[[कचदेवयानीयम् Source: EB]]
[
॥ कच-देवयानीयम् ॥
विद्यापरिसमाप्त्यर्थम् । नाट्य-सर्व-कलानिधिम् ।
संसार-सुख-दातारम् । कविं वन्देऽसुराधिपम् ॥
(नान्द्यन्ते)
सूत्रधारः – (नेपथ्याभिमुखं विलोक्य) आर्ये इतस्तावत् ।
नटी – आर्य इयमस्मि ।
सूत्रधारः – विस्मयमुखाऽसि किं विवक्षसि ?
नटी – इच्छाम्यार्येण सार्थकचदेवयानीयं नाम नाटकं प्रदर्शयितुम् ।
सूत्रधारः – किं गीर्वाणान्ध्र भाषाप्रवीणेन परीक्षित् शर्मणाप्रणीते परीक्षिन्नाटकचक्रे, विराजमानं कचदेवयानीयं नाम नाटकम् ?
नटी – आम् तदेवनाटकं, यत् शृङ्गार सङ्गीत प्राधान्येन विरचितम् ।
सूत्रधारः – शृणु ।
सङ्गीत-रम्या कचदेवयानी । विभाति शृङ्गार-रसप्रपूर्णा ।
नटी नटानां सुलभाभिनेया । पद्यश्रियाऽभूषित-सन्निवेशैः ॥
नटी – (आकर्णनमभिनीय) आर्य समर दुन्दुभयः प्रताडयन्ते ।
सूत्रधारः – (आकर्ण्य) आम् सुराऽसुराणां सङ्कुलसमरो भवति ।
नटी – आर्य, समर शब्द श्रवणात्, मम भीतिः सञ्जायते । शीघ्रं गच्छावः एहि ।
सूत्रधारः – आर्ये, इतः पश्य । गुरुपुत्रः कचाख्यः शुक्राचार्य-निकेतनं गच्छति । एहि आवां गच्छावः (द्वावपि गच्छतः)
(शुक्राचार्यगृहं अतीव कलात्मकं सकल सुखदं, नयनानन्दकरं भाति । शुक्राचार्यः आसव पात्रेण सहोऽपविष्टः राजते । ततः प्रविशति ब्रह्मचारी कचः )
कचः – अहो सकलकलापरिपूर्णमिदं शुक्राचार्यनिकेतनमिति आसव गन्धेनैव ज्ञायते । अपिच ।
भाति होमाग्नि-सन्दीप्तम् । क्वचित्पुष्पासवाऽविलम् ।
रजोगुण-समाकीर्णम् । कवेस्सद्म कलामयम् ॥
(समन्ततः विलोक्य एकत्रोपविष्ठं शुक्राचार्य दृष्ट्वा आत्मगतं) अयं वर्चस्विनां वर्चस्वी, सौन्दर्यमय मूर्तिश्च । अयं संसार सुखदायकः । कलत्र भाव प्रदीपकः । नाट्यगान कलाभिनियन्ता । अपिच ।
कलाप्रभावेन मनोज्ञमूर्तिः । सान्तत्य-संसार-सुखात्तकीर्तिः ।
एकत्र-मूर्तीकृत-राजनीतिः । विराजतेऽयं मधु-शुक्रमूर्तिः ॥
(शुक्र समीपं गत्वा) अहं भोः अभिवादये । (इति साष्टाङ्गं प्रणमति)
शुक्रः – (किञ्चित् आसवं पीत्वा) मनोरथ सिद्धिरस्तु । (इति हस्तमुद्यभ्य आशिषः ददाति) कस्त्वम् ?
कचः – कचाख्योऽहं गुरोः पुत्रः । ब्रह्मचर्याऽश्रमे स्थितः ।
कवेः शुश्रूषया सत्यम् । ज्ञानमाप्तुमिहागतः ॥
शुक्रः – सुरगुरोः बृहस्पतेस्तनयः कचाख्यः ? स्वागतं तेऽस्तु ब्रह्मचारिन् ।
कचः – अनुगृहीतोऽस्मि कवे ।
शुक्रः – प्रतिगृहणामि तेवचः । अपिच त्वां अर्च्यं अर्चयिष्ये, तस्मात् बृहस्पतिः अर्चितोऽस्तु । उपविश ।
कचः – महौजसां सन्निधौ माभूदविनयः ।
शुक्रः – अरे त्वं गुरोः पुत्रोऽसि । वरिष्ठोऽसि । उपविश ।
कचः – कवे, शिष्यस्तेऽहं । भवतां शुश्रूषया विद्यामभ्यस्तुं समागतोऽस्मि ।
शुक्रः – (किञ्चित् सुरां निपीय) सकल विद्यापारङ्गतस्य सुरगुरोः पुत्रोऽसि । किं मत्तः ज्ञानार्जनमिच्छसि ?
