आशीर्वादशतकम्

[[आशीर्वादशतकम् Source: EB]]

[

[TABLE]

॥श्रीः॥

आशीर्वादशतकम्

<MISSING_FIG href="../books_images/U-IMG-172268013873.png"/>

कल्याणं वः करोतु प्रलयघनपयोव्याप्तलुप्तप्रपञ्च–
प्राग्विन्यासप्रकारक्रमसदृशपुनः कल्पनानल्पशिल्पी।
ज्येष्ठः सर्वामराणां मुखकमलवनीसंसरद्वेदहंसः
कंसारेर्नाभिजन्मा विधिरखिलजगद्भूरिसंसारभारः॥१॥

हस्ताब्जन्यस्तवीणाप्रगुणगुणभवत्काकलीपाकलीला–
सोदर्यश्रीककण्ठोदितकलमधुरोदारसंगीतनादा।
बेधोवक्त्राब्जसौधोपरिविहृतिपरा शारदा शारदाभ्र–
च्छायादायादकाया प्रभवतु रसनावर्तिनी नर्तिनी वः॥२॥

यादद्यामितं वो विभवमिभवरोद्धारबद्धारभव्या
चाव्या द्रागन्वटाट्यासरुडुरुगरुडाटोपबैयर्थ्यकारी।
चक्रेण क्रूरकर्मक्रमकरमकरध्वंसनः कंसवैरी
तत्तादृग्भक्तियुक्ताखिलजनविपदुत्तारदत्तास्थचित्तः॥३॥

तत्तत्प्राग्भागधेयोदयसद्दशनिजापाङ्गवीक्षाविशेष–
व्यापारव्यत्त्कतत्तज्जनविपुलधनेश्वर्यनैकप्रभेदा।
माता पैतामही सा सकलमुनिजनोत्फुल्लहृत्पद्मसद्मा
पद्मा पद्माक्षकान्ता निवसतु भवतामिन्दिरा मन्दिरान्तः॥४॥

अङ्के विन्यस्तपङ्केरुहनयनपदाम्भोजसंवाहलीला–
किंचित्किंचित्कराब्जद्वयचलितकणत्कङ्कणक्काणरम्या।
भूतानामादिभूता नदनगनगरग्रामसीमाभिरामा
सर्वे संर्वसहा वः प्रथयतु विभवं कोमलश्यामलङ्गी॥५॥

अच्छस्वीयाप्रपुत्रप्रतिहतसलिलोद्गच्छदुद्वेलखेल–
त्कल्लोलाकान्तघोरप्रलयजलनिधिप्राप्तसंचारलीलः।
हत्वा दैत्याधिपं द्रागपहृतनिगमं प्रोध्द्टताशेषवेदो
मीनाधीशः स मीनात्वगणितमहिमा हन्त दीनां दशां वः॥

योक्त्रव्याकृष्टपृष्ठभ्रमणविघटितस्कन्धमन्थानशैल–
ग्रावाप्रोत्सृष्टकण्डूशमनभवसुखप्राप्तनिस्तन्द्रनिद्रः।
उद्यन्निःश्वासवातोच्चलितघनपयोबुद्वुदोद्धूतसिन्धुः
स श्रीमानादिकूर्मो निरुपममिह नः शर्म निर्मातुमीष्टाम्॥

यत्कायस्तब्धरोमाञ्चलगतमखिलं वारिधीनां कदम्बं
प्रातर्घासाग्रलग्नप्रतनुहिमजलस्तोकशङ्कां चकार।

शुभ्रादभ्राभ्रपृष्ठस्फुरितशशिकलाविभ्रमस्पष्टदंष्ट्रा–
मुस्ताखण्डायमानक्षितिरवतु स वः श्रीवराहः पुराणः॥८॥

याच्ञादैन्योक्तिलज्जावशत इव तनौ हस्वतामश्नुवानो
नम्रीभूतश्च शत्रोर्जगति बलितया वैतसीं वृत्तिमेत्य।
एकोऽपि द्वादशात्मा निजतनुमहसा पातु वर्णी भवन्धो
हर्तुं त्रैलोक्यलर्क्ष्मीस्वयमसुरपतेश्छद्मना पद्मनाभः॥९॥

बज्रकूराप्रशङ्काकरकरजशिखाभिन्नहैरण्यवक्षः–
पीठप्रस्त्यायमानध्वनिभरभरितध्वस्तविध्यण्डभाण्डः।
प्रह्लादाह्लादहेतोः सह विबुधमुदाविर्भवन्स्तम्भगर्भा–
दंहः संहारकारी स मवतु भवतां रंहसा श्रीनृसिंहः॥१०॥

जाव्यादव्याजलेशप्रसृमरकरुणासारपीयूषधारा–धारापाङ्गावलोकप्रशमितविनतापारसंसारतापः।
रक्षोलक्षोदरक्षोभकरमिषुवरं दक्षिणे वामहस्ते
चापं चापन्निवृत्त्यै दधदखिलजगद्भद्रकृद्रामभद्रः॥११॥

निर्हेतुप्राप्तताद्दङ्निजपितृनिधनामर्षदुर्वारवेग–
प्रारब्धक्षत्रगोत्रक्षतरुधिरसरः स्नानतीर्णप्रतिज्ञः।
वीर्याद्यत्कार्तवीर्यार्जुनभुजविपिनाकुण्ठकौठारधारो
रामः पायाद्भृगूणां पतिरिह वितरन्काश्यर्पी कश्यपाय॥१२॥

सीराप्रोत्क्षेपणावाङ्मुखितसुरनदीवारिपूरान्तरस्व
च्छायासंदर्शनोत्कीकृतकुरुनगरीदृष्टदोर्वीर्यसारः।
रेवत्यापीतशेषासवरसभजनारक्तनेत्रान्तशाली
ज्येष्ठः श्रीकृष्णमूर्तेः स भवतु भवतां कामदः कामपालः॥

