[[वेदोक्तशिवार्चनपद्धतिः Source: EB]]
[
| ॥अथ वेदोक्तशिवार्चनपद्धतिप्रारंभः॥ |
| <MISSING_FIG href="../books_images/U-IMG-17298465727146.png"/> |
श्रीगणेशाय नमः॥ ॥श्रीगुरवे नमः॥ हस्तौपादौप्रक्षाल्य॥ आसनारोहणम्॥ ॐभूर्भुवःस्वः इत्याचमनम्॥ ॐनमःशिवायेतित्रिवारंपठेत्॥ त्र्यम्बकमितिविभूतिधारणम्॥ पीठेलिंगस्थापनम्॥ गणपत्यादिमंडलेअक्षतपुंजस्थापनम्॥ ततःस्वस्तिवाचनम्॥ प्रतिज्ञासंकल्पः॥ गणपतिपूजनम्॥ ततोवरणसंकल्पः॥ ततःनंदीवीरभद्रौस्वामिकार्तिकंकुबेरंकीर्तिमुखंचपूजयेत्॥ ॐस्व᳘स्तिन᳘ऽइन्द्रो॑वृ॒द्धश्श्र॑वाः᳥ स्व᳘तिन॑÷पू॒षाव्वि᳘श्श्ववे॑दाः᳥॥ स्व᳘स्तिन᳘स्तार्क्ष्यो᳘ऽअरि॑ष्टनेमिः᳥स्व᳘स्तिनो᳘बृह᳘स्पति॑र्दधातु॥१॥ पय॑ः᳥पृथि᳘व्व्याम्पय᳘ओष॑धीषुपयो॑दि᳘व्व्य᳘᳘
न्तरि॑क्षे᳘पयो॑धाः᳥॥ पय॑स्वतीः᳥प्प्र᳘दिशः᳣॑संतु॒मह्य॑म्॥२॥ व्विष्णोर᳘॑रा ट॑मसि᳘विष्णो᳘ः᳥श्नप्त्रे॑स्थो᳘व्विष्णो᳘ः᳣स्यूर॑सि᳘व्विष्णो॑र्द्ध्रु॒व्वो᳘सि॥ व्वै᳘ष्ण᳘वम॑सि᳘व्विष्ण॑वेत्त्वा॥३॥ अ᳘ग्निर्दे᳘वता᳘व्वातो॑दे᳘वता᳘सूर्य्योदे᳘वता॑च᳘न्द्रमा॑ दे᳘वता᳘व्वस॑वोदे᳘वता॑रु᳘द्रादे᳘वता᳘दि᳘त्यादे᳘वता᳘म᳘रुतो॑दे᳘वता᳘विश्श्वे॑दे᳘वा दे᳘वता᳘बृह᳘स्पति॑र्दे᳘वतेन्द्रो॑दे᳘वता᳘व्वरु॑णोदे᳘वता᳘॑॥४॥ द्यौःशाति॑र॒न्तरि॑क्षुᳰ शांतिः॑÷पृथि᳘वीशान्ति᳘रापः᳥᳘शान्ति᳘रोष॑धयः᳥᳘शान्तिः᳥॑॥ व्वन᳘स्प्पत॑य᳘ः᳥शान्ति᳘र्विश्वे॑दे᳘वाः᳣ शांति᳘र्ब्रह्म᳘शान्ति᳘ः᳥सर्व्व᳘र्ठ़शांतिः᳘शांति॑रे᳘वशान्तिःसामा᳘ शान्ति॑रोधि॥५॥ सुशान्तिर्भवतु॥ ॐविश्श्वा॑निदेवसवितर्द्दुरि॥२॥
तानि᳘परा॑सुव॥ यद्भ᳘द्रन्तन्न᳘ऽआसु॑व॥६॥ इमारु᳘द्राय॑त᳘वसे॑कप᳘र्दिने॑क्ष᳘यद्वी॑राय᳘प्र᳘भ॑रामहेम᳘तीः॥ यथा᳘शमस॑द्द्वि᳘प॑दे᳘चतु॑ष्पदे᳘व्विश्श्व॑म्पुष्टङ्ग्रामे॑ऽअ᳘स्मिन्न॑नातु॒रम्॥७॥ए᳘तन्ते॑देवसवितर्य्य᳘ज्ञम्प्राहुर्बृह᳘स्प्पत॑येब्र᳘ह्मणे॑॥ तेन॑य᳘ज्ञम॑व᳘तेन॑य᳘ज्ञपतिन्तेन᳘माम॑व॥८॥ मनो॑जू॒तिर्जु॑षता᳘माज्य॑स्य᳘बृह॒स्पति॑र्य्य᳘ज्ञमि᳘मन्त॑नो᳘त्त्वरि॑ष्टँय्य᳘ज्ञर्ठ़ समि᳘मन्द॑धातु॥ व्विश्वे॑दे᳘वास॑ऽइ᳘हमा॑दयन्ता᳘मो ३ म्प्रति॑ष्ठ॥९॥ एषवै᳘प्प्रतिष्ठाना᳘मय᳘ज्ञोयत्रै᳘तेनयज्ञे᳘नय᳘जन्तेस᳘र्वमेवप्प्रतिष्ठित᳘म्भवति॥१०॥ ग᳘णाना॑न्त्वा ग᳘णप॑तिर्ठ़हवामहेप्प्रि᳘णा॑न्त्वाप्प्रि᳘यप॑तिर्ठ़ हवामहे
निधी᳘नान्त्वा॑निधि᳘पति॑र्ठ़हवामहेव्व॑सोमम॥ आहम॑जानिगर्ब्भ᳘धमात्त्वम॑जासिगर्ब्भ᳘धम्॥११॥ नमो॑ग᳘णेब्भ्यो᳘ग᳘णप॑तिब्भ्यश्श्चवो᳘ नमा᳘॑नमा᳘॑व्व्राते॑ब्भ्यो᳘व्व्रात॑पतिब्भ्यश्चवो᳘नमो᳘नमो᳘ गृत्त्से॑ब्भ्यो᳘ गृत्त्स॑पतिब्भ्यश्श्चवो᳘नमो᳘नमो᳘व्विरू॑पेब्भ्योव्वि᳘श्श्वरू॑पेब्भ्यश्चव्वो᳘नम॑÷॥१२॥ सुमुखश्चैकदंतश्च कपिलो गजकर्णकः॥ लंबोदरश्च विकटो विघ्ननाशो विनायकः॥१३॥ धूम्रकेतुर्गणाध्यक्षोभालचंद्रोगजाननः॥ द्वादशैतानिनामानियःपठेच्छृणुयादपि॥१४॥ विद्यारम्भेविवाहेचप्रवेशेनिर्गमेतथा॥ संग्रामेसंकटेचैवविघ्नस्तस्यनजायते
॥१५॥ ॐभूर्भुवः स्वः अत्रमंडलेइहागच्छसुप्रतिष्ठोवरदोभवममपूजांगृहाण श्रीगणाधिपतयेनमः॥ अक्षतान्क्षिपेत्॥ ॐतत्सदद्यब्रह्मणोद्वितीयपरार्द्धे श्रीश्वेतवाराहकल्पेवैवस्वतमन्वंतरे अष्टाविंशतितमेयुगेकलौप्रथमचरणे जम्बुद्वीपे भरतखंडे आर्यावर्तैकदेशे अमुकसंवत्सरे अमुकऋतौ अमुकमासे अमुकपक्षे अमुकतिथौ अमुकवासरे यथायोगकरणमुहूर्त्तेवर्तमाने अमुकगोत्रः अमुकशर्मा श्रुतिस्मृतिपुराणोक्तफलप्राप्तिकामः चतुर्वर्गफलप्राप्त्यर्थं प्रदोषादियामचतुष्टयाधिकरणकरुद्रीपाठसहितं चतुष्कृत्वो नार्म्मदशिवलिंगपूजनमहंक