कचः – भार्गव, सर्वः सर्वं न जानाति । मुखे मुखे सरस्वती भाति ।
शुक्रः – अरे कच त्वमतीव बुद्धिमानसि । (इति अट्टहासं करोति)
कचः – बुद्धिः शास्त्रोल्लीढा तेजोमयी भवति ।
शुक्रः – अरे कत, किन्ते वाक् चातुर्यम् । त्वमतीव वाङ्गमी । अपिचेदानीं मम हृदयालवालेऽङ्कुरायसे ।
कचः –उशनः, न केवलं बुद्धिचातुर्येण प्रयोजनं, किन्तु उद्यमशीलेन भवितव्यम् ।
शुक्रः – कच, त्वं ग्रहण धारण पटुरसि । ब्रह्मचारी असि । ब्रह्ममयेन तेजसा प्रज्वलसि । अवश्यं ते कामना सफली भविष्यति ।
कचः –महतां सेवया श्रद्धयाच ज्ञानार्जनं भवति । भवतां सेवया नूनं विद्याधिको भवेयम् ।
शुक्रः – कच, श्रुणु ।
गुरुभार्गवयोर्मध्ये । बद्धवैरोस्ति सर्वदा ।
तथापि त्वां ग्रहिष्यामि । शिष्यरूपेण बालक ॥
अवश्यं तव कामनां पीरयिष्यामि ।
कचः – अहो मे भाग्यमेतत्किम् । सत्यमेवाभिभावना ।
पुष्पिता फलिताजस्रम् । सुराऽमोदं विधीयताम् ॥
शुक्रः – बाल, प्रमुदितोऽस्मि । न ते संशयो भवतु ।
कचः – किं ते प्रियं करवाणि भार्गव ।
शुक्रः – शीलदाक्षिण्यमाधुर्यैः । गुणैराचारपूरितैः ।
ब्रह्मचर्येण वर्तस्व । नित्यसेवारतः परम् ॥
कचः – अनुगृहीतोऽस्मि गुरो। (इतिप्रणिपत्य गच्छन्) भार्गव सर्वदा लोकः अन्योन्य स्वीकार प्रदानेन समानत्वं भजते । यतः ।
महीतले किन्तु रसातलेपि । खगोलदेशे प्रविराजमानाः ।
ग्रहास्सदा स्वीय रुचाम्प्रभावैः । परस्पराधीन रता भवन्ति ॥
शुक्रः – वत्स, मधुरमुक्तं भवता । (इति अट्टाहासं करोति, कचः निर्गच्छति)
(यवनिकापतति)
***********************************************************************
.