दत्तां तत्ताद्दशीं वः श्रियममृतरसोद्गारिवेणुप्रणाद–
प्रस्विन्नक्किन्नगोपीजनविवशपरीरम्भसंरम्भधन्यः।
चञ्चत्पिञ्छावतंसस्तबकितचिकुरो रासकेलीसतृष्णः
कृष्णो मुष्णन्नतार्तीरविरतयमुनातीरवानीरवासी॥१४॥

कल्यादौ प्रागकल्यक्रमरुचिरचनां नीचमार्गोचितां यः
कुर्वन्यज्ञेषु निन्दामपि च करुणया प्राणिहिंसात्मकेषु।
स्वच्छामच्छिन्त नित्यश्रुतिगणविहितां पद्धतिं बुद्धरूपः
सोऽयं देवो मुदे वो भवतु भवतुषप्लोषनिःशेषकारी॥१५॥

मूर्च्छन्म्लेच्छप्रपञ्चव्यतिकरबलवज्जृम्भमाणातिवेल–क्रुध्यत्तिष्यप्रतापप्रसरकबलिताशेषवेदोक्तधर्माम्।
धातुं गां विष्णुशर्मक्षितिसुरसदने शम्बले संभविष्य–
न्कल्की सर्वान्समोदं स घटयतु शुभांस्तेजसार्कीभवन्नः॥१६॥

आत्मीयाज्ञाविधेयीकृतगिरिशहरिब्रह्मदेहार्धवक्षो–
वक्राब्जारोपितस्त्रीप्रथितनिजभुजाविक्रमोपक्रमश्रीः।

त्रैलोक्यस्यापि जेता मृदुकुसुमशरैरद्भुतः कोऽपि धन्वी
केलीकालेऽनुकूलो भवतु विरहिणीघस्मरो वः स्मरोऽयम्॥

पक्षाग्रक्षेपलीलाविसरदुरुमरुद्वेगनिश्चूषिताम्भः–
शून्याम्भोराशिगर्भस्फुटतरलजलावासवित्रासकारी।
दास्यन्मातुर्व्युदस्यन्नमृतकलशहृत्त्रस्यदिन्द्रस्य हस्ता–
द्रक्षेच्चक्षुःश्रवोभ्यः सकलविषभयं विक्षिपन्पक्षिराजः॥१८॥

निद्रामुद्राविराजन्मुरमथनतनूलिप्तकर्पूरपूर–
श्रीखण्डक्षोदसङ्गद्विगुणधवलिमोत्कर्षसाभोगभोगः।
आधारस्तम्भशोभां दधदिव जगतां केशवाम्भोधिकन्या–
लीलाविस्रम्भसाक्षी घटयतु पटुतां वो गिरो भोगिराजः॥

लक्ष्मीकण्ठाभिरामो मुरमथनमुखाम्भोजसंभूतवात–
व्राताध्मातप्रभूतस्तनितबधिरितस्फीतरोदोन्तरालः।
अन्तः संतापशान्त्यै भवतु भवतुदः संततं कान्तिपूर–
स्मेरज्योत्स्नावितानैः शशिकरनिकरं संचयन्पाञ्चजन्यः॥२०॥

पायाद्वैकुण्ठधाम्नः करिकृतकरुणाक्रन्दमाकर्ण्य तूर्णं
शय्योत्थायं सवेगांध्दुरपदगमनस्त्रस्तपीताम्बरस्य।
कोपात्साटोपमग्रप्रहितमहितहृत्पद्मसद्मास्त्रविस्त्रं
चक्रं च क्रन्ददुग्राग्रहभरभरितग्राहनिग्राहि तन्नः॥२१॥

मूर्तेवाज्ञा मुरारेः परमपदमहोदारवैकुण्ठपुर्यां
वैकुण्ठस्योपकण्ठार्थिभिरमस्वरैर्बाच्यमानः सकाकु।
लिङ्गैरङ्गेषु विष्णोः सततमभिगतो नायकः सैनिकानां
विष्वक्सेनः स विष्वक्समुपनयतु वो द्राक्कृपां चक्रपाणेः॥२२॥

ब्रह्माण्डाकाण्डदाहप्रसजनजनितोत्तालकोलाहलेन
त्रस्ते लोके समस्ते सपदि सविपदि क्रूरहालाहलेन।
वृन्दैर्बृन्दारकाणां विधिविधुहरिदीशादिभिर्यः स्तुतस्तं
जम्बूलीलामनम्बूकृतमनयदसौ साम्बमूर्तिः स वोऽव्यात्

संरम्भोज्जृम्भिजम्भद्विषदतुलभुजस्तम्भगम्भीरदम्भ–
स्तम्भोद्यद्गर्वशुम्भप्रमुखपशुगणालम्भदीक्षैकदक्षा।
क्ल्गत्खड्गाग्रकृत्ताद्भुतमहिषशिरोनर्तनोदात्तचित्ता
दत्तां वित्तानि तत्तादृशमहिमवती हैमवत्यम्बिका वः॥२४॥

हस्ताग्रोदस्तसप्तार्णवसकलपयःशीकरासारवर्ष–
प्रारब्धाकाण्डमूर्च्छन्निबिडितमहिमोन्नीतमातामहश्रीः।
बाल्यक्रीडातिलौल्याद्रदशिखरसमुत्क्षिप्तसर्वक्षमाभृ–
देवः पायादपायान्नतजनसुलभः कोऽपि वेतण्डतुण्डः॥२५॥

