[[यमुनास्तोत्रम् Source: EB]]
[
यामुनस्तोत्ररत्नम्
नमो ऽचिन्त्याद्भुताक्लिष्टज्ञानवैराग्यराशये \।
नाथाय मुनये ऽगाधभगवद्भक्तिसिन्धवे \।\। यमुना. स्तो. र. १ \।\।
तस्मै नमो मधुजिदङ्घ्रिसरोजतत्त्वज्ञानानुरागमहिमातिशयान्तसीम्ने \।
नाथाय नाथमुनये ऽत्र परत्र चापि नित्यं यदीयचरणौ शरणं मदीयम् \।\। यमुना. स्तो. र. २ \।\।
भूयो नमो ऽपरिमिताच्युतभक्तितत्त्वज्ञानामृताब्धिपरिवाहशुभैर् वचोभिः \।
लोके ऽवतीर्णपरमार्थसमग्रभक्तियोगाय नाथमुनये यमिनां वराय \।\। यमुना. स्तो. र. ३ \।\।
तत्त्वेन यश् चिदचिदीश्वरतत्स्वभावभोगापवर्गतदुपायगतीर् उदारः \।
संदर्शयन् निरमिमीत पुराणरत्नं तस्मै नमो मुनिविराय पराशराय \।\। यमुना. स्तो. र. ४ \।\।
माता पिता युवतयस् तनया विभूतिः सर्वं यद् एव नियमेन मदन्वयानाम् \।
आद्यस्य नः कुलपतेर् वकुलाभिरामं श्रीमत् तदङ्घ्रियुगलं प्रणमामि मूर्ध्ना \।\। यमुना. स्तो. र. ५ \।\।
यन् मूर्ध्नि मे श्रुतिशिरस्सु च भाति यस्मिन्न् अस्मन्मनोरथपथः सकलः समेति \।
स्तोष्यामि नः कुलधनं कुलदैवतं तत् पादारविन्दम् अरविन्दविलोचनस्य \।\।
यमुना. स्तो. र. ६ \।\।
तत्त्वेन यस्य महिमार्णवशीकराणुः शक्यो न मातुम् अपि शर्वपितामहाद्यैः \।
कर्तुं तदीयमहिमस्तुतिम् उद्यताय मह्यं नमो ऽस्तु कवये निरपत्रपाय \।\।
यमुना. स्तो. र. ७ \।\।
यद् वा श्रमावधि यथामति वाप्य् अशक्तः स्तौम्य् एवम् एव खलु ते ऽपि सदा स्तुवन्तः \।
वेदाश् चतुर् मुखमुखाश् च; महार्णवान्तः को मज्जतोर् अणुकुलाचलयोर् विशेषः ? \।\। यमुना. स्तो. र. ८ \।\।
किं चैष शक्त्यतिशयेन न ते ऽनुकम्प्यः स्तोतापि तु स्तुतिकृतेन परिश्रमेण \।
तत्र श्रमस् तु सुलभो मम मन्दबुद्धेर् इत्य् उद्यमो ऽयम् उचितो मम चाब्जनेत्र ! \।\। यमुना. स्तो. र. ९ \।\।
नावेक्षसे त्यदि ततो भुवनान्य् अमूनि नालं प्रभो भवितुम् एव कुतः प्रवृत्तिः ? \।
एवं निसर्गसुहृदि त्वयि सर्वजन्त्âüः स्वामिन् ! चित्रम् इदम् आश्रितवत्सलत्वम् \।\। यमुना. स्तो. र. १० \।\।
स्वाभाविकानवधिकातिशयेशितृत्वं नारायण ! त्वयि न मृष्यति वैदिकः कः ? \।
ब्रह्मा शिवः शतमखः परमस्वराड् इत्य् एते ऽपि यस्य महिमार्णवविप्रषस् ते \।\। यमुना. स्तो. र. ११ \।\।
कश् श्रीः श्रियः ? परमसत्त्वसमाश्रयः कः ? कः पुण्डरीकनयनः ? पुरुषोत्तमः कः ? \।
कस्यायुतायुतैककलांशकांशे विश्वं विचित्रचिदचित्प्रविभागवृत्तम् \।\।
