया सह वनं जिगमिषसि । न कदापि त्वया वनं गतम् । पन्थाः दुःखः भवति । भवती व्रतोपवासक्षामासि । कथं पद्भ्यां गमिष्यसि ? स्त्रियः पुष्पहाराः नहि, कण्ठे गृहीत्वा भ्रमितुम् । जगति स्त्रीभिः प्रयाणमालस्यं भवति । अहं इतो गत्वाऽनुपदमेव आगमिष्यामि ।

सावित्री – प्रिय ! सत्यं यदुक्तं भवता । एतावत्-पर्यन्तं नापश्यं वनम् । अद्यैव द्रष्टुं प्रारभे । उपवासात् मे ग्लानिर्न भवति । न परिश्रमः । अहं गमने कृतोत्साहा मां निषिध्य न गमिष्यसि । अहं त्वया सार्धं फलान्याहर्तुम् इच्छामि । अहं किञ्चिदून-संवत्सरात् आश्रमात् न निष्क्रान्तास्मि ।

सत्यवान् – प्रिये ! सुव्रते! त्वं व्रत-लग्नासि । अपि च वने क्रूरेभ्यः सत्त्वेभ्यः भीतिर्भवति । स्त्रियासार्धं प्रयाणम् अतिक्लेशदं दुःखदं भवति । नार्हसि तत्रागन्तुम् विरम तव निश्चयात् ।

सावित्री – प्रिय ! जगत् सर्वं पुरुष-प्रकृति विलसितम् । तस्मात् यत्र यत्र पुरषः तत्र तत्र स्त्री । सर्वदा पुरुष-प्रकृत्योः समागमः अनिष्टापत्तिनाशकः भवति । भवति कौतूहलं परं मे कुसुमितं वनं द्रष्टुम् । सर्वथा ते साहाय्यं करिष्यामि ।

सत्यवान् – सावित्री यथाभिलाषितं भवतु । सज्जीभव गच्छावः ।

सावित्री – प्रिय ! अनुगृहीतास्मि । (इति तेन सार्धं प्रस्थिता)

**********************************************************

.

द्वितीयं दृश्यम्

(सर्वमपि कान्तारं विविध-मृगैः निर्झर-परिवृत-पर्वतैः तटाकैः नदीभिः विहङ्गमैः चित्रितमिव भाति)

सत्यवान् – देवि सावित्रि ? शनैः शनैः पदविन्यासं कुरु । अत्र सर्वोऽपि मार्गः कण्टकाकीर्णः भवति ।

सावित्री – प्रिय ? दृष्टैव विचारामि । तव सान्निद्ध्ये कण्टकावृतः मार्गः पुष्पाकीर्ण इव प्रतिभाति । सर्वमिदं काननं गन्धिलितं भाति ।

सत्यवान् – देवि ? अयं मार्गः तरु-गुल्म-लता-परीतः वर्तते । मे हस्तम् अवलम्ब्य प्रविचल । (इति हस्तं ददाति)

सावित्री – प्रिय ! तव हस्तावलम्बनेन गहनं संसारं तरिष्यामि ।

सत्यवान् – प्रिये ! अत्र पश्य !

विचित्राणि वनान्यत्र रमणीयानि सर्वतः ।
मयूरगण-नृत्वानि पश्य त्वं विपुलेक्षणे ॥

अस्मिन् वने कोकिलानां मधुरालापाः तव कण्ठस्वरोपमिताः श्रूयन्ते ।

सावित्री – अत्र पश्यतु भवान् एताः निर्झरिण्यः ।

मधुर-सलिल-वाह्यः प्रांशु-शैलाग्र पाताः
तरल-हसित-फेनाः कङ्कणैः सज्जिताङ्गाः ॥
त्रिदिवमधरयन्त्यश्चारुरम्भादिरामाः ।
धरणिवसनभावैराविशन्तीव भान्ति ॥

सत्यवान् – सावित्रि ! भवत्याः कल्पनेयम् असामान्या अन्येषाम् अनूह्या च । अत्र पश्य देवि,

हरिणाः वायु-वेगेन धावमानाः परं भिया ।
प्लवन्ते मधुरं शून्ये पश्य त्वं हरिणेक्षणे ॥

एते हरिणाः नयन-चाञ्चल्यमपहृत्य पलायमानाः इव दृश्यन्ते समीक्षस्व ।

सावित्री – (विहस्य) प्रिय ! एते कोकनदाः सलिले सलीलम् अहिण्डमाना प्रियाभिस्साकं नेत्रोत्सवं सञ्जनयन्ति । मन्दवातेरितानि कुवलयदलानि आवां विलोक्य समुत्सुकानीव डोलायन्ते ।

