[[शिवस्तोत्रावली Source: EB]]
[
[TABLE]
प्रस्तावना
<MISSING_FIG href="../books_images/U-IMG-1725788542Screenshot2024-09-08145321.png"/>
ईषदूनं वर्षद्वयं जात यत्परमशिवभक्तैर्विद्वच्छ्रेष्ठैः प्रातस्स्मरणीयैर्मत्पितृचरणैर्निरतिशयभक्तिसहकारेणानल्पायासेन च काश्मीरनगरात् तुरीयाश्रमस्थस्योदासीनस्य श्रीमद्गोविन्दानन्दस्यातिप्रयत्नद्वारा संगृह्य सुप्रसिद्धस्य सी०आई० ईति सज्ञया राजसम्मानितस्य राजोपाधिभूषितस्य श्रीयुतपण्डितसूर्य्यकौलस्यातियोग्यस्य सूनोः काश्मीराधिपते प्रधानामात्यस्य कौलोपाह्णश्रीयुतपण्डितदयाकृष्णस्य परमसाहाय्येन च लेखयित्वाऽतिरमणीयस्यास्य ग्रन्थस्य मुद्रापणे प्रवृत्तैरभूयत। दुर्लभातिप्राचीनसंस्कृतग्रन्थाना लोके प्रचारणार्थं कृतोद्योगः श्रीयुतहरिदासगुप्तश्च ग्रन्थमिम कृपया स्वकीये “चौखम्भा–संस्कृत–सीरीसाख्ये” काव्यसंग्रहे मुद्रयित्वा प्रकाशयितुं स्वीकृतवान्। परन्त्वस्मद्भाग्यदोषात्कतिपयान्ये पत्राणि मुद्राप्य तातपादा मे इहलोकं परित्यज्य शिवैकतां गताः। आरब्धमुद्रणस्यास्यासाधारणभक्तिरसपूर्णस्यास्मत्पित्रा परमसमादृतस्य चास्य ग्रन्थस्य मुद्रण यथाकथञ्चित् समापनीयमेवेति मत्वात्यल्पबुद्धिरप्यहमत्र समापनकार्ये उद्युक्तोऽभवम्। देवादिदेवस्य श्रीकांशीपते परमकारुणिकदृष्ट्या ग्रन्थोऽयं कथमप्यद्य समाप्तिमगमदित्यात्मनः कृतकृत्यता मन्ये। उपकृतोऽस्म्यस्य शोधने नित्यं वेदान्तानुशीलनशीलेन परमदेवनिष्ठेन साधुना पण्डितेन बापटोपाह्वश्रीयुतयज्ञेश्वरशास्त्रिणा। ग्रन्थकर्त्तुस्तदृीकाकर्तुश्च जीवनवृत्तान्तस्य जिज्ञासा भवेत् सहृदयानां पाठकजनानामिति मत्वात लब्धुं मत्प्रार्थनया मित्रं मे कृतविद्योऽतिसज्जनः काश्मीरराजधान्या विद्याविभागेऽध्यक्षपदप्राप्तः श्रीयुतजगदीशचन्द्रचट्टोपाध्यायः मासद्वयादधिकं तत्र प्रवृत्तोऽभूत्। किन्तु नानोपायेन बहुप्रयत्ने कृतेऽपि तस्यालाभादत्र न दातु समर्थोऽहमिति खिन्नोस्मि। आदर्शपुस्तकस्यैकस्यैव प्राप्तत्वान्मम चाल्पविद्यत्वान्मुद्रणदोषाच्च पुस्तकेऽस्मिन् भ्रान्तयोऽनेका भवेयुस्तास्सर्वाः शोधयित्वा ग्रन्थस्यास्य रसं गृहीत्वा भक्तजनाः समुल्लसन्तुतरां श्रम च मे सफलीकुर्वन्त्वित्यह प्रार्थये पाठकवृन्दानां कृपापात्रम्
श्रीकाश्यां‚
द्व्यधिकैकोनविंशतिशततमे कृष्टीयाब्दे।
श्रीकालीचरणमित्रः।
श्रीश्रीशिवस्तोत्रावली।
श्री उत्पलदेवाचार्य्य विरचिता।
ॐ तत्सत्
<MISSING_FIG href="../books_images/U-IMG-1725777655Screenshot2024-09-08121004111.png"/>
ॐ न ध्यायतो न जपतः स्याद्यस्याविधिपूर्वकम्।
एवमेव शिवाभासस्तं नमो भक्तिशालिनम्॥१॥
ॐ तत्सव। श्रीविघ्नहर्त्रे नमः।श्रीगुरवे शिवायोँ नमः। ॐ उद्धरत्यन्धतमसाद्विश्वमानन्दवर्षिणी। परिपूर्णा जयत्येका देवी चिच्चन्द्रचन्द्रिका।अत्यर्थितोस्मि बहुभिर्बहुशो भक्तिशालिभिः। व्याकरोमि मनाक् श्रीमत्प्रत्यभिज्ञाकृतः स्तुतीः॥ईश्वरप्रत्यभिज्ञाकारो वन्द्याभिधानं श्रीमदुत्पलदेवाचार्योऽस्मत्परमेष्ठी सततसाक्षात्कृतस्वात्ममहेश्वरः स्वं रूपं तथात्वेन पराम्रष्टुमर्थिजनानुजिघृक्षया संग्रहस्तोत्रजयस्तोत्रभक्तिस्तोत्राण्याह्निकस्तुतिसूक्तानि च कानिचिन्मुक्तकान्येव बबन्ध। अथ कदाचित्तानि तद्व्यामिश्राणि लब्ध्वा श्रीराम आदित्यराजश्च पृथक् पृथक् स्तोत्रशय्यायां न्यवेशयत्। श्रीविश्वावर्त्तस्तु विशँत्यास्तोत्रैः स्वात्मोत्प्रेक्षितनामभिर्व्यवस्थापितवानिति किल श्रूयने। तदेतानि संग्रहादिस्तोत्राणि सूक्तान्येव प्रसिद्धवार्तिकशय्योपारूढानि स्पष्टं व्याकुर्मः। मोक्षलक्ष्मीसमाश्लेषरसास्वादमयस्य परमेश्वरसमावेशस्यैव परमोपादेयतां दर्शयितुं परमेशस्वरूपाविभिन्नतत्समाविष्टभक्तजनस्तुतिक्रमेण स्तो–
त्रमाह न न्यायत इति। यस्यैवमेव मायीयोपायं विना शिवाभासः शिवरूपस्वात्मप्रथास्वात्तंभक्त्यैव समावेशमय्या शालिनं श्लाघमानं न तु तदतिरिक्तफलाकांक्षाकलङ्गितं भक्तजनं नमो भक्तिचमत्कारवशप्रथितशिवभट्टारकाभेदभक्तिमन्नतिमुखेन तदभिन्नशिवावेशमया भवाम इति यावत्। “एवमेवे"त्यनेन सूचितमलौकिकक्रमं दर्शयति “न ध्यायत” इत्यादिना। सर्वस्य हि ध्यानजप प्रमुखं ध्येयजप्यस्वरूपं नियताकारमेव प्रथते, भक्तिशालिनस्त्वनुपायमेव निराकारं सर्वाकारं चिदानन्दघनं शिवात्मस्वरूपं सर्वदा स्फुरति। अत एवाह “अविधिपूर्वक” मिति। विधीयत इति विधिरिज्याध्ययनादिः पूर्वः कारणं यत्र। तथाकृत्वा सर्वविधीनां संकुचितत्वादसंकुचितस्वरूपं प्रत्युपायत्वाभावात् तत्त्वसमावेशधनैरेव प्रतिभाप्रसादनप्रमुखमाप्यते। यथोक्तम् श्रीपूर्वशास्त्रे “न चात्र विहितम् किञ्चि"दित्यादि, “अकिञ्चिच्चिन्तकस्ये"त्यादि, गीतास्वपि " मय्यावेश्ये"त्यादिकं। ध्यानजपाभ्यां प्रकाशविमर्शस्वरूपाभ्यां पूजनहवनादि सर्वं संगृहीतमिति प्राधान्यात्तावेवेहोक्तौ॥१॥
आत्मा मम भवद्भक्तिसुधापानयुवाऽपि सन्।
लोकयात्रारजोरागात्पलितैरिव धूसरः॥२॥
“आत्मे"ति। हे महेश्वर ममात्मा जीवो भवद्भक्तिसुधापानेन युवा समुत्तेजितसहजौजःप्रकर्षोऽपि सल्ँलोकयात्रयैव रजसा लोकव्यवहारधूल्या कृतो यो राग उपरागस्ततो हेतोर्यानि पलितानि जराप्रकारास्तैर्धूसरो विच्छाय इव न तु वस्तुवृतेन, भक्तिसुधापानेन नित्यतरुणीकृतत्वात्, यथा च तरुणस्य धूलिधूसरतया सञ्जातपलितमिव दृश्यमानं नान्तर्म्लानि मनागण्या–
दधाति अपि तु विनोदहासरसचमत्कारमेव पुष्णाति तथा लोकव्यवहारो ममेति रूपकोपमया ध्वनति। पूर्वश्लोके आमन्त्रणपदाभावाद्भवद्भक्तीति न सङ्गतमेवेति कथमियँ स्तोत्रशय्येति श्रीविश्वावर्त एव प्रष्टव्यः वयं तु सूक्तव्याख्यानोद्यताः॥२॥
लब्धत्वत्संपदां भक्तिमतां त्वत्पुरवासिनाम्।
सञ्चारो लोकमार्गेऽपि स्यात्तयैव विजृम्भया॥३॥
“लब्धत्व"दिति। ये समावेशमयप्रशस्तभक्तियुक्ताः अत एव लब्धत्वसंपदः त्वत्पुरे विश्वपूरके त्वत्स्वरूपे वसन्ति तच्छीलाः तेषां लोकमार्गेऽपि यः सञ्चारो व्यवहारः स तयैव समावेशरसानन्दमय्या विजृम्भया विकस्वरतया स्यात् भवत्येव। अथ च ये लब्धलौकिकश्रियः त्वद्भक्ताः त्वन्मण्डलवासिनः ते सर्वे स्पृहणीयत्वात् सदा विभूतिमुदिता इति समासोक्त्या गमयति॥३॥
साक्षाद्भवन्मये नाथ सर्वस्मिन् भुवनान्तरे।
किं न भक्तिमतां क्षेत्रं मन्त्रः क्वैषां न सिद्ध्यति॥४॥
“साक्षाद्भव"दिति। भक्तिमतां व्याख्यातरूपभक्तिशालिनां सर्वत्र भुवनविषये किं न क्षेत्रं परसिद्धिसमुदयस्थानं क्व च एषां मननत्राणधर्मा मन्त्रो न सिद्ध्यति यतः साक्षादिति समावेशदृष्ट्या न कथामात्रेण भवन्मयमेव सर्व भुवनमेषाम्॥४॥
जयन्ति भक्तिपीयूषरसासववरोन्मदाः।
अद्वितीयापि अपि सदा त्वद्वितीया अपि प्रभो॥५॥
जयन्ति भक्ति इति। भक्तिपीयूपरस एवासववरः उत्कृष्टं पानं तेन उद्गतहर्षाः ये ते जयन्ति सर्वोत्कर्षेण वर्तन्ते कीदृशाः
अद्वितीया असाधारणस्वरूपा अपि त्वद्द्वितीयाः त्वमेव द्वितीयस्तुल्यरूपो येषां अथ च त्वद्द्वितीया अपि भक्तिसमावेशेनात्यन्तमभेदासाधनत्वात्त्वमेव द्वितीयः प्रभुत्वेन परिशीलितो येषां तथभूता अपि अद्वितीयाः विश्वाभेदिनः। अद्वितीयाश्च कथं त्वद्द्वितीयाः त्वद्द्वितीयाश्च कथमद्वितीया इति विरोधच्छाया॥५॥
अनन्तानन्दसिन्धोस्ते नाथ तत्त्वं विदन्ति ते।
तादृशा एव ये सान्द्रभक्त्याऽऽनन्दरसाप्लुताः॥६॥
भक्त्यानन्दरसः समावेशानन्दप्रसरस्तेन प्लुता आर्द्राशयाः अत एव तादृशा इति अपरिमितानन्दरससमुद्रत्वात्त्वद्रूपसरूपाः तव तत्त्वं जानन्ति। यो हि यत्र विद्वान् स हि तद्वेत्त्येव॥६॥
त्वमेवात्मेश सर्वस्य सर्वश्वात्मनि रागवान्।
इति स्वभावसिद्धां त्वद्भक्तिं जानञ्जयेज्जनः॥७॥
त्वमेवात्मेश इति। सर्वस्तावदात्मने स्पृहयालुः वस्तुतस्तु त्वमेव चिद्रूपोऽस्यात्मा इति अतस्त्वय्यात्मनि स्वतः सिद्धा भक्तिः केवलं समावेशशक्त्या तां जानाति तज्जयेत् सर्वोत्कर्षेण वर्तत एव नियोगे लिङ्॥७॥
नाथ वेद्यक्षये केन न दृश्योऽस्येककः स्थितः।
वेद्यवेदकसंक्षोभेप्यसि भक्तैः सुदर्शनः॥८॥
नाथ वेद्यक्षय इति। अन्तर्मुखत्वावस्थायां सर्ववेद्योपशमे कस्य नाम स्वात्मरूपस्त्वं केवलो न स्फुरसि। भक्तैः पुन संसारपातेऽपि वेद्यवेदकसंक्षोभे असि त्वं(सुदर्शनः) सुखेन दृश्यसे समावेशकाष्ठाधिवासितैर्हि सततमेतैः “भोक्तैव भोग्यरूपेण सदा सर्वत्र संस्थित” इति नीत्याशिवमयमेव विश्वमीक्ष्यते। वेद्यविलापनप्रया—
सव्युदासाय सुशब्दः। तदुक्तं श्रीपूर्वशास्त्रे “मोक्षोपायमनायासलभ्य"मिति॥८॥
अनन्तानन्दसुरसी देवी प्रियतमा यथा।
अवियुक्तास्ति ते तद्वदेका त्वद्भक्तिरस्तु मे॥९॥
अनन्तानन्द इति। उपमाश्लेषोक्त्या परमेश्वरसाम्यमाशास्ते। भक्तिपक्षे देवी द्योतमाना एका फलाकांक्षाविरहिता। अपरत्र क्रीडादिशीला परैव शक्तिः। अहं भक्त्या अवियुक्तः स्यामिति वक्तव्ये मम अवियुक्तास्तु इति भक्ति प्रति प्रेमप्रसरः प्रकाशितः॥९॥
सर्व एव भवल्लाभहेतुर्भक्तिमतां विभो।
संविन्मार्गोऽयमाह्लाददुःखमोहैस्त्रिधा स्थितः॥१०॥
सर्व एव भवल्लाभ इति। व्याख्यातप्रकृष्टभक्तिशालिनां अयमाह्लाददुःखमोहैरुपलक्षितो लोके यः संविन्मार्गः नीलपीतादिबोधरूपः पन्थाः स्थितः स सर्व एव त्वत्प्राप्तिहेतुः। वेद्यसोपाननिमज्जनक्रमेण परमवेदकभूमिलाभात्॥१०॥
भवद्भक्त्यमृतास्वादाद्बोधस्य स्यात्परापि या।
दशा सा मां प्रति स्वामिन्नासवस्येवशुक्तता॥११॥
हे स्वामिन् त्वच्छक्तिपातसमावेशमयभक्त्यानन्दास्वादमना साद्य बोधस्य परा देहपातप्राप्या प्रकृष्टाऽपि या शान्तशिवपदात्मा दशा स्यात् कैश्चित् सम्भाव्यते सा तैः सम्भाव्यमाना मां प्रति आसवस्य यथा शुक्तता पर्युषितता तथा भातीति यावत्। यतस्तैर्भक्त्यमृतमनास्वाद्यैव शुक्तीकृतं। यैः पुनरास्वाद्यते तैः स्वचमत्कारानन्दविश्रान्तीकृतत्वात्काशुक्ततासम्भावना। आ—
स्वादादिति ल्यब्लोपे पञ्चमी। अथ वा त्वद्भक्त्यमृतास्वादादपि परा मोक्षरूपा या काचिद्दशास्तीति सम्भाव्यते सा मह्यंन रोचते भक्त्यमृतास्वादस्यैव निरतिशयचमत्कारवत्त्वादित्येवं परमेतत्॥११॥
भवद्भक्तिमहाविद्या येषामभ्यासमागता।
विद्याऽविद्योभयस्यापि त एते तत्त्ववेदिनः॥१२॥
भवद्भक्ति इति। विद्याविद्योभयस्यापीति विद्याऽविद्यालक्षणस्योभयस्य तत्र शिवमन्त्रमहेश्वरमन्त्रेश्वरमन्त्रात्मनो विद्यारूपस्य विज्ञानाकलप्रलयाकलसकलतद्वेद्यात्मनश्च अविद्यारूपस्योभयस्यापि तत्त्वं विदन्ति येषां त्वद्भक्तिरेव महाविद्या प्रकर्षं प्राप्ता। महत्पदेन शब्दविद्यातोऽपि भक्तेरुत्कर्षात्तत्तत्त्ववेदकत्वम्॥१२॥
आमूलाद्वाग्लता सेयं क्रमविस्फारशालिनी।
त्वद्भक्तिसुधया सिक्ता तद्रसाढ्यफलाऽस्तु मे॥१३॥
आमूलाद्वागिति। मूलं पराभूमिः, क्रमविस्फारित्वं पश्यन्त्यादिप्रसरः, तद्रसो भक्त्यानन्दरस एव आढ्यँ स्फीतं त्वदात्म्यैक्यापत्तिलक्षणं फलं यस्याः॥१३॥
शिवो भूत्वा यजेतेति भक्तो भूत्वेति कथ्यते।
त्वमेव हि वपुःसारं भक्तैरद्वयशोधितम्॥१४॥
शिवोभूत्वा इति। “शिवो भूत्वा शिवं यजे"दिति यदाम्नायेषूच्यते तत्र देहपात एव शिवतेति ये मन्यन्ते तेषां सति देहे शिवीभावाभावाद्यजमानतानुपपत्ते स्वस्वरूपशिवसमावेशभक्तिशाल्येव यजनं जानातीतितात्पर्यम् अनेनैवाशयेनाह त्वमेव यतः
सारमुत्कृष्टं वपुः स्वरूपं अद्वयेन भेदशङ्काशङ्कुशतशातिना शोधितं निर्मलीकृत भक्तैरिति॥१४॥
भक्तानां भवदद्वैतसिद्ध्यै का नोपपत्तयः।
तदसिद्ध्यै निकृष्टानां कानि नावरणानि वा॥१५॥
व्याख्यातानां भक्तानां भवदद्वयसाधनाय का न युक्तयः यतो मूढैरुदीर्यमाणान्यपि शिवाद्वयदूपणानि दूषयत्स्वभावचिद्रूपशिवस्वरूपसिद्धि विना न कानिचित् स्युरिति युक्त्या भक्तानां साधनान्येव पर्यवस्यन्ति। निकृष्टानां तु भेदमयानां तदसिद्ध्यै शिवाद्वयसाधनाभावाय कानि नावरणानि तीक्ष्णतमयुक्त्यस्त्राण्यपि समावेशरसविप्रुषोऽप्यनभिज्ञत्वादसञ्चेत्यमानानि महान्धकारपातयितृृण्येव॥१५॥
कदाचित्क्वापि लभ्योऽसि योगेनेतीश वञ्चना।
अन्यथा सर्वकक्ष्यासु भासि भक्तिमतां कथम्॥१६॥
कदाचिदिति। कदा चित् कस्यां चित् समाधिदशायां,क्वापि हृदयचक्रादौ, योगेन चित्तवृत्तिनिरोधेन, ईश स्वामिन्,असि त्वं लभ्य इत्येषा वञ्चना। अन्यथा समाधिव्युत्थानाद्यभिमतासु कक्ष्यासु कथं भक्तिमतां प्रकाशसे॥१६॥
प्रत्याहाराद्यसंस्पृष्टो विशेषोस्ति महानयम्।
योगिभ्योभक्तिभाजां यद्व्युत्थानेऽपि समाहिताः॥१७॥
विषयेभ्य इन्द्रियाणां प्रत्यावृत्यनियमनं प्रत्याहारः आदिशब्दाद्ध्यानधारणादयः तैरसंस्पृष्टः अकदर्थितः तन्निष्ठेभ्यो योगिभ्यो महानसामान्यः विशेष अतिशयो भक्तिभाजामस्ति य—
देते योग्यपेक्षया व्युत्थानाभिमतेऽपि समये समाहिताः “मय्यावेश्य मनो ये मा"मिति गीतोक्तनीत्यानित्ययुक्ताः॥१७॥
न योगो न तपो नार्चाक्रमः कोऽपि प्रणीयते।
अमाये शिवमार्गेऽस्मिन् भक्तिरेका प्रशस्यते॥१८॥
न योगो न इति। शिवमार्गे परे शाक्ते पदे अस्मिन्निति निरतिशये स्वानुभवैकसाक्षिके मायीयनियतयोगाद्युपायपरिपाटी न काचिदुपदिश्यते तस्याः मायामयत्वेन अन्धतमसप्रख्या यास्त्वत्र शुद्धविद्याप्रकाशातिशायिन्युपायत्वाभावात् भक्तिरेव प्रतिभाप्रसादनात्मा उक्तचरी प्रशस्यते उपायत्वेनोच्यते॥१८॥
सर्वतो विलसद्भक्तितेजोध्वस्तावृतेर्मम।
प्रत्यक्षसर्वभावस्य चिन्तानामापि नश्यतु॥१९॥
सर्वतोविलसदिति। अन्तर्बहिश्च विलसता जृम्भमाणेन भक्तितेजसा समावेशप्रकाशेन ध्वस्ता आवृति अख्यातिर्यस्य तत एव मायीयभूमिविस्मृतेः प्रत्यक्षभैरवमुद्राप्रवेशयुक्त्या आलोचनमात्रगोचरीभूताः सर्वे भावाः यस्य तस्य मम चिन्ताया विकल्पवृत्तस्य नामाऽपि अभिधानमपि नश्यतु नित्यमेव साक्षात्कृतपरभैरवस्वरूपानुप्रविष्टो भूयासमित्यर्थः॥१९॥
शिव इत्येकशब्दस्य जिह्वाग्रे वसतः सदा।
समस्तविषयास्वादो भक्तेष्वेवास्ति कोप्यहो॥२०॥
शिव इत्येक इति। उक्तेष्वेव भक्तेषु यो महाप्रकाशमयनिजस्वरूपपरामर्शात्मा शिव इत्येकः असामान्यः सदा शिवोस्ति अहो आश्चर्य तस्य शब्दमात्रस्याप्येककस्य विषयस्य परमानन्दव्याप्तिदायित्वात्समस्तविषयास्वादो जगदानन्दचमत्कार को—
ऽपि स्वानुभवसिद्धोऽस्ति एकत्र च शब्दलक्षणे विषये जिह्वाग्रवर्तिनि समस्तविषयास्वाद इति विरोधच्छाया॥२०॥
शान्तकल्लोलशीताच्छस्वादुभक्तिसुधाम्बुधौ।
अलौकिकरसास्वादे सुस्थैः को नाम गणयते॥२१॥
शान्तकल्लोल इति। शान्ता निवृत्ता विकल्पमयाः कल्लोला यत्र तथाभूते, संसारतापापूर्णत्वाच्छीते, विश्वप्रतिबिम्बाश्रयत्वादच्छे निर्मले, आनन्दविकासित्वात्स्वादौ, भक्त्यमृतसमुद्रे, अलौकिकरसास्वादे समावेशचमत्कारे, सुखेन तिष्ठन्ति सुस्था, तै भेदगलनात्को नाम गण्यते, तदा व्यतिरिक्तस्य कस्य चिदप्यप्रतिभासात्। सुखस्थिताः न किञ्चिद्गणयन्तीत्युचितैवोक्तिः॥२१॥
मादृशैः किं न चर्व्येत भवद्भक्तिमहौषधिः।
तादृशी भगवन्यस्या मोक्षाख्योऽनन्तरोरसः॥२२॥
मादृशैरिति। मादृशैः भक्तितत्त्वज्ञै, तादृशी इति अलौकिकी भवद्भक्तिरेव अभीष्टप्रदत्वान्महौषधि, किं न चर्व्येत किं न धार्येत विचारेणास्वाद्येत इति यावत्। कीदृशी। यस्याश्चर्वणपरामर्शानन्तरमेव जीवन्मुक्ताख्य अनन्तरः अव्यवहितो रसश्चर्वणानन्दः॥२२॥
ता एव परमर्थ्यन्ते सम्पदः सद्गिरीश याः।
त्वद्भक्तिरससम्भोगविस्रम्भपरिपोषिकाः॥२३॥
ता एव इति। सद्भिः भक्तिशालिभिः ता एवेति असमत्वत्समावेशमय्यः सम्पदः परं केवलमर्थ्यन्ते न तु अणिमाद्याः। कीदृश्यो याः त्वद्भक्तिरससम्भोगे भवत्समावेशामृतचमत्कारे विस्र—
म्भं स्वैरं स्वीकारं पुष्णन्ति। अत्र प्रियासम्भोगपोषिका एव सर्वस्य सम्पदोऽर्थनीया इत्यनुरणनव्यङ्ग्योपमाध्वनिः॥२३॥
चित्रं निसर्गतो नाथ दुःखबीजमिदं मनः।
त्वद्भक्तिरससंसिक्तं निःश्रेयसमहाफलम्॥२४॥
चित्रं निसर्ग इति। नाथ स्वामिन् इदं चित्रं दुःखकारणमिदं मनः सर्वस्य हेयं यदभिमतं तदेव त्वद्भक्तिरसायनेन सिक्तं परमानन्दमोक्षमहाफलम्। न हि कदाचिल्लोकं प्रति विषादेः मधुर आस्वादः अतस्त्वद्भक्तेरेवायमलौकिक क्रम इति ध्वनित इति शिवम्॥२४॥
इति श्रीमदीश्वरप्रत्यभिज्ञाकाराचार्यचक्रवर्तिवन्द्याभिधानोत्पलदेवाचार्यविरचिते भक्तिविलासाख्ये प्रथमस्तोत्रे महामाहेश्वरश्रीक्षेमराजविरचिता विवृति॥प्रथमम् १॥
ॐ तत्सत्
अथ सर्व्वात्मपरिभावनाख्यं द्वितीयं स्तोत्रम्।
अग्नीषोमरविब्रह्मविष्णुस्थावरजङ्गम्।
स्वरूप बहुरूपाय नमः संविन्मयाय ते॥१॥
अग्नीषोमरविभिः दाहाप्यायप्रकाशकारीच्छाक्रियाज्ञानरूपस्य शक्तित्रयस्य, ब्रह्मविष्णुभ्यामधिष्ठातृदेवतावर्गस्य, स्थावरजङ्गमाभ्यामधिष्ठितस्य प्रमेयप्रमातृराशेश्च स्वीकृतत्वाद्विश्वात्मनः आमन्त्रणमिदं स्वरूपेत्यन्तं। तेन अग्नीषोमरविब्रह्मविष्णुस्थावरजङ्गमस्वरूप हे परमेश्वर। पञ्चभूतानि जङ्गमानामपि भूतदेहत्वात्। एवं च अग्निसोमसूर्यस्थावरजङ्गम अष्टमूर्तितया। ब्रह्मविष्णूपल—
क्षिताऽशेषाधिष्ठातृतया विश्वमयत्वम्। अत एव बहुरूपायेत्युक्तम्। एवं विश्वरूपत्वेऽपि प्रधानमस्य स्वरूपमाह संविन्मयायेति। एतदेव हि संविन्मयत्वं यत्स्वातन्त्र्योल्लासिताशेषविश्वनिर्भरत्वम्॥१॥
विश्वेन्धनमहाक्षारानुलेपशुचिवर्चसे।
महानलाय भवते विश्वैकहविषे नमः॥२॥
विश्वेन्धन इति। भवते महानलाय परमप्रमातृवह्नये नमः। कीदृशाय। विश्वस्य भेदराशेरिन्धनरूपस्य सम्बन्धि यन्महाक्षारं भस्म तत्संहारशेषः संस्कारः, तेन यदनुलेपनम् संस्कारसंहारेणापि प्रमात्रुत्तेजनं, शुचि शुद्धमद्वयरूपं वर्चस्तेजो यस्य तस्मै। अथ “शुचिर्नामाग्निरुदितः संघर्षात्सोमसूर्ययो”रित्यागमिकभाषया शुचिनाम्नेतेजसे। विश्वमेकं हविः यस्येत्यनेन अत्यन्तदीप्तत्वमुच्यते। श्रीमतङ्गाद्यागमस्थित्यारहस्यचर्यार्थस्यात्र सूचनाद्विरोधच्छायाऽपि॥२॥
परमामृतसान्द्राय शीतलाय शिवाग्नये।
कस्मै विद्विश्वसंप्लोषविषमाय नमोऽस्तु ते॥३॥
परमामृत इति। चिदानन्दघनत्वात्परमामृतसान्द्रत्वम्। भवतापहारित्वाच्छीतलत्वम्। अग्नेश्च कथमार्द्रत्वशीतलत्वे इति विरोधाभासच्छाया। कस्मै चिदित्यालौकिकस्वरूपाय॥३॥
महादेवाय रुद्राय शङ्कराय शिवाय ते।
महेश्वरायाऽपि नमः कस्मै चिन्मन्त्रमूर्तये॥४॥
देवः सृष्ट्यादिक्रीडापरः विश्वोत्कर्षशालितया विजिगीषुः अशेषव्यवहारप्रवर्तकः द्योतमानः सर्वस्य स्तोतव्यो गन्तव्यश्च दीव्यतेः क्रीडाद्यर्थत्वात्। स च महान् ब्रह्मादीनामपि, सर्गादि—
हेतुत्वात् विश्वस्य। चित्पदे रोदनाद्द्रावणाच्च रुद्र। पूर्णाऽहन्तापरामर्शमयत्वान्मन्त्रमूर्ति॥४॥
नमो निकृत्तनिःशेषत्रैलोक्यविगलद्वसा।
ऽवसेकविषमायाऽपि मङ्गलाय शिवाग्नये॥५॥
नमो निकृत्त इति। निकृत्तं अख्यातिलक्षणान्मूलात्प्रभृति खण्डशः कृतं भवाभवातिभवलक्षणं यत्र्रैलोक्यं तत्संबन्धिनी बोधानलोद्दीपिनी आन्तररससाररूपा या वसा तत्कृतो योऽवसेकः आहुतिः ततो विषमायात्यन्तं जाज्वल्यमानाय अत एव संसारामङ्गल्यपरिहृतिप्रदत्वान्मङ्गलाय शिववह्नये नमः।शरीरप्राणादिपरिमितप्रमातृपदं तत्रैव समावेशयाम इत्यर्थ। सर्ववसावसेकविषमं श्माशानिकाग्निं कथं मङ्गल इति विरोधच्छाया॥५॥
समस्तलक्षणायोग एव यस्योपलक्षणाम्।
तस्मै नमोऽस्तु देवाय कस्मै चिदपि शम्भवे॥६॥
