विरूपाक्षपञ्चाशिका

[[विरूपाक्षपञ्चाशिका Source: EB]]

[

[TABLE]

[TABLE]

[TABLE]

निवेदना।

यत्तत् सर्वदर्शनसंग्रहे माधवाचार्यप्रणीते प्रत्यभिज्ञादर्शनमुपन्यस्तं, तदनुसार्ययमपूर्वश्चातिप्रौढश्च ग्रन्थो विरूपाक्षपञ्चाशिका नाम। अस्या विवृतिसहितायाः संशोधनाधारतया द्वावादर्शौतालपत्रात्मकौकेरलीयलिपी अनतिशुद्धौत्रिशतवर्षसम्भाव्यौराजकीयग्रन्थशालाया आसादितौ।

तत्र पञ्चाशिकाकारान् विरूपाक्षनाथपादान् प्रति नाधिकं किञ्चिद् ज्ञातुं पारितम् । श्रीविद्याचक्रवर्ती तु, सम्प्रदायप्रकाशिन्याख्यायाः काव्यप्रकाशव्याख्याया अलङ्कारसर्वस्वसञ्जीविन्याश्च कर्ता यो विद्याचक्रवर्त्ती, स कामं सम्भाव्यते। वितत्य तु विद्याचक्रवर्तिनं प्रत्यस्यां संस्कृतग्रन्थावलौ ग्रथयिष्यमाणायाः सम्प्रदायप्रकाशिन्या उपोद्घाते चिन्तयिष्यामः॥

त. गणपतिशास्त्री

॥श्री॥
श्रीमदाचार्यविरूपाक्षनाथपादप्रणीता
विरूपाक्षपञ्चाशिका।
श्रीविद्याचक्रवर्तिकृतविवृतिसमेता।

<MISSING_FIG href="../books_images/U-IMG-1728129492Capture.PNG"/>

नमो विश्वशरीराय विश्वैकात्म्यावभासिने।
नित्यप्रत्यवमर्शाय शम्भवे विश्वसिद्धये॥१॥

संवित्सिद्धान्तसिद्धार्थ1सारसङ्ग्रहरूपिणीम्।
पञ्चाशिकां विरूपाक्षमोक्तां व्याकुर्महे वयम्॥२॥

इह विश्वानुग्रहैकरसिकः श्रीमान् परमशिवभट्टारकः परिगृहीतलीलाविग्रहः श्रीविरूपाक्षनाथपादनाम्ना परिभ्रमन् कदाचिद्2दिविषदां नाथं गन्धसिन्धुरायोधनं पारमैश्वर्यमभिमन्यमानमधिगम्य3तत्पुरस्तादिच्छागात्रेण प्रादुष्कृतमहाचलयुगलाहवस्तद्दर्शनकौकातिशयप्रशान्तैश्वर्यस्मये सर्वभावेनोपपन्ने तत्र तदवबोधनाय समस्तसंवितसिद्धान्तार्थपरमनिष्कर्ष4भूतमेतत् पञ्चाशिकाशास्त्रमवतारयामास। तत्र प्रथमचरमयोः श्लोकयोरुपक्रमोपसंहाररूपत्वाद ‘शुकवानदेवयोरि’त्यस्य च प्रासङ्गिकत्वादनु5पदेशरूपत्वम्। अवशिष्टाः श्लोकाः पञ्चाशद्रूपाइति शास्त्रमेतत् पञ्चाशिका। तत्र ‘विमतिपदमि’त्यादिश्लोकसप्तकरूपेण प्रथमस्कन्धेन शरीरबाह्यतया6 प्रतीयमानस्य विश्वस्य शरीरत्वमुपपत्तिभिरवस्थापितम्। अथ देहदेहिभावलक्षणभेदभ्रमापासनाय ‘प्रत्यवमर्शात्मे’त्यादित्रयोदशश्लोकात्मना द्वितीयस्कन्धेन प्रकाशैकात्म्यं विश्वत्य वितत्य विवेचितम्। अथ प्रत्यभिज्ञातस्य7 प्रकाशैकात्म्यस्यासम्भावनाविपरीतभावनादिभिर्दोषैः संस्पर्शो मा भूदिति8प्रत्यवमर्शप्रकाराः सप्रपञ्चं प्रदर्शिता ‘अहमेकोऽनत्तमितप्रकाशे’ त्याद्येकोनविंशतिश्लोकात्मना

तृतीयस्कन्धेन। अथ चतुर्थ9स्कन्धेन ‘मत्स्थमपी’त्यादिश्लोकैकादशकात्मकेनाप्रबुद्धप्रबुद्धादीनां प्रतीतिप्रकारोपन्यासपुरस्कारेण परापरसिद्धिप्रादुर्भावसरणिः पर्यन्ते महासिद्धिश्चोपदिष्टेति चतुस्स्कन्धकमिदं शास्त्रम्। अवान्तरविशेषास्तत्र तत्रोपवर्ण्यन्ते ।

अथ ग्रन्थं व्याकुर्मः। तत्र10 शास्त्रमवतारयितुं पीठिकाबन्ध11मारचयति-

गन्धगजसमररसिकायेन्द्राय प्रकटिताद्रियुगसमरः।
निजसिद्धिबीजमस्मै कथयति पृष्टो विरूपाक्षः॥१॥

पृष्ट इति प्रश्नलिङ्गानुमेयेन शक्तिपातेनास्य12 तत्त्वोपदेशार्हत्वादधिकारित्वमिन्द्रस्य सूचितम्। कथयति शाब्दीं दीक्षां प्रवर्तयितुमुपक्रमते॥१॥
तत्रादौ शरीरबहिर्भावेन13 प्रतीयमानस्य14 विश्वस्य शरीरत्वं साधयितुं पञ्चावयवोपपन्नं वाक्यमुपन्यस्यति-

विमतिपदमङ्ग! सर्वं मम चैतन्यात्मनः शरीरमिदम्।
शून्यपदादीलावधि दृश्यत्वात् पिण्डवत् सिद्धम्॥२॥

अङ्गेत्युपदेश्यमभिमुखीकरोति। विमतिपदमिदं शून्यपदादीलावधिसर्वं ग्राहकाभिमानिना त्वया देहबाह्यत्वेन चैतन्यात्मना मया देहत्वेन च प्रतीयमानत्वाद् विवादास्पदमेतदनाश्रितादि भृम्यन्तं विश्वं मम शरीरम्। तत्र हेतुः दृश्यत्वादिति। यथा ते ग्राहकत्वादवच्छिन्नस्य दृश्यत्वात् पिण्डः शरीरं, तथा मम चैतन्यात्मनोऽनवच्छिन्नस्य विश्वमेव दृश्यत्वाच्छरीरम्। उपनयस्यार्थात् सिद्धिम्भिसन्दधानो निगमयति सिद्धमिति। सर्वस्य ह्ययं स्वानुभवसि15द्धोऽर्थः। यदा प्रतिनियतं नीलपीतादिविशेषरूपं ग्राह्यं प्रत्युन्मुखीभवति, तदायं ग्राहकः स्वयमप्यवच्छिन्नप्रकाशो भवति। स च प्रकाशावच्छेदो ग्राह्यावच्छेदोपाधिक एव। यदा पुनः सर्वमेव वस्तु सामान्यतोऽनुसन्धत्ते, तदा चैतन्यात्मकोऽनवच्छिन्नप्रकाशोऽयं, देशकालादिप्रकाशकस्य देशकालादिभिरवच्छेदासम्भवात्। अतस्तदा दृश्यत्वाद् विश्व-

मेव शरीरम्। यदि तथा न स्यात्, तदा ग्राहकपदे पिण्डोऽपि शरीरं न स्याद्दृश्यत्वाविशेषात्। अतो ग्राहकत्वलक्षणविशेषविगलने तवापि16 क-पाठः")चैतन्यात्मनो विश्वमेव शरीरमित्युपदिष्टं भवति॥२॥

ननु दृश्यत्वमात्रं देहत्वेन हेतुः, अपि त्वहन्तया प्रतीयमानत्वम्। प्रतीयते च पिण्डोऽहन्तया। विश्वं पुनरिदन्तया। अतः कथमुक्तार्थसिद्धिरित्यत आह-

सम्पन्नोऽस्मि कृशोऽस्मि स्निह्य17त्करणोऽस्मि मोदमानोऽस्मि।
प्राणिमि शुन्योऽस्मीति च षट्सु पदेष्वस्मिता दृष्टा॥३॥

सम्पद् गृहक्षेत्रादेर्विषयस्य धर्मः कार्श्यंदेहस्य, स्नेहश्चक्षुरादेरिन्द्रियस्य, मोदोऽन्तःकरणस्य, प्राणनं वायोः, शून्यता सुषुप्तपदस्य मायापर्यायस्य। एषु विषयादिषुषट्सु पदेषु अस्मिता दृष्टा। अहमभिमानस्तवापि18 स्वानुभवसिद्धः। इत्थञ्च सति यदा देहबाह्यत्वेनाभिमते विषये अहमभिमानः, तदा दृश्यत्वाद् विषयोऽपि शरीरम्। यदा तु नाहमभिमानः, तदा देहेन्द्रियाद्यपि न शरीरम्। अतः पिण्डेऽस्मिता19 तद्बहिर्भूते वस्तुनीदन्तेतियद्वैषम्यमाशङ्कितं, तदविमर्शमात्रकृतो विप्रलम्भ20 एवेति भावः॥३॥
ननु तथापि प्रतिनियतेषु विषयादिषु वस्तुषुषट्सु अस्मिता दृश्यते, न सर्वत्रेत्यत आह—

विषयशरीरेन्द्रियधीप्राणनिरोधप्रसिद्ध्यदस्मित्वाम्।
इत्थं चितिमखिलेऽध्वनि धारयतो विश्वदेहत्वम्॥४॥

विषयादिषु षट्सु येयमस्मिता प्रसिध्यति सा चितेरेवोपपद्यते, नतु ग्राहकस्य, तस्य शून्यपदे निमग्नत्वात्। इत्थं षट्सु पदेषु प्रसिद्ध्यदस्मित्वां चितिं यदि अखिलेऽध्वनि धारयसि षडात्मनीव21सर्वत्रैव शिवादौ धरण्यन्ते वस्तुनि नित्यशुद्धामेव प्रत्यभिज्ञां दार्ढ्येनानुसन्धत्से, तदा तवापि विश्वदेहत्वं प्रत्यभिज्ञाविषयो भविष्यतीति शेषः। उक्तनयेन षट्सु पदेष्वस्मिता चितेरेव न ग्राहकस्य। चितेश्चानवच्छिन्नप्रकाशात्मनः प्रतिनियतेष्वस्मिता नोपपद्यते, उपपद्यते च सर्व-

त्रैव। तामिमां चितेः सर्वत्रैव नित्यसिद्धामस्मितां प्रतिपत्तिदार्ढ्येनन यद्यवमृशसि, तदा ते नित्यसिद्धमेव विश्वशरीरत्वं प्रत्यभिज्ञातं22 स्यादिति तात्पर्यम् ॥४॥

ननूक्तनयेन सर्व एव लोको विश्वशरीरः प्राप्तः। न च तथा दृश्यते पिण्डमात्रेऽहन्तायाः परिनिष्ठानात्। अतः प्रत्यक्षसिद्धमेतद् देहेऽभिमन्तृत्वं कथमन्यथयितुं शक्यत इत्यत आह-

उत्क्रम्य विश्वतोऽङ्गात् तद्भागैकतनुनिष्ठिताहन्तः।
कण्ठलुठत्प्राण इवव्यक्तं जीवन्मृतो लोकः॥५॥

विश्वतोऽङ्गात् शरीर23भूताद्विश्वस्मादेव शिवादेर्वस्तुन उत्क्रम्य अनुत्क्रान्तः सन्नपि24 स्वाविमर्शेनोत्क्रान्त इव भूत्वा तद्भागैकतनुनिष्ठिताहन्तः तदन्तर्भूतायां कस्याञ्चिदेकस्यां तनौ सुरनरतिर्यगात्मिकायां दृढप्ररूढाहम्भावः अत एव कण्ठलुठत्प्राण इव लोको व्यक्तं जीवन्मृतः जन्तुजातमेतज्जीवन्मृतकल्पं सत्यं वर्तत एव। न तत्रापलापः कश्चित्। तत्र हेतुर्विचार्यमाणः स्वाविमर्शलक्षणा मायैव। विमर्शे तु लब्धे सर्वो विश्वशरीरः शिव एव॥५॥