सत्यवान् – देवि ! सत्यमेव त्वदीया कल्पना । इतः पश्य । इदं सरोवरम् । अस्मिन् नव कल्हाराः नवारविन्दाः अभिनव-कुवलयानि विराजन्ते । मधुपानार्थं तव कुन्तलोपमिताः भ्रमराः मञ्जु गुजन्तः इतस्ततः धावन्ति मालिका-रूपेण । प्रिये इतः पश्य ।

नद्यः पुण्यप्रवाहश्च पुष्पितान् भूरुहोत्तमान् ।
मधुरं पश्य सावित्रि नेत्रोत्सवसिदं सरः ॥

अपि न नद्यः सवेगं स्वप्रियं समुद्रम् आलिङ्गितुं कङ्कणस्वनैः धावन्ति । अयं नगेन्द्रः महोन्नतः महापुरुष इव तिष्ठति । विस्फारित-लोचना समालोकय ।

सावित्री – प्रिय ! पश्यामि सर्वाणि नदी-जलानि सर्वतः यथोद्दिष्टानि अत्र भवता । सर्वाण्येतानि दर्श दर्श मे चेतः रसालवालं भवति ।

सत्यवान् – प्रिये !

विचित्र-शोभा तरु-वल्लरीणां तनोति सर्वत्र मनोज्ञवर्णैः ।
शोभाम् अनिन्द्यां प्रविलोकितुं च पर्याप्तमासीन्नहि नेत्र-युग्मम् ॥

अपि च रसालवालाः एते रसालाः काव्यात्मवत निगूढं विराजन्ते । इतः पश्य इदं दाडिमीफलं शून्ये योग-पुरुषवत् शम्पर्षासनं कुर्वत् सुफलताप्राप्त्यर्थं तपति । (इति तर्जिन्या दर्शयति)

सावित्री – नाथ, इदं शान्तम् अरण्यं विद्यते । सर्वमप्येतत् विधात्रा विचित्रितम् । इदं सौन्दर्याणाम् आयतनम् । अनेन वनदेवता दर्शनेनैव मे मनोरथः फलति ।

सत्यवान् – प्रिये ! सत्यमिदं वनं मनोरथान् साकारं करोति । यतः

रम्यां विशालां प्रकृतिं विलोक्य रुग्णावृताश्शान्तिमवाप्नुवन्ति ।
इयं सदा सर्व-कलाभिरामा रसार्द्र-चित्तं वितनोति नूनम् ॥

अत्र पश्य कामैकरूपिणी मृगौ प्रेम्णा मृगं शृङ्गेण कण्डूयते । सर्वत्र गहनं भावैः परं कामायते प्रिय । इतः कारण्डव-चक्रवाकाः तटाकसलिले मज्जनोन्मज्जनं कुर्वन्तः आरसन्ति । (सावित्रीं विलोक्य) देवि किमर्थं दूयमान मानसा विचारयसि ? उक्तं खलु मया कुसुम-कोमल-कोमलाङ्गीनां कण्टकवृत-पाषाण-प्रस्तर-निम्नोन्नत-प्रदेशेषु चलनम्‌ अतीव दुःखदं भविष्यतीति । त्वया तत् न श्रुतम् ।

सावित्री – न कोऽपि विचारः विद्यते नाथ । भवदीय-सन्तोषानन्द पारवश्यतां विलोक्य एतावत्कालं भवान् न किमपि उक्तवानासीत् मे । कथं भवतः हृदये रसात्मकतां गूढं निक्षिप्य मौनेन जोषमासीत् भवान् इति चिन्तयामि ।

सत्यवान् – प्रिये ! मा विचारय । अत्र पश्य । अयं शमी वृक्षः । शमीशमयते पापम् इति लोकोक्तिः । अग्निरन्तर्हितोऽस्मिन् राजते । अस्य वृक्षस्य समिधः परमपवित्राः आहवनाय । ताः मत्परशुना खण्डयित्वा आनयेयम् । त्वम् अत्रैव तिष्ठः । (इति गत्वा पार्श्वे विद्यमानं शमीवृक्षं परशुना छिनत्रि । दक्षिण-हस्त-तर्जन्या ललाटोद्भूतं धर्मजालं सम्मार्जयन् बाधा-शब्दं करोति) प्रिये ! अनेन व्यायामेन मे शिरसिं वेदना सञ्जाता । (इति शनैश्शनैः चलितुम् अशक्य इव चलन् तत्रैव परशुं विसृज्य सावित्रीं गच्छति) देवि ! अनेन व्यायामेन शिरसि वेदना जाता । हृदयं दूयते । आत्मानम् अस्वस्थमिव लक्षये । शिरः शूलैः विद्धः इव भाति । अहं स्वप्तुम् इच्छामि । स्थातुं मे शक्तिर्नास्ति । सीदन्ति मम गात्राणि ।