समस्तलक्षणेति। समस्तानां लक्षणानामभिज्ञानानां च तथाऽधिगमहेतूनामुच्चारकरणध्यानादीनां य अयोगः असम्बन्धः स एव यस्य उप इत्यात्मसमीपे लक्षणं हृदयङ्गमीकरणं समस्तचिन्ताविस्मरणस्यैव तत्प्राप्तिहेतुत्वात् अत एव कस्मै चिदिति संवृतिवक्रतया स्वात्मविस्फुरद्रूपायेति ध्वनति॥६॥
वेदागमविरुद्धाय वेदागमविधायिने।
वेदागमसतत्त्वाय गुह्याय स्वामिने नमः॥७॥
वेदागमइति। निशेषनियमयन्त्रणात्रोटनालभ्यत्वाद्वेदविरुद्धः यश्चयद्विरुद्ध स कथं तद्विधत्ते तस्य च सतत्त्वरूपः चित्ता—
र्थस्तु स्वातन्त्र्याज्जगदुत्तिष्ठापयिषुर्वेदं विधत्ते वेदान्तदृष्ट्या तत्परमार्थरूपश्च अत एव सर्वस्य अविषयत्वाद्गुह्यः॥७॥
संसारैकनिमित्ताय संसारैकविरोधिने।
नमः संसाररूपाय निःसंसाराय शम्भवे॥८॥
मायादे क्षित्यन्तस्य संसारस्य एक एव निमित्तं तस्य विरोधी संहर्ता स एव। तथा संसाररूपक्त्या भाति न पुनश्चिद्रूपशिवव्यतिरिक्तं संसारस्य निजरूपं कि चित्। एवमपि संसारान्निषिक्रान्तं निःसंसारं तेनासंस्पृष्टरूपमिति विरोधाभासः॥८॥
मूलाय मध्यायाग्राय मूलमध्याग्रमूर्तये।
क्षीणाग्रमध्यमूलाय नमः पूर्णाय शम्भवे॥६॥
मूलायेति। विश्वस्य कारणत्वात्स्वरूपत्वाद्विश्रान्तिस्थानत्वाच्च मूलं मध्यमग्रं च। यथा पृथक् मूलादिरूपः तथा युगपदपि अक्रमानन्तविश्वरूपत्वात्। न चास्य स्वात्मनि मूलादि किञ्चिच्चिन्मात्रैकरूपत्वात्। अत एव सर्वसहत्वात्पूर्णः। विरोधाभासः प्राग्वत्॥९॥
नमः सुकृतसंभारविपाकः सकृदप्यसौ।
यस्य नामग्रहः तस्मै दुर्लभाय शिवाय ते॥१०॥
नम सुकृत इति। यस्य सकृदेव नामग्रहः असाविति लोकोत्तरः पूर्णविश्रान्तिप्रदत्वात्पुण्यराशे परिपाक। तस्मै दुर्लभायेति महायोगिगम्याय नमः॥१०॥
नमश्चराचराकारपरेतनिचयैः सदा।
क्रीडते तुभ्यमेकस्मै चिन्मयाय कपालिने॥११॥
नमश्चराचरा इति। कपालिव्रतित्वं यद्भगवति प्रसिद्धं तत्तत्त्वतो व्यनक्ति। चराचराकारा जङ्गमस्थावररूपाः ये परेताः परं चिन्मयस्वरूपं इताः प्राप्ताः। तद्विना च निर्जीवत्वादपि परेताः। तेषां निचयैः सदा युगपच्च क्रीडते तत्संयोजनवियोजनवैचित्र्यसहस्रविधायिने चिन्मयाय चित्परमार्थाय कपालिने निःशेषकपालयुक्ताय अस्थिशेषीभूतविश्वधारिणे नमः॥११॥
मायाविने विशुद्धाय गुह्याय प्रकटात्मने।
सूक्ष्माय विश्वरूपाय नमश्चित्राय शम्भवे॥१२॥
मायाविने इति। भेदोल्लासहेतुः स्वातन्त्र्यशक्तिः माया यस्यास्ति स चिद्रपत्वाद्विशुद्धः। मायावी व्याजी च कथं विशुद्ध इति विरोधाभासः। एवमन्यत्र। गुह्यः सर्वस्यागोचरः। प्रकटः प्रकाशघनस्वात्मरूपः। सूक्ष्मो ध्यानादिनिष्ठैरप्यलक्ष्यः। विश्वरूपः स्वातन्त्र्याद्गृहीतविश्वाकारः। अत एव चित्रो विचित्र आश्चर्यरूपश्च॥१२॥
ब्रह्मेन्द्रविष्णुनिर्व्यूढजगत्संहारकेलये।
आश्चर्यकरणीयाय नमस्ते सर्वशक्तये॥१३॥
ब्रह्मेन्द्र इति। ब्रह्मेन्द्रविष्णुभिः सृष्ट्यधिष्ठितिस्थितिकरैः कथमपि निर्वाहितत्वाद्यत् निर्व्यूढं संपन्नं जगत्। तस्य सर्वैः सन्धार्यमाणस्य संहारः क्रीडामात्रं यस्य। अत एव आश्चर्यकरणीयः सर्वशक्तिः ब्रह्मादीनामपि स्वकर्मण्येतदीयसंजिहीर्षाभावाभावमुखप्रेक्षित्वात् सर्वसामर्थ्ययुक्तो यस्तस्मै नमः॥१३॥
तटेष्वेव परिभ्रान्तैः लब्धास्तास्ता विभूतयः।
यस्य तस्मै नमस्तुभ्यमगाधहरसिन्धवे॥१४॥
तटेष्वेव इति। तेटष्वेव मन्त्रमुद्राचक्रभूमिकादिज्ञानेषु चिद्रसप्रसरबाह्यभूमिषु परिभ्रान्तैः। “पवनभ्रमणप्राणविक्षेपादिकृतश्रमाः कुहकादिषु ये भ्रान्ता भ्रान्तास्ते परमे पदे” इत्याम्नायस्थित्याअन्तःसारानासादनाद्भ्राम्यद्भिः। तास्ता इति भेदमय्योऽणिमादिका। अगाधहरसिन्धवे इति अपरिच्छेद्यान्तस्तत्वाय महेश्वरसमुद्राय। समुद्रे च तटेष्वेव ये भ्राम्यन्ति ते तन्मौक्तिकाद्याप्नुवन्ति, ये तु अन्तर्विक्षेपक्षमाः ते महानिर्वृतिप्रदममृतमप्यश्नन्तीति रूपकश्लेषेण ध्वनति॥१४॥
मायामयजगत्सान्द्रपङ्कमध्याधिवासिने।
अलेपाय नमः शम्भुशतपत्राय शोभिने॥१५॥
मायामय इति। माया चिन्मयत्वाख्यातिः सैव प्राकृतं रूपं यस्य जगतः तदेव सान्द्रः पङ्को घनः कर्दमः तन्मध्याधिवासिनेऽपि व्यापकत्वात्तद्व्याप्नुवतेऽपि अलेपाय शुद्धचिदेकरूपाय।शम्भुरेव शतपत्रं अनन्तशक्तिदलं तत्तत्सङ्कोचविकासधर्मकं कमलं तस्मै नमः। पङ्कमध्यस्थितेरप्यलेपता भगवतश्चिद्धनत्वेन तदसंस्पर्शादिति विरोधाभासः॥१५॥
मङ्गलाय पवित्राय निधये भूषणात्मने।
प्रियाय परमार्थाय सर्वोत्कृष्टाय ते नमः॥१६॥
मङ्गलायेति। मङ्गलेत्यादि स्पष्टं। सर्वोत्कृष्टायेति सर्वत्र योज्यं। येन येन मुखेन विचार्यते तेन तेनोत्तमत्वं सर्वोत्कृष्टत्वात्॥१६॥
नमः सततबद्धाय नित्यनिर्मुक्तिभागिने।
बन्धमोक्षविहीनाय कस्मै चिदपि शम्भवे॥१७॥
नमः सतत इति। भगवत एव बद्धमुक्ततयाऽवगमात्तथा—
त्वम् वस्तुतस्तु चिद्धनत्वात्तद्धीनत्वम्। विरोधाभासः पूर्ववत्। एवमुत्तरत्रापि॥१७॥
उपहासैकसारेस्मिन्नेतावति जगत्त्रये।
तुभ्यमेवाद्वितीयाय नमो नित्यसुखासिने॥१८॥
उपहासैक इति। तुच्छरूपत्वादुपहसनीयपरमार्थे एतावति अतिवितते जगत्त्रये भवाभवातिभवात्मनि।अद्वितीयाय असाधारणैकरूपाय नित्यसुखासिने आनन्दघनायोपादेयतमाय तुभ्यमेव नमः॥१८॥
दक्षिणाचारसाराय वामाचाराभिलाषिणे।
सर्वाचाराय शर्वाय निराचाराय ते नमः॥१९॥
दक्षिणाचारु इति। दक्षिणाचारो भैरवतन्त्रं अविपरीतानुष्ठानं च सारः सारत्वेनाभिमतो यस्य। वामाचारं वादितन्त्रं विपरीतक्रमं चाभिलषति यस्तस्मै। सर्व आचारो निजः परिस्पन्दो यस्य। निष्क्रान्ता आचारा यस्मात् आचारेभ्यश्च ध्यानपूजादिभ्यो निष्क्रान्तो यस्तस्मै। अथ च श्रीमदाचारनिराचाररूपं यन्मतक्रमादि शास्त्रार्थतत्त्वं तद्रूपाय नमः॥१९॥
यथा तथाऽपि यः पूज्यो
यत्र तत्राऽपि योऽर्चितः।
योऽपि वा सोऽपि वा योऽसौ
देवस्तस्मै नमोऽस्तु ते॥२०॥
यथा तथा इति। येन येन प्रकारेण यत्र क्वचिद्यत्किञ्चिदाचर्यते तत्र स्वात्मदेवताविश्रान्तिरूपा पूजा अनायासेनैव सिद्धा
तत्त्वविदामिति तात्पर्यम्। यत्तच्छब्दाःनियमव्युदासाय। यथागमः “यथालाभं प्रपूजयेदि”ति॥२०॥
मुमुक्षुजनसेव्याय सर्वसन्तापहारिणे।
नमो विततलावण्यवाराय वरदाय ते॥२१॥
मुमुक्षु इति। साधकानां मन्त्राणां प्राणत्वान्मुमुक्षुभिरेव समनन्तरोक्तयुक्त्या निर्यन्त्रणं सेवितुं शक्याय। सर्वेषां भेदमयानां सन्तापानां हारिणे अपहन्त्रे। विततेत्युक्तिः परमानन्दघनत्वेनातिस्पृहणीयत्वात्। वारः समूह “समूहनिवहव्यूहवारसङ्घातसञ्चया” इत्यमरः। वरदाय संविन्नैर्मल्यसारप्रसादप्रदाय॥२१॥
सदा निरन्तरानन्दरसनिर्भरिताखिल-।
त्रिलोकाय नमस्तुभ्यं स्वामिने नित्यपर्वणे॥२२॥
सदा निरन्तरानन्द इति। प्राग्वत्त्रिलोकस्यविश्वस्य स्वस्यानन्दरसेन पूरणात्स्वामिने इत्युचितोक्तिः। नित्यपर्व्वणे सदा विश्वपूरकरूपाय।पर्व पूरणे इत्यस्यप्रयोगः। सर्वश्च पर्वणि आनन्दरसनिर्भरितं निखिलं करोति॥२२॥
सुखप्रधानसंवेद्यसम्भोगैर्भजते च यत्।
त्वामेव तस्मै घोराय शक्तिवृन्दाय ते नमः॥२३॥
सुखप्रधानं यत् शक्तिवृन्दं संविद्देवीचक्नं, चमत्कारेणानन्दघनप्रमातृविश्रान्त्यासुखप्रधानसंवेद्यसंभोगै आनन्दसारविषयग्रासास्वादैः, त्वामेव भजते त्वय्येव विश्वमर्पयति। तस्मै घोराय सर्वसंहर्त्रे ते तव सम्बन्धिने नमः॥२३॥
मुनीनामप्यविज्ञेयं भक्तिसम्बन्धचेष्टिताः।
आलिङ्गन्त्यपि यं तस्मै कस्मै चिद्भवते नमः॥२४॥
मुनीनामिति। तपोयोगादिनिष्ठानां कपिलादीनामपि ज्ञातुमशक्यं। भक्तिसम्बन्धचेष्टिता समावेशरसानुविद्धव्यापाराः। आलिङ्गन्त्यपि दृढावष्टम्भयुक्त्या स्वसम्भोगपात्रं कुर्वन्त्यपि यं तस्मै कस्मै चित्स्वात्मनि स्फुरते नमः॥२४॥
परमामृतकोशाय परमामृतराशये।
सर्वपारम्यपारम्यप्राप्याय भवते नमः॥२५॥
परमामृत इति। परमानन्दरसस्य कोशो गञ्जमिव, अतस्तत्पूर्णत्वाद्राशिश्च, बहिरपि तन्मयत्वात्। सर्वस्य मायादेः पारम्यं परमत्वं प्रकाशमानता। तस्यापि पारम्यं आनन्दघनश्चमत्कारः शाक्तः समुल्लासः, तेन प्राप्याय॥२५॥
महामन्त्रमयं नौमि रूपं ते स्वच्छशीतलम्।
अपूर्वामोदसुभगं परामृतरसोल्वणम्॥२६॥
महामन्त्रमयेति। महामन्त्रमयं अकृत्रिमाहम्परामर्शमयं तव रूपं नौमि इति प्राग्वत्। स्वच्छं विश्वप्रतिबिम्बधारणात्। शीतलं संसारतापहारित्वात्। अपूर्वेण आमोदेन अलौकिकेन व्यापिपरिमलेन ह्लादिना स्वरूपेण। सुभगं स्पृहणीयं। परमामृतरसेन परमानन्देनोल्वणं बृंहितम्॥२६॥
स्वातन्त्र्यामृतपूर्णत्वदैक्यख्यातिमहापटे।
चित्रं नास्त्येव यत्रेश तन्नौमि तव शासनम्॥२७॥
स्वातन्त्र्या इति। स्वातन्त्र्यामृतेन सम्पूर्णा स्वतन्त्रताआनन्दघना या त्वदैक्यख्यातिः भवदभेदप्रथा सैव विश्वचित्रतन्तुव्याप्त्यामहापटः, तत्र विषये यत् शासनं, शास्यतेऽनेनेति कृत्वा त्वदुपदेशको य आगमः तं नौमि। यत्र विश्वमाश्चर्यमयं त्वदैक्यप्रथनसारेऽपि चित्रं नानारूपं नास्त्येव, त्वदैक्यख्यातिप्रतिपादन—
परत्वात्, चित्रमद्भुतं च नास्ति, अनुत्तरत्वादागमस्य सर्वसंभावनाभूमित्वात्, अथ च पटे स्थितं शासनमविचित्ररूपं चेति चित्त्रम्॥२७॥
सर्वाऽऽशङ्काशनिं सर्व्वाऽलक्ष्मीकालानल तथा।
सर्वाऽमगंल्यकल्पान्तं मार्गं माहेश्वरं नुमः॥२८॥
सर्वाशंकाइति। सर्वासामाशङ्कानां द्रव्यपूजामंन्त्रादिसङ्कीर्णत्वाद्युक्तानां विचित्रसंसारबीजभूतानां चित्तवृत्तिम्लानिदानां अशनिं स्वरूपध्वंसकं। आम्नायेऽपि च “शङ्कापि न विशङ्केत निश्शँकत्वमिदं स्फुट” मित्युक्तं। अलक्ष्मीणां अनानन्ददशानां कालानलं महादाहकं, सर्वामङ्गल्यानामशुभसूचकानां कल्पान्तं निःशेषेण नाशकं, माहेश्वरं मार्गं शाक्तं प्रसरं नुमः॥२८॥
जय देव नमो नमोऽस्तु ते
सकलं विश्वमिदं तवाश्रितम्।
जगतां परमेश्वरो भवान्
परमेकः शरणागतोऽस्मि ते॥२९॥
जयदेवेति। परमेकोस्मीति देहाद्यभिमानेन त्वन्मायाश क्तिक्लृप्तेन विश्वविभेदेन त्वत्तः पृथगिव कृतः,अत एव शरणमागतः। युक्तं चैतत् यतो विश्वमिदं तवाश्रितं चिन्मयत्वत्स्वरूपमग्नं, ततश्च जगतां भवानेव परमेश्वरः ब्रह्मादिभ्यः सदाशिवान्तेभ्यः उत्तम, अत एव हे देव क्रीडादिशील, जय देहाद्यभिमानमिममुदस्य स्वरूपेण प्रथस्व इति प्राग्वत्॥२९॥
इति श्रीमदुत्पलदेवाचार्यविरचितस्तोत्रावल्या सर्वात्मपरिभावनानामक द्वितीयस्तोत्रम्॥२॥
<MISSING_FIG href=”../books_images/U-IMG-1725934236758.png”/>
,
ॐ सदसत्त्वेन भावानां युक्ता या द्वितयी गतिः।
तामुल्लङ्घ्य तृतीयस्मै नमश्चित्राय शम्भवे॥१॥
ॐ सदसत्त्वेनेति। भावानां प्रमेयादीनां जन्मसत्तादिरूपतया प्राक्प्रध्वंसाभावादिरूपतया च द्वितयीरूपा द्वितयीयुक्ता यतस्ते भावाभावनीयाः सम्पादनीया, तामुल्लङ्घ्य उज्झित्वा यस्तृतीयः सदसत्ताभ्यामव्यपदेश्यत्वात्तुर्यादिवत्संख्ययैव व्यपदेश्य स्थितः, तस्मै चित्राय आश्चर्याय विश्वचित्राय नमः इति प्राग्वत्॥ १॥
आसुरर्षिजनादस्मिन्नस्वतन्त्रे जगत्त्रये।
स्वतन्त्रास्ते स्वतन्त्रस्य ये तवैवाऽनुजीविनः॥२॥
आसुरर्षि इति। जगत्त्रयं प्राग्वत्। सुरर्षिजनात् मरीच्यादिदेवर्षिजनात्। आ आङ् अभिविधौ। अस्वतन्त्रत्वं सृष्टिसंहारगोचरत्वं। स्रष्ट्रादिरूपस्तु शम्भुरेव स्वतन्त्रः। तस्य च येऽनुजीविनः तदात्मकस्वात्मसाक्षात्कारिणः तेऽपि तत्समावेशाव स्वतन्त्रा एव॥ २॥
अशेषविश्वखचितभवद्वपुरनुस्मृतिः।
येषां भवरुजामेकं भेषजं ते सुखासिनः॥३॥
अशेषेति। भवरुजां सांसारिकोपतापानां। भेषजमौषधं। विश्वखचितत्वात्सर्वोपकृतिकरणक्षमा भवद्वपुरनुस्मृतिः चिदात्मनस्त्वत्स्वरूपस्यानुगततया स्मरणं समावेशमयं येषामस्ति, ते सुखासिनः। सत्स्वपि देहादिनान्तरीयकेषु दुःखस्पर्शेषु परमानन्दघने सुख एव तिष्ठन्ति॥ ३॥
सितातपत्रं यस्येन्दुः स्वप्रभापरिपूरितः।
चामरं स्वर्धुनीस्त्रोतः स एकः परमेश्वरः॥४॥
सितातपत्रमिति। इन्दु सर्वमेयरूपः, प्रकाशदशायां स्वप्रभाभिश्चैतन्यमरीचिभिः परिपूर्णतां प्रापितः, यस्य सितं शुद्धं,स्वात्मलग्नत्वाच्च बद्धं, पाशवहेयोपादेयतादिकल्पनोत्थात् आतपात् त्रायते इत्यातपत्रं। तथा स्वः स्वर्ग तदुपलक्षितं च निरयं धर्माधर्मफलं धुनोति स्वर्धुनी मध्यवाहिनी चिच्छक्ति, सैव प्रसरद्रूपत्वात्स्रोतः, तद्यस्य चामरं माहात्म्यप्रथाहेतुः। स एको न तु अन्यः परम ईश्वर।स्थूलदृष्ट्या तु निजरश्मिपूर्णः खण्डेन्दु गङ्गा च यस्यासाधारणं छत्त्रं चामरं चेति स्पष्टम्॥४॥
प्रकाशां शीतलामेकां शुद्धां शशिकलामिव।
दृशं वितर मे नाथ कामप्यमृतवाहिनीम्॥५॥
प्रकाशां शीतलामिति। प्रकाशां स्वप्रकटां, शीतलां सन्तापहरां, शुद्धां भेदशङ्काशातिनी च, एकामद्वितीयां, कामप्यपूर्वा, अमृतवाहिनीं च अमृतस्यन्दिनीं, दृशं संविदं मे मह्यं, नाथ, वितर प्रयच्छ। शशिकलापक्षे श्लिष्टोक्तेः स्पष्टोऽर्थः॥५॥
त्वच्चिदानन्दजलधेश्च्युताः संवित्तिविप्रुषः।
इमाः कथं मे भगवन्नामृतास्वादसुन्दराः॥६॥
त्वच्चिदानन्द इति। त्वत्तः चिदानन्दसमुद्रात्, याः संवित्तिविप्रुषःनीलसुखादिज्ञानकणिका, प्रकाशमानत्वाच्चिदानन्दसारा एव, च्युता निर्याताः, समकालममृतास्वादसुन्दराः, इमा विस्फुरन्त्यो, नो कथं भवन्ति, भवन्त्येवेत्यर्थः॥६॥
त्वयि रागरसे नाथ न मग्नहृदयं प्रभो।
येषामहृदया एव तेऽवज्ञास्पदमीदृशाः॥७॥
त्वयि रागेति। त्वद्विषये रागरसो भक्तिप्रसरः। तत्र येषां हृदयं न मग्नंसमाविष्टं, ते अविद्यमानतात्त्विकहृदयाः
ईदृशा इति संसारक्लेशभाजनभूताः अवज्ञास्पदं भक्तिमतामगणनीया एव॥७॥
प्रभुणा भवता यस्य जातं हृदयमेलनम्।
प्राभवीणां विभूतीनां परमेकः स भाजनम्॥८॥
प्रभुणेति। उक्तार्थप्रातिपक्ष्येणोक्तिः। यस्येति कस्यचिदेव।अहृदयास्तु प्रायो बहव इति बहुवचनमत्र नोक्त। हृदयमेलनं समावेशेनैकत्वम्। विभूतयः अद्वयानन्दसम्पदः। यस्य च लौकिकेश्वरेण हृदयमेलनं भवति स एवैकस्तु विभूतीनां पात्रं नान्य इति श्लेषेण ध्वनति॥८॥
हर्षाणामथ शोकानां सर्वेषां प्लावकः समम्।
भवद्ध्यानामृतापूरो निम्नानिम्नभुवामिव॥६॥
हर्षाणामिति। भवद्ध्यानं समावेशरूपं त्वच्चिन्तनमेव अमृतापूरः। स यथा निम्नानिम्नभुवामशुद्धेतररूपमायाविद्याभूमीनां समं युगपत्प्लावकः सामरस्यापादकः, तथा लौकिकशोकहर्षादीनामपि। समाविष्टस्य हि युगपदेव निखिलं परमानन्दव्याप्तिमयं जायते। जलापूरश्च निम्नोन्नताश्च भूमीः प्लावयति॥९॥
केव न स्याद्दशा तेषां सुखसम्भारनिर्भरा।
येषामात्माधिकेनेश न क्वापि विरहस्त्वया॥१०॥
केव न स्याद्दशेति। येषामात्माधिकेनेश, देहादि निमज्ज्य चिद्धनत्वेन स्फुरता त्वया कदाचिदपि न वियोगः तेषां सुखसम्भारनिर्भरा परमानन्दपूर्णा का इव दशा न स्यात् सर्वैवभवतीत्यर्थः। जीवन्तः ईश्वरावियुक्ताश्च सदा सुखिनो भवन्ति॥१०॥
गर्जामि बत नृत्यामि पूर्णा मम मनोरथाः।
स्वामी ममैष घटितो यत्त्वमत्यन्तरोचनः॥११॥
गर्जामि बतेति। अतिभक्तिरसानन्दघूर्णितस्येयमुक्तिः। अत्यन्तं रोचनः अतिशयेन प्रिय। एष इति वक्तुमशक्यः स्वानुभवसंसिद्धः। तथा च अत्यन्तरोचनः विश्वग्रासकत्वेन अतिदीप्तप्रकाशवपुर्यतस्त्वं स्वामी मम घटित समावेशेन मयाऽऽसादितः। ततोगर्जामि महारवमुच्चारयामि, नृत्यामि हर्षप्रसरभरेण सर्वतोमायाप्रमादभावधूननसारं गात्रविक्षेपं करोमि। मम च मनोरथाः पूर्णाः निराकाङ्क्षोस्मि जात इत्यर्थः। बत इति अनुत्तरचित्स्वरूपप्रत्यभिज्ञानाद्विस्मयमुद्राऽनुप्रवेशं ध्वनति॥११॥
नान्यद्वेद्यं क्रिया यत्र नान्यो योगो विदा च यत्।
ज्ञानं स्यात् किन्तु विश्वैकपूर्णं चित्त्वं विजृम्भते॥१२॥
नान्यद्वेद्यमिति। तथाविधो मम स्वामी धटितो यत्र स्वामिनि सति अन्यद्भिन्नं वेद्यं, अन्या क्रिया, अन्यो योग, अन्या च विदा संविन्नास्ति, धटितस्वामिव्यतिरिक्तं मम न कि चिदपि भातीत्यर्थः। क्रिया विदा इत्यत्र अन्या इति योजना। तत्त्र पूर्ण त्वस्त्येवेति आह। किन्तु यज्ज्ञानं स्यात्तद्विश्वस्यैका पूर्णाहुतिः बोधाग्निप्रज्वालिनी, पूर्णाहंपरामर्शक्रियाशक्तिस्वरूपमेतज्ज्ञानमिति यावत्। यच्चेदृक्ज्ञानं तदेवं चित्त्वं शिवप्रकाशरूपत्वं विजृम्भते नान्यत्। यथागमः “न योगोऽन्यः क्रिया नान्या तत्त्वारूढा हि या मतिः। स्वचित्तवासनाशान्तौ सा क्रियेत्यभिधीयते”॥१२॥
दुर्जयानामनन्तानां दुःखानां सहसैव ते।
हस्तात्पलायिता येषां वाचि शश्वच्छिवध्वनिः॥१३॥
दुर्जयानामिति। हस्तात्पलायिता इत्यनेन शिवध्वनिशून्यवाचः सर्वदु खाक्रान्ता इति ध्वनति। तथा चोच्यते आब्रह्मणश्च कीटाच्चेत्यादि। “आब्रह्मणश्च कीटाच्च न कश्चित् तत्त्वतः सुखी। करोति तास्ता विकृतीः सर्व एव जिजीविषुः”॥१३॥
उत्तमः पुरुषोऽन्योऽस्ति युष्मच्छेषविशेषितः।
त्वं महापुरुषस्त्वेको निःशेषपुरुषाश्रयः॥१४॥
उत्तमः पुरुष इति। हरिः पुरुषोत्तम इति प्रसिद्धः, स युष्मच्छेषेण तावकेन अभेदसारविद्याऽधिष्ठातृषु प्रमातृषु च लब्धादन्येन अधिष्ठानात्मना स्वरूपेण विशेषितः सम्पादितविशेषः। तथा चागमः—“वैष्णव्यास्तु स्मृतो विष्णु"रिति। त्वं सकलादिसदाशिवान्तनि शेषपुरुषाश्रयत्वान्महापुरुषः। अन्यशब्दः कश्चिदर्थः। एक अद्वितीयः। इति एकः श्लोकार्थः। अपरस्तु व्याकरणप्रक्रियया उत्तमपुरुषः अस्मदर्थे यः स युष्मच्छेषाभ्यां मध्यमप्रथमपुरुषाभ्यां विशेषितः सञ्जातविशेषोऽस्ति, तस्य च तटस्थपरामृश्यात्प्रथमपुरुषाद्युष्मदर्थोन्मुखाच्च मध्यमपुरुषादयं विशेषः यदशेषपुरुषाश्रयत्वं तद्विश्रान्तिधामत्वं। सर्वस्येदन्ताविमृश्यस्याहन्तायामेव विश्रान्ते। स पचति त्वं पचसि अहं पचामीति विवक्षायां वयमेव पचाम इत्यादौ प्रयोगेऽयमेवाशय इत्यास्तां। त्वं तु विनिःशेषाणां प्रथममध्यमोत्तमपुरुषाणां कल्पितानामकल्पितचिद्रूपाश्रयः। यथोक्तं प्रत्यभिज्ञायां “ग्राह्यग्राहकताभिन्नावर्थौ भातः प्रमातरि” इति अत एव महापुरुषो महेश्वरो, महादेववन्महच्छन्दस्य त्वय्येव प्रवृत्तत्वात्॥१४॥
जयन्ति ते जगद्वन्द्या दासास्ते जगतां विभो।
संसारार्णव एवैष येषां क्रीडामहासरः॥१५॥
जयन्तीति। जगद्वन्द्यत्वं शिवसमावेशमात्रत्वात्। जगतां विभो,तव दासास्ते जयन्ति येषां संसारसमुद्र एवैष इत्यतिघोरोऽपि चिद्रूपतया ज्ञातपरमार्थः सन् क्रीडामहासर कल्पः। यथोक्तं “इति वा यस्य संवित्तिः क्रीडात्वेनाखिलं जगत्, सम्पश्यन्नि”त्यादि॥१५॥
आसतां तावदन्यानि दैन्यानीह भवज्जुषाम्।
त्वमेव प्रकटीभूया इत्यनेनैव लज्ज्यते॥१६॥
आसतां तावदिति। अन्यानि दैन्यानि अणिमादिप्रार्थना। भवज्जुषां सततसमावेशप्रथमानत्वत्स्वरूपाणामतएवार्थनीयान्तरविरहात्प्रकटीभूया इत्यनेनैव कदाचित्समाविष्ठैः प्रार्थनीयेन यतो लज्ज्यते ततो दण्डापूपीन्यायेन दैन्यान्तरसम्भावनैव नास्ति॥१६॥
मत्परं नास्ति तत्त्रापि जापकोऽस्मि तदैक्यतः।
तत्त्वेन जप इत्यक्षमालया दिशसि क्वचित्॥१७॥
मत्परं नास्ति तत्त्रेति। महेशितुरपि जप्यंदेवतान्तरमस्ति अक्षमालायोगादिति ये मुह्यन्ति तान् बोधयितुमाह। मत्परं तावन्नास्ति तथाऽपि जापकोऽस्मि यत्, तत् तस्मात् ऐक्यत ऐक्येन चिदभेदेन परमार्थतो जप पूर्णाहन्ताविमर्शात्मा नित्योदितो भवतीति अक्षमालया क्वचिद्गौरीश्वराद्याकृतौ दिशसि कथयसि। तच्छब्दाद्यच्छब्दआक्षेप्यः। अथ वा अक्षमालया करणेश्वरीपंक्त्या समस्तार्थसार्थे सर्गसंहारपरम्परासम्पत्तये पुनः पुनरावर्तमानया ऐक्यतो महार्थनया भेदसारेणैकत्वेन च जपोऽनुत्तरविमर्शसारो भवतीत्यक्षमालयैव वर्णलिपिन्यायेन युक्त्या शिक्षयसि॥१७॥