यत इत्थमतः25

देहेऽस्मितया यद्वज्जडयोरास्फालनं मिथो बाह्वोः।
इच्छामात्रेणेत्थं गिर्योरपि तद्वशाज्जगति॥६॥

ग्राहकाभिमानिनस्ते देहेऽस्मितया मिथःकरयोरास्फालनं यथेच्छामात्रेण, तथा चैतन्यात्मनो मम जगत्यस्मितया गिर्योरास्फालनामिच्छावशादेव प्रवर्तते। देहे दृढोऽहमभिनिवेश इच्छा चेतीयदेव हि ते करास्फालने हेतुः, न तु हेत्वन्तरं किञ्चित्। तथा ममापि जगति दृढोऽहमित्यभिनिवेशः इच्छा चेति गिर्यास्फाल26ने हेतुः। अतो जगत्यहमभिनिवेशशैथिल्यादेव तवैतदनैश्वर्यम्। तद्दार्ढ्येन तु नित्यसिद्धमवैश्वर्यं तवाप्याविर्भविष्यतीत्यभिप्रायः॥६॥

ननु अस्मितेच्छामात्रं चेतीयता न करास्फालनसिद्धिमनुपश्यामः, अपि तु बिन्दुप्राणादिचेष्टालक्षणायां सत्यामेव सामग्र्याम्। अतः कथमुक्तार्थोपपत्तिरित्यत आह—

बिन्दुंप्राणं शक्तिं मन इन्द्रियमण्डलं शरीरं च।
आविश्य चेष्टयन्तीं धारय सर्वत्र चाहन्ताम्॥७॥

बिन्दुः ग्राहकग्रहणादिप्रतीतिविशेषोदयादर्वाक्तनी स्वरसवाहिनी सामान्यभूता सूक्ष्माहंप्रतीतिः। प्राणोऽभिमानाध्यवसायाद्यन्तःकरणक्षोभहेतुरसुः। शक्तिपदेन बुद्ध्यहङ्कारौ परिगृहीतौ तयोरध्यवसायाभिमानप्रतीत्यात्मनोः शक्तिरूपत्वात्। षडेतान् बिन्द्वादीनर्थान् आविश्य चेष्टयन्तीं स्वसंस्पर्शलवमहिम्ना परिस्पन्दयन्तीम् अहन्तां सर्वत्र धारय। येन देहे दृढप्रतिपत्त्या धारयसि तेनैव च नयेन यदि सर्वत्र धारयसि, तदा तवेदृश्यः सिद्धयो नित्यसिद्धा एव स्थिता इति भावः॥७॥

ननु येयमहन्ता, सा भावनामात्रपरिनिष्पन्नविकासा, न पुनरीश्वरत्वकर्तृत्वाद्विधर्मोत्कर्षशालिन्यनुभूयते। अतः कथमेवंविधसिद्धिसम्भव इत्यनास्थां शमयितुमाह—

ईश्वरता कर्तृत्वं स्वतन्त्रता चित्स्वरूपता चेति।
एतेऽहन्तायाः27किल पर्यायाः सद्भिरुच्यन्ते॥८॥

येयं28त्वयाहन्ता प्रत्याभिज्ञाता सैव ईश्वरता सैव चकर्तृत्वं स्वातन्त्र्यं चिन्मयत्वंच। यो यः शास्त्रे-ष्वीश्वरत्वादिः सिद्ध्यतिशयः, स सर्वोऽप्यहन्तामय एव। अत ईश्वरत्वादयः पर्याया वाचकाः। अनेनाहन्तायामीश्वरत्वाद्यननुभवनिबन्धना, येयमनास्था सा निरस्ता, यथा यथा प्रत्यभिज्ञानदार्ढ्यंतथा तथा नित्यसिद्धानामीश्वरत्वकर्तृत्वादीनां विभूतीनामाविर्भाव इत्यासूत्रितं चेति शिवम्॥८॥

इति विरूपाक्षपञ्चाशिकायां विवृतिसमेतायां
विश्वशरीरत्वविवेचनस्कन्धः प्रथमः।

________________

अथ द्वितीयः स्कन्धः ।

इत्थं प्रथमस्कन्धेन विश्वशरीरत्वं प्रतिपाद्येदानीं देहदेहिभावादिभेदभ्रमबाधनाथ प्रकाशस्य वैश्वात्म्यं द्वितीयस्कन्ध आरभ्यते। तत्र ग्राहकत्वादिविशेषविगलनेन सामान्यरूपा येयं स्वरसवाहिनी चितिः, नेयम् ‘अहम्’ इति प्रतीयते। अतः कथमियमहन्तेत्याशङ्क्याह—

प्रत्यवमर्शात्मासौ
चितिः स्वरसवाहिनी परा वाग् या।
आद्यन्तप्रत्याहृत-
वर्णगणा सत्यहन्ता सा॥९॥

प्रत्यवमर्शात्मा विगर्शस्वभावा। असौ सर्वस्यैव स्वानुभवसिद्धत्वाद्असावित्यध्यक्षतया निर्देष्टुमुचिता। चितिः विगलितचेत्योपरागा चेतनस्य स्वरूपेणावस्थितिः। स्वरसवाहिनी निरोधकाभावादनिशं स्फुरद्रूपा। सा विमर्शमयत्वाद् वाक्। तत्रापि स्वरूपज्योतिष्ट्वेनैव प्रकाशनात् स्वरूपव्यतिरिक्तपश्यन्त्यादिरूपा नेयम्, अपि तु परैव, यदागमः— “स्वरूपज्योतिरेवान्तः सूक्ष्मा वागनपायिनी" इति। शुद्धवाग्रूप29त्वाद् येयं वर्णात्मिका, सा प्रत्याहारयुक्त्या30 गृहीताभ्यामकारहकाराभ्यामहन्तेति निरुच्यते, न पुनरहमिति प्रतीयमानतयैवेय31महन्ता॥९॥

नन्वहन्तानामाहमो धर्मः। स कोऽन्य उपलभ्यते, यः प्रत्यवमर्शरूप चितिव्यतिरिक्तोऽहंव्यपदेशमर्हतीत्यत आह—

स्वपरावभासनक्षम-
आत्मा विश्वस्य यः प्रकाशोऽसौ।
अहमिति स एक उक्तो-
ऽहन्ता स्थितिरीदृशी तस्य॥१०॥

**स्वं निष्कृष्टप्रकाशा32**त्मकं32 परं च प्रत्यवमर्शादिनीलान्त33मवभासयितुं शक्तश्चेतनाचेतनात्मकस्य जगतः स्वात्मभूतो योऽयमस्ति प्रकाशः, स देशकालादि-

भेदकानां34 स्वात्मन्यसम्भवाद् एकोऽद्वितीयः सन्नागमेषु अहामति आम्नातः। तस्य समनन्तरनिरूपितचरी प्रत्यवमर्शात्मिका दशैव अहन्ता। अत्रायमाशयः– योऽयं प्रत्यवमर्शादिनीलान्तस्य वेद्यस्यावभासको वेदनैकस्वभावः सर्वप्रमितिभाक् प्रकाशो नासौ स्वयमिति परं35इति वा व्यपदेशमर्हति तयोर्वेद्य36त्वात्। अतः स एक एव, तस्य भेदकस्य प्रमाणस्यासम्भवात्। तस्य प्रत्याहृताभ्यामकारहकाराभ्यामहमित्युक्तिरागमेषु। तत्रापि यद्यपि अहेति प्रकृतिमात्रमर्थवत्, तथापि केवलायाः प्रकृतेर्व्यवहारानर्हत्वादहमिति प्रत्ययसध्रीचीनतया व्यवहारः। तस्य कारणतायां येयमुद्भूतप्रत्यवमर्शता साहन्तेति॥१०॥

नन्विदामिति वेद्यम्, अहमित्यहंप्रत्ययात्मको ग्राहकः समनन्तरनिरूपितः प्रकाशश्चेति त्रितयमु37पलभामहे। कथमुक्तार्थसिद्धिरित्यत आह—

विच्छिन्नाविच्छिन्ने इदमित्यहमित्युभे प्रथे तस्य।
आभास्याभासकतां स्फुटयन्त्यौ38 चेत्यचित्पदयोः॥११॥

** तस्य** निरूपितस्य प्रकाशस्य धर्मभूते द्वे प्रथे भवतः। एका विच्छिन्नामिथो व्यावृत्तिरूपा इदमित्येवमात्मिका। अन्या त्वविच्छिन्ना इदंप्रथापेक्षयानुवृत्ता। तत्रेदंप्रथा चेत्यपदे आभास्यतां स्फुटयति, अहंप्रथा त्वाभासकतां चित्पदे। इदम्प्रथा हि ‘नीलमिदं’ ‘पीतमिदमि’ति परस्परव्यावृत्तिरूपा। न हि तस्यामप्रसृतायां नीलादावाभास्यता प्रकाशते। अहम्प्रथा तु ‘नीलं पीतं च वेद्मी’त्यनुवृत्तरूपा। तत्-प्रथनैक39निबन्धनमाभासकत्वं चित्पदे॥११॥

एवं स्थिते-

एकः स आत्मनासौ40 न हि क्रमोऽस्तीह देशकालाभ्याम्।
भेदिनि मिथः स युक्तश्चेत्ये भेदाश्रयः खलु सः॥१२॥

** स** प्रकाश आत्मना एकः अद्वितीय एव, न तु प्रकाशो ग्राहकश्चेति द्विरूपः। नन्विहेदानीं ‘ग्राहकोऽस्मी’ति देशतः कालतश्च क्रमोऽस्ति। कथमैक्यमित्याशङ्क्याह– नहि क्रमोस्तीह देशकालाभ्याम्। अत्र प्रकाशे देशकालनिब-

न्धनः क्रमो भेदो नास्ति। तत्र हेतुः— चेत्ये मिथो भेदिनि स युक्तः।‘इदं नीलम्’ ‘इदं पीतमि’ति भेदशालिनि चेत्ये ‘नीलं पीतं च41 वेद्मि’ इति स युक्तोऽनुवृत्तः। एतदेव हृदयङ्गमीकरोति–भेदाश्रयः खलु सः। चेत्यधर्मस्य भेदस्याश्रय एव ह्ययम्। भेदो हि नाम व्यावृत्तरूपता। अभेदोऽनुवृत्तरूपता। देशकालकृतो भेदश्चेत्य एवास्ति । तद्भेदाश्रयभूते चित्पदे42 ख- पाठः") भेदभ्रमस्तदुपाधिनिबन्धन एव॥१२॥

उक्तनयेन स्वरूपनिरूपणे न भेदः कश्चित् प्रकाशग्राहकयोः। अथ वेद्यमपि निरूप्यमाणं न प्रकाशाद् भिन्नमुपपद्यत इत्यभिप्रायेणाह—

**स्वाङ्गे43 चिद्गगनात्मनि

दुग्धोदनिभः44 स्वशक्तिलहरीणाम्।
सम्भेदविभेदाभ्यां
सृजति45 ध्वंसयति चैष जगत्॥१३॥**

एषएव प्रकाशः स्वाङ्गे स्वस्वरूपे भित्तिभूतेचिद्गगनात्मनि अनवच्छिन्नचिन्मये स्वशक्तीनां सम्भेदविभेदाभ्यां खेचर्यादिरूपाणां स्वरश्मीनां सम्भेदेन एकार्थग्रहणोन्मुखतया जगद्46शिवादि सृजति अवभासयति विभेदेन, विज्ञातार्थवैमुख्येन ध्वंसयति संहरति च, यथोदधिर्लहरीणां सम्भेदेन तरङ्गबुदबुदादीनि सृजति विभेदेन च संहरति। शिवादिवस्तुग्रहणादर्वाग्वि गगनकल्पाचिदेवास्ति। अवविभासयिषायां तु खेचरीगोचर्यादिक्रमेण शक्तीनामेककार्यपरतया बहिर्मुखीभावलक्षणेन सम्भेदेन सृजति। विमृष्टे वस्तुनि ताभिरेव कारणलयक्रमेण प्रत्यग्भावरूपं चिद्भेदमुपागताभिः संहरति। ताः शक्तयः तच्च जगत् प्रकाशबहिर्भूततया नास्तीति प्रतिपत्तिदार्ढ्याय प्रकाशस्योदधित्वेन शक्तीनां लहरीत्वेनार्थसामर्थ्याच्च47 जगतस्तरङ्गादित्वेन रूपणं कृतम्। ततो जगत् तद्भेदस्तत्कारणभूताः शक्तयश्च विमृश्यमानाः प्रकाश एवेत्युपपादितं48 भवति॥१३॥
यतो ग्राह्यादि न किञ्चित् पृथगस्ति वस्तु, सर्वात्मकतया प्रकाश एवास्ति, अतो ग्राह्यादिभेदभ्रमसंस्कारोन्मूलनाय चितिरेवोक्तयुक्तिप्रत्यभिज्ञाता दार्ढ्य49प्रतिपत्त्या भावनीयेत्याह-

