रतिमन्मथनाटकम्‌

[[रतिमन्मथनाटकम्‌ Source: EB]]

[

श्री श्रीमत्पण्डितजगन्नाथविरचितं रतिमन्मथनाटकम् ‌ । प्रस्तावना। साकूताः शशिशेखरे सुरसरित्याविष्कृतानादराः स्मेरा भृङ्गिरिटावनन्यशरणे दीने दयामेदुराः॥ वात्सल्यप्रचुराः प्रसूनविशिखे रत्यां प्रसादोत्तराः कल्याणानि तरङ्गयन्तु जगतां मातुः कटाक्षाङ्कुराः॥ 1 ॥ ( नान्द्यन्ते —) सूत्रधारः –( नेपथ्याभिमुखमवलांक्य ) आर्ये ! नन्वस्यास्तञ्जानगरकञ्जातकलहंसमुदृशो भाविकजनभावुकवितरणकल्पवल्ल्यास्त्रिलोकमानुरानन्दवल्ल्यास्तावद्वसन्तोत्सवे ससन्तोषमशेषदिगन्तोपसेदुषाममीषां रसिकविदुषामनुरञ्जनानुरूपं किमिव रूपकमिति निरूपयतोऽपि सुचिरं न विश्राम्यति मे चेतः। नटी — अज्ज ! सन्तेसु वि सअललोअहियआनन्दणधुरंधरेसु विविहेसु णिबन्धणेसु किं ति पज्जाउलं अज्जस्स माणसम् ‌ । (2) सूत्रधारः — आर्ये शृणु तावत् ‌ । शब्दाडम्बरसस्पृहाः कतिपये केऽप्यर्थचित्रैषिणिः के चित्ताद्द्वितयोत्सुका वशयितुं शक्याः प्रवाचा ह्यमी॥ ये तावद्रसिका रसोत्तरगुणग्रामाभिरामां परं श्लाघन्ते फणितिं भवेन्न सुकरं तेषां समाराधनम् ‌ ॥ 2 ॥ किं च —- नवनवसुदृग्विलासैर्ननूत्सुकाः कामिनो यथाऽनुदिनम् ‌ ॥ एवमपूर्वासु कृतिप्वादरवन्तो हि रसयितारः॥ 3 ॥ नटी —-( सचिन्तम् ‌) किं णाम तारिसं होदु। (3) सूत्रधारः —-( स्मृतिंमभिनीयं सानन्दम् ‌) हन्त ! निजनाभिगतमेव सौरभमविज्ञाय परितो मृगयमाणस्य तदुद्भवं मृगनाभि मृगस्य पदवीमदवीयसीं कृतवतो मे नैपुप्यम् ‌ । यदत्र कण्ठवर्तिन्यपि सुवर्णाभरणे निखिलगुणशृङ्गाटके रतिमन्मथनाम्नि नाटकेऽन्यतो गवेप्यते। नटी —( सकौतुकम् ‌) केहदु अज्जो कस्स कइणो ईरिसं एदं वाआविलसिदं ति। (4) सूत्रधारः —-( सपरितोषम् ‌) आर्ये ! दीयतामवधानम् ‌ । अन्येन्द्रं जगदस्थितेन्द्रमपि वा कर्तुं प्रगल्भेन्वये संभूतो ननु बालकृष्णसचिवोत्तंसस्य रूपान्तरम् ‌ ॥ लक्ष्म्या वा हृदयाब्धिशीतकिरणो लोकेऽभिगम्यः सतां मस्तन्यस्तपदो गुणैरिह जगन्नाथाभिधानः कविः॥ 4 ॥ नटी —-( सगौरवम् ‌) अज्ज तह महाकुलीणो णं एसो। (5) सूत्रधारः — अथ किम् ‌ । नटी — अज्ज जाणामि से देसिएहिं वि महप्पेहिं होदव्वम् ‌ । ( ) सूत्रधारः —( सश्लाघम् ‌) आर्ये ! निपुणमुपन्यस्तम् ‌ । जिह्वारङ्गस्थवाणीनखविहृतिरणद्वल्लकीनादभैदै - र्दृग्लीलाधीनलक्ष्मीकरकमलमधुस्वादिमाद्वैतवादैः॥ चेतःक्रीडामृडानीकरभरकलितामन्दमन्दारगन्ध - प्रख्यामोदैर्वचोभिः सुरभिरिह गुरुः सैष कामेश्वरोस्या॥ ॥ नटी —-( सशिरःकम्पम् ‌) अज्ज ! कदरस्स रण्णो आणाधुरीणो एसो। (7) सूत्रधारः —-( सबहुमानम् ‌) अस्त्याधारधुरंधरः स्वशरणावाप्तस्य नीरन्ध्रता – दुर्भेदो मधुपव्रजेन गुणयन्नित्योपजीव्योच्छ्रयः॥ वंशोऽसोसलभूभृतोऽधिवसुधं चोलप्रदेशार्पित - ज्याचक्रीकृतचापदर्शननमत्प्रत्यर्थिपृथ्वीपतिः॥ अश्रान्तप्रतिपादनामृतझरीनिर्वापितार्थिव्रजो - ऽकिंचन्योद्धुरसंज्वरो भुवि जयत्योकोवनीचन्द्रमाः॥ 7 ॥ स तावद्राजशिरोमणिरुपजीव्यते येन जगता च सर्वेण। नटी -( सवितर्कम् ‌) अज्ज ! अण्णं दाव जाणिदव्वं अत्थि मे जं किल सअलकलाकलावमण्डिदा वि एसा पंडिदमंडली कहं अहोहिं परितोसणिज्जेति ( 8) सूत्रधारः — आर्ये ! कृतमाशङ्क्या इयमेव महतां शैली यदन्यदीयस्य गुणपरमाणोरपि पर्वतीकरणम् ‌ ! प्रतीपं पुनरन्येपाम् ‌ । पश्य। धारा अपि धाराधरगलिता धन्वन्यभावमुयान्ति॥ रत्नाकरे तु दधते दभ्रा अपि विप्रुषो मणीभूयम् ‌ ॥ 8 ॥ नटी —-( सहर्षसंभ्रमम् ‌) अज्ज संपण्णाए वि ईरिसीए सामग्गीए किं ति सभाजणसभाअणे विलम्बीअदि ( 9) सूत्रधारः — आर्ये तावदिममेव संनिहितमुल्लसन्तं सुमनःसंपदावसन्तमृतुं विषयीकृत्य संगीतिरङ्गी क्रियताम् ‌ । अधुना हि - कीराणामुदितं कुलैः पिकमुखात्प्रोदञ्चितं पञ्चमैः स्वैरं चन्दनशैलकन्दरचरैर्मन्दानिलैः स्पन्दितम् ‌ ॥ संवर्षादिव पुष्पितं क्षितिरुहैर्भाग्यैः समुन्मीलितं भृङ्गाणां च तथा मनोरथशतैर्यूनामनूनायितम् ‌ ॥ 9 ॥ नटी — तह ( 10 ) ( इति गायति ) एदस्सिं णिहिदभरो सइवे कुसुमाअरे विहू मअणो। सुअरत्तिलोअविअअवावारो रइपरो जअदि ( 11 ) ॥ 10 ॥ सूत्रधारः —( सानन्दम् ‌) आर्ये ! सुश्लिष्टमिदमविगीतं तव गीतम् ‌ । यदत्र मन्त्रिणा वसन्तेनोदूढकर्तव्यभूयिष्टधूस्तया लघूकृतस्वव्यापारभारो मन्मथो निरन्तर सुखपरश्च। तत्र भवतो रागस्य दुहितरि रत्यां च तत्पर इति द्वेधासूचितमभिधेयम् ‌ । तन्नियोजय न चिरात्तत्तद्भूमिकापरग्रहाय सकलं शैलूषजनम् ‌ । अहमेव सहमारिषेण समाददे सनर्मसचिषस्य मन्मथस्य नेपथ्यम् ‌ । त्वमपि रत्याः। नटी —- जं आणंवेदि अज्जो। (12) ( इति निष्क्रान्ता ) सूत्रधारः — एषोस्मि मन्मथः संपन्नः। ( प्रविश्य ) नटः — अहमपि विदूषकः। इति प्रस्तावना। —-0:0— ? 0 प्रथमोङ्कः। मन्मथः —( परिवृत्य विदूषकेण सहासने समुपविष्टः सीत्कण्ठमात्मगतम् ‌) रथ्यायां चरता मया सकुतुकं ह्यः सौधमासेदुषी दृष्टा स्थेमवतीव विद्युदपरिभ्रशेव तारा दिवः॥ मृद्वी हेमलतेव लोलनयना काप्यङ्कुरद्यौवना यस्याः प्रेक्षितविभ्रमैर्ववृतिरे स्मेरोत्पलिन्यो दिशः॥ 11 ॥ ( इति पारवश्यं नाटयति ) विदूषकः —- वअस्स ! अहिगअपरमत्थसुहो विअ किं वि पइझाअंतो दीसई भवम् ‌ । (13) मन्मथः —( अनाकर्णितकेन स्वगतं पुनस्तदेवाम्रंडयति ) विदूषकः —( आत्मगतम् ‌) अह्मो मए वहिरस्स कण्णे गीदम् ‌ । ( प्रकाशम् ‌ । मन्मथं हस्तेन चालयन् ‌) वअस्स ! किं अरण्णचन्दिआ मह भारई ( 14 ) मन्मथः —( आकर्ण्य ) सखे ! किमाह भवान् ‌ । विदूषकः —( स्वगतम् ‌ ) अणुविहिज्जंतो ख्खु एसो मं एव्व आआसइस्सइ ता ताव उवक्कमामि ( प्रकाशं साक्षेपं ) वअस्स सअलभूवणव्वामोहआरिणो तुह विसंमोहइति आइत्थि अतिमित्था दाव एदम् ‌ । ( 16 ) मन्मथः —- सखे ! मैवम् ‌ । कामं सन्तु जगत्र्रये मृगदृशो यासां विलासाद्भुतै - रुन्माद्यन्ति तपस्विनोपि नियमानुत्सृज्य नैषा तु ताः॥ केनासौ निरमायि वा कृशतनुर्यन्नेत्रपझाञ्चल - स्पन्दादेवहि मन्मथस्य जनितो मे मन्मथोऽन्यो हृदि 12 विदूषकः — वअस्स ! कामुअस्स खु अप्पाहिमदेव अबला अच्चरति अभाणुओ णं लोअस्स। ( 17 ) मन्मथः — सखे ! किं मां मृषावादिनमाशङ्कसे ? । विदूषकः —- वअस्स ! होदु णाम सच्चवअणो भवम् ‌ । णहरसोहग्गविलोअणकोदूहलेण सोहग्गदोपरिदोविदिण्णदिठ्ठिए ताए णाअरमहिलाए सहावपवुत्ताणं वि पेख्खिदविभ्भमाणं अप्पाणं एव्व गोअरं संभाविअ किं ति एदावं संतप्पसि। ( 18 ) मन्मथः — अये यथाजात ! किं मां ग्रामीणमवगच्छसि ? । निशयम तावत् ‌ । मामन्यत्र वलदृशं मृदुतनुः स्वैरं लुलोके रसा - न्मय्यालोककनसस्ष्टहे तु विदधे संकोचलीलां दृशोः। सा सख्यन्तरिताभवत्सविधगे वाहस्य धारावशा - च्चक्रे दूरगते च सौधमुदयच्चन्द्रं समुत्कन्धरा॥ 13 ॥ विदूषकः — वअस्स ! एवं वि णाम अविण्णादकुलसीलाए संसइदपाणिग्गहविहीए परवदीए तीए दिठ्ठमेत्तएका विअ तुझ पच्चासा। ( 19 ) मन्मथः — अतएव हि संतप्यते। विदूषकः — वअस्स ! किदं संदावेण। अहं तीए अहिजादाए संमाणइस्सं वअस्सं। ( 20 ) मन्मथः —-( सस्पृहम् ‌) सखे ! कथमिव ? । विदूषकः — वअस्स ! परिणिठ्ठिदोह्मि अट्टसु वि जोतिससिइझंतेसु अदो सअलेहिं वि णाहरेहिं तेसुतेसु अभ्भुअअकज्जेसु अवस्सपुच्छिदव्वस्स मह सुअरदा दाव घडिदसव्वस्सलाहकहणेण तुह्माणं दोणं वि अण्णुण्णसंघडणा। ( 21 ) मन्मथः —( विहस्य , स्वगतम् ) अलंकारोयमीदृशानां यदसबद्धव्यवहारितेति ( प्रकाशम् ‌) सखे ! जानामि ननु तव नैपुण्यम् ‌ । कथयतावदपि कश्चिदस्त्युपायस्तस्या हृदयंगमाया ’ सविशेषदर्शने ? । विदूषकः —( सीत्प्रासम् ‌ ) वअस्स ! मह वि कालत्तअदंसणविअढ्ढस्स बह्मणस्स किं णाम अविण्णादव्वं अत्थि। ( इति ध्यायन्निव क्षणमवस्थाय ) वअस्स ! दिठ्ठो खु मए तुह हिअअवल्लहाएदंसणजोओ। (22) मन्मथः — सखे ! कीदृशोसौ ! विदूषकः — वअस्स ! मए दाव दिअहविसेसेसु समिक्कुसाहलणकालणादो इदो संणिहिदस्स एव्व णंदणुज्जाणस्स पेरते पडिभ्भमंतेण तत्थ जदिच्छाए मिलिअ किलंतिओ अण्णुण्णसरिसिओ णाअरकण्णआओ पेख्खिअंति तक्केति कदाइ सावि अहिजादा आअच्छन्ती होज्जइ। ( 23 ) मन्मथः –( सौत्सुक्यम् ‌) सखे ! समुत्पादितकुतूहलोस्म्येवंवादिना भवता नन्दनोद्यानगमनाय ( इति करलालितशुको घुटिकामुपादाद तिष्टन् ‌ , विदूषकं प्रति ) सखे ! गच्छाग्रतः। विदूषकः —( स्वगतम् ‌) कीलुप्पाडिणा कीसेण विअ सअं एव्व मए संपादिओ खु एसो अणत्थो , का गई। ( प्रकाशम् ‌) इदो इदो वअस्सो। ( 24 ) ( इत्युभौ परिक्रामतः ) मन्मथः —( पुरी वितीर्णचक्षुः ) सखे ! पश्य तावदस्यारामस्यरामणीयकम् ‌ । कुन्दैरङ्कुरितं नवैर्विहसितं लोघ्रैरिहोत्केसरै - र्वासन्तीभिरुदञ्चितं बहलितं यत्पाटलाभिः स्वयम् ‌ । नीपैर्मेदरितं भ्रमन्मधुकरैरम्भोरुहैर्जृम्क्षितं संकेतस्थलमित्यवैमि तदितं षण्णामृतूनामपि॥ 14 ॥ ( इति पक्षद्वारेण नन्दनवनप्रवेशं नाटयित्वा सर्वतो निरूपयन् ‌) अहो मन्दारप्रभृतीनां महाभाग्यम् ‌ । यतः — सिन्धोर्जम््म सुरेन्द्रधाम्नि वसतिर्लक्ष्मीः स्वयं सोदरा रूपं त्वद्भुतसर्वरत्नसुभगं पीयूपगर्भं फलम् ‌ । एतेषां सुरशाखिनां ननु सखे कान्या स्तुतिः स्यादतो यल्लोके यदुपज्ञमेव महतामौदार्यधुर्यं यशः॥ 15 ॥ अपि तावदमी समीहितदानशौण्डा मनोरथं मे पूरयिष्यन्ति। विदूषकः — मह वि णाम हिअअप्पमोदहेइं मोदएहिम् ‌ । ( 25 ) मन्मथः — सखे ! इतो मुखरिता पिकैर्नवरसा रसालच्छटा विखण्डितफला शुकैरिह च दाडिमीवीथिका। प्रनृत्तशिखिमण्डलात्र च विभाति नीपावलि - र्भ्रमद्भ्रमरमालिका बकुलपालिका नोग्रतः॥ 16 ॥ विदूषकः —( सर्वतो विलोक्य ) वअस्स ! दाणिं खु ण का वि एत्थ दीसीई। तुमं द व भमररेहंचिअचरणो विअ परिदोविभ्भमंतो ण काहिं वि चिठ्ठसि। मह उण रख्खसिए विअ बुभुख्खा ए पज्जाउली किस्स पादा अग्गदो ण प्पसरंदि। ता एत्थ एव सिणिद्धछाए कअंबतरुमूलंमि विस्समिस्सं। वणभोअणमिलिआणं विअ बह्मणाणं मंतइझुणी सुणीअदि ता अणुमष्णदु मं वअस्सो तहिं गमणस्स। ( 26 ) मन्मथः —- सखे ! दुर्निरोधसमुत्साहोसि विदूषकः — वढ्ढदु भवं ( 27 ) ( इति निष्क्रान्तः ) मन्मथः —( सस्मितम् ‌) कथं गत एवौदरिकः। ( इति नयनानन्दनान्नन्दनप्रदेशानभिती विभावयन्सकौतुकम् ‌) मल्ली सेयामेहान्तिकस्थितमिमं माकन्दमासेवते ताम्बूली ननु शोभते समधिकं पूगद्रुमालम्बिनी। आलिङ्गत्यधुना लवङ्गलतिका कङ्कोलमुच्चैरिदं साहित्यं स्पृह णीयभावमयतेवल्लीतरूणामपि॥ 17 ॥ हन्तास्मिन्नपि नन्दनेऽपि वने रतिं न विन्दामि ( इत्युत्कण्ठां नाट्यति ) ( ततः प्रविशति कुसुमावचयलीलामभिनयन्ती सखीभ्यां सह रतिः ) रतिः —( स्वगतम् ‌) अह्मो पुव्वस्सिं दिअहे अभूदपुव्वं कुदो मह समुप्पण्णं सोहाहिरोहणकोदूहलम् ‌ । समुपण्णे वा तस्मिं णअरवीहीए तुरअं णच्चअंतस्स तस्स सुहअस्स कुदो णु णिव्वुत्तं जदिच्छा दंसणम् ‌ । दिठ्ठे अ सअलणाअरलोअसाहारणं तस्मिं कुदो वा कुलइत्थिआजणसील पडिऊलो मह सुइर परिइदे विअ एकपदे एव्व जणिदो ईरिसो। अमुराओ जेण खु संपदं पिदुहिं परतताए परोख्खपमाणं वितंणिसा मेदुं ऊतंमइ किमिव म इझ्झिअधीरतणं हिअअं (28) ( इति चिन्तयन्त्यन्यतः पदं न्यस्यती ) सखी —( सपरिहासम् ‌ ) हला रइ ओ ! इदाइं पुप्फाइं मह करगए समुग्गए अणिख्खिविअ कहिं पत्थिदासि ? ( 29 ) रतिः —( सव्रीडावहिन्थम् ‌) सहि कीरवाणि इमस्स अहिणउग्गअकिसलअग्गासकसाअकंठ्कलअंठकुलअंठकुलकंठसमुग्गअपंचमुग्गारविवसीकिदजुवजणमाणसस्स णिरंतरणिवडंतमअरंदणीसंतमिलंतपुप्फंधयवुंदकलअलंचिअमंजुलमंजरीसोरहाहि वासिददिसामुहस्स परिणदफलभरजिहत्थासमूसुअसुअकुलकलालावसुहअस्प्त सहअरपाअवस्स सोहग्गेण ओ हरिदहि अआ तुह परिहासविसअह्मि संवुत्ता ( 30 ) अन्या — हला रई ! सअललोआणंदणगुमगणमहुरस्स पुरवीहिदिठ्ठरस्स तस्स महाहाअस्स त्ति भणिदव्वे किं रसालावएसेण ( 31 ) रतिः — सहि ! कोइलवाणि तुमं वि किदसंगेदा विअ कीरवाणीए एव अणुहरेसि तामिच्छा संकावदीणं तुह्माणं सविहेण चिठ्ठिसम् ‌ (32) ( इति सप्रणयकोपं पदान्तरे स्थित्वा पुष्पाण्यपचिनोति ) मन्मथः —( करगतं कीरमवलीक्य ) अयं तावदशनायतान्तलोचनः प्रतिक्षाति तमेनं सुहितं करोमि। ( इति पार्श्वतश्वक्षुः प्रसारयन् ‌) अस्मल्ँलतावितानवलयिते नातिदूरस्थिते सहकारतरावसौ पचेलिमः फलस्तबको निजसौरभेण समाकर्षति मे चेतः अवतारयाम्यस्मादेकम् ‌ । ( इति धनुर्मुक्तया गुटिकया फलं पातयति ) रतिः —( सप्रमोदाद्धुतं सख्यौ प्रति ) सहिओ पुलो एहएदम् ‌ । ओलूणपसूणगभ्भे मह उत्तरीयंचले अअंडणिवडिदं परिणदं सहआरफलम् ‌ (33) सख्यौ —( सरभसमुपसृत्य ) पिअसहि अविलंबिअमणोरहसिद्धिसुअओ एस दे फललाहो (34) मन्मथः —( फलजिघृक्षया सहकाराभिमुखमर्पितक्रतिपयप्तदो रतिमवलोक्य सानन्दं स संभ्रमम् ‌) सेयं सेयं शशधरमुखी या मया दृष्टपूर्वां वित्रस्तैणीचपलनयना चन्द्रिका चेतसो मे। मोहो वेत्थं मनसि स कथं स्यान्ममास्याः सखीभ्यां स्वैरालापः कलयति सुधासंभृतां श्रोत्रसीमाम् ‌ ॥ 18 ॥ अधुना तावदनया —- पादाग्रस्थितया ऋजूकृतवलिप्रव्यक्तरोमावलि - श्वासोदञ्चदुरोजकोशयुयुलं चोन्नम्रया यत्नतः। न्यञ्चन्त्याप्यवशान्नितम्बभरतः स्विद्यल्ललाटं शनै – श्चिन्वन्त्या कुसुमं तरोः कवलितं लोलभ्रुवा से मनः 19 ( निपुणं निरूप्य ) अहो रूपसम्पदेतस्याः —- आदातुं सह पल्लवैः प्रयतते पाणिं स्वमप्यञ्जसा साकं पुष्पभरेण च स्मितरुचं हन्तापचेतुं निनाम् ‌ । किञ्चोत्सारयितुं समं मधुकरैर्लोलां कटाक्षश्रियं सत्रैषा लतया भुजां नमयितुं स्वभ्रूः स्वकीयामपि॥ 20 ॥ रतिः —( सहकारफलं हस्ते कुर्वती। विभाव्य ) हला कस्स वि धाणुकस्स घुडिआहिघादसमुख्खंडिदवितं वि अदीसई एदम् ‌ । (35) सख्यौ — पिअसहि जंया होदु सुसउणं खु एदं विअसहीए। (36) मन्मथः — इदं तावत्कारणं ममात्मानमाविष्कर्तुमाभिश्च वाचं मिश्रयितुम् ‌ । ( इति स्वयमबपातितं सहकारफललमादित्सुरिवीपसर्पति ) ( सर्वाः ससंभ्रमाश्चर्यं मन्मथमवलोकन्ते ) रतिः —-( सहर्षमात्मगतम् ‌) दंसितसिद्धीदाणिं चिअ मह परदेवदाराहणव्ववसाओ जंइमो रच्छदिठ्ठअरो हिअअपाटच्चरो जणो कुदो वि एत्थ आअच्छि अलो अणाणं सुहं उप्पादई। (37) ( इति सस्पृहं साचि प्रेरितया दृशा मन्मथं निशामयते ) मन्मथः —-( सप्रत्याशमात्मगतम् ‌) तिर्यग्विवलितक्त्यनं तरलाक्षी मामवेक्षमाणैषा। वरणाय निर्मिभीते क्किचोत्पलमालिकामिवापूर्वाम् ‌ ॥ 21 ॥ अपि च द्राघीयसी कृशाङ्ग्या दृष्टिः कृष्णार्जुनश्रियं दधती। सेनेव पाण्डवानां श्रयते कर्णातिलङ्घनोल्लासम् ‌ ॥ 22 ॥ ( विमृश्य ) अचिरविन्यस्तपदेन तावदस्यां यौवनेन भवितव्यम् ‌ । तथाहि। लावण्याम्बुझरीतलादिव शनैरुन्मज्जतः सांप्रतं कुम्भौ यौवनकुञ्जरस्य तदिमौ जानामि वक्षोरुहौ। तद्गण्डस्थलनिसृता विलसति स्रस्तेव दानाम्बुनो धारैषोदरसीम्नि चञ्चलदृशो रोमावलीकैतवात् ‌ ॥ 23 ॥ किंच। मा भून्नम्रा कुवलयदृशो गात्रवल्लीति धात्रा वेणीदम्भात्सदयमनसादायि पश्चादुपघ्नः। न्यस्ता पीनस्तनफलभरप्रोद्गमे रोमराजि - व्याजाद्यष्टिः सरसमुदरे यौवनेनेन्द्रनीली॥ 24 ॥ ( प्रकाशम् ‌ सख्यौ प्रति ) भवत्यावपि समेधितफलो वां सख्याः कुसुमापचयः। सख्यौ —( सविनयम् ‌) महाभाअ एण्हिं एव्व। (38) मन्मथः —( स्वगतम् ‌) अहो प्रगल्भता वचनस्य ( प्रकाशं ) भवत्यौ कोमलतनोरायासापत्तिचयाय लक्ष्यते खल्वयं कुसुमानां स्वहस्तापचयः। यतः। विस्रस्तं कबरीभरेण बहलीभूतं श्रमाम्भःकणै - रुत्कम्पि स्तनमण्डलैरुपचितं श्वासैरसीमोत्कटैः। तान्तं मध्यभुवा नितान्तमधुना सूनेषु लूनेष्वपि द्वित्रेष्वेणदृशः कराङ्गुलियुगे हन्तारुणिम्नैधितम् ‌ ॥ 25 ॥ रतिः —( लज्जां नाटयति ) सख्यौ — महाभाअ ओणीदपलस्समाणो पिअसही महाभाअस्स इमिणा मुहुरेणोवण्णासेण ( 39 ) मन्मथः —( स्वगतम् ‌) अये साकूतमिदमनयोर्जल्पितम् ‌ । ( प्रकाशम् ‌) भद्रे यदि सौहृदमस्मासु तदलं क्रीयतामचिरमिवेयमनुनिशामिन्दुकरकन्दलसंबन्धनिष्पन्दिनी चन्दनाचलगन्धवहस्तनंधयस्पन्दशिशिरा चन्द्रकान्तमयी बालरसालतरुमूलवेदिका। सख्यौ —( सप्रश्रयम् ‌) महाभाअ अणुग्गिहहीदह्मो। ( रतिं प्रति ) हला माणणीअवअणो अह्माणं अआरणमित्तं एस महाभाओ ( 40 ) ( इति सर्वे उपविशान्ति ) मन्मथः — भद्रेभवत्सौजन्येन दत्तानुयोगावसराः स्मः। सख्यौ — महाभाअ ओहिदह्म ( 41 ) मन्मथः — भद्रे को नाम अभिजनो जन्मना परिष्कृतोऽनयाभिरूपया। किंच। अस्निग्धैः शिरसिरुहैरङ्गैरमृजाविधानधूसरितैः। वसनेन क्षौमेण च वेदाहमिमां कुतोपि धृतनियमाम् ‌ ॥ 28 ॥ सख्यौ — महाभाअ इयं णो पिअसही तत्त होदो राअस्स अज्जाए मुदिआए समुप्पण्णा कण्णा रईणाम। इमेसु दावसूरह्यएसु अणुग्गहीदजोव्वणाए अदिइदतेल्लोकमहिलाजनलोण्णसम्पत्तीए इमाए अणुरूववरलाहसावेख्खेण गुरुजणेण उवदिठ्ठो भअवधीए सोहग्गजणणीए परदेवदाए पसादकिदे समाराहमवही ता एस णिअमपडिग्गहो एसां अवसत्थेण ओएदव्व दा पसूणाणम् ‌ । ( 42 ) मन्मथः —( साश्वासं स्वगतम् ‌) अहो क एषोस्यां मम प्रेमानुबन्धः। ( प्रकाशम् ‌) भद्रे उपलब्धमिहैवाभिजात्यगुणाश्रियोः सामानाधिकरण्यं यदाशास्यं कन्यासु समुचिता च परदेवताप्रसादसंपिपादयिषा। रतिः —( स्वगतम् ‌) कुसलं मंतिदं महाभाएण ( 43 ) सख्यौ — महाभाअ एआरिसेण अत्तहोदोपकिदि सरलत्तणेण जणिदाणो जिण्णा सा किं णामधेओ महाभाओति (44) रतिः —( स्वगतम् ‌) हिअअ मा उत्तम्म तुह चितिदाणुतवो एव्व सहीणं अणुओओ ( 45 ) मन्मथः — भद्रे अपि श्रुतपूर्वो भवतीभ्यां मन्मथो नाम। सख्यौ — अह इं ( 46 ) मन्मथः — तमेवैनं जानीतम् ‌ । सख्यौ —( जनान्तिकम् ‌) कहं सो एसो जो किल सुणीअदि भअवदो लच्छीवल्लहस्स तणओ सीमासुदेरस्स इत्थिआपुंसाणं विलासो वदे सदेसि ओ मम्महोत्ति ( प्रकाशम् ‌) महाभाअ किदत्था अह्मो महाभाअस्स दंसणभ्भुअएण ( 47 ) मन्मथः — ममापि सफलं चक्षुर्दर्शनीयदर्शनेन। रतिः —( सात्विकमभिनयति ) मन्मथः —( उदयवस्थाविशेषां रतिं निर्वर्ण्य , स्वगतम् ‌) प्रस्विन्नपुलकिताङ्गं प्रहितप्रतिसंहृतालसदृगन्तम् ‌ । समुदितमवशात्सूनोः स्मितमिदमस्याश्चिरं जीयात् ‌ ॥ 27 ॥ सख्यौ —-( रतिं मन्मथं च निरूपयन्त्यौ , अपवार्य ) जइ अण्णुण्णावरूव्वरूव्वसंपत्तीणं एदाणं दोण्णं वि समाहमो हवेज्जइता चारिदत्थं विहिणो णिम्माणकोसलम् ‌ ( 48) रतिः —-( सौत्सुक्यं स्वगतम् ‌) कुदो मह एआरिस भाअहेयम् ‌ (49) ( प्रविश्य ) परिचारिका — भट्टदारिए सज्जीकिदसवज्जोव अरणा अज्जा भट्टिदारि अंपडि वालेदिता तुवरदेव्वदा अदणगमणस्स ( 50 ) मन्मथः —- ( सविषादमात्मगतम् ‌ ) इमां हि चिरस्यामृतवर्षिणीं कादम्बिनीमनिमेषमापिबतो नयनाभ्यां चातककपोतकस्यस्पन्दफलं वात्या विस्फूर्तिः। रतिः —-( सवैमनस्यं स्वगतम् ‌) हा देव्वहदअ ख्खणमेत्तं विएदस्स लोअणामिअस्स मे असहणो तुमं संवृत्तो ( 51) ( इति जिगमिषया सखीमुखमीक्षते ) सख्यौ —-( मन्मथं प्रति ) अमुजाणादु णो णिरन्तरावे ख्खणिज्ज सण्णिही महाराओ भूयो वि दंसणसुहलाहस्स ( 52 ) मन्मथः —( साभ्यनुज्ञमिव ) साधयन्तु भवत्यः स्वेष्टसिद्धये स्मर्तव्यश्चायं जनो विश्रम्भकथासु। रतिः —( स्वगतम् ‌ ) महामाअ तुमए ओ हरिदहिअआए मह कदो णु संह्मरणस्स अवआसो ( 53 ) सख्यौ —- महाभाअ अह्मकेरया खु अभ्भत्थणा एसा ( 54 ) रतिः —( स्वगतम् ‌ ) किं करेमि अणीसा अप्पणो अज्जाणिओओ मंबलामोडि अणेइ ( 55 ) ( इत्यनिच्छन्त्येव कथमपि सखीभ्यां सह निष्क्रान्ता परिचारिकया च ) मन्मथः —( स परितापम् ) अहो सान्तरायाणि नाम सुखानि यदियमकालजलदेनेव प्रतिकूलेन देवैनान्तरिता मे नयनानन्दिनी चन्द्रिका। कः पुनरस्याः करग्रह उपायः ( इति चिन्तां नाटयति , साश्वासम् ‌ ) निर्व्याजवत्सला तावदस्मासु भगवती परदेवतायाश्चतुर्थावरणदेवता सर्वार्थसाधिका। तदमुनैव तीर्थेन सुखमवतरामि एनां लावण्यसरितम् ‌ । इह च कर्तव्ये नियोक्तव्योमन्त्री वसन्तः। ( सानुस्मरणम् ‌ ) हन्त प्रियासंदर्शनान्दपरवशेन मया विस्मृत एवास्य कीरस्य सौहित्यविधिः ( इति पुनः कार्मुकप्रेरितया घुटिकया रसालफलान्तरमवपात्य शुकमुखे समर्पयति ) ( नेपथ्ये मङ्गलशंखनिस्वनानन्तरम् ‌ ) उन्नालाम्बुजिनीदलस्य शिशिरां छायामुपासेदुषो – श्चञ्चूपात्तबिसाङ्करार्पणपरान्योन्यं रसाक्रीडतोः॥ मध्याह्नोपि महोत्सवः प्रववृते सोयं रथाङ्गाह्वयोः मदनः —( आकर्ण्य सोत्कण्ठम् ‌ ) साधूक्तं वैतालिकेन यतः। हृद्यं तस्य तदेव यस्य घटते यस्मिन्रतिश्चेतसः॥ 27 ॥ ( ऊर्ध्वमवलीक्य ) कथं गगनमध्यारूढो भगवान्निदाघदीधितिः। तथाहि — वेगाक्रान्तनितान्तदीर्घसरणिर्भासां निधेः स्यन्दनो यन्मध्येगगनं विकुण्ठितगतिर्निप्पन्दतां वन्दति। जाते तल्लुठितोत्थितान्खगपतेर्भ्राताग्रजः स्वर्धुनी - पूरस्नापितपायितान्गमयते विश्रान्तिमश्वानिति॥ 30 ॥ तदहमपि प्रियतमाविश्लेषदवथुनिचुलितान्तरो दुर्निवारसर्वतापनिर्वापिकामस्य नन्दनोद्यानस्य पार्श्वतो निष्पन्दमानां मन्दाकिनीमवगाह्य माध्यन्दिनं विधिं निर्वर्तयिष्यामि। ( इति निष्क्रान्ताः सर्वे ) इति पण्डितजगन्नाथकविकृतौ रतिमन्मथनाम्नि नाटके प्रथमोङ्कः सम्पूर्णः॥ 1 ॥ .************************************************ . द्वितीयाङ्कादौ प्रवेशकः ( ततः प्रविशतश्चेट्यौ ) एका — सहि मऊरिए तह पमुद्धा वि भट्टिदारिआ एआरिसी संजादेत्तिच्छेरं खु एदम् ‌ ( 1 ) अन्या —- पिउच्छसारिए सरलासि तुमं किं ण पेख्खसि भट्टिदारिआए विलसिदं जोव्व्णस्स ( 2 ) ( संस्कृतमाश्रितस्य ) प्रागह्नां त्रितयादुपात्तपरिधी ह्यः पूगसाम्यस्पृशा - वद्यत्वे तु कुचौ तुलां न सहतो जम्बीरमालूरयोः। श्वो वा तत्परतोपि वाहनि सखि ख्यातां कियन्तौ पुन - स्तन्वङ्ग्याः क्व भुजान्तरं क नु समारम्भोनयोरीदृशः 1 सारिका — साहु दिट्टं सहीए इमेसु दावसु रद्धएसु ( 3 )( संस्कृतमाश्रित्य ) आलेख्ये मिथुनं कृतव्यतकरं साकूतमालोकते पाञ्चालीविहृतौ च संकलयति द्वन्द्वं तदीयं रहः। उत्कण्ठामयते निशम्य चरितं स्त्रीपुंसंयोर्नाटके पृष्टा तच्च सखीजनेन सुतनुर्भूयस्तरां लज्जते॥ 2 ॥ तक्केमि अदो चिअ सरिसजामादुलाहकिदे पज्जाउलहिअओ पेख्खाअदि तादो अज्जा अ ( 4 ) मयूरिका — सहि चिंदाउलघरं खु सव्वस्स वि कण्ण आपि दूत्तणं णाम ( अनुस्मृत्य ) साहुभणिदं एदं केण वि अणुहवसालिणा ( 5 ) ( संस्कृतमाश्रित्य ) जातां तनूजामनुलब्धजन्मा चिन्ता दुरन्ता यमला स्ववर्गे। संवर्धमानामनु चैधमाना शश्वद्रुरूणा हि मनो दुनोति॥ 3 ॥ इति। सारिका — सहि मऊरिए हियो किल रअणीए अज्जतादेहिं उवक्कंदेव रयित्ताणं पत्थावे आअणिदंपिअ सहीए वि। तत्त होदोव मंमहस्स पसंसणं जह ( 6 ) ( संस्कृतमाश्रित्य ) देवः शार्ङ्गधरः पिताऽस्य जननी सा लोकमाताऽग्रजो भ्राताप्यम्बुजसंभवो दिविषदां नेता पितृव्यः पुनः॥ शर्वाण्येव पितृष्वसा जलनिधिर्मातामहो मातुल - श्चन्द्रो हन्त वरः स्वयं तु मदनः क्वेदृग्गुणश्रीर्भवेत् ‌ ॥ 4 ॥ इति। ता किं ति कण्णाअण्णिआए आअण्णिद णिअधुआपरिदावउत्ततो वि तादो अणुरुवगुणाणं इमाणं दोण्णं वि ण णिवट्टेदि पाणिग्गहणमंगलम् ‌ । ( 7 ) मयूरिका — पिउच्छा अणहिण्णासि लोअव्वहारस्स वरपख्खीएहिं चेअ वहूपत्थणा सिलाहणिज्जति (8) सारिका —( सचिन्तम् ‌ ) हला कहं णु ख्खु एदं संविहाणं होईजइ ( 9 ) मयूरिका —- पिउच्छा किदं विआरेण भट्टिदारिआआराहणपरितुठ्ठाए परदेवताए सअं एव्व णिअत्ताएत्थ अज्ज ए सह पंसुकीलण सही भअवई सव्वत्थसाहिआ एव्व सव्वत्वं साहइस्सदि ( 10 ) सारिका — अह्महे पसादसुलहत्तणं परमेसराए। किणो सहि ओलिढे महूरसे घिअसेवणेण विज रच्छामुहमुदुत्तमेत्तदिट्ठस्स तस्स महाभाअस्स वम्महस्स पुणोवि णंदणुज्जाणंमि सविसेसदंसणेण भट्टिदारिआए एरिसी हिअआवत्था ण मुणिअदि सो उण कीरिसो इमस्मिं त्ति ( 11 ) मयूरिका — हला कहिदं खु एदाणं परोप्पराणुरा असंवढ्ढणप उत्ताए भअवदीपिअंतेवासिणीए जह भट्टिदारिआए दंसणादो पहुदि वलअं उत्तम्मइ सो वि महाभाओ त्ति। ( 12 ) सारिका — पिअं मे पिअं मे ( 13 ) मयूरिका — सहि कहिं दाणिं पत्थिदासि ( 14 ) सारिका — हला भट्टिदारिआपिअसहीणं कोइलवाणी कीरवाणीणं वअणेण सिसिरोवआरसामग्गी संपादणस्स। ( 15 ) मयूरिका — पिउछा एसा खु पज्जालेदे पावए सप्पिणो आहुदी ताहीं चिंतिदपूव्वो सो एव्व भट्टिदारिआए विओअवेअणाविणो अणो वाओ पडिभादि ( 16 ) सारिका — सहि कहं विअ ( 17 ) मयूरिका —( सारिकायाः कर्णे। एव्वं वि ( 18 ) सारिका —( सशिरःकम्पम् ‌ ) सहि उववण्णं खु एदम् ‌ । ता साहअ अविलविदं अप्पणो समीहिदं । अहं वि जहणिओअं अणुचिट्टिस्सम् ‌ । ( 19 ) ( इति निष्क्रान्ते ) इति प्रवेशकः। —-00— द्वितीयोङ्कः। ( ततः प्रविशति घारागृहगता सखीभ्यामुपचर्यमाण रतिः ) रतिः —( स्वगतम् ‌ ) हिअअ अइरदिट्ठं विणंदणुज्जाने चिरदिट्ठं विअ तं सुहअं उद्दिसिअ किं ति एद्दहं संतप्पसिअह जह तह वा तुह पलिणामो होदु एदिणा दे परिदावेण तुइ णि . रंतरसंणिहिदस्स सुउमालप्तकिदिणो का णु दसा होज्ज ति पज्जाउलह्मि ( 1 ) सख्यौ —- पिअसहि ! अवि सुहेइ तुमं धाराघरगम्भठ्ठिअं पच्चग्गविलूणेहिं पल्लवेहिं सज्जीकिदं सअणिज्जं अहिसअन्तिं तक्कालणिप्पीडिएण मलअअरसेण अणुलित्तंगिं अ एसो कसिणोसीरतालवींतसमीरणो (2) रतिः —( अनाकर्णितकेन स्वगतम् ‌ ) कहं णाम सो पिअजणो जस्सिं विअलिअवेज्जन्तरं अणिसं सुमरिदे वि ण होइ हिअ अस्स णिव्वुदिलेसो वि ( 3 ) सख्यौ —-( सविषादम् ‌) पिअसहि किं एदं पुच्छतीणं वि अह्माण ण देसि पडिवअणम् ‌ । ( 4 ) रतिः —( श्रुतिमभिनीय ) हला किं भणाह (5) सख्यौ —( अवि सुहे इत्यादि पूर्वोक्तं पठतः ) रतिः —( सनिश्वासम् ‌) हला तत्तणाराअपंजरंम्मि तिख्खणसूईसहस्ससिहरपडिदाए तुसदहणचुम्बिदंगीए मह कहं णाम सरोसविसहरफुक्कारपवणेण वि सुहं उपज्जेउ ( 6 ) सख्यौ —( मोपालम्भमिव ) पिअसहि कुदो उण अणवेख्खिद गुरुअणा उज्झिद कुलकुमारी जण क्कमाखणमेतेण दार्णिईरिसी दे ठिदी संवुत्ता ( 7 ) रतिः —( सप्रणयरीषम् ‌ ) हला किदं उवदेसेण आअरह पकिदाणुरूवं ( 8 ) सख्यौ —( ससंभ्रममन्योन्यं प्रति ) हला ओणीअ संदावमम्मरिदं किसल असअणिज्जं उवकप्पिदपुप्फतप्पे सव्धगसमप्पिदोसीराणुलेवणं अहिणवृद्धरिएहिं मिणालकणईहिं मण्डयन्तीओ अंगाइं हिमम्बुसेअदिउणासिसिरिएहिं पोम्मिणी पलासेहिं विअअतीओणं उवअरह्म ( 9 ) ( तथा कुरतः ) रतिः —-( सपरितापातिरेकम् ‌) हल्ला वज्जलेवकीलिदं खु महजीविदं जं एआरिसेहिं वि तुह्माणं पओएहिं णाव क्वामइ ( 10 ) कीरवाणी —- हला कोइलवाणि ! अण्णेस्सु दाव णिमिसु एसु अणुरत्ताणं इत्थिआणं होवु णाम वम्महो संदावआरी सस्मिं एव णिव्वद्धहावं पि इमं कहं एसो एवं विसूरेइ ( 11 ) कोकिलवाणी — सहि कीरवाणि अहिमदवत्थुणो सहावो खु एरिसो जं अलाहे संदावेदित्ति ( 12 ) रतिः —( सरसोल्लासम् ‌ ) हला तुवरेह रअणासणस्स एसो खु मह वणादसरीरोव दाव उत्तंतो विअ सोपदिअ जणो संणिहिदो लख्खीअदि ( 13 ) सख्यौ —( सोद्वेगम् ‌) पि असइ किदं वामोहण कुदो एन्थ कंणं ते उरे परके रस्स पवेसकाहा वि ( 14) रतिः —( सासूयम् ‌) हला रइ वि परकेरआ खु तुह्माणं ( 15 ) सख्यौः —( सासूयम् ‌) अह्मो पेम्माणुवंद्यो तास्मिं महाभाए पि असही ए (16) रतिः — हला किं अद्देदमदाणुप्पवे सिणिओ तुह्मेज पच्च ख्ख दीसंतं वि असंतं कहेअ ( 17 ) सख्यौ —- पिअसहि विवेहणि भमकाप्पिदं वि वत्थु किं णु सच्चं हो अइ ) स रीष मिव ) दाणिं खु अप्यच्चेअवअणा अहो संवुत्ता पि असहीए ( 18 ) रतिः —( साश्रुपातम् ‌) हला अपि ण संणिहिदो सो पिअजणां ताह दह्मि मंदभाइणी ( 19 ) ( इति मूर्च्छति ) सख्यौ —-( मसाध्वसीत्कम्पम् ‌ , तालवृन्तेन वीजयन्त्यौ ) पिअसहि समस्ससिहि समस्ससिहि णंदे सुचदिमाशीदलाए दिठ्ठिए दाणेण पस्सगअं पज्जाउलमणं इमं जणं ( 20 ) रतिः —( साश्वासमुन्मीलितलोचना पार्श्वतो विलोक्य ) हला पस्सगअं इमं जणं ति किं मं पदारेहण उण एत्थ सोहिअ अवल्लहो ( 21 ) ( इति पुनर्मोहेन निमीलति ) सख्यौ —-( सवैमनस्यम् ‌) कहं णु एसा समासणिज्जा ण विण्णाअदि खु पिअसहीए अप्पणो विणोअणत्थं सहत्थलिहिदपिअजणपडिच्छंद सुंदरं चित्तफलअं पमुद्धाए सारिआए कहिं णिख्खितं ति एण्हिं मयूरिआमुहेण विण्णाविदसही विरह उत्तंता भ अवदीचेअए दाए एत्थ मम्महंदसेणण समासासणे सरणं (22) ( ततः प्रविशति निजचन्द्रशालावातायनगती विदूषकेणान्वास्यमानः मविरहव्यथो मन्मथः ) मन्मथः —- सखे सांख्यायन विप्रलब्धोसि पूर्वोद्युराम्रभोजनसमुत्साहेन यन्न दृष्टं दर्शनीयं भवता। विदूषकः — वअस्स तुए दाव आमझ्झणं रुख्खं रुख्खं पडिहिंडंतेण बुभुख्खापडिसुक्कमुहेण समासादिअं सोहिच्चं ( 23 ) मन्मथः —- किमिह संशयोपि शरासनोन्मुक्तघुटिकाभिघातनिपातितरसालफलमादातुमासेदुषी —- मूर्तेव नन्दनश्रीर्मनोरथस्येव सिद्धिरविलम्बा। माकन्दं निकषा सा मल्लीव ययां सखे प्रियादर्शि॥ 5 ॥ सख्यौः —( विलोक्य , सार्श्चयम् ‌ जनान्तिकम् ‌ ) उवक्वंतं विअभअवई अप्पणो भअवदित्तणम् ‌ ( 24 ) रतिः —( श्रुतिमभिनीय सप्रत्यभिज्ञमिव शनैः शनैरक्षिणी समुन्मीलयति ) सख्यौ —( साश्वासम् ‌) दिठ्ठिआ पडिलेद्धचेअणा पिअसही ( अपवायं ) कहं वा इमाए पिअजणवअणपच्चहिण्णा वि ( 25 ) विदूषकः —( स्वगतम् ‌) एसो खु जुवरिदस्स हिमंवुसेओ ( प्रकाशम् ‌ ) वअस्स तम्मअस्स तुह सवा वि इत्थिआलोअणगोअरं गदा सा चे अ अहवा भंत्तिणिम्मिदा होज्जइ ( 26 ) मन्मथः — जाल्म कुतो मे भ्रान्तिः। तदानीं खलु मय्याकस्मिकदर्शने पुलकितप्रस्विन्नसवङ्गिकं वक्षोजस्खलदुत्तरीयघटनं व्यग्रैकहस्ताम्बुजम् ‌ । अङ्गुल्यग्रगलद्विलूनकुसुमं भूयो विसर्पत्पुन — र्व्यावृत्तस्तिमिते क्षणं च सुचिरं तन्व्यावतस्थे तया॥ 6 ॥ रतिः —( श्रुत्वा स संभ्रममात्मनः पूर्वार्धेन शयनं जहाति। प्रासादगतं मन्मथमवलोक्य सानम्दं स्वगतम् ‌) कंदोट्टसामलंगो चंदोवमिदेण वअणलोण्णोण णंदेइलोअणं मह णंदेइ इमो मणस्स अपमोहम् ‌ ॥ 7 ॥ ( प्रकाशं सख्यौ प्राति ) हला किं एदं व वत्थुभमकप्पिदं ( 27 ) सख्यौ —-( जनान्तिकम् ‌) अप्पआसणिजो खु एण्हिं चे अएसो अत्थो ता अणुसरह्मदाव णं ( प्रकाशम् ‌) पिअसहि होउ णाम संपदं जहत्थं (28 ) रतिः —- हला सहावसिणिद्धेण एदिणा महाभाएण दाणिं अह्मधरसविधे सोहंतरं विणिम्मिदनिव (29) सख्यौ —( सावाहित्थम् ‌) सहि तह किल पडिभादि (30 ) विदूषकः — वअस्स तह परवसा वि सा सुजादा किंति तुमए हत्थेण ण गिहीदा ( 31 ) मन्मथः — किं आमधरिमाशङ्कसे। विदूषकः — वअस्स आदषोरो एव्व भवं जं पुणो वि मह दिठ्ठिगोअरोसि ( 32 ) मन्मथः —( अनुसृत्य सांल्लासं ) सखे दूरे गिरां हि तद्रूपरामणीयकम् ‌ नासाकर्णनिरुद्धलोचनमिथःसमिक्रमोपक्रमं भूयो जृम्भणकौतुकिस्तनभरापर्याप्तबाहान्तरम् ‌ ॥ प्रौढारम्भनितम्बनिह्नुततदन्याङ्गावलोकक्रियं तारुण्याद्भुतशिल्पमेव कलये तन्व्या वपुस्तादृशम् ‌ ॥ 8 ॥ विदूषकः — वअस्स अणुराओ एव्व वत्थुणो सुंदरं संपादइ ( 33 ) मन्मथः — मा तावत्सहजसुभगायास्तस्याः अधरमधुनो लोभात्केशद्विरेफसमूहतः सरभसविनिर्याता काचित्सके मधुपावलिः॥ सरसिजदृशो नासामासाद्य गन्धफलीधिया स्फुरति समयं द्वेधेव भ्रूमिषात्समवस्थिता॥ 9 ॥ रतिः —( सविचिकित्सम् ‌) हला का णु सा धण्णा तरुणडिआ जा इमिणा वि महाभाएण एद्दहं पसंसीअदि ( 34 ) सख्यौ — पिअसहि सुणुमो दाव अग्गदो एदं फुडं होज्जइ (35) विदूषकः — वअस्स पिवासिदो विअ कसाअं वि सलिलं तं अप्पणो पिअं जणं अदिमेत्तं पसंसंतं भह कोदूहलं उप्पासेदि। ता चित्तफलए आलिहिअ दसेहि दाव ( 36 ) मन्मथः — अस्ति ममाप्ये षोभिलाषः चित्रगतामपि चकोरक्षेणां भूयः पश्येयमिति ( नेपथ्याभि मुख मवलोक्य ) कञ्चुकिन् ‌ आनियतां चित्रफलकम् ‌ ॥ ( प्रविश्य ) कञ्चुकी —-( सप्रणामम् ‌ ) देव सज्जमेवेदम् ‌ ( इति चित्रफलकं पुरो निदधाति ) मन्मथः —( आपादतोवलोक्य ) बालिश किमालेख्यसनाथमेतदार्हं तुमादिष्टो सि। कञ्चुकी —( ससाध्वसं ) क्षमतां देवः सामान्येन देवस्यादेशेनापराद्धो स्मि। विदूषकः —( सानुनयम् ‌) वअस्स पुरिसधम्मो खु पमादेणाम ( इति चित्रफलकमादाय निरूपयन् ‌) कहं वअस्सो एव्व एत्थ आलिहिदो अत्थि अवआसो पासंतरे विलेहणस्स ( 37 ) मन्मथः —- वयस्य कुत एतदधिगमः। कञ्चुकी —( स विनयम् ‌) देव देवोपवनपालकात् ‌ । कथितं च तेन तत्र भवतो रागस्य कन्यागृहपरिचारिकयाऽस्मदुपवनसरससरसानि सारसानि मृणालिनीपलाशानि चादाय सरभसप्रतिनिवृत्तया तत्तीरे निक्षिप्तं विस्मृतमिदं मया समासादितमिति। विदूषकः — वअस्स तक्केमि ताए सामिणो घरे दुआदि समाराहणा होज्जत्ति ( 38 ) ( इत्युत्थातुमिच्छति ) मदनः —( स्मयमानस्तमुपरुध्य ) आधून ! किं मृणालान्युपभुज्यन्ते ( कञ्चुकिनं प्रति भद्र स्वनियोगमशून्यं कुरु। कञ्चुकी — विजयतां देवः ( इति निष्क्रान्तः ) विदूषकः — वअस्स महतक्कं पुव्वपख्खं कुणं तस्स तुझको णु सिझ्झंतो ( 39 ) मन्मथः — जानामि कस्याश्चिद्विरहतापोपशमार्थोयमारम्भः इति। विदूषकः — जुज्जइ एदं ( मन्मथप्रतिकृतिं निर्वर्ण्य ) वअस्स मुणामि एत्थणअरीए सव्वाणं वि सिप्पिणं। अदिठ्ठपुव्वाएआरिसी सिप्परेहा ता कस्स उण होज्जई ईरिसं लेहकोसलम् ‌ । ( 40 ) मन्मथः — ( विदूषकहस्ताच्चित्रफलकमादाय निपुणमवदारयत् ‌ सरीमहर्षम् ‌) या प्रस्विन्नदशा तनोरिह सके रोमोद्गमो यः पुन - र्यत्साचीभवनं दृशोः करशुकग्लानिर्यदेवं क्षुधा। या प्राप्ताञ्जनरोखेकाकुटिलता योलक्तकाङ्कोङ्गुलि - न्यासोमूनितया वदन्ति सुदृशा लेखं रवहस्तार्पितम् ‌ ॥ 10 ॥ सारिकाहस्ताविस्रस्तमिदमित्यनेन तु नेह संदेहस्पन्दोपि। सख्यौ —-( अपवार्य ) चेडीए अणवहाणं वि अणुऊलं एणो परिणदं इमस्स महाभाअस्स पिअसहीअणुराअसुअणेण ( 41 ) विदूषकः — साहु तक्किदं मुसलग्गे ( इत्यर्धोक्ते ) अहो पमादो कुसग्गमइणा वअस्सेण ( 42 ) मन्मथः —- सखे संप्रत सफलं खलु जम््म मन्मथस्य। विदूषकः — वअस्स चिठ्ठद अप्पसंभावणा आलिहेदु भवं एध अप्पणो पिअदमं ( 43 ) ( इति तूलिकामर्पयति ) मन्मथः — सखे काममकुशलता कुरङ्गदृशः सौन्दर्यसर्वस्वमालिखितुं। अथ वाप्यनुलङ्घ्यप्रणयो हि भवान् ‌ ( इति रतिप्रतमां वलिखन् ‌ ) यदेकस्मिन्नङ्गे किमपि लिखितेस्या ननु सके निमग्नं चक्षुर्मे हृदयमपि तत्रैव भवति॥ सकम्पस्वेदोयं प्रभवति न पाणिश्च सकलां कथं कारं बालां कथय विलिखेयं तदधुना॥ 11 ॥ ( कथं चिदभिलिख्य दर्शयति ) विदूषकः —( विलीक्य। सकौतुकमात्मगतम् ‌) ठाणे खु वअस्सस्स अस्स इमस्सिं अणुराआणुबंधो ( प्रकाशं ) वअस्स ज हत्थं कहे हि किं मह ब्रह्मणीए रूवेण एसा सरिसीत्ति (44) मन्मथः —( स्मितं कृत्वा ) सखे रेखामात्रमिददालेख्यगतं तद्रूपस्य परथा क्व चक्षुर्लीला सा क्व नु सरमन्दस्मितकला क्व वा वाणी हृद्या क्वच नु ललितं भ्रूविललितम् ‌ । भवेदालेख्येऽस्मिन्क्व नु मधुरबिम्बाधरसुधा क्व सौरभ्यं किं चाप्यवयवगतं पक्ष्मलदृशः॥ 12 ॥ सख्यौ —( सोङ्ग्रीवमवलोक्य ) पिअसहि विसद्धा होइ ए देण देद इदेण तुव्वं एव वाण्णिदा एत्थ आलिहिदा अ ( 45 ) रतिः —( स व्रीडीस्मतम् ‌) हला किं णेण तक्कालसमासासणेण ( 46 ) सख्यौ —( जनान्तिकम् ‌) हुं इमाए जाणिदं एदं संविहाणं अहवा अह्मोहिं चेअ अण्णहा तक्किअं होजा। ( प्रकाशम् ‌) सहि सव्वकालीअं वि होज्जइ ( 47 ) विदूषकः — वअस्स तुवं अपण्णो पेम्मसरिसं भणासि महाछण पडिकिदि जो एण एव्व एसा मणहरेत्ति ( 48 ) रतिः — साहु कप्पिदं अज्जेण ( 49 ) सख्यौ —- एसो खु इमस्स सअणम्मि पक्खवादसमुइदो ववहारो। पिअसहिपडिमासणाहस्स महाभाअस्स वि किं ण होइ दंसणिज्जतणम् ‌ ( 50 ) मन्मथः — सखे तदानीमारामतः परदेवताराधनाय जनन्याहूतनिर्गताया न पर्याप्तदर्शनसुखोऽस्मि दयितायाः। ( इति सस्पृहमवलोकयन् ‌) अस्याः सखे निरुपमाऽकृतिदर्शने मे चक्षुर्दशामभिलषन्त्यस्विलेन्द्रियाणि॥ आलिङ्गने स्तनभरस्य पुनस्त्वगैक्य - मासादने रसनतामधरामृतस्य॥ 13 ॥ कदा पीनं नम्रं रहासि परिरप्स्ये कुचयुगं कदा तावत्पास्याम्यधररसमस्याः सुमधुरम् ‌ ॥ रतक्रीडा भूयः श्रमविशिथिलां गात्रलतिकां कदा क्रोडे कृत्वा सुखमधिशयिष्ये च रजनीः 14 विदुषकः — वअस्स उम्मतो विअ चित्तअं विणं पच्चक्खं जाणि अमतेसि ( 51 ) मन्मथः — कृतं कृतमिव शब्दप्रयोगेण। मधुना रदच्छदजुषा मर्द्वीकरसेन वचसि भरितेन। तालश्रियाप्युरोरुहतटगतयासौ कथं न मदयेन्माम् ‌ ॥ 15 ॥ अपि च दर्शनात्प्रभृति। व्यानक्तीव सुधाञ्जनेन नयने वक्तीव कर्णे किम - प्याश्लेषेणं दृढेन चन्दनरसं गात्रेष्विवालिम्पति॥ सैषा पाययतीव फाणितरसोदारं स्वबिम्बाधरं दूरं गाहयतीव हर्षजलधेः पूरं ममेदं वपुः॥ 16 ॥ विदूषकः — वअस्स णं भणामि एसा चित्तगअत्ति ( 52 ) मन्मथः —( अन्यथा शङ्कमानः सोद्वेगम् ‌) सखे कथं चित्तगतैव मे वल्लभा न पुनः चित्रगताऽपि ( इति मूर्छति ) रतिः —( सभयीत्कम्यम् ‌) हला पलित्ताअह पलित्ताअह। मुच्छिदो एव्व महाभाओ (53) ( इति मुह्यति ) सख्यौ —-( सविषादम् ‌) एसो खु पिसाअरक्खाबन्धणकम्मम्मि वेदालुग्गमो (54) विदूषकः — वअस्स समस्ससिहि समस्ससिहि (55) मन्मथः —-( समाश्वस्य सनिर्वेदं ) अनिन्दुरुचिराननैरनतिकातरालोकनै - रनिक्षुमधराधरैरपृथुलस्तनाडम्बरैः॥ असंशयितमध्यमरैजघनप्रथीयःक्रमै - रहंसगतिभिः सुखैरलममन्मथोन्मादकैः॥ 17 ॥ सख्यौ — पिअसहि समस्ससिहि समस्ससिहि एसो दे पिअजणो लत्धचेअणो भविअ किंपि मन्तेदि (56) रतिः —( लब्धसंज्ञा विलोक्य ) अह्महे पच्चागदजीविदो एण्हिसअलो वि जीअलोओ ( 57 ) सख्यौ —-( अपवार्य ) अह्मो भअवईएजो अमाहप्पं जं रत्थन्तरे परोख्खणिवुत्तं वि एदं सव्वं एत्थ पच्चख्खं विअ अह्मोर्हि अणुहविअदि ( 58 ) विदूषकः —-( सोपहासम् ‌) वअस्स अणादिक्कन्तमुद्धहावाए तत्त होदीए उत्ताणोर्हि वि विभ्भमोर्हि किं त्ति एत्तिअं तज्जू सूओसि ( 59 ) । मन्मथः —( सस्मितमात्मगतं ) सत्यमनूचानश्रोत्रिय एवायम् ‌ लीढालीढरदच्छदं नवभवद्वक्षोजकोशार्पित - व्यक्ताव्यक्तनखक्षतं प्रतिकलोदञ्चन्निषेधाक्षरम् ‌ ॥ व्यक्ताव्यक्तवलग्ननीविनहनं साध्यं मृदूपायतो लज्जाकुङ्मलितेक्षणं च कृतिनां लभ्येत मुग्धारतम् ‌ ॥ 18 ॥ ( प्रकाशं ) सखे न जाने कुतो देशिकादभ्यस्तं वा कुवलयदृशा तावदीदृशं संवननकलाकौशलम् ‌ । यतः वसन्तः शीतांशुर्मलयपवमानः परभृताः शुका भृङ्गा माल्यं मधु मलयजं पङ्कजरजः॥ कलं गीतं लास्यं प्रमदवनमन्यच्च सकलं प्रतीपं मे जातं ननु बत ममैवोपकरणम् ‌ ॥ 19 ॥ रतिः —-( स्वगतम् ‌) महाभाअस्स अप्पकेरओ विअणुजावि वग्गो एव्वं संवुतो किं भणिदव्वं मारिसीए पडिऊलोत्ति (60) सख्यौ — असरिसो णं पमुद्धे कुलकुमारी जणे एव्वं णिव्बादारोवो (61) मन्मथः — अतस्तावत् ‌ । दावं हृद्यमवैमि चन्दनरसाच्चण्डातपं चन्द्रिका - पूरात्किंच सुराधिपप्रहरणं श्रीखण्डशैलानिलात् ‌ ॥ कुन्ताग्रैः कृतमास्तरं विचकिलस्तोमादिदानीं सखे मृत्युं जीवनतोप्यलब्धदयिताश्लेषप्रमोदः पुनः॥ 20 ॥ रतिः —( स्वगतम् ‌) पडिहदममङ्गलं पडिहदममङ्गलम् ‌ । महाभाअ मह मंदभाइणीए किदि तेल्लोक्कमङ्गलस्स वि अप्पणो ण एव्वं अणिठ्ठासंकी होवु भवम् ‌ । ( 62) सख्यौ — हद्धी हद्धी परिदावणिव्वेदाणं अदिसओ (63) विदूषकः —- वअस्स तुवं दाव जाए कालणादो एव्वं उत्तंमसि ण आणीअदि कीरिसी से दसत्ति (64) मन्मथः — सखे तर्क्यते एव मदनुमानेन प्रियाया अपि परितापातिभूमिः। रतिः —-( आत्मगतम् ‌) साहु समत्थिदं पकिदिकोमलेण महाभाएण (65) सख्यौ —- किं ण कहि अं अज्जए वसिणीए पिअसहीपज्जाउलत्तणं महाभाअस्स (66) ( ततः प्रविशति वशिनी ) वशिनी –( आत्मगतम् ‌) संप्राप्तास्मि केनाप्यलक्षिता कुमारस्य सौधम् ‌ । आदिष्टं हीमे भगवत्या सर्वार्थसाधिकया। यथा वत्से रतिविरहदूनहृदयं कुमारमन्मथं तदनुरागख्यापनेन समाश्वासयेति ( पुरीवलोक्य ) एष कुमारो नर्मसचिवेन सह किमपि सल्ँलपन् ‌ शयनमध्यास्ते। अहो वियोगव्यथापारवश्यमेतस्य। क्षामापाण्डुवपुः प्रतान्तनयनः प्रत्यूषचन्द्रानन —- श्चिन्ताव्याकुलधीः किमप्यशीशिरा निश्वासधाराः सृजन् ‌ ॥ प्रस्वेदी घृतवेपथुः सपुलको रम्याण्यलं विद्विषन् ‌ शून्यं मन्त्रयते वहत्यनुकलं मूर्च्छां पुनश्चेतनाम् ‌ ॥ 21 ॥ दर्शयाम्यस्मै तावदात्मानम् ‌ ( हत्युपसर्पति ) विदूषकः —( निरूप्य ) वअस्स पकिदित्थो होहि एसा खु अज्जा वसिणी आअच्छइ। (67) मन्मथः —( सहर्षम् ‌) कथं प्राप्ता भगवत्याः प्रियान्तेवासिनी वशिनी। ( अत्थाय साञ्जालिबन्धनम् ‌) आर्ये स्वागतं भगवत्यै इत आस्यताम् ‌ ( इति सर्वे उपविशन्ति ) विदूषकः —( उत्तरीयपल्लवेन चित्रफलकं निह्नुते ) वशिनी —- अपि कुशलं कुमाराय। मन्मथः — इदानीमार्याया दर्शनेन। सख्यौ —-( वशिनीमवलोक्य ) दिठ्ठिआ वुठ्ठिव्व काले उवठ्ठिआ अंज्जा (68) मन्मथः — आर्ये इयं पड्गोर्निजाङ्गणं एव गगनगङ्गालहरीविहृतिः वशिनी — कुमार अनुपपन्ना तावदुत्पन्नसौहृदं जनं प्रत्युपचारोक्तिः। मन्मथः —- आर्यो अप्युररीकृता भगवत्या मन्त्रिणो क्सन्तस्य विज्ञप्तिः। वशिनी — कुमार न केवलमुररीकृता भगवत्यां दिष्ट्या च मया तथा संसाधितां यथेदानीं महाभागा रतिः। जानीते न कृताकृतं दिनविधौ तं चाचरत्यन्यथा ष्टष्टैव प्रतिवक्ति चान्यदितरद्दत्तेऽपरं याचिता॥ व्यत्यस्तामपि कञ्चुकीं निजतनौ धत्ते तथालंकृतिं भाति प्रस्तुतसाहितीव सुभग त्वल्लीनचेता रतिः॥ 22 ॥ किंच। ध्यानेनोत्पलकाङ्गमाकलितया सप्रेममेवार्तया स्वैरं दिक्षु दशस्वपि प्रतिमया स्तब्धेक्षणं दृष्टया॥ यामार्धार्धतदर्धतार्कितभवत्संप्राप्तिसौख्याशया - प्यस्त्यप्रोषितचेतना मृदुतनुर्लावण्यशेषेव सा॥ 23 ॥ रतिः —( स्वगतम् ‌) अणुअंपिदह्मि अज्जाए (69) मन्मथः — आर्ये अनेन ते वचनेन सानुरागामस्मासु जानीमो अवत्सखीम् ‌ । वशिनी — कुमार न केवलं सानुरागा सोपतापातिशया च तथाहि। सक्वाथं चरणार्पणेन सुदृशो वापीजलं क्षीयते भूयो मर्मरितच्छदा वनलताः शुष्यन्ति दृग्गोचराः॥ विश्वासश्वसनैर्दलन्ति शतधा क्रीडामहीभृच्छिलाः सोयं त्वत्परिरम्भणं बत विना तापः कथं शाम्यतु॥ 24 ॥ उपचर्यमाणा च सख्या ब्रवीति। किं दावेन निषिञ्चसि प्रतिकलं वज्रैः कुतो हांसि मां व्यालैर्वेष्टयसे कथं निदधसे किं खङ्गधारास्तरे॥ नेष्टं ते मम जीवितं ध्रुवमुत प्राप्यापि तावत्कृतं पापायाः प्रयतस्व तत्प्रियसखि स्वेच्छानुरूपं मयि 25 इति। मन्मथः — धिक्कष्टं परां कोटिं गतस्तापः शिरषिसुकुमारैः सुतनोरवयवैः कथं सोढव्य इति व्यथते मे चेतः विदूषकः —- वअस्स मा विहत्थो होवु भवं सोदव्वसेसं विसुणुमो (70) वशिनी — प्रत्युद्याति तवागमभ्रमवशाद् ‌ ब्रूते पुनः स्वगतं सोत्कण्ठं परिरप्सते चरणयोः संनह्यति क्षालने॥ दत्ते चासनमासितुं जनयति द्राक् ‌ तालवृन्तानिलं सा मे हन्त नितान्तरूढविरहक्लान्तान्तरङ्गा सखी॥ 16 ॥ विदूषकः —- वअस्स जिदं अह्मोहिं (71) मन्मथः — सखे अनुरागातिशयं मयि ननु बुद्ध्वानन्दमग्नमपि तावत् ‌ ॥ सीदतितरां मनो मे सुदृशो विरहव्यथां विचिन्त्येमाम् ‌ 27 सख्यौ —- पिअसहि अविसुदं तुए सोदव्वं दिठ्ठं अ दठ्ठव्वं विण्णादं अ विण्णादव्वं ता पज्जवठ्ठावेहि अप्पाणं (72) वशिनी — कुमार तदेवमन्योनानुरागयोर्वामचिरादवश्यंभावी समागमः। मन्मथः — आशीरियमार्यायाः। विदूषकः —( वारुणीं दिशमवलोक्य ) वअस्स अणुजाणाहि मं संइझोवासणस्स (73) मन्मथः —- कथं उपनतः सायन्तनसमयः। ( निरूप्य ) आरक्तया नितान्तं संरक्तस्येह पझिनीकमितुः। स्ष्टहये दिशा प्रतीच्या सम्बन्धायानुरूपाय॥ 28 ॥ विदूषकः — वअस्स णं उण एत्थ पमदवणलीलाथेरोसणसरम्मि तम्मत्तस्स चक्कवाअमिहुण्णस्स दुप्पेख्खं अवत्थन्तरं (74) मन्मथः —- कासारे बिसिनीदलैर्व्यवहिते किञ्चिन्मिथो दर्शने यद्दैन्येन विरौति धावति पतत्यावेपत मूर्च्छति। तत्तादृग्बत चक्रवाकमिथुनं दीर्घां वियोगव्यथां नक्तं हन्तनयन्निदं हतविधिर्मुच्येत वाच्यात्कथम् ‌ ॥ 