सतोऽवश्यं परमसत्सच्च तस्मात्परं प्रभो।
त्वं चासतस्सतश्चान्यस्तेनाऽसि सदसन्मयः॥१८॥
सतोवश्यमिति। भावाभावौ परस्परभिन्नौ। त्वमसतः खपुष्पादेः, सतश्च नीलसुखादेरन्यो विलक्षण चिदानन्दघनः, अत एव सदसन्मयः सद्रूपोप्यसद्रूपोऽपि सदसद्रूपोऽपि विश्वात्मकस्त्वं, “नतु सद्रूप एव वा असद्रूंप एव वा उभयोज्ज्ञित एव वा। तथा श्रीभर्गशिखायां—“न सन्न चासत्सदसन्नैव तदुभयोज्ज्ञितमि” त्युपक्रम्य, दुर्ज्ञेया हि साऽवस्था किमप्येतदनुत्तरमि” त्यनिर्वचनीयतयैव विश्वोत्तीर्णविश्वमयचिदानन्दघनमनुत्तरस्वरूपं सदसत्त्वेनेति श्लोकेन भावनीयसदसत्ताकोटिद्वयवैलक्षण्यमुक्तम्, अनेन तु सर्वभावाभावोत्तरत्वम्॥१८॥
सहस्रसूर्यकिरणाधिकशुद्धप्रकाशवान्।
अपि त्वं सर्वभुवनव्यापकोऽपि न दृश्यसे॥१९॥
सहस्रसूर्यकिरणेभ्योप्यधिक, तेषामपि तत्प्रकाशत्वात्। शुद्धश्चिदेकरूपः प्रकाशो भूम्ना प्राशस्त्येन च यस्य। अत एव सर्वभुवनव्यापकत्वं। मायाव्यामूढै र्न दृश्यसे भासमानोऽपि न प्रत्यभिज्ञायसे इति यावत्॥१९॥
जडे जगति चिद्रूपः किल वेद्येऽपि वेदकः।
विभुर्मिते च येनासि तेन सर्वोत्तमो भवान्॥२०॥
जडे जगतीति। जगति क्षित्यादिसदाशिवावसाने जडे वेद्ये मिते च असि त्वं चिद्रूपो वेदको व्यापकश्च यतस्ततः सर्वोत्तमोसीति सम्बन्धः॥२०॥
अलमाक्तन्दितैरन्यैरियदेव पुरः प्रभोः।
तीव्रंविरौमि यन्नाथ मुह्याम्येवं विदन्नपि॥२१॥
अलमिति। व्युत्थानदशापरवशः समावेशतत्त्वंजानन्नपि मुह्यामीति व्युत्थाने समावेशवशो भवामीति शिवम्॥२१॥
इति श्रीमदुत्पलदेवाचार्यविरचितस्तोत्रावलौप्रणयप्रसादनामके तृतीयस्तोत्रे श्रीक्षेमराजविरचिता विवृतिः॥
<MISSING_FIG href=”../books_images/U-IMG-1725643805Screenshot2024-09-06225646.png”/>
ॐ चपलमसि यदपि मानस
तत्रापि श्लाध्यसे यतो भजसे।
शरणानामपि शरणं
भुवनगुरुमम्बिकाकान्तम्॥१॥
ॐ चपलमसीति। चापलाद्यद्यपि भगवद्भजने न प्ररोहसि तथापि कृतार्थमसि। क्षणमात्रमपि तत्सेवायाः पूर्णव्याप्तिप्रदत्वात्। अत एव शरणानामपीत्यसामान्यतां भगवतः प्रथयति। शरणानां ब्रह्मविष्ण्वादीनामपि शरणं समाश्रयं त्रिभुवनगुरुं विश्वस्योपदेष्टारं पूज्यं च। अम्बिका परा शक्तिः॥१॥
उल्लङ्घ्य विविधदैवतसोपानक्रममुपेयशिवचरणान्।
आश्रित्याप्यधरतरां भूमिं नाद्याऽपि चित्रमुज्ज्ञामि॥२॥
उल्लङे्घ्यति। विविधानि ब्रह्मविष्णुरुद्रेश्वरसदाशिवादिरूपाणि दैवतान्येव सोपानक्रमः, तमुल्लङ्घ्य विश्रान्तिपदीकृत्य, उपे—
यस्योपगन्तव्यस्य आत्मसमीपे प्राप्तव्यस्य शिवस्य‚ चरणान् मरीचीन्, आसमन्तात् श्रित्वा समावेशयुक्त्या स्वीकृत्यापि, चित्त्रं यदद्यापि अधरतरां भूमि व्युत्थानपतितां मायीयदेहादिप्रमातृतां न त्यजामि। दैवतानां सोपानक्रमेणानुपादेयतां भगवतस्तु चरणसमाश्रयेणोपादेयतमतां प्रकाशयन्नात्मनस्तत्समाश्रयेण श्लाघ्यतां ध्वनति॥२॥
प्रकटय निजमध्वानं
स्थगयतरामखिललोकचरितानि।
यावद्भवामि भगवं–
स्तव सपदि सदोदितो दासः॥३॥
प्रकटयेति। निजमध्वानं स्वंशाक्तं मार्गम्। अखिलस्य लोक्यलोकयितृरूपस्य मेयमातृवर्गस्य सदाशिवान्तस्य। चरितानि स्थगयतरां निःशेषेण शमय। यावत् तव सदोदितो दासो भवामि त्वच्चरणसपर्यापरो नित्यसमाविष्टःस्फुरामि इति यावत्॥३॥
शिव शिव शम्भो शङ्कर
शरणागतवत्सलाशु कुरु करुणां।
तव चरणकमलयुगल–
स्मरणपरस्य हि सम्पदोऽदूरे॥४॥
शिवशिवेति। तव चरणयुगलं ज्ञानक्रियामयं मरीचिद्वयं। सम्पदः समावेशसाराः परमानन्दमय्यः। अदूरे निकटे॥४॥
तावकाङ्घ्रिकमलासनलीना
ये यथारुचि जगद्रचयन्ति।
ते विरिञ्चिमधिकारमलेना–
ऽऽलिप्तमस्ववशमीश हसन्ति॥५॥
तावकाङ्घ्रीति। सङ्कोचविकासपरत्वन्मरीचिविश्रान्ताः तत एव आस्वादितस्वातन्त्र्या, यथारुचि करणेश्वरीप्रसरयुक्त्या, ये जगद्रचयन्ति ते विरिञ्चि ब्रह्माणमधिकारमलेन आसमन्ताल्लिप्तमत एव नियतिपरतन्त्रत्वादस्ववशमस्वतन्त्रं। हे ईश स्वतन्त्र।हसन्ति कमलासनोऽपि तेषां हासास्पदमित्यर्थ॥५॥
त्वत्प्रकाशवपुषो न विभिन्नं
किं च न प्रभवति प्रतिभातुम्।
तत्सदैव भगवन्परिलब्धो
ऽसीश्वर प्रकृतितोऽपि विदूरः॥६॥
त्वमकाशवपुषइति। हे ईश्वर असि त्वं प्रकृतितः विदूरोऽपि स्वगोपनादप्राप्योऽपि सदैव परिलब्धः अस्माभिरिति शेषः। यतः यत् किञ्चित्प्रतिभातुं प्रभवति भासतेतत्त्वत्तः प्रकाशवपुषश्चिद्रूपात् न भिन्नं प्रकाशमयस्यैव प्रकाशार्हत्वात्। यथोक्तं– “यस्मात्सर्वमयो जीव” इत्यादि “भोक्तैव भोग्यभावेन सदा सर्वत्र संस्थित” इत्यन्तम्॥६॥
पादपङ्कजरसं तव के चिद्
भेदपर्युषितवृत्तिमुपेताः।
के चनाऽपि रसयन्ति तु सद्यो
भातमक्षतवपुर्द्वयशून्यम्॥७॥
पादपङ्कजेति। तव ज्ञानक्रियामरीचिद्वयमयचरणकमलरसं
के चित्र द्वैतनिष्ठाः, भेदेन पर्युषिता, झगिति उपभोगानासादनेन शुक्तीकृतप्राया वृत्तिः स्वरूपं यस्य तमुपेताः प्राप्ता,न तु सद्य आस्वादयन्ति। के चित्पुनः परशक्तिपातपवित्रिताः सद्यो भातं झगिति उपनतं अक्षतवपुषं नित्यस्फुरत्स्वरूपं द्वयशून्यं चिदान्दैकघनं रसयन्ति चमत्कुर्वन्ति। केचिदित्यपकर्षः केचनापीत्युत्कर्ष ध्वनति॥७॥
नाथ विद्युदिव भाति विभा ते
या कदा चन ममामृतदिग्धा।
सा यदि स्थिरतरैव भवेत्तत्
पूजितोऽसि विधिवत्किमुतान्यत्॥८॥
नाथ विद्युदिवेति। हे नाथ तव विभा परः शाक्तः स्पन्दः।अमृतदिग्धा परमानन्दोपचिता। विद्युदिव क्षणमात्रं कदाचिन्ममावभाति समावेशे स्फुरति। सा यदि बलवद्व्युत्थानमपहस्त्यनित्योदिता स्यात्तद्विधिवद्यथातत्त्वं पूजितोऽसि। किमुतान्यत् परिसमाप्तं करणीयं कृतकृत्यता च जायते इत्यर्थः॥८॥
सर्वमस्यऽपरमस्ति न किंचिद्
वस्त्ववस्तु यदि वेति महत्या।
प्रज्ञया व्यवसितोऽत्र यथैव
त्वं तथैव भव सुप्रकटो मे॥९॥
सर्वमसीति। असि त्वं सर्वमपरं वस्तु यदि वाऽवस्तु न किं चिदस्ति, सर्वस्य चिद्धनत्वात्प्रकाशमयत्वेन प्रकाशनात्इत्येवं शुद्धविद्यामय्या यथैव महत्याप्रज्ञयाऽत्रजगति त्वं
निश्चितस्तथैव मे सुष्ठु व्युत्थानेऽपि समावेशवशात् प्रकटो भव॥९॥
स्वेच्छयैव भगवन्निजमार्गे
कारितः पदमहं प्रभुणैव ।
तत्कथं जनवदेव चरामि
त्वत्पदोचितमवैमि न किं चित्॥१०॥
स्वेच्छयैवेति। हे भगवन् अहं प्रभुणैव न तु अन्येन केन चित्। स्वेच्छयैव निरपेक्षशक्तिपातयुक्त्या। निजमार्गे विकस्वरशक्तिवर्त्मनि। पदं कारितं विश्रान्तिं लम्भितः। तत्कथं जनवदेव लोकवदेव। चरामि व्युत्थाने व्यहरामि। त्वत्पदोचितं त्वन्मरीचिपरिचयसमुचितं समावेशवशान्न कि चिदवगच्छामि॥१०॥
कोऽपि देव हृदि तेषु तावको
जृम्भते सुभगभाव उत्तमः।
त्वत्कथाम्बुदनिनादचातका
येन तेऽपि सुभगीकृताश्चिरम्॥११॥
कोपीति। हे देव तेषु केषु चित् प्रागुक्तभक्तिमत्सु हृदि तावकः उत्तमः उत्कृष्टः सुभगभाव कोऽपि उच्छलदानन्दरसोल्बणत्वं किमप्युज्जृम्भते, येन तेऽपीति समावेशसम्भिन्नहृदया अपि, अत एव त्वत्कथैव अम्बुदनिनादः तत्त्र चातका इव समावेशशालिप्रतन्यमानशिवकथाऽऽकर्णनप्रहृष्टहृदया अपि चिरं सुभगीकृताः समावेशभूमि लम्भिताः। यत्कथामात्रेण समावेशोऽवतरतीत्यर्थः॥११॥
त्वज्जुषां त्वयि कयाऽपि लीलया
राग एष परिपोषमागतः।
यद्वियोगभुवि सङ्कथा तथा
संस्मृतिः फलति संगमोत्सवम्॥१२॥
त्वज्जुषामिति। कयापीति अनुत्तरसमावेशशालिन्या लीलया त्वज्जुषांत्वां प्रीत्या सेवमानानाम्। एष इति असामान्यो रागः परिपोषं प्राप्तः। त्वद्वियोगभुवि व्युत्थाने। सङ्कथा संस्मृतिश्च कर्त्री सम्भोगोत्सवं सम्भोगदशां फलति। वियोगभुवि सङ्गमोत्मवमित्युक्त्या अलौकिकत्वमनुरागस्य ध्वनति॥१२॥
यो विचित्ररससेकवर्धितः
शङ्करेति शतशोऽप्युदीरितः।
शब्द आविशति तिर्यगाशये–
ष्वप्ययं नवनवप्रयोजनः॥१३॥
ते जयन्ति सुखमण्डले भ्रमन्
अस्ति येषु नियतं शिवध्वनिः।
यः शशीव प्रस्टतोऽमृताशयात्
स्वादु संस्रवति चामृतं परम्॥१४॥
यो विचित्रेति ते जयन्तीति युगलकम्। ते जयन्ति येषु सुखमण्डले नियतं निश्चितं कृत्वा भ्रमन् शिवध्वनिरस्ति। यः स्वादु परं चामृतं सम्यक् स्रवति आनन्दरसं समुच्छलयति। कीदृक् अमृताशयात् साक्षात्कृतचिद्धनपरमेश्वररूपात्प्रसृतः स्वरसेनोच्चारितः। यथा अमृताशयात्, शशी चन्द्रमाः प्रसृतः मण्ड—
ले स्फुरन्‚ परं स्वाद्वमृतं स्रवति, यच्चैव विचित्रेण समावेशरससेकेन बर्धितोऽत एव शतशोप्युदीरितः शङ्करेत्ययं शब्दः, तिर्यगाशयेषु पशुहृदयेष्वपि, नवनवप्रयोजनः प्रतिक्षणं तत्तदपूर्वचमत्कारकारी, आविशति परिस्फुरति॥१३॥१४॥
परिसमाप्तमिवोग्रमिदं जगद्
विगलितोऽविरलो मनसो मलः।
तदपि नास्ति भवत्पुरगोपुरा–
र्गलकवाटविघट्टनमण्वपि॥१५॥
परिसमाप्तमिवेति। स्फुरत्प्रत्यग्रसमावेशसंस्कारस्य व्युत्थानभूमिमवतितीर्षोरियमुक्तिः। उग्रं भेदमयत्वाद्भीषणं। जगद्विश्वं,परिसमाप्तमिव।समाविष्टस्य हि न बाह्यं विश्वं विभाति अथ च संस्कारशेषतयाऽऽस्ते इति इव शब्द।मनसश्च अविरलो घनः मलः अविद्याकलात्मा विगलितः। तथाऽपि निशेषशान्ताशेषविश्वमयप्रफुल्लमहाविद्योद्यज्जगदानन्दमयस्य पूरकत्वात्पुररूपस्य, यद्गोपुरं पुरद्वारं परमशक्तिरूपं, तत्त्रार्गलयुक्तकवाटविघट्टनमतिदृढाख्यातिपुटविपाटनं मम मनागपि नास्ति। अनेन प्रविगलितनिः शेषदेहादिसंस्कारां परां भूमिभेवोपादेयत्वेन ध्वनति। यदुक्तं “सर्वथा त्वन्तरालीने"त्यादि श्रीप्रत्यभिज्ञायांं। “सर्वातीतः शिवो ज्ञेयो यं विदित्वा विमुच्यते” इति पूर्वशास्त्रे॥१५॥
सततफुल्लभवन्मुखपङ्कजो–
दरविलोकनलालसचेतसः।
किमपि तत्कुरु नाथ मनागिव
स्फुरसि येन ममाभिमुखस्थितिः॥१६॥
सततेति। सततं फुल्लं नित्यंविकसितं यत्वन्मुखकमलं,“शैवीमुखमिहोच्यते इति” स्थित्या, त्वत्पराशक्तिरूपं यत्पद्मं तस्य यदुदरं मध्यं परं तावकं परशक्तिसामरस्यमयं शांभवं रूपं, तस्य विलोकनं समावेशः, तत्त्र लालसं सातिशयाभिलाषं चेतो यस्य, तस्य मे, किमपि तदसम्भाव्यमुपायप्रदर्शनं, मनागिव हेलामात्रेण कुरु, येन ममाभिमुखस्थितिः सन् स्फुरसि॥१६॥
त्वदविभेदमतेरपरं नु किं
सुखमिहास्ति विभूतिरथाऽपरा।
तदिह तावकदासजनस्य किं
कुपथमेति मनः परिहृत्यताम्॥१७॥
त्वदविभेदमतेरिति। समावेशस्फुरितायास्त्वदद्वयसंविदः अपरं सुखं विभूत्यादि च न किं चिदस्ति। तस्या एव सर्वातिशायित्वात्। ततः किमिति तावकदासजनस्य तां त्वदविभेदसंविदं परिहृत्य, मनः कुपथमेति व्युत्थानभूमिमेवाऽऽधावति॥१७॥
क्षणमपीह न तावकदासतां
प्रति भवेयमहं किल भाजनम्।
भवदभेदरसासवमादरा–
दविरतं रसयेयमहं न चेत्॥१८॥
क्षणमपीति। यदि भवदद्वयानन्दरसासवमहमविरतं नास्वादयेयं, तत्तव दासतां प्रति क्षणमपि भाजनं न भवेयम्। आनन्दघनत्वत्स्वरूपापरिचितत्वात्॥१८॥
न किल पश्यति सत्यमयं जन–
स्तव वपुर्द्वयदृष्टिमलीमसः।
तदपि सर्वविदाश्रितवत्सलः
किमिदमारटितं न शृणोषि मे॥१९॥
न किलेति। अयं तावज्जनभेददृष्टिमलीमसत्वात्तव सत्यंचिद्घनं वपुः न पश्यति। तथाऽपि त्वं सर्ववित्सर्वज्ञ, आश्रितवत्सलो भक्तानुकूलः, अतएव स्वयमेवोचितस्वात्मदर्शनदानेऽपि मे किमित्यारटितं आक्रन्दितं न शृणोषि। दर्शनं तावज्झगिति मम आरटितं भक्तिविवशचित्तस्याक्रन्दितमात्रं तु शृण्विति प्रार्थयते॥१९॥
स्मरसि नाथ कदा चिदपीहितं
विषयसौरव्यमथापि मयाऽर्थितम।
सततमेव भवद्वपुरीक्षणा–
मृतमभीष्टमलं मम देहि तत्॥२०॥
स्मरसीति। ईहितं प्रयत्नेनार्जितं अथाप्यर्थितं काङ्क्षितं कदा चिदपि मया विषयसौख्यमिति नाथ स्मरसीति निर्यन्त्रणोक्त्या गाढप्रभुपरिचयं ध्वनति। केवलं मम देव भवद्वपुरीक्षणामृतं त्वत्स्वरूपप्रकाशनरसायनमलमभीष्टं। तदेव च देहि प्रयच्छ॥२०॥
किल यदैव शिवाध्वनि तावके
कृतपदोऽस्मि महेश तवेच्छाया।
शुभशतान्युदितानि तदैव मे
किमपरं मृगये भवतः प्रभो॥२१॥
किलेति। शिवाध्वनि श्रेयःशतशालिनि। परमे शाक्ते मार्गे । कृतपदः प्राप्तविश्रान्ति॥२१॥
यत्त्र सोऽस्तमयमेति विवस्वाँ–
श्चन्द्रमःप्रभृतिभिः सह सर्वैः।
काऽपि सा विजयते शिवरात्रिः
स्वप्रभाप्रसरभास्वररूपा॥२२॥
यत्त्रेति। सा कापि लोकोत्तरा शिवरात्रिः शिवसमावेशभूमि। समस्तमायीयप्रथायाः संहरणाद्रात्रिरिव रात्रिः। कीदृशी, स्वप्रभाप्रसरेण चित्प्रकाशजृम्भणेन भासनशीलं रूपं यस्या, तादृशी। स इत्यशेषप्रपञ्चप्रथमाङ्कुरः विवस्वान् प्राणः। चन्द्रमः— प्रभृतिभिरपानादिभि सहाऽस्तमेति प्रशाम्यति। यदि वा। विवस्वात् प्रमाणप्रकाशः। चन्द्रम प्रभृतय प्रभेयादय॥२२॥
अप्युपार्जितमहं त्रिषु लोके–
ष्वाधिपत्यममरेश्वर मन्ये।
नीरसं तदखिलं भवदङ्घ्रि–
स्पर्शनामृतरसेन विहीनम्॥२३॥
अपीति। त्रैलोक्यराज्यमपि त्वन्मरीचिसंस्पर्श विना विरसं मन्ये॥२३॥
बत नाथ दृढोयमात्मबन्धो
भवदख्यातिमयस्त्वयैव क्लृप्तः।
यदयं प्रथमानमेव मे त्वा–
मवधीर्य श्लथते न लेशतोऽपि॥२४॥
बतेति। आश्चर्य अयमात्मबन्धो देहादिषु प्रमातृताभिमानः त्वदप्रथारूपः। त्वयैव अतिदुर्घटकारिणा दृढः क्लृप्तः। न तु अ—
न्यस्य शक्तिः। यस्मात्त्वांप्रथमानमेव समावेशे भान्तमेव अवधीर्य न्यग्भाव्य लेशतोऽपि न श्लथते, व्युत्थाने प्राधान्यमेवावलम्बते इत्यर्थः॥२४॥
महताममरश पूज्यमाना
ऽप्यनिशं तिष्ठसि पूजकैकरूपः।
बहिरन्तरपीह दृश्यमानः
स्फुरसि द्रष्टृशरीर एव शश्वत्॥२५॥
महतामिति। बहिरन्तः पूजाद्यवसरे। आपातभेदेनैव प्रकाशमानत्वात्। पूज्यमानो दृश्यमानश्च, त्वममरेश देवदेव, महतां भक्तिमतां पूजकैकरूपो द्रष्टृशरीरश्च, समावेशसामरस्याद्बोधमयप्रमात्रेकरूपस्तिष्ठसि स्फुरसि चेति शिवम्॥२५॥
इति श्रीमदुत्पलदेवाचार्यविरचितस्तोत्रावल्या सुरंसोद्बलनामकचतुर्थस्तोत्रे क्षेमराजकृता विवृतिः॥
<MISSING_FIG href="../books_images/U-IMG-1725980795758.png"/>
ॐ त्वत्पादपद्मसम्पर्कमात्रसम्भोगसङ्गिनम्।
गलेपादिकया नाथ मां स्ववेश्म प्रवेशय॥१॥
ॐ त्वदिति। पादाः मरीचयः। सम्पर्कमात्रसम्भोग समावेशास्वादः। गलेपादिका हठशक्तिपातक्रमः। स्ववेश्म चित्स्वरूपं, औचित्यात्॥१॥
भवत्पादाम्बुजरजोराजिरञ्जितमूर्धजः।
अपाररभसाऽऽरब्धनर्तनः स्यामहं सदा॥२॥
भवदिति। भवदीयेन पादाम्बुजरजसाऽनुग्रहप्रवृत्तपरशक्तिकमलपरागेण। रञ्जितमूर्धजः अधिवासितान्तः। प्रसरदूर्ध्वाष्टशक्त्यंकुरः। तत एव प्रहर्षवशादपारमपर्यन्तं, रभसाऽऽरब्धं झगिति प्रवर्तितं नर्तनं गात्रविक्षेपो मायाप्रमातृताविधूननं येन। नित्यसमावेशविकस्वरतामाशास्ते॥२॥
त्वदेकनाथो भगवन्नियदेवार्थये सदा।
त्वदन्तर्वसतिर्मूको भवेयं माऽन्यथा बुधः॥३॥
त्वदेकनाथ इति। इयदेव नापरमर्थये। यत्त्वमेवैको नाथो नाथ्यमानः समभिलषणीयो यस्य स। त्वदन्तर्वसतिश्चिद्धनत्वत्स्वरूपसमाविष्टो मूकोऽपि स्याम्। अन्यथा बुधोऽपि विद्वानपि माभूवम्॥३॥
अहो सुधानिधे स्वामिन् अहो मृष्ट त्रिलोचन।
अहो स्वादो विरूपाक्षेत्येव नृत्येयमारटन्॥४॥
अहो इति। प्राग्वन्नित्यसमाविष्टतामाशास्ते। सुधानिधेआनन्दाब्धे। मृष्टचमत्कारपदपतित। स्वादो अविच्छिन्नमाधुर्य। नृत्येयमिति प्राग्वत्।आरटन् स्फुटं परामृशन्॥४॥
त्वत्पादपद्मसंस्पर्शपरिमीलितलोचनः।
विजृम्भेय भवद्भक्तिमदिरामदघूर्णितः॥५॥
त्वत्पादपद्मेति। त्वच्छक्त्यानन्देन अन्तर्मुखीकृतकरणः। विजृम्भेय चित्स्वरूपोन्मज्जनाद्गात्रं विनमयेय चिद्गुणीभावं नययेम्।कीदृक्—भवति साक्षात्कृते, या भक्तिरासेवा सैव मदिरामदः कादम्बरीचमत्कार, तेन घूर्णितो महाव्याप्तिं लम्भितः॥५॥
चित्तभूशृद्भुवि विभो वसेयं क्वापि यत्त्र सा।
निरन्तरत्वत्प्रलापमयी वृत्तिर्महारसा॥६॥
चित्तभूभृदिति। चित्तमेव अनुल्लङ्घ्यत्ववासनाश्रयत्वकठोरत्वाभिः भूभृत्। तस्य सम्बन्धिन्यां कस्यां चिद्विविवेकप्रदायां भुवि भूमिकायां। वसेयं। यत्त्र सा इति प्राक्परिशीलिता, महारसा समावेशानन्दमयी, निरन्तरो घन, त्वत्प्रलापो भवत्परामर्श, प्रकृतं रूपं यस्यास्तादृशी वृत्तिः स्थितिः॥६॥
यत्त्र देवीसमेतस्त्वमासौधादा च गोपुरात्।
बहुरूपः स्थितस्तस्मिन्वास्तव्यः स्यामहं पुरे॥७॥
यत्त्रेति। तस्मिन् पुरे त्वदीये पूरके चिदात्मनि रूपे। वास्तव्यः समाविष्ट स्याम्। यत्त्र आसौधादान्तरात्सुधासमूहरूपात्प्रतिभालक्षणादुच्चाद्धाम्नः। आच गोपुरादिन्द्रियविषयरूपा द्वरात्। त्वं देव्या परशक्त्या समेतो नित्यप्रमुदितो, “न सा जीवकला का चि"दित्यादि नीया वससि। बहुरूपो विश्वात्मा। अत्र अनुरणनशक्त्या लौकिकैश्वार्य्यपरिचार्य्यर्थः स्पष्ट। तथोत्तरत्राप्यनुसर्तव्यः॥७॥
समुल्लसन्तु भगवन् भवद्भानुमरीचयः।
विकसत्वेष यावन्मे हृत्पद्मः पूजनाय ते॥८॥
समुल्लसन्त्विति। मरीचयः अनुग्राहिकाः शक्तयः। विकसतु व्याप्तिमासादयतु। तव पूजनाय त्वत्पदसमावेशाय॥८॥
प्रसीद भगवन् येन त्वत्पदे पतितं सदा।
मनो मे तत्तदास्वाद्य क्षीवेदिव गलेदिव॥९॥
प्रसीदेति। प्रसादोंभस इव स्वयमेवाविलीभावशान्त्यानैर्मल्यगमनं। एवमुत्तरत्र। त्वत्पदे शाक्ते मार्गे, पतितंलुठितं, तत्तदिति ते ते लोचनइति यद्वर्णयितुमशक्यतां स्कीततां चास्वाद्य वस्तुतो ध्वनति। क्षीवेदिव गलेदिव इति ससन्देहोत्प्रेक्षया सम्भावनालिङा च स्वानुभवसाक्षिकानुत्तरानन्दरसपरवशताशंसां ध्वनति॥१॥
प्रहर्षाद्वाऽथ शोकाद्वा यदि कुड्याद्घटादपि।
बाह्यादथान्तराद्भावात्प्रकटीभव मे प्रभो॥१०॥
प्रहर्षादिति। वा प्रभृतिशब्दैः यतः कुतश्चित्स्फुटीभव नास्माकं क्वचिद्न्रहः इत्याह। प्रभो सर्वत प्रभवनशील॥१०॥
बहिरप्यन्तरपि तत्स्यन्दमानं सदाऽस्तु मे।
भवत्पादाम्बुजस्पर्शामृतमत्यन्तशीतलम्॥११॥
बहिरपीति। पादाम्बुजं शीतलमिति प्राग्वत्॥११॥
त्वत्पादसंस्पर्शसुधासरसोन्तर्निमज्जनम्।
कोप्येष सर्वसम्भोगलङ्घीभोगोऽस्तु मे सदा॥१२॥
त्वत्पादसंस्पर्श इति। त्वत्पादसस्पर्शो रुद्रशक्तिसमावेशः। स एव सुधासरः रसायनाब्धि। तत्र अन्तर्निमज्जनं ब्रुडनं यत्, एष मम कोऽपि असामान्यः भोग सदाऽस्तु। कीदृक्। सर्वान् सदाशिवपर्यन्तान् भोगान् लङ्घते विरसत्वादभिभवति, तच्छीलः॥१२॥
निवेदितमुपादत्स्व रागादि भगवन्मया।
आदायचामृतीकृत्य भुङ्क्ष्व भक्तजनैः समम्॥१३॥
निवेदितमिति। हे भगवन् चिन्मयस्वात्मन्। आसंसारं यत्मयार्जितं रागादि, तद्वित्तशाठ्यविवर्जनया निवेदितं त्वय्यर्पितं,निःशेषेण वेदितं चेति। तत्स्वरूपमुपादत्स्व गृहाण स्वप्रकाशात्मतामधिष्ठाय समीपे कुरु। अमृतीकृत्येति परशक्तिस्पर्शामृतेन।आप्लाव्य। भक्तजनैः सममित्युक्त्या स्वसमावेशतासमये समस्तभक्तानामपि तन्मयतामाशंसति॥१३॥
अशेषभुवनाहारनित्यतृप्तः सुखासनम्।
स्वामिन् गृहाण दासेषु प्रसादालोकनक्षणम्॥१४॥
अशेषेति। हे स्वामिन् अशेषभुवनाहारेण नित्यतृप्तः परमानन्दघन।दासेषु व्याख्यातरूपप्रसादालोकनावसरं गृहाण प्रकाशार्हत्वमधिष्ठापय। कीदृशं— सुखेन आस्यते यत्र तत् आनन्दव्याप्तिमयम्॥१४॥
अन्तर्भक्तिचमत्कारचर्वणाामीलितेक्षणः।
नमो मह्यं शिवायेति पूजयन् स्यां तृणान्यपि॥१५॥
अन्तर्भक्तीति। अन्तः पूर्णाहन्तायां भक्तिचमत्कारामीलितेक्षण इति प्राग्वत्। मह्यं चिद्रूपाय शिवाय नमः इति कृत्वा तृणान्यपि पूजयन् स्यां शिवतया परामृशेयम्॥१५॥
अपि लब्धभवद्भावः स्वात्मोल्लासमयं जगत्।
पश्यन् भक्तिरसाभोगैर्भवेयमवियोजितः॥१६॥