रूपादिपञ्चविषयात्मनि भोग्यहृषीकभोक्तृरूपेऽस्मिन्।
जगति प्रसरदनन्तस्वशक्ति50चक्रा चितिर्भाव्या॥१४॥

यदेतद् भोग्यतत्साधनभोक्तृरूपं विश्वं, तद् विचार्यमाणं रूपादिपञ्चविषयात्मकमेव भवति । तथा हि— यदा रूपं भोग्यत्वेन विषयो भवति, तदा तद्ग्रहणसाधकं चक्षुस्तदात्मकं ग्रहीता च ताद्रूप्यमापद्यते। इत्थंरसादिष्वपीति51 भोग्यहृषीकभोक्तृरूपेऽस्मिन् जगति प्रसरदनन्तस्वशक्तिचक्रा व्याप्रियमाणनानाविधरश्मिपुञ्जा चितिर्भावनीया। अनेन वस्तूनामानन्त्यमिति, आनन्त्याद् भावनं दुश्शकामिति, चिद्व्यतिरिक्तत्वमेवैषां52 चेतिये भ्रमाः, ते निरस्ताः॥१४॥
इत्थं जगत् पञ्चधा संक्षिप्य चिदात्मकत्वं चावस्थाप्य पुनर्भावनालाघवाय त्रिधा संक्षिप्योप53दिशति चिदात्मकत्वं -

सोमरविवह्निलक्षणभोग्येन्द्रियभोक्तृभानपिण्डात्मा।
बिन्दुर्विमर्शधर्मा षण्णामेकोऽध्वनां प्राणः॥१५॥

भोग्यं54 सोमलक्षणं पराग्रूपत्वात्। इन्द्रियाणि रविलक्षणानि पराक्प्रत्यगा55त्मकत्वात्। भोक्ता वह्निलक्षणः प्रत्यगेकस्वभावत्वात्। एतत्त्रितयात्मकमेव विश्वं, न व्यतिरिक्तं किञ्चित्। एषां भोग्यादीनां यो भानपिण्डो भोग्यत्वादिविशेषविगलनेन सामान्यात्मकं भानं तद्विमर्शमयं स बिन्दुरित्युच्यते। स बिन्दुरेक एव षण्णामध्वनां प्राणः उदयविश्रान्तिहेतुत्वादात्मभूतः। सोमाद्यभिमानिनीनां तिसृणां देवतानां पारमार्थिकं स्वरूपं विचार्यमाणं भोग्यादित्रयात्मकमेव, न तु तल्लीलाविग्रहमण्डलादिस्वरूपं मण्डलादेर्वेद्यरूपत्वेनेन्द्रियत्वभोक्तृत्वानुपपत्तेः। भोग्यादेश्च भोग्यादिविशेषरूपेण प्रतीयमानस्य निर्विशेषप्रतीत्यात्मको बिन्दुः प्राण इति बिन्दोरेव विकृतिः षड्विधोऽयमध्वा॥१५॥

एतदेव विशदीकर्तुमाह-

व्यक्तं हि पदार्थात्मकमिदं जगन्नित्यमेव तल्लग्नम्।
शक्त्यात्मकमव्यक्तं तत्रैव पुनर्निमज्जति च॥१६॥

जगदेतद् द्विविधं56 स्थूलं सूक्ष्मं च। स्थूलं व्यक्तमुच्यते57। सूक्ष्मं च शक्तिरुच्यते। तत्र पदार्थात्मकं यदेतद् व्यक्तं जगत् तद् नित्यमेव तल्लग्नम् उदयादिदशासु सर्वदा बिन्दुशक्तिलग्नमेव। यत् पुनरव्यक्तं शक्त्यात्मकं, तदपि तत्र निमज्जति। स्थूलतया सूक्ष्मतया वा प्रतीयमानं यद्यावदस्ति जगत्, तत्सर्वे प्रत्यवमर्शात्मकचितिबहिर्भावेन नोपपद्यते जलबहिर्भावेन तरङ्गादिवदिति यावत्॥१६॥
अथ येयं चितिः, तामेव नानाविधसिद्ध्यपेक्षया विविधेति परिकल्प्य केचिदुपासते, न पुनरुपास्यं वस्त्वन्तरमस्तीत्यत आह—

षोडशधैनं नवधा षोढा भिन्दन्त्यथ त्रिधा च बुधाः।
आधारभेदलक्ष्यं बहुसिद्धिकरं च सेत्स्यन्तः॥१७॥

एनम् उपपादितरूपं बिन्दुम् आधारभेदलक्ष्यं षोडशाद्यात्मना भिन्नेष्वाधारेषु लक्ष्यत्वेन परिक्लृप्तम् अत एव बहुसिद्धिकरम् आधारभेदोपाधिना सिद्धिवैविध्यावहं सेत्स्यन्तः साधकाः षोडशधा भिन्दन्ति आधारषोडशके षोडशात्मेति भावयन्ति, तथा नवधा षोढा त्रिधा च। अस्य षोडशादिरूपेण भेदन आधाराणां षोडशादिभेदयोग उपाधिः, स्वरूपे भेदासम्भवान्। सेत्स्यन्त इति वदतोऽयमभिप्रायः— अलब्धैतत्स्वरूपप्रत्यभिज्ञानसिद्धयो मितयोगिन एवैवं भेदेनोपासते, न तु सिद्धाः। ते तु चिदैक्य58प्रतिपत्तिदार्ढ्यलक्षणजीवन्मुक्त्येकरसाश्चिति59मैकात्म्येनैव सन्ततमुपासते ॥१७॥
अथान्वयव्यतिरेकाभ्यामण्डस्य भावाभावरूपं बिन्दुं मार्ताण्डत्वेन निर्ब्रुवन् ‘स त्वमेवे’त्युपदिशति युगलकेन—

यस्य विमर्शस्य कणः पदमन्त्रार्णात्मकस्त्रिधा शब्दः।
पदतत्त्वकलात्मार्थो धर्मिण इत्थं प्रकाशस्य॥१८॥

स्वेन विना मृतमण्डं
स्वावेशबलेन जीवयन्नेकः।

मार्ताण्डः परमोऽसौ
परनभसि न किं त्वया दृष्टः ॥ १९॥

यस्य विमर्शस्येति वैयधिकरण्यम्। इत्थं प्रकाशस्य धर्मिणो धर्मित्वेनैवमुपपादितस्य प्रकाशस्य धर्मभूतो यो विमर्शः अहन्तेति निरुक्तचरः, तस्य कणोंशमात्रमयं वर्णपदमन्त्रात्मकतया (तत्वं?) तत्त्वभुवनकलात्मकतया च प्रतिस्वं त्रैविध्यात् षडात्मकः60शब्दार्थरूपोऽध्वा। असौ परमो मार्ताण्डः ‘यस्य धर्मिण’ इति यः परामृष्टचरः प्रकाशः, असावेवापरस्य लौकिकस्य61 मार्ताण्डस्य प्रकाशकत्वात् परमो मार्ताण्डः। कथमस्य मार्ताण्डता। स्वेन विना स्वस्य विश्वोन्मुखीभावमन्तरेण मृतमण्डं निमिषितमेव तच्छिवादि विश्वं स्वावेशबलेन स्वस्यैतदुन्मुखीभावमहिम्ना यतो जीवयति उन्मेषयति। ईदृशोऽसौ मार्ताण्डः परनभसि भौतिकस्य नभसोऽवच्छेदकत्वात् परे हृदयाकाशे त्वया न किं दृष्टः। ‘किमि’ति निषेधकाक्वादर्शनाभावं कालत्रयेऽपि निरस्यति। योऽसौ प्रकाशरूपो मृतस्याण्डस्यानुप्राणनात् परमो मार्ताण्डः, स परनभोव्यपदेशयोगिन्यभिव्यक्तिस्थाने हृदये त्वया सर्वदा दृश्यत एव तस्यादर्शने वस्त्वन्तरदर्शनासम्भवात्। अतो हृदयावच्छिन्नतयैव प्रतीयमानो योऽयमनवच्छिन्नस्ते प्रकाशः, स एव त्वमिति प्रत्यभिज्ञापित62मिति॥१८॥१९॥

प्रत्यभिज्ञातस्य विश्वोत्पादकत्वं विविच्य दर्शयति—

चिद्गगनक्षीरोदं स्वयमिच्छामन्दरेण संक्षोभ्य।
तच्छक्तिवीचिभिरसावुत्थापयतीन्दुमण्डाख्यम्॥२०॥

अनवच्छिन्नचिन्मयमब्धिंस्वयं स्वातन्त्र्येणैव इच्छामन्दरेण संक्षोभ्य63 अवबिभासयिषालक्षणेन गिरिणा कार्योन्मुखतां नीत्वा तच्छक्तिवीचिभिः खेचर्यादिरूपस्वशक्तिरूपैरेवोर्मिभिः अण्डाख्यमिन्दुमुत्थापयति स्वेच्छावशतः स्वाभिन्नमेव विश्वं स्वभित्तावेव त्वमिति प्रत्यभिज्ञापितः प्रकाशोऽवभासयतीत्यर्थः॥२०॥

अथाण्डस्यावान्तरकक्ष्या विभागेनोपन्यस्य स्वात्मभित्तिलग्नतां स्वानुभवसाक्षिकतया दर्शयति—

शक्तिर्माया प्रकृतिः
पृथ्वीति64 चतुर्विभागमण्डं यत्।
यश्च विभागोऽस्य पुन-
र्बहुधा सर्वंस्थितं मयि तत्॥२१॥

शक्तिर्बिन्दुः। तेन कारणेन शुद्धाध्वलक्षणं कार्यमुपलक्ष्यते, मायया65मिश्राध्वात्मकम् प्रकृत्या शुद्धेतरात्मकम् पृथिव्या स्थूलभोग्यभोगायतनादि। इति चतुर्विभागं यदण्डं यश्चास्य विभागो भुवनादिरूपः, तत् सर्वं मयि स्थितं परस्मिन्नेव प्रकाशे वर्तते। स्थितमिति भूतार्थतायामविवक्षा स्थितेस्त्रैकालिकत्वाद् इति शिवम्॥२१॥

इति विरूपाक्षपञ्चाशिकायां विवृतिसमेतायां
प्रकाशैकात्म्यविवेचनस्कन्धो द्वितीयः।
__________

अथ तृतीयः स्कन्धः।
________

इयता सन्दर्भेण विश्वात्मकत्वमात्मनो युक्त्यनुभवोपपन्नतया प्रतिपादितम्। अथ निश्चितस्य वैश्वात्म्यस्यासम्भावनया विपरीतभावनया वोपरागो मा भूदिति तृतीयस्कन्ध आरभ्यते। तत्र ‘मयि स्थितमि’ति कथनेनाधाराधेयभावलक्षणेन योऽयं भेदः66प्रतीतः, तं व्यतीहारेण निरस्यति—

अहमेकोऽनस्तमित-
प्रकाशरूपोऽस्मि तेजसां तमसाम्।
अन्तः स्थितो ममान्त-
स्तेजांसि तमांसि चैकस्य॥२२॥

अनस्तमितप्रकाशरूपो नित्योदितप्रकाशमयः एकोऽद्वितीयः तेजसां तेजस्त्वेनाभिमतानां बुद्ध्यादिकरणानामर्कादिज्योतिषां च अन्तः स्थितोऽस्मि प्रका-

शमानत्वेन तेषामन्तरात्मतयाहमस्मि । तथा तमस्त्वेन प्रकाशमानत्वात् तमसां बिन्दुमायादीनां चान्तः स्थितोऽस्मि। प्रकाशात्मनि मय्यन्तरवस्थिते तेजस्तेजस्तया तमस्तमस्तया च चकास्यादित्याशयः। तानि तेजांसि तमांसि च ममान्तःस्थितानि प्रकाशात्मकोऽहमेक एव भावाभावात्मकजगद्रूपतया67परिस्फुरामि। अतो न भेदस्याशङ्कितस्यावकाशः कश्चिदिति भावः॥२२॥