यमुना. स्तो. र. १२ \।\।
वेदापहारगुरुपातकदैत्यपीडापद्विमोचनमहिष्ठफलप्रदानैः \।
को ऽन्यः प्रजापशुपती परिपाति ? कस्य पादोदकेन स शिवः स्वशिरोधृतेन ? \।\।
यमुना. स्तो. र. १३ \।\।
कस्योदरे हरविरिञ्चमुखः प्रपञ्चः ? को रक्षतीमम् ? अजनिष्ट च कस्य नाभेः ? \।
क्रान्त्वा निगीर्य पुनर् उद्गिरति त्वदन्यः कः ? केन वैष परवान् इति शक्यशङ्कः ? \।\। यमुना. स्तो. र. १४ \।\।
त्वां शीलरूपचरितैः परमप्रकृष्टसत्त्वेन सात्त्विकतया प्रबलैश् च शास्त्रैः \।
प्रख्यातदैवपरमार्थविदां मतैश् च नैवासुरप्रकृतयः प्रभवन्ति बोद्धुम् \।\।
यमुना. स्तो. र. १५ \।\।
उल्लङ्घितत्रिविधसीमसमातिशायिसंभावनं तव परिब्रढिमस्वभावम् \।
मायाबलेन भवतापि निगुह्यमानं पश्यन्ति केचिद् अनिशं त्वदनन्यभावाः \।\।
यमुना. स्तो. र. १६ \।\।
यद् अण्डम् अण्डान्तरगोचरं च यद्दशोत्तराण्य् आवरणानि यानि च \।
गुणाः प्रधानं पुरुषः परं पदं परात् परं ब्रह्म च ते विभूतयः \।\। यमुना. स्तो. र. १७ \।\।
वशी वदान्यो गुणवान् ऋजुः शुचिर् मृदुर् दयालुर् मधुरः स्थिरः समः \।
कृती कृतज्ञस् त्वम् अपि स्वभावतः समस्तकल्याणगुणामृतोदधिः \।\। यमुना. स्तो. र. १८ \।\।
उपर्य् उपर्य् अब्जभुवो ऽपि पूरुषान् प्रकल्प्य ते ये शतम् इत्य् अनुक्रमात् \।
गिरस् त्वद् एकैकगुणाव्धीप्सया सदा स्थिता नोद्यमतो ऽतिशेरते \।\। यमुना. स्तो. र. १९ \।\।
त्वदाश्रितानां जगदुद्भवस्थितप्रणाशसंसारविमोचनादयः \।
भवन्ति लीलाविधयश् च वैदिकास् त्वदीयगम्भीरमनोऽनुसारिणः \।\। यमुना. स्तो. र. २० \।\।
नमो नमो वाङ्मनसातिभूमये नमो नमो वाङ्मनसैकभूमये \।
नमो नमो ऽनन्तमहाविभूतये नमो नमो ऽनन्तदयैकसन्धिवे \।\। यमुना. स्तो. र. २१ \।\।
न धर्मनिष्ठो ऽस्मि, न चात्मवेदी, न भक्तिमांस् त्वच्चरणारविन्दे \।
अकिञ्चनो ऽनन्यगतिः शरण्य ! त्वत्पादमूलं शरणं प्रपद्ये \।\। यमुना. स्तो. र. २२ \।\।
न निन्दितं कर्म तद् अस्ति लोके सहस्रशो यन् न मया व्यधायि \।
सो ऽहं विपाकावसरे मुकुन्द ! क्रन्दामि सम्प्रत्य् अगतिस् तवाग्रे \।\।
यमुना. स्तो. र. २३ \।\।
निमज्जतो ऽनन्त ! भवार्णवान्तश् चिराय मे कूलम् इवासि लब्धः \।
त्वयापि लब्धं भगवन्न् इदानीम् अनुत्तमं पात्रम् इदं दयायाः \।\। यमुना. स्तो. र. २४ \।\।
अभूतपूर्वं मम भावि किं वा सर्वं सहे मे सहजं हि दुःखम् \।
किं तु त्वदग्रे शरणागतानां पराभवो नाथ ! न ते ऽनुरूपः \।\। यमुना. स्तो. र. २५ \।\।