सावित्री – प्रिय । एहि अत्र तव शिरः मे उत्सङ्गे निक्षिप्य स्वपस्व । (इति तस्य शिरः उत्सङ्गे निक्षिप्य उपविशति । चिन्ताक्रान्ता शून्ये पश्यति अश्रु स्रवन्ती)

(ततः प्रविशति पाशहस्तः आदित्य-समतेजः यमः)

सावित्री – प्रभो त्वां दैवतम् अभिदजानामि । एतत् तव शरीरम् अमानुषम् । त्वं देवेशः इति मन्ये । ब्रूहि किं चिकीर्षसि ? कस्त्वम् ?

यमः – सावित्रि, त्वं पतिव्रताऽसि । तपसाऽन्वितासि । तस्मात् त्वयाभिभाषे । माम् आर्याः यमः इति ब्रुवन्ति ।

भर्ता ते सत्यवान् एषः क्षीणायुः पुण्यजीवनः ।
नयामि तमहं बध्वा तदिदं मे चिकीर्षितम् ॥

सावित्री – भगवन् ! तव दूताः मानवान् नेतुम् आगच्छन्ति इति लोके कथयन्ति । भवान् स्वयं कस्मात् समागतवान् अस्ति ? वदतु प्रभो ।

यमः – सावित्री । अयं सत्यवान् धर्मवान्, रूपवान्, सद्गुणसागरः मत्पुरुषैर्नेतुम् अयं नहि । तस्माद् एनं नेतुं स्वयसागतोऽस्मि (इति अङ्गुष्ठमात्रपुरुषं पाशैर्बध्नाति) ग्च्छाम्यहम् । (इति यमः गच्छति) (दुःखार्ता सावित्री यमम् अनुगच्छति)

**********************************************************

.

तृतीयं दृश्यम्

सावित्री – देवेश तिष्ठ । अत्र भवता प्रोक्तम् `अयं सत्यवान् धर्मवान् रूपवान्’ इति किमर्थं अस्य प्राणान् नयसि । (इति विलपति)

यमः – सावित्रि किमर्थं विलपसि । जगति मरणम् अवश्यमेव जन्तोः । किमिति मुधा कुरुषे विलम्बम् ? कुरुष्वापरकर्म ।

सावित्री – देवेश । किं प्रयोजनं सत्त्व-धर्म-रूपादिगुणैः ।

यमः – (विहस्य) एते गुणाः केवलं महापुरुषगुणाः । महापुरुषा अपि पञ्चत्वं प्राप्नुवन्ति । सावित्रि । किं वृथालापैः प्रयोजनम् । निवर्तस्व और्ध्वदेहिकं कुरुष्व ।

सावित्री – प्रभो, कुत्र गच्छेयम् अहम् एकाकिनी । कथं गच्छेयं विसृज्य पतिम् एनम् ।
नीयते यत्र मे भर्ता स्वयं यत्रैव गच्छति ।
गन्तव्यं च मया तत्र धर्मेऽयं च सनातनः ॥

यमः – सावित्रि, आमरणमन्योन्यमनुगमनं सहवासश्च कर्तव्यः । इति लोकरीतिः । मरणानन्तरं शरीरधारिणामु अनुगमनम् असम्भवम् ।

सावित्री – यमराट् । अहं ममात्मना तमनुगच्छेयम् । बन्धनम् एतत् अच्छेद्यं समवतिम् । अहं पतिव्रताऽस्मि ।

यमः – अनेन शरीरेण त्वं नागन्तुमर्हसि । निवर्तस्व सावित्रि ।

सावित्री – प्रभो परेतराट् । तपसा, भक्त्या, भर्तुः स्नेहात् व्रतेन च तव प्रसादेन मे गतिः न प्रतिहता भवेत् ।

यमः – सावित्रि । मेऽत्र स्थातुं समयो नास्ति । अतीव विलम्बः भवति। सत्वरं मया गन्तव्यं, निवर्तस्व । (इति गर्जति)