रिष्ये। तदंगत्वेनगणपत्यादिपूजनंचकरिष्ये॥ ततो विश्श्वानिदेवसवितरितिपंचप्रतिष्ठामंत्रान्पठेत्॥ ॐगणानान्त्वेतिमंत्रेणावाहनपुष्पा सनपाद्यार्घाचमनीयस्नानीयपुनराचमनीयवस्त्रयज्ञोपवीतगंधाक्षतपुष्पधूपदीपनैवेद्यतांबूलनमस्कारप्रदक्षिणाजपा इति षोडशोपचारैर्गणपतिंपूजयेत्॥ मूलमंत्रस्य जपः॥ ततः प्रार्थना॥ नमो॑गुणेब्भ्यः॑ सुमुखश्चैकदंतश्चवक्रतुंडंपठेदितिगणपतिपूजनम्॥ ततोवरणसंकल्पः॥ ॐतत्सदद्यब्रह्मणोद्वितीयपरार्द्धेश्रीश्वेतवाराहकल्पैवैव स्वतमन्वंतरे अष्टाविंशतितमेयुगेकलौप्रथमचरणेजंबूद्वीपे भारतखंडे
आर्यावर्त्तेअमुकसंवत्सरे अमुकऋतौ अमुकमासे अमुकपक्षे अमुक तिथौ अमुकवासरे यथायोगकरणमुहूर्त्ते वर्तमाने अमुकगोत्रः अमुक शर्मा श्रुतिस्मृतिपुराणोक्तफलप्रातिकामः चतुर्वर्गफलप्राप्त्यर्थं कर्त्त व्यप्रदोषादियामचतुष्टयाधिकरणकरुद्रीपाठसहितं चतुष्कृत्वो नार्म्मदशिवलिंगपूजनं ब्राह्मणद्वारा कारयितुमेभिर्वरणद्रव्यैर्यथानाम गौत्रान्यथापरिमितब्राह्मणानहं वृणे॥ व्र᳘तेन॑दी᳘क्षामा॑प्प्नोतिदी᳘क्षया॑ प्प्नोति᳘दक्षि॑णाम्॥ दक्षि॑णाश्र᳘द्धामा॑प्प्नोतिश्श्रुद्धया॑स᳘त्यमा॑प्यते॥ इतिब्राह्मणो वदेत्॥ ततःनंदीश्वरपूजनमाह॥ आयङ्गौः पृश्न्नि॑रक्र
मी᳘दस॑दन्न्मा᳘तर॑म्पु॒रः॥ पि॒तर॑ञ्चप्प्र᳘यन्त्स्व॑÷॥ षोडशोपचारैर्नंदीश्वरं पूजयेत्॥ ततः प्रार्थना॥ प्रैतु॑व्वा᳘नि॑क्रद᳘न्नान॑द᳘द्रास॑भ᳘÷पत्त्वा॑॥ भर॑न्न᳘ग्ग्निम्पु॑री᳘ष्ष्य᳘᳘म्मापा᳘द्यायु॑षःपुरा॥ इतिनंदीश्वरंपूजयेत्॥१॥ ततोवीरभद्रपूजनम्॥ म᳘द्रङ्कर्णे॑भि÷शृणुयामदेवाभ᳘द्रम्प॑श्श्येमा᳘क्षभि॑र्यजत्राः॥ स्थि᳘रैरङ्गै॑स्तुष्टु॒वाᳩंस॑स्त᳘नूभि᳘र्व्व्य॑शेमहिदे᳘वहि॑तँ᳘यदायु॑÷॥ षोडशोपचारैर्वीरभद्रं पूजयेत्॥ ततः प्रार्थना॥भ᳘द्रोनो॑ऽअ᳘ग्निरा हु॑तोभ᳘द्रारातिःसु॑भगभ᳘द्रोऽअध्वरः॥ भ᳘द्राऽउ᳘त्तप्प्रश॑स्तयः÷॥ इतिवीरभद्रं पूजयेत्॥ ततः स्वामिकार्तिकपूजनमाह॥ यदक्र॑न्दः÷प्प्रथ᳘म
ञ्जाय॑मानऽउ᳘द्यन्त्स॑मु॒द्रादु॒तवा᳘पुरी॑षात्॥ श्ये᳘नस्य॑प᳘क्षा॒ह॑रि᳘णस्य॑बा᳘हूऽउ॑प᳘स्तुत्त्य᳘म्महि॑जा॒न्ते॑ऽअर्व्वन्॥ षोडशोपचारैःस्वामिकार्तिकंपूजयेत्॥ ततःप्रार्थना॥ यत्र॑बा᳘णाःसुम्पत॑न्तिकुमा᳘राव्वि॑शि᳘खाऽइ॑व॥तन्न᳘ऽइन्द्रो᳘बृह᳘स्पति᳘रदि॑ति᳘÷श॑र्म्मयच्छतुव्वि᳘श्श्वाह᳘शर्म्म॑यच्छतु॥ इतिस्वामिकार्तिकंप्रार्थयेत्॥ ततः कुबेरपूजनमाह॥ कु॒विद᳘ङ्गयव॑मन्तो᳘ यव॑च्चि᳘द्यथा᳘दान्त्य॑नुपू॒र्वंव्वि᳘यूय॑॥ इ᳘हेहै॑षाङ्कृणुहि᳘भोज॑ननानि᳘येब᳘र्हिषो᳘नम॑ऽउक्तिँ᳘य्यज॑न्ति॥ षोडशोपचारैःकुबेरपूजयेत्॥ ततः प्रार्थना॥ व्व᳘यर्ठ़सो॑मव्र᳘तेतव᳘मन॑स्त᳘नूषु॒बिब्भ्र॑त÷॥प्र᳘जाव॑न्त ÷सचेमहि॥
इति कुबेरंप्रार्थयेत्॥ ततः कीर्तिमुखपूजनमाह॥अस॑वे᳘स्वाहा᳘व्वस॑वे᳘स्वहा॑व्वि᳘भुवे᳘स्वाहा᳘व्विव॑स्वते᳘स्वाहा॑गण᳘श्श्रिये᳘स्वाहा॑ग᳘णपत॑ये᳘स्वाहा॑भिभुवे᳘स्वाहाधि॑पतये᳘स्वाहा॑ शु॒षाय᳘स्वाहा॑सर्ठ़स᳘र्प्पय᳘स्वाहा॑च᳘न्द्राय᳘स्वाहा᳘ज्ज्योति॑ष᳘स्वाहा॑ मलिम्म्लु॒चाय᳘स्वाहा᳘दिवाप᳘तय॑ते᳘स्वाहा॑॥ षोडशोपचारैः कीर्तिमुखं पूजयेत्॥ ततः प्रार्थना॥ ओज॑श्श्चमे᳘सह॑श्श्चमऽआ᳘त्त्माच॑मेत᳘नूश्श्च॑मे᳘शर्म्म॑च᳘मेङ्गा॑निच᳘मेस्थी॑निचमे᳘ परू॑ᳩंषिचमे᳘शरी॑राणिचम᳘ऽआयु॑श्श्चेमेज᳘राच॑मेय᳘ज्ञेन॑कल्प्पन्ताम्॥ इति कीर्तिमुखं प्राथेयत्॥ अथात्मविन्यासः॥१॥ याते॑रुद्राशि᳘वात᳘नूर
घो᳘रापा॑पकाशिनी॥ तया॑नस्त᳘न्न्वा᳘शन्त॑मया᳘गिरि॑शन्ता᳘भिचा॑कशी हि॥ शिखायाम्॥१॥ अ᳘स्म्मिन्न्म॑ह᳘त्य᳘र्ण᳘वे᳘न्तरि॑क्षेभ᳘वाऽअधि॑॥ तिषा॑ᳩंसहस्त्रयोज᳘नेव᳘धन्न्वा॑नितन्न्मसि॥ शिरसि॥२॥ अस॑ङ्ख्या᳘ तास᳘हस्रा॑णि᳘येरु᳘द्दाऽअ᳘धि᳘भूम्म्या॑म्॥ तेषांᳩंसहस्रयोज᳘नेव᳘धन्न्वा॑नितन्न्मसि॥ ललाटे॥३॥ व᳘यर्ठ़सो॑मव्व्र᳘तेव᳘मन॑स्त᳘नूषु॒बिब्भ्र॑तः᳥॥प्र᳘जाव॑न्तः᳥सचेमहि॥ भ्रुवोर्मध्ये॥४॥ त्र्य॑म्बकँयजामहेसु॒गन्धि॑म्पुष्टि᳘वर्द्ध॑नम्॥ उ᳘र्वा᳘रु᳘कमि॑व᳘बन्ध॑नान्न्मृ॒त्त्योर्म्मुक्षीय᳘मामृता॑त्॥नेत्रयोः॥५॥ अ᳘ग्निर्ज्ज्योति᳘र्ज्ज्योति॑र᳘ग्निः᳥स्वाहा᳘सूर्य्यो᳘ज्ज्योति᳘