॥ द्वितीयं दृश्यम् ॥
नाट्यमन्दिरे सङ्गीतशाला । देवयानी (एकत्रोपविश्य गायति वसन्तरागेण)
गीतम्
1 स्मररे स्मर रतिपतिं स्मर । अबलां मां नहि रे विस्मर ॥ धृ. ॥
2 अभिनव यौवन मधुराहम् । अविदित नूतन भावाऽहम् ।
कथमिह सेहे चित्तजबाधाम् । कस्मै वक्ष्ये दुर्भर बाधाम् ॥
3 अनितर विकसित यौवन लीला । अधिगत भावज चिन्तन शीला ।
रसमय चेतसि मधुमय कविता । निरवधि कलरव काकली-कलिता ॥
4 सततं सुखमय जीवनचालिनी । निर्दय सुमशर चिन्ता तापिनी ।
अविदित पूरुष सङ्गम भाविनी । गाढालिङ्गन चुम्बन कामिनी ॥
(कचः पत्रपुष्पफलैः समागत्य, देवयान्याः गायनसमये एकत्र पार्श्वे तिष्ठति गीतावसाने)
कचः – अये शुक्राचार्य कन्ये देवयानि ! मधुरङ्गीतं भवत्या । अतिरुचिराणि, मनोहराणि, फलपुष्पाणि, समाहृतानि मया, गृहाण । (इति तस्यै ददाति, देवयानी उत्थाय प्रेम्णा तं पश्यन्ती गृह्णाति)
देवयानी – कच ! एतानि कुसुमानि परिमलभरितानि, अतिसुन्दराणि, मनोहराणि । एतानि फलानि अतिरुचिराणी स्वादिष्टानि समाहृतानि भवता । (इति सर्वाणि जिघ्रति)
कचः – गुरुपुत्रि ! कर्तव्यं अनुष्ठितं मया । अत्र न मे विद्यते कृतिः । अस्यां नगर्यां सर्वाणि मनोज्ञानि रुचिराणी भवन्ति ।
देवयानी – कच ! त्वं किं वदसि ? अत्र सर्वाणि मनोज्ञानि रुचिराणि भवन्तीति ?
कचः – आम् एवम् ।
देवयानी – कच ! त्वं बहु सरसः । सर्वं साभिप्रायं वदसि ।
कचः – विद्यमान रहस्यं कथयामि ।
देवयानी – मे चित्तवृत्तिं त्वं सर्वथा जानासि । तस्मात् गन्धिलानि अति परिमलानि पुष्पाणि, स्वादु रसप्रपूर्णानि फलानि, समाहृत्य प्रत्यहं ददासि ।
कचः – अत्र अचेतनमपि, चेतनं भूत्वा, रसभरितं भवति देवयानि ।
देवयानी – साधु भणितं भवता । आगन्तारोण्यत्र रसप्रपूर्ण हृदयाः भवन्ति ।
कचः – एतत् सर्वं शुक्राचार्याणां महिम्ना हरितं, रसमयं सुफलं च भवति ।
देवयानी – कच ! त्वं रसज्ञः । किं त्वं जानासि सङ्गीत नाट्यादिकम् ?
कचः – ममलोके देवाः सर्वेऽपि, ललितकलानिष्णाताः भवन्ति । तत्सर्वं जन्मतः सर्वेषां सक्रामितं भवति ।
देवयानी – तर्हि, सर्वदा त्वं मयासाकं नृत्तवाद्यगीतैः कालंयापय। मां परितोषय ।
कचः – मदपेक्षया भवती सरसा कलावती ।
देवयानी – भवतुनाम । कलाः स्त्री पुरुष संयोगात् रसप्लाविताः भवन्ति ।
कचः – साधु भणितं भवत्या। तत्र भवतीं सङ्गीत नाट्य वादनैः दिवा रात्रं तोषयिष्यामि।
देवयानी – कच ! प्रकृत्यां सुन्दरं दृश्यं विलोकयन् सुधास्यन्दिनीभिः कविता वचनैः हिन्दोलरागमालप ।
कचः – देवयानि श्रुणु ।
गीतम्
मम् कविता सारासारं । तव हृदये स्मर वारंवारम् ॥ धृ ॥
1 तव चञ्चल-यौवन-हेला । मधुराऽपूरित कविता-लीला ।
नितरां प्राकृत-शोभा-तरला । सुखदा भवति च सततं विमला ॥
2 चित्रित-तारा-भासिनी । सुन्दर-शशिना-हासिनी ।
धवलित-शारद-रजनी । व्यथयति हृदयं भामिनी ॥
3 शीतल-मलयानिल-शालिनी । मे हृदयान्तर-सन्तत-कामिनी ।
ललित-कलायम-जीवन-कामिनी । हृदयं व्यथयति मानिनि ॥
देवयानी – कच, त्वदीय कविता चातुर्यं, कण्ठगत स्वर माधुर्यं च, सकल कलाजन चित्ताऽकर्षके भवतः ।
सुधालिप्तेन रागेण । कृताऽहं भाव रागिणी ।
विना सङ्गीत-साहित्यम् । जीवनं भाति पाशवम् ॥
कचः – देवयानि ! भवती गुरुपुत्री । सकल कला प्रवीणाऽसि । त्वमपि गायं गायं मे हृदयानन्दं कुरु ।
देवयानी – कच केन रागेण गातव्यम् ?