सावित्री – प्रभो, मैत्रं साप्तपदमाहुः बुधाः । मित्रतां पुरस्कृत्य किञ्चिद् वक्ष्यामि तत् शृणु । सर्वेषामपि धर्मः प्रधानः इति सन्तः कथयन्ति । तस्माद् धर्मम् आचार ।

यमः – सावित्रि ! तव अनया गिरा अतीव तुष्टोस्मि । निवर्तस्व । ते वाणी स्वराक्षर-व्यञ्जन-करुण-रस-हेतु-युक्ता । वरं वृणीष्व । विनास्य जीवितं ददानि ते ।

सावित्री – प्रभो ! तव प्रसादात् मे श्वशुरः लब्ध-चक्षुः बलवान् भवेत् ।

यमः – आनन्दिते ! ददानि तेऽहं वरं यथाभिलषितम् । निवर्तस्व । न ते श्रमो भवेत् ।

सावित्री – मे भर्तुंसमीपतः श्रमः कृतः । यत्र पतिं नेष्यसि तत्र मे गतिः ।

यमः – सावित्रि ! यद् इदं बुध-बुद्धि-वर्धनं वचनं त्वयोक्तं तत् मनोऽनुकूलं हिताश्रयं पुनः सत्यव्रत-जीवितं विना, द्वितीयं वरं वरयस्व भामिनि ।

सावित्री – मे श्वशुरः हृतं राज्यं लभतु द्वितीय वरं वरयामि ।

यमः – स्वयमेव नचिरात् राज्यं प्रतिपत्स्यते । निवर्तस्व ते श्रमो न भवेत् ।

सावित्री – शमन ! मे न कोऽपि श्रमः । मम पृथिवीपतिः अनपत्यः पिता भवेत् । पितुः पुत्रशतं तथौरमं भवेत् । कुलस्य सन्तानकरं च यद् भवेत् तत् तृतीयमेतत् वरयामि ते वरम् ।

यमः – पतिव्रते ! त्वं दूरं पथः समागतासि । ते पितुः कुलस्य सन्तानकरं सुवर्चसं सुतानां शतं भवतु । निवर्तस्व ।

सावित्री – प्रभो न दूरमेतत् । मम भर्तुः सन्निधौ मे मनः अस्ति मयोच्यमानं भूयः शृणु ।

विश्वासो जायते तत्र सौहृदं यत्र विद्यते ।
विश्वासं कुरुते तस्मात् जनः सत्सु विशेषतः ॥

यमः – अङ्गने ! उदाहृतं ते वचनं मया न श्रुतं त्वदृते । तस्मात् तुष्टोऽस्मि । विनाऽस्य जीवितं वरं चतुर्थं वरयस्व गच्छ ।

सावित्री – समवर्ति ! ममात्मजस्य सत्यव्रतः ओरसस्य बल-वीर्य-शालिनां कुलद्वहं सुताना शतं भवेत् इति चतुर्थं वरं वरयामि ।

यमः – अबले !

शतं सुतानां बल-वीर्य-शालिनां तवाबले प्रीतिकरं भविष्यति ।
नृपात्मजे ते न परिश्रमोऽस्तु दूरं निवर्तस्व पथस्त्वमागता ॥

सावित्री – यम ! सन्तः सूर्यं सत्येन नयन्ति । भूमिं तपसा धारयन्ति । भूत-भव्यस्य ते गतिकारकाः भवन्ति ।

यमः – सर्व-मङ्गले !

सुपदं महर्थवन्तं मनोनुकूलं धर्म-सहितं यथा भाषसे यथा त्वयि मे भक्तिः उत्तमा भाति । तस्मात् पतिव्रते अप्रतिमं वरं वृणीष्व ।

सावित्री – प्रभो !

भर्तारं विना सुखं, दिवं, श्रियं च न कामये । भतृहीना जिवितुं न व्यवसामि । दयान्तरङ्ग । शतपुत्रता मम त्वयैव दत्ता । मे पतिः हीयते । तस्मात् सत्यवान् अयं जीवतु इति वरं वृणे । तव वचनं सत्यं भविष्यति ।

यमः – भद्रे !

भर्तातेऽयं मया मुक्तः यास्यतामिह शोभने ।
वाक्यैर्धर्मार्थ-सम्भूतैस् तोषितोऽहं त्वया भुवि ॥

ते सर्व-मङ्गलानि भवन्तु । (इति यमः प्रतिनिवृत्तः)

(यवनिका पतति)

*******************************************************

.