विध्यण्डाखण्डभाग्योध्दुरविकटबलत्तारकप्रष्ठदैत्य–
श्रेष्ठानुग्रासकुक्षिभरिरविपटलीदुर्निरीक्षोग्रशक्तिः।

पल्लीवल्लीमहादुः सुरपतिविजयानन्दसंदोहकंदः
स्कन्दो दद्यादमन्दां श्रियमनवरतं पार्वतीनन्दनो वः॥२६॥

संमर्दोत्सारणोद्यत्कनकमयकनद्वेत्रदण्डप्रहार–
प्रत्युट्यद्दीप्रहाराङ्गदमकुटदिगीशादिकाकूक्तिहृष्टः।
तादृग्भूयः शिलादप्रबलतमतपोभाग्यभूम्नां विवर्तः
सेनानीश्चन्द्रमौलेः स भवतु भवदानन्दनो नन्दिकेशः॥२७॥

हावं हावं शिरांसि ज्वलति हुतभुजि स्वासिना साहसेन
च्छिन्नान्याशु प्रसीदत्पशुपतिवचसा प्राप्तसंपूर्णकामः।
रामोत्कृत्तैः शिरोभिः समिति पुररिपोर्भाविताभ्योपहारो
गाणापत्यं प्रपन्नः स भवदभिमतं रावणः संविधत्ताम्॥२८॥

संसारेणैव साकं निवसति भवनद्वारि यस्येन्दुमौलि–
स्नातुं यं त्वक्तलज्जा परपुरुषसभाकोटवी चाम्बिकाभूत्।
कृष्णेन च्छिन्नदोषं तनयभिव परीरम्य यं वत्सलत्वा–
चक्रे निष्केशमीशः स भवतु भवतां भूतये हन्त बाणः॥

सर्वद्वारावरोधस्थिरहृदयसामरूढचन्द्रावतंसः
श्रीमत्पादारविन्दद्वयभजनपराभूतबाह्यप्रपञ्चः।
शंभोः सेवाफलार्थे प्रणतजनकरास्फालमाबोध्यमानो
भक्त्या पुत्राधिकत्वं दधदिह शिवयोः पातु चण्टः प्रचण्डः॥

देवं शंभुं विनैकं तदितरपदयोरानतिं नाचरेयं
प्रादक्षिण्यक्रमं वेत्यवितथशपथो वीक्षितुं तत्परीक्षाम्।
एकीभूतेऽम्बयास्मिन्सपदि सुषिरयन्भृङ्गभूतोऽङ्गसंधिं
योऽभूत्सत्यप्रतिज्ञः स शिवपदरतो मङ्गलायास्तु भृङ्गी॥३१॥

मस्मस्वच्छत्रिपुण्ड्रा ज्वलदनलदृशो मेचकानीचकाया
विद्युद्विद्योतमानप्रचलघनबलाकावलीकाम्बुदाभाः।
रूक्षा रुद्राक्षभूषाः प्रहरणनिवहोद्दण्डदोर्दण्डभाज–
श्चण्डाश्वण्डेश्वराद्याः प्रमथगणगणाः पान्तु वः सान्त्ववादैः॥

अत्यन्तप्रेमनृत्यत्प्रमथगणगणप्रस्तुतस्तोत्रभङ्गी–
घोषोद्भूतप्रतिश्रुद्धरभरितदरीपावनोपत्यको वः।
माद्यद्गन्धर्वविद्याधरसुरयुबतीगीतशैवापदान–
श्रुत्युद्यत्प्रीतिबाष्पाकुलमुनिनिबिडः पातु कैलासशैलः॥३३॥

मार्कण्डेयावनार्थं दलितकरवलत्पाशकीनाशदेव–
व्यूढोरःपीठगाढद्रुतरुधिरवसापङ्कसंक्रान्तवर्चाः।
अर्चिःखद्योतितद्योमणिरहितशिरः शूलसंधानशीलः
शूलः शैलेन्द्रकन्यापतिकरचलितः शिक्षयेद्वो विपक्षान्॥३४॥

सप्ताकूपारपारीवलयितसुमहाचक्रवालाद्रिचक्रा–
क्रान्तिप्रेङ्गन्मयूखप्रकरकबलिताशेषलोकान्धकारः।

राजा सर्वग्रहाणां रजनिजनिभयोद्वेजिराजीवराजी–
जीबातुः पातु पूषा वपुषि परिगताशेषदोषप्रमोषी॥३५॥

मान्याश्विन्यादितारानवनवयुवतीनैकसंभोगभङ्गी
वैचित्र्यानन्दभेदानुभवरसिकताधन्यमूर्धन्यमान्यः।
साचिव्यं मन्मथस्य त्रिभुवनजयिनः स्वैः करैरेव कुर्व–
शर्वस्याष्टांशमूर्तिः शिशिरयतु स वः शर्वरीसार्वभौमः॥३६॥

वर्षाकालीनवर्षोन्मुखनिखिलांदगृद्भूतजीमूतजाल–
प्रोत्साहोत्साहवल्गद्धनमुसलगदाभीमहस्तैः समस्तैः।
भेश्वात्यन्तसख्यैः सततमभिगतः किंकराणां सहस्रैः
शत्रूणां सप्तमस्थः स भवतु भवतां मङ्गलोमङ्गलाय॥३७॥

साम्यं रेतोधसा यो भजति तनुरूचा क्षेत्रिणा तुल्यबुद्धिः
कम्यायुग्माभिलाषी तदपि बुध इति प्राप य पुण्यकीर्तिम्।
साऽयं निर्मातु सायंसमयपरिदलन्मालतीजालतीव्रा–
मोदं वादं मतिं वोऽपि च सकलकलारोहिर्णी रौहिणेयः॥