कचः – भवती कलावती खलु, तस्मात् कलावती रागमालप ।
दवयानी – सखे कच ! श्रुणु ।
गीतम्
1 चिन्तय नूनं कविता गानम् । नितरां पिबमधुराऽधर पानम् ॥ धृ ॥
2 यौवन-मद-भरितं-हृदयम् । चिन्तय रसिकमनाः सदयम् ।
मन्मथ-हेवा-लसितं-मधुरम् । पिब सरसवचो मधुरम् ॥
3 चिन्तय मे पद-निचयम् । निवसतु सुतरामभयम् ।
सर्व-कला-कलितं-हृदयम् । जातं-रसमय-निलयम् ॥
4 मुञ्चति-मदनः कुसुम शरम् । पश्यत्याशा चतुरस्वरम् ।
समाहर कुसुमचयं प्रेम भरम् । शामय मदनं-हृदय हरम् ॥
कचः – भवती मूर्तीभूत कलावती असि । त्वं यौवनेन, नाट्येन, गानेन विलासैश्च आराधनीयाऽसि ।
देवयानी – कच, प्रतिक्षणं नृत्य गायन वादनैः मां परितोषय । पितरं सभक्तिकं शुश्रूषस्व ।
कचः – भवतीं सन्तुष्टान्तरङ्गिणीं कर्तुं सर्वथा कृतप्रयत्नोभवेयम् । भवत्यां तुष्टायां मे विद्या सफली भविष्यति ।
(नेपथ्ये बाले किं करोषि इति शुक्राचार्यः देवयानीं पृच्छति)
देवयानी – कच, तातपादाः आगच्छन्ति ।
(ततः प्रविशति शुक्राचार्यः ।)
शुक्रः – बाले ! उभौ सङ्गीतनाट्य वादनैः अन्योनं कर्तव्यं विस्मृत्य भावप्रपञ्चे विचरतः ।
कचः – अयि भोः भार्गव ! सेवया तत्र भवन्तं, गानेन देवयानीं च प्रतोषयितव्यं तन्मे कर्तव्यामिति तत्र भवता आज्ञाप्तोऽस्मि ।
शुक्रः – कच ! यदुक्तं त्वया तत् सत्यमेव । त्वं सकलकला प्रवीणोऽसि । मां सेवया, नाट्यगानवादनैः देवयानीं च सन्तोषयसि । अद्य प्रभृति गाः चारणाय नीत्वा विपिनं, ताभिस्साकं सायं निलयं प्रत्यागन्तव्यं इति अधिक सेवां ते प्रददामि ।
कचः – अयि उशनः । वः शासनं शिरोधार्यं भवति मे । अनुगृहोतोऽस्मि । (इति गच्छति । देवयानी शुक्रौ भूमौ उपविशतः)
शुक्रः – दुहितः । अद्यसायं वृषपर्वणः भवनं गन्तव्यं विद्यते । एषः राज्ञः आदेशः ।
देवयानी – असुराचार्याणां, शुक्राचार्याणां, वृषपर्वणः आदोशः शिरोधार्यः ? किमत्रविचित्रम् ? एतत् आश्चर्यं भवति मम ।
शुक्रः – राज्ञः आज्ञा अनुपालनीया । एषः राजादेशः । राजा प्रजा रक्षकः । तस्य आज्ञा सर्वेषां शिरोधार्या भवति । यदि प्रजाः तस्याज्ञां धिक् कुर्वन्ति तर्हि पालनाचक्रं अस्तव्यस्तं भविष्यति यतः ।
यथाऽर्क-भाससा-हीने । लोके ध्वान्तं भविष्यति ।
तथा राजाज्ञया-हीने । शुक्र-नीतिरियं श्रुणु ॥
(देवयानी अन्यत्र दत्तदृष्टिः भवति)
(तां विलोक्य) देवयानि ! ते हृदयमद्य विषयान्तरे संलग्नं भाति । किमत्र कारणम् ?
देवयानी – कचः कारणम् ।
शुक्रः – (आश्चर्येण) किं कचः कारणम् ?