चतुर्थं दृश्यम्

(सावित्रीप्रतिनिवृत्य भर्तारम् उपसृत्य उपगृह्य च उत्सङ्गे शिरः आरोप्य भूमावुपशति)

सावित्री – प्रिय, उत्तिष्ठ । किं चिरं स्वपिसि । अपगत-श्रमः न भूतोऽसि ? (इति हस्तेन शिरः स्पृशति)

सत्यवान् – प्रिये सुप्तोऽस्म्यहो । सुचिरं नावबोधितः किमर्थं पुरुषोऽसौ शयानं मां चकर्ष ।

सावित्री – प्रिय । किं त्वं स्वप्नं दृष्टवानसि ? उत सत्यं ब्रवीषि ?

सत्यवान् – देवि । मम नाम सत्यवान् । सत्यं ब्रवीमि । एषः स्वप्नः नहि । अतिभीकरं स्पृहणीय-रूपिणं पुरुषं सूर्य-प्रभा-भास्करं श्यामाकृतिं समक्षम् अपश्यम् ।

सावित्री – पुरुषर्षभ, ममाङ्के सुचिरं त्वं प्रसुप्तोऽसि । सः प्रजासंयमनः यमः देवः । सः महाभागः गतः । विगाढां शर्वरीं पश्य ।

सत्यवान् – देवि, सुमध्यमे । त्वया सह फलाहारार्थं निष्क्रान्तः । काष्ठं पाटयतः मे शिरसः रुजाऽभवत् । शिरोभितापसन्तप्तः चिरमशक्नुवन् तवोत्सङ्गे प्रसुप्तोऽस्मि । जानाम्यहं सर्वम् । त्वया उपगूढस्य मे मनः निद्रापहृतम् । ततः अपश्यं तमोघोरं पुरुषं महौजसम् । देवि यदि त्वं जानासि, किं तद् ब्रूहि मे । दृष्टः यदि स्वप्नः ? नोचेत् सत्यमेव तत् ।

सावित्री – अनघ । श्वः ते सर्वं यथावृत्तम् आख्यास्यामि । अत्तिष्ठ । भद्रं पितरौ ते पश्य । रजनी विगाढा । दिवाकरः निवृत्तः । नक्तञ्चराः चरन्ति । मृगाः विचरन्ति । दक्षिणस्यां दिशि उग्राः शिवाः घोरं विरुवन्ति । मे मनः कम्पते ।

सत्यवान् – देवि । इदं वनं घनेनं तमसा धृतम् । पन्थानं न विज्ञास्यावः । न शक्ष्यावः गन्तुम् ।

सावित्री – नाथ । श्वः प्रभाते गच्छावः । इह वसावः । यदि रुचितं वनमिदं ते, क्षपाम् एकां यापयावः ।

सत्यवान् – सावित्रि । मे शिरोबाधा निवृत्ता । मेऽङ्गानि स्वस्थानि लक्ष्यन्ते । अधुना माता पितृभ्यां मिलितुमिच्छामि अत्रैकं क्षणम् अपि न स्थास्यामि । माता वृद्धा । पिता वृद्धः । अहमेव तयोः यष्टिः यदि तौ मामाश्यन्तौ कामवस्थां गमिष्यतः । मातापितृभ्यां विना नाहं जीदितुमुत्सहे । तौ द्वौ मया भर्तव्यौ । तयोः प्रियं कर्तव्यमिति जानामि सावित्री । पित्रोः दर्शनं कामये । गच्छावः आश्रमान्तिकम् ।

सावित्री – (उत्थाय केशान् संयम्य पति बाहुभ्याम् उत्थापयति । सत्यवान् उत्थाय पाणिना अङ्गानि प्रमृज्य सर्वाः दिशः समलोकयाति) प्रिय । श्वः फलानि आहारिष्यसि ? ते योगक्षेमार्थम् । एतं ते परशुम् अहं नेष्यामि । (इति परशुं गृहीत्वा पुनः भर्तुः सकाशमागत्य वामस्कन्धे भर्तुः बाहुं निवेक्ष्य दक्षिणेन तं परिष्वज्य प्रस्थिता)

सत्यवान् – देवि । अहं स्वस्थोऽस्मि । बलवानस्मि । उभो पितरौ दिदृक्षुः अस्मि । (इति प्रस्थितौ)

(यवनिका पतति)

**************************************************************

.

]