वासस्थानावलीढत्रिदशपरिबृढस्वर्गसाम्राज्यलक्ष्मी–
निष्प्रत्यूहानुभूतिप्रतिदिनविधृतप्रातिभाव्यप्रयासः।
गो बाईस्पत्यनीतिप्रणयनचतुरो योऽङ्गिरोभाग्यराशि–
र्धीवैशद्य स दद्याद्वचसि च पटुतां लौकिके वैदिके च॥३९॥

नित्यं दैत्येन्द्रसेनाजयकरमृतसंजीवनीदिव्यमन्त्र–
च्छात्रीभावाभिलाषित्रिदशगुरुसुतप्रापितानुग्रहो यः।
नीतौ यश्वौशनस्यां प्रकटितकपटोपायतन्त्रप्रकारः
काव्यो वो भव्यकाव्यप्रणयनचतुरांसोऽद्य बुद्धिं विदध्यात्॥

पीडां राशित्रयस्थो दशरथनृपतेः सार्धसप्ताब्दकालं
कुर्वन्यः सर्वसाधारणमथ रथिना तेन शौर्योद्वरेण।
संग्रामे बद्धसख्यो मदमिह पठतां तत्कृतस्तोत्रमासी–
द्भूयाद्वः शात्रवाणां शनिरयमशनिः क्लेशनिर्हारकारी॥४१॥

यत्पैशुन्येन पङ्काबमृतलबभुजौ चक्रिचक्राप्रकृत्तौ
तद्दोषादेव रोषादहिमहिमकरग्राहलक्षेण लोकान्।
अम्भोधौ मज्जयन्तौ दुरितजलनिधेः क्षिप्रमुन्मज्जयन्तौ
त्रायेतां तुल्यकालौ गतिषु घनतमोदेहकौ राहुकेतू॥४९॥

गाणिक्याधिक्यसंपत्प्रमवमदभरारम्भरम्भादिसुभ्रु–
संभोगोज्जृम्भिकुम्भस्तनसुदृढपरीरम्भसंभावितश्रीः।
सम्राडेकस्त्रिलोक्याः सुचिरचितशचीसौख्यसर्वस्वहारी
नैत्रैः सर्वैर्विदध्यात्स्थिरविभवभिहाखण्डमाखण्डलो वः॥४३॥

क्षुत्क्षामक्षामसर्वत्रिदशपरिषदादीनवाद्दीनवाद–
प्राप्तः स्वर्वासिदूत्योपनतमखहविर्भागवाहप्रयासः।

स्त्रीभ्यां स्वाहास्वधाभ्यां निबिडदृढकुचाभोगगाढोपगूढः
पापारण्यान्यारण्याश्रितनिजजननः पावकोऽयं प्रदह्यात्॥४४॥

भीमभ्रूभङ्गभङ्गीविकटपरिनटत्तारकादुर्निरीक्ष्य–
व्यात्तभ्राष्ट्रोपमानाननतटघटितारालदंष्ट्राकरालः।
आरूढप्रौढवाहद्विषदवनिपतिः पापिनामुप्ररूपः
काले वः सौम्यमूर्तिः स तु भवतु तदा वान्तकोपोऽन्तको वः॥

दंष्ट्रावज्राङ्कुराग्रग्रथितदृढतरोत्तप्तानष्कासनोद्य–
ह्यत्यस्तोल्लेलिहानचलितरसनापन्नगो भीमवक्त्रः।
आबिभ्राणः करालं कमपि च करवालं महाभीमकायः
क्रव्यादव्यादशेषद्विषदुपधिविधाविष्कृतादुष्कृताद्वः॥४६॥

फुत्कुर्वत्फण्यधीशप्रतिभयदिविषद्वृन्ददुर्मोचतादृ–
क्पाशव्याबद्धनानावृजिनमयजनस्तोमदण्डप्रचण्डः।
पश्चार्धे यश्च रक्षन्यनुपधि जगतां सर्वबीजप्ररोह–
प्रारम्भश्रीनिदानं स हरतु दुरितान्यप्पतिर्दिक्पतिर्वः॥४७॥

सत्त्वप्रायः परीक्षाकलितफणफणिग्रामणीसत्फणालि–
प्रच्छन्नस्वर्णभूभृच्छ्रिखरसरभसोत्क्षेपदक्षप्रयत्नः।
सप्तस्कन्धात्मकः सन्सकलदिविषदां नित्यमाधारभूतो
दत्तां वः सत्त्वयोगं वपुषि बहुरुजादुन्यवायुश्च वायुः॥४८॥

विष्णुब्रह्मादिदेवासुलभपुरहरप्रेममित्रत्वसंप–
त्संप्राप्तिप्राप्ततादृङ्नवनिधिविभवाधीशताराजराजः (१)।
यः कैलासे गिरीन्द्रे भजति पशुपतेर्नित्यसामन्तभावं
स श्रीमान्संततं वो वितरतु विभवानक्षरान्यक्षराजः॥४९॥

ग्रैवेयक्षुद्रघण्टानिवहघणघणात्कारिकण्ठोपकण्ठ–
प्रक्रीडच्छाक्करेन्द्रत्रिकघटितकुथाग्रेषु पृष्ठाधिरूढ (१)।
सार्धं देव्याम्बयार्धे वपुषि च गतया ससरन्हंसवर्णः
संभेदी त्वंहसां वो वसतु मनसि सोत्प्रासमीशानदेवः॥५०॥

सोढुं धामाक्षमत्वात्परिधृतबडबारूपसज्ञानुधाव–
त्कर्कीभूतार्कतेजःप्रचयभरिततन्नासिकागर्भजातौ।
सर्वस्वर्वासिवैद्यौ सकलपुमुपमात्मीयरूपावजस्रं
दस्रौ वः श्रीनिदानं वपुषि वितरतां स्फारमारोग्यभारम्॥

