[[यमुनाचतुश्शलोकी Source: EB]]
[
कान्तस्ते पुरुषोत्तमः फणिपतिः शय्यासनं वाहनं
वेदात्मा विहगेश्वरो यवनिका माया जगन्मोहिनी \।
ब्रह्मादिसुरव्रजः सदयितस् त्वद्दासदासीगणः
श्रीर् इत्य् एव च नाम ते भगवति ! ब्रूमः कथं त्वां वयम् \।\।
यमुनाचतुश्श्लोकी १ \।\।
यस्यास् ते महिमानम् आत्मन इव त्वद्वल्लभो ऽपि प्रभुर्
नालं मातुम् इयत्तया निरवधिं नित्यानुकूलं स्वतः \।
ताम् त्वां दास इति, प्रपन्न इति च स्तोष्याम्य् अहं निर्भयो
लोकैकेश्वरि लोकनाथदयिते दान्ते दयां ते विदन् \।\।
यमुनाचतुश्श्लोकी २ \।\।
श्रेयो त्वत्करुणानिरीक्षणसुधासन्धुक्षणाद् रक्ष्यते
नष्टं प्राक् तदलाभस् त्रिभुवनं संप्रत्य् अनन्तोदयम् \।
श्रेयो न ह्य् अरविन्दलोचनमनःकान्ताप्रसादाद् ऋते
संसृत्यक्षरवैष्णवाध्वसु नृणां संभाव्यते कर्हिचित् \।\।
यमुनाचतुश्श्लोकी ३ \।\।
शान्तानन्तमहाविभूति परं यद् ब्रह्म रूपं हरेर्
मूर्तं ब्रह्म ततो ऽपि तत् प्रियतरं रूपं यद् अत्यद्भुतम् \।
यान्य् अन्यानि यथासुखं विहरतो रूपाणि सर्वाणि तान्य्
आहुः स्वैर् अनुरूपरूपविभवैर् गाढोपगूढानि ते \।\।
यमुनाचतुश्श्लोकी ४ \।\।
]