निरासकस्यापि न तावद् उत्सहे महेश ! हातुं तव पादपङ्कजम् \।
रुषा निरस्तो ऽपि शिशुः स्तनन्धयो न जातु मातुश् चरणौ जिहासति \।\। यमुना. स्तो. र. २६ \।\।
तवामृतस्यन्दिनि पादकङ्कजे निवेशितात्मा कथम् अन्यद् इच्छति \।
स्थिते ऽरविन्दे मकरन्दनिर्भरे मधुव्रतो नेक्षुरकं हि वीक्षते \।\। यमुना. स्तो. र. २७ \।\।
त्वदङ्घ्रिम् उद्दिश्य कदापि केनचिद् यथा तथा वापि सकृत् कुतो ऽञ्जलिः \।
तदैव मुष्णात्य् अशुभाब्य् अशेषतः शुभानि पुष्णाति न जातु हीयते \।\।
यमुना. स्तो. र. २८ \।\।
उदीर्णसंसारदवाशुशुक्षणिं क्षणेन निर्वाप्य परां च निर्वृतिम् \।
प्रयच्छति त्वच्चरणारुणाम्बुजद्वयानुरागामृतसिन्धुशीकरः \।\। यमुना. स्तो. र. २९ \।\।
विलासविक्रान्तपरावरालयं नमस्यदार्तिक्षपणे कृतक्षणम् \।
धनं मदीयं तव पादपङ्कजं कदा नु साक्षात्करवाणि चक्षुषा ? \।\। यमुना. स्तो. र. ३० \।\।
कदा पुनः शङ्खरथाङ्गकल्पकध्वजारविन्दाङ्कुशवज्रलाञ्छनम् \।
त्रिविक्रम ! त्वच्चरणाम्बुजद्वयं मदीयमूर्धानम् अलङ्करिष्यति \।\। यमुना. स्तो. र. ३१ \।\।
विराजमानोज्ज्वलपीतवाससं स्मितातसीसूनसमामलच्छविम् \।
निमग्ननाभिं तनुमध्यमुन्नतं विशालवक्षस्स्थलशोभिलक्षणम् \।\। यमुना. स्तो. र. ३२ \।\।
चकासतं ज्याकिणकर्कशैः शुभैश् चतुर्भिर् आजानुविलम्भिर् भुहैः \।
प्रियावतंसोत्पलकर्णभूषणश्लथालकाबन्धविमर्दशंसिभिः \।\। यमुना. स्तो. र. ३३ \।\।
उदग्रपीनांसविलम्बिकुण्डलालकावलीबन्धुरकन्बुकन्धरम् \।
मुखश्रिया न्यक्कृतपूर्णनिर्मलामृतांशुबिम्बाम्बुरुहोज्ज्वलश्रियम् \।\।
यमुना. स्तो. र. ३४ \।\।
प्रबुद्धमुग्धाम्बुजचारुलोचनं सविभ्रमभ्रूलतम् उज्ज्वलाधरम् \।
शुचिस्मितं कोमलगण्डम् उन्नसं ललाटपर्यन्तविलम्बितालकम् \।\। यमुना. स्तो. र. ३५ \।\।
स्फुरत्किरीटाङ्गदहारकण्ढिकामणीन्द्रकाञ्चीगुणनूपुरादिभिः \।
रथाङ्गशङ्खासिगदाधनुर्वरैर् लसत्तुलस्या वनमालयोज्ज्वलम् \।\। यमुना. स्तो. र. ३६ \।\।
चकर्थ यस्या भवनं भुजान्तरं तव प्रियं धाम यदीयजन्मभूः \।
जगत्समस्तं यदपाङ्गसंश्रयं यदर्थम् अम्भोधिर् अमन्थ्य् अबन्धि च \।\।
यमुना. स्तो. र. ३७ \।\।
स्ववैश्वरूप्येण सदानुभूतयाप्य् अपूर्ववद्विस्मयमादधानया \।
गुणेन रूपेण विलासचेष्टितैस् सदा तवैवोचितया तव श्रिया \।\। यमुना. स्तो. र. ३८ \।\।
तया सहासीनम् अनन्तभोगिनि प्रकृष्टविज्ञानबलैकधामनि \।