इत्थं ग्राहकसामान्यापेक्षया ग्राह्यापेक्षया च चितेरेवा68भेदमुपपाद्य ‘स त्वम् अहमि’ति त्रिस्कन्धकस्याभासस्य भेदाभावं विवेचयितुमाह—

प्रथमो मध्यम उत्तम इति पुरुषा भेदिनस्त्रयोऽपि मिथः।
मत्तस्तु महापुरुषात् प्रत्यवमर्शात्मनो न बहिः॥२३॥

‘सः’ ‘त्वम्’ ‘अहम्’ इति विजातीयव्यपदेशयोगाद् मिथो भेदिनः परस्परव्यावृत्तरूपा य एते प्रथमो मध्यम उत्तम इति त्रयः पुरुषाः, सर्व एवैते प्रत्यवमर्शात्मनोऽनुवृत्ततया महापुरुषान्मत्तो न बहिः मद्व्यतिरिक्तं न तत्त्वान्तरम्। य एते प्रथमादयः पुरुषास्ते मिथो व्यावृत्तरूपा अपि प्रत्यवमर्शात्मकमदायत्तसर्गापवर्गत्वात् मद्भित्तौमदेकात्मतया प्रतीयमानत्वाच्च न मद्बहिः॥२३॥

ननु प्रथममध्यमपुरुषप्रतियोगित्वेन ‘अहमि’त्यवच्छिद्यसे69, अनवच्छिन्नप्रकाशात्मकश्चासि70। इत्थं भेदे कथमैकात्म्यमित्यत आह—

युष्मच्छेषापोहवदहमिति यद्भाति भिन्नमिह रूपम्।
तदिदं भागविभेदो न त्वहमेकोऽस्मि यन्नित्यम्॥२४॥

युष्मदपोहवच्छेषापोहवच्च मध्यमप्रथमपुरुषाभ्यां व्यावृत्तमित्यर्थः। अत एव भिन्नं तदुभयप्रतियोगि यदेतद् अहमिति रूपं भातितदिदं भागविभेदः71 ‘स’ इतिवत् ‘त्वमि’तिवच्च ममांशविशेषः कश्चिद्, न त्वहं न तु मे पारमार्थिकं स्वरूपम्। तत्र हेतुः— एकोऽस्मि यन्नित्यम् नित्यम् अनवच्छिन्नप्रकाशैकघनोऽस्मि यतः। प्रकाशैका72त्मकत्वमनवच्छिन्नत्वात् सदातनं सत् तात्त्विकं मे स्वरूपम्। ‘अहमि’ति तु रूपमवच्छि73न्नत्वादागन्तुकं सत् ‘स’ इत्यादिवदंशविशेष एवेति भावः॥२४॥

यथा चैवं ग्राहको विशेषतो विविच्यमानोऽपि ममैवांशः, तथा ग्राह्यमपि विशेषतो विविच्यमानं ममैव शक्तिप्रसर इत्याह-

द्यावापृथिवीदेशः कालोऽहो रात्रिरिति ययोः प्रसरः।
ते भानतिरोधिकृती शक्ती मे भावबृन्दस्य॥२५॥

द्यौः पृथिवी चेति योऽयं74 देशः, यश्चाहो रात्रिश्चेति कालः, तदेतत् क्रोडीकृतग्राह्यान्तरं ग्राह्यद्वयं ययोरेव प्रसरः, ते भावबृन्दस्य भानतिरोधाने ममैव शक्ती। सर्वस्यैवार्थजातस्य यद् भानं यच्च तिरोधानं ते हि ममैव शक्ती।शक्तिसम्भेद75एव खलु मे पदार्थानां भानं, विभेद एव तिरोधानमित्युक्तं *प्राक्76 ‘स्वशक्तिलहरीणाम्। सम्भेदविभेदाभ्यां सृजति ध्वंसयति चे’ति। इत्थं च77 भावानां भानतिरोधानरूपे ये एते शक्ती, तयोरेव प्रसरभूतोऽयं देशः कालश्च भावप्रतियोगितया अभावप्रतियोगितया च स्थितः। स मद्बहिर्भावेन नास्तीत्यर्थः॥२५॥

भानतिरोधानाभ्यां यत् कृत्यान्तरमुपलक्षितं, तद् विशेषतो विविच्य दर्शयति—

धूमावती तिरोधौ
पुष्टौ ह्लादा च भास्वती भाने।
क्षोभे च परिस्पन्दा
व्याप्तौ विभ्वीति शक्तयः पञ्च॥२६॥

धूमावतीति मे शक्तिः प्रथमे,78 पुष्टौ आप्यायने ह्लादाख्या, अवभासनेभास्वती, क्षोभे परिस्पन्दने स्पन्दाख्या, व्याप्तौ विभ्वीति पञ्च मे शक्तयः

शक्तीनामप्रत्यक्षत्वात् कार्यमुखेनैव स्वरूपनिश्चय इत्यभिप्रेत्य कार्यमुखेनैव ता निरूपयति—

धूमावती पृथिव्यां ह्लादाप्सु शुचौ तु भास्वती प्रथते।
वायौ स्पन्दा विभ्वी नभसि व्याप्तं जगत् ताभिः॥२७॥

इत्थं च सति जगत् षडध्वात्मकं विश्वमेताभिर्व्याप्तं ममैव धूमावत्यादिभिः पञ्चभिः शक्तिभिः क्रोडीकृतम्79। अनेन सर्वदा पञ्चकृत्यकारित्वं80 चिदात्मनो दर्शितमिति मन्तव्यम्। तथा हि। अवभासनं सृष्टिः, स्थापनं, क्षोभः,संहरणं, तिरोधानं स्वशब्देनैवोक्तम्। व्याप्तिरनुग्रहः॥२७॥

एवमाभासनादिभिर्निष्पा81दितं जगद्विमर्शशक्तिस्पर्शमात्रेण प्रकाशैकार्णवतामापद्यत इत्याह— ‘निजधर्मि82णमि’त्यादिभिः ‘कार्त्स्न्येनाविष्टमिवे’त्यन्तैश्चतुर्भिः श्लोकैः—

निजधर्मिणं प्रकाशं स्वरूपयन्ती प्रकाश्यवर्गस्य।
शक्तिर्विमर्शरूपा शरीरयत्यखिलमस्य मम॥२८॥

विमर्शरूपा मम शक्तिः प्रत्यवमर्शरूपिणीयं चितिः अखिलं मम शरीरयति शिवादिधरण्यन्तं विश्वं मदेकात्मतामापादयति। कीदृशी। निजधर्मिणं धर्मभूतायाः स्वस्योदयलयादिभित्तिभूतमाश्रयं प्रकाशम् उपलब्ध्येकरूपं चैतन्यं प्रकाश्यवर्गस्य स्वरूपयन्ती ज्ञेयजातस्य तात्त्विकस्वरूपत्वेन व्यवस्थापयन्ती सर्वस्यैवास्य वेद्यजातस्य पर्यन्ते निर्बाधमवशिष्यमाणं स्वरूपं प्रकाश एवेति स्वानुभवसाक्षिकमुपदर्शयन्ती ममेयं विमर्शरूपा चितिशक्तिरखिलमेतच्छिवादिकमध्वानं मदीयमेवापादयति॥२८॥

तथा83 हि—

ज्ञातृज्ञानज्ञेयात्मकमखिलं मद्विमर्शवह्निशिखा।
दग्ध्वा प्रकाशरूपं शुभ्रं भस्मावशेषयति॥२९॥

मद्विमर्शवह्निशिखा विमर्शोऽयं सर्वात्मव्यापकेन रूपेण सर्वाध्वव्यापकज्वालात्वेन प्रतीयते। ममायमीदृशो विमर्शो ज्ञातृज्ञानज्ञेयात्मकम् अखिलं दग्ध्वा ज्ञातृत्वादिविशेषांशांस्तत्क्षणमेवोपमृद्य प्रकाशरूपं प्रकाशसामान्यात्मकं शुभ्रम् अकृत्रिमानन्दघनत्वात् क्लेशादिभिरकलुषितं भस्म सन्मात्रां विभूतिम् अवशेषययि तदेकार्णवीकरोति॥२९॥

ननु विमर्शसमनन्तरमेव वेद्यांशे भेदलय इति युक्तम्। ग्राहकांशे84 तु विमर्शनक्रियाकर्तुर्भेदेनावस्थानान्न कदाचिद् भेदकलानिवृत्तिरित्यत आह—

अकठोरमद्विमर्शज्वालाग्रस्ते तिरोधिमद् भानम्।
अङ्गारवदिव भस्म प्रथते तत्राणुवर्गस्य॥३०॥

तत्र ज्ञातृज्ञानाद्यात्मनि प्रक्रान्तेऽखिले अकठोरमद्विर्मशज्वालाग्रस्ते ‘अहं विमृष्टवानि’त्यहमंशे भेदावशेषणाद् अनतिप्रकाशितदाहशक्तिना मद्विमर्शेनाक्रान्ते सति अणुवर्गस्य भानं ग्राहकवर्गस्यावशिष्टा85 ‘अहमि’तिप्रतीतिः। कीदृक् तिरोधिमद् उपसंहृतवेद्यतया वेद्यांशाविनाभूतप्रसरेण भेदेनाच्छादितम् अङ्गारवद् भस्मेव प्रथते अन्तस्स्थितसूक्ष्माङ्गारभसितराशिकल्पतया प्रतीयते॥३०॥

** यदि स एव** दाहस्तीव्रस्तदा पश्येत्याह—

कार्त्स्न्येनाविष्टमिवारण्यपुराद्यग्निना मयापि जगत् I
चित्रमवधूय भेदं ननु गृह्णात्येकरूपत्वम्॥३१॥

मया सर्वभेदोपसंहरणैकस्वभावविमर्शात्मना कार्त्स्न्येनाविष्टं निश्शेषतो विमृष्टं जगद् एतच्छिवादि86भूम्यन्तम् अग्निना कार्त्स्न्येनाविष्टमरण्यपुरादिकमिव चित्रं नानाविधं भेदम् अवान्तरविशेषम् अवधूय स्वात्मनि निमग्नं कृत्वा एकरूपत्वं गृह्णाति प्रकाशैकघनीभवति। नन्वित्यनेनास्य सर्वानुभवसिद्धतामाविष्करोति॥३१॥

कार्त्स्न्येन विमर्शाविष्टे जगति सर्वभेदभ्रमोपशमो भवतीत्युक्तम्। तमेव कार्त्स्न्येनावेशप्रकारं विविच्य87 दर्शयति-

अन्तर्मुखं स्वरूपं ज्ञेयस्य ज्ञानमस्य तु ज्ञाता।
ज्ञानस्य ज्ञातृतनोश्चितिरेकास्यास्त्वहं नान्यः॥३२॥

इह हि भावानां द्वे स्वरूपे भवतो बहिर्मुखमन्तर्मुखं च। तत्राद्यं स्थूलं व्यावृत्तमपारमार्थिकं च। यत् पुनरन्तर्मुखं तत् सूक्ष्ममनुवृत्तरूपं पारमार्थिकं88 च। इत्थं स्थिते ज्ञेयस्य घटादेर्यद् अन्तर्मुखं पारमार्थिकं स्वरूपं, तद् ‘घट’ इति ज्ञा-

** नमेवं89** बाह्याकारस्य तत एवोदयात्, तद्भित्तिलग्नत्वेनैवावस्थानात्, तत्रैव च लयात्। अस्य तु ज्ञाता घटज्ञानस्यापि तदुदयस्थितिनिदानभूतो ग्राहक एवाभिमन्तृतारूपोऽन्तर्मुखं रूपम्। ज्ञानस्य ज्ञातृतनोश्चितिरेका उक्तनयेन ज्ञेयाविभेदिनो ज्ञातृता90मापन्नस्य प्रत्यवमर्शरूपा चितिरेवान्तरतमं तत्त्वम्। अस्यास्त्वहं नान्यः चितेरपि प्रत्यवमर्शलक्षणायाः प्रत्यवमर्शांशनिमज्जने निष्कृष्टप्रकाशात्मकः ‘अहमिति स एक उक्तः’ (१०. श्लो.) इति निरूपितचरोऽहमेव काष्ठाप्राप्तं तत्त्वं, नान्यः कश्चिन्मद्व्यतिरिक्तोऽर्थः । इन्द्रियार्थसम्पातसमनन्तरम् ‘अयं घट’ इति योऽयं विकल्प उत्पद्यते, तदुत्पत्तेरर्वाक् घटस्य घटत्वेन वा वस्त्वन्तरत्वेन वा व्यपदेष्टुमशक्यत्वाद् ज्ञेयस्यान्तर्मुखं स्वरूपं ज्ञानमेव। ज्ञानस्यापि ज्ञात्रेकायत्तोद91यलयस्य ज्ञातैवान्तरतमं रूपं ज्ञातुरप्यनेनैव नयेन चितिरेव। चितेरप्यहमेवैकोऽनुपचरितं तत्त्वम्। इत्थं कार्त्स्न्येन विमर्शाग्न्यावेशे निर्विवादमेकस्वरू92पत्वंग्राह्यादीनां प्रकाशेन सहेत्युपदिष्टं भवति॥३२॥