आशापूर्तिं दशाशा विदधतु भवतां यत्र वृत्रारिमुख्याः
सत्राशेशा वसन्तो हरिदधिपतयः पान्ति लोकानशेषान्।
अभ्रम्वाद्याः करिण्यो निजंपतिभिरिमैर्यान्ति यत्र व्यवायं
शुद्धोदन्वज्जले वाप्यवधिधरणिभृद्गण्डशैलान्तरे वा॥५२॥

पायाद्विष्णोर्द्वितीयं पदमतिविमला यत्र निर्णेजनाम्बु–
भ्रान्तिं धत्ते द्युगङ्गादिनकरशशिनौ यस्य गुल्फायमानौ।

संतानीभूय भूयः प्रसृत इह गुणो यस्य वीचीतरङ्ग–
न्यायेनानीयमानः प्रविशति मरुता प्राणिनां कर्णवीथीम्॥

भावज्ञत्वङ्गदश्वव्यपगमकृतरुदसागरोद्दण्डबाहा–
दण्डोत्खाताखिलक्ष्मातलविवरसमाक्रान्तिसंवर्धितात्मा।
श्रीदेव्या जन्मभूमिर्वसनमथ भुवः क्ष्माधराणां शरण्यः
पुण्यागण्यप्रभावो जलधिरखिलदिग्व्यापनो नः पुनातु॥५४॥

दागङ्गासङ्गभाग्यात्त्रिजगदधिपतेः पुण्यतोया वहन्ती
गङ्गागं गाहमाना जनदुरितवनीविष्वगङ्गारतुल्या।
वेगं गाधेतराम्भः स्वनितरतटिनीपूरगं गाढमाप्ता
स्वर्गे गाथाशतेड्या वितरतु समये सौभगं गायतां वः॥५५॥

आमन्दस्पन्दमानालसपवनलसत्तीरवानीरकुञ्ज–
कोडक्रीडद्यशोदासुतपदकमलन्यासधन्योपकण्ठा।
क्षोणीवेणीयमाना जलचरविलसन्नीलवेणीमनोज्ञा
कालिन्दी सा मिलिन्दीमिलितकुवलयैरक्षता रक्षताद्वः॥५६॥

योगिश्रेष्ठं वसिष्ठं द्रुतमुपतटमाक्रष्टुकामस्य पूरै–
विश्वामित्रस्य नेत्रद्युतिभिरिव रुषा रक्तिमासक्तिमाप्ता।
तच्छापस्येव भीतेरसितसितसरिद्वारिमध्ये निलीना
सिन्धुश्रेष्ठा सरस्वत्यघततिंदलिनी सा पुनर्वः पुनातु॥५७॥

भक्त्युद्रेकप्रहृष्यत्तटनिकटनटद्वाणपूजावसान–
व्याकीर्णस्थापुलिङ्गकरनिपतनस्फायदोंकारकुण्डा।
बद्धा सा पश्चिमाब्धौ तटभुवि जपतां तत्क्षणात्सिद्धिदात्री
धन्या शीतांशुकन्या प्रभवतु समये निर्मदा नर्मदा वः॥५८॥

चञ्चद्वाचालवीचीनिचयपरिचयोदश्चदानन्दसान्द्र–
स्वच्छन्दक्रीडदच्छच्छदगणमधुरालापमेदस्विपूर।
अम्भोधेः संगमाशां भृशमित्र दधती सप्तधा क्लृप्तधावा
गोदा गोदावरी सा भवतु भवभयच्छेदिनीच्छावशाद्वः॥५९॥

नित्यं हारिद्रभूरिद्रवकृतनिबिडोद्वर्तनानर्तनोच्चै–
र्निश्चोलीभूतचोलीकठिनकुचतटाघट्टनोत्कर्णिता या।
शृङ्गारोत्तुरङ्गप्रभुवरमभितो वैजयन्तीव भान्ती
धन्या सह्याद्रिकन्या विरचयतु शुभं सर्वदा सर्वदा वः॥६०॥

फुल्लत्कहारनीलोत्पलकमलवनीकालनिर्भिन्नगर्भ–
प्रोदञ्चच्चञ्चरीकीनिचयरूचिभरस्थापितान्वर्थनामा।
पात्रे नित्यार्पितश्रीर्बहुतरसुकृतैः शान्तसिष्णासुतृष्णा
कृष्णा पुष्णातु कामानविरतमपि वो राजहंसावतंसा॥६१॥

स्वीयं हैयङ्गवीनद्रवमिव सलिलोत्पीडमाशूद्वहन्ती
रोधोरोहोद्यदुच्चक्षितिरुहपटलीनिष्पतत्पुंष्पताम्रा।

राज्ञी राज्ञो मनोज्ञा सकलजलपतेः संततग्रामसीमा–
सन्ना षण्णामपि द्राग्दलयतु पटुतां तामरीणामरीणाम्॥६२॥

ऐश्वर्योद्दण्डपाण्ड्यस्मयहरणकृते भक्षितान्नक्षमाभृ–
त्क्षुत्क्षामक्षामकुक्षिप्रबलजनिततृट्क्षोभकुम्भोदरस्य।
स्फारोदन्यानिवृत्त्यै दरविवृतजटाजूटतः शंभुमुक्ता
भूयाद्भूत्यै प्रवृत्ता परिमधुरमियं वेगवत्यापगा वः॥६३॥

पायाद्वस्ताम्रपर्णी कलिभयरहिता दक्षिणा सा नदीनां
लोपामुद्राधिनाथत्रिषवणविहितप्रत्यहस्नानपूता।
जायन्ते हन्त यस्याः किल जलनिधिना संगमे पुण्यबेले
सद्वृत्ता एव मुक्ताः श्रुतिपरिचायिनो निर्मला भर्मलाभात्॥