फणामणिव्रातमयूखमण्डलप्रकाशमानोदरदिव्यधामनि \।\। यमुना. स्तो. र. ३९ \।\।
निवासशय्यासनपादुकांशुकोपधानवर्षातपवारणादिभिः \।
शरीरभेदैस् तव शेषतां गतैर् यथोचितं श्ष इतीरिते जनैः \।\। यमुना. स्तो. र. ४० \।\।
दासस् सखा वाहनम् आसनं ध्वजो यस् ते वितानं व्यजनं त्रयीमयः \।
उपस्थितं तेन पुरो गरुत्मता त्वदङ्घ्रिसम्मर्दकिणाङ्कशोभना \।\। यमुना. स्तो. र. ४१ \।\।
त्वदीयभुक्तोज्जिहितशेषभोजिना त्वया निसृष्टात्मभरेण यद्यथा \।
प्रियेण सेनापतिना न्यवेदि तत्तथानुजानन्तम् उदारवीक्षनैः \।\। यमुना. स्तो. र. ४२ \।\।
हताखिलक्लेशमलैः स्वभावतस् त्वदानुकूल्यैकरसैस् तवोचितैः \।
गृहीततत्तत्परिचारसाधनैर् निषेव्यमाणं सचिवैर् यथोचितं \।\। यमुना. स्तो. र. ४३ \।\।
अपूर्वनानारसभावनिर्भद्रप्रबद्धया मुग्धविदघलीलया \।
क्षणाणुवत् क्षिप्तपरादिकालया प्रहर्षयन्तं महिषीं महाभुजनम् \।\। यमुना. स्तो. र. ४४ \।\।
अचिन्त्यदिव्याद्भुतनित्ययौवनस्वभावलावण्यमयामृतोदधिम् \।
श्रियः श्रियं भक्तजनैकजीवितं समर्थम् आपत्सखम् अर्थिकल्पकम् \।\। यमुना. स्तो. र. ४५ \।\।
भगवन्तम् एवानुचरन् निरन्तरं प्रशान्तनिश्शेषमनोरथान्तरः \।
कदाहम् ऐकान्तिकनित्यकिङ्करः प्रहर्षयिष्यामि सनाथजीवितः \।\। यमुना. स्तो. र. ४६ \।\।
धिग् अशुचिम् अविनीतं निर्भयं माम् अलज्जं परमपुरुष यो ऽहम् योगिवर्याग्रगण्यैः \।
विध्शिवसनकाद्यैर् ध्यातुम् अत्यन्तदूरं तव परिजनभावं कामये कामवृत्तः \।\।
यमुना. स्तो. र. ४७ \।\।
अपराधसहस्रभाजनं पतितं भीमभवार्णवोदरे \।
अतगिं शरणागतं हरे कृपया केवलम् आत्मसात्कुरु \।\। यमुना. स्तो. र. ४८ \।\।
अविवेकघनान्धदिङ्मुखे बहुधा सन्ततदुःखवर्षिणि \।
भगवन् भवदुर्दिने पथः स्खलितं माम् अवलोकयाचियुत \।\। यमुना. स्तो. र. ४९ \।\।
न मृषा परमार्थम् एव मे शृनु विज्ञापनम् एकम् अग्रतः \।
यदि मे न दयिष्यसे ततो दयनीयस् तव नाथ दुर्लभः \।\। यमुना. स्तो. र. ५० \।\।
तद् अहं त्वद् ऋते न नाथवान् मद् ऋते त्वं दयनीयवान् न च \।
विधिनिर्मितम् एतम् अन्वयं भगवान् पलय मा स्म जीहपः \।\। यमुना. स्तो. र. ५१ \।\।
वपुरादिषु यो ऽपि को ऽपि वा गुणतो ऽसानि यथातथाविधः \।
तद् अयं तव पादपद्मयोर् अहम् अद्यैव मया समर्पितः \।\। यमुना. स्तो. र. ५२ \।\।
मम नाथ यद् अस्ति यो ऽस्म्य् अहं सकलं तद् धि तवैव माधव \।