अपीति।लब्धो भवद्भाव त्वदैकात्म्यं येन। अत एव स्वा—
त्मनः शिवरूपस्योल्लास एवं प्रकृतं रूपं यस्य तथाविधं जगत् विश्वं पश्यन्, भक्तिरसाभोगैः समावेशप्रबलचमत्कारैः अवियोजितः स्याम्। " तमनित्येषु भोगेषु योजयन्ति विनायकाः” इत्यान्मायस्थित्या मा कदा चित् स्वात्माभिमानविनायको भक्त्यन्तरायं मे कार्षीदिति यावत्॥१६॥
आकाङ्क्षणीयमपरं येन नाथ न विद्यते।
तव तेनाऽद्वितीयस्य युक्तं यत्परिपूर्णता॥१७॥
आकाङ्क्षणीयमिति। सर्वतो निराकाङ्क्षत्वात्त्वमेव परिपूर्ण इत्यर्थः॥१७॥
हस्यते नृत्यते यत्र रागद्वेषादि भुज्यते।
पीयते भक्तिपीयूषरसस्तत्प्राप्नुयां पदम्॥१८॥
हस्यत इति। नृत्यते अन्तः प्रहर्षभरेण देहादिप्रमातृता दोधूयते। भुज्यते ग्रस्यते रागद्वेषादीत्यनेन पुर्यष्टकप्रमातृताया गुणीभावउक्तः। पीयते चमत्क्रियते भक्तिपीयूषरस समावेशानन्दप्रसर। सर्वस्य च हासनृत्यप्रधानभोजनपानक्रिया स्पृहणीया सात्विह अलौकिकत्वेनोक्ता॥१८॥
तत्तदपूर्वामोदत्वच्चिन्ताकुसुमवासना दृढताम्।
एतु मम मनसि यावन्नश्यतु दुर्वासनागन्धः॥१९॥
तत्तदिति। स स इति विचित्रः, अपूर्वोऽलौकिकः, आमोदो हर्षो यस्याः त्वच्चिन्तायाः, सैव स्पृहणीयत्वात्कुसुमवासना। दृढतां प्ररूढत्वं। ममैतु मनसि। यावद्रागादिदुर्वासना नश्यतु॥१९॥
क्व नु रागादिषु रागः क्व च हरचरणाम्बुजेषु रागित्वम्।
इत्थं विरोधरसिकं बोधय हितममर मे हृदयम्॥२०॥
क्वन्विति। मम हृदयं विरोधरसिकं समावेशे त्वत्परं व्युत्थाने तु विषयोन्मुखं। हितं बोधय विवेकितं कुरु येन व्युत्थाने रागादिरसिकतां त्यत्त्का त्वदनुरक्तमेवास्ते॥२०॥
**विचरन्योगदशास्वपि विषयव्यावृत्तिवर्त्तमानोऽपि।
त्वच्चिन्तामदिरामदतरलीकृतहृदय एव स्याम्॥२१॥ **
विचरन्निति। योगदशाः भूमिकाज्ञानानि। विषयेभ्यो व्याहतयः इन्द्रियेभ्यः प्रत्याहाराः। तत्र वर्तमानः। त्वच्चिन्ता त्वत्प्राप्तिरेव मदिरामदः। तेन तरलीकृतंत्याजितमितभूमिकाप्ररूढि क्षीवस्येव घूर्णमानं, निजचमत्कारव्यतिरेकेण कुत्र चिदपि भूमिकाज्ञानादावरोहत् हृदयं यस्य तादृगेव स्याम्। अपिशब्देन प्रसङ्गापतितत्वेन अनादरणीयतामाह॥२१॥
**वाचि मनोमतिषु तथा शरीरचेष्टासु करणरचितासु।
सर्वत्र सर्वदा मे पुरःसरो भवतु भक्तिरसः॥२२॥ **
वाचीति। मनोमतय कल्पनाप्रधाना धियः। करणरचितासु बुद्धिकर्मेन्द्रियकार्यासु\। दर्शनश्रवणादिपूर्वकत्वात्सर्वमवृत्तीनां। सर्वत्र सर्वावस्थासु। पुरःसर आदावेव स्फुरन्। भक्तिरस समावेशचमत्कारः \।\।२२॥
**शिव शिव शिवेति नामनि
तव निरवधि नाथ जप्यमानेऽस्मिन्।
आस्वादयन् भवेयं
कमपि महारसमपुनरुक्तम्॥२३॥ **
शिवेति। जप्यमाने प्रकृष्टमन्त्रमयतया परामृश्यमाने। अस्मि—
न्निति स्वानुभवैकसाक्षिके अनुत्तरे। भूयो नामग्रहणं समावेशवैवश्यं ध्वनति। कमपीति अलौकिकम्॥२३॥
स्फुरदनन्तचिदात्मकविष्टपे
परिनिपीतसमस्तजड़ाध्वनि।
अगणितापरचिन्मयगण्डिके॥
प्रविचेरयमहं भवतोऽर्चिता॥२४॥
स्फुरदिति। स्फुरत् अनन्तमपरिच्छिन्नं यच्चिदात्मकं विष्टपं भुवनं विश्वविश्रान्तिस्थानं तत्र। कीदृशे—परितः समन्तान्निपीत समस्तो निःशेषो जडो वैद्यरूपो ध्वान्तत्वादिप्रसरो येन। तथा न गणिता अपरा चिन्मयी गण्डिका पुरी यत्र। शिवात्मकचिद्रूपव्यतिरेकेणान्यस्याभावात्। अनेन भिन्नशिववादनिरासउक्तः।तत्र प्रकर्षेण विचरेयं समावेशेन प्रसरेयं। कीदृक्। भवतः प्रभोरर्चिता अद्वयरूपत्वत्पूजैकनिष्ठः॥२४॥
स्ववपुषि स्फुटभासिनि शाश्वते
स्थितिकृते न किमप्युपयुज्यते।
इति मतिः सुदृढा भवतात् परं
मम भवच्चरणाब्जरजः शुचेः॥२५॥
स्ववपुषीति।स्वस्मिन् अनपायिनि वपुषि चिदात्मस्वरूपे। स्फुटभासिनि प्रकाशघने। शाश्वते नित्ये। स्थितिं कर्तु न किमपि ध्यानजपादिकमुपयुज्यते उक्तरूपत्वादेव। एतादृशी। मम भवच्चरणाम्बुजरजःशुचे त्वच्छक्तिकमलप्रसरपरिशीलनेन शुद्धस्य। सुदृढामति निश्चलनिश्चयरूपा धीः। परमतिशयेन भवेत्। नित्योदित—
समावेशैकघनः स्यामिति यावत्॥२५॥
किमपि नाथ कदाचन चेतसि
स्फुरति तद्भवदंघ्रितलस्पृशाम्।
गलति यत्र समस्तमिदं सुधा–
सरसि विश्वमिदं दिश मे सदा॥२६॥
किमपीति। हे नाथ भवदङ्घ्रितलस्पृशां त्वच्छक्तिस्पर्शशालिनां। कदा चिदवसरे। तत्किमपि असामान्यं वस्तु चेतसि स्फुरति यत्र समस्तमिदं विश्वं परमानन्दसागरे गलति तन्मयीभवति। तत्तथाविधमिदं वस्तु मह्यं सदा दिश प्रयच्छ। यथा नित्यसमावेशानन्दघन एव भवामि इति शिवम्॥२६॥
इति श्रीमदुत्पलदेवाचार्यविरचितस्तोत्रावलौस्वबलनिदेशनाभिधाने पञ्चमस्तोत्रे श्रीक्षेमराजकृता विवृति॥
<MISSING_FIG href="../books_images/U-IMG-1725366079Screenshot2024-09-031750342.png"/>
ॐ तत्सत् ॐ
क्षणमात्रमपीशान वियुक्तस्य त्वया मम।
निबिडं तप्यमानस्य सदा भूया दृशः पदम्॥१॥
क्षणमात्रमिति। व्युत्थानरूपे क्षणमात्रवियोगे। गाढानुरागवैवश्यान्निविडमत्यर्थ तप्यमानस्य स्वयमेव सन्तापमनुभावयतो न तु विषयविवशस्य। मम सदा दृशो ज्ञानस्य। पदं भूयाः परिस्फुरत्यर्थः॥१॥
वियोगसारे संसारे प्रियेण प्रभुणा त्वया।
अवियुक्तः सदैव स्यां जगताऽपि वियोजितः॥२॥
वियोगेति। अवियुक्तः समाविष्ट।जगता क्षित्यादिशिवान्तेन विश्वेनापि वियोजितो विश्लेषितः। समावेशे च विश्वं प्रत्यस्तमयो वस्तुतो भवत्येव॥२॥
कायवाङ्मनसै र्यत्र यामि सर्वं त्वमेव तत्।
इत्येष परमार्थोऽपि परिपूर्णोऽस्तु मे सदा॥३॥
कायेति। यत्र विषये त्वमेव तदिति चिदेकसारत्वात् इत्येष परमार्थ इति “यत्र यत्रे” त्युपक्रम्य “सर्व शिवमयं यत" इत्याम्नातत्वात्। परिपूर्ण इति समावेशेन साक्षात्कृतः॥३॥
निर्विकल्पो महानन्दपूर्णो यद्वद्भवाँस्तथा।
भवत्स्तुतिकरी भूयादनुरूपैव वाङ्मम॥४॥
निर्विकल्प इति। निर्विकल्पः शुद्धचिद्रपः। तथेति निर्विकल्पा महानन्दमयी च। अत एव स्तुत्येसमुचितत्वादनुरूपा॥४॥
भवदावेशतः पश्यन् भावं भावं भवन्मयम्।
विचरेयं निराकाङ्क्षः प्रहर्षपरिपूरितः॥५॥
भवदिति। भावं भावमिति वीप्सया विश्वाक्षेपः। निराकाङ्क्ष इति विशेषणद्वारको हेतुः प्रहर्षेत्यादिः। प्रकृष्टेन महानन्दात्मना हर्षेण परिपूरितत्वादेव हि निराकाङ्क्षता भवति॥५॥
भगवन्भवता पूर्णं पश्येयमखिलं जगत्।
तावतैवास्मि सन्तुष्टस्ततो न परिखिद्यसे॥६॥
भगवन्निति। भवतश्चिन्मयस्य सम्बन्धितया प्रदेशोऽपि ब्रह्मणः सार्वरूप्यमनतिक्रान्तश्चाविकल्पश्चेति स्थित्याऽखिलं जगत् पूर्णं पश्येयम्। भवता पूर्णमितिपाठे तु स्पष्टोऽर्थः। सन्तुष्टः
परमानन्दमयीं प्रीतिमितः। अतो हेतोर्न परिखिद्यसे, हे भगवन्चिद्रपस्वात्मन्, अणिमादिप्रार्थनाभि न व्याकुलीक्रियसेइत्यर्थः॥६॥
विलीयमानास्त्वय्येव व्योम्नि मेघलवा इव।
भावा विभान्तु मे शश्वत्क्रमनैर्मल्यगामिनः॥७॥
विलीयमाना इति। यत एवोल्ल सिताः तत्र त्वय्येव क्रमात्क्रमं संस्कारशेषतया विगलन्ते। यथा व्योम्नि मेघलवा। ते हि तत एव प्रसृतास्तत्रैवविलीयन्ते। शश्वत्सदा, क्रमेण नैर्मल्यं शुद्धचिद्रूपत्वं गच्छन्ति तच्छीला इत्यनेन चिदात्मतैव तेषां तात्त्विकं रूपमिति ध्वनति॥७॥
स्वप्रभाप्रसरध्वस्तपर्यन्तध्वान्तसन्ततिः।
सन्ततं भातु मे कोऽपि भवमध्याद्भवन्मणिः॥८॥
स्वप्रभेति। भवमध्यात् विश्वस्य मध्यतः। कोऽपीति शुद्धचिद्रपः। भवानेव मणि सर्वाभिलाषपूरकत्वान्मम सन्ततमव्युत्थानं कृत्वा भातु समावेशेन स्फुरतु। स्वप्रभाप्रसरेण निजरश्मिपरिस्पन्देन ध्वस्ता पर्यन्ता ध्वान्तसन्ततिरख्यातिप्रवृत्तिर्येन॥८॥
कां भूमिकां नाधिशेषे किं तत्स्याद्यन्न ते वपुः।
श्रान्तस्तेनाऽप्रयासेन सर्वतस्त्वामवाप्नुयाम्॥९॥
कामिति। श्रान्तइत्यप्रत्यभिज्ञातस्वरूपत्वाच्चिरं संसारे खिन्नः। त्वां चिद्रूपमप्रयासेन ध्यानपूजाद्यायासंविना। सर्वतो यतः कुतश्चिदवाप्नुयाम् समावेशेन स्वीकुर्याम्। यत कां भूमिकामवस्थिति नाधिशेषे नाधितिष्ठसि। तद्बाह्यमान्तरं वा वस्तु किं यत्तव
वपुः स्वरूपं न स्यात्॥९॥
भवदङ्गपरिष्वङ्गसम्भोगः स्वेच्छयैव मे।
घटतामियति प्राप्ते किं नाथ न जितं मया॥१०॥
भवदिति। अङ्गपरिष्वङ्ग परमसमावेशस्पर्शः। स्वेच्छया न तु कादाचित्कत्वेन। कि न जितं सर्वोत्कृष्टेन मयैव स्थितमित्यर्थः॥१०॥
प्रकटीभव नान्याभिः प्रार्थनाभिः कदर्थनाः।
कुर्मस्ते नाथ ताम्यन्तस्त्वामेव मृगयामहे॥११॥
प्रकटीति। अन्याभिरर्थनाभिर्याच्ञाभिः कदर्थना व्याकुलताः तव चिद्रूपरस्य स्वात्मनः न कुर्मः,यतस्ताम्यन्तो गाढानुरागविवशाः त्वमिव चिद्रूपं न त्वन्यं कं चित्, मृगयामहे अन्विष्यामः, अतः प्रकटीभव प्रकाशस्वेति शिवम्॥११॥
इति श्रीमदुत्पलदेवाचार्यविरचितस्तोत्रावलौ अध्वविस्फुरणाख्ये षष्ठे स्तोत्रे श्रीक्षेमराजविरचिता विवृति॥६॥
<MISSING_FIG href="../books_images/U-IMG-1725285256Screenshot2024-09-02192331.png"/>
ॐ त्वय्यानन्दसरस्वति समरसतामेत्य नाथ मम चेतः।
परिहरतु सकृदियन्तं भेदाधीनं महाऽनर्थम्॥१॥
त्वयीति। आनन्दसरस्वति हर्षसमुद्रे। समरसतां समावेशकैवल्यं। सकृदेकवारं। परिहरतु यथा न पुनर्भवतीत्यर्थ। इयन्तमपर्यन्तम्॥१॥
एतन्मम नत्विदमिति रागद्वेषादि निगडदृढमूले।
नाथ भवन्मयतैक्यप्रत्ययपरशुः पतत्वन्तः॥२॥
एतदिति। एतत्सुखं तद्धेतुरूपं मम अस्तु, इदं तु दुःखं तद्धेतुरूपं मम माभूदित्येवं भेदावग्रहरूपरागद्वेषाद्यात्मनो निगडस्य बन्धनस्य दृढे कठिने मूले अन्तर्मध्ये । भवन्मयतैक्ये प्रत्ययः चिदैक्यप्रतीतिरेव परशुः कुठारः ॥ २ ॥
गलतु विकल्पकलंकावली समुल्लसतु हृदि निरर्गलता।
भगवन्नानन्दरसप्लुताऽस्तु मे चिन्मयी मूर्तिः॥३॥
गलत्विति। विकल्पानां भेदप्राधान्यात्कलङ्कता। निरर्गलता निःशङ्कता स्वातन्त्र्यं। मम चिन्मयी मूर्ति प्रमातृता आनन्दरसप्लुता समावेशानन्दोच्छलिता अस्तु॥३॥
रागादिमयभवाण्डक–
लुठितं त्वद्भक्तिभावनाम्बिका तैस्तैः।
आप्याययतु रसैर्मां
प्रवृद्धपक्षो यथा भवामि खगः॥४॥
रागादीति। रागादिमये भवाण्डके संसारगोलके। लुठितमधोध पतन्तं मां। त्वद्भक्तिभावनैवाम्बिका माता। तैस्तै परमानन्दसारैः रसैराप्याययतु तर्पयतु। यया प्रवृद्धपक्षः प्रकर्षेणासादितव्याप्तिज्ञानक्रियामयस्वात्मपक्षः। खगो निर्मलदिग्गगनगतिर्भवामि। अण्डलुठितश्च पक्षी मात्रा रसैराप्यायितः खेगच्छतीति श्लेषोपमाध्वनिः॥४॥
त्वच्चरणभावनाऽमृत–
रससारास्वादनैपुणं लभताम्।
चित्तमिदं निःशेषित–
विषयविषासङ्गवासनाऽवधि मे॥५॥
त्वदिति। त्वच्चरणभावना त्वद्भक्तिचिन्ता, सैवामृतरससार उत्कृष्टः आनन्दप्रसर, तत्रआस्वादे चमत्कारे, नैपुणं वैदग्ध्यं, ममेदं चित्तं लभताम्। कीदृशम्—निःशेषित समाप्तो विषयविषासंगवासनानां वेद्यहालाहलव्यसनसंस्काराणामवधिर्मर्यादा येन॥५॥
त्वद्भक्तितपनदीधितिसंस्पर्शवशान्ममैष दूरतरम्।
चेतोमणिर्विमुञ्चतु रागादिकतप्तवन्हिकणान्॥६॥
त्वदिति। मम चेतोमणिरौचित्याच्चित्तसूर्यकान्तरत्नं, त्वद्भक्तितपनदीधितिसंस्पर्शवशाद्भवत्समावेशसूर्यकरासङ्गात्, रागादिकानेव तप्तवन्हिंकणान् द्रष्टुमशक्यान् स्फुलिङ्गान्, दूरतररमत्यर्थ, मुञ्चतु जहातु॥६॥
तस्मिन्पदे भवन्तं सततमुपश्लोकयेयमत्युच्चैः।
हरिहर्यश्वविरिञ्चा अपि यत्र बहिः प्रतीक्षन्ते॥७॥
तस्मिन्निति। तस्मिन्नत्युच्चैःपदे परशक्तिमार्गे त्वामुपश्लोकयेयं श्लोकैः स्तवेयं सम्यक् परामृशेयम्। हर्यश्वः इन्द्रः। बहिः प्रतीक्षन्ते। लिप्सवोऽपि वार्तानभिज्ञा इति यावत्॥७॥
भक्तिमदजनितविभ्रम–
वशेन पश्येयमविकलं करणैः।
शिवमयमखिलं लोकं
क्रियाश्च पूजामयीः सकलाः॥८॥
भक्तीति। भक्तिमदेन समावेशप्रहर्षेण जनितो यो विभ्रमो लोकोत्तरो विलासस्तद्वशेन। करणैश्चक्षुरादिभिः। अविकलं पूर्ण कृत्वा। करणप्रमरात्मनि व्युत्थानेऽपि श्रीभैरवीयमुद्राप्रवेशयुक्त्या समाविष्ट एव भूत्वाऽखिलं लोकं विश्वं लोकं शिवमयं‚ क्रियाश्च वाङ्मनःकायव्यापृती सकला पूजामयीश्चिन्मयस्वरूपोल्लासरूपाः पश्येयम्॥८॥
मामकमनोगृहीत–
त्वद्भक्तिकुलाङ्गनाऽणिमादिसुतान्।
सूत्वा सुबद्धमूला–
ममेति बुद्धिं दृढीकुरुताम्॥६॥
मामक इति। मामकेन मनसा गृहीता प्राणेशत्वेन स्वीकृता येयं भक्तिरेव अतिस्पृहणीयत्वात्सर्वजनागोचरत्वाच्च कुलाङ्गना पत्नी, अथ च आगमभाषया कुलेश्वरीरूपा। सा अणिमादीनेव सुतान् सूत्वा, अन्तः स्थितानेव अभिव्यक्तिं नीत्वा, महाव्याप्त्यासुस्फुटतया परामृश्य, सुष्ठु बद्धमूलां प्ररूढा सती, मम इयद्विश्वं न तु अन्यस्योते बुद्धिं दृढीकुरुतां प्ररूढिं नयतु। अत्र च अभेदसारा अणिमादयोऽभिप्रेताः। तथाहि चित्पद एव स चान्तर्भावक्षमत्वादणिमा। व्यापकत्वान्महिमा। भेदमयगौरवाभावाल्लघिमा।विश्रान्तिस्थानत्वात्प्राप्तिः। विश्ववैचित्र्यग्रहणात्प्राकाम्यं। अखण्डितत्वादीशित्वं। सर्वसहत्वाद्यत्रकामावसायित्वं च। सत्यतः परिपूर्णतया, विद्यतेऽन्यत्र तु त्वत्प्रसादादतिपरिमित मितिकृत्वा पूर्णमेवात्र तदभिहितं, न त्वन्यत्, पूर्णत्वेन नैराकाङ्क्ष्यात्। “आसतां तावदन्यानि दैन्यानी"त्युक्ते व्याघातप्र—
सङ्गाच्च । एवमुत्तरत्रापि स्मर्तव्यमिति शिवम्*॥९॥
इति श्रीमदाचार्योत्पलविरचिताया स्तोत्रावलौविधुरविजयनामधेये सप्तमस्तोत्रे श्रीक्षेमराजकृता विवृतिः॥
<MISSING_FIG href=”../books_images/U-IMG-1725280276Screenshot2024-09-02180045.png"/>
ॐ यः प्रसादलव ईश्वरस्थितो
या च भक्तिरिव मामुपेयुषी।
तौ परस्परसमन्वितौ कदा
तादृशे वपुषि रूढिमेष्यतः॥१॥
यइति। मायाकालुष्योपशान्त्यांचितो नैर्मल्यं प्रसादः। तस्य लवः अल्पता। पूर्णतायां तु देहापगमाच्छिवतैव। इश्वर इति सप्तम्यनन्यभावे। ईश्वरे एव स्थितइत्यर्थः स एव हि चिद्रूपः तथा स्वयमेव प्रसीदति भक्तिप्रसादात्। ईश्वरस्य रूपोपमाव्यङ्ग्यत्वम्। इवशब्दो भक्ते परिमिततामाह। काष्ठाप्राप्ता ह्यसौ मोक्षास्वादमय्येव। उपेयुषी उपगतवती। तौ भक्तिप्रसादौ परस्परं सम्यगन्वितौ तरुणाविव प्रेमनिर्भरतया स्वानुरूप्येण सम्बद्धौ। तादृशे वपुषीति परानन्दघनतैकमये पूर्णे स्वरूपे। रूढिं विश्रान्तिम्+॥१॥
—————————————————————————————————
*स्फुटार्थस्त्वयमेव प्रतिभाति यथा-कुलाङ्गनायां कुलवत्यां सत्यां पत्न्यां पुत्रवत्यां जाताया यथा पत्युर्ममता दृढतरा भवति तथा स्वभावतो न तु मदिच्छया प्रसूताणिमादिकायां भक्त्या मम चेतसो ममता सुदृढ़ा भवतु मम मनासितव भक्ति परा स्थिरतां लभतामिति यावत्। अस्य पद्यस्य भक्तिदार्ढ्येतात्पर्य्यमितेि शिवम्॥
+यः प्रसादकणोमद्विषयक ईश्वरे स्थितः। ईश्वरप्रसादकणिका विनाअल्पीयस्था अपि भक्तेरसम्भवात्। या चभक्तिरिव, अपूर्णस्वाद् भक्त्याभासो, माये स्थिता। ईश्वरप्रसादकाणिकैव गौणभक्तिरूपेण या मा प्राप्तवतीत्यर्थ। ते इमे प्रसादभक्ती परस्पर वर्द्धवन्त्यौ कदापूर्णस्वरूपलाभात् परमानन्दैकवपुषिपरिणतिं गमिष्यत इति स्पष्टोऽर्थ।
त्वत्प्रभुत्वपरिचर्वणजन्मा
कोप्युदेतु परिपोषरसोऽन्तः।
सर्वकालमिह मे परमस्तु
ज्ञानयोगमहिमादि विदूरे॥२॥
त्वदिति। त्वत्प्रभुत्वस्य त्वत्स्वामिकत्वस्य “गर्जामि बतेति" प्रागुक्तश्लोकयुक्त्या यत्परिचर्वर्ण ततो जन्म यस्य। मम कोप्यलौकिकः परितोषरस आनन्दप्रसरः। इहेति जगति। सर्वकालं वपुस्थानावसरेऽपि। परं केवलमुदेतु उल्लसतु। ज्ञानं विश्वमयस्वात्मप्रतिपत्ति।योगस्तत्तद्भूमिकालाभः। तयोर्महिमा प्रकर्षः। आदिपदात्तत्सिद्धयुदयरूपं फलम्॥२॥
लोकवद्भवतु मे विषयेषु
स्फीत एव भगवन्परितर्षः।
केवलं तव शरीरतयैतान्
लोकयेयमहमस्तविकल्पः॥३॥
लोकवदिति। महार्थमुद्रामुद्रितस्योक्तिः। हे भगवन् मम लोकस्येव विषयेषु रूपादिषु स्फीतो बहल एव परितर्षः स्पृहयालुता अस्तु। किं तु एतान्विषयानहं अस्तविकल्पो गलितभेदप्रतिपत्ति सन्, तव चिदात्मनः शरीरतया अहंतासारत्वेन, लोकयेयं पश्येयम्॥३॥
देहभूमिषु तथा मनसि त्वं
प्राणवर्त्मनि च भेदमुपेते।
संविदः पथिषु तेषु च तेन
स्वात्मना मम भव स्फुटरूपः॥४॥
देहभूमिषु इति। जरामरणाद्यवस्थासु। मनसि कल्पनासारे। प्राणवर्त्मनिदुःखसुखादिस्पर्शमये। संविद पथिषु नीलादिज्ञानेषु। तेषु इति विचित्रेषु। भेदमुपेते इति नपुंसकशेषः। सर्वस्मिन्नस्मिन्नभिहिते प्रकारे भेदमये सतीति यावत्। तेनेति स्वात्मनि चमत्कृतेन।चिद्धनेन स्वात्मना स्वरूपेण।मम स्फुटरूपः स्वप्राधान्येन स्फुरन् भव॥४॥
निजनिजेषु पदेषु पतन्त्विमाः
करणवृत्तय उल्लसिता मम।
क्षणमपीर्श मनागपि मैव भृत्
त्वदविभेदरसक्षतिसाहसम्॥५॥
निजेति। इमाः मम करणवृत्तयश्चक्षुरादिसंविद्देव्यः। उल्लसिताः अलौकिकेन निजौजसा सोल्लासा।स्वेषु स्वेषु रूपादिषु विषयेषु प्रसरन्तु। त्वदविभेदरसक्षतिः समावेशच्युति सैव साहसमविमृश्यकारिता मैवाभूत्। सर्वत्र विषयेषु परितर्षः आकाङ्क्षा। इह तु तत्र संविदाम्प्रसर इति विशेष॥५॥
लघुमसृणासिताच्छशीतलं
भवदावेशवशेन भावयन्।
वपुरखिलपदार्थपद्धते–
र्व्यवहारानतिवर्तयेय तान्॥६॥
लध्विति। भवदावेशवशेन मायीयगुरुत्वहान्या लघु, सुखस्पर्शत्वान्मसृणं, प्रकाशघनत्वात्सितं, अच्छं शीतलं चेति प्राग्वत्, भावयन् सम्पादयन्, निखिलायाः पदार्थपद्धतेः मातृमेयराशे सम्बन्धिनो व्यवहारान् लौकिकान् परिस्पन्दान्,अतिवर्तयेय निवर्तयेय॥६॥
विकसतु स्ववपुर्भवदात्मकं
समुपयान्तु जगन्ति ममाङ्गताम्।
व्रजतु सर्वमिदं द्वयवल्गितं
स्मृतिपथोपगमेप्यनुपाख्यताम्॥७॥
विकसत्विति। स्वं चिन्मयॉ भवदात्मकं, वपुः स्वरूपं, विकसतु। अत एव जगन्ति धरादिसदाशिवान्तानि। मम अङ्गतामभिन्नतां सम्यक् अपुनरुत्थानेनोपयान्तु। ततश्च सर्व द्वयवल्गितं भेदविजृम्भितं, स्मृतिपथोपगमे अनुपाख्यतां स्मृतेर्विषयतां,व्रजतु॥७॥
समुदियादपि तादृशतावका–
ननविलोकपरामृतसंप्लवः।
मम घटेत यथा भवदद्वया–
प्रथनघोरदरीपरिपूरणम्॥८॥
समुदियादिति। भवदद्वयाप्रथनं चिदैक्याप्रथा, सैव घोरा दुष्पूरा संसारभयप्रदा दरी खदा, तस्याः परिपूरणम् चिदैक्यसाक्षात्कार, मम यथा घटेत तथा तादृशं, परमानन्दनदीप्रसरहेतु यत्तावकमाननं शैवीमुखमित्यादि स्थित्यापरशक्ति—
रूपं, तेन यो विलोको, विलोकने अनुग्रह, तस्य वा विलोकः स्मरणं, स एव परामृतसंप्लवः परस्पर्शरसौघोऽपि समुदियादिति रुद्रशक्तिसमावेशप्रकर्षमाशास्ते॥८॥
**अपि कदा चन तावकसङ्गमा–
ऽमृतकरणाच्छुरणेन तनीयसा। **
सकललोकसुखेषु पराङ्मुखो
न भवितास्म्युभयच्युत एव किम्॥९॥
अपीति। तावकसङ्गमस्त्वत्समावेश एवामृतकणाच्छुरणं सुधाशीकराप्लावः। तनीयसा प्रसरन्निर्मलस्वरूपेण। सकलेषु लौकिकेषु सुखेषु, “सर्वं दुःखं विवेकिन” इति स्थित्या हेयेष्वपि परामृताच्छुरितत्वात्पराङ्मुखो न भवितास्मि संमुख एव भविष्यामि। कीदृक्— उभयस्माद्द्वैताच्च्युत एव, हेयोपादेयहान्या सर्वमभेदेन पश्यन्नित्यर्थः *॥९॥
––––––––––––––––––––––––––––––––––––––––––––––––––––––––––––––