मेरुर्भास्वन्नमेरुः स भवतु भवतां कल्यकल्याणदायी
तुङ्गैः सद्रत्रशृङ्गैनुपहति जगद्रतदीपायमानः।
विभ्राम्यन्यन्नितम्बेऽम्बरमणिरभितोऽप्यन्धकारेण साकं
दीव्यन्माणिक्यनीलोपलघटितवलच्चक्रशङ्कां करोति॥६५॥

पायाद्वो मन्दरागस्तटनिकटगलद्वैरिकामन्दरागः
प्रस्थैर्यो रत्नपूर्णैरुपरचितमहार्घोपहारः शिवाय।
दृप्यद्दैत्यामरेन्द्रप्रबलभुजवलारुकृष्टनिर्घृष्टपिष्ट–
भ्राम्यद्गण्डोपलैर्योऽकृत कमठपतेश्चण्डकण्डूतिशान्तिम्॥६६॥

श्रेयो भूयो विदध्यात्प्रथितमहिमवानोषधिप्रस्थनाथः
शैलानां सार्वभौमः स जगति हिमवाञ्चन्मभूर्हैमवत्याः।
पर्यन्ते यस्य दर्यन्तरगृहगतरागान्धगन्धर्वनारी–
संगीतैस्तु त्यदीयं सततमपि यशः प्रायशः स्त्यायते च॥

प्रत्यासन्नप्रभिन्नत्रिदशपतिकरिग्रामणीवप्रलीला–
दन्ताग्रोत्क्षिप्तसानुक्षितिविषमतटप्रस्खलद्भानुचक्रः।
नाथः पाथोजिनीनां क्षणमिव च शिरोरत्नमुच्चैर्दधानः
श्रीमान्पूर्वाचलेन्द्रो मनसि चिरधृतानन्धकारान्धुनोतु॥६८॥

अन्तर्मग्नार्धबिम्बाम्बरमणिकदनामन्दमन्देहबृन्द–
ध्वंसे वज्रायमाणाञ्जलिपुटसलिलैरुन्मुखैर्वीक्ष्यमाणः।
आबिभ्राणः प्रतीचीनिटिलघटितगोरोचनाबिन्दुमर्कं
सोऽयं वोऽस्तं समस्तं गमयतु दुरितस्तोममस्ताचलेन्द्रः॥

वैदेहीलोभनेच्छारचितगिरिसरित्कंदरा वृक्षराजी–
संपद्व्यावर्णनश्रीरघुपतिचरणन्यासधन्यप्रदेशः
पायाद्वश्चित्रकूटः कुतुकिजनकजादत्तबैसाङ्कराग्र–
ग्रासोपासन्नहंसीसमुदयकलितानन्दमन्दाकिनीकः॥७०॥

दुर्गाजीवोपहारप्रकृतनरपशुप्रभुतास्रप्रवाहः
प्लीहक्कोमान्त्रमालापरिणतघनजम्बालसंबाधभूमिः।

तुङ्गानेकस्वशृङ्गप्रतिहतमतिकव्योमसंचारिलोको
विन्ध्यः पायादवन्ध्यप्रतिघकलशजादेशमूर्धावतंसः॥१७॥

लोकेशीमेकवीरां धृतविनयभयं सेवितुं प्राप्तवद्भि–
र्निस्तन्दैर्निजरेन्द्रैरनुदिनमपि यः सान्द्रितस्वीयपादः।
दत्तात्रेयस्य विष्णोरपि च भगवतो नित्यमावासभूतः
सह्यःस ह्यद्भुतश्रीः क्षितिभृदवतु वश्चोलरक्षासदृक्षः॥७२॥

होमार्थ कुम्भयोनेःप्रतिदिनमुपयातेध्मवाहादिशिष्य–
च्छिन्नश्रीखण्डखण्डप्रसृतपरिमलाक्रान्तदिक्चक्रवालः।
तातो वातार्भकाणामवतु स मलयो वामनावामनोद्य–
च्छुण्डादण्डावनम्रत्रुटितबहुजरच्चन्दनो नन्दनो वः॥७३॥

सप्ताकूपारखेयावलयितधरणीमण्डलीधूर्वहाणां
सर्वक्षोणीभृतां यः कलयति परितश्चिश्रत्रप्रप्रकारम्।
यस्मिन्नारक्षरीत्या भ्रमति दिनकरः सिद्धगन्धर्ववबाद्यैः
शैलेन्द्रश्चक्रवालः स किल वितनुतां चक्रवर्ती श्रियं वः॥७४॥

ये चान्ये स्वर्णकूटत्रिककुदवनिभृन्माल्यवत्पारियात्र–
प्रष्ठाः श्रेष्ठा गिरीणां सततवसतयः सिद्धविद्याधराणाम्।
तेऽमी चामीकराद्रेः सदृशगुणगणाः पावनाः पापजालं
दुरीकुर्वन्तु सर्वे तुहिनमिव हि वः पत्युरहां मयूखाः॥७५॥

दिक्पालाद्यस्त्रजालं निखिलमपि बलाद्भक्षयित्वा क्षणेन
प्रोद्दण्डो यस्य दण्डो बलिनमपि तदादण्डयद्गाधिसूनुम्।
पीता पैतामहास्त्रोन्नतिरपि तपसा येन ताताधिकेन
श्रेष्ठोऽयं तापसानामवतु स भवतो योगनिष्ठो वसिष्ठः॥७६॥