नियतस्वम् इति प्रबुद्धधीर् अथ वा किं नु समर्पयामि ते \।\। यमुना. स्तो. र. ५३ \।\।
अवबोधितवान् इमां यथा मयि नित्यां भवदीयतां स्वयम् \।
कृपयैवम् अनन्यभोग्यतां भगवन् भक्तिम् अपि प्रयच्छ मे \।\। यमुना. स्तो. र. ५४ \।\।
तव दास्यसुखैकसङ्घिनां भवनेषु अस्त्व् अपि कीटजन्म मे \।
इतरावसथेषु मा स्म भूद् अपि मे जन्म चतुर्मुखात्मना \।\। यमुना. स्तो. र. ५५ \।\।
सकृत् त्वदाकारविलोकनाशया तृणीकृतानुत्तमभुक्तिमुक्तिभिः \।
महात्मभिर् माम् अवलोक्यतां नय क्षणे ऽपि ते यद् विरहो ऽतिदुस्सहः \।\।
यमुना. स्तो. र. ५६ \।\।
न देहं न प्राणान् न च सुखम् अशेषाभिलषितं न चात्मानं नान्यत् कि अपि तव शेषत्वविभवात् /
बहिर्भूतं नाथ क्षणम् अपि सहे यातु शतधा विनाशं तत् सत्यं मधुमथन विज्ञापनम् इदम् \।\। यमुना. स्तो. र. ५७ \।\।
दुरन्तस्यानादेर् अपरिहरणीयस्य महतो निहीनाचारो ऽहं नृपशुर् अशुभस्यास्पदम् अपि /
दयासिन्धो बन्धो निरवधिकवात्सल्यजलधे तव स्मारं स्मारं गुणगणम् इतीच्छामि गतभीः \।\। यमुना. स्तो. र. ५८ \।\।
अनिच्छन्न् अप्य् एवं यदि पुनर् इतीच्छन्न् इव रजस्तमश्छन्नच् छद्मस्तुतिवचनभङ्गीं अरचयम् \।
तथापीत्थंरूपं वचनम् अवलम्ब्यापि कृपया त्वम् एवैवम्भूतं धरणिधर मे शिक्षय मनः \।\। यमुना. स्तो. र. ५९ \।\।
पिता त्वं माता त्वं दयिततनयस् त्वं प्रियसुहृत् त्वम् एव त्वं मित्रम् गुरुर् असि गतिश् चासि जगताम् \।
त्वदीयस् त्वध्बृत्यस् तव परिजनस् त्वद्गतिर् अहं प्रपन्नश् चैवं सत्य् अहम् अपि तवैवास्मि हि भरः \।\। यमुना. स्तो. र. ६० \।\।
जनित्वाहं वंशे महति जगति ख्यअतयशसां शुचीनां युक्तानां गुणपुरुषतत्त्वस्थितिविदाम् /
निसर्गाद् एव त्वच्चरणकमलाइकान्तमनसाम् अधो ऽधः पापात्मा शरणद निमज्जामि तमसि \।\। यमुना. स्तो. र. ६१ \।\।
अमर्यादः क्षुद्रश् चलमतिर् असूयप्रसवभूः कृतघ्नो दुर्मानी स्मरपरवशो वञ्चनपरः \।
नृशंसः पापिष्ठः कथम् अहम् इतो दुःखजलधेर् अपाराद् उत्तीर्णस् तव परिचरेयं चरणयोः \।\। यमुना. स्तो. र. ६२ \।\।
रघुवर यद् अभूस् त्वं तादृशो वायसस्य प्रणत इति दयालुर् यच् च चैद्यस्य कृष्ण \।
प्रतिभवम् अपराद्धुर् मुग्ध सायुज्यदो ऽभूर् वद किम् अपदम् आगस् तस्य ते ऽसि क्षमायाः \।\। यमुना. स्तो. र. ६३ \।\।
ननु प्रपन्नस् सकृद् एव नाथ तवाहं अस्मीति च याचमानः \।
तवानुकम्प्यस् स्मर्तः प्रतिज्ञानां मदेकवर्जं किम् इदं व्रतं ते \।\।
यमुना. स्तो. र. ६४ \।\।
]