विषोद्भवः

प्रजाम् इमाम् आत्म-योनेर् ब्रह्मणः सृजतः किल।
अकरोद् असुरो विघ्नं कैटभो नाम दर्पितः ॥
तस्य क्रुद्धस्य वै वक्त्राद् ब्रह्मणस् तेजसो निधेः ।
क्रोधो विग्रहवान् भूत्वा निपपात+अतिदारुणः ॥
स तं ददाह गर्जन्तम् अन्तकाभं महाबलम् ।
ततो ऽसुरं घातयित्वा तत् तेजो ऽवर्धत+अद्भुतम् ॥
ततो विषादो देवानाम् अभवत् तं निरीक्ष्य वै ।
विषाद-जननत्वाच् च विषम् इत्य् अभिधीयते ॥

ततः सृष्ट्वा प्रजाः शेषं तदा तं क्रोधम् ईश्वरः ।
विन्यस्तवान् स भूतेषु स्थावरेषु चरेषु च ॥
यथा ऽव्यक्त-रसं तोयम् अन्तरिक्षान् महीगतम् ।
तेषु तेषु प्रदेशेषु रसं तं तं नियच्छति ॥
एवम् एव विषं यद्-यद् द्रव्यं व्याप्यावतिष्ठते ।
स्वभावाद् एव तं तस्य रसं समनुवर्तते ॥