यो दृश्यन्तीसुगर्भे कृतनिवसतिरभ्यस्तनिःशेषविद्यो
यः सत्यां सत्यवत्यां तनयमजनयल्लोकनिर्व्याजबन्धुम्।
चक्रे यश्व स्मृतीर्दुष्कलिमलहतये वैष्णवं सत्पुराणं
रक्षोयज्ञस्य यष्टा स च मुनितिलको व्यासतातोऽवताद्वः॥७७॥

एकीभूताविशेषग्रहविविधवचोवेदराशेर्विवेक्ता
व्यत्यस्तप्राक्पुराणप्रवचनचतुरः केशवांशावतारः।
आनेता स्वर्गतानामपि पुनरवनीं स्त्रीकृते कौरवाणां
पाराशर्योऽवताद्वः प्रणयनकुशलः पञ्चमस्यागमस्य॥७८॥

सार्कं सेन्द्रं सचन्द्रं त्रिभुवनमपरं निर्मिमाणेन येन
त्रस्ता देवाः समस्ताः समजनिषत यच्चाटुकाकूक्तिवादाः।
निर्वोढुं यः प्रतिज्ञां समजनि च हरिश्चन्द्रचन्द्रस्य राहु–
र्विश्वामित्रोऽपि मित्रीभवतु च भवतां विश्वमित्रायमाणः॥७९॥

सौर्वाग्नीन्सान्तरीपान्सशिखरिनिकरान्साच्युतांश्चान्ततो यः
सीधून्स्वल्पाम्बुबिन्दूनिव करकमलेऽधत्त तेजोमहिम्ना।

जेता वातापिनाम्नः स्वयमसुरपतेर्विन्ध्यसंस्तम्भकारी
क्लेशाम्भोधिं समस्तं स बत पिबतु वस्तापसः कुम्भजन्मा॥

कुष्यत्कालावलोकप्रभवभयभरालिङ्गितस्थाणुलिङ्ग–
प्रादुर्भूतेशदत्ताभयसमुपनमन्नित्यतारुण्ययोगः।
मार्कण्डेयश्चिरायुर्वितरतु भवतां ब्रह्मघस्रावसान–
प्रारब्धैकार्णवाम्भः कबलितभुवनानल्पकल्पान्तसाक्षी॥८१॥

मारीचः काश्यपोऽव्याद्दितिदनुविनताकद्रुदित्याद्यपत्य–
प्रायैर्यो भूर्भुवः स्वस्त्रिभुवनभवनैर्भूरिससारभारः।
अन्योन्यस्पर्धमानत्रिदशपरिवृढप्रौढदैत्याधिराज –
प्रक्रान्ताक्रन्ददूरीकरणसमसमाधानदत्तावधानः॥८२॥

हस्त्यश्वं वः पुलस्त्यः प्रथयतु विततं यस्त्यजन्नित्यकर्म
क्रूरक्रव्यादधीशव्यसनपरिह्नतिप्राप्तसर्वानुनीतिः।
भक्त्युद्रेकोपपन्नप्रगुणगुणगणप्रह्लयक्षेन्द्रलक्ष्मी–
वीच्क्षासंवर्धमानप्रतिदिनहृदयानन्दसंदोहसान्द्रः॥८३॥

मिष्टान्नं प्रत्यहं वो वितरतु स भरद्वाजयोगी महेच्छो
वल्लीर्वृक्षांश्च नारीनरयितुमहह ख्याततेजः प्रभावः।
कैकेयीसूनुसेनाप्रतिपुरुषचतुः सप्तपञ्चाष्टदिव्य–
श्यामानेकोपचारप्रथितनिरुपमातिथ्यसत्कारकारी॥८४॥

आयान्ती सत्यलोकादवनितलमिदं पूर्वपादप्रचारा
वाग्देवी पुण्यतीर्थेऽङ्कुरितकुशलवे यत्र विश्रान्तिमाप्ता।
सोऽयं रामावताराद्भुतचरितकथानाटिकासूत्रधारः
श्रीमान्वल्मीकजन्मा दिशतु कृतजगत्सौहितीं साहितीं वः॥

पायाद्वः शौनकार्यः प्रथितपृथुयशा नैमिशारण्यवासी
यच्छात्नेबहुचानां गुरुरतितपसा तोषितश्रीनटेशः।
प्रख्यातो हौत्रभागप्रकरणगहनप्रक्रियानैकभङ्गी–
साङ्गोपाङ्गप्रपञ्चावगमसुलभसत्सूक्तिसूत्रप्रणेता॥८६॥

मेधां बोधायनो वो वितरतु सहितः षष्टिसाहस्रशिष्यै–
र्यस्यापस्तम्ब एकाधिकशतयजुषां पारगो मुख्यशिष्यः।
सूत्रं प्रायुङ्क्तनैकक्रमविधिनिपुणाध्वर्युनानाप्रयोग–
व्यक्तिज्ञानोपयुक्तस्फुटमृदुगहनप्रौढसंदर्भगर्भम्॥८७॥

देवर्षिर्नारदोऽव्यात्करधृतमहतीपर्वनिस्तन्द्रतन्त्री–
निर्व्याजोदित्वरश्रीहरहरिगुणसत्कर्मनामप्रकर्षः।
ये चान्ये मान्यरूपा दिवि भुवि सनकप्रष्ठदेवर्षिसंघाः
सर्वे ते कुर्वतां वः परमगतिकृते ज्ञानमज्ञानशून्यम्॥८८॥

शास्त्राणां ये च सूत्रप्रणयनपटवो ये च सप्तर्षिभेदा
ये चान्ये वालखिल्याः शमदमनिधयो ये प्रसिद्धाः पुराणे।

लोकानां पावनास्ते प्रथितसुचरिता भूर्भुवः स्वर्निवासा
देवब्रह्मर्षिसंघाः शिवमनवरतं कुर्वतां सर्वदा वः॥८९॥