र्ज्ज्योति᳘ः᳥सूर्य᳘ः᳥स्वाहा॑॥ अ᳘ग्निर्व्वर्च्चो᳘ज्ज्योति᳘र्व्वच्च᳘ः᳥स्वाहा᳘सर्य्यो᳘व्वर्च्चो᳘ ज्ज्योति᳘र्व्वच्च᳘ः᳥स्वाहा॑॥ ज्योति᳘ः᳥सूर्य्य᳘ः᳥सूर्य्यो᳘ज्ज्योति᳘ः᳥स्वाहा॥ तृतीयनेत्रे॥६॥ नमः᳘स्रुत्त्या॑यच᳘पथ्या॑यच᳘नम॑ः᳥का᳘ट्ट्या॑यच᳘नीप्प्या॑यच᳘नम᳘ः᳥कुल्ल्या॑यचसर᳘स्या᳘᳘यच᳘नमो॑नादे᳘याय॑चव्वैश᳘न्ताय॑च॥ कर्णयोः॥७॥ मान॑स्तो᳘केतन॑ये᳘ मान᳘ऽआयु॑षि᳘मानो᳘गोषु॒मानो᳘ऽअश्श्वे॑पुरीरिषः᳥॥मानो॑व्वी᳘रान्न्रु॑द्रभा᳘मिनोव्वधीर्ह᳘विष्मा॑न्त᳘सद᳘मित्त्व॑हवामहे॥ नासिकयोः॥८॥ अ᳘व्व᳘तत्त्य᳘धन᳘ष्ट्वसह॑स्राक्ष᳘शते॑षुधे॥ नि᳘शीर्य्य॑श᳘ल्ल्यानां᳘मुखा॑शि᳘वोन॑÷सु॒मना॑भव॥ मुखे॥९॥ नमो᳘व्वञ्च॑ते
परि᳘व्वञ्च॑तेस्तायू॒नाम्पत॑ये᳘नमो᳘नमो॑निष᳘ङ्गिण॑ऽइष᳘धि᳘मते᳘तस्क्क॑राणा᳘म्पत॑ये᳘नमो᳘नम॑ः᳥सृका᳘यिब्भ्यो᳘जिघा॑ᳩंसद्भ्योमुष्ण᳘ताम्पत॑ये᳘ नमो᳘नमो॑सि᳘मद्भ्यो᳘नक्त᳘ञ्चर॑द्भ्योव्विकृ᳘न्तानां᳘पत॑ये᳘नमः॑॥ ग्रीवायाम्॥१०॥ नील॑ग्ग्रीवाः᳥शिति᳘कण्ठा᳘दिव॑र्ठ़रु᳘द्राऽउप॑श्श्रिताः᳥॥ तेषांᳩंसहस्त्रयो ज᳘नेव॒धन्न्वा॑नितन्न्मसि॥ कंठदेशे॥११॥ नम॑स्त᳘ऽआयु॑धा᳘याना॑ततायधृ॒ष्णवे॑॥ उ᳘भाब्भ्या॑मु॒तते᳘नमो॑बा᳘हुब्भ्या᳘न्तव᳘धन्न्व॑ने॥ बाह्वोः॥१२॥ येती᳘र्त्थानि॑ प्प्र᳘चर॑न्ति सृ॒काह॑स्तांनिष᳘ङ्गिण॑÷॥ तेषा॑ᳩंसहस्रयोज᳘नेव᳘धन्न्वा॑नितन्न्मसि॥ हस्तयोः॥१३॥ नमो॑ज्ज्ये᳘ष्ठा
य॑चकनि᳘ष्ठा॑यच᳘नम॑÷पूर्व्व᳘जाय॑चापर॒जाय॑च᳘नमो॑मध्य᳘माय॑चापग᳘ल्ब्भाय॑च᳘नमो॑जघ᳘न्न्या᳘᳘यचबु॒ध्न्या᳘᳘यच॥ अंगुलिषु॥१४॥ नम॑ः᳥ प᳘र्णाय॑च पर्णश᳘दाय॑च᳘नम॑ऽउद्गुरमा॑णायचाभिघ्न᳘तेच᳘नमऽआखिद᳘
तेच॑प्प्रखिद᳘तेच᳘नम॑ऽइषु॒कृद्भ्यो॑धनु॒ष्कृद्भ्य॑श्श्चवो᳘नमो᳘नमो॑वः किरि᳘केब्भ्यो॑दे᳘वाना᳘र्ठहृद॑ययेब्भ्यो᳘ नमो॑विचिन्न्व᳘त्त्केब्भ्यो᳘नमो॑व्विक्षिण᳘त्केभ्यो᳘नम॑ऽआनिर्ह᳘तेभ्य॑÷॥ हृदये॥१५॥ नमोगु॑णेभ्यो॑ग᳘णप॑तिभ्यश्श्चवो᳘नमो᳘नमो᳘व्व्राते॑ब्भ्यो᳘व्व्रात॑पतिब्भ्यश्श्चवो᳘नमो᳘ नमो᳘ गृत्त्से॑ब्भ्यो᳘
गृत्त्स॑पतिब्भ्यश्श्चवो᳘नमो᳘नमो᳘व्विरू॑पेब्भ्यो᳘ व्विश्व॑रूपेब्भ्यश्चवो᳘ नमः॑॥
पृष्ठे॥ १६ विकि॑रिद्र᳘व्विलो॑हित᳘नम॑स्तेऽअस्तु भगवः᳥॥ यास्ते॑स᳘हस्र॑र्ठहे᳘तयो᳘न्न्यम᳘स्म्मन्निव॑पन्तु॒ताः᳣॥ उदरे॥१७॥ नम॑÷शम्भ᳘वाय॑चमयोभ᳘वाय॑च᳘नम॑÷शंक᳘रायच मयस्क्क᳘राय॑ च᳘नम÷शि᳘वाय॑शि᳘वत॑रायच॥दक्षिणकुक्षौ॥१८॥ द्वापे᳘ऽअन्ध॑सस्प्पते᳘दरि॑द्रं᳘नील॑लोहित॥आ᳘साम्प्र᳘जाना॑मे᳘पाम्पंशू॒नाम्माभे᳘र्म्मारो᳘ङ्मोच॑न᳘ः᳥ किञ्च᳘नाम॑मत्॥ वामकुक्षौ॥१९॥ हि᳘र᳘ण्य᳘ग᳘र्ब्भः᳥सम॑वर्त᳘ताग्रे॑भूतस्य॑जा᳘तः᳥पति᳘रेक॑ऽआसीत्॥ सदा॑धारपृथि᳘वीन्द्यामु॒तेमाङ्कस्म्मै॑द᳘वा
य॑ह᳘विषा॑व्विधेम॥ नाभौ॥२०॥ मीदु॑ष्टम᳘शिव॑तमशि᳘वोन॑÷सु॒मना॑
भव॥ प᳘र᳘मेव्वृ॑क्षऽआयु॑धन्नि᳘धायुकृत्ति॑व्वसा॑नुऽआच॑र᳘पिना॑क᳘म्बिन्भ्रब्भ्र᳘ दाग॑हि॥ कट्याम्॥२१॥ शि᳘वोनामा॑सि᳘स्वाधि॑तिस्तेपि᳘तानम॑स्तेऽअस्तु॒मामा॑हिर्ठसीः᳥॥ निव॑र्त्तया᳘म्म्यायु॑षे᳘न्नाद्या॑यप्प्र᳘जननायरा᳘य स्प्पो॑षायसुप्प्रजा᳘स्त्वाय॑सु॒वीर्य्या॑य॥लिंगे॥२२॥ इ᳘मारु᳘द्राय॑तु वसे॑कप᳘र्द्दिने॑क्ष᳘यद्वी॑राय᳘प्प्रभ॑रामहेमुतीः᳣॥ यथा᳘शमस॑द्वि᳘पद᳘चतु॑ष्प्प दे᳘व्विश्श्व॑म्पु॒ष्टंग्रामे॑ऽअ᳘स्म्मिन्न॑नातुरम्॥ गह्ये॥२३॥ इषत्त्वो᳘र्ज्जेत्वा॑व्वा᳘यव॑स्थदे᳘वाव॑÷सवि᳘ता प्प्रार्प्प॑यतु॒श्श्रेष्ठ॑तमाय᳘कर्म्म॑ण᳘ऽआप्प्या॑ यद्द्धमग्घ्न्या᳘ऽइन्द्रा॑य भा᳘गम्प्र᳘जाव॑तीरनमी᳘वाऽअ॑य᳘क्ष्माव॑स्ते᳘नऽ