29 ॥ विदूषकः —-( स्वगतम् ‌) किदं णेण वअस्सस्स पुणो वि उक्कंठाकालणेण पसङ्गेण ( प्रकाशम् ‌) वअस्स उवठ्ठाणसमओखु दे ता सम्भावेहि तुमं एव्व पडिवालअं तं सअलं सामाजिअ लोअं (75) मन्मथः — आर्ये उपास्या ननु भवत्या पितृप्रसूः। वशिनी —- साधयतु कुमारः समीहितसिद्धये। ( निष्क्रान्ती मन्मथः सह विदूषकेण ) वशिनी —–( विदूषकङ्कविभ्रष्टं चित्रफलकामदाय स्वगतम् ‌) अयं हि सस्यनिष्पत्तये क्षेत्रकर्षिणो निदानलाभः यत्कुमाराश्वासनप्रवृतया समासादितः सख्या रत्याः प्राणनोपायश्च तदिदं मयूरिकाहस्तेन तस्यै प्रापयिष्यामि। अतिवर्तते मे हि संध्यासमयः। ( इति निष्क्रान्ता ) रतिः —( निरूप्य ) हद्धि हद्धि कहं ण दीसइ महाभाओ ( साश्चर्यम् ‌) पासादो वि। हला किं एदम् ‌(76) सख्यौ — पिअसहि किं अण्णं तुह विणो अणपवुत्तादो भअवदीए पहावादो (77) रतिः —-( सास्रम् ‌) हला किं मित्था समासासणोवाओ मह एसो ( इति मीहमुपगम्य भूम्यां निपतति )(78) सख्यौ —( विविधं शिशिरोपचारमाचरन्त्यौ सस्वेदम् ‌) कहं चिरेणवि एसा सण्णं ण लहोहि किं दाणिं कादव्वं किं एत्थ समासा सासणं होइज्जइ (79) ( इति चिन्तां नाटयतः ) ( प्रविश्य ) मयूरिका — अज्जाओ एदं खु भट्टिदारिआपरिदावणिव्वावएत्तअं होज्ज त्ति अज्जाए वसिणीए मह हत्थे दिण्णम् ‌ । ( इति त्रित्रफलकं दर्शयति ) (80) रतिः —( तदादाय निरूपयति ) हला मह च्चेअ खु एदं चित्तफलअम् ‌(81) सख्यौ — आं पिअसहि दाणिं उण अत्थि एत्थ को वि अदिसओ (82) रतिः – केरिसो सो ( इतिं निपुणं निरुप्य स्वगतम् ‌) धण्णा खु ममा दुएसा पडिकिदी जा महाभाअस्स हत्थ फंस संभावणा आअस्स (84) रतिः —( सौत्सुक्यं मन्मथप्रतिच्छन्दमवलोकयन्ती ) कहं आणंदबाप्फुप्पीढोएत्थ मे पडिपख्खो होइ (85) सख्यौ —( रतिप्रतिकृतिं निर्वर्ण्य ) अह्मो भावालेख्खकुसलदा महाभाअस्स जं पुप्फाईं ओचिण्णत्ती तहरूवव्व आलिहिदा पिअसही ( 86 ) रतिः —( आलेख्यमन्मथं प्रति सोपालम्भम् ‌) अह हिअअपाडच्चर णं गिहीदो भवम् ‌ (87) सख्यौ —-( सपरिहासम् ‌) एव्वं वि णाम एदिणा णिवुदा होदु पिअसही (88) रतिः —( चित्रफलकं हृदये कृत्वा प्रमोदसल्तिमिताऽवतिष्टते ) ( प्रविश्य ) सारिका — उज्जाओ एसा खु अज्जा आअणिदभट्टिदारिआसरीसोवदाववुत्तंदा इदोमुहमाअछइ ( 89 ) रतिः —( ससंभ्रमं गात्रापनीतशिशिरोपकरणा ) कहं अज्जासअं आअदा हला ता अह्मे एव्व अग्गादो भविअ सम्भवेह्म। ( इति सर्वे निष्क्रान्ताः ) इति कविराजपण्डितजगन्नाथविरचितरतिमन्मथनाम्नि नाटके द्वितीयोङ्कः। ****************************************************** . तृतीयोङ्कः शुद्ध विष्कम्मः। ( ततः प्रविशति आसनस्थः प्रजागरक्लान्तलोचनः किमपिचिन्तयन् ‌ वसन्तकः ) वसन्तकः —-( स्वगतम् ‌) अहो महत्त्वपर्यवसायी केवलं मन्त्रिभावः। यतः — आशङ्क्यः प्रभूराश्रयोप्यवहितेनाराध्यमन्तःपुरं मान्यस्तत्प्रणयी जनो व्यवसितं ज्ञेयं स्वरन्ध्रषिणाम् ‌ । सान्त्व्याः शास्त्रभृतो निजान्यविषयोदन्तोऽवधार्यः समा - लोच्याऽऽयव्ययसंगतिर्बत पदं सौख्याय किं मन्त्रिणः 1 ( सानुस्मरणम् ‌) सूक्तमिदं नयविदा कविना। यथा —- स राजा यस्त्यक्तव्यसनमखिलां शास्ति जगतीं स मन्त्री यो राज्ञां हितमथ च लोकस्य तनुते॥ स सेनानेता यः समिति भटसाह्याय घटते स सभ्यो यो वक्ति प्रियमपि सक्षायां समुचितम् ‌ ॥ 2 ॥ अपि च। यत्रास्ति प्रभुशक्तिमान्न नृपतिर्नीति प्रवीणो न वा मन्त्री किं च परस्परोपकृतिषु स्निग्धा न सामाजिकाः॥ सेनानीर्न जयी यतास्मृति वदन् ‌ न प्राड्विवाकः कुलो - त्वन्ना नाधिकृताश्च तत्र सुधिया वस्तुं न राज्ये क्षमम् ‌ 3 ( सविमर्शम् ‌) गृहीतभृतेः किमनतिगताध्वनो वीवधभारनि - र्वेदेन। इदमिदानीमवश्यनिर्वोढव्यमापतितम् ‌ । यत्किल। सामान्येन विशेषतश्च नगरीसौधे वने नन्दने दृष्टायां दृढरूढरागविवशो रत्यां विभुर्मन्मथः। तल्लांभाय निरन्तरोपचितया क्रोडीकृतश्चिन्तया भक्तैरप्यधुनास्मदादिभिरहो भृत्यैर्न संतुष्यति॥ 4 ॥ श्रुतं हि भगवत्यन्तेवासिन्या वशिन्याः सकाशाद् ‌ रतिर - तितरामनुरक्ता स्वामिनि मम्मथ इति। औपयिकस्तावदनयोरन्योन्यव्यतिकरः। यतः। रञ्जत्युत्पलिनी क्व शीतकिरणं हित्वा स वा तां पुन - र्वासन्ती सहकारमेव स ननु प्राप्यौचितिं विन्दति। सन्बन्दो नलिनी निदाघमहसोः श्लाध्यास्पदं जायते दाम्पत्यं च परस्परानुगुणयोः स्त्रीपुंसयोर्युज्यते॥ 5 ॥ दित्सिता च पितृभ्यां भगवदुपेन्द्रानुप्रहितस्य तत्र भवतो वाचस्पतेर्वाचा रतिः स्वामिने सुधन्वने। निवेदिता तु मह्यमभितः प्रवृत्त्युपलम्भाय गूढमनुसञ्चरद्भिश्चरैरेतत्प्रतिकूलापि वार्ता। यता शम्बरासुरार्थे रतिमर्थयितुं तत्पितुरन्तिकं भार्गवान्तेवासी बाप्कलः समाजगाम। तेन च सौम्यकन्याभिमतो वर एवेष्यते अस्मत्कुल इति दत्तनास्तिपर्यायोत्तरो विमना एव प्रतिनिववृत इति अतो दुस्तरशाम्बरीकं शम्बरमसुरमन्तरायमनुचिन्तयन्न निर्वृणोमि यदि वा नह्यवग्रह सम्भावनयोनारभ्याकाले कृषिः सरघाशङ्कया वा मधु नासादनीयम् ‌ । निर्वेदमन्तरावस्तुनि प्रवर्तमानस्य सिद्धिरविसंवादिन्येव भवति। किं च। लोकैकधनुर्धरस्य स्वामिनस्तावदीषत्करः शम्बरनिग्रहः इदं पुनरन्यदपरिहार्यमुपस्थितं कार्यमत्याहितमिव प्रतिभाति। यत्खलु पझयोनिवरास्कन्दितविबुधसझभिः शूरपझादिभिरसुरैः पराजितस्तुराषाट् ‌ सुराचार्येण सह संमन्त्र्य दुर्वृत्तनिग्रहः निरवग्रहशक्तेः सेनान्यः प्रदुर्भावाय निश्चितमतिस्तुषारधरणि भृति कुतोपि हेतोस्तपस्यन्तं भगवन्तमन्तकान्तकं शुश्रूषमाणया शैलदुहितया संयोजयितुमेतदलङ्कमर्णित्वामिन्यनुजतनुजे स्वस्य निधास्यमानभरः सातिशयममून्वासरानस्मिन्नादरं दर्शयति ( विचन्त्य , ससाध्वसोत्कम् ) यस्यालीयत कण्ठसीम्नि सहसा हालाहलं दुःसहं दर्पान्धस्त्रिशिखेन्धकोपि चरणाङ्गुष्ठे स लङ्केश्वरः॥ वैधात्रं च शिरः करे क्त्रुधि यमो हासे पुराणां त्रयं तेजोराशिरसौ कथं नु भगवाञ्जय्यो ललाटेक्षणः॥ ( विमृश्य। ) धिक्कष्टं तावदनुजीवित्वे शस्त्राजीविभावः। महोत्सेधः सौधो मधुरवयसः सारसदृश - स्तथापत्यं हृदयं तुलितनरवाहश्च विभवः। वपुः सल्लावण्योदयमधिगतारोग्यमथ च क्षणादेव स्वीयं नहि विवृतशस्त्रस्य किमपि॥ 7 ॥ अथ वा किमजयानिष्टशङ्कया मे परदेवताप्रसाद एव स्वामिनः श्रेयः समग्रयिष्यति। ( दिशोवलीक्य ) अहो निरन्तरयानयैव चिन्तया मे प्रभाता विभावरी। अधुना हि। वरुणस्य दिशि प्ररूढरागं पतिमालोक्य रूषेव रात्रिरेषा। विजहाति हि तारहारभूषां ननु सापत्न्यकमक्षमानिदानम् ‌ ॥ 8 ॥ किं च। दूरात्क्षिप्तमिवैकतः क्षितितलं दीर्घा इवेमा दिशो विस्तीर्णेव वसुन्धरासरणयः प्रत्यग्रसृष्टा इव। चक्षुष्मन्त इवाधुना तनुभृतः प्राप्ते जगच्चक्षुषि प्राचीनं धरणीधरं नवमिवाशेषं जगद्भासते॥ 9 ॥ जाने तावत् ‌ । निद्रामन्थरतारमंसवगलद्धम्मिल्लभारं कुच - प्रभ्रश्यद्वसनाञ्चलं दरगलन्नीविस्फुरज्जृम्भिकं उत्कूजन्मणिभूषणं च शयनादुत्थातुकामाः शनै - रेणाक्ष्योद्य समेधयन्ति सुरतोत्कण्ठां पुनः प्रेयसोम् ‌ 10 ( साश्चर्यम् ‌) नक्तं प्राप्तदशाविपर्ययममी संत्यज्य पझाकरं याताः स्वैरमसंस्तुता इव पुनः क्वापि द्विरेफादयः॥ सं प्रत्येष दलत्सरोजसुभगः सम्भूय तैः ख्यापितः स्वातन्त्र्यैरुपभुज्यते ननु जनः सर्वः श्रियो बान्धवः 21 संप्रत्यहमपि निर्वर्तितसांध्यविधिः प्रतिपालयामि स्वामिन उपस्थानसमयम् ‌ ( इति अभ्यन्तरं प्रविशति ) ( प्रविश्य ) कञ्चुकी —-( सनिर्वेदवात्मगतम् ‌) धिक् ‌ जम््म परपिण्डोपजीविनाम् ‌ । यद्वश्येन्द्रियवर्गता दृढतरा यच्चेतसः संयमो यन्निद्राशनयोर्मितिर्यदपि वा भोगेषु नातिस्ष्टहा। यच्चान्तःपुरचारिणां प्रतिकलं हा संशयः प्राणने यद्यत्तद्धटते निवृत्तिविषये कोन्योस्तु धन्यस्ततः॥ 12 ॥ ( साधिक्षीपम् ‌) अलमात्मम्भरेस्तावद्भस्मशायिनः शुन इव क्षणमानेन मे बोधाभासेन। यावदनुतिष्ठामि स्वामिन आदेशम् ‌ ॥ ( अग्रतोऽवलोक्य ) इदममात्यवसन्तभवनं तत्प्रविशामि ( इति प्रवेज्ञं नाटयन् ‌ सर्वतश्चक्षुः प्रसार्य ) अहो अधिकारगौरवं मन्त्रिणः। सभ्यास्तावदितो वसन्त्यधिकृताः सर्वे स्वदन्ते यतः अन्यैः कार्यवशागतैश्च सुतरां बाह्याङ्गणं संकुलं साम्राज्यं सचिवो बिभर्त्यधिभुवः श्वेतातपत्रं विना॥ 13 ॥ ( अनिवारत एव कक्षान्तरग्तं वसन्तकमुपसृत्य सप्रणामम् ‌) आमात्य पुरुहूतसमाहूतः स्वामी तत्र भवन्तं दिदृक्षते। वसन्तः —- भद्र सज्जा एव वयम् ‌ त्वत्प्रतीक्षाः। ( इति कत्र्चुकिना सह निष्क्रान्तः ) इति शुद्ध विष्कम्भकः। ——– ( ततः प्रविशति वसन्तेनानुगम्यमानी मन्मथ मितश्च परिजनः ) मन्मथः —( आत्मगतम् ‌) अये मनीषितसुलभानि नः श्रेयांसि। यन्मां रतिं च परस्परानुरक्तौ श्रुतवता गुरुजनेन निश्चितेप्याचिरनिर्वर्तनीये पाणिग्रहणमङ्गले तावदिदमावश्यकमकार्यमापतितम् ‌ । अतश्च। एकतः स्वाभिसत्कारैः परतः प्रेयसीगुणैः। कृष्यमाणमिदं द्वेधा मम दोलायते मनः॥ 14 ॥ ( सखेदम् ‌) भवतु नाम मन्दभाग्यस्य मन्मथस्यैवमुपतापनैररन्तर्यम् ‌ । मम कृतेपि नितान्तदूयमानस्वान्तां पुनः कान्तामनुस्मृत्य सन्तापभूमानमनुभवामि। दक्षा वा दवपावकोष्मविहृतेर्दीना कुरङ्गाङ्गना वार्तायामपि वैद्युतस्य महतः का हन्त वासन्तिका॥ पात्रं कैरविणीनिदाघमिहिरक्रूरा तपस्यापि किं सौढैतस्य कथं मुहुर्तमपि वा विश्लेषतापस्य सा॥ 15 ॥ ( विमृश्य ) का नाम परवतः सुखाभिलाषिताऽपि ( प्रकाशं ) मन्त्रिन् ‌ पूर्वेद्युरेव निशीथिन्यामधिगते तातस्य मरुत्वतश्चिकीर्षिते कथमद्य प्रातरमुष्य स्मरणीयोऽस्मि। वसन्तः —- स्वामिन् ‌ न दीर्घसूत्रता हि कर्तव्येषु प्रभविष्णूनामर्थसिद्धेरवश्यं भावः। अपि तु संभावितानर्थेस्मिन्नर्थे स्वामिनं नियूयुक्षमाणे स्वार्थपरता केवलमाविष्कृता मन्मथः — मन्त्रिन् ‌ नैवमवगन्तव्यम् ‌ । उक्तमनुक्तं वाथ च साध्यं वासाध्यमीश्वरस्य कृते॥ अर्हं यदि वाऽनर्हं कार्यं कार्यं हितेन भृत्येन॥ 16 ॥ किञ्च। वाहागन्धवहातिशायितरसो दानोद्धुराः सिन्धुराः वित्तं स्वाश्रितदैन्यहारि रभसाभोगाश्च भोगाश्चिरम् ‌ ॥ मानश्चातिशयीति लभ्यमखिलं यस्मान्मुहु स्वाभिनं तस्यार्थेप्यनुजीविभिः कियदिदं ताड्या यदेषा तनुः 17 वसन्तः —-( सविनयम् ‌) साधु समनुशिष्टं स्वामिना। मन्मथः —( परिक्रम्य ) इदं तावन्माहेन्द्र मन्दिरं यावत्प्रविशामि ( इति वसन्तेन सह प्रवेशं नाटयति ) वसन्तः —-( सभां निर्वर्ण्य साद्भुतं स्वगतम् ‌) इतो देवैः सर्वैरिह पितृभिरत्रर्षिभिरितः फणीन्द्रैर्भूपालैरित इह च गन्धर्वपतिभिः। इतो रम्भाद्याभिर्ललितनटनाभिः सुतनुभिः सुधर्मा निर्माति प्रमदमधिकं मे नयनयोः॥ 18 ॥ ( पुरोवलोक्य ) एष देवो महेन्द्रः सर्वैः सुपर्वभिर्यथोचितमुपास्यमानो वाचस्पतिना सल्ँलपन् ‌ सिंहासनमध्यास्ते अहो भाग्यमेतस्य। स्वाराज्यं दिविषन्नरा हि भुवनोत्तं सीकृताज्ञाक्षरं सम्पत्तिः स्ववशीभवत्सुरगवी चिन्तामणिस्वर्द्रुमा॥ किञ्चापूर्मशताश्वमेधयजनैर्दुःसाध्यमेवं पदं कस्यैतादृगपौरुषेयवचनोद्गीतं यशश्चैधते॥ 19 ॥ ( ततः प्रविशति यथानिर्दिष्टी महन्द्रो विभतश्च परिचारः ) महेन्द्रः —-( उषमन्तं मन्मथमवलोक्य वाचस्पतिं प्रति ) भगवन् ‌ । शतशोपि दृष्टविजयं सर्वासाध्यायकर्मणे वत्सम् ‌ । आदिशतो गिरिशे मे यत्सत्यं किमपि शङ्कते चेतः॥ 20 ॥ वाचंस्पतिः — महेन्द्रसदृग्वचस्तेऽनुजनन्दने वात्सल्यस्य। अथ च दुरासदो हि भगवान्पुराणामरातिः। अपि तु सूच्यते करगता कार्यसिद्धिरमुप्य समुत्साहेन तन्निर्वृणोतु भवान् ‌ । वसन्तः —( निरूप्य ससंभ्रमम् ‌) स्वामिन् ‌ एष देवो महेन्द्रः स्वभावनिर्निमेषैरपि स्तिमितोदञ्चितारकतया प्रेमातिशयं पिशुनयद्भिः सहस्रेणापि लोचनैरापिबन्निव स्वामिनमवलोकते। मन्मथः —( सरभसंमुपसृत्य वाचस्पतिमाहेन्द्रौ प्रणमति। वसन्तश्च ) उभौ —-( सस्नेहगौरवं ) विजयेतां भवन्तौ। मन्मथः —-( महेन्द्रनिर्दिष्ट आसने समुपविश्य वाचस्पर्ति प्रति ) भगवन् ‌ भ्रूकिङ्करीभूतभूर्भुवःस्वस्त्रितयप्रवीरस्य निरन्तरौर्जस्वलनिजतेजोनलशलभायितससंरम्भजंम्भनमुचिविरोचन - पुलोमबलवृत्रादिशात्रवनिकरस्यापि तातस्यापि कुलिशायुवस्य किमर्थमयं स्मृतिकर्मीभूतो नियोज्यकोटिचरमकोटिनिविष्टोजनः। वाचस्पतिः —-( सपरितोषम् ‌) कुमार समुचितैव भवतो ज्यायसि पितरि विनयाति शयमेदुरा गिरां परिपाटी तावदियम् ‌ । अपि तु। वैजयन्तो जयन्तोऽथ शची गार्हस्थ्यसम्पदे। अस्य त्रैलोक्यराज्यश्रीर्भवद्वीर्यनिबन्धना॥ 21 ॥ पश्य। चक्रं तत्क्रमते न यत्र घटते दम्भो न दम्भोलिनः षाशो नेङ्गति पाशिनः पितृपतेर्दण्डो नचोद्दण्डति॥ दुःसाध्ये ननु तत्र कर्मणि भवन्मुक्तैः प्रसूनैः शरै - रेकद्वैरपि शान्तशात्रवमदो वृत्रारिरानन्दति॥ 22 ॥ मन्मथः —-( सव्रीडमिव ) भगवन् ‌ प्रभवन्ति हि प्रभवो भृत्यबहूकरणे। किंतु पुरस्कृतस्यासनबागसंनिधौ निजोपजीव्येन विदेयगारैवात् ‌ । भवेदसंसाधितवस्तुनो न किं ह्रियेर्थवादोपि कुलप्रथाजुषः 23 महेन्द्रः — वत्स। अनितरसाध्यतया त्वमेव सकललोकशिवङ्करे कर्मणि समुत्सृष्टवात्सल्यं नियुक्तोसि मन्मथः —( सप्रश्रयम् ‌) तात अनियन्त्रणनियोगो हि स्वामी नियोज्येषु। कं वा ते परिपन्थिनं युधि शरैर्दर्पोद्धुरं शामये कस्याद्य क्रियतां चिराय विषयव्यासक्तमन्तर्मुनेः॥ आ कीटात्पुनरा सरोरुहभवात्को वा शरव्यं न मे ताताज्ञापय मा चिरं किमधुना कुर्यामहं त्वत्प्रियम् ‌ 24 महेन्द्रः — वत्स समुत्पत्स्यमानेन शिवयोरपत्येन सुनिग्रहाः श्रूयन्ते शूरपझादयः सर्वे सुवर्वारातयः। अतस्तथा प्रयततां वत्सेन यथा प्राचीनौ दम्पती क्षणमप्यसोढविरहमन्योन्यं संयुज्येयाताम् ‌ । मन्मथः — तात। अपि वरिद्रुममपि दंशमशकं संयोजयतस्तात नियोज्यस्य कियदेतन्नाम। यत्पुनः स्त्रीपुंसौ लब्धसंनिकर्षौ संयोजयितव्याविति। महेन्द्रः — वत्स एवंप्रभाव एव भवान् ‌ किन्तु दुःसहतेजसि निटिलेक्षणे वत्सेन भृशमवधातव्यम् ‌ । मन्मथः — यथा नियोजयति तातः। वाचस्पतिः — कुमार प्रशस्तमिदं विजयप्रयाणाय धनुर्लग्नं पश्यामः। मन्मथः —( सोल्लासम् ‌) भगवन् ‌ सज्ज एवास्मि ( इत्युत्तिष्टति ) महेन्द्रः —( सगारैवं स्वाङ्गावतारितानि दिव्यान्याभरणानि वासांसि च प्रदाय ) साधयसाधय कार्यं सौपर्वं भवतु ते शिवः पन्थाः। वितरतु सा कल्याणी कल्याणं संप्रयातस्य॥ 25 ॥ मन्मथः —( सप्रणामं वसन्तेन सह निष्क्रान्तः ) महेन्द्रः — भगवन् ‌ इदृशे कर्मणि वत्सं नियुञ्जोनः संप्रतिअसन्निहितमश्रावितवृत्तान्तं चानुजन्मानमुपेन्द्रं किवा प्रति वक्ष्यामि। वाचस्पतिः — भगवन् ‌ । अभिमतं हि भगवतोप्युपेन्द्रस्यं तदिदमखिलभुवनभद्रकरं कार्यम् ‌ । अथ पुमरेतादृश एव निर्ममोराज्ञां धर्मः भृत्यो यदि वामात्यो भ्राता वां भ्रातृजः स पुत्री वा। यो यत्र कर्मणीष्टे तस्मिन्राज्ञा ह्यसौ नियोक्तव्यः 26 ( नेपथ्ये महान्कलकलः ) वाचस्पतिः —( श्रुत्वा ) महेन्द्र यथायं तूर्यकाहलीशङ्खदुन्दुभिस्वनोन्मिश्रः कोलाहलः समुज्जिहीते तथा तर्कयामि कुमारस्य सेनया संनद्धया भवितव्यम् ‌ । महेन्द्रः — कः कोत्र भोः। ( प्रविश्य ) दौवारिकः — देव अयमहम् ‌ । महेन्द्रः — भद्र समादिश्यन्तां जंघाकारकाश्चराश्च प्रस्थितस्य वत्सस्य प्रवृत्तिः प्रतिकलमानेतव्येति। दौवारिकः — यदाज्ञापयति देवः ( इति निष्क्रम्य मुहूर्ताज्जाङ्घिकाभ्यां सह प्रविश्य ) देव कुमामनुप्रहितेषु वार्ताहरेषु उपावृत्ताविमौ जङ्घाकारकौ प्रणमतः। महेन्द्रः — भद्र त्वमेवमेव नियोगमशून्यं कुरु ( निष्क्रान्ती दौवारिकः ) वाचस्पतिः —-( जाङ्घकौ प्रति ) कथयतं यथादृष्टं कुमारस्य प्रस्थानवृत्तम् ‌ । प्रथमः —( साज्जलिबन्धम् ‌ , संस्कृतमाश्रित्य ) अवदधातु देवः – देव गृहीतदेवनिदेशे पुनरप्रविष्टनिजभवत्र वप्रपालिगानुयात्रिके चाधिरूढयानकीरे कुमारे नगरान्निष्क्रामति वसन्तस्य दृक्पातमात्रप्रधावितैर्वेत्रपाणिभिः संत्वर्यमाणायां कृताकृतसन्नाहमभिपतन्त्यां ष्टतनायाम् ‌ । मदामोदभ्राम्यन्मधुकरकुलैर्दन्तिपटलै - रुदङ्घ्रित्वङ्गद्भिर्जितपवनवेगैश्च तुरगैः। शताङ्गैरुत्तुङ्गैर्विलसदसखेदैरपि भटै – र्धरित्री द्यौराशान्तरमपि तिरोधायि सकलम् ‌ ॥ 27 ॥ महेन्द्रः — अस्तु तावदेतत्सकलमहेश्वरसाधारणम् ‌ । निवेदयतं वत्सविजंयमूलस्य मौलस्य बलस्य समारम्भम् ‌ । द्वितीयः — सुणादु देवी। मलयसमीरो माहवणिसा णिसेसो अ सु अपिअ अल्लिला। मोरा कलहंसा सुरसा रसणेत्ता अ सरहसं चलिआ 28 (1) महेन्द्रः —( सस्मितत् ‌) भगवन् ‌ संगृहीतमनेन। वाचस्पतिः — भद्रौ सविशेषं वर्णयतम् ‌ । प्रथमः —- आलिङ्गन्नवमालिकामपनयन् ‌ यूनोः श्रमाम्भः कणान् ‌ भृङ्गीणामपि शिक्षयन्नविकलां सङ्गीतभङ्गीकलाम् ‌ ॥ चौलीमौलिनिबद्धमुग्धबकुलस्रग्गन्धमुष्टिन्धयः श्रीखण्डाचलबान्धवो विलसते धरिः समीरः पुनः॥ 29 ॥ वाचस्पतिः — नासीर वीरः स्वल्वेष कुमारस्य। महेन्द्रः — ततस्ततः। द्वितीयः — देव णवरिअ पासादसअणसुहआ पसण्णचन्दा पमन्दगन्धवहा। सम्भिअजुवलीलाओ सुरहिणसाओ सरहसञ्चलिआ 30 (2) प्रथमः —- जीवातुस्त्रिदिवोकसां जलनिधेर्मेदस्करो मानिनी - मानोन्मूलनकारणं कुमुदिनीहासैकवैहासिकः। ध्वान्तोच्चाटनमान्विकोम्बरसरः सीमामरालो जग - न्नेत्रानन्दरसायनं विजयते राकानिशाकामुकः॥ 31 ॥ वाचस्पतिः — ततस्ततः — द्वितीयः तदो अ पख्खेहिं हरिदेहिं पवालसरिसेण चंचुभाअेण॥ पमदालावकलाहिं पमदंकीरा कुणान्ति कूजाहिम् ‌ ॥ 32 ॥ (3) प्रथमः —- उत्तालाः कुरुविन्द पाटलदृशामुन्निद्रनीलोत्पल - स्निग्धानां सहकास्पल्लवलवग्रासोल्लसच्चेतसाम् ‌ । उन्मीलन्ति समन्ततः श्रुतिसुखाः स्पष्टीभवत्पञ्चमाः स्वच्छन्देन कुहूःकुहूरिति मुहू रम्याः पिकानां गिरः (33) वाचस्पतिः — एताः खलुकामुकमनोमृगाकृष्टिकिरातगीतयः। महेन्द्रः — ततस्ततः। द्वितीयः – अण तरं अ। महूरसपाणपमत्ता महुरं परिदोवि झंकुणन्ती ओ। वम्महबलसामग्गी वट्टणकुसला भ्रमन्ति भमरीओ 34 (4) प्रमथः —- बर्हैकेरल कामिनीकरुचामर्हैश्चमूमुल्लस - न्सासूरातपवारणोच्चयपरिष्कारां समातन्वती। केकाभिर्जयकाहलीसमधुरग्रीवोद्गताभिर्मुहु - दिक् ‌ चक्रं निरुणाद्धि मुग्धनटनोदारा मयूरावलिः॥ 35 ॥ वाचस्पतिः — वेधसः सृष्टिवैचत्र्यसमष्टिर्नन्वेषा। महेन्द्र —- ततस्ततः। द्वितीयः — देव्व णव्वरीअवि। पअडिअचामरसोहा पख्खेहिं सोणचञ्चुचलणंता॥ गमणोवदेसगुलुणे तरठ्ठिआणं पुरहिआ हंसा॥ 36 ॥ (5) प्रथमः — तत्तादृक्कुशिकात्मजव्रतविधिप्रव्याधिका मेनका दासीभूतपुरूरवास्त्रिभुवनेप्यन्यादृशी चोर्वशी। लङ्कानायकशापमूलललितारम्भाचरम्भाहृत - स्थेमा किञ्च तलोत्तमा दितिजयोः सुन्दोपसुन्दाख्ययोः 37 एताभिः पुनरन्येन च सुरवारस्त्रैणेन खेलत्कुण्डलमाकुलाकुलमणीहारं क्वणत्कङ्कण - श्रेणीनूपुरमेखलं चलकुचं वल्गन्नितम्बस्थलम् ‌ । अन्योन्यं मणिदण्डिकाहतिवलन्नेत्रारविन्दाञ्चलं प्रक्रान्तं यमिनो मनोऽपि हरते हल्लीसकक्रीडितम् ‌ 38 वाचस्पतिः — अमोघान्यस्त्राणि तावदमूनि कुमारस्य। महेन्द्रः —( सोल्लासम् ‌) सम्प्रति कतरस्मिन्प्रदेशे कुमारः द्वितीयः — देव्व कोसेत्तव्ववहिदे गिरिसस्समे कुमालेण अभ्भगुण्णादा अह्मे खु पडिणिव्वुत्ता। (6) वाचस्पतिः —( उभाभ्यां वीटिकां प्रदाप्य ) भद्रौ विश्राम्यताम् ‌ । ( जाङ्घिकौ कृतप्रणामं निष्क्रान्तौ ) महेन्द्रः — भगवन् ‌ स्थाण्वाश्रमस्य सन्निहितं वत्समुपश्रुत्य किमपि व्यथते मे हृदयम् ‌ । वाचस्पतिः — एतादृश एव ममतास्वभावः। भयस्थानं च भगवतोभूतपते राश्रमः। ( प्रविश्य पटाक्षेपेण -) प्रतिहारी — देव दीयन्तामितश्चक्षूंषि। चूपग्नभांसि सिन्धो सपदि विदलयन्नश्मनो भूधराणां कुर्वन्नुर्वी विशुष्कक्षिति रुहनिवहां द्यां विशीर्णां वितन्वन् ‌ ॥ ज्वालाभिः प्रोज्वलाभिः किमपि चटचटत्कारिणीभिः समन्तात् ‌ रुन्धानो वैधमण्डं हरति धनपतेरेधते हव्यवाहः॥ 39 ॥ महेन्द्रः —( सशङ्कं ) भगवन् ‌ नूनमनेनातिशयिततेजोन्तरोष्मणा त्रिलोचनविलोचनोद्गतेन भवितव्यं किमवस्थोवा मे वत्सः स्वात् ‌ ( इतिवैक्लव्यं नाटयति ) वाचस्पतिः —- महेन्द्र कुतः स्वैनैव तर्केण पर्याकुलो मुह्यसि। मयापि दृष्टसामुद्रिकलक्ष्मणो दीर्घायुषः कुमारस्य कथंघटेत तावदस्याहितशङ्कापि ( नेपथ्ये ) वियदध्वचारिणः सिद्धाः अहो भगवत्याःसर्वार्थसाधिकायाः सर्वपथीना मन्मथश्रेयःसाधकता दृष्ट्या मन्मथमात्तकार्मुकशरं क्रुद्धस्य यावत्पुरा द्रोग्धुश्चक्षुरुदञ्चितो हुतवहः कोप्यापतत्यञ्जसा॥ ( इत्यर्धोक्ते ) महेन्द्रः —( सोद्वेगं ) भगवन् ‌ किं पर्यवसानो भविष्यति वा वाक्यशेष इति प्रमुग्दोस्मि वाचस्पतिः — महेन्द्र कृतमनिष्टैकशङ्किना वात्सल्येन। श्रेयःसाधकता यावदापतति वा वाक्याभ्यां शुभोदर्क एवेति प्रतीयते। ( पुनर्नेपथ्ये ) आविर्भूय तदा सलीलममृतेश्वर्या विधूतस्मयः प्रत्यावृत्य पुनः स्वयं स हि निजस्थाने समालीयत॥ 40 ॥ वाचस्पतिः — महेन्द्र इदानीमपि तावद्विस्रब्धो भव। महेन्द्रः —-( हर्षातिशयमभिनयन् ‌) भगवन् ‌ सिद्धवचनमेतदद्धैव कुतस्तु पुनः कुमारसकाशाञ्चिरायापि चरयोरनागमनम् ‌ । वाचस्पतिः —( प्रश्नाक्षराणि गणयित्वा ) महेन्द्र संनिहितावे व जानीहि चरौ। ( तत प्रविशतश्चरौ ) प्रथमः —( संस्कृतमाश्रित्यः वर्धतां देवः। द्वितीयः — कुमालवम्महविअओण (5) प्रथमः — देवायं मन्त्रिणा वसन्तेन भगवते वाचस्पतये लिखितकर्मीकृतो लेखः। ( इति पत्रिकां पुरी निधायापसर्पति ) महेन्द्रः —( वाचस्पार्तमवलोकते ) वाचस्पतिः —( गुहीत्वा संपुटमुद्धाट्य पत्रिकां वाचयति ) स्वस्ति। समंस्तसुरमस्तकमणिस्तोमदीधितिपुञ्जरञ्जितचरणेभ्यो गुरुचरणेभ्योन्तेवासिनो वसन्तस्यनिटिलतटस्ष्टष्टभूतलं प्रणतयः। तदनुसारिणी च विज्ञविज्ञप्तिः। कुशलमत्र तत्र भवतां च तन्नः संदेश्यं वेद्यं च निवेदितचरं स्यादाराध्यचरणेभ्यो जङ्घाकार काभ्यामनुहिमवदुपत्यकं अस्मदीयस्कन्धावारनिवेशः। ततश्चानुप्तायमुदञ्चता चकोरकुटुम्बसौहेत्यनाडिन्धमचन्द्रिकापूरपरिपूरितहरिदन्तरेण निजसखसाहाय्यकनिस्तन्द्रेण चन्द्रेण निरन्तरफुल्लसन्तानकहरचन्दनमन्दारकप्रभृतिवृन्दारकतरुवृन्दकुसुमसौरभसारभरस्तेयधीरेण मलयसमीरणेन निशिलप्रपञ्चवञ्चनचणपञ्चमस्वरप्रपञ्चनसमुत्सुकै पिकैः अमन्दमकरन्दरसिष्पन्दमधुरमधुरीणझंकृतिपरैर्मधुकरैःउल्लसतभ्रूवल्लिवेल्लितमुत्तरङ्गानङ्गविभ्रममधुरकिसलय - विसरन्मन्दहासमनुकलतरलताटङ्कमणिविभाविभासितगण्डमण्डलमीषदपसरमुत्तरीयाञ्चलस्फुटोपलक्ष्यमाणव - क्षोजतटप्रेङ्खोलितमौक्तिकहारमाविष्कृताङ्गहारमुत्क्वणत्कनककङ्कणश्रेणिसमधिकवलान्नितम्बबिम्बवाचाला - काञ्चीगुणाकिङ्किणीकम् ‌ उन्मिषन्मञ्जुलमञ्जीरसिञ्जितमङ्गीकृतमधुरसङ्गीतलास्यं किञ्चिदुदञ्चितकिलकिञ्चितविवशीभवदकिञ्चनशमधनान्तःकरणैरप्सरोगणैश्च परित्याजितयमनियमादिक्रियापरिश्रमं श्रीमतः शितिकण्ठस्याश्रमं यावदारब्धपरिकरः तत्रान्तरे ( इत्येर्धोक्ते ) महेन्द्रः — भगवन् ‌ भर्गस्य कोपानलोपशमनादुत्तरं संदर्भं वाचय। वाचस्पतिः —( तथा करोति ) अथ च भगवन् ‌ । नयनार्चिषा विजेतुं ननु मामुदयुङ्क्त चन्द्रचूडइति। शूरस्तं हि विजिग्ये स्मरः शिवायाः कटाक्षविशेखेना॥ 42 ॥ महेन्द्रः —( सोल्लासम् ‌) समुचितं हि कृतप्रतिकृतं वत्सस्य। ततस्ततः। वाचस्पतिः — अनन्तरं च। तत्र भवत्यामन्तिकजुषि शैलदुहितारे जनितरागातिभूमेरिन्दुचूडस्य सन्देशादुमां वरीतुमुपनतान्वसिष्ठादीन्मुनीन् ‌ वरिष्ठानभिनन्दता गिरीन्द्रेण समहोत्सवमोषधिप्रस्थं नगरमानीय यथाविधि प्रतिपादितायां देव्यां निजनिवासं कैलासमासेदुषः सविलासमुपसेदुषश्च शुद्धान्तमन्तकजेतुरनुमतः कुमारकर्तृकः सेवाविधिः। श्रूयते चैवमिदानीम् ‌ । सोत्कण्ठं नयनैस्त्रिपञ्चभिरपि प्रत्यङ्गमुद्वीक्षिता संश्लिष्टा दशभिर्भुजैश्च नवयोर्वक्षोजयोः पेशलम् ‌ ॥ आपीताधरपल्लवे च सदयोल्लासं मुखैः पञ्चभिः पत्युः प्रीणयते मनोनुहरते हृष्टा गिरेर्नन्दिनी॥ 42 ॥ विज्ञाप्यते च प्रियसहचरीं विजयां द्वारीकृत्य भक्तजनेन भवानी। यथा। मा देहि द्वार्यनुज्ञां क्षणमिव सविधाभ्यागमे पश्य मा त्वं मा संभ्राम्य प्रणामेप्यनुनयवचसा मा स्म तावत्प्रसीद॥ पत्यौ शीतांशुमौलौ ननु जननि सकृन्मानमाधत्स्व सोयं वेत्तु स्वस्मादुपात्तं जगति तनुभृतां प्रार्थनाभङ्गखेदम् ‌ ॥ 43 तदित्थमत्र भवदनुग्रहेण संसिद्धात्मनिवेशाचरणस्य कुमारस्य विजयेनाभिनन्द्यो देवराजः। उदन्तशेषस्तु कुमरमन्मथेन संदिष्टश्चारमुखादवगन्तव्य इति। महेन्द्रः —( सानन्दबाष्परोमाञ्चम् ‌) प्रियं नः प्रियं नः। वाचस्पतिः — भद्रौ वाचिकं निवेदयतम् ‌ । प्रथमः — देव विज्ञप्तं कुमारेण यादवभ्यनुज्ञमिहैव पितृष्वसुरन्तिके निवसन्नागमिष्यामि तात चरणारविन्दमूलमिति। द्वितीयः — देव्व लद्धकुमाराणुण्णेहिं केलासादो पडिणिवुतेहिं ओसइपत्थस्स पुरस्स बाहिग्पमदवणपेरंत पाअवच्छायाए मंतेहिं अह्येहिं अण्णं वि अच्चंतप्पि अमा अण्णिअं (7) महेन्द्रः —-( सौत्सुक्यम् ‌) कीदृशं तत् ‌ । द्वितीयः — तत्थ जइच्छाए संणिहिदाणं विस्संभादो अण्णुण्णमालवंतीणं तत्त होदीए पव्वदसव्वभोमघरसाइमिए मेणाए परिआरिआणं पुढमाए भणिदं। जह। पिअसहि इमेसु दिहदेसु समुप्पण्णदोहलाए अह्माणं भट्टिदारिआए समुइदाइए दाइं सहआरजम्बीरखज्जूरदाडिमां इति। पुच्छिदं अअणवरिज्जाए हला अविसच्चं गुव्विणी संवुत्ता भट्टिदारिआ त्ति उत्तरिदं खु पढमाए एव्वं सहको अत्थ संसयो। हियो किल केलासादो विअ आणुप्पेसि दसमा अदाए हरचेडोए देव्वीसआसे भट्टिदारिआ दोहललख्खणाइं अणुवण्णिदाइं। जह। आपंडुदुव्वलमुही ठूलठ्ठूलग्गणील सिहणभरा। किसदा बिमुक्कमझ्झा सिढिलिअ सव्वङ्गभूसणा गोरी॥ 44 ॥ ति (8) महेन्द्रः — भगवन् ‌ अपि न विज्ञातो वसन्तेनायमुदन्तः। वाचस्पतिः — महेन्द्र दुरुपलम्भः प्रायेण महेश्वराणामन्तः – पुरवृत्तान्तः। प्रथमं मातृकुलप्ररूढतया परिचारिकामुखादवगतोयं चराभ्यां नेह संशयितुं चावकाशः। ( प्रविश्य ) दौवारिकः — देव धनाधिनाथसकाशादुपगतः प्रमोदवार्ताहरः। महेन्द्रः — भद्र किमिति प्रतिहारे प्रतिषिद्धः। दौवारिकः —( निष्क्रम्य पुरुषं प्रवेशयति ) पुरुषः —( सप्रणामम् ‌) देवदेवस्य त्र्यम्बकसखस्य प्रियसंदेशोयम् ‌ । महेन्द्रः — भद्र निवेदय तावत् ‌ । पुरुषः — आविर्भूतो गिरिशगृहिणीगर्भतो निर्भरौजाः षोढा वक्रेप्यथ च दशधा दोण्णि रूढो द्विधा च। एकेनाह्ना दघदपि वयः षोढशादं समिन्धे दुर्वृत्तानां समिति दलने शक्तिमान्कार्तिकेयः॥ 45 ॥ अपि च। पित्रोश्चुम्बति षण्मुखान्यपि मुखैः षङ्भिर्मुदालिङ्गते तेभ्योपि द्विगुणैर्भुजैर्व्यतिकरोत्येतावतः स्वान्भुजान् ‌ ॥ एकाङ्कासिकयोभयोः सुखयति प्रेमात्तदेहैक्ययो - श्चेतः काचिदिहेदृशी विजयते बालस्य लीला विभोः ॥ 46 ॥ अभिषिक्तश्च तत्र भवान् ‌ तदात्व एव सुरसेनापत्ये विष्वक्सेनापत्येन तदद्यप्रभृति सपत्नेभ्यो नास्माकम् ‌ आतङ्कशङ्काप्यस्तीत। महेन्द्रः — भगवन् ‌ ! प्रवर्तताम् ‌ मङ्गलातोद्यनित्वनः। आरभ्यतां च लास्यमप्सरोभिः। वाचस्पतिः —( तथैवादिशति ) ( सर्वे सभासदो महेन्द्राय रत्नान्युपहरन्ति ) महेन्द्रः —-( वितीर्णभूषाम्बरं पुरुषं विसर्जयति ) नेपथ्ये ) अब्रह्मण्यमबह्मण्यम् ‌ । महेन्द्रः — भगवन् ‌ ! ज्ञायतां कमेतत् ‌ इति। ( नेपथ्यार्धप्रविष्टः -) प्रतिहारी — देवदेव सेनाधिनाथप्रादुर्भावमहोत्सवव्यासक्तेषु तावदत्र पौरेषु तत्र भवतो रागस्य कन्या रतिरधिसौधपर्यङ्कप्रसुप्तैव न दृश्यते इति पर्याकुलस्य तद्गृहजनस्य समाक्रोशतो महानयं कोलाहलः। महेन्द्रः —( ससंरम्भम् ‌) भगवन्कथमिदमापतितमयशस्करमस्माकम् ‌ । को वा मध्येमरावति साहसिकं तदीदृशमाचचार। दित्सिता हि कल्याणी रतिः पितृभ्यां कुमारमन्मथाय कृतसुरकार्ये च प्रत्यागते कुमारे किं प्रतिपत्तव्यमस्माभिः। कथं वा ज्ञायते कन्यापाटच्चरापसदः। वाचस्पतिः — महेन्द्र ! तर्कयामि रतिहेतोः कुमारं प्रति स्पर्धावतोः लब्धान्तरस्याधुना मायाविनोसुरस्य शम्बरस्य कर्मणानेन भवितव्यम् ‌ । महेन्द्रः —( सक्रोधम् ‌) आः कृतं मे मूर्धनि पदमसुराधमेन ( इत्युत्थाय समुद्धतं परिक्रामन् ‌ प्रतिहारिणं प्रति ) भद्र समाज्ञापयाधिकृतान्सेनासन्नाहाय। भगवन् ‌ ! समाश्वास्यतां सखा मे रागः। एषोहमिदानीम् ‌ । क्षोणीभृत्कुलकक्षपालिलवनाकुण्ठास्त्रिणाविस्त्रव - द्वृत्रासृक् ‌ भरलब्धपारणसमारम्भेण दम्भोलिना। निर्मथ्याहमनेन दैत्यहतकं तं शम्बरं संयुगे प्रत्याहृत्य रतिं वयस्यहृदयानन्दाय जायेञ्जसा॥ 47 ॥ इति। वाचस्पतिः — महेन्द्र ! कियदेतत् ‌ भवतो हि प्रतिश्रुतपूर्वो हि वधः शम्बरस्य स्वयमेव कुमारेण। अतः स एवास्य यशसो भाजनं भवतु। महेन्द्रः — भगवन्नेवमस्माभिः परिपन्थिनःपार्ष्णिग्राहिभिर्भवितव्यम् ‌ । ( इति निष्कान्ताः सर्वे ) इति श्रीजगन्नाथरायपण्डितकृतौ रतिमन्मथनाम्नि नाटके तृतीयोङ्कः॥ ************************************************** . चतुर्थोङ्कः। ( ततः प्रविशति रागी मुदिता सख्यौ पुरोहितश्च ) रागः —( सवैक्लव्यम् ‌) समुत्पन्ना मान्ये सकलभुवनानामभिजने सुते लक्ष्मीजानेरुचितमनुरक्तासि सदृशे। गुणैस्त्रैणं सर्वं ननु च हृतगर्वं कृतवती कथं वत्से यातास्यसदृशमिमां हा परिणतिम् ‌ ॥ 1 ॥ हंत ! हविर्निर्वापार्हां स्रुचमधिमखं श्वेव हतकः स्रजं हृद्यां जात्यैर्मणिभिरतिलोलः कपिरिव॥ नृशंसः सारङ्गी वृकइव भयोल्लासंनयनां जहार त्वां वत्से स कथमसुराणामपसदः॥ 2 ॥ मुदिता —( साश्रुपातम् ‌) हा जादे कहिं तुह वअणदोसारअणं पेक्खिस्सं ( सानुस्मरणम् ‌) किं दोहलस्य अहवा पसवव्वहाए आहो विवढ्ढणकिदस्स पलिस्समस्स॥ अच्चभ्भुदस्स जइवा तुह कीलिअस्स हा कस्स कस्स सुमरामि किसोरिए मे॥ 3 ॥ (1) सख्यौ —( साक्रीशम् ‌) अहिरूढकुञ्जराणं दठ्ठण्ण बहूवराण्णे वच्छम् ‌ ॥ उक्कंठि आसहीणो परिहासे लज्जिता कहिं दाणिम् ‌ ॥ 4 ॥ (2) ( इति सर्वे मोहमुपगम्य पुनः संज्ञां लभन्ते ) रागः —( अनुस्मृत्य ) विहारे बालाभिः सह विततगेहोपकरणं समन्ताद्दाम्पत्योचितमभिदधाना बहुविधम् ‌ ॥ अकस्मात्प्राप्ते मय्यखिलमपि हित्वा नु जननि ह्रिया लीना वत्सा मम कथमुपैतु स्मृतिपथात् ‌ ॥ 5 ॥ मुदिता — जादे सकोदुकाए मए खु दावूण पुरिस णेवत्थम् ‌ ॥ एसा सुअवाणीदे भणिदे जाएत्ति संभमो आसी॥ 6 ॥ (3) सख्यौ —- पुढमं प्रासादगआ पुररच्छाए विणिग्गअं मअणम् ‌ ॥ पेख्खिअ परूढलज्जा आसी हा लज्जिदुं विसही॥ 7 ॥ (4) ( इति पुनः सर्वे मोहमुपगच्छन्ति ) पुरोहितः — महाभाग कृतं मोहेन। आपतिते दुर्जाते धैर्यमवलम्ब्यताम् ‌ । ( सर्वे समाश्वमन्ति ) रागः —( सचिन्तम् ‌) हन्त तमसुराधममनुगतस्य सख्युः सुत्राम्णोऽपि प्रवृत्तिर्नाकर्ण्यते। ( प्रविश्य आकाशयानेन -) चारणः —-( मध्येसरणिसौधाग्राङ्गणगतं गगमवलोक्य — स्वगतम् ‌) अनुल्लङ्घ्योऽयमत्र भवान् ‌ ( इत्युपसृत्य ) आर्य प्रणमामि। रागः – भद्र शङ्के सत्वरेण भवता कुमारजयन्ताय महेन्द्रवार्ताप्रापकेण भवितव्यम् ‌ । चारणः — आर्य ! अथ किम् ‌ । रागः — अप्यस्ति प्रमोदवृत्तान्तः। चारणः — आर्य अस्माकमपि विदितापहृतां कल्याणीं रतिं स्वरथमारोप्य सरभसमपक्रामन्तमसुरपाशं सन्नद्धया सहसुप्तर्वष्टतनयाऽनुद्रवति द्रुतमन्तकवरुणवित्तेशवसुरुद्रादित्यमरुत्परिवृते देवे मरुत्पतिशम्बरसम्बन्धिनः शूरपझसिंहास्यतारकप्रभृतयो दनुजपतयो महता बलेन मध्येमार्गमवाग्रहीष्यत। ( सर्वे विषादं नाटयन्ति ) रागः – ततस्ततः। चारणः — ततश्च यावच्चिरप्ररूढवैरायितसमिध्यमानक्रोधानले सुरासुरध्वजिन्यावन्योन्यं समापततः। अत्रान्तरे च भगवानधिरूढबर्हिः षङ्भिर्भुजैर्द्विगुणितैर्विधृतोग्रहेतिः। सेनाधिपः सरभसं सहपारिषद्यः शक्त्रं द्विषद्भिरवरुद्धमभिप्रपेदे॥ 8 ॥ रागः —( सस्वासम् ‌) समये खलु प्राप्तः शक्तिमान् ‌ । ततस्ततः। चारणः — अथ पुनरहं प्रथमिकाभिपतदमरासुरवीरचक्षुः प्रसरनिरोधित्वङ्गदुत्तुङ्गतुरङ्गखुरपुटाहतधरातटसमुद्धूतधूलीपटलप्रशमनपटुकुम्भिकुम्भविगलन्मदाम्बु - जम्बालितसङ्गराङ्गणनिमग्नरथाङ्गतया निस्पन्दस्यन्दने परस्पराभिघातखणखणायमानप्रहरणप्रहारोड्डामरे प्रवृत्ते संप्रहारे शक्त्या विशाखस्य विभिन्नवक्षाः सशूरपझोन्तकसझ भेजे॥ अवाङ्मुखः सिंहमुखः पपात पर्यस्ततारोजनि तारकश्च॥ 9 ॥ ( सर्वे हर्षे नाटयन्ति ) रागः — समुन्मूलितं हि लोकत्रयीभूतं शल्यं महात्मना। चारणः — अनुजानातु मामार्यः कुमारजयन्तसमीपगमनाय रागः — भद्र अथ कन्याचोरस्य को वृत्तान्तः। चारणः — आर्यैवमेतस्मिन्वर्तमाने समरसमारम्भे बाणपातान्तरमात्रएव परिदृश्यमानः प्रजवेन रथेन सुदूरमतिपतन्नदृश्यते क्व गतः ( इति कथयन्नेव निष्क्रान्तः ) ( सर्वे पुनर्मोहेन भूम्यामभिपतन्ति ) पुरोहितः —-( सखेदं ससंभ्रमं ) शृङ्गारोदकेन सर्वान् ‌ सिक्त्वा महाभागा जलमतिमात्रेण व्यामोहेन समाश्वसीत समाश्वसीत ( सर्वे समाश्वसन्ति ) हा वत्से शकुन्तिकेय सौनिकस्य शरारोरसुरस्य हस्तगता कथं प्राणिषि मुदिता — जादे एरिसंदुज्जादं अणुहोदुं एव्व महदुभ्भगाएगभ्भे समुप्पणासि ( 5 ) सख्यौ —- पियसहि एव्वं होदव्वे कुदो तुए अह्माणं सोहिदं संव्वुत्तम् ‌ ( 6 ) पुरोहितः — महाभाग भवता शक्तिघरेण प्रतिहते बलवति प्रतिबन्धे क्वापि गतो मोक्ष्यते तावदसुरापसदो वज्रधरस्य वज्रेण। नहि जातु परदेवताप्रसादोऽन्यथाभावी ( प्रविश्य ) मयूरिका —( सहर्षे संभ्रमं ) ताद अज्ज पियं वो णिबेदेमि (7) रागः —( सौत्सुक्यं ) कथम भद्रे किं प्रत्याहृता वत्सा महेन्द्रेण। मयूरिका — ताद भअवईए त्ति भणिदव्वं ( 8) रागः — कथमिवैतत् ‌ मयूरिका — ताद जाव भट्टिदारिअं ओहरिदं णिवेइदुं तादेण अणुप्पेसिदा भअवईए सविहंगअह्मि दाव तहिं दिट्ठा मए भट्टिदारिआ ( 9) मुदिता सख्यौ च – एव्वं वि णाम सुप्पहादं होज्जई ( 10 ) रागः — हंजे नूनं भ्रान्तिरेतादृशी भवत्याः मयूरिका — किं आज्जाणं मिछावअणं म्मि। भअवईएणिअजोअमाहप्पेण णिमिअं माआवइंणाम भट्टिदारिआ रूवसरिसिं इत्थिअं संबरस्स रहे केणवि अविण्णादं णिवेसिअ मोइदा भट्टिदारिआ ति तत्त होदिए वसिणीएख्खु णिवेदिदं (11) ( सर्वे संमोदपरवशी भवन्ति ) रागः —-( पुरोहितंप्रति ) भगवन् ‌ किमिदं न प्रत्येमि पुरोहितः — महाभाग क इह विस्मयः। महाप्रभावा हि भगवती। अथ च निर्मातुं सिधुमन्धुं तमपि तमचलं लोष्ठमेतत्तथैव॥ द्यां क्ष्मां तां तां सुदूरं सविधगतमदस्तादृगित्थं न चेत्थम् ‌ ॥ एकं नानेदमेवं पुनरभिलषितं वस्तु हस्ते विधातुं दुप्प्रापं वा क्षमायाः किमिव हि भुवने योगसिद्धेरसाध्यम् ‌ 10 मुदिता —( सोल्लासं ) पअडिदं खुअवच्च वच्छलं पिअसही ए सव्वत्थसाहिआए (12) मयूरिका — ताद ममाहिआअण्णिदज्जतादपरिकिलेस वुत्तंताए सत्तरभट्टिदारिअं घेवूण एत्थ आअच्छंतिए भअवइंए पुरदोपहिदा अह केलासादो पुढमा अदस्स तत्त होदो वसन्तस्स घरदुवारदेसदिठ्ठादो कुमालवम्महसविहं पडिगच्छंतादो पणिहिणो कोइअ ?R लअदो आअण्णिदवदी जह महा भाओ वम्महोविदिण्णाणुण्णो भअवन्तेहिं पव्वइपरमेसरेहिं आअच्छा इति (13) रागः — इदमपि प्रियं नः। हंजे किं न कथितं त्वया कोकिलकाय वत्सायाः प्रत्याहरणवृत्तम् ‌ मयूरिका – ताद हरिसपरवसाए विसुमरिदं खु मए एदम् ‌ (1) ( प्रविश्य ) सारिका — ताद एसा खु भअवदी अह्माणं अलिदं अलं करेइ ( 2 ) रागः —( ससंभ्रमं ) तदेते प्रत्यद्यामो भगवतीम् ‌ । ( इति सहेतरैनिंष्क्रान्तः ) ( ततः प्रविशतिरथेन सारथिद्वितीयो मन्मथः ) मन्मथः —( रतिमनुस्मृत्य सपरितापमात्मगतं ) कार्यान्तरव्यग्रतया कियन्तं कालं ममासीत् ‌ पुटपाककल्पः। कान्तावियोगस्तनुतेधुना तु कामप्यहो दुर्विपहामवस्थाम् ‌ ॥ 11 ॥ तर्कयामि तावदहमिव प्रियतमापि भूयसा विरहदवथुना दूयतेइति। पुरा खलु तातानुज्ञाया सुरकार्याय सत्वरममरावत्या निष्क्रामति तत्र भवतो रागस्य द्वारदेशगते मयि॥ विस्रस्ताखिलगात्रमाकुलवलन्नेत्रं प्रभूतोदय - द्भूयः संयतबाष्पनिर्भरगलं निस्वासदूनाधरम् ‌ ॥ उद्गीवप्रपदस्थया सहचरीदत्तावलम्बं तया सौधाग्रेस्म दनुप्रयातमनसा तन्व्यावतस्थे परम् ‌ ॥ 12 ॥ ( सानुस्मरणं ) हन्त इदमेव मे समुत्कीर्णमिव मनसो न व्यपैति। यत् किल जननीगौरवात् ‌ नन्दनवनात् ‌ प्रतिनिवर्तमाना – गत्वा कियन्त्यपि पदानि निवृत्तकण्ठ - मस्राविलेक्षणमवेक्ष्य सरोरुहाक्षी॥ साकूतमाह सहकारतरो कदानु नेत्रोत्सवाय भवितासि पुनर्ममेति॥ 13 ॥ सा तावदिदानीम् ‌— धत्ते किं नु धृतिं किमाचरति वा तन्वी कथं वर्तते यद्वा जीवति वा न वा चिरतरं मद्विप्रयोगाकुला॥ स्मृत्वा हन्त मम प्रयाणसमये तस्या दशां तादृशीं यत्सत्यं व्यथितं मनः प्रतिकलं किं किं न वा शङ्कते 14 ( अरयूनं सूचयित्वा सखंदम् ) स्फुरति नयनं वामं कामं भुजश्च मुहुर्मुहु - र्वपुरधिगतस्वेदं चेदं स्वरोप्यवसीदति॥ अहह बलवत् ‌ कम्पं संप्रत्यनिष्टविशाङ्कि मे हृदयमधुना स्मारंस्मारं प्रियां परितप्यते॥ 15 ॥ ( पुरोऽवलोक्य ) सचकितमापतन्नयं प्रणिधिः कोकिल इव लक्ष्यते। ( प्रविश्य ) कोकिलः — जेदु जेदु दव्वो ( 1) मन्मथः — कोकिलक अचिरप्रत्यागतमस्वस्थहृदयं च त्वां लक्षये। किं निवेदितास्मदागमनो मन्त्री वसन्तः। तद्द्वारा च तातो ज्यायान् ‌ । कोकिलकः —( सभयम् ‌) देव्व असण्णिहिदो ख्खु अममरावदीये अमच्चो ( 2 ) मन्मथः —( सविचिकित्सम् ‌) किङ्कारणमसन्निधाने तस्य। कोकिलकः –( सगद्गदम् ‌) देव सम्बरासुरमणुद्दवन्तेण देव्वेण जम्भरीवृणा समं ससेण्णो सो गओ। (3 ) मन्मथः —( सरोषम् ‌) रे विस्पष्टं कथय। कोकिलकः —( सोत्कम्पम् ‌) अभयं याचते। मन्मथः — दचाभयोऽसि यथावृत्तमावेदय। कोकिलकः — देव्व ओहरिआ खु तत्त होदी रई देण पुरिल्लदेव्वापसदेण (1) मन्मथः —( सास्रम् ‌) हा प्रिये कथं भवितासि ( इति रथीपस्थे मूर्छति ) सारथिः — आयुष्मन् ‌ समाश्वसिहि समाश्वसिहि। मन्मथः —( समाश्वस्य सकरुणम् ‌) सर्वस्वं मे हृदयहृदयं चक्षुषः किं च चक्षुः प्राणप्राणः सुखसुखनिधिः प्रेम च प्रेमभूम्नः॥ व्याघ्रस्येव प्रकृतिकृपणा नैचिकी देवशत्रो - र्हस्ते लग्ना कथमिव बत प्राणिति प्रेयसीसा॥ 16 ॥ सारथिः —- आयुष्मन् ‌ नैष विषादसमयः। तावदायतिक्षममनुचिन्त्यताम् ‌ । मन्मथः — सूत किमाचरामि सम्प्रति हि – विवेकं न्यक्कुर्वन् ‌ सहजमपि धैर्यं शिथिलयन् ‌ खिलीकुर्वन् ‌ व्रीडां विनयमतिमात्रं व्यपयन् ‌ ॥ विमोहं व्यातन्वन्नहह परितापं बहलयन् ‌ इयत्तातिक्रान्तः प्रभवति विकारः किमपि मे॥ 17 ॥ सारथिः — आयुष्मन् ‌ नैवमेतत् ‌ । अथापि परिपन्थिनो विनिग्रहे सोत्साहतैवायुष्मतोऽधुना सश्लावा। मन्मथः —( सधैर्यं ) साधु रथकुटुम्बिन् ‌ साधु। प्रियमाश्वासनार्हं च बहवः सन्ति शंसितुम् ‌ ॥ हितस्य च प्रशंस्यस्य वक्तारो विरलाः पुनः॥ 18 ॥ कोकिलक विज्ञाप्यतां तातः शापिताः स्थ मया सर्वैर्भवद्भिरलंक्रियताममरावती अहमेव तस्याशुतस्करस्य दर्पं व्यपनेष्यामि। कोकिलकः —- जं आहिसइ देव्वो (1) ( इति निष्क्रान्तः ) मन्मथः — सूत वैजयन्तपुरगामिनाऽध्वना नादेय स्यन्दनाश्वान् ‌ । सारथिः –( तथा कुर्वत् ‌ सर्वतोऽवलोक्य ) आयुष्मन् ‌ पश्यपश्य समुत्थितानुत्पातानेतान् ‌ । दिशः कलुषिता भृशं खलु विभाति भासां निधि - र्युगान्त इव वान्ति सन्ततममी हि झञ्झानिलाः॥ मन्मथः —( सोल्लासम् ‌) इयं धवनति सिञ्जिनी मम धनोरनास्फालिता विनिःसरति सत्वरं शरततिश्च तूणीमुखात् ‌ ॥ 19 ॥ सारथिः —( मन्मथस्य हर्षमभिवर्धयन् ‌) आयुष्मन् ‌ यथैतैरुत्पातैरुदितमभितो दारुणतरै - र्यथा चाविर्भूतं हृदयसुखदैस्तैः सुशकुनैः॥ तथा शङ्के भावी सपदि समरः कोपि च महान् ‌ जयः किं चास्माकं सकलजगदानन्दजननः॥ 20 ॥ ( दक्षिणस्यां दिशी चक्षुर्व्यापारयन् ‌) मन्थाद्रिक्षोभ्यमाणोर्णव इव निनदन् ‌ दुन्दुभिः श्रुयते या कल्पाभ्रोन्मेषकल्पो दिवि यदयमितो रेणुरुच्चैर्जिहीते॥ कम्पन्ते यच्च शम्पाइव दिशिदिशि सस्वर्णरेखाः पताकाः शङ्के नेदीयसी तत्प्रतिभटष्टतना वर्तते वर्त्मनीति॥ 21 ॥ मन्मथः —( सावष्टम्भम् ‌) दिष्ट्या संनिहित एव मे धनुर्व्यापारस्यावसरः। सारथिः —( सचिन्तम् ‌) आयुष्मन् ‌ शरासनमात्रमित्रस्य तव महत्या ष्टतनया परिवृतमसुरं प्रत्यभियोगः शङ्कामङ्कुरयति मे। मन्मथः —( सहेलम् ‌) किमेतददृष्टास्मद्भुजशौण्डीर्य इव विचिकित्ससि। तां लङ्कां विशतः पुरा हनुमतः को वा द्वितीयोऽभवत् ‌ तार्क्ष्यस्यापि सुधाहृतौ सुरचमूमाधावतोनुद्रुतम् ‌ ॥ पार्थस्याथ च गोग्रहे दलयतः स्वैरं कुरून् ‌ सङ्गता - नेवं सम्प्रति निघ्नतो रिपुबलं का मे सहायस्पृहा॥ 22 ॥ सारथिः —( अग्रतो निरूप्य ) जाने भवद्रथालङ्कारस्य ध्वजमकरस्य दर्शनेन परिज्ञातभवदभियोगश्चमूमन्तरा विधाय रिपुरेक एव रथेन दूरमभिपततीति। मन्मथः —( सरभसं ) सूत यद्येवं वामेन परिहरन् ‌ परबलमसुराधमरथाभिमुखमवस्थापय रथं मे। सारथिः –( कशाहतित्वरितयायिभिस्तुरगैर्यथानियोगमाचरति ) ( ततः प्रविशतिरयस्थः शम्बरः ) शम्बरः —( मन्मथमवलोक्य सावज्ञं स्वगतम् ‌) एष किलपञ्चेषुर्ममापि हस्तगतां योषितं प्रतिनिनीषुः कुलिङ्ग विहङ्गभङ्गी मनुसरति। मन्मथः —( शम्बरंरथस्थितां मायावतीमवलोक्य सविषादं स्वगतम् ‌) मरुप्रान्ते हन्त स्थलकमलिनीवोद्गतवती॥ तरक्षोः पार्श्वस्थ तरलतरलाक्षीव हरिणी॥ तमोलीढा चान्द्री तनुरिव कथाशेषविभवा॥ न राजत्येषा मे दितिजपरिभूता प्रियतमा॥ 23 ॥ अपि च। पश्यती नहि पश्यतीन्दुवदना यन्मां रथस्थं पुरः॥ सोल्लासं न च मे शृणोति धनुषो यज्जयारवाडम्बरम् ‌ ॥ यत्र्रासेन च धावतो रिपुभटान् ‌ विज्ञाय नो मोदते॥ जाने प्रोषितचेतनेव तदसावन्यादृशी वर्तते॥ 24 ॥ ( शम्बरं प्रति सरोषं ) रे रे कन्यामलिम्लुच। समादत्से दंष्ट्रामिव विषधरस्यापि सरुषः सटादर्पादुत्पाटयसि सहसा कुञ्जररिपोः॥ असेर्धारां घोरामपि रसनया लेक्षि सुतरा - मिमां यत्तन्वङ्गीमपहरसि नाशाय कुमते॥ 25 ॥ शंबरः —( सीत्प्रासं ) रे कुसुमषो सर्वस्य साधारण्याः कन्यायाः कृते मामपि शम्बरं प्रत्युद्यतो विस्पष्टं हि ते सुमतित्वम् ‌ । स्त्रीपुंसरहःसंरोपयुक्तशौर्यस्य तवापसरणमेव शरणमतः समरमुखात् ‌ । यदि वा युद्धश्रद्धालुता तदोहि समीक्ष्य मां क्षमामवतरावः। मन्मथः —( सगेषस्मितम् ‌) दुर्मख कृतं विकम्थनेन। वाग्विदग्धं त्वां शरैरेव प्रत्युत्तरयामि पूरयामि च कलहप्रियस्य मुनेराहवदर्शनकुतूहलम् ‌ । ( इति निष्क्रान्तौ शंबरमन्मथौ ) ( ततः प्रविशत्याकाशयानेन नारदः शिष्यश्च। ) नारदः –( सानन्दताण्डवं महतीमास्फालयन् ‌ । ) रमे जगति पर्यटन्नविरतं द्वयेनामुना॥ सुरासुरधनुर्भृतां समरसाहसैरद्भुतैः॥ रमेशपरमेशयोरथ च पावनैः कीर्तना - दपास्त भवबन्धनैः कुशल धामभिर्नामभि॥ 26 ॥ शिष्यः —( सविस्मयम् ‌) भअवं भअवंतेण काइंकाइं समरम्भुदाइं दंसणपहं णीदाइं। (1) नारदः —( सशिरःकम्पं ) साधुपृष्टं वत्सेन। दृष्टो दैत्यपतिं नखैर्दलयतो मायाहरेर्विक्रमः॥ सन्नाहोथ पुरत्रयं प्रदहतस्तत्तादृशो धूर्जटेः॥ संरम्भोप महान् ‌ बलस्य निधेने जातक्रुधो वज्रिण — स्तारायाश्च कृते तथा प्रतिभयो देवासुराणां रणः 27 अन्येषामप्यसंख्यातानि लोकप्रवीराणां रणापन्नानि। शिष्यः — अह भअवं अलद्धाहवदंसणसुहेसु सुरद्धएसु कहं अप्पा विणोदीअदी। ( 1 ) नारदः – वत्स सुमतिर्भवान् ‌ । दम्पत्योरनुरक्तयोरपि मिषात्सम्पादितं वाक्कलिं प्रक्रान्तं सहसा नियुद्धमथ वा भक्ष्योत्सुकैर्बालकैः उक्ष्णो वाथ चतुष्पथेभिपततो योद्धुं विषाणोद्धुरा - न्पश्यन्निर्वृतमानसोनवरतं हिण्डे महीमण्डले शिष्यः —( विहस्य स्वगतम् ‌) दुप्पलिहरा खु सव्वस्स वि अप्पणो पकिदी। ( 2) नारदः — इदानीं पुनर्भुवनैकशूरान् ‌ शूरपझादीन् ‌ शरव्ययता शरजन्मना दत्तनेत्रपारणस्य समहासैन्यडम्बरं शम्बरमभियुञ्जानेन कञ्जाक्षनन्दनेन पुरयिष्यते मे मनोरथः। शिष्यः — भअवं अहिमदसक्करभ्भवहारस्य तह एव्व देव्वं सम्पादेइ। एस उण संसओ मं बाहेइ संवरीसहस्सदुज्जओ वि संबरो कहं वम्महेण जेदव्वो त्ति (3) नारदः — किमाह भवान् ‌ । कथं शम्बरो जेतव्य इति। पशुतिर्यङ्नरसुरासुरव्यामोहकारिणि॥ मारेऽसंख्यातमायस्य मायाः किं प्रभवन्ति ताः॥ 29 ॥ ( अग्रती भुवमालोक्य ) अहो शम्बरमार्गावग्राहिणं मन्मथरथमभितः परिक्षिपतोऽसुरबलास्यायमाडम्बरः। श्चोतद्दानाम्बुजम्बालतधरणितलं बृंहितप्रौढिफक्कं दिक्कम्पोच्चण्डशुण्डाविधुतिसरभसा मोटितव्योमयानं॥ तिर्यग्दन्ताभिघातप्रकटितबहलश्वभ्रमभ्रेष्वदभ्रं वप्रक्रीडां भजन्तोनुकृतशिखरिणो दन्तिनः प्रोन्नदन्ति 30 शिष्यः — भअवं इदो वि दाव। ( 1 ) ( संस्कृतमाश्रित्य ) रिङ्खन्तः संख्यसीम्नि प्रखरखुरपुटोद्दामकुद्दालधारा - धारालोद्दारितक्ष्मातलचलितरजोरुद्धरोदोन्तरालाः॥ हेषापोषान्विशेषादहह विदधतः सादिभिश्चाधिरूढै - रर्वन्तः कुर्वतेमी कुतुकमतितरां पश्यतां पश्य तावत् ‌ 31 नारदः – एतांश्च। रथ्यैः पथ्यनुकूलचक्रमपरैः सारथ्यमातन्वतः स्वच्छायातुरगातिपातरभसा प्रोत्साहिभिः शोभितान् ‌ ॥ उत्सार्थद्वलनोच्चलद्ध्वजलता संरुद्धपूषाध्वनः संक्रीडच्चरणा निशामय दृशोरानन्दनान् ‌ स्यन्दनान् ‌ 32 शिष्यः — भअवं एत्थ अ एदेहिं। ( 2 ) ( संस्कृतमाश्रित्य ) पादन्यासनमन्महीकमलधुक्ष्वेलादलद्दिक् ‌ तटं प्रोन्मूलच्छतचन्द्रनिह्नुतमहः शस्त्रान्धकारोदयम् ‌ ॥ व्यावल्गत्तरवारिवारितपरं प्रक्रान्तचक्रभ्रमः क्रीडद्भिः क्रियते स्म संयति दृगानन्दो भटैरुद्भटैः 33 ॥ ( सभयोत्कम्पं ) हद्धि हद्धि , जलणिहिपूरगभ्भपविठ्ठस्स संअत्तिअस्स विअ पडिरोहिवाहिणीमइझगअस्स मअरद्धजस्स कहंणाम णिक्कमणं होइज्जइति पज्जाउलंह्मि ( 1 ) नारदः — वत्स विश्रब्धो भव यत्किञ्चिदेतज्जगदहंवीरस्य मारस्य। अयं हि। चक्रैश्छिन्दन्भटानां करचरणाशिरस्त्रासयन् प्रासघातै - रश्वान् ‌ शश्वद्गदाभिर्मदकलकरिणः प्रोथयन् ‌ क्रोधदीप्तः॥ सप्रासङ्गान् ‌ शताङ्गान् ‌ सपदि शकलयन् ‌ मार्गणैर्मार्गहेतोः पूषा पाथोदवृन्दादिव दितिजबलान्निःसृतः शम्बरारिः 34 क्षणेनानेनेदानीम् ‌ । शस्त्रोत्कृत्तगजाश्वदैत्यपिशितस्नाय्वस्थिमेदोवसा - मज्जान्त्रोच्चयविस्रगन्धिरुधिरस्रोतस्विनीदुस्तरम् ‌ ॥ तृप्यद्गृध्रसृगालकङ्ककरटं नृत्यत्कबम्धोल्बणं दृप्यत्प्रेतपिशाचडाकिनिगणं जातं रणप्राङ्गणम् ‌ 35 शिष्यः — भअवं अदो वरं दुक्करं तक्केमि। जं अत्थङ्गओयेरोसणबन्धू ण विण्णाअदि अप्पकेरो परकेरओ वा गाढंधआरेहिं एक्कला ख्खु रअणीए पुरिल्लदेवा र्होती ( 2 ) नारदः — कातर मा विषीद। मन्ये मन्मथशस्त्रनिपातितभूयिष्टचतुरङ्गसैन्ये शम्बरेण शाम्बरीबलाविष्कृतस्य तामस स्यास्रस्य प्रभाव एवायं। यतः। पुञ्जैरञ्जनकल्पितैरिव पुनः कालाग्निरुद्राननो - म्निद्रैर्धूमभरैरिव प्रचरतैर्निलाश्मशैलैरिव॥ पातालादिव निर्गतैः सुररिपुव्रातैः समन्तादिदं मुष्णाद्भिः प्रसरं दृशोर्निचुलितं गाढान्धकारैर्जगत् ‌ 36 शिष्यः —( साश्चर्यं ) भअवं कप्पन्ते वि किल दोहिं अभ्भहिआ दह एव्व दिणअरा समाणुम्मेसा सुणीअन्दि। किं एदं अअण्डे मत्तण्डमण्डलसहस्ससमुग्गमो ( 1 ) नारदः — वत्स तामसास्राखर्वगर्वनिर्वापणनिरर्गलं प्रयोजितमिदं प्रसवायुधेन प्राभाकरमस्त्रम् ‌ । चूषन्तः सलिलं सरित्परिसरित्कासारवापीगतं गूढानां दिननायकाश्ममहसां दत्तावलम्बा करैः॥ ध्वस्तध्वान्तभराः क्षणेन भुवनक्षोभंकरप्रक्रियाः पश्योद्यन्ति समंततः सरसिजश्रेयस्करा भास्कराः 37 ॥ शिष्यः —( सोद्वेगं ) भअवं णूणं उवक्कन्तो पआवइणा लोअतो जदो किल। ( 2) ( संस्कृतमाश्रित्य ) कुर्वन्तो जगदेतदम्मयममी धारानुधाराशतै - र्न्यग्भूतोन्मदकुम्भिवृंहितभरं गर्जाभिरूर्जस्वलाः॥ उत्केकारवमीक्षिताः शिखिकुलैरुद्योतिता विद्युता - मुद्योतैः करकानिपातपरुषा वर्षन्ति पर्षाम्बुदाः॥ 38 ॥ नारदः — वत्स विसर्जितं हि दुर्जनेन पार्जन्यमस्त्रमेतत् ‌ । कृतहस्तेन चास्त्रेषु कन्दर्पेण तदीयदर्पसमुत्सारणचणं प्रयुक्तमेव वायव्यमस्त्रं। अमी हि। वृक्षान्मङ्क्षु क्षिपन्तो दिशिदिशि रभसादर्णवान् ‌ घुर्णयन्तः प्रासादान् ‌ सादयन्तः शिखरिकुलमिहामन्दमान्दोलयन्तः॥ धूलीबिर्दूषयन्तः सकलमपि जगत्तूलविद्रावमेता - नब्दान्विद्रावयन्तो युगविगमइवोद्वान्ति झञ्झासमीराः॥ 39 ॥ शिष्यः —( सीत्कम्पं ) भअवं किदं विसारविलोअणकोदुएण एदे खु समुभ्भिण्ण पख्खइ संघाडोंगरोरिंगता परिदोवि त्थगजन्ति। अह्माणं खु अग्गदो णिग्गमणस्सवि अवसो ण होज्जा ता इदो दूलं ओसलह्म। ( 1 ) नारदः — अहो दुष्टता दैत्याधमस्य यत्पार्वतमस्त्रमाविष्कृतम् ‌ । पादाक्रान्तदिगन्तरैः सुरपथप्रोल्लङ्घ्रिशृङ्गच्छटा निर्यन्निर्झरिणी निपातरभसोत्खातप्रयाताश्मभिः॥ पातालप्रतिमल्लगव्हरदरीनिप्पीतवातैश्चितं लोकं लोकय सर्वतः प्रबलितैः सर्वेतरैः पर्वतैः॥ 40 ॥ शिष्यः —( ससाध्यसं ) भअवं किं एण्हिं कादव्वं एदे खु वे अण्डमेत्त गण्डशेलाणि वडन्ति। अहं खु एक्क एव्व पिदुण पुत्तओ। ( 2 ) नारदः —( विहस्य ) वत्स कृतं विचारेण चिन्तित एवैतत्प्रतीकारोपायो वज्रहस्तानुजनन्दनेन। तथा हि। हेलविक्षतपक्षतिक्षरदसृग्धाराप्रकारोल्बणं दीर्यच्छृङ्गसहस्रकीर्यदुपलं प्रच्छिन्नभिन्नाद्रयः॥ निर्घातैर्बाधिरीकृतं श्रुतिपुटालोकस्य लोकच्छिदः स्वर्धाम्ना विततस्फुलिङ्गमभितो जृम्भन्ति दम्भोलयः॥ 41 ॥ शिष्यः — भअवं कहंइ उवसमिदाम ज प्पओवस्स भूदावेसो खु इमो जङ्किल फुक्कारण्यसरंत दूसह विसज्जालावलीढाज्जिदासेसरवोणिरुहाखखेण परिदो दीसंदि दव्वीअरा ( 1 ) नारदः — वत्स मा बिभीहि। भोगत्रोटनचञ्चुचञ्चुशिखरैर्निष्ट्यूतचंचत्फणा॥ रत्नैर्यत्नलवं विनापि त इमे तार्यैः क्षयं निन्यिरे॥ 42 ॥ शिष्यः — भअवं जाणामि देच्चेण पओजिदं पण्णअत्थं पसमिदं पण्णअरिबुत्ध अणदणविसज्जिदेण गालुडत्थेण ( 2 ) नारदः — वत्सैवं व्युत्पद्यस्व। शिष्यः — भअवं तक्कमि पडिहदेसु एव्वं समत्थेसु णिअत्थेसु सम्बरेण मायाजुझ्झं उवक्कमिस्स इति। (3) नारदः — प्रतिविधास्यति चात्र द्वेधापि स श्रितमायो मन्मथः। शिष्यः – भअवं पेख्ख पेख्ख। उख्खादासिलदोखु एस पुलिसो भीसेइ मं भीसणो। ( 4 ) नारदः — नैतत्किंच न हन्ति निर्घृणतरो व्याघ्रस्तमुग्राकृतिः॥ शिष्यः — णं एदस्स विदप्प खण्डणपरो दीसेइ पचाणणो ( 5) नारदः – सक्रीडं शरभेण सोपि दमितः सर्वाण्डजक्ष्माभुजा 43 अपि च। युगपदुपात्तदैत्यकुलनांथविरोचनभू खलचूरिभूपपङ्क्तिमुखभौमशरीरममुम् ‌ ॥ दमयति दुर्हृदं ननु गृहीतनृकेस रव द्बटुभृगुसूनुदाशरथिशौरिवपुर्मदनः॥ 44 ॥ शिष्यः —( साश्चर्ये ) भ अवं किं एदं एत्थ सङ्गरङ्गणेण सम्बरो ण वासे विसारहलबोलो सम्बररिवूण वरपेस्स्वी अदी (1) नारदः – वत्स समभ्यस्ता शम्बरान्मायां तैरपि मयमारीचमेघनादमुखैर्मायाविभिः। शिष्यः — भअवं अदो वरं दुष्करं तक्केमि। जं एक्केण वि सम्बरेण जणिदव्वा मोहस्स वम्महस्स सम्बरसहस्ससमाअमेकाणाम विअअवच्चासा (2) नारदः – वत्स किन्न पश्यसि तावद्भिरेव मन्मथप्रतिरूपकैरवनितलेशरविलूनविमिनातितानेतान् ‌ । एषोपि शम्बरः सर्वतः प्रतिहतशाम्बरीकं मन्मथेन शरनिर्मथिताश्वसारथिर्नश्वसन्निव पन्नगः खिन्नमानसः खङ्गखेटकमात्रावशेषायुधोप्रति पत्तिमूढस्तिष्ठति। शिष्यः –( सहर्षं शाटीमुद्भुन्वानः ) साहु वम्मह साहु णं वि सम्बरं ओहरिदगव्वडम्बरं किदवंतोसि (3) ( नेपथ्ये विजयकाहलीशंखनिस्वनोन्मिश्री दिव्यनिस्साणध्वनिः ) शिष्यः —( ससम्भ्रमम् ‌) भअवं कुदो एसो वरिसासम अमुम्मीलंतजीमूदत्थणिअधीरो मन्थाअलमहिज्जंतजलनिहिकल्लोल हलव्वोलगहीरो भेरीझुणी सुणीअदि (1) नारदः —( सहर्षे ) । वत्स किं न पश्यसि। अयं हि। संमोहनास्त्रमोहितमेतं करवालनिकृत्तमूर्धानम् ‌ ॥ शम्बरमवपात्य रथात्स्वरथे प्रियया समं स्मरो जयति 45 तदेष द्युसदां महोत्सवसमारम्भः। शिष्यः — विलोक्य। भअवं पअलिदो एव्व अमरावइं स सम्भममिलिअसुरमहेसिकरपमुत्तेहिं पुप्फवरिसेहिं। अवकरिज्जन्तो समरलद्धविअअलछसुहओतेल्लोक्कमल्लो मीणकेदणो (2) नारदः — वत्स तदेहि मन्मथ विजयवार्ताहराणां महेन्द्रचराणां प्रथमप्रथितावावां श्वेतद्वीपात्साम्प्रतमेवानुप्राप्तं भगवन्तमुपेद्रं महेद्रं चानेनोदन्तोपहारेण नन्दयावः। ( इति निष्क्रान्ताः सर्वे ) इति जगन्नाथपण्डितकृतौ रतिमन्मथनाम्नि नाटके चुर्थोङ्कः॥ 4 ॥ ************************************************* . पञ्चमोऽङ्कः ( नेपथ्ये सडिण्डिमारवमुच्चैः ) भोभोः पौरा निदेशोयं देवस्य देवाधिराजस्य। यथा। उच्छ्रीयन्तां पताकाः प्रतिभवनमधिद्वारदेशं कदल्यो बध्यन्तां कीर्णगन्धद्रवकुसुमभरं तोरणाङ्काः क्रियन्ताम् ‌ । रथ्याः सर्वाः समन्तादभिहतविविधातोद्यमह्नाय भेर्य्य - स्ताड्यन्तां यत्समायात्यधिगतविजयः सैष मारः कुमारः 1 ( चूलिका ) ( ततः प्रविशति साध्वसनिमीलितदृशो मायावत्या इठालिङ्गनोत्पुलकाङ्गो मन्मथः ) । मन्मथः — सुखातिशयमभिनयन् ‌ । ( स्वगतम् ‌) अये महदु पकृतमिमामपहरतापि मे शम्बरेण। यतः। वित्रस्तैणविलोलदृष्टिविगलद्बाष्पं सकाकुस्वरम् ‌ । कण्ठासञ्जितदोर्लतं परिगलत्सव्यानचेलाञ्चलम् ‌ ॥ गाढारोपितनिर्भरोन्नतकुचं भूयो भिलत्संभ्रमम्। श्लिष्यन्ती स्वयमेव मां गमयते सौख्यातिभूमिं प्रिया 1 अतश्च। रोमाञ्चितावयवमञ्चितघर्मवारि - विध्वस्तधैर्यमितरस्वविवेकशून्यम् ‌ ॥ आनन्दवारिधितरङ्गविगाह्यमानं चेतो ममोल्लसति कोपि पुनः प्रकारः॥ 3 ॥ ( विलोक्य ) हन्त नाद्यापि पुनः समाश्वसिति भीरुरेषा। विस्नस्तैरलकैर्मुखेन विरलच्छायेन धौताधरै - रस्त्रैस्तैरलकैर्मुखेन विरलच्छायेन धौताधरै - गाचेणातितरां प्रवांतकदलीमित्रेण नेत्रश्रिया त्रस्तैणार्भकलोलया च महते खेदाय सेयं मम॥ 4 ॥ ( प्रकाशम् ‌) सुतनो समाश्वसिहि समाश्वसिहि समाश्वसिहि। मम मन्मथस्यापि रथमधिरूढायाः कुतोधुनापि तव त्रासाशङ्का। मायावती –( साश्वासमुन्मीलितलोचना मन्मथमवलोक्य स्वगतम् ‌) कोणु खु एसो कारुणिओ इमादो दुज्जादादो मं उद्धरिअ एव्दं पेम्मणिभ्भरं भणाइ। कहं उण सुइर परिइदेविअएण्हि चे अधिट्टे विइमस्सिसं ईरिसोरा आणुबन्धी। अहवा दिण्णं मे जीविदं णेण। ( प्रकाशं ) महाभाअ मह मन्दभाइणीए किदे दुल्लहप्पहवो अप्पा महाभाएण एद्दह महन्ते साहसे णिओजिअ आ आसिदो। (1) मन्मथः — मञ्जुभाषिणि किं ब्रवीषि आत्मा मया आयासित इति। मर्षयाभि कथं ख्यातवीर्यस्त्वदपहारिणम् ‌ । मायावती —( स्वगतम् ‌) कहमणेण महाभाएण एत्थ जणम्मि अप्प केरत्तणं अणुवण्णिअदि जइ वाण खु परकेरोणा मत्थि सप्पुरिमाणं ( प्रकाशं ) महाभाअ एव्वं अणवेख्खिदप्पसरीरं परक्कमि अमं असुरकरमरमोइद वंतस्स महाभाअस्स केण पच्चुवकरिस्सं सव्वहासा हीणो खु अत्तहोदो एस जणो कअविक्कआणम् ‌ । (2) मन्मथः —( सप्रमोदं ) कृतज्ञे किमिदमपि वक्तव्यम् ‌ । ( निपुणं निरूप्य सवितर्कमात्मगतम् ‌) । संस्थानं वपुषस्तदेव सुषमा सैवाननेन्दोरियं। नेत्राम्भोरुहयोस्तदेव सरसं साकूत विप्रेक्षितम् ‌ ॥ प्रेमार्द्र वचनं तदेव सुतनोरस्या न जाने परं। सैव स्यात्किमियं नवेति तु कुतः संदेग्धि मे मानसम् ‌ ॥ 6 ॥ अथवा। असुराभिमर्शजन्मा परिक्लिष्टतैव रूपस्य प्रियायां मे विकल्पहेतुः उत्सुका तावदियं स्वजनदर्शनेन स्यात् ‌ । तदेनां यावत्पितृकुलं प्रापयामि। ( इति रथेन परिक्रामन्न कष्शे ) कोकिलक किं ब्रवीषि संप्रत्यत्रैवात्र भवतो रागस्य भवने सन्निहितायै भगवत्यै रत्याश्च गुरुजनायास्मदागमनं एव तावत् ‌ । अभिवादनीया ह्यकारणवत्सला मे भगवती। ( इति किंचिदन्तरमतिक्रम्य मायावत्या सह रागगृहे प्रवेशं नाटयति। ( ततः प्रविशति रत्या तस्याः पितृभ्यां सखीभ्यां चोपास्यमाना सर्वार्थसाधिका वशिनी च ) सर्वार्थसाधिका –( स्वगतम् ‌) किमपि जनितो रागोन्योन्यं रतिस्मरयोरना - कलितमनयोः प्राप्ता युक्त्या विपच्च निराकृता॥ परिणयविर्धि निर्वर्त्यैकं तु शिष्टमथो पुनः पदसरसिजं सेवे मातुः स्वनुष्ठितशासना॥ 7 ॥ मन्मथः —( सर्वार्थ साधिकां निर्वर्ण्य। सगौरवं स्वगतम् ‌) अहो महानुभाव्यं भगवयाः। तथा ह्यस्याः। चक्षुर्दयारसार्द्रं चेतोवृत्तिः प्रसन्नगम्भीरा॥ तुलनातीतामूर्त्तिस्तेजस्विनामपि दुरापम् ‌ ॥ 8 ॥ ( रतिमवलीक्य। सविस्मयम् ‌) केयं प्रियारूपसंवादिनीमाकृतिं बिभ्रती भगवत्याः पार्श्व परिष्करोति। इयं किं सा जज्ञे सुतनुरुत सैवेयमभव द्विभिन्ने वै ते द्वे जगति जयतोन्योन्यसदृशौ॥ प्रियया मे नास्मिन् ‌ जगति सदृशी कापि घटते प्रियाभूते लोके तदिदमपि हि भ्रान्तिलसितम् ‌ ॥ 9 ॥ कुतो वा भ्रान्तिः यत्प्रबोधवतो ममापि पुरः स्फुरति एव। रतिः –( मन्मथं दृष्ट्वा सानन्दं ) दिठ्ठिआ लध्धविअओ एस महाभाओ कुसली एत्थ एव्व समाअदो। ( मायावती मवलोक्य सासूयं ) काणु खु एसा तरठ्ठिया अहं विअ मह वि दुल्लहं महाभ अस्स एस्स सेवणसुहं अणुसोइ (1) ( सवितर्कव्यामीहं संस्कृतमाश्रित्य ) याताहं किममुष्य पार्श्वमधुना पुण्यैः पुरा संचितैः प्राप्तः किं नु स एष वा परिसरं प्रेम्णा स्वयं मामकं अभ्याशे घटते कथं गुरुजनस्यतैच्च वा पश्यतो जाने कावपि सङ्गतौ अहमिव प्रेयानिवैतावुभौ॥ 10 ॥ ( इति विस्मयस्तिमितावतिष्टते ) मायावती –( रतिमवलोक्य स्वगतम् ‌) कहं विअ अहं अज्जाणं सविहं ग अह्मि। ( विमृश्य ) अह्मो मह वामोहो एत्थ एव्व पय्यवठ्ठिदाए जं पस्सगओ खु मे इमो महाभाओ अण्णं च एसा उण ईरिसारोसकासाइदेण च ख्खुणा मं पेख्खइ खुण अप्पा अप्पणो असूया भा अणं होज्जाइ। ता कावि अण्णा एसा मह सरिसं रूपं ओलम्बेइ। (2) सख्यौ —-( मन्मथमवक्ष्य जनान्तिकम् ‌) दिठ्ठिआ पच्चागअं पिजसहीए जीविदेण। ( मायावतीं निरूप्यध ) कहं णो पिअसही एकपअम्मि विमुक्वकण्णआणुरूववुमाअरणा एआरिसी सबुत्ता। जं गुलुअणसविहेवि वल्लहस्स पस्सगआ णिव्विसंकं ठाइ। (2) रागः —( मायावती मन्मथं चावलीक्य सहर्षसम्भ्रमौत्सुक्यम् ‌) हन्त प्राप्तेयं मे वत्सा एष च विजयी कुमारः। मुदिता —( सवाष्पं ) एसा मह जादा दिठ्ठिआ मिच्चुमुहादो पच्चागआ। (2) ( इत्युभौ सरभसमुत्थातुमिच्छतः ) रतिः — अज्जाताद एसा खु अहं एव्व थत्क्वामि (3) ( मुदितारागौ सख्यौ च वैलक्ष्यं नाटयन्ति ) वशिनी —( आत्मगतम् ‌) अहो सैवामीषां व्यामोहानुवृत्तिर्विदितमायावती निर्माणवृत्तान्तानामपि। सर्वार्थसाधिका —( मन्मथं निर्वर्ण्य सवात्सल्यं स्वगतम् ‌) विजितारातिरङ्गेषु विक्षतो हेतिभिर्द्विषाम् ‌ । हृदयं मे कुमारोयं धिनोति न धुनोति च। ॥ 