देवयानी – (सङ्कोचमभिनयन्ती) नहि । किन्तु पितः ! कचः अनया विद्यया किं साधयिष्यतीति, विचारमग्ना सञ्जाताऽस्मि ।
शुक्रः – यत् अन्ये साधयन्ति तदेव सोऽपि साधयिष्यति । किमत्र ते विचारणीयं विद्यते ?
देवयानी – जनक ! किमर्थं वृषपर्वा आमन्त्रणं प्रेषितवान् ?
शुक्रः – असुरेषु कलयः सञ्जायते, तं कलहं प्रशामयितुं, राजा मम साहाय्यं अपेक्षते इति मे वितर्कः ।
देवयानी – कीदृश स्वरूपोऽयं कलहः ?
शुक्रः – बाले ! त्वं तव प्रश्न परम्परया मे शिरोवेदनां जनयसि । सर्वमेतत् असम्बद्धं अपिच असाम्प्रतं ते भवति ।
देवयानी – पितः ! अयं ते शिष्यः कचः अतीव सरसः । कलाप्रियः । प्रत्यहं तव सेवां करोति । गायति । नृत्यति । सः मे रोचतेऽत्यन्तम् । सोऽपि मयि स्निह्यति ।
शुक्रः – बाले ! उत्तिष्ठ । गच्छावः । माध्यान्हिकं निर्वर्तनीयं भवति । (इति गच्छतः )
(यवनिकापतति)
******************************************************
.
॥ तृतीयं दृश्यम् ॥
(उद्याने सायं समयः । देवयानी सख्या विलासिन्या सार्थं प्रकृति शोभां पश्यन्ती सम्भाषते)
देवयानी – सखि ! विलासिनि पश्य एते वातपोतकाः मन्दं मन्दं वहन्तः मे तनुलतां पुलकाङ्कुरैः कम्पयन्ति ।
गीतम् (काफीरागे)
1 सखि कुसुमे भ्रमरः मकरन्दम् । पिबति पदेपदे पश्य सानन्दम् ॥ धृ ॥
2 आनन्त्यं मलयानिलोयमखिलं । चुम्बति गात्रं क्षणेक्षणे चपलम् ॥
3 याचे नाहं किमपि मे जीवने । सेहे नाहं दर्पक बाधां यौवने ॥
4 वीक्ष्ये सुखदं गुरु-सुत-रूपम् । भोक्ष्ये मधुरं-रतिपति-रुपम् ॥
विलासिनी – (आश्चर्येण) देवयानि! त्वं कदापि मे नोक्तवती ते हृदयभावनाम्। अद्य जानामि ते हृदयवेदनाम्। कथ्यतां कोऽय कचः। का कथेयम्।
देवयानी – विलासिनि ! अयं सुरगुरोः पुत्रः ब्रह्मचारी । रतिराज सुन्दरः । समविभक्ताङ्गः । विनीतः। शीलवान् । सुशिक्षितः । कर्मसु कुशलः । गाननृत्य विद्या विशारदः । कामयेऽहन्तम् ।
विलासिनी – देवयानि ! कथमयं अत्रागतः ।
देवयानी – पितृपादानां सकाशे विद्यामभ्यस्तुं समागतः ।
विलासिनी – देवयानि ! यथा त्वं तस्मिन् लग्नाऽसि, तथा सः त्वयि लग्न चित्तः अस्ति किं ? कामना श्रृङ्गार रसप्रपूर्णा भवितुं, परस्परायत्त चित्त संलग्नमावश्यकं भवति । तादृश विवाहानुबन्धनं सुष्टु शोभते ।
परस्पर-प्रेम-रसाभिनीताः । भावाः परं वर्धित कामरूपाः ॥
आजीवितान्तं मधुरं प्रवृद्धाः । कुर्वन्ति कल्याण ममुत्रलोके ॥
देवयानी – सखि मयि सः अत्यन्तानुरक्तः । यत् अहं कामये तत सर्वं सः करोति । मयासह गायति । नृत्यति । वादयति च ।