ईशत᳘माघश॑र्ठसो᳘ध्रुवाऽअ᳘स्म्मिन्न्गोप॑तौस्यातब᳘व्व्हीर्य्यज॑मानस्यप᳘शून्न्पा॑हि॥ वृषणयोः॥२४॥ मानो॑म᳘हान्त॑मु᳘तमानो॑ऽअर्ब्भ᳘कम्मान᳘ऽउक्ष॑न्तमु᳘तमान॑ऽउक्षि᳘तम्॥ मानो॑व्वधीः᳥पि᳘तर᳘म्मोतमा᳘तरं᳘म्मान॑ः᳥प्प्रि᳘यास्त᳘न्न्वो॑रुद्ररीरिषः᳥॥ ऊर्वोः॥२५॥ ए᳘षते॑रुद्रभा᳘ग÷स᳘हस्वस्राम्बि॑कया᳘तञ्जु॑षस्व᳘स्वाहै᳘षते॑रुद्रभा᳘गऽआ᳘खुस्ते॑प᳘शुः᳣॥ जान्वोः॥२६॥ नमो॑ज्ज्ये᳘ष्ठाय॑चकानि᳘ष्ठाय॑च᳘नम॑÷पूर्व्व᳘जाय॑चापर᳘जा य॑च᳘नमो॑मद्ध्य᳘माय॑चापग᳘ल्ब्भय॑च᳘नमो॑जघ᳘न्न्या᳘᳘यचबु॒ध्न्या᳘यच॥ जंघयोः॥२७॥ नमो॑ह्न᳘स्वाय॑चवाम᳘नाय॑च᳘नमो॑व्वृ॒द्धाय॑च᳘स᳘वृधे॑च᳘न
मोग्या॑यचप्प्रथ᳘माय॑च॥ गुल्फयोः॥२८॥ येष᳘थाम्प॑थि᳘रक्ष॑यऽऐलवृ॒दाऽआ॑युर्य्यध॑÷॥ तेषा॑ᳩंसहस्रयोज᳘नेव᳘धन्न्वा॑नितन्न्मसि॥पादयोः॥२९॥ अद्ध्॑यवोचदधिव᳘क्ताप्प्र॑थ᳘मोदैव्व्यो॑भि᳘षक्॥ अही॑ ँश्च᳘सर्व्वा॑ञ्च᳘म्भय᳘न्त्सर्व्वा॑श्श्चयातुधा᳘न्न्या᳘᳘ध᳘राची᳘ः᳥परा॑स᳘व॥ कवचम्॥॥३०॥ नमो॑ बि᳘ल्म्मिने॑चकव᳘चिने॑च᳘नमो॑व्व᳘र्म्मिणे॑चव्वरू᳘थिने॑च᳘नम॑÷श्रु॒ताय॑चश्श्रु॒तसे᳘नाय॑च᳘नमो॑दुन्दु॒ब्भ्या᳘यचाहन᳘न्न्या᳘᳘यच॥ अस्त्रम्॥३१॥ व्विज्ज्य᳘न्धनः॑कप᳘दिनो᳘व्विश॑ल्ल्यो᳘बाण॑वा ऽँउ᳘त॥ अने॑शन्नस्य᳘षाऽइषवऽआ᳘भर॑स्यनिष᳘ङ्गधि॑ः᳥॥ धनुः॥३२॥ यत्र॑बा᳘णाः᳥
स᳘म्प॑तन्तिकुमा᳘राव्वि॑शि᳘षाऽइ॑व॥ तन्न᳘ऽइन्द्रो᳘बृह᳘स्पति᳘रदि॑ति᳘ः᳥शर्म्म॑ यच्छतुव्वि᳘श्श्वाहा᳘शर्म्म॑यच्छतु॥ बाणः॥३३॥ व्विकि॑रिद्र᳘विलो॑हित᳘नम॑स्तेऽअस्तुभगवः᳥॥यास्ते॑स᳘हस्र॑र्ठहे᳘तयो᳘न्न्यम᳘स्मिन्निव॑पन्तु॒ताः᳣॥ खड्गः॥३४॥ यऽए॒ताव॑न्तश्श्च᳘भूया॑ᳩंसश्च᳘दिशो॑रु᳘द्राव्वि॑तस्थि᳘रे॥ तेषा॑ᳩंसहस्रयोज᳘नेव᳘धन्न्वा॑नितन्न्मसि॥ दिग्बन्धनम्॥॥३५॥ एवंन्यासविधिंकृत्वाशिवोहमितिभावयेत्॥ एवंशिवलिंगेऽपिन्यासविधिंकुर्यात्॥ मानो॑म᳘हान्त॑मु॒तमानो॑ऽअर्ब्भ᳘कम्मान᳘ऽउक्ष॑न्तमुतमान॑ऽउक्षि᳘तम्॥ मानो॑व्वधीः᳥पि᳘तर᳘म्मोतमा᳘तर᳘म्मान÷प्प्रि᳘या
स्त᳘न्न्वो᳘रुद्ररीरिषः᳥॥आवाहनम्॥१॥ याति॑रुद्रशि᳘वात᳘नूरघो᳘रापा॑पकाशिनी॥ तया॑नस्त᳘न्न्वा᳘शन्त॑मया᳘गिरि॑शन्ता᳘भिचा॑कशीहि॥ पुष्पासनम्॥२॥ यामिषु॑ङ्गिरिशन्त᳘हस्ते॑बिभ᳘र्ष्ष्यस्त॑वे॥ शि᳘वाङ्गि॑रित्र᳘ तांकुरु᳘माहि॑र्टसी᳘ः᳥पुरुष᳘ञ्जग॑त्॥ पाद्यम्॥३॥ शि᳘वेन᳘व्वच॑सात्वा᳘गिरि᳘शाच्छा॑व्वदामसि॥ यथान᳘ः᳥सर्व्व᳘मिज्जग॑दय᳘क्ष्मर्ठसु॒मना᳘ऽअस॑त्॥॥ अर्घः॥४॥ अध्य॑वोचदधिव᳘क्ताप्प्र॑थ᳘मोदैव्व्यो॑भि᳘षक्॥ अहीँ॑श्च᳘सर्वा॑ञ्ज᳘म्भयन्त्सर्व्वा॑श्श्चयातुधा᳘न्यो᳘ ध᳘राची᳘ः᳥परासुव।आचमनम्॥॥५॥ अ᳘सौयस्ताम्म्म्रोऽअ॑रु᳘णऽउ᳘तब᳘ब्भ्रुः᳥॑सुम᳘ङ्गल॑ः᳥॥ येचै॑नर्ठरु᳘द्राऽ
अ᳘भितो॑दि᳘क्षुश्रि᳘ताः᳥॑सहस्र᳘शोवै॑षा᳘ᳩंईऽईम॑हे॥ स्नानम्॥६॥ अथपंचामृतस्नानम्॥ आप्प्यायस्वेतिगौतमऋषिः सोमोदेवतागायत्रीछन्दःक्षीरस्नानेविनियोगः॥ आप्प्या॑यस्व᳘समे॑तुतेव्वि᳘श्श्वतः॑सोम᳘व्वृष्ण्य॑म्॥ भवाव्वाज॑स्यसंगुथे॥७॥ पय॑÷पृथि᳘व्व्याम्पय᳘ऽओष॑धीषुपर्यो॑दि᳘व्व्य᳘᳘न्तरिक्षे᳘पर्योधाः᳥॥पय॑स्वतीः᳥प्प्र᳘दिश॑÷सन्तु॒मह्य॑म्॥पयः स्नानम्॥८॥ अ᳘सौयस्ता᳘म्म्रोऽअरु᳘ऽउ᳘तब᳘ब्भ्रुः᳥सुम᳘ङ्गल॑÷॥ येचै॑नर्ठरू᳘द्राऽअ᳘भितो॑दि᳘क्षुश्श्रि᳘ताः᳥ स॑हस्र᳘शोवै॑षा᳘ᳩंहेड॑ईमहे॥९॥ दे᳘व्वस्य॑त्त्वासवि᳘तुः᳥प्प्र॑स᳘वे᳘श्श्विनो॑र्बा᳘हुभ्या॑म्पू॒ष्णोहस्ता॑ब्भ्याम्॥ शुद्ध
स्नानम्॥१०॥ दधिक्राव्णोइत्यस्यदधिक्राव्णऋषिः सुरभिर्देवताऽनुष्टुप्छन्दोदधिस्नानेविनियोगः॥द᳘धि᳘क्राव्णो॑ऽकारिषिञ्चि᳘ष्णोरश्व॑स्यव्वाजिनः᳥॑॥ सु॒र॒भिनो᳘मुखा॑कर᳘त्प्रण᳘ऽआयू॑ᳩंषितारिषत्॥ दधिस्नानम्॥११॥ अ᳘सौय॑ः᳥०॥१२॥ दे᳘वस्य॑त्त्वा०॥ शुद्धस्नानम्॥१३॥ शुकमसीत्यस्ययजुषः प्रजापतिर्ऋषिराज्यंदेवताऽनुष्टुप्छंदःआज्यस्नानेविनियोगः॥ शुक्रम॑सि᳘ज्ज्योति॑रसि᳘तेजा॑सि॥ घृतव॑ती᳘भुव॑नानामभि᳘श्श्रियो᳘र्व्वीपृ॒त्थ्वीम॑धु᳘दुधे॑सु᳘पेशसा॑॥ द्यावा॑पृथि᳘वीव्वरु॑णस्य᳘धर्म्म॑णा᳘विष्क॑भिते ऽअ᳘जरे᳘भूरि॑रेतसा॥१४॥ घृ॒तंघृ॑तपा