इत्थं ज्ञेयादित्रयस्य प्रकाशापेक्षया भेदाभावमुपपाद्य मिथोऽपि न भेदः कश्चिदिति विवेचयति—

अक्रमता मे क्रमिकं ज्ञात्राद्यं सक्रमाक्रमा तु चितिः।
मद्वद् ज्ञाता ज्ञानं शक्तिरिव त्रितयवद् ज्ञेयम्॥३३॥

** अक्रमता मे** निष्कृष्टप्रकाश93परमार्थस्य मम चित्यादिचतुष्टयापेक्षया स्वापेक्षया चाक्रमत्वमेव सर्वानुस्यूतरूपतया व्यावृत्तिलवस्याप्यसम्भवात्। क्रमिकं ज्ञात्राद्यं ज्ञाता ज्ञानं ज्ञेयमिति मिथो व्यावृत्त94रूपतया प्रतीतेस्त्रितयमेतत् क्रमिकम्। चितिस्तु सक्रमाक्रमा ज्ञात्राद्यपेक्षया सक्रमा मदपेक्षया त्वक्रमेति द्विरूपा। इति प्रबुद्धस्य95ते प्रतीतप्रकाराः। वस्तुतस्तु मद्वद्ज्ञाता यथा चित्यादिचतुष्टयानुवृत्तेर्ममाक्रमत्वं, तथा ज्ञानज्ञेयानुवृत्तेस्तदुभयापेक्षया मदपेक्षया च ज्ञातुरक्रमत्वम्96ज्ञानं शक्तिरिव यथा चितिः ज्ञात्राद्यपेक्षया सक्रमा मदपेक्षया त्वक्रमेति स्थितं, तथा ज्ञानमपि ज्ञेयापेक्षया सक्रमं मदपेक्षया त्वक्रममिति शक्तिरिव। त्रितयवद् ज्ञेयं ज्ञाताहं चेति, ज्ञानं शक्तिश्चेति, ज्ञेयान्तरं चेति त्रितयम्

ज्ञेयम् एतत्त्रितयवत्। यथा ज्ञाताहं चेत्यक्रमौ97 तद्वदावामप्यपेक्ष्य ज्ञेयमक्रमम्। अनयैव रीत्या शक्तिज्ञानापेक्षया सक्रमाक्रमम्98। चितिस्तूभयापेक्षयोभयरूपेति यो भ्रमः स निरस्तो, यतो ज्ञाताहं चेति, ज्ञानं शक्तिश्चेति, ज्ञेयं त्रितयं चेति न तत्त्वान्तरम्। अत्रैतदाकृतम्— ‘इदं वनमि’त्यादौ तर्वपेक्षया वनस्य वनापेक्षया तरूणां चानुवृत्तिरेवेति सर्वत्राभेद एव। यदा तु ‘चूतश्चम्पक’ इत्यादिप्रतीतिः, तदा वनापेक्षया चूतचम्पकयोरनुवृत्तिरिति न भेदः, परस्परापेक्षया99 तु व्यावृत्तिरेवेति भेदः। इत्थं प्रकृतेऽपि100 प्र’ क. पाठः") प्रकाशापेक्षया समष्टिव्यष्ट्योश्च न भेदः, परस्परापेक्षया तु यथायोगमवस्थानम्। अतः सर्वत्रानुवृत्तमक्रमत्वं, सक्रमत्वं द्वैरूप्यं च व्यावृत्तमिति प्रकाशैकात्म्यमेव पारमार्थिकं भेदस्त्वविमर्शस्यैव विलसितमिति॥३३॥

एतदेव विविच्य दर्शयति—

पीतादिषु हि न नीलं
तेष्वत्र च भाति चाक्षुषं ज्ञानम्।
न श्रौत्रादिषु तदपि
ज्ञाता तेष्वत्र चानुगतः॥३४॥

यदुक्तं ज्ञेयं ज्ञेयान्तरापेक्षया101क्रमिकमेवेति, तदुदाहर्तुमाह– पीतादिषु हि न नीलं यदा हि ‘पीतमि’ति प्रतिपत्तिः, न तदा नीलम्। एवं मिथो व्यावृत्तरूपत्वाद् ज्ञेयं ज्ञेयान्तरापेक्षया क्रमिकमेव । यच्चोक्तं ज्ञानं शक्तिरिव सक्रमाक्रममिति, तदुपदर्शयति– तेष्वत्र च भाति चाक्षुषं ज्ञानं तेषु पीतादिषु अत्र नीले च। न श्रौत्रादिषु तदपि श्रोत्रं श्रावणं ज्ञानं, तदपि चाक्षुषम्। एवं सक्रमाक्रमत्वाद् ज्ञानं शक्तिरिवेति युक्तम्। यच्चोक्तं ‘मद्वद् ज्ञाते’ति, तदर्थमाह— ज्ञाता तेष्वत्र चानुगतः तेषु102पीतनीलादिषु चाक्षुषेषु अत्र श्रौत्रादिके। अतः सर्वत्रानुवृत्तरूपत्वान्मद्वद् ज्ञातेत्यपि सिद्धम्॥३४॥

** यत** इत्थमर्थस्वरूपनिर्णयः, ततः -

ज्ञातारं मां ज्ञानं शक्तिं त्रितयात्मकं पुनर्ज्ञेयम्।

अविकल्पं भावयतः सोऽहं सा तत् त्रयं तच्च॥३५॥

ज्ञातारं मामविकल्पं भावयतः सोऽहम् उक्तेन नयेन विकल्पहेतोरसम्भवाद् ज्ञातृप्रकाशावैकात्म्येन भेदसंस्कारोपशमादन्त103र्दृढप्रतिपत्त्या परिशीलयतस्तद्भेदभ्रमापगमलक्षणा सिद्धिर्भवति। तथा ज्ञानं शक्तिम् अविकल्पं भावयतः सा तत् उक्तनयेनैव शक्तिज्ञानयोरभेदभावनादार्ढ्येन तदभेदप्रत्यभिज्ञानरूपा सिद्धिः। तथा च त्रितयात्मकं पुनर्ज्ञेयं तथा भावयतः त्रयं तच्च। वेद्यस्य प्रकाशज्ञातृभ्यां शक्तिज्ञानाभ्यां ज्ञेयान्तरेण सह (च) स्थितो योऽयं दुरुत्तरो भेदभ्रमः, तस्य समूलोन्मूलनरूपा सिद्धिः सद्य एव। अत्र ‘सोऽहं’ ‘सा तत्’ ‘त्रयं तच्च’ इत्येषु त्रिष्वपि वाक्येषु भवतीत्यादिका क्रिया नोपात्ता, अपि तु तादात्म्यस्य स्वरूपमेव निवेदितम्। अतो नैतदेषामैकात्म्यं साध्यम्, अपि तु नित्यसिद्धमेवोक्ताभिर्युक्तिभिः प्रत्यभिज्ञायत इत्यनुसंहितमाचार्येण॥३५॥

तत्र ज्ञातुः क्रमिकत्वस्य नित्यसोपाधिकत्वात् प्रकाशतादात्म्यं नित्यसिद्धमित्युपदिशति—

सन्तानान्तरवाहे ज्ञाता व्यावृत्तभासनः क्रमिकः।
जीवाख्यो मद्योगान्मद्वत् स्यादक्रमाभासः॥३६॥

सन्तानान्तरवाहे नीलसङ्कल्पविकल्पाद्येकसन्तानसमनन्तरं पीतसङ्कल्पविकल्पादौ सन्ताने वहति सति व्यावृत्तभासनो ज्ञाता क्रमिकः ‘नीलस्याव104भासकोऽस्मि’‘पीतस्याव105भासकोऽस्मी’ति परस्परपरिहाररूपेणावस्थितग्रहणत्वाद् ग्राहकः क्रमवान्। यदा चेत्थं क्रमिकता,106 तदैव चासौ जीवाख्यः वस्तुतः शिवस्य सतोऽस्य जीव इति संज्ञा तत्कालमात्रमेव। मद्योगात् तु यदेतन्मयि क्रमिकत्वं तद् वेद्योपाधिकमेव। वस्तुतस्तु नीलस्य पीतस्य चावभासकत्वादनुवृत्तः सन् सर्वदा सर्वानुवृत्तप्र107काशात्मक एवास्मीत्येवंरूपत्वान्मम परप्रकाशस्य योगाद्वस्तुविमर्शलक्षणात् संस्पर्शाद्108 मद्वत् स्यादक्रमाभासः यथा प्रकाशो नित्यमक्रममेव भासते, तथा ग्राहकोऽपि तस्यामेव पीतादिग्रहणदशायां प्रकाशैकात्म्येनाक्रममेवावभासते। अनेन प्रबुद्धस्य विश्वप्रतियोगित्वं यदा तदैव शिवत्वं, यदा तु प्रतिनियतार्थप्रतियोगित्वं तदा ग्राहकत्वमिति द्वैरूप्यानतिक्रमात् जीवत्वसंस्कारः सदानुवर्तत एवेति योऽयं भ्रमः

स्थितः, स दूरतरमुत्सारित उक्तनयेन पीतादिग्रहणदशायामप्यक्रमपरिपूर्णैकघनप्रकाशात्मकशङ्करस्वभावत्वादित्युपदिष्टं भवति॥३६॥

अथ वेत्त्रतिरिक्ततया वेद्यमिति वेदनमिति च कक्ष्याद्वयकल्पनं109 यावतीमेवास्ति विमर्शबन्ध्यां कालकलां, तावदेवास्ति वेद्यं वेदनं च। विमर्शे तु कृते नोभयमप्यस्ति प्रकाशबहिर्भावेनेत्युपदिशति—

वेद्यं स्वक्रमविद्धां वित्तिमनुप्रविशदङ्गविषयाद्यम्।
वेदितरि वित्तिमुखतो लीनं तल्लक्षणं भवति॥३७॥

अङ्गविषयाद्यं भोगायतनभोग्याद्यात्मकं देहपीतादि वेद्यम्। स्वक्रमविद्धां वित्तिमनुप्रविशद् ‘अर्थेनैव विशेषोऽस्ति निराकारतया धियामि’ति नयेन योऽर्थ उपाधिस्ताद्रूप्यमापद्यमानं वेदनमनुप्रविशति ग्रहणकौतुकोपरमादिन्द्रियव्यापारनिवृत्तौ ‘पीतज्ञानं मम जातमिति वेदनात्मतामापद्यते। अथ वेदितरि वित्तिमुखतो लीनं वित्तिमेव मुखीकृत्य वित्तिलयसमयंवेदितरि लीयते। तथा लीनं सत् तल्लक्षणं भवति ऊर्मौलीनम् ऊर्मिलयमुखेनाब्धौ बुद्बुदादीव110 तदेकात्मतां वस्तुतः सतीमेवावलम्बते। इह प्रकाशस्यैव शिवादिवस्तुतदुदयस्थित्यादितद्भेदादिरूपप्रपञ्चात्मना स्फुरणात् प्रकाशबहिर्भूतं न किञ्चिदुपलभ्यते, न चोपपद्यते, नाप्युपयुज्यते111। अतो वेत्तृवेदनादिविकल्पानामूर्म्यादिवत् तदभिन्नतयैव यदुन्मज्जनं तदेव वेत्त्रादिवस्तुसत्ता तदुदयादि-स्तद्भेदश्च। अस्यार्थस्यैवं112 विमर्श एव शिवत्वम्। अमन्दो विमर्शः प्रबुद्धता। अविमर्शस्तु पशुत्वमित्युपदेश निष्कर्षः॥३७॥

अथ यथा वेदकस्य ‘सः’ ‘त्वम्’ इत्यादिप्रत्ययविषयतया भेद आशङ्क्य परिहृतः ‘प्रथमो मध्यमः’ (२३- श्लो.) इत्यादिना, तथैव वेद्यस्यापि स्मृत्यादिप्रत्ययविषयतया भेदानाशङ्क्य113 परिहरति—