विलासिनी – सखि ! एकत्रैवानुरागश्चेत् सः रसाभासः भवति । तस्मात् सः त्वयि लग्न चित्तः यथा भवति तथा कुरू । नोचेत् तत् कल्याणं न भवति ।
एकत्र भावनापूर्णम् । कल्याणं नास्ति भामिनी ।
कल्याणं सततं भाति । यत्रान्योऽन्यं मनोभवः ॥
देवयानी – सखि ! सः श्रृङ्कारभावपरम्पराभिसज्जित-रसप्रपूर्ण दृष्ट्या, मां सर्वदा सन्तोषयति । फलपुष्प पल्लवानि समानयति । मम कर्मणि सहायकः भवति । रहसि सकौतुकं पश्यति ।
विलासिनी – एतावन्मात्रेण सः त्वयि बद्धानुरागः इति कथं भाव्यते ।
देवयानी – आवयोः हृदये जानीतः विलासिनि । हृदये प्रणय वचनैः सगूढं रहसि भाषेते ।
विलासिनी – सखि! देवयानि ! त्वं न जानासि। सः देवकुमारः। भवती राक्षस गुरोः शुक्राचार्यस्य कुमारी। अपि च लोके एवं प्रथा विद्यते, यत् जन्मतः सुराऽसुराणां कलहः भवति, नतु कल्याणमिति।
देवयानी – विलासिनी! प्रेम जाति वर्गान् न जानाति।
विलासिनी – देवयानि! प्रेम इति न वक्तव्यम् । किन्तु कामः इति कथय ।
देवयानी – तथा किमर्थं वक्तव्यम् ।
विलासिनी – देवयानि ! प्रेमकामयोः महदन्तरं विद्यते ।
देवयानी – विलासिनी ! अङ्गीकरोमि ते वचनम् । कामः इति भणामि । कामः वर्णं न जानाति । यदि सः जानाति सर्वदा सर्वथा तृणी करोति तत् वर्णम् । कामः स्वच्छन्द वृत्तिः राजते ।
विलासिनी – यथा रोचते ते तथा कुरु ।
देवयानी – इतः पश्य सखि ।
सायं सन्ध्या-रक्तदेहोंशुमाली । रक्तः पूर्णं चुम्बतीहप्रतीचीम् ॥
गाढं श्रान्तः सर्व लोकः प्रयाति । स्वीयं गेहं पूर्णं सौख्यायतूर्णम् ॥
तरणिः पश्चिमाम्बुधौ पतति । एहि गच्छावः । अधुना कचः गोभिस्साकं प्रत्यावृत्तः भवति । तं द्रुष्टुं मे मनः त्वरयति । तस्य दर्शनेन विना स्थातुं न शक्नोमि । (इति निष्क्रान्ते)
(यवनिकापतति)
******************************************************
.
॥ चतुर्थं दृश्यम् ॥
शुक्रः – (भूमौ उपविश्य आसवं पिबति । देवयानी द्वारि स्थित्वा कचस्यागमनं निरीक्षन्ती तिष्ठति । गवां अम्बारावाः श्रूयन्ते)
देवयानी – (ससम्भ्रमं पितरमुपसृत्य) तात । गावः समागताः । किन्तु कचः न संलक्ष्यते । तात ते अग्निहोत्रः आहुतः । सूर्यश्चास्तङ्गतः । किन्तु कचः न सन्दृश्यते । तात वने व्याघ्रादयः विचरन्ति । तेभ्यः तस्य न किञ्चित् बाधा मा भूयात् इत्येवं मन्ये । जनक । तं विना नाहं जीवेयम् । सत्यं ब्रवीमि ते । सः ब्रह्मचारी । तपोधनश्च, सः कर्मसु दक्षः । तस्यागमन पर्यन्तं नाहं भोक्ष्ये । तस्यामार्गान्वेषणं करिष्ये । अयं मे प्रियवत्तमः । अभिरूपः । (इतिभयकम्पितारोदिति)
शुक्रः – पुत्रि मा बिभेहि । अयमापन्नः नहि अयं सजीनो बभूव ।
देवयानी – तात, किं भणसि ?