वानः᳥पिबत᳘व्वसाँ॑व्वसापावानः᳥पिबाता᳘न्तरि॑क्षस्यह᳘विर॑सि᳘स्वाहा॑॥ दिश॑÷प्प्र᳘दिश॑ऽआ᳘दिशो॑व्वि᳘दिश॑ऽउ᳘द्दिशो॑दि᳘ग्भ्यः᳥स्वाहा॑॥ घृतस्नानम्॥॥१५॥ अ᳘सौय॑०॥१६॥ दे᳘वस्य॑त्त्वा०॥ शुद्धस्नानम्॥१७॥ मधुव्वाताऽइा॑तेमंत्रस्यगौतमऋषिर्मधर्देवतागायत्रीछंदोमधुस्नाने विनियोगः॥ मधु॒व्वाता॑ऽऋताय᳘तेमधु॑क्षरन्ति᳘सिन्ध॑वः᳥॥ माद्धी॑र्न्नः᳤सुन्त्वोष॑धीः᳥॥१८॥ मधु॒नक्त॑मु॒तोषसो᳘मधु॑मुत्त्पार्थि॑व᳘ᳮरज॑÷॥ मधु॒द्यौर॑स्तुनः᳥पि᳘ता॥१९॥ मधु॑मान्नो᳘व्वन᳘स्प्पति᳘र्म्मधु॑मा२ँऽअस्तुसूर्य्य॑÷॥ माद्द्धी᳘ग्गा॑वो॑भवंतुनः᳥॥ मधुस्नानम्॥२०॥ अ᳘सौयः॑०॥२१॥
देवस्य॑त्त्वा०॥ शुद्धस्नानम्॥२२॥ स्वादुःपवस्वतिमंत्रस्य वेणुर्ऋषिःसोमात्त्मिकाशर्करादेवता जगतीछंदः शर्करास्नानेविनियोगः॥ स्वा᳘दुःप॑वस्वदि᳘व्व्यायुजन्न्म॑नेस्वा᳘दुरिन्द्रा॑यसु॒हवी॑तुनाम्म्ने॥ स्वा᳘दुर्म्मित्रा य᳘वरु॑णायव्वा᳘यवे᳘बृह᳘स्प्पत॑ये᳘मधु॑मा᳘२ँ॥ऽअदा॑ब्भ्यः॥२३॥ अ᳘पाᳩंर स᳘मुद्व॑॑यस᳘र्ठसूर्य्ये᳘सन्त॑र्ठस᳘महि॑तम्॥अ᳘पाᳩंरस॑स्य᳘योरस᳘स्तव्ँवो॑गृह्णाम्म्युत्त᳘ममु॑पया᳘मगृ॑हीतो᳘सीन्द्रा॑यत्त्वा᳘जुष्टं॑ गृह्णाम्ये᳘षते᳘ योनि᳘रिंद्रा॑
यत्वा᳘जुष्ट॑तमम्॥ शर्करास्नानम्॥२४॥ अ᳘सौयः॑०॥२५॥दे᳘वस्य॑त्त्वा०शुद्धस्नानम्॥२६॥ अद्व्य॑वोचदधिव᳘क्क्ताप्प्र॑थ᳘मोदैव्व्यो॑भि᳘षक्॥
अहींश्॑श्च᳘सर्वाञ्ज᳘म्भय᳘न्त्सर्व्वाश्चयातुधा᳘न्यो᳘ध᳘राची᳘ः᳥परा॑सुव॥ पुनरा चमनीयम्॥२७॥ अ᳘सौषो॑वुसर्प्॑पति᳘निल॑ग्ग्रीवो᳘व्विलो॑हितः᳥॥ उ᳘तैनं॑ गो᳘पाऽअ॑दृश᳘न्नदृ॑शन्नुदाहा᳘र्य्यः॑सदृ॒ष्टोमृ॑डयातिनः᳥॥ वस्त्रम्॥२८॥ परिधास्यैयशोधास्यैदीर्ग्घायुत्त्वायजरदष्टिरश्मि शतश्च जीवामिशरदःपुरूचीरायस्प्पोषमभिसंव्व्ययिष्ष्ये॥ वस्त्रेणकटिबन्धनम्॥२९॥ नमो॑स्तु॒नील॑ग्ग्रीवायसहस्रा᳘क्षाय॑मी᳘ढुषे॑॥ अथो᳘येअ॑स्य᳘सत्त्वा॑नो᳘हन्तेब्भ्यो॑कर᳘न्नम॑÷॥ यज्ञोपवीतमितिमंत्रस्यपरमेष्ठीऋषिस्त्रिष्टुप्छंदोलिंगोक्तादेवतायज्ञोपवीतपरिधानेविनियोगः॥ यज्ञोपवीतंपरमं
पवित्रंप्रजापतेर्यत्सहजं पुरस्तात्॥ आयुष्यमग्र्यंप्रतिमुंचशुभ्रंयज्ञो पवीतंबलमस्तुतेजः॥ यज्ञोपवीतम्॥३०॥ प्रमु॑ञ्च᳘धन्न्व॑न᳘स्त्वमु॒भयो᳘रार्त्न्यो᳘र्ज्ज्याम्॥ याश्श्च॑ते᳘हस्त᳘ऽइष॑व᳘ः᳥त्परा᳘ताभ॑गवोव्वप॥३१॥ गन्धोहैवास्यसुगन्धितेजनन्तघ्नत्सुगन्धि॑तेजनम्भवतिगन्धेनैवैनमेतत्समर्द्धयति॥ गंधः॥३२॥ अक्ष᳘न्नमी॑मदन्त᳘ह्यव॑प्प्रि᳘याऽअ॑धूषत॥ अस्तो॑षत᳘स्वभा॑नोवो᳘व्विप्प्रा᳘नवि॑ष्ठयाम᳘तीयोजा᳘न्न्वि॑न्द्रते᳘हरी॑॥अक्षताः॥३३॥ विज्ज्युन्धनु॑ः᳥कप᳘र्द्दिनो᳘व्विश॑ल्ल्योबाण॑वा२ँऽउ᳘त॥ अने॑शन्नस्य᳘याऽइष॑वऽआ॒भुर॑स्यनिष᳘ङ्गधिः᳤॥३४॥ या॑ः᳥फ᳘लिनी᳘र्य्या
ऽअ॑फ᳘लाऽअ॑पु॒ष्प्पायाश्श्च॑पुष्पिणी॑ः᳥॥ बृह᳘स्प्पति॑प्प्रसृता᳘स्तानो॑मुञ्च᳘न्त्वर्ठहसः᳥॥ पुष्पाणि॥३५॥ नमो॑बि᳘ल्म्मिने॑चकव᳘चिने॑च᳘नमो॑व्व᳘र्म्मिणे॑चव्वरू᳘थिने॑च᳘नम॑÷श्रु॒ताय॑चश्रुतसे᳘नाय॑च᳘ नमो॑ दु॒न्दु॒ ब्भ्या᳘यचाहन᳘न्न्या॑यच॥३६॥ अमृतोद्भवंश्रीवृक्षशङ्करस्यसदाप्रिय। तत्तेशम्भोप्रयच्छामिबिल्वपत्रं सुरेश्वर॥त्रिशाखैर्बिल्वपत्रैश्चअच्छिद्रैःकोमलैः शुभैः॥ तवपूजां करिष्यामि अर्चयेपरमेश्वर॥ गृहाणबिल्वपत्राणि सपुष्पाणि महेश्वर॥सुगन्धीनिभवानीशशिवत्वंकुसुमप्रिय॥ बिल्वपत्राणि॥३७॥ याते॑हे᳘तिम्मी॑र्ढुष्टम᳘हस्ते॑ब᳘भूव॑ते᳘धनु॑÷॥
तया᳘स्म्मान्न्वि᳘श्श्वत᳘स्त्वम॑य᳘क्ष्माया᳘परि॑भुज॥३८॥ धूर॑सि᳘धूर्व्व᳘धूर्व्व॑न्त᳘न्धूर्व्व᳘तंय्यो᳘स्म्मान्धूर्व्वति᳘तन्धू॑र्व्व᳘यंर्व्व᳘यन्धूर्वा॑मः᳥॥ दे᳘वाना॑मसि᳘व्वह्नि॑तम᳘र्ठसस्न्नि॑तम᳘म्पप्प्रि॑तम᳘ञ्ज᳘ष्ट॑तमन्देव᳘हूत॑मम्॥ धूपः॥३९॥ परि॑ते᳘धन्न्व॑नोहे᳘तिर᳘स्म्मान्न्वृ॑णक्तुवि᳘श्श्वत॑÷॥ अथो᳘ऽइषु॒धिस्तवा᳘रेऽअ᳘स्म्मन्निधे॑हि᳘तम्॥ ४० ॥ अ᳘ग्निर्ज्ज्योति᳘ज्ज्योर᳘ग्निः᳥स्वाहा᳘सूर्य्यो᳘ ज्ज्योति᳘र्ज्ज्योति᳘ः᳥ सूर्य्य᳘ः᳥स्वाहा॑॥ अ᳘ग्ग्निर्व्वर्च्चो᳘ज्ज्योति᳘र्व्वर्च्च᳘ः᳥स्वाहा॑॥सूर्य्यो᳘वर्च्चो᳘ज्ज्योति᳘र्व्वर्च्च᳘ः᳥स्वाहा॑॥ ज्ज्योति᳘ः᳥सूर्यः᳥᳘ सर्य्यो᳘ज्ज्योति᳘ः᳥स्वाहा॑॥ दीपः॥४१॥ अ᳘व᳘तत्त्य᳘धनु॒ष्ट्वर्ठसह॑स्राक्ष᳘शर्तेषुधे॥नि᳘शी