* नेय व्याख्या विचारकाणां हृदय गच्छति। तथाहि लौकिकसुखेषु सम्मुखीभावो नेष्यते शिवावेशपरमामृतकणदिग्धेनाऽपि। तादृशप्रवृत्ते प्राकृतजनस्यैव स्वभावसिद्धत्वात्। न चोभयशब्दो द्वैते रूढ़, तस्य निर्द्दिष्टवस्तुद्वयबोधकत्वात्, द्वैतशब्दस्य च ब्रह्मातिरिक्तनिखिलप्रपञ्चबोधने प्रसिद्धत्वात्। “उभयस्माद्द्वैताच्च्युत " इति विशेषणञ्च निरस्तद्वैतदर्शने पुरुषे नैव कथञ्चिदपि सङ्गच्छते, च्युत इति विशेषणस्योत्तमपदात्पतित एव प्रयोगौचित्यात् विधूद्वैते परमपदारूढे प्रयोगायोगाश्च। काकौ किमिति पदस्य पद्यान्ते पठितस्योपेक्षा च दृश्यते। कोऽर्थस्तर्हि पद्यस्यास्येत्याकाङ्क्षायामुच्यते। परमशिवैक्यध्यानानन्दमविच्छिन्न लब्धुकामस्य भक्तस्य स्तोत्रकृतो व्युत्थानदशायां विषयसुखलशेच्छयाऽपि कथञ्चिदुत्पन्नथा तप्यमानस्य विलपितमेतत्। तावकसङ्गम एव त्वत्समावेश एवाऽमृत, तत्कणस्य तनीयसाऽपि आच्छुरणेन सूक्ष्मेणाप्यभ्युक्षणेन तृप्तोभूत्वेतिशेष। अपि कदाचन सकललोकसुखेषु पराङ्मुखो न भवितास्मि किं, सकलवैषयिकसुखानि कदाचिन्नहास्यामि किम्। किमिति काक्वा नैर्वेद्यवैराग्य व्यज्यते। तथा च श्रीशङ्कराचार्य्यस्वामिकृतशतश्लोक्याम् नैर्वेद्य ज्ञानगर्भ द्विविधमभिहित तत्र वैराग्यमाद्य। प्रायोदुःखावलोकाद्भवति गृहसुहृत्पुत्रवित्तैषणादेरित्यादि (१४)। सम्प्रत्यह कीदृश शैवमार्गात् लौकिकपतव्याश्चच्युत एवेति शिवम्।
सततमेव भवच्चरणाम्बुजा–
**करचरस्य हि हंसवरस्य मे। **
उपरि मूलतलादपि चान्तरा–
दुपनमत्वज भक्तिमृणालिका॥१०॥
सततमिति। मम हंसवरस्य भेदाभेदयोः हानसमादानधर्मिणो, व्याख्यातदृशा सततमेव भवच्चरणाम्बुजमाकर उत्पत्तिस्थानं पराशक्तिभूस्तत्र विचारिणः। भक्तिरेव मृणालिका बिसाङ्कुरः। उपनमतु उपभोग्यमस्तु। उपरीत्यादि प्रवेशमध्यविश्रान्तिभूमिभ्यः सर्वाभ्य एवेत्यर्थः। हंस आत्मा॥१०॥
**उपयान्तु विभो समस्तवस्तू–
न्यपिचिन्ताविषयं दृशः पदं च। **
मम दर्शनचिन्तनप्रकाशा–
ऽमृतसाराणि परं परिस्फुरन्तु॥११॥
उपयान्तु इति। चिन्ताविषयं कल्पन्ताम्। दृश पदं साक्षात्कार्यत्वात्। दर्शनचिन्तनयोरविकल्पसविकल्पयोः। प्रकाशामृतं बोधरसायनमेव सारमुत्कृष्टं रूपं येषां। तानि हेयोपादेयकलङ्कशून्यानि समस्तानि वस्तूनि। परं केवलं। परितः समन्तात् स्फुरन्तु॥११॥
**परमेश्वर तेषु तेषु कृच्छ्रे–
ष्वपि नामोपनमत्स्वहं भवेयम्। **
न परं गतभीस्त्वदङ्गसङ्गादु–
पजाताधिकसम्मदोऽपि यावत्॥१२॥
परमेश्वरेति। कृच्छ्रेषु केवलेषु केवलमहं गतभी त्यक्तभयस्त्वदङ्गसङ्गात् रुद्रशक्तिसमावेशात्, यावदुपजातः अधिकः प्रकृष्ट सम्मदो हर्षो यस्य तादृगपि भवेयम्। अधिकशब्दस्यायमाशयः। यत् तत्तद्दुःखेष्वप्युदितेष्वविलुप्तस्थितिः॥१२॥
भवदात्मनि विश्वमुम्भितं
यद्भवतैवाऽपि बहिः प्रकाश्यते तत्।
इति यद्दृढनिश्चयोपजुष्टं
तदिदानीं स्फुटमेव भासताम्॥१३॥
भवदिति। यद्विश्वं व्योमकलातः कालानलान्तं भवदात्मनि उम्भितं त्वच्चित्सूत्रप्रोतं, तद्भवतैव न तु अन्येन। बहिरिति तत्प्रमात्रपेक्षया बाह्यत्वेन प्रकाश्यते। अपिशब्दो वहिःप्रकाशनेऽपि अन्त प्रकाशाविरहमाह। इति यद्वस्तु वाक्यार्थरूपं दृढेन निश्चयेन उप आत्मसमीपे, जुष्टं प्रीत्या सेवितं समावेशेनास्वादितं, तदिदानीमिति व्युत्थानेऽपि, स्फुटमेव भासताम् प्रयक्षीभवतु इति शिवम्॥१३॥
इति श्रीमदुत्पलदेवाचार्यविरचितस्तोत्रावलावलौकिकोद्बल ननामाष्टमस्तोत्रे श्रीक्षेमराजकृताविवृति॥
<MISSING_FIG href=”../books_images/U-IMG-1725219544Capture.PNG"/>
ॐ तत्सत्। कदा नवरसार्द्रार्द्र–
सम्भोगास्वादनोत्सुकम् \।
प्रवर्तेत विहायान्यन्–
मम त्वत्स्पर्शने मनः॥१॥
कदेति। नवरसेन नूतनभक्तिप्रसरेण, आर्द्रार्दः सातिशयं स्पृहणीयो यः समावेशात्या सम्भोगः, तदास्वादे उत्सुकं
सोत्कण्ठं, मम मनः, अन्यत् कल्पनाजालं विहाय त्वत्स्पर्शने प्रवर्तत त्वत्समावेशमयं भवेत्॥ १॥
त्वदेकरक्तस्त्वत्पादपूजामात्रमहाधनः।
कदा साक्षात्करिष्यामि भवन्तमयमुत्सुकः॥२॥
त्वदिति। त्वय्येवैकत्र न तु विभूतिषु रक्तः, अत एव त्वत्पादपूजामात्रं त्वन्मरीचिसपर्यैव महत् स्फीतं धनं यस्य। “प्रमा समाप्तोत्सव” मितिस्थित्या क्षणमात्रमपि व्युत्थानमसहमानः उत्सुकः सन् कदा त्वां साक्षात्करिष्यामि॥ २॥
**गाढानुरागवशतो
निरपेक्षीभूतमानसोऽस्मि कदा \। **
पटपटितिविघटिताखिल–
महार्गलस्त्वामुपष्यामि॥३॥
गाढेति। निरपेक्षीभूतमुच्चारकरणध्यानाद्यन्तर्मुखं तत्सर्वं परिहरत् मानसं यस्य स तथाविधः। कदा त्वामुपेष्यामि ऐकध्येन प्राप्स्यामि। कीदृक्—पटपट इति विघटितानि झटिति त्रुटितानि, अखिलानि मायीयान्यर्गलानि अविद्यादिपाशा यस्य। पटपटितीत्याद्युक्त्या अपुनरुत्थानं त्रुटितपाशान्तरसाधर्म्यमुक्तम्॥ ३॥
स्वसंवित्सारहृदयाधिष्ठानांः सर्वदेवताः।
कदा नाथ वशीकुर्यां भवद्भक्तिप्रभावतः॥ ४॥
स्वसंविदिति। स्वसंवित्सारं प्रकाशविमर्शात्मकं हृदयमधिष्ठानमाश्रयो यासान्ताः, सर्वाः ब्राह्म्यादिकाः देवता, “याभिःशक्तिचक्रस्य भोग्यतां गत” इति स्थित्या पशवः पाशिताः।
ताः कदा भवद्भक्तेः समावेशात्मन प्रभावाद्वशीकुर्यां तच्चक्रैश्वर्य प्राप्नुयामिति यावत्॥४॥
कदा मे स्याद्विभो भूरि भक्त्याऽऽनन्दरसोत्सवः।
यदाऽऽलोकसुखाऽऽनन्दी पृथङ्नामापि लप्स्यते॥५॥
कदेति। भूरि प्रभूत। उत्सवोक्त्या अतिस्पृहणीयत्वात्तदेकव्यग्रमात्मानमाशास्ते। पृथङ्नामेत्यनेन परं सामरस्य सूचयति॥५॥
ईश्वरमभयमुदारं
पूर्णमकारणमपन्हुतात्मानम्।
सहसाऽभिज्ञाय कदा
स्वामिजनं लज्जयिष्यामि॥६॥
ईश्वरमिति। अशेषविभूत्यास्पदत्वादीश्वरम्। अप्रतियोगित्वादभयम्। सर्वप्रदत्वादुदारम्। निराकाङ्क्षत्वात्पूर्णम्। नियत्वादकारणम्। अथ च अकारणं निर्निमित्तमेव जगद्रपताग्रहणे स्वरूपगोपनसारत्वादपन्हुतात्मानम्। यो हि अनीश्वरादिरूपः स गोपायतामात्मानं भगवांस्तु नैव। अथ च गोपितात्मैवेति। ईदृशं स्वामिजनं निजप्रभुं, सहसेति शाम्भवावेशयुक्त्या, कदाऽभिज्ञाय साक्षात्कृत्य‚लज्जयिष्यामि। अपन्हुतिप्रधानतद्रूपगुणीकारेण पूर्णचिदेकरूपतयैव प्रथेयेत्यर्थः॥६॥
कदा कामपि तां नाथ तव वल्लभतामियाम्।
यथा मां प्रति न क्वापि युक्तं ते स्यात्पलायितुम्॥७॥
कदेति। तव वल्लभतामित्युक्त्या इदमाह—मम तावदसन्तवल्लभोसि, तव तु अहमलौकिकभक्तिप्रकर्षात्कदा कामप्य—
सामान्यां, प्रसादपात्रतां प्राप्नुयां, यया वल्लभतया मां प्रति सदा आभिमुख्येन तव न क्वापि पलायितुं स्वात्मान गोपायितुं युक्तं स्यात्। सततमेवान्तराविश्य तिष्ठेरित्यर्थः॥७॥
तत्त्वतोऽशेषजन्तूनां भवत्पूजामयात्मनाम्।
दृष्ट्याऽनुमोदितरसाऽऽप्लावितः स्यां कदा विभो॥८॥
तत्वत इति। सर्वे जन्तवः परमार्थतो यत्किञ्चित्कुर्वाणाः स्वात्मदेवताविश्रान्तिसारभवत्पूजामयाः। एतेषां सम्बन्धिन्या तत्वतो दृष्ट्या, त्वदनुग्रहमहिमोक्तेन स्वात्मप्रत्यभिज्ञानेन हेतुना, तैरेवानुमोदित श्लाघितो यो रसो भक्त्यानन्दप्रसरस्तेन आप्लावितो व्याप्तः कदा स्याम्। तत्त्वत इत्यावृत्या योज्यम्। अथ वा अशेषजन्तूनामिति कर्मणि षष्ठी। ततश्चायमर्थः। कदा अशेषजन्तून् तत्त्वतो भवत्पूजामयान् दृष्ट्वा अनुमोदनरसेन आनन्दप्रसरेणाप्लावितः स्यामिति। अत्रानुमोदित इति भावेक्तः। उभयत्रापि व्याख्याने मत्सम सर्वोस्त्वित्याशंसातात्पर्यम् \।\।८\।\।
ज्ञानस्य परमा भूमिर्योगस्य परमा दशा।
त्वद्भक्तिर्या विभो कर्हि पूर्णा मे स्यात्तदर्थिता॥९॥
ज्ञानस्येति। सर्वशास्त्रेषु ज्ञानं मुक्तिहेतुत्वेनोक्तं, मुक्तेश्च समावेशसतत्वतयैव व्यवस्थापनात्, तद्रूपा या भक्तिः ज्ञानस्य परमा भूः। “योगमेकत्वमिच्छन्ति वस्तुनोऽन्येन वस्तुने" त्यागमलक्षितस्य विचित्रसमावेशात्मनो योगस्य परचैतन्यभैरवैक्यापत्तिरूपा दशा च या त्वद्भक्तिः, तदर्थिता कदा कर्हि पूर्णा कृतकृत्या स्यात्॥९॥
सहसैवासाद्य कदा गाढमवष्टभ्य हर्षविवशोऽहम्
त्वच्चरणवरनिधानं सर्वस्य प्रकटयिष्यामि॥१०॥
सहसैवेति। झटिति प्रतिभाविकासेन, आसाद्य आसमन्तात् स्वात्मसम्भोगपात्रीकृत्य, तथा गाढमवष्टभ्य व्युत्थानपरिक्षयार्थ प्रयत्नेनात्मीकृत्य, तत एव हर्षविवशः परमानन्दनिर्भरोऽहं, कदा त्वच्चरणवरनिधानं समस्तसम्पन्मयं भवत्परशक्तिनिधिं, सर्वस्य प्रकटयिष्यामि, छन्नतयान्तःस्थितमपि सूचितोपदेशयुक्त्या उन्मुद्रयिष्यामि। परप्रतिभाबलप्रयत्नावष्टम्भपूर्वमनुग्रहावलोकनादिकं यत्समावेशसंक्रमोपदेशे तत्त्वं, तत्परमसर्वानुग्रहसमर्थं स्यादित्यर्थः। अनेन स्वात्मनः पूर्णत्वाद्विश्वजनानुजिघृक्षापरतां सूचयति॥१०॥
परितः प्रसरच्छुद्धत्वदालोकमयः कदा \।
स्यां यथेश न किञ्चिन्मे मायाच्छायाबिलं भवेत्॥११॥
परित इति। परितः समन्तात् शुद्धोऽद्वयरूपो यस्त्वदालोकश्चित्प्रकाशः तन्मय कदा स्याम्। यथा मायाछायाबिलमद्वयाख्यातिकुहरं मम न किञ्चिद्भवेत् न किञ्चिच्छिष्येत। छायाशब्देन मायाबिलस्यावास्तवतामाह। मायाछाययाऽऽबिलं कलुषं न किंचिदिति वा योज्यम्॥११॥
आत्मसात्कृतनिःशेषमण्डलो निर्व्यपेक्षकः।
कदा भवेयं भगवंस्त्वद्भक्तगणनायकः॥१२॥
आत्मेति। आत्मसात्कृतानि चिदैकध्यमापितानि निःशेषाणि सदाशिवादिक्षित्यन्तानि मण्डलानि भुवनानि येन। निर्व्यपेक्षकः अद्वितीयः। त्वद्भक्तगणनायकः प्रधानं कदा स्याम्॥१२॥
नाथ लोकाभिमानानामपूर्वं एवं निबन्धनम्।
महाभिमानः कर्हि स्यां त्वद्भक्तिरसपूरितः॥१३॥
नाथेति। “स्रष्टास्मि स्थापयितास्मि संहर्तास्मि तथा पण्डित शूरो यज्ञवानस्मि” इति नानाविधानां रुद्रक्षेत्रज्ञाभिमानानां त्वमेव चिद्रूपो निबन्धनं कारणम्। अपूर्व निर्निमित्तं कृत्वा स्वस्वातन्त्र्येणैवेति यावत्। वस्तुतो हि तवैव सर्वकर्तृत्वान्न ब्रह्मादीनां स्रष्ट्टत्वादि न वा पाण्डित्यादि कस्य चित्। केवलं त्वमेव तत्र तत्र तथाभिमानमुत्थापयसि। यथा चैवं तथा कर्हि कदा त्वदिच्छात एव महाभिमानो विश्वात्मा चिदानन्दघनः शिव एवास्मीति दृढोत्साहावष्टंभो भक्तिरसेन पूरितो व्याप्तःस्याम्। भक्तिरसपूरित इति वदतोऽयमाशयः यदासादितमहाभिमानस्यापि समावेशास्वादमयः प्रभुविषये दासभाव एवोचितः॥१३॥
अशेषविषयाशून्यश्रीसमाश्लेषसुस्थितः।
शयीयमिव शीताङ्घ्रिकुशेशययुगे कदा॥१४॥
अशेषेति। शीताङ्घ्रिकमलयुगे प्राग्वत् शयीयं विश्राम्याम् कीदृक्—अशेषविषयाशून्या विश्वनिर्भरा येयं श्रीर्भक्तिलक्ष्मी तत्कृतेन समाश्लेषेण दृढावष्टम्भेन सुस्थितः। काव्यार्थः स्पष्टः॥१४॥
भक्त्यासवसमृद्धायास्त्वत्पूजाभोगसम्पदः।
कदा पारं गमिष्यामि भविष्यामि कदा कृती॥१५॥
भक्त्यासवेति भक्त्यासवेन सेवारसेन, समृद्धा स्फीता या त्वत्पूजाभोगसम्पत् समावेशविश्रान्तिश्रीः, तस्याः पारं प्रान्तकोटि कदा गमिष्यामि, अत एव कदा कृतार्थः स्याम्॥१५॥
आनन्दबाष्पपूर–
स्खलितपरिभ्रान्तगद्गदाक्रन्दः।
हासोल्लसितवदन–
स्त्वत्स्पर्शरसं कदाऽऽप्स्यामि॥१६॥
आनन्देति। चिरव्युत्थानान्तरिनतां समावेशदशामेवाकाङ्क्षति। आनन्दवाष्यपूरेण अन्तः समावेशहर्षावेशविसरदश्रुसन्तत्या, स्खलितः अस्थानप्रतिहतः, परिभ्रान्तश्चिरमनुरणन्, गद्गदः अस्पष्टाक्षरः, आक्रन्दो महानारवो यस्य। हासेन विकासेनोल्लसितं वदनं शक्तिमार्गो यस्य। अत एव हासेनोल्लसितं व्यात्तं शोभितं च वक्रं यस्य॥१६॥
पशुजनसमानवृत्तामवधूय दशामिमां कदा शम्भो।
आसादयेय तावकभक्तोचितमात्मनो रूपम्॥१७॥
पश्विति। व्युत्थानपतितभेदमयीमिमामिति स्फुटं भान्ती दशामवधूय निवार्य, अथच समावेशप्रसरत्सर्वाङ्गावधूननेनाभिभूय, तावकभक्तोचितं नित्योदितपरमानन्दमयमात्मनो, न तु अन्यस्य कस्यचिद्, रूपं स्वरूपं, कदा आस्वादयेय चमत्कुर्याम्॥१७॥
**लब्धाऽणिमादिसिद्धि–
र्विगलितसकलोपतापसन्त्रासः। **
त्वद्भक्तिरसायनपान–
क्रीड़ानिष्ठः कदाऽऽसीय॥१८॥
लब्धेति। अणिमादिसिद्धिः प्राग्वदभेदमयी। अत एव विगलितः शान्त उपतापः सन्त्रासश्च यस्य। ब्रह्मादीनान्तु
भेदमयाणिमादियोगेऽपि मरणादित्रासस्यावश्यंभावात्। तथाभूतोऽपि त्वद्भक्त्यमृतपानप्रमोदपरः स्याम्॥१८॥
नाथ कदा स तथाविध
आक्रन्दो मम समुच्चरेद्वाचि।
यत्समनन्तरमेव
स्फुरति पुरस्तावकी मूर्ति॥१९॥
नाथेति। चिरव्युत्थितस्योक्तिः। स तथाविध इति वक्तमशक्यः। आक्रन्दो महानाद समुच्चरेत् स्वयमेवोल्लसेत्। स्फुरति समावेशेन दीप्यते मूर्तिः स्वयम्॥१९॥
**गाढगाढभवदङ्घ्रिसरोजा–
लिङ्गनव्यसनतत्परचेताः। **
वस्त्ववस्त्विदमयत्नत एव
त्वां कदा समवलोकयितास्मि॥२०॥
गाढेति। वीप्सया व्यसनतत्परशब्दाभ्यां च भक्तिप्रकर्षवैवश्यमाह। वस्त्ववस्त्विदमिति भावाभावरूपं विश्वम्, अयत्नत एव ध्यानजपादि विना, त्वामपि त्वद्रूपं सम्यक् तत्त्वतोऽवलोकयितास्मि द्रक्ष्यामि इति शिवम्॥२०॥
इति श्रीमदुत्पलदेवाचार्यविरचितस्तोत्राबलौ स्वातन्त्र्यविजयनामधेये नवमे स्तोत्रे श्रीक्षेमराजकृता विवृति॥९॥
<MISSING_FIG href="../books_images/U-IMG-1725186753Capture.PNG"/>
ॐ न सोढव्यमवश्यं ते जगदेकप्रभोरिदम्।
माहेश्वराश्च लोकानामितरेषां समाश्चयत्॥१॥
नेति। माहेश्वराः विश्वेश्वरस्वरूपसमाविष्टाः, इतरेषां भेद—
मयानां ब्रह्मादीनां समा इति इदं ते तव न सोढव्यं त्वयैवैतन्न सह्यते स्वभावसिद्धमेवैतत्। यतस्त्वमेवैकः अद्वितीयो जगतः प्रभुः। चकारौ विरोधहेतुमाहतु। इतरेषां लोकानां समा इति तव न सोढुं युक्तमित्यन्ये॥१॥
ये सदैवानुरागेण भवत्पादानुगामिनः।
यत्र तत्र गता भोगांस्ते कश्चिदुपभुञ्जते॥२॥
य इति। अनुरागेण आसक्त्या, ये त्वन्मरीचिसंबद्धास्ते यत्र तत्रेति सर्वावस्थास्थिताः कांश्चित्परानन्दमयान्भोगानुपभुञ्जते॥२॥
भर्ताकालान्तको यत्र भवांस्तत्र कुतो रुजः।
तत्र चेतरभोगाशा का लक्ष्मीर्यत्र तावकी॥३॥
भर्तेति। कालान्तक इत्यनेन महाकालसञ्चार्यमाणा सर्वा रुजः कालग्रासिनि प्रभौ सति कुतः। मूलोच्छेदान्नैव भवन्तीत्यर्थः। इतरभोगाशा सदाशिवादिपदलक्ष्मीस्पृहा न का चित् यत्र, भेदस्य ग्रस्तत्वात्। लक्ष्मीरद्वयप्रकाशसम्पत्॥३॥
क्षणमात्रसुखेनापि विभुर्येनापि लभ्यसे।
तदैव सर्वः कालोऽस्य त्वदानन्देन पूर्यते॥४॥
क्षणमात्रेति। येन भक्तेन क्षणमात्रेण समावेशस्पन्देन हेतुनाऽपि त्वं लभ्यसे, अस्य भक्तस्य त्वया तदैवावसरे सर्वः कालो व्युत्थानदशाभाव्यपि आनन्देन पूर्यते। अकालकलित चिदानन्दस्वरूपानुप्रवेशेन तन्मयीक्रियते। उत्तरकालश्च तत्संस्कारेणाप्लाव्यते। विभु स्वामी व्यापकश्च॥४॥
आनन्दरसबिन्दुस्ते चन्द्रमा गलितो भुवि।
सूर्यस्तथा ते प्रसृतः संहारी तेजसः कणः॥५॥
बलिं यामस्तृतीयाय नेत्रायास्मै तव वि(प्र)भो।
अलौकिकस्य कस्यापि माहात्म्यस्यैकलक्ष्मणे॥६॥
आनन्देति। ते तव, भुवि अग्नीषोमात्मकमध्यशक्तिमार्गे, आनन्दरसविन्दुर्यः स एवाह्लादकारित्वाच्चन्दमा। गलितो द्रुतस्व भाव \। बिन्दुश्चन्द्रमाश्च गलितः। मनः प्रमेयराशिसहितं तत्रैव विलीनं। तथा तत्रैव संहारी भेदग्रासी, तेजसःकण परमाग्निस्फुलिङ्गो य स एव प्रकाशकत्वतमोपहत्वादे सूर्य प्रसृत \। सूर्यश्च प्राणे विलीनः। द्रावितसोमसूर्याहि परा शक्तिभूमिः। अस्मै शक्ति रूपाय नेत्राय बलिं याम। अपि च भुवि यश्चन्द्रमा स त्वदीय आनन्दबिन्दुः गलित स्रुतः, सूर्यश्च तव सम्बन्धिनः तेजसः कणः प्रसृतः स्फुरित। यथागमः “ज्ञानशक्ति प्रभोरेषा तपत्यादित्यविग्रहा। तपते चन्द्ररूपेण क्रियाशक्ति परस्य सा" इति। अस्मै एतदर्थ सूर्यचन्द्रोल्लासनाय तव तृतीयं नेत्रं तस्मै बलिं याम। अत्रैव महावन्हिमये मायीयदेहादिप्रमातृतां समर्पयामः। कीदृशाय कस्याप्यसामान्यस्य ब्रह्मोपेन्द्राद्यगोचरस्य अलौकिकस्य माहात्म्यस्यैकलक्ष्मणे असाधारणाभिज्ञानाय। अस्मै इति तादर्थे चतुर्थी॥५ \। ६॥
तेनैव दृष्टोऽसि भवद्दर्शनाद्योति हृष्यति।
कथं चिद्यस्य वा हर्षः कोऽपि तेन त्वमीक्षितः॥७॥
तेनेति। “उच्चाररहितं वस्तु चेतसैव व्यचिन्तयन्” इति शाक्तसमावेशयुक्त्या भवन्तं दृष्ट्वा योऽतिहृष्यति आनन्दमयो भवति, तेनैव क्वापि अभेदोपासनापरेणासि त्वं दृष्ट। कथं चिदिति अकिञ्चिच्चिन्तकस्येति शाम्भवसमावेशक्रमेण वा यस्य कोऽपि हर्षो न तु भेदोपासापरेण हर्षः। तेन कोऽपि इति चिद्धनस्त्वमीक्षितः प्रत्यभिज्ञातः॥७॥
येषां प्रसन्नोऽसि प्रभो यैर्लब्धं हृदयं तव।
आकृष्य त्वत्पुरात्तैस्तु बाह्यमाभ्यन्तरीकृतम्॥८॥
येषामिति। प्रसन्नोऽसीति प्राग्वत्। अत एव हृदयं प्रकाशविमर्शात्मकं रूपं लब्धमात्मीकृतं यैस्तैस्त्वत्पुरात्त्वदीयात्पूरकाच्चिद्रूपादाकृष्य विस्फार्य, देहाद्यपेक्षया वाह्यं विश्वमिदं पुनराभ्यन्तरीकृतं चिन्मयीकृतं “सृष्टि तु सुम्पुटीकृत्य” इति श्री त्रिशकोक्ततत्वार्थदृशा संविद उदितं संविदभेदन चाभासमानं विश्वं चिन्मयमेवैषामिति यावत्। अनुरणनशक्त्या लौकिकेश्वरार्थः प्राग्वत्॥८॥
त्वदृते निखिलं विश्वं समदृग्यातमीक्ष्यताम्।
ईश्वरः पुनरेतस्य त्वमेको विषमेक्षणः॥९॥
त्वदृते इति। समदृगिति समा तुल्या भेदमयीदृक् संवित्तिर्यस्य तत् द्विनयनं चेक्ष्यतां प्रमेयतां यातं। एक इत्यद्वितीयः। विषमं भेदप्लोषकमीक्षणं ज्ञानं यस्य त्रिनेत्रश्च॥९॥
आस्तां भवत्प्रभावेण विना सत्तैव नास्ति यत्।
त्वद्दूषणकथा येषां त्वदृते नोपपद्यते॥१०॥
आस्तामिति। येषां बौद्धसांख्यमीमांसकादीनां, त्वद्दूषणकथा दूषयित्रात्मकमस्फुरच्चिद्रूपं त्वत्स्वरूपं विना नोपपद्यते तेषां विचित्रतनुकरणप्रज्ञानां बुद्धिमत्प्रभावं विना सत्तैव नास्तीत्यादि युक्तिवृन्दं पतितपार्ष्ण्याघातकल्पमास्ताम्॥१०॥
बाह्यान्तरान्तरायालीकेवले चेतसि स्थितिः।
त्वयि चेत्स्यान्मम विभो किमन्यदुपयुज्यते॥११॥
बाह्येति। बाह्या शरीरप्रमातृतापेक्षतत्तद्रूस्तुसंयोगवियो—
गादयः, आन्तरा बुद्ध्याद्यपेक्षका मनःकल्पनादयः, ये अन्तरायाः स्वविश्रान्त्युपरोधिन, तेषामाली पङ्क्तिस्तया केवले रहिते, त्वद्विषये चेतसि यदि मम स्थिति समावेशैकाग्रता स्यात्, तत्किमन्यदुपयुज्यते, प्राप्तव्यस्यैव प्राप्तत्वात्॥११॥
अन्ये भ्रमन्ति भगवन्नात्मन्येवातिदुःस्थिताः।
अन्ये भ्रमन्ति भगवन्नात्मन्येवातिसुस्थिताः॥१२॥
अन्य इति। नैरात्म्यजडात्मवादिनः संसारिणश्च, आत्मनि निज एव स्वरूपे, भ्रमन्ति विपर्यस्यन्ति जन्ममरणादिपरम्परा मपर्यन्तां भजन्ते। अतिदुःस्थितास्तत्त्वज्ञत्वाभावात्क्लिश्यन्ते। अन्ये इति केचिदेवापश्चिमा आत्मन्येव चिद्रूपे, न तु परत्र क्वचिदपि, अतिसुस्थिता परमानन्दैकघना सन्तो, भ्रमन्ति विहरन्ति॥ १२॥
अपीत्वाऽपि भवद्भक्ति–
सुधामनवलोक्य च।
त्वामीश त्वत्समाचारमात्रात्
सिद्ध्यन्ति जन्तवः॥१३॥
अपीत्वेति। त्वद्भक्तिसुधां शाक्तसमावेशानन्दरसमपीत्वाऽपि अचमत्कृत्याऽपि, अनवलोक्य च त्वामिति चित्स्वरूपं त्वां मनागप्यप्रत्यभिज्ञाय, जन्तवो जन्मादिभाजोऽपि त्वत्समाचारमात्रादिति तत्तदाम्नायचर्यापादोक्तात्सिद्ध्यन्ति परसिद्धिभाजो भवन्ति। अपिशब्देन मात्रशब्देन च विस्मयो ध्वन्यते। तथाह्यागमे “कदाचिद्भक्तियोगेन चर्यये” त्युपक्रम्य “संसारिणोऽनुगृह्णाति विश्वस्य जगतः पति”रित्यन्तम् अस्मद्गुरुभिरपि तन्त्रसारेऽभिहितं “परमेसरु सच्छन्दु बहुकोणबिअअप्पाइइच्छ चरिआसि तु णणिजजपाहूं कि अभवणो अइअच्छेति “॥१३॥
भृत्या वयं तव विभो तेन त्रिजगतां यथा।
बिभर्ष्यात्मानमेवं ते भर्त्तव्या वयमप्यलम्॥१४॥
भृत्याइति। त्रिजगतामिति। प्राग्वत्। विभर्षीति धारयसि पोषयसि च। आत्मानं स्वं रूपं। वयमप्यलमित्यत्रायमाशयः—यथा त्वया विश्वमन्तरभेदेन विभ्रताऽपि देहाद्यभिमानग्रहणेन वस्तु तस्त्वन्मया अपि वयं व्यतिरेकोचिताइव, यत्न भिन्नमेव विश्वं जानीमः, ततोऽलमत्यर्थ ते वयं धारणीया पोषणीयाश्च, यतो भृत्याःस्म॥ १४॥