शुक्रः – प्रशान्तचित्ता श्रुणु भवती । अयं दानवैः गुरोः पुत्रः इति संहतः दग्धश्च । तत् दग्धचयं सुरायां मिश्रणं कृत्वा दानवाः मे अयच्छन पातुम् । अविचारः सुरालुपोऽहं तां सुरां अपिबम् । सः मम उदरे आसीत् । सः उदये मत्सकाशात् मृत सञ्जीविनीं विद्यां अभ्यस्य मदीयाऽज्ञया मे कुक्षिं विदार्य विप्रः बहिः निर्विचक्राम । सः जीवन आस्ते । बाले अद्य प्रभृति सुरापानमहं विसृजामि । सुरापायिनां मतिः मन्दः भवति इतिशपामि । कचः श्वः प्रभाते परिसमाप्त विद्यः त्रिदशालयं गच्छति । मा विचारय । मारोदि । बाले कचः आवां द्रष्टुं समागच्छति । पश्य ।
राहुमुक्त इवाब्जोऽसौ । निर्गतश्चोदरान्मम ॥
विराजते यथापूर्वम् । परिपूर्णं कलानिधिः ॥
देवयानी – तातगच्छाम्यहं सङ्गीत शालाम् । (इति निष्क्रान्ता) (ततः प्रविशति कचः)
कचः – भार्गव ! अभिवादये (इति नमस्करोति) भवतां अनुज्ञया, करुणया, कृपया, परिसमाप्त विद्यः अभवम् । मे मनः त्वरते त्रिदशालयं गन्तुम् । मां गन्तुमाज्ञापयन्तु भवन्तः।
शुक्रः – कच ! निष्कण्टकं अतिसुखदं ते मार्गं भवतु गच्छ । (इत्याशीः प्रददाति)
कचः – आचार्य, भगिनी देवयानी कुत्र ।
शुक्रः – कच ! देवयानी तवागमनं निरीक्षन्ती इदानीमेव सङ्गीत शालां गतवती । तत्र तां द्रक्ष्यसि ।
कचः – कवे ! गच्छाम्यहं तां द्रष्टुम् ।
शुक्रः – आम् गच्छ ।
(यवनिकापतति)
**********************************************************
.
॥ पञ्चमं दृश्यम् ॥
देवयानी – (सर्वालङ्कार भूषिता सङ्गीत शालायां उपविश्य आत्मगतम्) कचः त्रिदशालयं गच्छति । अधुना मत्समीपं समागमिष्यति । निर्भीका तमनुसरेयम् । यदि मयि सः अनुरक्तः वा न वा विचार्य, अनुरक्तश्चेत् परिणेतुं प्रक्ष्यामि । मयि अननुरक्तस्चेत् तं बलात् आलिङ्गय सुमुखमनस्कः करिष्यामि । यदि मां तिरस्करोति तर्हि तं शपेयम् । स्त्रीबुद्धिः प्रलयान्तका इति दर्शयेयम् । (ततः प्रविशति कचः)
कचः – देवयानि ! अहं समाप्तविद्यः । अधुना त्रिदशालयं गच्छामि । अहं तव दाक्षिण्येन अनुकम्पया स्नेहेन अनुगृहीतोऽस्मि । कथान्तरेषु स्मर्तव्योऽस्मि । नाहं विस्मरिष्यामि ।
देवयानी – कच! त्वं समाप्तविद्यः। मां भक्तां भजितुमर्हसि। विधिवत् मन्त्रपुरस्सरं मम पाणिं गृहाण। अहं त्वयि अनुरक्ता। त्वं ब्रह्मचारी असि। मयासार्धं वसन् मां सन्तोषयन् वादयन् मया नृत्यन् आसीः। त्वं मम हृदि सर्वदा निवससि।
कचः – सुभगे ! यथा तवपिता मम पूज्यः, मान्यः, तथा त्वं पूजनीयतरा असि । भद्रे त्वं पूज्या गुरुपुत्री । शुक्रः तव पिता, मम गुरुः ।
देवयानी – त्वं मे पितुः पुत्रः नहि । त्वं बृहस्पति पुत्रोऽस्मि । तस्मात् द्विजोत्तम त्वं मम मान्यः पूज्यश्च । कच ! त्वं न जानासि मे सौहार्दं, अनुरागं, उत्तमां मां त्यक्तुं नार्हसि । अहं त्वयि अनुरक्ता । (इति हावभावादिकं करोति, तस्य पाणिग्रहणं कर्तु उद्युक्ता भवति)