र्य्य॑शुल्यानां᳘मुखा॑शि᳘वोन॑÷सु॒मना॑भव॥४२॥ अन्न॑प᳘तेन्न॑स्यनोदेह्यनमी᳘वस्य॑शुष्मिण॑÷॥ प्रप्प्र॑दा᳘तार॑न्तारिष᳘ऽउर्ज्ज॑न्नोधेहि द्वि᳘पदे᳘चतु॑ष्पदे॥ नैवेद्यम्॥४३॥ अद्ध्य॑वोचदधिव᳘क्ताप्प्र॑थ᳘मोदैव्व्यो॑भि᳘षक्॥ अहीँ॑ श्च᳘सर्व्वा॑ञ्ज᳘म्भय᳘न्त्सर्व्वाश्श्चयातुधा᳘न्न्यो᳘᳘ध᳘राची᳘ः᳥परा॑सुव॥ आचमनम्॥४४॥ नम॑स्तुऽआयु॑धा᳘याना॑ततायधृ॒ष्णवै॑॥ उ᳘भाब्भ्यांमु॒तते᳘नमो॑बा᳘हुब्भ्या᳘न्तव᳘धन्व॑ने॥ मुखवासः॥४५॥ नम॑÷प᳘र्णाय॑चपर्णश᳘दाय॑च᳘नम॑ऽउद्गुरमा॑णायचाभिग्घ्न᳘तेच नम॑ऽआखिद᳘तेच॑ प्प्रखिद᳘तेच᳘नम॑ऽइषु॒कृद्भ्यौ॑धनु॒ष्कृद्भ्य॑श्चवो᳘नमो᳘नमो॑वः᳥ किरि᳘केब्भ्यो॑दे᳘वाना᳘र्ठ
हृद॑येब्भ्यो᳘नमो॑विचिन्न्व᳘त्केब्भ्यो᳘नम॑ऽआनिर्ह᳘तेब्भ्य॑÷॥ तांबूलम्॥४६॥ हि᳘र᳘ण्य᳘ग᳘र्ब्भः᳥सम॑वर्त्त᳘ताग्ग्रे॑भूतस्य॑जा᳘तः᳥पति᳘रेक॑ऽआसीत्॥ सदा॑धारपृथि᳘वीन्द्यामु॒तेमाङ्कस्म्मादे᳘वा॑यह᳘विषा॑व्विधेम॥ दक्षिणा॥४७॥ अथध्यानन्॥शुद्धस्फटिकसंकाशंत्रिनेत्रं पंचवक्त्रकम्॥ गंगाधरं दशभुजं सर्वाभरणभूषितम्॥४८॥ नीलग्रीवंशशांकांकनागयज्ञोपवीतिनम्॥ व्याघ्रचर्म्मोत्तरीयंचवरेण्यमभयप्रदम्॥४९॥ कमंडल्वक्षसूत्राभ्यामन्वितंशूलपाणिनम्॥ ज्वलंतं पिङ्गलजटाशिखामुद्योतकारिणम्॥५०॥ अमृतेनाप्लुतंहृष्टमुमादेहार्द्धधारिणम्॥
दिव्यासिंहासनासीनं दिव्यभोगसमन्वितम्॥५१॥ दिग्देवतासमायुक्तंसुरासुरनमस्कृतम्॥ नित्यंचशाश्वतं शुद्धं ध्रुवमक्षरमव्ययम्॥ सर्वव्यापिनमीशानमेवंवैविश्वरूपिणम्॥ गौरीं चतुर्भुजां चंडींत्रिनेत्रां मुकुटोज्ज्वलाम्॥ पद्मदर्पणहस्तांचवरदाभयहस्तकाम्॥ दिव्यवस्त्रपरीधानां दिव्यालंकारभूषिताम्॥ प्रसन्नवदनां ध्यायेच्छिवोत्संगे तुवामतः॥ एवंध्यात्वाद्विजः सम्यक्ततोयजनमारभेत्॥५२॥ पुष्पोदकेन तर्प्पयेत्॥ ॐ भवंदेवं तर्प्पयामि॥१॥ ॐ शर्वंदेवंतर्प्पयामि॥२॥ ॐ ईशानंदेवं तर्प्पयामि॥३॥ ॐ पशुपतिं देवं तर्प्पयामि॥४॥
ॐरुद्रंदेवंतर्प्पयामि॥५॥ ॐ उग्रंदेवंतर्प्पयामि॥६॥ ॐ श्रीमंदेवंतर्प्पपयामि॥७॥ ॐ महांतंदेवंतर्पयामि॥८॥ ॐ देवदेवंतर्प्पयामि॥९॥ ॐ ज्येष्ठायनमः॥ पुनराचमनीयम्॥१॥ ॐ श्रेष्ठायनमः॥ मधुपर्कः ॥२॥ मधुपर्कंगृहाणेशसर्वदामधुपर्कपः॥ मधुपर्कप्रदानेन प्रीतोभवमहेश्वर॥२॥ ॐ कालाय नमः॥ गंधः॥३॥ ॐकलविकरणायनमः।पुष्पाणि॥४॥ ॐ सर्वभतदमनायनमः॥ धूपः॥५॥ ॐमनोन्मनायनमः॥ दीपः॥६॥ ॐ भवोद्भवाय नमः॥ नैवेद्यम्॥७॥ अथाष्टौ पुष्पाञ्जलयः॥ॐभवाय देवाय नमः॥१॥ ॐ शर्वाय देवाय
नमः॥२॥ ॐईशानायदेवाय +नमः॥३॥ ॐपशुपतयेदेवायनमः॥४॥ ॐरुद्रायदेवायनमः॥५॥ ॐउग्रायदेवायनमः॥६॥ ॐभीमायदेवायनमः॥७॥ ॐमहतेदेवायनमः॥८॥ ॐ भवस्यदेवस्य पत्न्यैनमः॥१॥ ॐशर्वस्य देवस्य पत्न्यै नमः॥२॥ॐईशानस्य देवस्य पत्न्यै नमः॥३॥ ॐपशुपतेर्देवस्य पत्न्यै नमः॥४॥ ॐरुद्रस्यदेवस्य पत्न्यै नमः॥५॥ ॐ उग्रस्य देवस्य पत्न्यै नमः॥६॥ ॐभीमस्य देवस्य पत्न्यै नमः॥७॥ ॐमहतो देवस्य पत्न्यै नमः॥८॥ अघोरेभ्योथघोरेभ्योघोरघोरतरेभ्यः॥ सर्वेभ्यः सर्वशर्वेभ्यो नमस्तेस्तुरु
द्ररूपेभ्यः॥१॥ ॐ तत्पुरुषाय विद्महे महादेवाय धीमहि॥ तन्नो॑रुद्रःप्प्रचो᳘दयात्॥२॥ ॐशर्वायक्षितिमूर्त्तयेनमः॥१॥ ॐ भवायजल मूर्त्तयेनमः॥२॥ ॐ रुद्रायाग्निमूर्त्तयेनमः॥३॥ ॐ उग्रायवायुमूर्त्तयेनमः॥४॥ ॐ भीमायाकाशमूर्त्तये नमः॥५॥ ॐ पशुपतयेयजमानमूर्त्तयेनमः॥६॥ ॐ महादेवायसोममूर्त्तयेनमः॥७॥ ॐ ईशानायसूर्य्यमूर्त्तयेनमः॥८॥ एवंसंपूज्य ततः सहस्रघटैः स्नपनम्॥ ॐ नमः शिवायेतिजपम्॥ ॐ अस्य श्रीषडक्षरशिवमंत्रस्यवामदेवऋषिः पक्तिंश्छंदः सदाशिवोदेवता पुरुषार्थचतुष्टयसिद्ध्य