स्मृत्यनुभवानुसंहितिवशतस्तज्जगदिदं तथा तदिदम्।
स्वैर्यहमाभासयिता भिन्नं चापोहनेन मिथः॥३८॥

स्मृतिवशात् तद् इति, अनुभववशाद् इदम्114 इति, अनुसंहितिः प्रस्वभिशातद्वशात् तदिदमिति च शिवादि जगत् स्वैर्यहमाभासयिता स्वतन्त्रोऽहं सृजामि। कथं भिन्नं चापोहनेन मिथः मिथो व्यावर्तनेन भिन्नं चकारादभिन्नं

च। सोऽयं115 स्वैरिम्णो महिमा। मिथो व्यावर्तनस्यान्यान्यनिमेषरूपत्वाद् भिन्नतया सृजामि, उक्तयुक्तिभिः प्रत्यवमर्शने कृते व्यावृत्त्यपगमादभिन्नतया च विमर्शस्य व्यावृत्त्यात्मकनानानिमेषप्रसनैकस्वभावत्वाद्116। विमर्शशैथिल्ये हि ‘तद्’ ‘एतद्’ इत्यादि व्यावृत्तरूपतोदयः, कृते तु विमर्शे तदादि117विशेषावगलनात् प्रकाशैकसाम्राज्यमिति भावः॥३८॥

उक्तरीत्या118 प्रकाशमेव भित्तित्वेनाश्रित्य तदभिन्नतयैव तदेतदादिभेदानामुदयलयाद्यनभ्युपगच्छतो भेदवादिनो119 बाधकं तर्कमाह—

स्मृतिरनुभवस्य भानं सोऽर्थस्य द्वौ सहानुसन्धानम्।
त्रितयमपि मां विनैकं क्रमरहितं न घटते विदुषाम्॥३९॥

अनुभवस्य भानम् अयं नील इत्याद्य120र्थविषयस्य ज्ञानस्य यदेतद् भानं, तन्नीलाद्यर्थ121व्यपेक्षया स्मृतिःसोऽर्थस्य स इति स्मृतिमूलभूतानुभवः परामृश्यते। अर्थस्येत्यत्र भानमित्यनुकृष्यते122। अर्थस्य भानं त्वनुभव इत्यर्थः। द्वौ सह तावेतौ स्मृत्यनुभवौ द्वावपि दृष्टचरार्थप्रतिसन्धानवेलायामेकप्रत्ययतापन्नौ अनुसन्धानं प्रत्यभिज्ञोच्यते। तदेतत् क्रमिकं त्रितयमपि क्रमरहितं मामेकं विना न घटते सर्वप्रमितिभाजनमत एवानुस्यूतं प्रकाशमेकमन्तरेण नोपपद्यते । यद्यक्रमिकः सर्वानुसन्धाता प्रकाशो नाभ्युपगम्येत, तदा क्रमिकाभिमतं तदेतदित्याद्यपि निर्भित्तिकं चित्रमापद्येतेत्यर्थः॥३९॥

** यत** इत्थम्, अतः—

अस्तमितमर्थजातं भात्वा भिन्नमिव रुद्धतद्भानम्।
मद्भानैकात्म्येन स्रोत इवाब्धौ स्थितं हि मयि॥४०॥

अर्थजातं भिन्नमिव भात्वा वस्तुतो भेदासम्भवाद् इदंनीलज्ञानस्याप्युपशमावसरे नीलमस्तमितमिति च भानं रुणद्धि प्रकाशस्यान्तरवमज्जयति। तथाभूतं तु मद्भानैकात्म्येन वर्तते। अथार्थजातमपि प्रकाशात्मकमेव प्रान्ते भवतीति भावः ॥ ४० ॥

इति विरूपाक्षपञ्चाशिकायां विवृतिसमेतायां
विमर्शस्कन्धस्तृतयः।

________

अथ चतुर्थः स्कन्धः।

अथ चतुर्थो विभूतिस्कन्ध आरम्भणीयः। तत्र विभूत्याविर्भावाङ्गत्वेनाप्रबुद्धादीनां प्रतीतिप्रकारः प्रथमं निरूप्यते ‘मत्स्थमपी’त्यादि श्लोकचतुष्केण। तत्राप्रबुद्धः, प्रबुद्धकल्पः, प्रबुद्धः, सुप्रबुद्धकल्पः, सुप्रबुद्ध इति पञ्चप्रमातारः । तेषु यस्य यादृशी प्रतीतिः, तां विभज्य दर्शयति—

मत्स्थमपि भुवनबृन्दं बहिरिव मद् भाति मायया भविनाम्।
अथ विद्यया भवेद् भवपदिनामन्तर्बहिष्ट्वेव॥४१॥

मत्स्थमपिउक्तन्यायेन प्रकाशात्मतया मद्भित्तिलग्नमपि भुवनबृन्दम् अनाश्रितादि कालाग्न्यन्तं भुवनमण्डलं भविनां बहिरिव मद् भातिभवो भेदप्रतिपत्तिः, तद्वतां साङ्ख्यादिसिद्धान्तानाम्। तत्र हेतुः माययाअभिन्ने वस्तुनि भिन्नप्रतीत्यात्मिकया मायया। भवपदिनां तु येषां भवो नास्ति तत्संस्काररूपं तु भवास्पदमस्ति ते भवपदिनो विद्याप्रमातारः सम्प्रज्ञातसमाधेरर्वाक्पर्वप्रविष्टाश्च, तेषाम् अन्तर्बहिष्ट्वेन भवेद् अन्तः सङ्कल्पादिरूपतया भिन्नमिवाभाति । तत्र हेतुः—विद्ययेति शुद्धया ॥४१॥

अथानयोर्यस्य बहिर्भाति, सोऽत्र संविदुपदेशे123 योग्यः पशुरित्याह-

ग्राहकमेवं त्वजडं जडमन्यद् ग्राह्यमस्य यो मनुते।
मायाविमोहितात्मा बोध्यः124 सोऽणुर्भवी सद्भिः॥४२॥

ग्राहकम् अजडं चिदात्मकं, ग्राह्यं जडमचिदात्मकम् अन्यच्च मनुते यः स मायाविमोहितात्मा येयं ग्राह्याभिमते वस्तुनि जडत्वेनान्यत्वेन च प्रतीतिः सैव माया तया विमोहितात्मा अप्रत्यभिज्ञातस्वरूपः, अत एव भवी सद्भिर्बोध्योऽणुः प्रत्यभिज्ञातस्वरूपैर्गुरुभिरुपदेश्यः पशुः, यदागमः-

‘अन्यतन्त्रेषु ये मुक्ता धर्माधर्मक्षयान्नराः ।
तेऽत्र रुद्राणवः प्रोक्ताः कालकर्मविवर्जिताः ॥’

इति। अनेन तार्किकमीमांसकादीनामप्रत्यभिज्ञातचेत्यविविक्तचित्स्वरूपाणां सच्छास्त्रोपदेशे नैवाधिकार इत्युपदिष्टं भवति । तेषु संवित्सिद्धान्तप्रकाशने प्रत्यवायश्रुतिश्च125

‘अन्यायात् कथनं कुर्वन्नकाले मृत्युमाप्नुयाद्।’

इति। अतः पशुषु संवित्सिद्धान्तार्थो गोपनीय इति शिवाज्ञा सर्वथा नोल्लङ्घनीयैव॥४२॥

एवमप्रबुद्धस्य प्रबुद्धकल्पस्य च प्रतीतिप्रकारो126 विविच्य दर्शितः। यस्तु प्रबुद्धः, तस्येदानीं विवेचयति127

जडतात्मिकामिदन्तामथाजडत्वात्मिकामहन्तां च।
सामानाधिकरण्यादिदमहमिति बुध्यते द्विपदी॥४३॥

द्विपदी भवोद्भवोभयसंस्कारवशाद्128 भेदाभेददशावस्थितः जडतात्मिकामिदन्ताम् इदमिति129 प्रतीयमानं जडं वस्तु अथाजडत्वात्मिकामहन्तां च अजडमिति प्रतीयमानमहंवस्तु च सामानाधिकरण्याद् अभेदारोपणेन भेदांशम130वमज्जयन् ‘**इदमहमि’**ति बुध्यते स्वशरीरकल्पतया द्वैरूप्येण पश्यति। सेयमीश्वरदशा॥४३ ॥

अथ यः सुप्रबुद्धकल्पो, यश्च सुप्रबुद्धः, तयोः प्रतीतिप्रकारं विवेचयति -

उद्भविनां केवलया निमग्नमन्तःपदे दृशा भाति।
मग्नोन्मग्नोभयविधमुन्मनया मयि पुनः पूर्णे॥४४॥

अभेदप्रतिपत्तिलक्षणं कैवल्यमुद्भवः। तद्वताम् अन्तःपदे अहमात्मके स्वरूपे निमग्नं भाति इदम्प्रतीतिविषयं वेद्यं निमिषितं प्रतीयते। केन हेतुना दृशा विमर्शशक्त्या। इयमहन्ताच्छादितास्फुटे131दन्तामयी सदाशिवदशा। अतः सुप्रबुद्धे अत एव पूर्णे मयि प्रकाशे मग्नोन्मनोभयविधं निमिषितत्वेनोमिषितत्वेन च द्विरूपं प्रतीयते। यथा हि जलधौ तरङ्गादि निमिषदुन्मिषच्च भवति, सर्वस्यामेव दशायां जलधिरेव तत्, तथा शिवादि विश्वं मदात्मकमेव सदुन्मिषति, मद्व्यतिरिक्तं च मय्येव निमिषतीति। एवं वस्तुयाथात्म्यप्रत्यभिज्ञाने हेतुः उन्मनया स्वस्वरूपावस्थितिरेवोन्मना, यदागमः -

‘उन्मना सा तु विज्ञेया मनो यत्र न विद्यते’।

इति ॥ ४४ ॥

** एवमु**पदिष्टं132 प्रतीतिक्रमं पर्यालोचयतो यदोन्मनया पूर्णत्वसिद्धिरविचला,

तदा स योगी सिद्धः सुप्रबुद्ध उच्यते। तस्येच्छामात्रेणाभिमतानां विभूतीनामाविर्भावो भवतीत्याह133श्लोकाष्टकेन । तत्रापरसिद्ध्याविर्भावप्रकारं प्रपञ्चयति—

रविसोमतडिद्वज्राम्बुदबाडवजलधिगिरिगुहारण्यैः
दृढभावितात्मभावैर्योगी तत् कर्म निर्वहति ॥ ४५ ॥

वज्रं दम्भोलिः। दृढभावितात्मभावैः दृढमात्मत्वेन भावितै रव्यादिभिः योगी तत् कर्म निर्वहतिरव्यादिष्वर्थेषु यद्यज्जगत्प्रकाशनादि कर्म तत्तन्नित्यसिद्धं134 सदेव प्रत्यभिज्ञानदा135र्ढ्याद् अर्थक्रियाकारितालक्षणं निर्वाहं नयतीत्यर्थः। अत्रैतदाकृतम्— उक्तनयेन136 रव्याद्यर्थरूपेण स्वयमेवावतिष्ठते, विमर्शदौर्बल्येन तु विभिन्न इव स्थितः। प्रबलेन विमर्शेन भेदभ्रमसंस्कारापगमे विश्वात्मकस्य सतः सर्वा एव सिद्धयो नित्यसिद्धा एव प्रत्यभिज्ञानदार्ढ्यादर्थक्रियाकारिण्यो भवन्तीति सर्वत्रैवात्र सिसाधयिषुणा विश्वात्मकपरिपूर्णपरप्रकाशात्मकस्वस्वरूपादविचलतैव रव्याद्यात्मकत्वभावना सर्वात्मकत्वभावनाशेषतां नेतव्येति श्रीगुरवः॥४५॥

या देवता यमर्थंकरोति तेनार्थिनो दृढं तस्याम्।
विधृताहङ्कारस्य क्षणेन सोऽर्थः समायाति॥४६॥

या137देवतास्ति लोक हेरम्बभारतीहरिहरादिका, सा यं यमर्थं करोति प्रत्यूहध्वंसवाक्प्रवर्तनपालनसंहरणादिकं कार्यं निष्पादयति, तेनार्थिनः तेन प्रयोजनवतः तमर्थं सिसाधयिषोरित्यर्थः। तस्यां दृढं विधृताहङ्कारस्य तस्यामविचलत्वेनैकात्म्यमनुसन्दधतो योगिनः क्षणेन सोऽर्थः समायाति सोऽर्थो निर्विलम्बं सिद्ध्यति ॥ ४६ ॥