11 ॥ मन्मथः –( अग्रती विलोक्य ) एषा हि भगवती विस्तारितेनाक्ष्णा पिबतीव मामवेक्षते गुरुजनश्चायं। यावदुपसर्पामि ( इत्युपसृत्य ) भगवत्यभिवादयतेयं मन्मथः। सर्वार्थसाधिका — अभिमतेन युज्यस्व। मायावती — अज्जा ए पादवंदणं करेमि (4) सर्वार्थसाधिका — वत्से अभिमतवरसंगता भूयाः। ( मुदितारागौ निर्दिश्य। मायावतीमन्मथौ प्रति ) वत्सावेतौ वत्सायाः पितरौ प्रणमतमेनौ ( उभौ तथा कुरुतः ) रागः — कुमार कल्याणि चिरं जीवतम् ‌ । मुदिता — सुहिदा होंतु भवन्ता (1) सर्वार्थसाधिका —( मुदितारागौ प्रति ) महाभागावेषा खलुमायावती नाम वत्सांरतिमसुराधमादपवाहयितुं मया योगप्रभवान्निर्माता धर्मतो वां दुहितैव। मन्मथः –( स्वगतम् ‌) अह्मो भगवत्याः प्रभावो वात्सल्यं च मयि। रतिः —( स्वगतम् ‌) अह्मो एदस्सिं जणे पख्खवादो भअवईए (2) रागः —( सप्रश्रयम् ‌) भगवति किमिहापि संशयो यदाह भगवती। ( इति मायावतीमङ्कमानीय मूर्धनि जिघ्नति ) मुदिता – जादे जादाए जीविदपदाइणि इदो आअच्छ (3) ( इति प्रेमनिर्भरं तामालिङ्गति ) सर्वार्थसाधिका —( रतिंप्रति ) वत्से इयं ते स्वसा प्रतिगृहाणैनाम् ‌ । रतिः —( मायावतीं हस्ते गृहीत्वा।़त्मनः सकाशमुपनयति ) मन्मथः —( रतिमयावत्वौ निरूप्य साशंसं स्वगतम् ‌) अपि स्यान्मे पाणिग्रहणमनयोस्तुल्यमुभयो - र्भवेतां वा स्निग्धे अपि जहदसूयं पुनरिमे। सहताभ्यां रात्रावपि कुसुमतल्पं श्रितवतो भवेत्स्वैरं पार्श्वद्वितयपरिवृत्तिश्च सफला॥ 12 ॥ मायावती —( सवितर्कमात्मगतम् ‌) शम्मिठ्ठाए विअ परोवत्सज्जणीभूदाए मह दुल्लहो ख्खु पडिभाइ महाभाएण समाअमो। अहवा वछला खु भअवई (1) सर्वार्थसाधिका –( मुद्रितारागौ प्रति ) महाभागावियमपि मायावती कुमारमन्मथमेव वरमर्हति। रागः – यदादिशति भगवती। मुदिता –( सांगीकारमिवः जं अणुमदं पिअसहोए (2) सर्वार्थसाधिका —( रतिंप्रति ) वत्से निर्व्योढव्यकुटुम्बभरया भवत्या तावदसावात्मनः प्रत्यनन्तरीक्रियताम् ‌ । रतिः —( सेर्ष्यावहित्थं ) भअवइ परवन्तो खु तुह्मेहिं अयं जणो (3) सख्यौ —( सवैमनस्यम् ‌ अपवार्य ) एदं वि एक्कमावडिदं हिअअसल्लं णो पिअसहीए (4) मन्मथः –( सानन्दं स्वगतम् ‌) अहो भावज्ञता भगवत्या यन्मे मनोरथानुरूपमादिष्टम् ‌ । मायावती — किदंमि चरिअत्था अहं भअवईए अप्पणो णिम्मिदी। (5) मन्मथः —( मायावत्याः कृते स्वस्मिन्नातिप्रीतमिवरतिंनिर्वर्ण्य ) औदासीन्यमनादृतस्मितरुचा वत्क्रेन्दुना सूचय - त्यंसन्यस्तकपोलमन्तिकजुषः सख्याश्चिरं तस्थुषी। निर्येक्संवलितेन किंचिदरुणप्रान्तेन भुग्नभ्रुवा वामाक्ष्णाद्य निरीक्षते प्रियतमा सैवान्यमन्येव माम् ‌ 13 किंच। अरालभ्रूवल्लिस्तिमिततरतारं विवलितं तिरःशोणां छायां परिवहदपाङ्गे मुकुलितम् ‌ । स्वपार्श्वस्थामेतां प्रतकिरति चक्षुर्वरतनुः। सपत्न्यां सोदर्यामपि हि सुलभेर्ष्या युवतयः॥ 14 ॥ अथाप्यवशो दित्वरेण भावि विशेषेणास्या व्यञ्जत एव मय्यनुरागः। गुरुजनसविधे मां प्रेक्ष्य तीर्णप्रवासं कथमपि न कृशाङ्गी हर्षमाविष्करोति। तदपि तु विदितो मे दूरगूढोयमस्या मनसि पुलकथाल्या मण्डयन्त्याङ्गमङ्गम् ‌ ॥ 15 ॥ सर्वार्थसाधिका —( वशिनींप्रति ) ब्रूहि वत्से मद्वचसा तत्र भवन्तं समहेन्द्रमुपेन्द्र। भगवन्नद्यैव प्रशस्तो मुहूर्तो निवेद्यते मौहूर्तिकैः। कुमारमन्मथस्य रतिमायावतीपाणिग्रहण मङ्गलविधौ तदत्रैवोपवनकल्पद्रुमतले कल्पितमण्डनः कल्याणमण्डपः परिक्रियतामचिरात्सपरिवारमत्र भवद्भिरिति। वशिनी — यदादिशति भगवति ( इति निष्क्रम्य पुनः पुरुषेण सह प्रविश्य ) भगवत्यभिनन्दितभवत्सन्देशेन साग्रजेन श्रीरमणेन प्रहितोयमाप्तः पुरुषः। पुरुषः —( सप्रणामं ) भगवत्येषा भगवतः प्रणयोक्तिः। यथा प्रतिपाद्येतेधुनैव वत्से देवसेर्नेद्रसेने तत्र भवते महासेनाय। अतो भगवत्या वत्सं मन्मथं सखायं रागं च सहादाय समागतयानुभूतैतदुत्सवदर्शनसुखमनुपदमेव निर्वर्तयिष्यते। वत्सयो रतिमायावत्योः करग्रहमङ्गलमिति। सर्वार्थसाधिका —( सर्हर्षे मन्मथं प्रति ) कुमार समुचित माचरितं तत्र भवद्भ्यां स्वस्त्रिये स्वस्याथ च महोपकारिणि तारकवौरिणि। आचारश्चायं शिष्टानां यत्कन्याप्रदानसमनन्तरं वधूपरिग्रह इति। तत्संभावयतु भवांश्चिराय निजसन्दर्शनेनं समुत्सुकं गुरुजनं। ( पुरुषमवेक्ष्य ) भद्र निवेदय भगवते मया पुनर्महाभागेन च रागेणानयोर्वत्सयोः परिणयोपकरणसिद्धिव्याष्टताभ्यां अत्रैव श्रवणरसायनीकरिष्यते महोत्सव इति। मन्मथः — यथानियुंक्ते भगवति ( इति सप्रणामं पुरुषेण सहनिष्क्रान्तः ) रतिमायावत्यौ —( सोत्कण्ठमात्मगतम् ‌) हिअअ पञ्चसख्खणमेत्त भाविणी एव्वि मणोरहसिझीए कहं एदहं पज्जू सु अंसि अह्मो सच्चं खु एदं जं पडिख्खिदा एवि पाअणिप्पत्तीए उह्मोवसमविलम्बासहणत्तणंति (1) ( नेपथ्ये। दिव्यदुन्दुभिध्वनिः कुसुमवृष्टिश्च ) सर्वार्थसाधिका —( आकर्ण्य सहर्षम् ‌) जाने निर्वृत्तपाणि पडिनमङ्गले कल्याण्याविन्द्रसेनादेवसेन। वशिनी —-( कर्णेदत्वा ससंभ्रमं ) भगवति यथायमधिप्रतोलिमुखरितनिखिलहरिन्मुखं निबिडीभवति विविधातोद्यनिःस्वनाडम्बरः तथा तर्कयामि नेदीयानितो जन्यवर्ग इति। सर्वार्थसाधिका — शीभतेतरां हि शोभने विधौ त्वराति रेकः। ( मुदिता रागौप्रति ) महाभागौ युवामप्येताभ्यां सह वत्साभ्यां नेदीयसीं कुरुत विवाहमङ्गलवेदीम् ‌ । उभौ —( वशिनांवर्जं सहेतराभ्यां निष्क्रामतः ) । ( नेपथ्ये ) अपि कुशलमत्र भवयै। सर्वार्थसाधिका —( तदाभिमुखमवलोक्य ) हन्त सम्प्राप्ता एव सम्बन्धिनोमि। ( इति ससम्भ्रममुत्थाय तानुप्रात ) स्वागतमत्र भवद्भ्योऽलंक्रियन्तां सोपबर्हाणि महार्हाण्यास्तरणानि। ( इत्युपविष्टेषु तेषु स्वयमासने समुपविशार्त ) नेपथ्ये ( पुरोधसोरेकः पठति ) आस्थानीमुपसेदुषां सुरमहर्षिणां पुरः कीर्तिते। शैलेन्द्रेण निजान्वयेथ विधिना देवस्य शम्भोः कुलम् ‌ ॥ वक्तुं मौनजुषा प्रवर्तितमपि स्वैरं तदा सस्मितैः सर्वैरप्युररीकृतं परिणये वाङ्निश्चितं पातु वः॥ 16 ॥ वशिनी —( सोल्लासं ) भगवति वधूवराणां वाग्दानसम्पत्तिसूचकं पद्यमिदम् ‌ । ( पुनर्नेपथ्ये ) ( मङ्गलवादित्रनिस्वनानन्तरम् ‌) द्वितीयः —- गौरीशङ्करयोः पुराञ्जलिपुटे स्वेदोदबिन्दूपमा न्यस्ता मूर्ध्नि मिथो हिमांशुमभितस्तारानुकारास्ततः। कीर्णाश्चाथ समन्ततः सुरकरोन्मुक्तप्रसूनायिता मुक्ताः सन्तुतरां करग्रहविधौ भव्याय बोभूयसे॥ 17 ॥ सर्वार्धसाधिका —( सानन्दम् ‌) निवृत्तं हि पाणि ग्रहणमङ्गलंवत्सानाम् ‌ । ( पुनर्नेपथ्ये ) अत्र भवति सुविहितसमुदाचाराः स्मः। तदनुजार्नाहि नो गृहान् ‌ प्रति गमनाय। अयं च समनुप्राप्तो वधूपरिष्कृतो वत्सो मन्मथोत्र भवतीमभिवादयितुम् ‌ । सर्वार्थसाधिका —( दर्शितादरं। सम्बधिनः प्रति ) ताधयन्तु तत्र भवंतः। सनाथी कृतमिदं कुलं भवद्भिः। ( ततः प्रविशति गृहीतवधूनेपथ्याभ्यां प्रियतमाभ्यां सह वरालंकारी मन्मथः ) मन्मथः —( सानंदमात्मगतं ) अहो परिणामरमणीयतादैवानुकूल्यस्य। प्रथमं शुभाङ्कुरोद्गतिरवग्रहोनन्तरं तदुन्मेषे॥ पुनरपि तत्परिहारो मङ्गलमधुना तु मङ्गलोन्मिश्रम् ‌ ॥ 18 ॥ सर्वार्थसाधिका —( सदारं मन्मथंमवलोक्य सोल्लासं स्वगतम् ‌) अयंहि। रत्या च मायावत्या च रम्यपार्श्वद्वयः स्मरः॥ प्रतिभाति सुधामूर्तिः फाल्गुन्योरिव मध्यगः॥ 19 ॥ मन्मथः —-( सविनयमुपसृत्य। प्रियाभ्यां सह सर्वार्थसाधिकायाः पादावुपसंगृण्हाति ) सर्वार्थसाधिकाः —( सप्रेमं तान् ‌ अभिनन्द्य ) वेले सिन्धुरिव त्वं वध्वौ तुल्यं कुमार धिनु शश्वत् ‌ ॥ वत्से युवां जुषेथां गङ्गायमुने इव प्रियमभिन्ने ॥ 20 ॥ मन्मथः — भगवति किम्बहूनोपचारोक्तिपल्लवनेन सर्वथा वात्सल्यानुरूपमाचरितं गर्भरूपेषु भमवत्या। सर्वार्थसाधिका — कुमारनिदेशोयमीदृशः सिंहासनेश्वर्याः यथा वत्से निष्पन्ने परिणयोत्सवे वत्सं मन्मथं निजसंदर्शनावसरदानेन कृतार्थयिष्य इति। मन्मथः —-( सप्रमोदं ) भगवति धन्न्योस्मि। किमन्यदितोप्याशास्यमस्य जनस्य। सर्वार्थसाधिका — वत्स यामः श्रीमातुश्चरणारविन्दमूलम् ‌ । ( इत्युत्थाय नेपथ्यामिमुखी रागमामन्त्र्य सभार्येण मन्मथेन सह परिक्रामं तीः। समुन्नतगोपुरं श्रीपुरमासाद्य पुरी वितीर्णचक्षुः ) कुमार इदं हि महार्हमणिगणसुन्दरमंबाया मन्दिरं यावत्प्रविशामः। ( इति सर्वे प्रवेशं नाटयन्ति ) मन्मथः —( सर्वती विलोक्य साश्चर्यं स्वगतम् ‌) स्वःप्रभेण तदनेन जनन्याः सझना दिनकराद्यपि तेजः। अभ्यबावि यदि नाम परेषां चाक्षुषी प्रभवतु क्व नु शीक्तिः 21 ॥ ( ततः प्रविशति र्सिहासनगतस्य भगवतः कामेश्वरस्याङ्कं परिष्कुर्वन्तो देवी विभवतश्च परिवारः ) देवी —-( सर्वार्थसाधिकामनूप नमती वधूवरानवलीक्य स्वगतम् ‌) निर्व्यूढास्मन्निदेशा हि वत्सैषा। वत्सश्चायं कामः प्रकामं पूर्णकामः संपन्नः। ( इति सप्रसादं तान् ‌ कटाक्षैरनुगृह्णाति ) मन्मथः —( दूरादेवजगज्जननीमवलोकयन् ‌ सहर्षरोमाचसंभ्रमम् ‌) मयूखैः प्रत्यङ्गात् ‌ बहलमुदयद्भिर्विदधती समुन्मीलद्बालातपमिवहरिच्चक्रमखिलम् ‌ ॥ दधाना सौभाग्यं किमपि ललिताम्बातिललितम् ‌ ममेदानींदिष्ट्या सरणिमवतीर्णा नयनयोः॥ 2 2 ॥ अये चरितार्थोस्मितरां। यतः। उदारान्स्वाभाव्यात्सिंतसरसिजश्रीसहचरान् ‌ । मयि स्मेरस्मेरानमृतलहरीपूरशिशिराम् ‌ विधुन्वानांस्तापत्रितयमपि लोकस्य जननी। दयाधारातुङ्गाननुकलमपाङ्गान्विकिरति॥ 23 ॥ ( इति त्वरितमुपसूत्य सह प्रेयसीभ्यां देव्याश्चरणारविंदयोर्विकीर्यरत्नानि साष्टाङ्गं प्रणमति ) सर्वार्थसाधिका —-( प्रणम्योत्थाय ) अम्ब स एष वधूसहितः कुमारमन्मथोभिवादयते। देवी — वत्साः सानन्दमेधध्वम् ‌ । सर्वार्थसाधिका — वत्साः समुत्तिष्ठत। प्रसादसुमुखी संपन्ना युष्मासु श्रीमाता। प्रन्मथः —( सदारः समुत्थायकृताञ्जलिबन्धः सानंदगद्घदं ) जय सर्वलोकमातर्जय कामेशाङ्कसङ्गते त्रिपुरे। जय करुणावशहृदये जय ललिताम्ब प्रसीद शिशवे मे॥ 24 ॥ ( दण्हकः )—- जयजयजगदम्बदत्तावलम्बानुकूले कदम्बाटवीपासलोलेतिलोलम्बकेशि क्षपानाथबिम्बाभवक्त्रे मृगीलोलनेत्रेम्बि के बिम्बहृद्याधरे कुंभिकुम्भोपमोरोजकुंभे हृतोद्वृत्तदंभे लताडम्बद्रोहिबाहे मृगाधीशवाहे वलग्नोपमेयाम्बरे मातरालम्बिशोणाम्बरे हेमरम्भामदांरम्भविष्टम्भनोज्जृम्भितोरुद्दयि त्र्यंबकाम्भोजनेत्रस्वयंभूमुखस्वर्गिसंराद्धुपादांबुजाते नितान्ताभिजाते समुद्यत्सहस्रांशुकोटीविडम्बार्हदेहप्रभारुण्यपूरोदये कन्धरादध्न निर्विघ्नपुष्पद्दये रागरूपेण पाशेन रोषात्मकेनांकुशेनापि चेतोमयेनेश्रुचापेन पुष्पैः शरैः पचतन्मात्रसारैः करेष्वञ्चिते॥ 1 ॥ परिचितनवयौवने देवि कामेशि वामाङ्कगे पञ्चमूर्त्यात्मकं मञ्चमध्यस्थिते सुस्थिते मेरुशृङ्गस्थलस्थास्नुना तुङ्गतुङ्गेन रत्नप्रभाविस्फुरद्गोपुरेणोच्चकैः श्रीपुरेणाभितोगर्जितं चारुचिन्तामणिसझ पढच्छटाहृद्यमासाद्य संमोदमाने समानेनवावृत्त्युपेतं दृगानन्दनं स्यन्दनं चक्रराजात्मकं भेजुषीभिर्मनोदेवताद्याभिरत्राणिमान्ताभिराराधिते शक्तिभिर्भक्तिनम्रात्मभिर्मंत्रिणीमन्त्रदत्तावधाने तथा दण्डनाथासमप्रेतसैन्याधिपत्ये ससंपत्करीवाजिरूढानिरूढद्विपार्श्वाधिकारे सदानिर्विकारे लसल्लीलया बालयानन्दिते वन्दिते योगिभिः सेव्यमाने गिरा च श्रिया पार्श्वयोः दण्डितोद्दण्डासुरे भासुरे भूषणैः॥ 2 ॥ निरवधिमहिमाद्भुते चिन्मयि श्रीशिवे मन्मथोहं कियान्नाम सामादिभिः संस्तुते यत्प्रसूनैर्मितैः सायकैः धन्वनानन्वनायामनम्येन मौर्व्या च निर्व्याजसैथिल्यया स्यन्दमानेन मन्दम्बत स्यन्दनेनाबलाधिपभाजावलेन द्विमासात्मकोन्मेषयोग्येन सामन्तभाग्येन मित्रेण चन्द्रातपत्रेण सम्मोहये विश्वमेतत् ‌ परिभ्रंशये संशयं योगिनो यच्चवायोगतोभोगतोषं निनायापि यत्फालनेत्रं सुदुर्लङ्घ्यमायाशताडम्बरं शम्बरं यज्जघानाधुना यत्पुनस्तुङ्गमासादयम्मङ्गलं दृशं स्वस्वभावप्रसर्पत्कृपाद्वीपिनीपूरकल्लोलभङ्गीजुषां तावकापाङ्गभासां मयि स्वैरमुल्लासलीलानुभावो न किम् ‌ ॥ 3 ॥ शरणमुपगतस्तवायं जनो दासदासो निजाविद्यया विद्यमानान्यया मोहितो नो हितं वेद वेदान्तवेद्ये मुहुर्गर्भवासादिभिर्निर्भरैर्दुःखभारैः पराभूयते पुत्रभार्यापशुक्षेत्रमित्रादिभाजाममत्वेन तत्वातिगे दूयते हन्तदग्धोदरस्यास्य हेतोस्तडिल्लोलयापि श्रिया लब्धया खर्वगर्वानलानीश्वरान् ‌ शश्वदासेवामानो भृशं क्लिश्यते॥ तृष्णायापुष्टचेताः सदा पर्यटाद्यापरोदिक्षु विक्षिप्यमाणोरिभिश्चान्तरैर्बालदूर्वाग्रखेलत्तुषाराम्बुलेशांशवद्भङ्गुरं न स्मरन्पङ्गुरन्धो यथा यापयत्येवमायुर्मुधा सर्वथा तावदेनं महाराज्ञि संयोजय श्रेयसा श्रेयसा सप्रसादं नमस्ते नमस्ते हितप्रापिके॥ 4 ॥ पुष्पेण बाणवत्यै पुण्ड्राख्येनेक्षुणा धनुष्मत्यै॥ पुररिपुणा पतिमत्यै पुत्रिण्यै स्यान्नमो मया मात्रे॥ 25 ॥ वतंसितमजादिभिर्जननि ते पदाब्जं विना मितंपचमुपाश्रयेत्क इव हन्त देवान्तरम् ‌ ॥ जरामरणधिस्मरे सति सुधारसे संनिधौ जनः किमविचक्षणोप्यविमरीचिमास्वादयेत् ‌ ॥ 26 ॥ ( इति श्रुत्वा पुनः प्रणमति ) देवी —( सानुग्रहम् ‌) वत्स किमाशास्यं तव। मन्मथः —- इदमेवाम्बे ( इत्यर्धोक्ते प्रमोदपारिवश्यं नाटयित्वा ) ऐन्दव्याकलयाञ्चितं कचभरे मन्दस्मितालंकृतं वत्क्रे सान्द्रदयं हृदि स्तनतटे तुङ्गं नितम्बे ततम् ‌ ॥ पादाब्जे मृदुलं सशोणवसनं बन्धूकबन्धूप्रभं रूपंतावकमम्ब मङ्गलमिदं मे सन्निघत्तां सदा॥ 27 ॥ देवी —- वत्सात्रैव मन्मन्दिरसन्निहितां शृङ्गारपरखामधिष्ठाय स्वनियोगमशूत्यं कुरु। मन्मथः —( सानन्दबाष्पम् ‌) अम्ब श्रेयसामतिभूर्मि गमितोस्मि। देवी — वत्स किंते भूयः प्रियमादिशामि। मन्मथः —( सप्रणामम् ‌) अम्बकिमितोपि प्रियतरमस्ति मे। फालाक्षोपि वशीकृतो ननु मया मातर्यदेभिः शरै र्मायावी स च शम्बरो यदवशान्मध्ये रणं शायितः॥ एकां प्रार्थयता रतिं यदपरा लब्धा च मायावती त्वत्सान्निध्यजुषोद्य तन्मम किमाशास्यान्तरं वर्तते 28 तथापीदमस्तुभरत वाक्यम् ‌ । भरत वाक्यम् ‌ ॥ मोदन्तां हतशात्रवाश्चिरतरं धात्रीश्वरा धार्मिकाः स्वैरोन्मीलितसस्यजातसुभगं वर्षन्तु वर्षाम्बुदाः॥ धीरोदारसुधीगृहेषु विहृतिं बध्नातु पझालया चातुर्वर्ण्यमपि स्वधर्मनिरतं नित्योत्सवैरेधताम् ‌ ॥ 29 ॥ ( इति निष्कांताः सवे ) इत्यङ्कः पञ्चमः॥ समाप्तमिदंकविजगन्नाथकृतरतिमन्मथाभिधं नाटकम् ‌ । ****************************************************************** . ]