परानन्दामृतमये दृष्टेऽपि जगदात्मनि।
त्वयि स्पर्शरसेऽत्यन्ततरमुत्कण्ठितोऽस्मिते \।\।१५\।\।
परेति। त्वयि परमानन्दसारे नीलपीतादिरूपेण जगदात्मनिदृष्टेऽपि, व्युत्थाने तन्मुखेन प्रत्यभिज्ञातेऽपि, स्पर्शरसे गाढसमावेशस्पर्शप्रसरे, ते तव भृशमुत्कण्ठितोऽस्मि॥१५॥
देव दुःखान्यशेषाणि यानि संसारिणामपि।
धृत्याख्यभवदीयात्मयुतान्यायान्ति सह्यताम्॥१६॥
देवेति। हे देव क्रीडादिस्वभाव, अशेषाणि कीटब्रह्मादिविस्पन्दितानि तावदुःखानि भेदमयत्वात्, तान्यपि संसरणपराणां प्रमातृृणां सोढव्यतां यान्ति। यतो धृयाख्येन “इदमद्य मया लब्धमिदं प्राप्स्ये मनोरथम्” इत्याद्यभिमानावष्टम्भग्राहिणा त्वदीयेनात्मना युक्तानि संपृक्तान्येतानि॥ १६॥
सर्वज्ञे सर्वशक्तौ च त्वय्येव सति चिन्मये।
सर्वथाप्यसतो नाथ युक्ताऽस्य जगतः प्रथा॥१७॥
सर्वज्ञ ईति। अस्य जगतो विश्वस्य सर्वथाऽपि देशकाला
कारार्थक्रियाकारित्वादिना स्वरुपेण प्रकाशवाह्यस्यानुपदृश्यमानत्वादविद्यमानस्य, त्वयि चिन्मये सर्वशक्तौ स्वतन्त्रे सर्वावभासके च सति, सर्वथाऽपि प्रथा युक्ता। सर्वथेत्युभयत्र योज्यम्॥१७॥
**त्वत्प्राणिताः स्फुरन्तीमे गुणा लोष्टोपमा अपि।
नृत्यन्ति पवनोद्धूताः कार्पासपिचवो यथा॥१८॥ **
यदि नाथ गुणेष्वात्माभिमानो न भवेत्ततः।
केन हीयेत जगतस्त्वदेकात्मतया प्रथा॥१९॥
त्वत्प्राणिता इति। गुणा बुद्ध्यादिपरिस्पन्दाः लोष्टोपमा अपि जडाः त्वत्प्राणिताः त्वज्जीविताः सन्तः स्फुरन्ति। अन्यथा न कथञ्चित्काः स्यु \। अत्र दृष्टान्त। यथा कार्पासानां पिचवः लेशाः पवनेन वायुनोच्चैर्धूताः सन्तो नृत्यन्ति नभसिविलसन्ति। एवं च हे नाथ यदि भक्तेषु गुणेषु त्वन्मय शक्तिदत्त आत्माभिमानो न भवेत्ततोऽस्य जगतः त्वदेकात्मतया त्वदभेदेन या प्रथा सा केन हेतुना हीयते, न केन चिन्निवार्यते। भक्तानां विश्वस्य त्वदैक्येन स्फुरणात्। “गुणादिस्पन्दनिष्पन्दाः स्युर्झस्य परिपक्तिन " इत्युक्तम्॥१८॥१९॥
वन्द्यास्तेऽपि महीयांसः प्रलयोपगता अपि।
त्वत्कोपपावकस्पर्शपूता ये परमेश्वर॥२०॥
वन्द्या इति। तेऽपीति कालकामत्रिपुरान्धकाद्याः। न केवलं साक्षादनुगृहीताः भक्तिमन्त इत्यपिशब्दार्थः। महीयांस इसलौकिकमाहात्म्ययुक्ता, प्रलयं विनाशमुपगता अपि ये तव श्रीकण्ठाद्यवतारवपुष सम्बन्धिना निग्रहद्वारकानुग्रहात्मना क्रीडाकोपाग्निस्पर्शेन पवित्रिताः॥२०॥
महाप्रकाशवपुषि विस्पष्टे भवति स्थिते।
सर्वतोऽपीश तत्कस्मात्तमसि प्रसराम्यहम्॥२१॥
महाप्रकाशेति। व्युत्थानवैवश्यात्साक्षात्कारभूमिमलभमानस्योक्तिरियम्। यतः कानिचिदत्र समावेशोत्कर्षशंसीनि, अन्यानि व्युत्थानप्रहाणाकांक्षापराणि। अपराणि सार्वात्म्यप्रथाप्रथयितृृणि। पराणि निःशेषभेदोपशममयशिवताशंसापराण्यस्य सूक्तानि। तानि च यथायोगं संयोजितानि नियोजयिष्यन्ते च इति नास्य सत्परमेष्ठिन ईदृगुक्तिषु पूर्णता मन्तव्या। विस्पष्टेपीति विश्वप्रकाशमये। तमसि प्रसरामीतिव्युत्थानविवशो भवामीति॥२१॥
अविभागो भवानेव स्वरूपममृतं मम।
तथाऽपि मर्त्यधर्माणामहमेवैकमास्पदम्॥२२॥
अविभाग इति। इयमप्युक्तवदेवोक्तिः। भवानेवेति न तु अन्यत्किञ्चिदमृतमानन्दघनं। मर्त्यधर्माणां हानादानादिप्रयासानां। अहमिति व्युत्थाने देहाद्यभिमानमयः, न तु चिद्रूप एक एवेति प्राग्वत्॥२२॥
महेश्वरेति यस्यास्ति नामाङ्कं वाग्विभूषणम्।
प्रणामाङ्कश्च शिरसि स एवैकः प्रभावितः॥२३॥
महेश्वरेति। नामाङ्कं यद्वन्दिनः पठन्ति तव महेश्वर ब्रह्मादिविश्वेश्वर प्रभो इति यस्य च वाचो विभूषणमस्ति, तथा शिरसि प्रणामाङ्कः परस्वभावप्रह्वताभिज्ञानं च यस्यास्ति सएवैकः अद्वितीयः, प्रभौ महेश्वरे, इतः सम्बद्धः। अथ वा अयं प्रणामाङ्कित समाविष्टो भक्तिशाली भगवदभेदस्पर्शप्राप्तेः नामाङ्कत्वात्प्रभावितः प्रख्यातः॥२३॥
सदसच्च भवानेव येन तेनाप्रयासतः।
स्वरसेनैव भगवंस्तथा सिद्धिः कथं न मे॥२४॥
सदसदिति। भावाभावरूपं विश्वं त्वमेव यतः ततो मम अप्रयासत उपायजालं विना स्वरसेनैव नित्योदितत्वेन कथं तथा न सिद्धिस्त्वत्साक्षात्कारः सदोदितो न कस्मादस्ति \।\।२४\।\।
शिवदासः शिवैकात्मा किं यन्नासादयेत्सुखम्।
तर्प्योऽस्मि देवमुख्यानामपि येनामृतासवैः॥२५॥
शिवदास इति। यत एव शिवदासः तत एव समाविष्टत्वाच्छिवैकात्मा किं यत्सुखं नासादयेत् परमानन्दमयो भवत्येवेसर्थः। यतो देवमुख्यानामन्यैस्तर्पणीयानामपि ब्रह्मादीनां हृदयादिस्थानस्थितानामिन्द्रियदेवतानां च अमृतासवैः प्रमेयप्रथासमयस्फूर्जदद्वयप्रकाशानन्दप्रसरैः, तर्प्यः परिपूरणीयोऽस्मि न तु पशुवद्भोग्यः॥२५॥
हन्नाभ्योरन्तरालस्थः प्राणिनां पित्तविग्रहः।
ग्रस मे त्वं महावह्निः सर्वं स्थावरजङ्गमम्॥२६॥
हृन्नाभ्योरिति। हृन्नाभ्योरन्तराले घटस्थाने स्थितः प्राणिनां सर्वेषां पित्तविहग्रः पित्तरूपः उष्णान्नाद्याहरणाद्वाह्यस्तेजसोऽपि ग्रसनान्महावह्निस्त्वमत एव स्थावरजङ्गममश्नासि त्वम् अनेन सर्वत्र प्रमातृजठरादिस्थानेन विश्वभक्ष एव परमेश्वरः परमार्थसन्निति शिवम्॥२६॥
इति श्रीमदुत्पलदेवाचार्यविरचितस्तोत्रावलौ अविच्छेदभङ्गारख्ये दशमे स्तोत्रे श्रीक्षेमराजाचार्यविरचिता विवृतिः॥ १०॥
<MISSING_FIG href=”../books_images/U-IMG-1725120444Capture.PNG”/>
ॐ जगदिदमथ वा सुहृदो
बन्धुजनो वा भवति न मे किमपि।
त्वं पुनरेतत्सर्वं
यदा तदा कोऽपरो मेऽस्तु॥१॥
ॐ जगदिदमिति। ॐ जगदादित्रयं लोकक्रमेणान्तरङ्गमपि मम न किंचित् तद्विलक्षणचिन्मात्रैकरूपत्वात्, यदा पुनः प्रकाशमयत्वादेतत्सर्वं त्वमेव तदा मम अपरः व्यतिरिक्तः कोऽस्तु, न किञ्चित्, जगदपि स्वरूपमेवेति यावत्॥१॥
स्वामिन्महेश्वरस्त्वं साक्षात्सर्वं जगत्वमेवेति।
वस्त्वेव सिद्धिमेत्विति याच्ञा तत्रापि याच्ञैव॥२॥
स्वामिन्निति। महेश्वर इति प्राग्वत्, साक्षादिति अद्वयदृष्ट्या चाधिष्ठानेन इति, वस्त्वेव पारमार्थिकमेवैतत्, तत्रापि एवमेव स्थितेऽपि, एतत्सिद्धिमेत्विति या याच्ञा सा याच्ञैव त्वमेव प्रकटी भूया इसनेनैव लज्ज्यते इति स्थित्या न युक्तैवेत्यर्थ, “होन्ति कमलाइ कमलाइ” इति न्यायेन द्वितीयो याच्ञाशब्दः अचारुत्वनिष्प्रयोजनत्वादिमाव्रताध्वननपुरःसरः॥२॥
त्रिभुवनाधिपतित्वमपीह य–
त्तृणमिव प्रतिभाति भवज्जुषः।
किमिव तस्य फलं शुभकर्मणो
भवति नाथ भवत्स्मरणादृते॥३॥
त्रिभुवनाधिपतित्वमिति। भवज्जुषः समावेशयुक्तान् इति प्रतियोगे शस, इहेति अस्मिन्नेव समये, त्रिभुवनाधिपतित्वं भूर्भु—
वस्स्वस्स्वामित्वमपि तृणमिव प्रतिभाति तस्य, तथा प्रतिभानलक्षणस्य शुभकर्मणो भवत्स्मरणादृते भवत्स्मरणं विना, किं फलं न किञ्चिदन्यत् व्यतिरिक्तमस्तीति यावत् प्राप्तव्यस्यैव प्राप्तत्वात्॥३॥
येन नैव भवतोऽस्ति विभिन्नं
किञ्चनापि जगतां प्रभवश्च।
त्वाद्वजृम्भितमताद्भुतकम–
स्वप्युदेति न तव स्तुतिबन्धः॥४॥
येनेति। त्वत्तो भिन्नं किञ्चनापि नास्ति सर्वस्य प्रकाशरूपत्वात्, जगतां प्रभवः अपि ब्रह्माद्याः तवैव जृम्भा येन हेतुनाऽतः अद्भुतेषु विश्वसर्गसंहारादिष्वपि कर्मसु तव न स्तुतिबन्धः स्तोत्रादिभेदाभावात्, त्वमेव स्तुत्यस्तोत्रस्तुतिरूपतया भासीत्ययमत्र तत्वार्थः॥४॥
त्वन्मयोऽस्मि भवदर्चननिष्ठः
सर्वदाहमिति चाप्यविरामम्।
भावयन्नपि विभो स्वरसेन
स्वप्नगोऽपि न तथा किमिव स्याम्॥५॥
त्वन्मय इति। त्वमेव प्रकृतं रूपं यस्य तथा भूतोऽस्मि, त्वय्येव चिन्मये विश्वार्पणक्रमेणाहं सर्वदा अर्चननिष्ठ इत्यविरामं कृत्वा भावयन्नपि व्युत्थानेऽनुसन्दधदपि स्वप्नगोऽपि, स्वरसेनैव स्वेच्छावशेनैव, किमिति न तथैव भवामि, कस्मात्स्वप्नेऽपि संस्कारमबोधसारेऽपि जागरवत्त्वदर्चापरो न भवामि न समावेशामि इति यावत्॥५॥
ये मनागपि भवच्चरणाब्जो–
**द्भूतसौरभलवेन विमृष्टाः। **
तेषु विस्तामिव भाति समस्तं
भोगजातममरैरपि मृग्यम्॥६॥
य इति। चरणाब्जं प्राग्वत्, सौरभम् अवस्थास्नुरामोदसंस्कारस्तस्य लवो लेशमात्रं, न तु पूर्ण रूपं‚ तेन ये विमृष्टाः मनाङ्मात्रेण पात्रीकृतास्तेषु समस्तं सदाशिवान्तभोगजातं देवैरप्रार्थनीयं विस्तं दुरामोदमिव प्रतिभाति। एवं च पूर्णसमावेशशालिनां दण्डापूपिकयैव दूरोत्सारितः सिद्ध्यभिलाषः॥६॥
**हृदि ते न तु विद्यतेऽन्यदन्य–
द्वचने कर्मणि चान्यदेव शम्भो। **
परमार्थसतोऽप्यनुग्रहो वा
यदि वा निग्रह एक एव कार्यः॥७॥
हृदीति। चिदद्वयप्रथारूपोमहादेव यत्र प्रथितुं प्रवृत्तः तत्र हृदयानुष्ठानपर्यन्तं प्रथते, यत्र तु गूहितात्मा तत्र हृदि वचसि च कर्मणि च गूहितात्मैव यतः परमार्थे न सतः साधोः सात्विकस्य वस्तुतः निग्रहानुग्रहयोर्मध्यादेकमेव कर्तव्यं भवति न तु शबलचेष्टितत्वमिति अर्थान्तरन्याससम्भेदः, प्रकृतेऽर्थे निग्रहानुग्रहौ स्वरूपनिमीलनोन्मीलने अप्रकृतेऽप्यपकारोपकाराविति श्लेषच्छायाऽपि॥७॥
मूढोऽस्मि दुःखकलितोऽस्मि जरादिदोष–
भीतोऽस्मि शक्तिरहितोऽस्मि तवाश्रितोऽस्मि।
शम्भो तथा कलय शीघ्रमुपैमि येन
सर्वोत्तमां धुरमपोज्झितदुःखमार्गः॥८॥
मूढोऽस्मीति। व्युत्थानापेक्षयोक्तमित्युक्तमाय, तवाश्रितोऽस्मीत्यत्र भङ्गं कृत्वा उत्तरार्ध योज्यं, कलय सम्पादय, सर्वोत्तमां सम्पूर्णसमावेशमयीम्॥८॥
त्वत्कर्णदेशमधिशय्य महार्घभाव–
माक्रन्दितानि मम तुच्छतराणि यान्ति।
वंशान्तरालपतितानि जलैकदेश–
खण्डानि मौक्तिकमणित्वमिवोद्वहन्ति॥९॥
त्वदिति। अधिशय्य प्राप्य, महार्घभावमनर्घत्वम्, तुच्छतराणीति अनौद्धत्यंध्वनति यान्तीति तु अतिभक्तित्वेन निश्चितप्रतिपत्तित्वाद, वंशान्तरे इत्यर्थान्तरन्यासः स्पष्टः॥९॥
किमिव न लभ्यते बत न तैरपि नाथ जनैः
क्षणमपि कैतवादपि च ये तव नाम्नि रताः।
शिशिरमयूखशेखर तथा कुरु येन मम
क्षतमरणोऽणिमादिकमुपैमि यथा विभवम्॥१०॥
किमिति। कैतवाद्व्याजादपि ये जनास्तव नाम्नि न तु तात्विके स्वरूपे रतास्तैरपि कि न लभ्यते, पूजासत्काराद्यभीष्टमपरिज्ञाततदाशयेभ्यः सकाशात्प्राप्यत एव, ये तु परमार्थतः सततं च त्वयि रता ते अर्थादेव परमार्थमया एवातो हे शिशिरमयूत्वशेखर सर्वसन्तापहारिन् तथा कुरु यथा प्राग्व्याख्यातरूपाणिमादिकं विभवमुपैषि, क्षतमरण अकालकलितः, अस्य
पदस्यायमाशयः यद्ब्रह्मादय अणिमादिविभूतियुक्ता अपिस्मृतिधर्माण एव यथोक्तमस्मद्गुरुभिः क्रमकेलौ “श्रीमत्सदाशिवपदेऽपि गतोग्रकाली, भीमोत्कटभ्रुकुटिरेष्यति भङ्गभूमिः" इति अतो मां क्षतमरणं चिदानन्दघनमद्वयाणिमादिपात्र कुरु। ये तु विभूतिस्पृहणीयत्वेनैतद्ध्याकुर्वते तेषां स्मरसि नाथ कदाचिदपीहितमिति सत्येन भगवन्निति विस्रमिव भाति समस्तभोगजातमित्यादि च व्याहतमेव॥१०॥
शम्भो शर्व शशाङ्कशेखर शिव त्र्यक्षाक्षमालाधर
श्रीमन्नुग्रकपाललाञ्छन लसद्भीमत्रिशूलायुध।
कारुण्याम्बुनिधे त्रिलोकरचनाशीलोग्रशक्त्यात्मक
श्रीकण्ठाशुविनाशयाशुभभरानाधत्स्व सिद्धिं पराम् ॥११॥
शम्भो इति। उग्राणि भीषणानि अशेषब्रह्मादिसम्बन्धीनि कपालानि लाञ्छनं यस्य, अशुभभरान् भेदोल्लासान्, परां परमाद्वयानन्दरूपाम्॥११॥
**तर्त्कि नाथ भवेन्न यत्र भगवान्निर्मातृतामश्नुते
भावः स्यात्किमु तस्य चेतनवतोनाशास्ति यं शङ्करः। **
इत्थं ते परमेश्वराक्षतमहाशक्तेः सदा संश्रितः
संसारेऽत्र निरन्तरादिविधुरः क्लिश्याम्यहं केवलम् ॥१२॥
तत्किमिति। तत्वभूतभावो भुवनादिभावः सत्ता चेतनवतः सकलादेर्मन्त्रमहेश्वरान्तस्य आशास्तीति प्रवृत्तिर्भूतानामैश्वरीति स्थित्या सर्वप्रमातृनियामकरूपं शासितृत्वं भगवत एव सदेति। न तु कदाचित् निरन्तराधिविधुरत्वं व्युत्थाने समावेशानासादनात् अहं केवलम् इसत्रायमभिप्रायः मायीयेऽयं
देहादिप्रमातृता चेद्गलिता तत्सर्वमिदं त्वन्मयमेवोच्यते देहाद्यहन्तैवोन्मूलनीया वर्तते॥१२॥
**यद्यप्यत्र वरप्रदोद्धततमाः पीडाजरामृत्यवः
एते वा क्षणमासतां बहुमतः शब्दादिरेवास्थिरः। **
तत्रापि स्पृहयामि सन्ततसुखाकाङ्क्षी चिरं स्थास्नवे
भोगास्वादयुतत्वदङ्घ्रिकमलध्यानाग्य्रजीवातवे॥१३॥
यद्यप्येति। अत्रेति संसारे, उद्धततमा असह्याः, क्षणमासतां साम्प्रतंतिष्ठन्त्विति लौकिक्युक्ति, बहुमतो विश्वस्याभिलषितः, सन्ततमद्वयानन्दरूपं सुखमाकाङ्क्षतीति तच्छीलः, चिरस्थास्नवे चिरमवस्थानशीलाय, जीवातवे जीविताय, स्पृहयामि, कीदृशाय भोगास्वादयुतत्वदङ्घ्रिकमलध्यानाग्य्रायं परमानन्दचमत्कारयुक्तत्वन्मरीचिपद्मचिन्तनप्रधानाय, अत एव स्पृहणीयत्वम्॥१३॥
**हे नाथ प्रणतार्तिनाशनपटो श्रेयोनिधे धूर्जटे
दुःखैकायतनस्य जन्ममरणत्रस्तस्य मे सांप्रतम्। **
तच्चेष्टस्व यथा मनोज्ञविषयास्वादप्रदा उत्तमाः
जीवन्नेव समश्नुवेऽहमचलाः सिद्धीस्त्वदर्चापरः॥१४॥
हे नाथेति। मनोज्ञं चिदानन्दसुन्दरं विषयाणां रूपादीनां चमत्कारास्वादं ददति यास्ता, उत्तमा, अचला, सिद्धीरिति,प्राग्वत् जीवन्नेवेति न देहपाते अपि तु जीवदवस्थायामेव, समाविष एवाहं त्वदर्चापर इति त्वयि चिदात्मनि विश्वार्पणपर॥१४॥
नमो मोहमहाध्वान्तध्वंसनानन्यकर्मणे।
सर्वप्रकाशातिशयप्रकाशायेन्दुलक्ष्मणे॥१५॥
नमो मोहेति। महामोहध्वान्तस्य मायातमस ध्वंसने अनन्यकर्मा सदोद्युक्तः‚ सर्वान् अग्नीषोमसूर्यप्रकाशानतिशेते यस्तथाभूतः प्रकाशो यस्य तस्मै ध्वान्तध्वंसे प्रकाशनव्यापारे, चानुगुणमभिधानमिन्दुलक्ष्मणे इतिं शिवम्॥१५॥
इति श्रीमदुत्पलदेवाचार्यविरचितस्तोत्रावलौ औत्सुक्यविश्वसितनामन्येकादशस्तोत्रे विपश्चिद्वरश्रीक्षेमराजविरचिता विवृतिः॥११॥
<MISSING_FIG href="../books_images/U-IMG-17261125941234569.png"/>
ॐ सहकारि न किञ्चिदिष्यते
भवतो न प्रतिबन्धकं दृशि।
भवतैव हि सर्वमाप्लुतं
कथमद्यापि तथापि नेक्षसे॥१॥
ॐ सहकारीति। भवतो दृशि त्वत्प्रकाशने मलपरिपाकादिकं सहकारि न किञ्चित् नापि प्रतिबन्धकं किञ्चिदस्ति यस्मात्सहकार्याद्यभिमतं त्वयैव व्याप्तं तथाऽपि कथमद्यापीति इयतिव्युत्थाने नेक्षसे न प्रकाशसेऽस्माकमित्यर्थ, भवत इति कर्मणि षष्ठी॥१॥
अपि भावगणादपीन्द्रिय–
प्रथमादप्यवबोधमध्यतः।
प्रभवन्तमपि स्वतः सदा
परिपश्येयमपोढविश्वकम्॥२॥
अपीति। भावेभ्यः इन्द्रियेभ्यः ज्ञानेभ्य आत्मनश्च सकाशात्त्वामेव प्रभुं नित्यंपरितः समन्तात्पश्येयं कथम् अपोढविश्वकं तिरस्कृताशेषभेदम् कृत्वा॥२॥
कथन्ते जायेरन्कथमपि च ते दर्शनपथं
व्रजेयुः केनापि प्रकृतिमहता केन खचिताः।
तथोत्थायोत्थाय स्थलजलतृणादेरखिलतः
पदार्थाद्यान्सृष्टिस्रवदमृतपूरैर्विकिरसि॥३॥
कथमिति। अखिलतः पदार्थात् उत्थायोत्थायेति वीप्सा, तथेत्यलौकिकेन प्रकारेणोत्थायोत्थायेति तत्तद्वेद्यदशायां भेदं
निमज्ज्य चिद्रपतया स्फुरित्वा यान् ज्ञानात्मकप्रसरदमृतोत्करै आच्छुरयसि, ते केनापि प्रकृतिमहता इति नित्यविकसितरोमाञ्चितत्वादिना प्रकाशेन चिह्नने प्रकाशिताः न जन्मभाजो नापि लोकैः लक्ष्यन्ते कथमित्यसंभावनायाम्॥३॥
साक्षात्कृतभवद्रूपप्रसृतामृततर्पिताः।
उन्मूलिततृषो मत्ता विचरन्ति यथारुचि॥४॥
साक्षादिति। अमृतमानन्दः, उन्मूलिततृषो अपुनरुत्थानेन शभिता तृट् विभूत्यादिस्पृहा यैः, मत्ता हृष्टाः स्वातन्त्र्येण विहरन्ति, अन्ये तु आकाङ्क्षायाः परतन्त्रा एव॥४॥
न सदा न तदा न चैकदे–
त्यपि सा यत्र न कालधीर्भवेत्।
तदिदं भवदीयदर्शनम्
न च नित्यं न च कथ्यतेऽन्यथा॥५॥
नेति। सदा इति एकदा इति परस्परप्रयोगितया एकदेत्यस्य प्रकारस्तदा इत्यपि एवंप्रकारा अपि, यदेति इदानीमित्यादिका च यत्र न सा काचित् कालधीरकालकलितत्वात् तदित्यसामान्यम् इदमिति स्फुरद्रूपं ज्ञानं त्वदीयं न नित्यंकथ्यते, नाप्यनित्यं, नित्यत्वानित्यत्वयोः परस्परप्रतियोगित्वात् सर्वात्मकसाक्षात्कारिणि रूपे व्यवहारानुपपत्तेः॥५॥
त्वद्विलोकनसमुत्कचेतसो
योगसिद्धिरियती सदाऽस्तुमे।
यद्विशेयमभिसन्धिमात्रत–
स्त्वत्सुधासदनमर्चनाय ते॥६॥
त्वदिति। इयती इति, न तु परिमितफलोन्मुखी अभिसन्धिमात्रतः इच्छामात्रात्, त्वदीयं सुधासदनं परमानन्दधाम, सदा विशेयं तत्समाविष्टः स्यामिति अर्चनं प्राग्वत्॥६॥
निर्विकल्पभवदीयदर्शन–
प्राप्तिफुल्लमनसां महात्मनाम्।
उल्लसन्ति विमलानि हेलया
चेष्टितानि च वचांसि च स्फुटम्॥७॥
निर्विकल्पति। कवलितविकल्पत्वदीयसाक्षात्कारमाप्त्याविकसितमनसां भक्तिभाजां, विमलानीति जगदुद्धरणक्षमाणि, हेलामात्रेण चरितानि, वाक्यानि च, स्फुटं कृत्वा समुल्लसन्ति। यदागमः “दर्शनात्स्पर्शनाद्वाऽपि वितताद्भवसांगरात्। तारयिष्यन्ति वीरेन्द्राः कुलाचारप्रतिष्ठिता" इति॥७॥
भगवन्भवदीयपादयो–
र्निवसन्नन्तर एव निर्भयः।
भवभूमिषु तासु तास्वहं
प्रभुमर्चेयमनर्गलक्रियः॥८॥
भगवन्निति। पादयोः ज्ञानक्रियाशक्त्योः, मध्य एव निवसन् अत एवाहं तासु तासु अति विततासु भवभूमिषु निर्भयः सन्, अनियन्त्रितचेष्टितः सर्वदशासु प्राग्वत्पूजापरः स्याम्॥८॥
भवदङ्घ्रिसरोरुहोदरे
परिलीनो गलितापरैषणः।
अतिमात्रमधूपयोगतः
परितृप्तो विचरेयमिच्छया॥९॥
भवदङ्घ्रीति। अङ्घ्रिसरोरुहोदरं प्राग्वत्, तत्र परितः समन्ताल्लीनः, क्लिष्टः सन् इच्छया विचरेयं पदात्पदं तदाक्रान्तिभाग्भवेयम् कीदृश, गलिताः शान्ता अपराः त्वन्मरीच्याश्लेषाभिलाषव्यतिरिक्ताः एषणा आकाङ्क्षा यस्य तादृक्,यतोऽतिमात्रं भृशं मधुनः आनन्दरसस्योपयोगेन आस्वादेन,परितस्तृप्त॥९॥
यस्य दम्भादिव भवत्पूजासङ्कल्प उत्थितः।
तस्याप्यवश्यमुदितं सन्निधानं तवोचितम्॥१०॥
यस्येति। यस्येति आर्तादेः, दम्भादिव न तु निर्दैन्यैकभक्तियोगेन, सङ्कल्प इति विकल्पमात्रम्, अत्रैकवारावलेपमात्रसम्पन्नलिङ्गाच्चापरिरक्षितसकलनरकपातस्त्रिलोकीजनो दृष्टान्तः, उचितमिति तावन्मात्रार्थिता परिपूर्तिक्षमम्॥१०॥
भगवन्नितरानपेक्षिणा
नितरामेकरसेन चेतसा।
सुलभं सकलोपशायिनम्
प्रभुमातृप्ति पिवेयमस्मि किम्॥११॥
भगवन्निति। किमस्मिं, त्वां प्रभुं सकलोपशायिनं सर्वगतमत एव सुलभमातृप्तिचेतसा, पिवेयं त्वदैकात्म्यमनुभवेयं, कीदृशेन चेतसा, नितरामतिशयेन एकत्रैव त्वत्समावेशभक्तौ न तु क्वचिदपि फले रसोभिलाषो यस्य तेन,अनेन विशेषणेन प्रागुक्तश्लोकार्थवैपरीत्येन निर्व्याजभक्तिरुक्ता॥११॥
त्वया निराकृतं सर्वं हेयमेतत्तदेव तु।
त्वन्मयं समुपादेयमित्ययं सारसङ्ग्रहः॥१२॥
त्वयेति। यत्किञ्चित्त्वदैक्यप्रयभिज्ञां विना हेयं तदेव त्वन्मयं प्रत्यभिज्ञानमुपादेयम्, सारसङ्ग्रह इति सर्वसम्प्रदायसतएत्त्वम्॥१२॥
भवतोन्तरचारि भावजातम्
प्रभुवन्मुख्यतयैव पूजितं तत्।
भवतो बहिरप्यभावमात्रा
कथमीशान भवेत्समच्यते वा॥१३॥
भवत इति। भवतोन्तरचारि त्वदैक्येन स्थितं‚ यद्भावजातं तत् मुख्यतया प्राधान्येनैव प्रभुरिति पूजितं भवति तत्त्वज्ञेन भवतस्तु प्रकाशात्मनो बहिरप्यप्रकाशात्मनो बहिरास्तांभावः अभावमात्राऽपि न भवति, कुतः पुनरभ्यर्च्यते सर्वस्य चित्प्रकाशात्मनैव सत्वादन्यथात्वचित्वात् मात्रशब्दोऽतिशयोक्तिपरः, अभावोऽपि बुद्ध्यमानो बोधात्मैवेत्यादि हि प्रत्यभिज्ञायां निर्णीतमेव, अनेन भेदवादिनामर्चनानुपपत्ति सूचिता॥१३॥
निःशब्दं निर्विकल्पं च
निर्व्याक्षेपमथानिशम्।
क्षोभेप्यध्यक्षमीक्षेयं
त्र्यक्ष त्वामेव सर्वतः॥१४॥
निःशब्दमिति। हे त्र्यक्ष, क्षोभेऽपि ग्राह्यग्राहकप्रसरेऽपि अध्यक्षमविकल्पं कृत्वा त्वामेव चिद्रूपमनिशं सदा, निर्विक्षेपं