कचः– (किञ्चित् दूरं अपसृत्य) देवयानि ! त्वं धर्मतः मम भगिनी । त्वयि मे मन्युः न विद्यते । विशालाक्षि ! मां त्रिदशालयं गन्तुं आदिश । पथिमे शिवमाशंस । कथान्तरेषु धर्मस्य अविरोधेन स्मर्तव्योऽस्मि । सुभगे ! अप्रमत्ता मम गुरुं नित्यमाराधय ।
देवयानी – कच ! इयन्तं कालं त्वय्यहं अनुरक्ता, आसक्ताच । स्त्रीणां हृदयभावनां त्वमनभिज्ञोऽसि । त्वमरसिकोऽसि ।
सुन्दरं पुरुषं दृष्ट्वा । मनोभ्रान्तिर्भविष्यति ।
स्त्रीणां जगति सर्वसां । रसज्ञानां विशेषतः ॥
कचः – देवयानि ! अधर्मचारिणां कामुकानां इयं दुरवस्था भविष्यति, न मादृशानां ।
देवयानी – कोऽयमन्तरः कामुकानां, अपिच युष्मादृशानाम् ।
कचः – कामुकाः सत्वगुणरहिताः, विचारहीनाः, अत्रत्याः इव । प्रेमिकाः अतिशय सत्वगुणोपेताः तत्रत्याः इव । सर्वमेतत् त्रिगुणात्मक व्यत्ययरूपं भवति ।
देवयानी – कच ! त्वदीया कल्पना समयानुकूला । विरम ते भाषणम् । जगति स्त्रीणां स्वैरकामितं लघुरूपं न्यक्कृतरूपं च भवति पुरुषाणाम् । स्त्रीकामनां नधुनीहि । अमङ्गलं तत् ते भवति । अरे कच ! किमर्थं अप्रस्तुत सल्लापैः कालं व्ययं करोषि । एहि ।
कवोष्ण-चुम्बनैस्तूर्ण । गाढाऽलिङ्गन सौख्यदैः ।
कुरूरे मे कुचद्वन्द्वम् । चूर्णं निष्पीडनैः कच ॥
(इति कचं गाढमालिङ्गतुमिच्छति)
कचः – (क्रेधेन) पुँश्चलि ! अविनयं चरसि । अपक्रमं विधीयसे शुक्राचार्याणाम् । नगुरुद्रोही भवेयम् । कामः अन्धः भवति । सः किङ्कर्तव्यं किं अकर्तव्यं न जानाति । धर्मः तेजस्वी भवति, विचार विचक्षणः भवति ।
देवयानी – शुक्राचार्याणां गेहः कलाविलसितः । एतत् स्थानं कलास्थानं, कलत्र स्थानञ्च। अत्र शुक्रदृष्टिः अवश्यं भविता।
कचः – देवयानि! सर्वदा मम गुरुदृष्टिः विद्यते। न कापि हानिः भवति मे । गुरुः सङ्कटनिवारकः ।
देवयानी – कच, त्वं छान्दसः, मूर्खः । त्वं याचितः मया, यतः धर्मकामार्थे प्रत्याख्यास्यसि ततः न ते विद्या सिद्धिं गमिष्यति । (इति शापं ददाति ।)
कचः – देवयानि, गुरुपुत्रीति कृत्वाहं प्रत्याचक्षे । भवत्याः यः कामः सः न तथा भविष्यति, यथा ते पाणिं ऋषि पुत्रो ग्रहिष्यति । त्वं मां आत्थ, न ते विद्या फलिष्यति इति । तस्मात् विद्यामेनां अध्यापयिष्यामि यस्मै कस्मै, तस्य विद्या फलिष्यति । (इतिशण्त्वा त्रिदशालयं गच्छति कचः)
देवयानी – (रुदन्ती) अहो मे दौर्भाग्यम् ।
निराश्रया मे भुवि यौवन-श्रीः । गतं वयः प्रेम-रसं विनैव ।
निकेतनें तिष्ठति भार्गवश्च । तथापि भोक्तव्यमहो स्वकर्म ॥
मम सर्व यत्नः शिथिलितः । सर्वा मे यौवन श्रीः निराश्रया । धिक् मे यौवनम् । धिक् मे जीवनम् । (इति रुदन्ती गच्छति)
(यवनिकापतति)
********************************************************
]