अथ तत्र सिद्धीराह—

धारणसङ्ग्रहपाकव्यूहाप्रतिघातलक्षणैर्भूतैः।
स्वस्वनिविष्टाहन्तैर्योगिन इष्टा क्रिया भवति॥४७॥

धारणलक्षणं भूतं पृथिवी। संग्रहलक्षणमापः। पाकलक्षणं तेजः। व्यूहोऽवयवसंहननं, तल्लक्षणं वायुः। अप्रतिघातोऽव्याहतप्रसरत्वं, तल्लक्षणमाकाशः।

एतैः पञ्चभिर्भूतैः प्रतिस्वं दृढमात्मत्वेनानुसंहितैः योगिन इष्टा क्रिया भवति सिसाध138यिषितधारणादिकर्मसिद्धिर्भवति॥४७॥

इति तन्मात्राकर्मज्ञानेन्द्रियमानसास्मिताधीषु।
अव्यक्ते पुंसि तथा धृतचितिशक्तिश्च तत्कर्मा॥४८॥

अस्मिताहङ्कारः। एतेषु तन्मात्रादिषुमन्तेषु तत्त्वेषु इति धृतचितिशक्तिः उक्तेनैव139 नयेन विधृताहङ्कारः। स च तत्कर्मा तत्तत्कर्मसिद्धिमान् भवति॥४८॥

रागनियत्योः काले विद्याकलयोर्गुहासरस्वत्योः।
ईशसदाशिवशक्तिषु शिवे च तद्वत् कृताहन्तः॥४९॥

गुहा माया।सरस्वती शुद्धविद्या। तद्वदिति तत्कर्मेत्यनुकृप्यते॥४९॥

प्रसङ्गाच्छुकादीनां सिद्धयः क्षोदीयस्य इत्याह—

शुकवामदेवयोरपि कृष्णदधीच्योस्तथा च वैन्यस्य।
भूतात्मयोगजं खल्वार्षे वैश्वात्म्यमाख्यातम्॥५०॥

भूतात्मयोगजं पञ्चभूतधारणोद्भवम्। वैश्वात्म्यं भूतपञ्चकात्मप्रपञ्च140रूपम्।आर्षेइतिहासादौ शास्त्रे। उक्तास्वेतासु सिद्धिषु गुहासिद्ध्यन्ता अपराः, अन्याः पञ्च पराः सरस्वत्यादिसिद्धयः॥५०॥

** अथे**दानीं सर्वसिद्धिमूर्धन्यं सिद्धिद्वयं141 श्लोकाभ्यामाह—

कालाग्निकोटिदीप्तां दाहे पाशोच्चयस्य पटु तृप्तौ।
अमृतौघवृष्टिमूर्त्तिं स्मर शक्तिं भव गुरुर्जगतः॥५१॥

कालाग्निकोटिदीप्तां प्रलयप्रबुद्धकालाग्निकोटिवत् सर्वाध्वनिर्दाहक्षमानवच्छिन्नज्वालाजालरूपतया दीप्यमानाम्। पाशोच्चयस्य दाहे शक्तिं पटु स्मर षडध्वलक्षणस्य पाशस्य दाहरूपायां शुद्धौ चितिं निरर्गलमनुसन्धेहि। तृप्तौ अमृतौघवृष्टिमूर्तिम् आप्लावनलक्षणायां तु शुद्धौ तद्वदेव सर्वाध्वक्रमणक्षमानवच्छि-

न्नसुधासमुद्रसहस्रसम्पातमयीं पटु स्मर। अत्र दाहाप्लावनाभ्यां सकलीकरणमप्युपलक्ष्यते, यदुक्तमाचार्यप्रवरैः—

“कालाग्निकोटिरुचिमम्ब! षडध्वशुद्धा-
वाप्लावनेषु भवतीममृतौघवृष्टिम्।
श्यामां घनस्तननतां सकलीकृतौ च
ध्यायन्त एव जगतां गुरवो भवन्ति “॥

इति। अत इष्टदेवतामूर्त्त्यात्मकसङ्कल्पकोटिमयत्वेन विश्वानुचिन्तनलक्षणं सकलीकरणमप्युपदिष्टं142 मन्तव्यम्। भव गुरुर्जगतः यावतोऽध्वनः शुद्धिः कृता, तावतो निश्शेषस्यैव जगतोऽनुग्रहीतृतया गुरुराचार्यप्रवरो भूयाः। अत्रैतदाकूतम्— यदेतच्छोधनं क्रियते न तदस्य देहात्मकतया संक्षिप्तस्य पडध्वसङ्घातस्य, अपि तु सर्वस्यैव, उक्तनयेन सर्वस्यैवाचार्यादेर्विश्वशरीरत्वात्। न ह्येतदाचार्यादित्वं, यत्प्रतिनियतदेहेन देहित्वम्। अतो विश्वशरीरेण सता विश्वस्यैव शुद्धिः कार्येति शास्त्रोपपादितेयुक्ति143क्रमेण प्रकाशैकात्म्यमस्य विश्वस्य पश्यतो यत् स्वरूपावस्थानं, स सर्वस्यैवाध्वनो दाहः। तदेव च प्रकाशैकात्म्यं विमृश्यमानं चिच्चमत्कारात्मकमाप्लावनम्। ‘प्रकाशस्य विमर्शैकघनताप्रत्यभिज्ञानदार्ढ्यात् परानन्दाविर्भावः सकलीकरणमि’ति श्रीमद्योगीश्वराचार्यपादाः॥५१॥

एवं गुरुलाभरूपां परामाद्यां सिद्धिमुपदिश्य द्वितीयामप्युपदिशति—

ख्यातिमपूर्णां पूर्णख्यातिसमावेशदार्ढ्यतः क्षपय।
सृज भुवनानि यथेच्छं स्थापय हर तिरय भासय च॥५२॥

सारस्तवायं सर्वोपदेशनिष्कर्षः। अपूर्णा पूर्णा चेति ख्यातिद्वयमेवास्ति, न वस्त्वन्यत्। तत्र पूर्णख्यातिं वस्तुभूतां सुदृढमवष्टभ्य कादाचित्कत्वादवस्तुभूताम् अपूर्णां ख्यातिं क्षपय प्रतिक्षणमनुसन्धानदार्ढ्यादुन्मूलय। तथा क्षपयन् सृज भुवनानि यथेच्छं स्थापय हर तिरय भासय च। तथावस्थितस्य ते ये स्वस्वरूपावारकतया सम्मताः पदार्थानामाभास144ख. पाठः.")नशक्त्यादयो विकल्पाः, त एव ते जगत्सृष्ट्यादिरूपतया प्रत्यभिज्ञाताः सर्वसिद्धिसमष्ट्यात्मकं पारमैश्वर्यमाविष्करिष्यन्ति145। अत एवं स्वरूपे नित्यमवतिष्ठस्वेत्युपदेश सर्वस्वम्। अत्र ‘रविसोमे’त्या-

दिषु शिवान्तासु विभूतिषु ‘तत्कर्म निर्वहती’त्यादिना ताटस्थ्यप्रकाशनात्, ‘स्मरशक्तिं भव गुरुर्जगत’ इति ‘अपूर्णख्यातिं क्षपय भुवनानि सृजे’ति च सादरमुपदेशाच्च पक्षपातः प्रत्याय्यते। अत एवं प्रत्यभिज्ञातस्वरूपेण सिद्ध्यन्तरस्याभासभूतत्वात् तदभिनिवेशो न कार्यः। अग्र्ये तु सिद्धिद्वये नित्यप्रत्यवमर्शाभिनिवेशिना भवितव्यमित्यनक्षरमुपदिश्यत इति शिवम् ॥ ५२ ॥

अथ शास्त्रमुपसंहरन्नाह—

इति बोधितः स इन्द्रो देवेष्वधिकारमलमपोह्य स्वम्।
आविष्टशक्तितत्त्वः शिववदपश्यत् स्वमात्मानम्॥५३॥

इति प्रथम146स्कन्धेन शरीरबाह्या147भिमते शिवादिवस्तुनि शरीरतां सोपपत्तिकं प्रत्यभिज्ञाप्य अथ विश्वशरीरत्वशुद्धौ द्वितीयस्कन्धेन शरीरत्वेन148 प्रतियोगिभूतस्य सतः149 देह देहिमा’ ख. पाठः “) स्वस्वामिभावलक्षणं भेदभ्रममपनेतुं विश्वस्य प्रकाशैकघनत्वमुपपत्तिभिः स्थिरीकृत्य तथा स्थिरीभूतम्य वैश्वात्म्यस्य विपरीतभावनादिभिर्दोषैर्दौर्बल्यं मा भूदिति तृतीयस्कन्धेन विविधान् वैश्वात्म्यविमर्शनप्रकारानुपदिश्य चतुर्थेन स्कन्धेन सिद्ध्याविर्भावं जगद्गुरुत्वशिवत्वय150र्महासिद्ध्योर्नित्यसिद्धत्वप्रत्यभिज्ञानलक्षणां महासिद्धिं चाविचलामुक्त्वाबोधितो वस्तुयाथात्म्यं सम्यक्प्रत्यभिज्ञापितः स इन्द्रः स्वं देवेष्वधिकारमलमपोह्य‘स्वर्गस्याहमधिपतिरि’ति परस्वरूपसङ्कोचलक्षणं पशुत्वमवधूय स्वात्मानं शिववदपश्यत्शिवो बोधकत्वेन पुरोऽवस्थिताः श्रीमदाचार्यविरूपाक्षनाथपादाः, एवं बोधितस्यतस्य गुरुव्यतिरेकेण शिवान्तरासम्भवात्, तद्वदपश्यत्। न तदानयोर्बोध्यबोधकयोर्ज्ञाने151 तारतम्यकला काचित्, अपि तु ‘जगतोऽस्य गुरुः साक्षात् परमेश्वर एवास्मीति निष्प्रत्यवायं प्रत्यपद्यतेति शिवम्॥५३॥

इति श्री विरूपाक्षपञ्चाशिकायां महामाहेश्वर-
विद्याचक्रवर्त्तिकृतविवृतिसमेतायां

विभूतिस्कन्धश्चतुर्थः।

<MISSING_FIG href=”../books_images/U-IMG-1728324319Capture.PNG”/>

स्वरूपप्रत्यभिज्ञानमनायासेन लिप्सुभिः।
पञ्चाशिकासुविशदा वृत्तिरेषा निषेव्यताम्॥।

कृतेयं विवृतिर्लघ्वी श्रीविद्याचक्रवर्तिना।
गोविन्दचन्द्रधीनाम्नि निकषे विनिवेशिता॥

नमः शिवाय गुरवे देवायानन्दमूर्त्तये।
परब्रह्मस्वरूपाय देवदेवाय शम्भवे॥

समाप्तश्चायं ग्रन्थः ॥

_____________

Ready for sale.

भक्तिमञ्जरी(Stuti) by H. H. Svati Sri Râma Varma Maharajah

Trivandrum Sanskrit Series.

No. 1 — दैवम् (Vyâkarana) by Deva with Purnshakâra of Krishnalîlâsukamuni.
No. 2— अभिनवकौस्तुभमालादक्षिणामूर्त्तिस्तवौby Krishnalilasukamuni
No. 3—नलाभ्युदयः(Kâvya) by Vâmana Bhatta Bâṇa.
No. 4 — शिवलीलार्णवः(Kâvya) by Nilkaṇṭha DÎkshita.
No. 5— व्यक्तिविवेकः(Alankâra) by Mahima Bhatta with commentary.
No. 6— दुर्घटवृत्तिः(Vyâkarana) by Saranadeva.
No. 7— ब्रह्मतत्त्वप्रकाशिका(Vedânta) Sadasivendra sarasvatî
No. 8—प्रद्युम्नाभ्युदयम्(Nâtaka) by Ravi Varma Bhûpa.
No. 9— विरूपाक्षपञ्चाशिका(Vedânta) by Virûpâkshanâthawith commentary ofVidyâchakravartin.
No. 10— मातङ्गलीला(Gajalakshana) by Nîlakantha.

IN THE PRESS.

तपतीसंवरणम् (Nâtaka ) by Kulasekhara Varma with commentary.
परमार्थसारम् (Vedânta) by Bhagavad Âdisesha with Râghavanandâ’s commentary.
नीतिसारः (Nîti) by Kâmandaka with the commentary, ‘Jayamangala’ of Sankârarya.