र्थेजपेविनियोगः॥ वामदेवायऋषये नमः शिरसि॥१॥ पंक्तिच्छंदसे नमोमुखे॥२॥ सदाशिवायदेवतायै नमः हृदये॥३॥ चतुर्विधपुरुषार्थसिद्ध्यर्थे जपे विनियोगः इति कृतांजलिर्वदेत्॥ ॐ हृदयायनमः॥१॥ न शिरसे स्वाहा॥२॥ मः शिखायै वषट्॥३॥ शि कवचायहुम्॥४॥ वा नेत्रत्रयाय वौषट्॥५॥ य अस्त्राय फट्॥६॥ स्तोत्रंपठेत्॥ओंकारंबिंदुसंयुक्तंनित्यंध्यायंतियोगिनः॥ कामदंमोक्षदंचैव ओंकारायनमोनमः॥१॥ नजातिर्नमृतिर्यस्यक्षयोयस्य न विद्यते॥ नमंतिदेवतास्सर्वानकारंतंनमाम्यहम्॥२॥ महादेवंमहावक्त्रं महाध्यानपरायणम्॥ महापापहरं देवं मकारंतं नमाम्यहम्॥३॥ शि
वात्परतरोनास्तिशिवशास्त्रेषुनिश्चयः॥ शमंतिसर्वपापानिशकारंतंनमाम्यहम्॥४॥ वाहनं वृषभो यस्य वासुकिः कंठभूषणम्॥ वामेशक्तिधरं देवंवकारं तं नमाम्यहम्॥५॥ यत्र यत्र स्थितो देवः सर्वव्यापी महेश्वरः॥योगुरुः सर्वदेवानां यकारंतंनमाम्यहम्॥६॥ इदंषडक्षर स्तोत्रंप्रातरुत्थाययः पठेत्॥ मुच्यते सर्वपापेभ्यः शिवलोकंसगच्छति॥७॥ इति षडक्षरस्तोत्रम्॥ हिरण्यगर्ब्भःसमवर्तताग्ग्रेभूतस्यजातः पतिरेकऽआसीत्॥ सदाधारपृथिवीन्द्यामुतेमाङ्कस्म्मै देवाय हविषाविधेम॥१॥ आरात्रिपार्थिवर्ठरजःपितुरप्प्रायिधामभिः॥ दिवःस
दाᳩंसिबृहतीव्वितिष्ठसऽआत्त्वेषव्वर्त्ततेतमः॥२॥ यज्ञेनयज्ञमयजन्तदेवास्तानिधर्माणिप्रथमान्यासन्॥ तेहनाकंमहिमानः सचंतयत्रपूर्वेसाध्याः संतिदेवाः॥१॥ ॐराजाधिराजायप्रसह्यसाहिने॥ नमोवयंवैश्रवणायकुर्महे॥१॥ समेकामान्कामाकामायमह्यम् कामेश्वरीवैश्रवणो ददातु॥२॥ कुबेरायवैश्रवणाय महाराजायनमः॥ॐ स्वस्ति साम्राज्यं भौज्यं स्वाराज्यं वैराज्यं पारमेष्ठ्यंराज्यं माहाराज्यमाधिपत्यमयं समंतपर्यायी स्यात् सार्वभौमःसार्वायुध (ष) आंतादापरार्धात् पृथिव्यै समुद्रपर्यंताया एकराडिति॥तदप्येष श्लोकोऽभिगीतो मरुतः परिवेष्टारो मरुत्तस्यावसन् गृहे॥
आविक्षितस्य कामप्रेर्विश्वेदेवाः सभासद इति॥॥॥ॐ अग्निर्देवताव्वातोदेवतासूर्योदेवताचंद्रमादेवता वसवोदेवतारुद्रोदेवतादित्यादेवतामरुतोदेवताविश्वेदेवादेवताबृहस्पतिर्देवतेंद्रो देवता वरुणोदेवता॥१॥ मानो॑मुहान्त॑मु॒तमानो॑ऽअर्ब्भ᳘कम्मान᳘ऽउक्ष॑न्त॑मु॒तमान॑ऽउक्षि᳘तम्॥ मानो॑व्वधीः᳥पि᳘तर॒म्मोतमा᳘तर॒म्मान॑÷प्प्रि᳘यास्त᳘न्न्वो᳘रु᳘द्ररीरिषः᳥॥१॥ मान॑स्ते᳘केतन॑ये᳘मन᳘ऽआयु॑षि᳘मानो᳘गोषु॒मानो᳘ऽअश्वे॑षुरीरिषः॥मानो॑व्वी᳘रान्रु॑द्रभा᳘मिनो॑व्वधीर्ह᳘विष्म्म॑न्तुः᳣ सद᳘मित्वा॑हवामहे॥॥ इति वेदोक्तशिवार्चनम्॥॥॥
॥श्रीगणेशायनमः॥॥ ॐ नमोमृत्युञ्जयाय॥ नंदिकेश्वरउवाच॥ कैलासस्योत्तरे शृङ्गं शुद्धस्फटिकसन्निभे॥ तमोगुणविहीनेतुजरामृत्युविवर्जिते॥१॥ सर्वतीर्थास्पदाधारेसर्व्वज्ञानकृतालये॥ कृतांजलिपुटोब्रह्माध्यानशीलः सदाशिवम्॥२॥ पप्रच्छप्रणतोभूत्वाजानुभ्यामवनिंगतः॥ सर्वार्थसम्यगाधारं ब्रह्मालोकपितामहः॥३॥ ब्रह्मोवाच॥॥ केनोपायनदेवेशचिरायुर्लोमशोऽभवत्॥ तन्मेब्रूहिमहेशानलोकानां हितकाम्यया॥४॥ श्रीसदाशिवउवाच॥ शृणुब्रह्मन्प्रवक्ष्यामिचिरायुर्मुनिसत्तमः॥ संजातः कर्म्मणायेनव्याधिमृत्युविवर्जितः॥५॥ तस्मिन्नेकार्णवेघोरेसलिलौघपरिप्लुते॥ कृतान्तभयनाशा यस्तुतोमृत्युंजयःशिवः॥६॥ तस्य संकीर्तनान्नित्यंमुनिर्मृत्युविवर्जितः॥ तमेवकीर्तयब्रह्मन्मृत्युंजेतुंनसंशयः॥ लोमशउवाच॥ ॐ देवाधिदेवदेवेशसर्वप्राणभृतांवर॥ प्राणिनामपिनाथस्त्वंमृत्युंजयनमोऽस्तुते॥८॥ देहिनांजीवभूतोऽसिजीवो जीवस्य कारणम्॥जगतांरक्षकस्त्वंवैमृत्युंजयनमोऽस्तुते ९ हिमाद्रिशिखराकारसुधावीचिमनोहर॥पुण्डरीक परंज्योतिर्मृत्युंजयनमोऽस्तुते १०ध्यानाधारमहाज्ञानसर्वज्ञानैककारण॥ परित्रातासिलोकानांमृत्युंजयनमोऽस्तुते ११॥ निहतायेनकालेनसदेवासुरमानुषाः॥