वीतविघ्नं कृत्वा सर्वत्र ईक्षेयमात्मसाक्षात्कुर्याम्, कीदृशं निःशब्दं, वैयाकरणाद्युक्तशब्दब्रह्मविलक्षणं, “मम योनिर्महद्ब्रह्म" इति नीत्याभगवतः परब्रह्मणोत्युत्तमत्वात्, अत एव विकल्पेभ्यो भावनादिरूपेभ्यो निःक्रान्तम् अनन्तचिन्मात्ररूपम्॥१४॥
प्रकटय निजधाम देव यस्मिंं–
स्त्वमसि सदा परमेश्वरीसमेतः।
प्रभुचरणरजःसमानकक्ष्याः
किमु विश्वासपदं भवन्ति भृत्याः॥१५॥
प्रकटयेति। निजधाम चिद्रूपं, परमेश्वरी परा भगवती, भृत्याइति, धार्याः पोष्याश्च, प्रभुचरणेत्यादि दासस्याचितैवोक्तिः, रजस्समानकक्ष्यत्वेन नित्यसंलग्नतामाह॥१५॥
दर्शनपथमुपयातोऽप्यपसरसि–
कुतो ममेश भृत्यस्य।
क्षणमात्रकमिह न भवसि
कस्य न जन्तोर्दृशोर्विषयः॥१६॥
दर्शनपथमिति। दर्शनपथं साक्षात्कारगोचरमपि प्राप्तो, मम भूयस्य आश्वस्तस्य दासस्य, कुतोऽपसरसि नैवापसरसि त्वामवष्टभ्यैवाहं स्थित इति यावत्, ननु मां साक्षात्कृत्यैव किं न तुष्यसीत्यत आह, कस्य जन्तोर्दृशो ज्ञानस्य अज्ञातोऽपि क्षणमात्रमतिक्रुद्धः प्रहृष्टो वेत्यादिभूमिषु विषयो ननु भवसि सर्वस्य हि कदाचित्स्फुरसि, अहं तु अनुपचरितो भृत्य, क्षणमपि न त्वां त्यजामि, यदि वा साक्षात्कृतोऽपि त्वं व्युस्थानावरोहणे किमिति मे भृत्यस्य आश्वस्तस्यापि अपसरसीति योज्यम्॥१६॥
ऐक्यसंविदमृताच्छधारया
सन्ततप्रसृतया सदा विभो।
प्लावनापरमभेदमानयं–
स्त्वां निजं च वपुराप्नुयां मुदम्॥१७॥
ऐक्येति। ऐक्यसंविदद्वयदृष्टि, सैवामृतस्य परमानन्दस्यसम्बन्धिनी अच्छा विश्वप्रतिवम्बनक्षमा धारा तया सन्ततमविच्छेदेन प्रसृतया कृतं यत्प्लावनं सर्वत आपूरणं तस्मात्त्वां स्वं च वपुः सङ्कुचिताभिमतं स्वरूपं परमतिशयेन अभेदमेकात्मतामानयन् कदा मुदं सन्तोषमाप्नुयाम्॥१७॥
अहमित्यमुतोऽवरुद्धलोका–
द्भवदीयात्प्रतिपत्तिसारतो मे।
अणुमात्रकमेव विश्वनिष्ठम्
घटतां येन भवेयमर्चिता ते॥१८॥
अहमिति। विश्वनिष्ठमिति यद्यन्मम कुत्रचिद्भाति तत्र सर्वत्रावरुद्धलोकं स्वीकृताशेषनिर्भरमहमिति यदेतत्त्वदीयं सर्वत्र प्रतिपत्तीनां सारम् उत्कृष्टं स्वरूपं, ततोऽणुमात्रकं मृगमदकणकल्पमपि किंचिन्मह्यंघटतामुपतिष्ठतां, येन घटितेन तत्तद्वेद्यग्रासीकारक्रमेण तव अर्चिता भवामि, अणुमात्रकमिति अतिस्पृहयालुतयोक्तिः न तु पूर्णाऽहन्ताया भागाः सन्ति॥१८॥
अपरिमितरूपमहं तं तं भावं प्रतिक्षणं पश्यन्।
त्वामेव विश्वरूपं निजनाथंसाधु पश्येयम्॥१९॥
अपरिमितेति। तं तमिति यं कंचित् त्वामेवेति तस्यप्रकाशमानत्वेन त्वद्रपात्, विश्वरूपमिति प्रदेशोऽपि ब्रह्मण इति
स्थित्यापूर्णं, साध्विति निष्प्रयासं सत्यस्वरूपतया च॥१९॥
भवदङ्गगतं तमेव कस्मा–
न्न मनः पर्यटतीष्टमर्थमर्थम्।
प्रकृतिक्षतिरस्ति नो तथाऽस्य
मम चेच्छापरिपूर्तये परैव॥२०॥
भवदिति। तमेवेति यं यमभिलषितमर्थं मन पर्यटति तं तं भवदङ्गगतं चिन्मयत्वेन ज्ञातमत एवेष्टम् अभिलषितमर्थ किमिति न पर्यटति तथा कुरु यथैवं पर्यटतीत्यर्थ, एवं सति अस्य न प्रकृतिक्षतिः काचित् इच्छाव्याघाताभावात्‚ मम च परैव चिद्घनस्वरूपलिप्सासारेच्छा परिपूर्यते। अनेनैतदाह मनसि यथारुचि पर्यटति अहं पूर्णप्रथासार एव यथा स्यामिति॥२०॥
शतशः किल ते तवानुभावा–
द्भगवन्केप्यमुनैव चक्षुषा ये।
अपि हालिकचेष्टया चरन्तः
परिपश्यन्ति भवद्वपुः सदाऽग्रे॥२१॥
शतश इति। हालिकचेष्टयाऽपि चरन्तःतवानुभावात्त्वत्प्रयुक्तादनुभवनव्यापारात्भवद्वपुस्त्वदीयं चित्सुरूपममुनैव चक्षुषा करणोन्मीलनदशायामपि सदाऽग्रे परितः, पश्यन्ति समाविशन्ति, शतशः सहस्रमध्यात्केऽपि विरला अलौकिका इसर्थ॥२१॥
न सा मतिरुदेति या न भवति त्वदिच्छामयी
सदा शुभमयेतरद्भगवतैवमाचर्यते।
अतोऽस्मि भवदात्मको भुवि यथा तथा संचरन्
स्थितोऽनिशमबाधितत्वदम लाङ्घ्रिपूजोत्सवः॥२२॥
नेति। सर्वेषां ज्ञानानां प्रथमेन पादेन परमार्थतः शिवभक्तिमयत्वम्, द्वितीयेन व्यापाराणां भगवत्कृतत्वमुक्तम्, यथा तथेति गतसङ्कोचम्, अबाधितो न केनचिदप्यपसारितस्तन्मरीच्यर्चनप्रमोदो यस्य॥२२॥
भवदीयगभीरभाषितेषु
प्रतिभा सम्यगुदेतु मे पुरोऽतः।
तदनुष्ठितशक्तिरप्यतस्त–
द्भवदर्चाव्यसनं च निर्विरामम्॥२३॥
भवदीयेति। गभीरभाषितेष्विति। मुख्ये भेदार्थत्वेन भासमानेष्वपि गर्भीकृतरहस्यार्थेषु वाक्येषु तावकेषु, मम पुरः पूर्व, प्रतिभा नवनवोल्लेखिनी प्रज्ञा, सम्यगविपर्यस्तत्वेनोदेतु, अतोप्यनन्तरं, तदिति अलौकिकं निर्विरामं कृत्वा भवदर्चायां व्यसनमुदेतु॥२३॥
व्यवहारपदेऽपि सर्वदा
प्रतिभात्वर्थकलाप एष माम्।
भवतोवयवो यथा न तु
स्वत एवादरणीयतां गतः॥२४॥
व्यवहारेति। एषः अर्थकलापः व्यवहारेऽपि भगवतश्चिन्मयस्य,यथाऽवयवः अङ्गकल्पोऽभेदेन स्थितस्तथा मां प्रतिभातु मम प्रतिभासताम्, न पुनस्त्वन्मयमविदित्वा स्वत एव सुखादिहेतुत्वेनादरणीयतां गत॥२४॥
मनसि स्वरसेन यत्र तत्र
प्रचरत्यन्वहमस्य गोचरेषु।
प्रसृतोप्यविलोल एव युष्म–
त्परिचर्याचतुरः सदा भवेयम्॥२५॥
मनसीति। यत्र तत्रेति हेयादिविषयेषु, प्रसृतोऽपि ग्रहणे प्रवृत्तोऽपि, अविलोलः अलम्पट, युष्मत्परिचर्या त्वदर्चा तत्र चतुर एव कुशल एव स्याम्, एवशब्दो भिन्नक्रमः॥२५॥
भगवन्भवदिच्छयैव दास–
स्तव जातोऽस्मि परस्य नात्र शक्तिः।
कथमेष तथापि वक्रबिम्बं
तव पश्यामि न जातु चित्रमेतत्॥२६॥
भगवन्निति। भगवदिच्छयैवेति, एवकारेण शक्तिपातस्य स्वतन्त्रतामाह, तथाऽपीति, एवमपि दास्ये लब्धेऽपि, वक्रबिम्बं सुन्दरं परशक्तिमार्गम्, एष इति, व्युत्थानावस्थोचितदेहादिप्रमातृरूप, जातु कदाचित, व्युत्थाने न पश्यामि नासादयामि॥२६॥
समुत्सुकास्त्वां प्रति ये भवन्तं
प्रत्यर्थरूपादवलोकयन्ति।
तेषामहो किं तदुपस्थितं स्यात्
किं साधनं वा फलितं भवेत् तत्॥२७॥
समुत्सुका इति। सम्यगुत्सुकाः भक्तिभरेणोत्कण्ठिताः, प्रत्यर्थरूपादिति विषयं विषयमासाद्य, किं तदिति, तेनैवानुभाव्यं न वक्तुं शक्यं, किं तत्साधनमिति अस्माभिरसंभाव्यम्॥२७॥
भावाभावतया सन्तु भवद्भावेन मे भव।
तथा न किंचिदप्यस्तु न किंचिद्भवतोऽन्यथा॥२८॥
भावाभावेति। ये भावा इत्यभिधीयन्ते ते मम त्वन्मयत्वेन भावा विद्यमाना भवन्तु‚ यत्र किचिदुच्यते तत् त्वन्मयतां विना न किचिदस्तु॥२८॥
यन्न किंचिदपि तन्न किंचिद–
प्यस्तु किंचिदपि किंचिदेव मे।
सर्वथा भवतु तावता भवान्
सर्वतो भवति लब्धपूजितः॥२९॥
यन्नेति। लोकेन न किचिदपीति यत् न किञ्चिदेवानुपादेयतया कथ्यते तत् मम न किचित् अपि तु सर्वभेदमयं न किचिद्भवतु, यत्तूपादेयतयाऽभिमतं किञ्चिदिति भण्यते तन्मम किञ्चिदेव किञ्चिदित्यसामान्यं स्वानुभवैकसाक्षिकं वस्तु सर्वथाऽस्तु, यद्वा यल्लोके किञ्चिच्चिद्घनं रूपं यत् तदप्रत्यभिज्ञानात्न किञ्चित्वेन भाति, यत्तु भेदमयमवस्तु न किचित् तन्मायाव्यामोहात्किञ्चित्वेन स्फुरति‚ मम तु न किञ्चित् किंचिच्च न किञ्चिदस्तु लौकिकवद्विपर्ययो मा भूदित्यर्थः, एतावता भवान् चिद्रपः सर्वत्र लब्धश्च पूजितश्च शिवम्॥२९॥
इति श्रीमदुत्पलदेवाचार्यविरचितस्तोत्रावली रहस्यनिर्देशनामकद्वादशस्तोत्रे श्रीक्षेमराजकृता विवृतिः ॥
ॐ तत्सत्।
संग्रहेण सुखदुःखलक्षणं
मां प्रति स्थितमिदं शृणु प्रभो।
सौख्यमेव भवता समागमः
स्वामिना विरह एव दुःखिता॥१॥
संग्रहणेति। अथ स्तोत्रकाररचितचारुरचनाविशिष्टं संग्रहस्तोत्रं व्याकुर्मः। अत्र तु या प्रयोगरूढिरिति संज्ञा पुस्तकेषु दृश्यते साऽवान्तरैव साक्षात्कारेण चिद्भैरवं समाविश्य व्युत्थानेऽपि बलवत्तत्संस्कारात्तमभिमुखीभाव्य प्रतिभातं वस्तु विज्ञातुमाह। हे प्रभो मां प्रति स्थितं न तु अन्यस्य कस्यापि स्फुरितं, संग्रहेण संक्षेपेण, सुखदुःखलक्षणं शृणु‚ प्रभो इसामन्त्रणम्, स्वात्मसमावेशक्रमेणैव परमेशितुः सुसंमुखीकरणायालौकिकपादशब्दान्तरहस्यमन्त्रवत्, तल्लक्षणमाह, भवता स्वामिना चिन्नाथेन, एष इति साक्षात्कारेण स्फुरन् समागमः समावेश्यैक्यं यत् तत्सौख्यं सुखं स्वार्थे ष्यञ्, स एव सौख्यं, स च सौख्यमेव, उत्तरत्र स्थित एवशब्दः इहाप्युभयथा योज्यः, प्रभुणा हि यो विरहः प्रभुस्वरूपाप्रत्यभिज्ञानं स एव दुःखिता॥१॥
अन्तरप्यतितरामणीयसी
या त्वदप्रथनकालिकाऽस्ति मे।
तामपीश परिमृज्य सर्वतः
स्वं स्वरूपममलं प्रकाशय॥२॥
अन्तरिति। यत एवं ततः, अपिर्भिन्नक्रमः, अतितरामणीयस्वपि या मम त्वदप्रथनकालिका भवदख्यातिमलिनता, अन्त—
रिति, समावेशे प्राणादिसंस्काररूपाऽस्ति, तामपीति, बह्वी तावदसौ शक्तिपातात्प्रभृत्येव मे त्वया अपहस्तिता अतिसूक्ष्मामपि तां परिमृज्योत्प्रोंछ्य, सर्वत इति, अन्तर्बहिश्च स्वं चिन्मयं सर्वस्यात्मीयं स्वरूपं निमर्लं प्रकाशय स्फारय॥२॥
एतदेव च मे परमभिलषितमियाह—
तावके वपुषि विश्वनिर्भरे
चित्सुधारसमये निरत्यये।
तिष्ठतः सततमर्चतः प्रभुं
जीवितं मृतमथान्यदस्तु मे॥३॥
तावक इति। यत्प्रकाशते तत्प्रकाशरूपमेव सत्प्रकाशयितुमर्हति प्रकाशस्य च देशकालादिप्रकाशमानत्वात् तत्स्वरूपमेव सम्भेदकं नोपपद्यते इसयत्नसिद्धम् विश्वरूपत्वं, चिदाह्लादात्मनः स्वरूपे निरत्यये अविनाशिनि तिष्ठन्नेवार्चासमर्थः अर्चन्नेवच स्थातुं क्षम इति हेतौ शतारौ तौ च नित्यप्रवृत्ततां व्यङ्क, स्थितिस्तत्तद्भमिलाभः, अर्चा तदेकपरामर्शव्यग्रत्वम्, एवमुत्तरत्र अन्यदित्यनेन चिद्रूपतास्थितिबहुमानेन अवस्थाविषयमनादरं ध्वनति॥३॥
ननु जीवदादिभूमयः अभिमानमय्यः ताः किमितीष्यन्ते इत्याशङ्क्य त्वत्स्वरूपेऽवस्थितस्याभिमाना अप्यलौकिकचमत्कारयुक्ता एव, इतरथा तु निरभिमानताऽपि न काचिदिति वक्तुमाह—
ईश्वरोहमहमेव रूपवान्
पण्डितोऽस्मि सुभगोऽस्मि कोऽपरः।
मत्समोऽस्ति जगतीति शोभते
मानिता त्वदनुरागिणः परम्॥४॥
ईश्वरोऽहमिति। त्वदनुरागिण त्वत्समावेशेन प्राप्तत्वदैक्यस्य, परमिति तस्यैव न तु ब्रह्मादेरपि ईश्वरः सर्वस्वतन्त्रोऽहम् अहमेव च रूपवान् चिदात्मना प्रशस्तेन स्वरूपेण युक्तः, पण्डा सम्यक् तत्त्वर्दोशनी प्रज्ञा सञ्जाता यस्य सोऽस्मि, सुभगः परमानन्दरसोल्वणत्वेन सर्वस्य स्पृहणीयोऽस्मि, तत्कि बहुना मत्समः कोऽपरोऽस्ति न कश्चित्, मयैव चिदानन्दात्मना विश्वस्यात्मसाक्षात्कारादितीदृशी मानिता साभिमानित्वं शोभते दीप्यते, अन्यथा पुनर्बोधाद्यभिमता सङ्कोचवती अविकल्पिताऽपि मलिनैव “स्वसोपानपदारूढ्याभर्तुः स्यादन्तिके स्थितिः। इतरस्तु विकल्पानां वैमुख्याद्वाह्यभूमिग इति”, त्वदनुरागिणो यत एवं मानिताऽपि शोभते ततः॥४॥
देवदेव भवदद्वयामृता–
ख्यातिसंहरणलब्धजन्मना।
तद्यथास्थितपदार्थसंविदा
मां कुरुष्व चरणार्चनोचितम्॥५॥
देवेति। हे देवदेव अशेषाधिपते, भवदद्वयामृताख्यातेः त्वदैक्यानन्दाप्रथाया संहरणेन लब्धं जन्म यया तया यथास्थितानां चिदेकात्मनां पदार्थानां संविदा मां स्वमरीच्यर्चितं कुरु, तच्छन्दः पूर्वश्लोकापेक्षया हेतौ॥५॥
कीदृश्यसावर्चा यदुचितं त्वां करोमीति भगवदुक्तिं सम्भावयन् आह—
ध्यायते तदनुदृश्यते ततः
स्पृश्यते च परमेश्वरः स्वयम्।
यत्र पूजनमहोत्सवः स मे
सर्वदाऽस्तु भवतोनुभावतः॥६॥
ध्वायत इति। “उच्चाररहितं वस्तु चेतसैव विचिन्तयन्” इति स्थित्याध्यायते तदनुदृश्यते समावेशात्प्रकाशते, ततोऽपि स्पृश्यते, गाढगाढसमाश्लेषेणैकीक्रियते स्वयमेव न तु उच्चारकरणादिपारम्पर्येण स्वयं चानुपचितेन चिन्मयेन वपुषा अनन्याकारविशेषेण, यत्रेति पूजनमहोत्सवे, महोत्सवशब्देनात्यन्तमुपादेयतामस्य वदन्नात्मनस्तदासक्त्या प्रमोदनिर्भरतां ध्वनति, अनुभावत इति ममानुभावतस्त्वदीयानुभवकव्यापारात्॥६॥
एतदेव श्लाघमान आह—
यद्यथास्थितपदार्थदर्शनम्
युष्मदर्चनमहोत्सवश्च यः।
युग्ममेतदितरेतराश्रयम्
भक्तिशालिषु सदा विजृम्भते॥७॥
यदिति। यथास्थितानां पदार्थानां दर्शनं विज्ञानं, न त्वदद्वयपूजामहोत्सवः तं च विना न यथास्थितवस्तुज्ञानमितीदं द्वयामितरेतराश्रयम् भक्तिशालिषु सदा विजृम्भते, त्वयैवास्योभयस्य युगपत्प्रकाशात्॥७॥
तत्तदिन्द्रियमुखेन सन्ततम्
युष्मदर्चनरसायनासवम्।
सर्वभावचषकेषु पूरिते–
ष्वापिवन्नपि भवेयमुन्मदः॥८॥
तदिति। स्फुरदुपायपुरःसरमेतदाशंसापर आह सर्वभावा एव चषकाणि पानपात्राणि तेषु, चक्षुरादिमुखेन महार्थदृष्ट्या चिदैक्यामृतेन पूरितेषु भृतेषु, तदाहरणक्रमेण तुर्यारोहरूपं
युष्मत्पूजारसायनपानं आसमन्तात्पिबन्, उद्गतमदोऽपि नाम भवेयम् एतत्प्रार्थये प्रभुमेवार्थये॥८॥
अन्यवेद्यमणुमात्रमस्ति न
स्वप्रकाशमखिलं विजृम्भते।
यत्र नाथ भवतः पुरे स्थितिम्
तत्र मे कुरु सदा तवार्चितुः॥९॥
अन्यवेद्यमिति। यत्र भवत्पुरे पूरके चिदात्मनि रूपे, व्यतिरिक्तस्य कस्यचिदेवाभावात् अन्याद्भेन्नं वेद्यम् अणुमात्रमपि नास्ति अपि तु अखिलं ग्राह्यग्राहकरूपं स्वप्रकाशमेव विजृम्भते, तत्र मे त्वदर्चापरस्य सदाऽवस्थितिं गाढगाढसमावेशरूपां कुरु॥९॥
दासधाम्निविनियोजितोप्यहम्
स्वेच्छयैव परमेश्वर त्वया।
दर्शनेन न किमस्मि पात्रितः
पादसंवहनकर्मणाऽपि वा॥१०॥
दासधाम्नीति। एवमर्थितेऽपि जगतीप्सितमनाप्नुवन् खिन्न इवाह दासेति। स्वेच्छयैव न तु अन्यप्रेरणादिना, निरपेक्षो हि शक्तिपात इत्युक्तमेव दर्शनेन शाम्भवसमावेशात्मना परसाक्षात्कारानुप्रवेशेन पात्रितो भाजनीकृत, पादसंवहनकर्मणा रुद्रशक्तिसमावेशाह्लादनेन अनुरणनोक्त्या लौकिकेश्वरार्थः प्राग्वत्॥१०॥
शक्तिपातसमये विचारणम्
प्राप्तमीश न करोषि कर्हिचित्।
अद्य मां प्रति किमागतं यतः
स्वप्रकाशनविधौ विलम्बसे॥११॥
शक्तिपातेति। सोपालम्भमिव प्रभुमभिमुखयितुमाह शक्तिपातोति। प्राप्तमित्युचितम्, ईशेत्यामन्त्रणं स्वतन्त्रशक्तिपातक्रमानुरूपं, कर्हिचित् कदाचित् अद्येति, सम्पन्नप्यनुग्राहात्मनि शक्तिपाते किमागतमिति क एष प्रकारः यत् चिदात्मकस्वात्मप्रकाशात्मनि विधौ अवश्यकार्येऽपि विलम्बसे, अद्यापि कालक्षेपं करोषि, मा कृषाः॥११॥
तत्र तत्र विषये बहिर्विभा–
त्यन्तरे च परमेश्वरीयुतम्।
त्वां जगत्त्रितयनिर्भरं सदा
लोकयेय निजपाणिपूजितम्॥१२॥
तत्रेति। पुनरपि भगवत्समावेशाशंसापर आह तत्रेति। बहिरिति, बाह्ये नीलादौ आन्तरे च सुखादौ, च विभासति त्वां पारमेश्वर्या परशक्त्या युतं नित्यसम्बद्धं, प्राग्वज्जगत्त्रयेण विश्वेन निर्भरं, लोकयेय साक्षात्कुर्यां, निजेन पाणिना पञ्चावर्तमध्यमध्यमप्राणशक्त्युद्बोधनक्रमाद्धृतविश्वार्पणसमेधेनार्चितम् अत्र पाणिः शक्तिः यथोक्तमाम्नाये “हस्तः शक्तिः प्रकीर्तित” इति, एतत्पूजोचितम्॥१२॥
स्वामिसौधमभिसन्धिमात्रतो
निर्विबन्धमधिरुह्य सर्वदा।
स्यां प्रसादपरमामृतासवा—
पानकेन परिलब्धनिर्वृतिः॥१३॥
स्वामीति। नित्यदित्यसमावेशरूपमेव फलमाकाङ्क्षन्नाह स्वामीति। स्वामिन सम्बन्धिनं सौधम् अतिस्पृहणीयं स्वधामसमूहमत्युच्चैशाक्तं पदमभिसन्धिमात्रत इत्युच्चारकरणाद्यनपेक्षम् इच्छामात्रेणैव विनिर्वन्धं कृत्वाऽधिरुह्य देहादि भूमिन्यग्भावेन स्वीकृय, प्राग्व्याख्यातप्रसादपरमामृतासवापानक्रीडया परिलब्धनिर्वृति आनन्दपरिपूर्णः, सदा स्याम्, अनुरणनशक्त्या दृष्टान्तालङ्कारध्वनिना लौकिकेश्वरार्थः प्राग्वत्॥१३॥
यत्समस्तसुभगार्थवस्तुषु
स्पर्शमात्रविधिना चमत्कृतिम्।
तां समर्पयति तेन ते वपुः
पूजयन्त्यचलभक्तिशालिनः॥१४॥
यदिति। प्रतिपादितपूजोपायमाह यदिति। मायाशक्त्या यद्यपि हेयोपादेयताभाञ्जि तथाऽपि वस्तुतश्चिन्मयत्वात्सुभगार्थानिसुभगप्रयोजनान्येव समस्तानिवस्तूनि तेषु विषयभूतेषु, यत्किञ्चिदिन्द्रियपथगतं तदीयरूपस्पर्शादि, स्पर्शमात्रविधिना संवित्सङ्कल्पविकल्पेन संविद्व्यापारेण, तामिति असामान्यां चमत्कृति, सम्यगर्पयति वितरति, तेन यच्छब्दपरामृष्टेन वस्तुस्वरूपेण, ते वपुश्चिन्मयरूपम्, अचलभक्त्या नवनवसमावेशेन शालमानाः, पूजयन्ति तर्पणक्रमेण त्वय्येवं विश्राम्यन्ति॥१४॥
स्फारयस्यखिलमात्मना स्फुरन्
विश्वमामृशसि रूपमामृशन्।
यत्स्वयं निजरसेन घूर्णसे
तत्समुल्लसति भावमण्डलम्॥१५॥
स्फारयसीति। ननुमलिनैरर्थैकथं शुद्धस्वरूपभगवदर्चा इत्त्याशङ्क्य सर्वदशासु अर्थानां भगवत्स्वरूपतया शुद्धतां वक्तुमाह स्फारयसीति। आत्मना चिन्मयेन, स्फुरन् भासमानः, अखिलं विश्वं स्फारयसि विकस्वरस्वात्मप्रथास्फुरणेन फुल्लयसि, तथा स्वरूपमामृशन्निजस्वरूपं चमत्कुर्वन्, निखिलं विश्वमामृशसि आस्वादनेन आनन्दघनं घटयसि, यश्च स्वयं निजेन चिद्रसेन घूर्णसे पूर्णत्वात्समुच्छलत्तया स्पन्दसे, तद्भावमण्डलमखिलं पदार्थजातं, समुल्लसति चिद्भूमावुन्मीलति, एवमनेन विश्वस्याभेदसारा परदशोचिताः स्थितिसंहारसर्गाः ज्ञानेच्छाक्रियाशक्तिपरिस्पन्दरूपाः क्रमेणोक्ताः, अक्रमेऽपि हि संवित्तत्वे व्यावृत्तिभेदेन सृष्टिस्थि तिसंहारशक्त्यवियोग सनातनत्वेन वर्ण्यतापि यदपेक्षयाऽयं क्रमव्यवहारः। तथा च श्रीपूर्वशास्त्रेषूक्तम् “सव्यापाराधिपत्वेन तद्धीनप्रेरकत्वतः। इच्छानिवृत्ते स्वस्थत्वादभिन्नमपि पञ्चधा॥” इति। सृष्टिस्थितिसंहाराणां विपर्यस्तत्वेन प्रतिपादनं चिन्मयत्वेनाक्रमतापरमार्थप्रकाशनाय॥१५॥
यो विकल्पमिदमर्थमण्डलं
पश्यतीश निखिलं भवद्वपुः।
स्वात्मपक्षपरिपूरिते जग–
त्यस्य नित्यसुखिनः कुतो भयम्॥१६॥
य इति। ननु परमेश्वरभूभावभिन्नानामर्थानामस्तु शुद्धत्वं मायापदे तु भेदविघ्नव्याकुलिते कथमेतदित्याशङ्क्य भेदविघ्नप्रसरक्षयमाह य इति। हे ईश अर्थमण्डलं प्रमेयजातमविकल्पं कृत्वा हानादानादिबुद्धिपरिहारेण श्रीभैरवीयमुद्रावीर्यस्थित्यायो योगिवरो भवद्वपुश्चिद्रूपमेव कृत्वा पश्यति दर्पणोदरोन्मीलनप्र—
तिबिम्बवत्साक्षात्करोति, अस्य स्वात्मपक्षेण चिदैक्येन परित समन्तात् पूरिते स्वाभेदमापादिते, जगति भेदविघ्नस्योन्मूलनान्नत्यसुखिनः परमानन्दघनस्य, कुतो भयं न कुतश्चिदेवेतियुक्तमुक्तं प्राक्तेन ते वपुः पूजयन्त्यचलभक्तिशालिन इति॥१६॥
कण्ठकोणविनिविष्टमीश ते
कालकूटमपि मे महामृतम्।
अप्युपात्तममृतं भवद्वपु–
र्भेदवृत्ति यदि मे न रोचते॥१७॥
कण्ठेति। इमामेवाद्वयदृर्ष्टि प्रशंसन्नाह कण्ठेति। कालकूटं महाविषमपि ते कण्ठकोणविनिविष्टं त्वदङ्गसङ्गततया स्थितं त्वदभेदेन प्रथमानं, मे महामृतं, परमव्याप्तिप्रदत्वात्, उक्तं हि “विषमप्यमृतायते” इति अमृतं तु पातुमपि लब्धुमपि यदि भवद्वपुषो भेदवृत्ति चिदद्वयदृशमस्पृशद्भाति, तदवास्तवत्वान्माह्यंन रोचते नाभिलाषपदं ममेति यावत्॥१७॥
त्वत्प्रलापमयरक्तगीतिका–
नित्ययुक्तवदनोपशोभितः।
स्यामथापि भवदर्चनक्रिया–
प्रेयसापरिगताशयः सदा॥१८॥
त्वदिति। एवमद्वयसमावेशमात्मनि सदोचितत्वेनेप्सन्नाह त्वदिति।समावेशवैवश्यादनभिसन्धानमुच्चरन्तीभिस्त्वत्प्रलापमयीभिर्भक्त्यनुरागाभिव्यञ्जनाद्रक्ताभिर्मधुरसुन्दराभिर्गीतिकभिर्नित्ययुक्तेन वदनेनोपशोभितोऽतिसुन्दररुचि स्याम्, अथापीति अपि च, व्याख्यातसतत्वतया भवदर्चनक्रिययैव प्रेयस्या परसव—
ल्लभया परिगतः स्वीकृत आशयश्चित्तं यस्य‚ तस्याश्च परिगतः सम्यग्ज्ञातः आशयः स्वरूपं येन तथा भूत सदा स्याम्॥१८॥
ईहितं न बत पारमेश्वरं
शक्यते गणयितुं तथा च मे।
दत्तमप्यमृतनिर्भरं वपुः
स्वं न पातुमनुमन्यते तथा॥१९॥