शाखामेदैरनेकैर्द्विजकुलकलितोद्धोषवद्भिः समेताः
कृच्छ्रारोहावरोहा विततबहुजटाः काण्डवगैरपेताः।
विस्तीर्णाः किं च नानासवफलसहिताः सेविताः सत्पथस्थै–
श्चत्वारो वः क्रियासुर्निंगमत्रिटपिनो हन्त संतापशान्तिम्॥

नित्यं संवर्धितात्मावितथबहुकथापुण्यशैवलिनीभिः
स्थानं गीतासुधायाः क्षितिसुरनिवहैः सादरैर्मध्यमानः।
मध्ये विष्णुं दधानस्त्रिभुवननिलयं पर्वसु प्राप्तसंप–
त्सर्वं वो भारताम्भोनिधिरयमपरः पापजालं पुनीयात्॥९१॥

नन्वाद्यैर्मानवानां निरुपधि हितमावेदयद्भिर्मुनीर्न्द्रे
र्मन्वाद्यैः संप्रणीता स्मृतिरिह निखिलाप्यागमार्थैकवाक्या।
अव्यग्राकृष्यमाणप्रचलरथपुरश्चकमार्गानुधाव–
त्पश्चाच्छत्राप्ररीतिः परिणमयतु बो धर्मबुद्धिं विशुद्धाम्॥९२॥

प्रायः पापिष्ठबुद्धया निजनिजमतसंस्थापनायेशविष्णवो–
र्हन्तोत्कर्षापकर्षग्रहभृतमनसां दूरतो निष्फलानि।
सर्वत्रैवाविरोधान्यधिमहि नहिनिन्दाद्भुतन्यायभाजा–
मव्यासुः सेतिहासागममनुदिवसं वः पुराणानि कामम्॥९३॥

वाल्मीकेर्वक्त्रपद्मादुपगतजननः सर्वविख्यातकीर्त्ति–
ईसैः सत्पकत्दपातैश्चरमतनुधृतः काण्डसंपत्समेतः।
पुण्यश्लोकप्रतीतो विदलितशतपत्राधिरूढाक्षरश्रीः
कुर्याद्रामायणाख्यो विधिरयमपरः संततं संततिं वः॥९४॥

यद्वीजं जन्मबीजप्रचयदहनकृद्यस्य सारो निपीतो
द्राष्यातृस्तन्यपानं परिहरति नृणां यच्च नैवागमान्तात्।
प्रभ्रश्यत्यन्वहं यत्प्रथितशुकमुखास्वादनात्सारभूतं
स्यादामोदाय तद्भागवतफलमिदं नित्यमत्यद्भुतं वः॥९५॥

मीमांसे द्वे सतर्कं फणिपतिफणितं योगसांख्यौ च शास्त्रा–
व्याम्नायाङ्गानि शेषाण्यपि च जगति येऽन्ये च वाणीविलासाः।
सर्वे ते कुर्वतां वः सकलविषयधीघर्षशाणायमाना
नित्यं बुद्धेर्विकासं भुवि निखिलजगत्तत्त्वविज्ञानहेतोः॥९६॥

सृष्टिस्थित्यन्तकर्मस्वजहरिगिरिशा येन नित्यं नियुक्ता
ज्योतिश्चक्राण्यशेषाण्यविरतमपि यो भ्रामयत्यात्तवेगम् ।
दुर्वारः स्वप्रवाहः प्रबलनिजबलः पूर्वपूर्वापहन्ता
कालो निष्पक्षपातो भवतु बहुजगद्भक्षको रक्षको वः॥९७॥

साकेतः केतनाग्रग्रथितविततसत्केतुचीनांशुकोद्य–
द्वातव्रातापनीतश्रमहरविहरन्मुग्धसिद्धाङ्गनौघः।

स्त्रोतस्विन्या सरय्वा प्रियसुवनितयेवादरेणानुकूलं
नित्यं गाढोपगूढः कलयतु स हितं श्रेयसा भूयसा वः॥९८॥

मोक्षद्वाराररं वो विघटयतु पुरी द्वारवत्यद्भुतश्री–
यत्रत्यस्त्रीजनानां जलवि+तिथिधौ दीर्घिका पश्चिमाब्धिः।
यां नित्यब्रह्मचारी यदुकुलतिलकः षोडशस्त्रीसहस्र–
क्रीडासंतुष्टचेता नवनयविभवैः पावयामास देवः॥९९॥

क्षेत्राणामुत्तमानामपि यदुपमया कापि लोके प्रशस्ति–
देहत्यागेन मुक्तयमभिलषतां याद्भुता पण्यवीथी।
साक्षाद्विश्वेश्वरस्य त्रिभुवनमहिता या पुरी राजधानी
सेयं काशी सकाशीभवतु शुभकरी मुक्तये मुक्तये वः॥१००॥

प्रायश्चित्तेष्वघानामधिकलि कठिनेष्वल्पसामर्थ्यभाजां
निर्यत्नं मानवानामघततिदलने यो लघीयानुपायः।
दूरादालोकमावादपहृतसकलब्रह्महत्यो जगत्यां
कृच्छ्रात्संतारयेद्वः सपदि दुरितनिस्तारहेतुः स सेतुः॥१०१॥

कारुण्येन स्वयं यो वृषशिखरिपतेस्तुङ्गमारुह्य शृङ्ग
केशाम्भोराशिमज्जन्निखिलतनुभृतामुद्धृतौ बज्रबुद्धिः।
प्रत्यक्षीभूय साक्षात्प्रथयति भुवि यो देवलीलाविलासा–
सोऽयं संत्रायतां वः परिहृतविनमत्संकटो वेङ्कटेशः॥१०२॥

]