गन्धर्वाप्सरसश्चैवसिद्धविद्याधरास्तथा॥१२॥ साध्याश्चवसवोरुद्रास्तथाश्विनिसुतावुभौ॥ मरुतश्चदिशोनागाः स्थावराजङ्गमास्तथा॥१३॥ जितः सोऽपित्वयाध्यानान्मृत्युंजयनमोऽस्तुते॥१४॥ येध्यायंतिपरांमूर्तिंपूजयंत्यमराधिप॥ नतेमृत्युवशंयांतिमृत्युंजयनमोऽस्तुते॥१५॥ त्वमोंकारोऽसिवेदानां देवानां च सदाशिवः॥आधारशक्तिः शक्तीनां मृत्युंजयनमोऽस्तुते॥१३॥ स्थावरेजंगमेवापियावत्तिष्ठतिमेदिनी॥ जीवत्वित्याहलोकोऽयं मृत्युंजयनमोऽस्तुते १७सोमसूर्याग्निमध्यस्थव्योमव्यापिन्सदाशिव॥ कालत्रयमहाकालमृत्युंजयनमोऽस्तुते १८ प्रबुद्धे चाप्रबुद्धं च त्वमेव सृजसे जगत्॥ सृष्टिरूपेणदेवेशमृत्युंजयनमोऽस्तुते॥१९॥ व्योम्नित्वंव्योमरूपोऽसितेजः सर्वत्रतेजसि॥ प्राणिनांज्ञानरूपोऽसिमृत्युंजयनमोऽस्तुते॥२०॥जगज्जीवोजगत्प्राणःस्रष्टात्वंजगतः प्रभुः॥कारणंसर्वतीर्थानां मृत्युंजयनमोऽस्तुते॥२१॥ नेतात्वमिंद्रियाणांच सर्वज्ञानप्रबोधकः॥ सांख्ययोगश्च हंसश्चमृत्युंजयनमोऽस्तुते॥२२॥ रूपातीतः सुरूपश्च पिंडस्थपदमे वच॥ चतुर्युगकलाधारमृत्युंजयनमोऽस्तुते॥२३॥ रेचकेवह्निरूपोऽसिसोमरूपोऽसिपूरके॥ कुम्भकेशिव रूपोऽसिमृत्युंजयनमोऽस्तुते॥२४॥ क्षयं करोषि पापानां पुण्यानामपिवर्धनम्॥ हेतुस्त्वं श्रेयसान्नित्यंमृत्युं
जयनमोऽस्तुते॥२५॥ सर्वमायाकलातीतसर्वेद्रियपरावर॥ सर्वेद्रियकलाधीशमृत्युंजयनमोऽस्तुते॥२६॥ रूपंगंधोरसःस्पर्शःशब्दसंस्कारएवच॥ त्वत्तःप्रकाशएतेषांमृयुंजयनमोऽस्तुते॥२७॥ चतुर्विधानांसृष्टीनांहेतुस्त्वंकारणेश्वरः॥ भावाभावपरिच्छिन्नमृत्युंजयनमोऽस्तुते॥२८॥ त्वमेकोनिष्कलोलोकेसकलंभुवनत्रयम्॥ अतिसूक्ष्मातिरूपस्त्वंमृत्युंजयनमोऽस्तुते॥२९॥ त्वं प्रबोधस्त्वमाधारस्त्वद्बीजं भुवनत्रयम्॥ सत्वंरजस्तमस्त्वंहिमृत्युंजयनमोऽस्तुते॥३०॥ त्वंसोमस्त्वंदिनेशश्चत्वमात्माप्रकृतेः परः॥ अष्टत्रिंशत्कलानाथमृत्युंजयनमोऽस्तुते॥३१॥सर्वेंद्रियाणामाधारः सर्वभूतगुणाशयः॥ सर्वज्ञानमयानंतमृत्युंजयनमोऽस्तुते॥३२॥ त्वमात्मासर्वभूतानांगुणानांत्वमधीश्वरः॥ सर्वानन्दमयाधारमृत्युंजयनमोऽस्तुते॥३३॥त्वंयज्ञःसर्वयज्ञानांत्वंबुद्धिर्बोधलक्षणा॥ शब्दब्रह्मत्वमोङ्कारोमृत्युंजयनमोऽस्तुते॥३४॥ श्रीसदाशिवउवाच॥॥ एवंसङ्कीर्तयेद्यस्तुशुचिस्तद्गतमानसः॥ भक्त्याशृणोतियोब्रह्मन्नसमृत्युवशोभवेत्॥३५॥ नतुमृत्युभयं तस्य प्राप्तकालं चलं घयेत्॥ अपमृत्युभयंतस्य प्रणश्यतिनसंशयः॥३६॥ व्याधयोनोपपद्यन्तेनोपसर्गभयं भवेत्॥ प्रत्यासन्नान्तरेकाले शतैकावर्त्तनेकृते॥३७॥ मृत्युर्नजायतेतस्यरोगान्मुंचतिनि
श्चितम्॥ पंचम्यांवादशम्यांवापौर्णमास्यामथापिवा॥३८॥ शतमावर्त्तयेद्यस्तुशतवर्षं सजीवति॥ तेजस्वीबलसम्पन्नोलभतेश्रियमुत्तमाम्॥३९॥ त्रिविधंनाशयेत्पापंमनोवाक्कायसम्भवम्॥अभिचाराणिकर्मणिकर्माण्याथर्वणानिच॥ क्षीयन्तेनात्रसंदेहोदुःस्वप्नंचविनश्यति॥४०॥ इदंरहस्यंपरमंदेवदेवस्यशूलिनः॥ दुःखप्रणाशनं पुण्यं सर्वविघ्नविनाशनम्॥४१॥ इति श्रीशिवब्रह्मसंवादे श्रीमृत्युंजयस्तोत्रं संपूर्णम्
॥श्रीसदाशिवार्पणमस्तु॥
<MISSING_FIG href="../books_images/U-IMG-172595960233.jpg"/>
इदं पुस्तकं मुम्बय्यां क्षेमराज–श्रीकृष्णदासश्रेष्ठिना स्वकीये “श्रोवेकटेश्वर”
स्टीम्–यन्त्रागारे मुद्रितम्। संवत् १९८३, शके १८४८.
कर्मकाण्डप्रयोगादि—ग्रन्थाः।
<MISSING_FIG href="../books_images/U-IMG-172595927934.jpg"/>
[TABLE]
[TABLE]
[TABLE]
<MISSING_FIG href="../books_images/U-IMG-172595410733.jpg"/>
पुस्तक मिलनेका पता—
[TABLE]
____________________________________________________
इस पुस्तकको खेमराज श्रीकृष्णदासने खेतपाडी७वीं गली खम्बाटालेन स्वकीय “श्रीवेङ्कटेश्वर"स्टीम्प्रेस बंबईमें अपने लिये छापकर यहीं प्रकाशित किया
[TABLE]
]