]


  1. “द्धान्तार्थसारसा’ स-पाठः” ↩︎

  2. “‘द् दिविदिविष’ ख-पाठः.” ↩︎

  3. “म्य पुर’”

     ↩︎
  4. “‘र्षरूपभू’ स-पाठः”

     ↩︎
  5. “‘त्वादनुपदेशरूपं लोकत्रयम् । अब ख- पाठः” ↩︎

  6. “‘ह्यत्वेन प्र’ खपाठः,”

     ↩︎
  7. “‘ज्ञापितस्य वैश्वात्म्यस्य वि’ क-पाठः.”

     ↩︎
  8. “‘ति विम’ क. पाठः” ↩︎

  9. “तुर्थे श्लोकैकादशकात्मनि स्कन्धे अप्रबुद्धादी’ क.पाठः” ↩︎

  10. “त्र ग्रन्थम’ ख.पाठः.” ↩︎

  11. “‘कामार’ ख- पाठः” ↩︎

  12. “शक्तिपातोनाम देव्याश्चिच्छक्तेःपरशिवप्रेरणया पातः तेन। ‘शक्तिपाते तु सञ्जाते शिष्यस्यात्मनि संस्थिता। माया दग्धा भवेत् सम्यक् नात्र सन्देहकारणम्॥’ इति सूतसंहितायां यज्ञवैभवखण्डे ३४ तमाध्यायः,” ↩︎

  13. “‘बाह्यत्वेन’ ख.पाठः. " ↩︎

  14. “‘स्यास्य वि’ ख पाठः.” ↩︎

  15. “‘वात्’ ख.पाठः”

     ↩︎
  16. “’ तदापि’ (? ↩︎

  17. “‘ह्यत्तारोऽस्मि कपाठः "

     ↩︎
  18. “‘वानु’ ख-पाठः” ↩︎

  19. " ’ ण्डेऽहन्ता तद्’ ख- पाठः.” ↩︎

  20. “‘म्भ इति’ ख.पाठ” ↩︎

  21. " ’ षडध्वात्मकेऽस’ क पाठः” ↩︎

  22. “ज्ञापितमिति ख- पाठः.” ↩︎

  23. “राद्विश्रस्मादेव वस्तु ख- पाठः” ↩︎

  24. “‘न्नप्युत्कान्त इव भूत्वा स्वाविमर्शेन तद् क. पाठः” ↩︎

  25. “त्थ ततः” ↩︎

  26. “‘र्योरास्फा’ क.पाठः”

     ↩︎
  27. “‘या इह’ क- पाठः” ↩︎

  28. “यमहन्ता त्वया प्र क-पाठः.” ↩︎

  29. “‘इत्थं वा’ क.पाठः”

     ↩︎
  30. “‘युक्त्युपसंगृ’ कं-पाठः” ↩︎

  31. “‘तयेय’ क. पाठः”

     ↩︎
  32. “‘के प्र ’ ख- पाठः,” ↩︎ ↩︎

  33. “‘तं चपरम’ ख- पाठः.”

     ↩︎
  34. “‘दानां’ क-पाठः.” ↩︎

  35. “रमिति च व्य ख पाठः” ↩︎

  36. “‘तयोर्भेद्य’ ख. पाठः.”

     ↩︎
  37. “‘त्रयमु ’ कपाठः” ↩︎

  38. “‘प्रथयन्त्यौ ’ क.पाठः” ↩︎

  39. “प्रसरैक ’ क-पाठः.” ↩︎

  40. “‘नात्मा’ ख.पाठः” ↩︎

  41. “‘च भेदीति’ ख- पाठः” ↩︎

  42. “‘चित्ययं’ (? ↩︎

  43. “`स्वांशे’ ख- पाठः” ↩︎

  44. “‘सृजति जगज्जक्षिति स्वशक्तीनाम्’ ख- पाठः. ख- पाठः” ↩︎

  45. “खेचर्यादिस्वरूपाणाम् ’ ख- पाठः” ↩︎

  46. “‘जगश्रीलादि’ ख.पाठः” ↩︎

  47. " ‘र्थ्याज्जगतश्चतर ’ "

     ↩︎
  48. “‘पदिष्टं भ ख- पाठः.” ↩︎

  49. “‘दृढप्र’ क.पाठः” ↩︎

  50. “‘स्वरश्मिच’ क-पाठः” ↩︎

  51. “’ ष्वपि । अतो भो’ क-पाठः.” ↩︎

  52. “‘त्वमेषां चेति ये ये’ ख- पाठः.” ↩︎

  53. “‘क्षिप्य त्रिधात्मकत्वमुपदिशति’ क पाठः.” ↩︎

  54. “’ इत्थं भो ’ क पाठः.”

     ↩︎
  55. “‘त्यग्रपत्वात् ’ क-पाठः.”

     ↩︎
  56. “‘द्विधा स्थू ’ ख- पाठः” ↩︎

  57. “’ ते। शक्तिरुच्यते सूक्ष्मम्। त’ क. पाठः” ↩︎

  58. “‘च्चिदभेदप्र ’ क.पाठः.” ↩︎

  59. “‘तं चिति’ ख पाठः.”

     ↩︎
  60. “‘कश’ ख-पाठः”

     ↩︎
  61. “`कमा’ क- पाठः.” ↩︎

  62. “‘ज्ञानं भवति ’ ख-पाठः.” ↩︎

  63. “इदं पदं ‘गिरिणा ’ इति पदानन्तरं पठ्यते क- पुस्तके.” ↩︎

  64. “‘पृथिवीति’ क-पाठः” ↩︎

  65. “‘या तु मि’ कपाठः”

     ↩︎
  66. “‘दः, तं नि ’ ख- पाठः” ↩︎

  67. “‘या स्फु’ क-पाठः.” ↩︎

  68. “‘रभे’ क-पाठः.” ↩︎

  69. “‘ति विच्छि’ ख- पाठः.” ↩︎

  70. “‘कतयासि ’ ख- पाठः.” ↩︎

  71. “‘दः । तदेतस्य मे भागविभेदः स क- पाठः.” ↩︎

  72. “‘काशात्मक’ ख- पाठः.”

     ↩︎
  73. “‘पं विच्छि’ ख- पाठः,” ↩︎

  74. “‘यो दे’ क-पाठः.”

     ↩︎
  75. “‘दः ख’ ख - पाठः .” ↩︎

  76. “त्रयोविंशार्यायाम्.” ↩︎

  77. “`च सति भा’क- पाठः.”

     ↩︎
  78. “‘थते पु’ क-पठः” ↩︎

  79. “‘तम् । सर्व’ क-पाठः.” ↩︎

  80. “‘त्वं चात्म’ क- पाठः.”

     ↩︎
  81. " ‘भिः शक्तिभिर्नि ’ क.पाठः” ↩︎

  82. " ‘निज’ इत्यादि ‘कैः’ इत्यन्तं क पुस्तके नास्ति.” ↩︎

  83. “’ ततो हि ’ ख पाठः” ↩︎

  84. “हकस्य तु क- पाठः.” ↩︎

  85. “’ स्याहम्प्रतीतिः ख- पाठः.” ↩︎

  86. " ‘वाद्यग्नि’ क. पाठः." ↩︎

  87. “‘च्योपदिशति’ क- पाठः .” ↩︎

  88. “‘त्तं परमार्थरूपं च ’ क. पाठः.”

     ↩︎
  89. “व सबा ख. पाठः.” ↩︎

  90. “`ताप’ क. पाठः. "

     ↩︎
  91. “यस्य ज्ञातैव परमार्थः । ज्ञातुक. पाठः.” ↩︎

  92. " ‘करू’ क. पाठः." ↩︎

  93. " ‘शात्मकस्य’ क. पाठः” ↩︎

  94. “‘त्ततया’ क. पाठः.” ↩︎

  95. “‘सुप्रबु’ ख. पाठः.”

     ↩︎
  96. “‘त्वमिति’ क. पाठः.”

     ↩︎
  97. “‘चाक्र’ क. पाठः.” ↩︎

  98. " ‘मम् । परस्परापेक्षया ज्ञात्रादि सक्रमम् । चि’ ख. पाठः." ↩︎

  99. “‘स्परं तु य’ क. पाठः” ↩︎

  100. “‘पि स (म्भवति ↩︎

  101. “‘या सक्रम मे’ क. पाठः”

     ↩︎
  102. “‘षु नीलादिश्रौत्रादिषु । अत्र न्वाक्षुषे । अ’ ख. पाठः०” ↩︎

  103. “‘पशांन्त्यान्त’. क. पाठः.”

     ↩︎
  104. " ‘लाव’क. पाठः.” ↩︎

  105. " ‘पीताव’ क. पाठः." ↩︎

  106. “‘क्रमवत्ता, त’ क. पाठः.” ↩︎

  107. “‘तः प्रकाश ए’ ख. पाठः.”

     ↩︎
  108. “‘स्पर्शनाद् ’ क. पाठः,” ↩︎

  109. “‘द्वयं या ’ क. पाठः.” ↩︎

  110. “‘दादिकमिव’ क. पाठः.” ↩︎

  111. “‘नोपयुज्यते च’ ख. पाठः.” ↩︎

  112. " ‘अर्थस्या’ क. पाठः." ↩︎

  113. “‘दाशङ्कां प’ क. पाठः-” ↩︎

  114. “‘एतदिति’ क, पाठः” ↩︎

  115. “सोऽयमित्यादि । तदिदमभेदे पारमार्थिके भेदोन्मलिनाकृतमित्यर्थः,”

     ↩︎
  116. “‘करूपत्वा’ ख. पाठः.” ↩︎

  117. “‘तदेतदिति बि’ ख. पाठः.” ↩︎

  118. ॑# “क्तनये प्र’ क. पाठः.” ↩︎

  119. " ‘नो वारकं त’ क. पाठः." ↩︎

  120. “’ इति नीलवि’ क. पाठः.” ↩︎

  121. “‘सा नीलाश्चर्थापेक्ष’ क. पाठः.” ↩︎

  122. “‘नुषज्यते’ क. पाठः.” ↩︎

  123. " ‘शे बोधनीयः प’ क पाठः" ↩︎

  124. “‘सद्भिर्बोध्यः पशुः स भवी’ ख. पाठः "

     ↩︎
  125. " ‘यः श्रु’ ख- पाठः.”

     ↩︎
  126. “‘रोद’ क. पाठः.”

     ↩︎
  127. " ’ विविच्य दर्शय’ क. पाठः." ↩︎

  128. “‘रवान् भेदाभेददशावस्थो ज’क. पाठः” ↩︎

  129. “‘इदम्प्रत्ययविषयं ज क. पाठः.” ↩︎

  130. “‘शं वजयन्’ ख. पाठः.” ↩︎

  131. " ‘ते इदन्ताप्रतीतिमयी सदाशिवता । भ’ ख. पाठः." ↩︎

  132. “‘ष्टक्रमं ’ क. पाठः.” ↩︎

  133. “‘हरविसोमेत्यादिना श्लो’ क. पाठः.”

     ↩︎
  134. " ‘द्धमेव सत् प्र’ ख. पाठः"

     ↩︎
  135. " ‘ज्ञानाद’क. पाठ," ↩︎

  136. “‘क्तनीत्या’ क पाठः”

     ↩︎
  137. “‘या यावती दे’ख. पाठः.” ↩︎

  138. “‘धयिषोधीरणादिकं कर्म सिध्यति’ ख. पाठः. "

     ↩︎
  139. “‘उक्तेन न’ ख. पाठः” ↩︎

  140. “‘त्यकरू’ ख. पाठः” ↩︎

  141. “‘द्वयमा’ ख. पाठः.”

     ↩︎
  142. “‘ष्टंबोद्धव्यम्’ क. पाठः” ↩︎

  143. “‘तक्रमे ’ ख. पाठः” ↩︎

  144. " ‘र्थाअनाभासाभासनाद ’ (?

     ↩︎
  145. " ‘स्यन्तीति । अ’ ख. पाठः.”

     ↩︎
  146. “‘थमेन स्क’ क. पाठः” ↩︎

  147. “‘बहिर्भूतत्वेनाभि’ क. पाठः.” ↩︎

  148. " रतया प्रक. पाठ.." ↩︎

  149. “सतत्वावि (? ↩︎

  150. " ‘योनि’ क. पाठः” ↩︎

  151. “‘ज्ञीनता’ क.पाठः.” ↩︎