ईहितमिति। ननु च लब्धसमावेशचमत्कारोऽपि किमर्थ भूयो भूयः समावेशाकाङ्क्षापरोऽसीति शङ्कित्वेवाह ईहितमिति। परमेश्वरसम्बन्धीहितं विलसितं बताश्चर्य, गणयितुं कलयितुं, न शक्यते, तथा च मे मह्यममृतनिर्भरमानन्दघनं, वपुःस्वरूपं, पातुं रसयितुं, दत्तमपि प्रसादीकृतमपि‚ तथेति यथारुचि निर्विरामं पातुं, नानुमन्यते नाङ्गीकरोति, पुनर्व्युत्थानभूमिमेव प्रेरयतीत्यत इयमाकाङ्क्षेत्यर्थः, यत एवं ततः॥१९॥
त्वामगाधमविकल्पमद्वयं
स्वस्वरूपमखिलार्थघस्मरम्।
अविशन्नहमुमेश सर्वदा
पूजयेयमभिसंस्तुवीय च॥२०॥
त्वामिति। अगाधमपरिच्छेद्यमविकल्पं चिद्रपमद्वयमभेदसारं, स्वं सर्वस्यात्मीयं स्वरूपमखिलानां षडध्वमयानामर्थानां घस्मरमदनशीलं‚ त्वामाविशन्, हे उमेश पराभट्टारिकास्वामिन्नहं सदा पूजयेयं, “सा पूजाह्यादराल्लय" इति स्थित्यार्चये, अभितः समन्तात्सम्यगभेदपरामर्शसारतया स्तुवीय चेति शिवम् ॥२०॥
इति श्रीमदुत्पलदेवाचार्यविरचितस्तोत्रावल्या सङ्ग्रहस्तोत्रनामनि त्रयोदशस्तोत्रे श्रीक्षेमराजविरचिता विवृतिः॥१३॥
ॐ जय लक्ष्मीनिधानस्य निजस्य स्वामिनः पुरः।
जयोद्घोषणपीयूषरसमास्वादये क्षणम्॥१॥
जय लक्ष्मीति। इदमपि जयस्तोत्रं ग्रन्थकाराशय्यमेव। जयलक्ष्म्याः सर्वोत्कर्षश्रियो, निधानं समुचितमास्पदं, पुर इति साक्षात्कारसमनन्तरमेव, जयोद्घोषणमेवानन्दप्रदत्वात्पीयूषरसमास्वादये चमत्करोमि, क्षणं मुहुर्मुहु, क्षणशब्दश्चास्यास्वादस्य सुलभतां ध्वनति॥१॥
जयैकरुद्रैकशिव महादेव महेश्वर।
पार्वतीप्रणयिञ्शर्व सर्वगीर्वाणपूर्वज॥२॥
जयैकेति। प्रथममामन्त्रणद्वयमद्वयताप्रथनाय “एको रुद्र" इति श्रुतिरस्ति, एकः शिवो न तु भेदवादस्थित्या बहवः, पार्वती परा शक्तिः, सर्वेषां गीर्वाणानां देवनां पूर्वज आद्य॥२॥
जय त्रैलोक्यनाथैकलाञ्छनालिकलोचन।
जय पीतार्तलोकार्तिकालकूटाङ्ककन्धर॥३॥
जय त्रैलोक्येति। त्रैलोक्यनाथत्वे एकमद्वयसूचकाद्वितीयमलौकिकं लाञ्छनमलिकलोचनं ललाटनेत्रं यस्य, भगवद्व्यतिरेकेणान्यस्याधोमुखाधोलोचनानुन्मीलनात्पीतमार्तलोकानां सर्वेषां सुरासुराणामार्तिहेतुत्वात्तद्रूपं कालकूटं महाविषं तदङ्का कन्धरा यस्य, कालकूटमार्तिरूपतयोत्प्रेक्षितम्, अथ च कालकूटगलत्वेन भगवतः सर्वसंसारार्तिहरत्वं सूच्यते॥३॥
जय मूर्तत्रिशक्त्यात्मशितशूलोल्लसत्कर।
जयेच्छामात्रसिद्धार्थपूजार्हचरणाम्बुज॥४॥
जय मूर्तेति। मूर्ताःतिस्र इच्छाज्ञानक्रियारूपाः शक्तय
आत्मा यस्य तथाभूतेन शितेन संसारच्छेदकेन शूलेनोल्लमन् कर पाणिर्यस्य, अनेन शक्तित्रयस्य भगवदेकाधीनत्वमुक्तम्, इच्छामात्रेण सिद्धोऽर्थः प्रयोजनं याभ्यां सकाशात् तथाभूते अत एव पूजार्हे प्राग्वच्चरणाम्बुजे यस्य॥४॥
जय शोभाशतस्यन्दिलोकोत्तरवपुर्धर।
जयैकजटिकाक्षीणगङ्गाकृत्यात्तभस्मक॥५॥
जय शोभेति। शोभाः प्रकाशाह्लादरुचय वपु स्वरूपम्, अल्पैकजटा एकजटिका तत्र क्षीणा येयं गङ्गाकृतिस्तदेवात्तं भस्म येन तथामूतं कं शिरो यस्य, भगवतः शिरसि भस्मास्तीत्याद्यमविगीतमेव॥५॥
जय क्षीरोदपर्यस्तज्योत्स्नाच्छायानुलेपन।
जयेश्वराङ्गसङ्गोत्थरत्नकान्ताहिमण्डन॥६॥
जय क्षीरोदेति। क्षीरोदे पर्यस्ता प्रसृता याऽसौ ज्योत्स्ना चन्द्रकान्तिस्तच्छायं शुभ्रमनुलेपनं यस्य, अङ्गसङ्गोत्थैः रत्नैः कान्ताः अहयः शेषवासुकिप्रभृतयो मण्डनं यस्य, ईश्वराङ्गसङ्गाद्भुजङ्गमानां रत्नप्राप्तिरिति ह्यागमः॥६॥
जयाक्षयैकशीतांशुकलासदृशसंश्रय।
जय गङ्गासदारब्धविश्वैश्वर्याभिषेचन॥७॥
जयाक्षयैकेति। अक्षयाया अमानाम्न्या एकस्याः शीतांशुकलाया सदृशोऽनुरूपो भगवानेव संश्रयः, तस्याप्यक्षयैकरूपत्वात्, चन्द्रकलया हि भगवत एतत्परमार्थतैव सूच्यते, गङ्गया सदाऽऽरब्धं विश्वैश्वर्याभिषेचनं यस्य॥७॥
जयाधराङ्गसंस्पर्शपावनीकृतगोकुल।
जय भक्तिमदारब्धगोष्ठीनियतसन्निधे॥८॥
जयाधराङ्गेति। अधराङ्कं पादस्तत्स्पर्शेन पवित्रीकृतं गोकुलं येन भगवता वृषभवाहनेन, यतो वृषभः पद्भ्यां स्पृष्टस्ततः सर्वत्र गोजातेः पवित्रत्वमविगीतं, भक्तिमद्भि आबद्धायां गोष्ठ्यां नियतोऽवश्यंभावी सन्निधिर्यस्य॥८॥
जय स्वेच्छातपोवेषविप्रलम्भितबालिश।
जय गौरीपरिष्वङ्गयोग्यसौभाग्यभाजन॥९॥
जय स्वेति। स्वेच्छया क्रीडया कृतेन उपमावेशेन च विप्रलम्भितास्त्रासिता बालिशा येन, क्रीडामात्रेण भगवता जटादि विधृतं यत्तन्मूर्खाः ब्रह्मशिरश्छेदोत्थकिल्विषशुद्ध्यर्थमिति प्रतिपन्नाः, सिद्ध्यर्थमेतदित्यपरे, इदमेतद्भगवत सत्यंरूपमिति परे, तन्न सत्, भगवतः स्वतन्त्रचित्परमार्थस्यैवं रूपत्वानुपपत्तेः, गौरी परा शक्तिः तत्परिष्वङ्गयोग्यसौभाग्यस्य सर्वस्पृहणीयत्वस्य भाजन॥९॥
जय भक्तिरसार्द्रार्द्रभावोपायनलम्पट।
जय भक्तिमदोद्दामभक्तवाङ्नृत्ततोषित॥१०॥
जय भक्तिरसेति। भक्तिरसेनार्द्रार्द्राःसरसो गलितो यो भाव आशयः स एवोपायनं ढौकनिका तत्र लम्पट झटित्यात्मसात्कारिन्, भक्तिमदेनोद्दामा गर्जिता ये भक्ताः तदीयेन वाङ्नृत्तेन स्फूर्जतस्तुतिमालाभिस्तोषित॥१०॥
जय ब्रह्मादिदेवेशप्रभावप्रभवव्यय।
जय लोकेश्वरश्रेणीशिरोविधृतशासन॥११॥
जय ब्रह्मोति। ब्रह्मादिदेवेशानां यः प्रभावः सृष्ट्यादिसामर्थ्य तस्य प्रभवव्ययौ उत्पादनाशौ‚ यत लोकेश्वरश्रेण्या
इन्द्रादिलोकपालमालया शिरसा विधृतं शासनमाज्ञा यस्य, परमेशाज्ञानुवर्तिभिरिन्द्रादिभिर्दीक्षादौ स्थीयत इति शतशः आगमोक्तयः सन्ति॥११॥
जय सर्वजगन्न्यस्तस्वमुद्राव्यक्तवैभव।
जयात्मदानपर्यन्तविश्वेश्वर महेश्वर॥१२॥
जय सर्वेति। सर्वत्र जगति न्यस्तया स्वमुद्रयाऽऽनन्दसारज्ञानक्रियाशक्तिव्याप्तिमय्यावष्टम्भरूपया व्यक्तं वैभवं व्यापकत्वं प्रभुत्वं च यस्य। यदागम “न चक्राङ्का न वज्राङ्का दृश्यन्ते जन्तवः क्वचित्। भगलिङ्गाङ्कितं विश्वं तेन माहेश्वरं जगत्॥” इति।आस्तां तावद्ब्रह्मादीनां विभूत्यादिदानं त्वत्तः सर्वस्य त्वमात्मानं सत्तामपि ददासि स्वप्रकाशमयत्वत्स्वरूपं विना नीरूपत्वापत्तेरित्यात्मानं पर्यन्तं कृत्वा विश्वेश्वर, अत एवान्यस्यैवं रूपत्वाभावात्त्वं महानीश्वरः॥१२॥
जय त्रैलोक्यसर्गेच्छावसरासद्वितीयक।
जयैश्वर्यभरोद्वाहदेवीमात्रसहायक॥१३॥
जय त्रैलोक्येति। त्रैलोक्यसर्गावसरेऽसन् द्वितीय उपादानसहकार्यात्माऽपेक्षणीयो यस्य‚ द्वितीयश्चेन्नास्ति। कथं शक्तिशक्तिमांश्चेत्युद्घोष्यते इत्याह ऐश्वर्यभरोद्वाहे स्वेच्छावभासिताशेषलोकयात्रात्मने इति नयेन देवीमात्रं निजसामर्थ्यात्मा पराशक्तिरेव सहायो यस्य, ऐश्वर्य पञ्चविधकृसकारित्वम्॥१३॥
जयाक्रमसमाक्रान्तसमस्तभुवनत्रय।
जयाविगीतमाबालगीयमानेश्वरध्वने॥१४॥
जयाक्रमेति। साक्षाद्विभातत्वाद्युगपत्सदा सम्यगाक्रान्तं समस्तं निरवशेषं प्राग्वद्भुवनत्रयं येन, विष्णुना क्रमाभ्यां भूर्भुवः—
स्वराक्रान्तमधिष्ठितं भगवता त्वक्रममेव भवाभवातिभवत्रयं व्याप्तम् इति व्यतिरेकध्वनिः अविगीतमविप्रतिपत्ति कृत्वा आपालं गीयमान ईश्वर इति ध्वनिः नादामर्शो यस्य॥१४॥
जयानुकम्पानुगुणानपेक्षसहजोन्नते।
जय भीष्ममहामृत्युघटनापूर्वभैरव॥१५॥
जयानुकम्पेति। अनुकम्पादिगुणानपेक्षा सहजा स्वाभाविकी अविच्छिन्ना उन्नतिर्माहात्म्यं यस्य, अन्येषां तु “यो हि यस्माद्गुणोत्कृष्ट स तस्मादूर्ध्वमुच्यते” इत्याम्नायस्थिया अपूर्वैवोन्नति भीष्मस्य सकलजगत्कम्पकारिणो महामृत्योः घटने स्वरूपचलनात्मनि ग्रसने अपूर्वोऽपि भैरव भीषणीयस्यापि भीषणीय भीरूणां भयमिति तद्धितेन मृत्युभीतानां हृदि स्फुरन्नभयप्रदश्च॥१५॥
जय विश्वक्षयोच्चण्डक्रियानिष्परिपन्थिक।
जय श्रेयःशतगुणानुग नामानुकीर्तन॥१६॥
जय विश्वेति। विश्वक्षये संहारे उच्चण्डायां क्रियायां निर्गतः परिपन्थिको निरोद्धा यरय, श्रेयांसः शतगुणा अनुगाः पश्चाद्धाविन यस्य, तथाविधं नामानुकीर्तनं यस्य॥१६॥
जय हेलावितीर्णैतदमृताकरसागर।
जय विश्वक्षयाक्षेपिक्षणकोपाशुशुक्षणे॥१७॥
जय हेलेति। हेलया वितीर्णो भक्तेभ्यो दत्तः एतदित्येष श्रेय शतगुणानुगः अमृताकरसागरो येन, उपमन्यवे क्षीरोदो वितीर्णः “येन विश्वक्षयाक्षेपिक्षणकोपाशुशुक्षणिः” क्षणिकोऽपि कोपाग्निर्यस्य॥१७॥
जय मोहान्धकारान्धजीवलोकैकदीपक।
जय प्रसुप्तजगतीजागरूकाधिपूरुष॥१८॥
जय मोहेति। मोहान्धकारेण अख्यातितिमिरेण अन्ध उपसंहृताभेददृष्टिर्योजीवलोकस्तस्यैक अद्वितीयो दीपः परमार्थप्रकाशकः, प्रकर्षेण सुप्तायां मायाप्रस्वापजडीकृतायां जगत्याविश्वप्रजागरूको नित्यप्रबुद्धोऽतएवाधिपुरुषोधिष्ठातृस्वरूपः॥१८॥
जय देहादिकुञ्जान्तनिकूजज्जीव जीवक।
जय सन्मानसव्योमविलासिवरसारस॥१९॥
जय देहादीति। देह एवं जडत्वादद्विकुञ्जंपर्वतदरीगृहं तत्र निकूजत क्रन्दतो जीवान् प्राणिनो जीवयति जीवतां लम्भयति यः पर्वतगुहायां च निकूजन्तो जीवजीवाख्याः पक्षिणो भवन्तीत्यनुरणनशक्त्याक्षिप्तोर्थोऽपि सतां भक्तानां मानसं चित्तमेव निर्मलत्वादिधर्मत्वाद्व्योम तत्र विलसत्तच्छील वरसारस परमात्मराजहंसश्च शोभमानश्च व्योमचारी भवति॥१९॥
जय जाम्बूनदोदग्रधातूद्भवगिरीश्वर।
जय पापिषु निन्दोल्कापातनोत्पातचन्द्रमाः॥२०॥
जय जाम्बूनदेति। जाम्बूनदं कनकं तेन उदग्र ऊर्जितो धातुद्भवश्च रसधातुसम्भूतो गिरीश्वरो मेरुर्यस्य, तथा च अवधूतः येनामलस्फुरितेत्यादि, पापिष्वतिशयविलयशक्तिगोचरेषु निन्दैव विषमदशाहेतुत्वादुल्का विद्युत्, भगवद्विलयशक्तिपातेन हि पापिनो भगवन्तं निन्दन्ति, उत्पातने उत्पातचन्द्रमा इव अशुभसूचक इन्दुरिव इन्दुरूपेण नित्यमाह्लादहेतुत्वं सूच्यते॥२०॥
जय कष्टतपःक्लिष्टमुनिदेवदुरासद।
जय सर्वदशारूढभक्तिमल्लोकलोकित॥२१॥
जय कष्टेति। कष्टतपः क्लिष्टत्वादेवागस्त्यब्रह्मादिभिर्दुःखेनासाद्यते, उक्तं हि प्राग्वत् न योगो न तप इति भक्तिरेव तत्रोपाय इत्याह सर्वासुजाग्रदादिदशास्वारूढेन प्राग्व्याख्यातेन भक्तिमल्लोकेन लोकित साक्षात्कृत॥२१॥
जय स्वसम्पत्प्रसरपात्रीकृतनिजाश्रित।
जय प्रपन्नजनतालालनैकप्रयोजन॥२२॥
जय स्वसम्पत्प्रसरेति। परमानन्दसारे स्वसम्पत्प्रसरेपात्रीकृतस्तदास्वादभाजनतां प्रापित निजाश्रितो भक्तजनो येन, लालनं “तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम्” इति स्थित्यायोगक्षेमोद्वहः॥२२॥
जय सर्गस्थितिध्वंसकारणैकावदानक।
जय भक्तिमदालोललीलोत्पलमहोत्सव॥२३॥
जय सर्गस्थितीति। सृष्ट्यादिकारणं “सदा सृष्टिविनोदाय " इति न्यायेन एकमेवावदानमुत्तमं चरितं यस्य, भक्तिमदेन समावेशोद्रेकेण आलोला स्पृहणीया व्याप्ता च लीलापरिस्पंदो यस्य तथा भूतस्योत्पलस्यैतन्नाम्न अस्मत्परमेष्ठिनो महोत्सवः॥२३॥
जय जयभाजन जय जितजन्म–
जरामरण जय जगज्ज्येष्ठ।
जय जय जय जय जय जय जय
जय जय जय जय जय जय त्र्यक्ष॥२४॥
जय जयेति। जयभाजनत्वं चिद्रूपत्वेन सर्वोत्तमत्वात्स्वात्मन एव चिद्रूपेश्वरस्य वस्तुतः सर्वोत्कर्षवृत्तेरपि स्वातन्त्र्येण
विषयव्यग्रतावस्थायां गूहितात्मत्वात्पराङ्मुखस्येव सम्मुखीकरणात्मकप्रार्थनारूपो जयेति, लोडर्थ इहाद्वयनये ऐवोचित इत्याशयेनापि उक्तं जयभाजनेति द्वयनये तु भेदमयत्वादेवेश्वरो न सर्वोत्कर्षेण वर्तते ततो जयेत्याशीर्व्यर्थैव, अथापि वर्तेत किं परकृतया प्रार्थनया विध्यादिश्च लोडर्थ ईश्वरविषयेऽनुचित एवेति भेदेन यज्जयेत्युदीरणमनुपपन्नमेव, जितानि जन्मजरामरणानि जयमाश्रित्येऽर्थः, जगज्ज्येष्ठता अनादित्वात् भूयो भूयो जय जयेत्युद्घोषणमुद्घोषयितुर्भक्तिसमावेशवैवश्यं सूचयति, त्र्यक्षेत्यामन्त्रणं निःसामान्योत्कर्षशालितां प्रकाशनायेति शिवम्॥२४॥
इति श्रीमदुत्पलदेवाचार्यविरचितस्तोत्रावलौजयस्तोत्रे श्रीक्षेमराजविरचिता विवृति॥
तदेतैश्चतुर्दशभिरेकदेशैः सहजोन्मुद्रणानाम स्तोत्रम्॥१४॥
<MISSING_FIG href="../books_images/U-IMG-1726196931Screenshot2024-08-01215007.png"/>
ॐ तत्सत्
त्रिमलक्षालिनो ग्रन्थाः सन्ति तत्पारगास्तथा।
योगिनः पण्डिताः स्वस्थास्त्वद्भक्ता एव तत्वतः॥१॥
त्रिमलेति। त्रीन्आणवमायीयकार्ममलान् क्षालयन्ति ये ते ज्ञानक्रियायोगचर्यापदरूपा, ग्रन्थाः पारमेश्वरा, तथा तत्पारगास्तेषामाद्यन्तदर्शिनो व्याख्यात्रादयोऽपि, सन्ति सत्यत पुनस्त्वद्भक्ता एव तत्पारगाः यतस्त एव तत्वतो योगिनः पण्डिता स्वस्थाश्च तत्पारगाः तत्वत इति चावृत्या योज्यं, तत्र “योगमेकत्वमिच्छन्ति” इति “मय्यावेश्य मनो ये माम्” इत्यादि योगिनो नित्यसमावेशयुक्ता प्रशंसायां नित्ययोगे चेनि अनेन योगपादरहस्यनिष्ठत्वमेषामुक्तम्,पण्डितत्वं विद्यापादक्रियापाद सतत्वरूढिः तत्र विद्यापादेन ‘ज्ञायतेऽनेनेति’ व्युत्पसा उपायात्मकं परशक्तिशिवस्वरूपं ज्ञानमेकं ज्ञप्तिज्ञानमिति व्युत्पत्योपेयात्मकं चिदानन्दघनस्वरूपं विश्रान्तिसतत्वं द्वितीयमभिधीयते, क्रियापादेनापि वीर्यसारमन्त्रतन्त्रतदिति कर्तव्यताद्युपायरूपा तदुपायक्रमावाप्तस्वात्मविमर्शसारा च क्रियाऽभिधीयते, तन्त्रमन्त्राणां समस्तवाच्यवाचकभेदामर्शसारपरमानन्दघनशब्दराशिसतत्वमहं विमर्शसारं परं वीर्यम्, एतदभिन्नस्फुरतामयी च महासामान्यस्पन्दरूपा प्रतिभात्मा विमर्शशक्ति सृष्टिसंहारप्रधानपरवीर्यम्; अपरं तु विश्लेषणादियुक्तिवशस्फुरिततत्तद्ध्येयदेवताकारा भेदप्रतिपत्ति मुद्रणा तत्तत्संवित्सारतैव हृदयं कुण्डमण्डलेतिकर्तव्यतादेरपि परमेशज्ञानक्रियाशक्तिव्याप्तिरेव तत्त्वम्, एवं विद्यापरमार्थसतत्वविश्रान्तिपाण्डित्यम्, स्वस्थत्वं तु चर्यापादाभिधेयोक्तं करणोन्मीलननिमीलनक्रमेणैव परमेश्वरवत्सततं
सृष्टिसंहारादिकारि स्वस्वरूपावस्थितत्वम् एतच्चसर्वं त्वद्भक्तानामेव तत्वतोऽस्तीत्यलम्॥१॥
मायीयकालनियतिरागाद्याहारतर्पिताः।
भवन्ति सुखिनो नाथ भक्तिमन्तो जगत्तटे॥२॥
मायीयेति। कालादीनां पञ्चाना ग्रसनेन तर्पितत्वं तत्प्रातिपक्ष्येण यदकालकलितव्यापकनिराकाङ्क्षसर्वकर्तृसर्वज्ञस्वस्वरूपप्राप्ति, सुखिन आनन्दघनास्तृप्ताश्च सुखसञ्चारिणो भवन्ति॥२॥
रुदन्तो वा हसन्तो वा त्वामुच्चैः प्रलपन्त्यमी।
भक्ताः स्तुतिपदोच्चारोपचाराः पृथगेव ते॥३॥
रुदन्त इति। अमी इति समावेशशालिनो भक्ता, रुदन्तो वा हसन्तो वेति सर्वावस्थावर्त्तिनरत्वामुच्चैरुत्कृष्टतया प्रलपन्ति स्फुटं विमृशन्ति, अमी एव सत्यतो भक्ताः, स्तुतिपदोच्चार एवोपचारः सेवाप्रकार उपरञ्जनप्रकारो येषां ते, पृथगेव भक्ता जनेभ्यो बाह्या एवेत्यर्थः॥३॥
न विरक्तो न चापीशो मोक्षाकाङ्क्षीत्वदर्चकः।
भवेयमपि तुद्रिक्तभक्त्यासवरसोन्मदः॥४॥
विरक्तो निवृत्तिधर्म्मा ईशो वा विभूतियुक्तः सन्।
निजनिजेनौचित्येन त्वदर्चको मोक्षमाकांक्षन्॥५॥
नेति। विरक्तः निवृत्तिधर्मा, ईशो विभूतियुक्तः, निजनिजेनौचित्येन त्वदर्चको मोक्षमाकाङ्क्षन् न तु जीवन्मुक्त न भवेयं मा भूवमित्यर्थ, अपि तु उद्रिक्तेन ऊर्जितेन भक्त्यासवरसेन समावेशचमत्कृतिप्रकर्षेणोन्मद उद्भूतानन्दो भवेयम्॥४॥५॥
बाह्यं हृदय एवान्तरभिहृत्यैव योऽर्चति।
त्वामीश भक्तिपीयूषरसपूरैर्नमामि तम्॥६॥
बाह्यमिति। हृदय एव प्रकाशपरामर्शात्मनि स्वरूप एवान्तर्मध्ये विश्वं वाह्यमभिहृत्य समन्तात्स्वीकृत्यैव न तु किञ्चिदवशेष्य, हे ईश स्वामिन्, यस्त्वां भक्तिरेव परमाह्लादविकासहेतुत्वात्पीयूषपूरास्तैरर्च्चति, तं भक्तिशालिनं नमामीति पूर्ववत्॥६॥
धर्माधर्मात्मनोरन्तः क्रिययोर्ज्ञानयोस्तथा।
सुखदुःखात्मनोर्भक्ताः किमप्यास्वादयन्त्यहो॥७॥
धर्मेति। लोके शुभाशुभरूपतया प्रसिद्धत्वेन धर्माधर्मत्वं न तु भक्तिमद्भिस्तथाऽनुष्ठीयमानत्वात्, अन्तरिति मध्ये स्थिता, अपि किमपीति असामान्यपरमानन्दकरूपम्॥७॥
चराचरपितः स्वामिन् अप्यन्धा अपि कुष्ठिनः।
शोभन्ते परमुद्दामभवद्भक्तिविभूषणाः॥८॥
चराचरेति। अप्यन्धा अपि, कुष्ठिन इति, लोकेत्यन्तं गर्हिता अपीत्यर्थः॥८॥
शिलोञ्छपिच्छकशिपुविच्छायाङ्गा अपि प्रभो।
भवद्भक्तिमहोष्माणो राजराजमपीशते॥९॥
शिलोञ्छेति। शिलोञ्छमुञ्छितं शिलं पिच्छं पक्षः कशिपुः भोजने आच्छादने शिलोञ्छपिच्छे एव कशिपुस्तेन विच्छायान्यङ्गानि येषां ते, एवमतिकृशवृत्तयोऽपि यतो भवद्भक्त्या महोष्माणः अतिदीप्तोर्जितस्वरूपास्तनो राजराजं वैश्रवणमीशते ऐश्वर्येणाभिभवन्तीत्यर्थः॥९॥
सुधार्द्रायां भवद्भक्तौ लुठताप्यारुरुक्षुणा।
चेतसैव विभोऽर्चन्ति केचित्त्वामभितः स्थिताः॥१०॥
सुधार्द्रायामिति। सुधा परमानन्दरसः, आर्द्रा सिक्ता, भक्तिसमावेशः तत्र, लुठता सम्यक् तत्पादानाक्रमात्स्थितिं जहताऽपि, आरुरुक्षुणा अकृतकावष्टम्भजिघृक्षुणा, चेतसैव न तु बाह्येन कुसुमादिना केचिदिति, परमयोगिन त्वामभितः स्थिता अन्तर्बहिश्च सर्वत्र त्वय्येव विश्रान्ता॥१०॥
रक्षणीयं वर्धनीयं बहुमान्यमिदं प्रभो।
संसारदुर्गतिहरं भवद्भक्तिमहाधनम्॥११॥
रक्षणीयमिति। रक्षणं व्युत्थानेनानपहारः, वर्धनं क्रमात्क्रममन्तरमनुप्रवेशे स्फीततापादनम्, बहुमानः सर्वोत्कृष्टतयाऽऽदर॥११॥
नाथ ते भक्तजनता यद्यपि त्वयि रागिणी।
तथापीर्ष्यंविहायास्यास्तुष्टाऽस्तु स्वामिनी सदा॥१२॥
नाथेति। भक्तजनता रागिणी नायिकेव ईर्ष्यात्यागः अवदानं, तुष्टा विकसिता, स्वामिनी परशक्तिरिति प्रकृते अप्रकृते तु स्वामिनी महादेवी॥१२॥
भवद्भावः पुरो भावी प्राप्ते त्वद्भक्तिसम्भवे।
लब्धे दुग्धमहाकुम्भे हता दधनि गृध्नुता॥१३॥
भवद्भाव इति। भक्तिसम्भवे त्वत्समावेशे, भवद्भाव पुरो भावी त्वद्रूपता समासन्नैव, न तु प्रार्थनीया, यतो महति क्षीरघटे प्राप्ते दध्निया गृध्नुता अभिलाषुकता सा हता व्यर्थैव, दुग्धेनैव दध्नोगर्भीकारात्॥१३॥
किमियं न सिद्धिरतुला
किंवा मुख्यं न सौख्यमास्रवति।
भक्तिरुपचीयमाना
येयं शम्भोः सदातनी भवति॥१४॥
किमिति। शम्भोर्भक्तिरुपचीयमाना परां धारां प्राप्यमाणा या सदातनी भवति पराभक्तिरूपतामासादयति, कि नेयमतुला सिद्धिरपि त्वतुलैव परैव भक्तिः, मुख्यं सौख्यं परमानन्दं,वा किं न आसमन्तात्स्रवति स्रवत्येवेत्यर्थः॥१४॥
मनसि मलिने मदीये
मग्ना त्वद्भक्तिमणिलता कष्टम्।
न निजानपि तनुते तान्
अपौरुषेयान्स्वसम्पदुल्लासान्॥१५॥
मनसीति। मलिने व्युत्थानकलङ्किते मग्ना व्युत्त्थानाच्छादिता त्वद्भक्तिरेव मणिलता सर्वसिद्धिप्रसूः रत्नशाखा निजान् सहजान्तानिति समावेशेन स्फुरितान् अलौकिकान् सर्वाकाङ्क्षापरिहारिपरमानन्दमयान् नमिताणिमादिरूपान् किमिव न सिद्धिरतुलेतीदानीमेवोक्तत्वात्॥१५॥
भक्तिर्भगवति भवति
त्रिलोकनाथेन तूत्तमासिद्धिः।
किन्त्वणिमादिकविरहात्
सैव न पूर्णेति नास्ति चिन्ता मे॥१६॥ *1
बाह्यतोऽन्तरपि चोत्कटोन्मिष–
त्त्र्यम्बकस्तवकसौरभाः शुभाः।
वासयन्त्यपिविरुद्धवासनान्
योगिनो निकटवासिनोऽखिलान्॥१७॥
भक्तिरिति। उत्कटमतिदीप्तम्, उन्मिषत उल्लसतः त्र्यम्बकस्तवकस्य शिवकुसुमगुच्छस्य सम्बन्धि सौरभमामोदो येषां योगिनां ते शुभाः बहिरन्तश्च पूजनेनाधिवासिता विरुद्धवासनान् अनाश्वस्तानपि अखिलान्निकटवासिनो जनान् वासयन्ति तु भवत्पूजोन्मुखान् सम्पादयन्ति बाह्ये त्र्यम्बकार्थ स्तवकः अन्तस्तु त्र्यम्बक एव स्तवक एवं सौरभमामोदश्चमत्कारश्च अथ च उत्कटेन त्र्यम्बकस्तवकस्य धत्तूरकस्य सौरभेणाधिवासिताः निकटस्थान्विभिन्नामोदानपि वाटमर्चयन्तीति अनुरणनव्यङ्ग्योर्थः॥१६/१७॥
ज्योतिरस्ति कथयाऽपि न किं–
चिद्विश्वमप्यतिसुषुप्तमशेषम्।
यत्र नाथ शिवरात्रिपदेऽस्मि–
नित्यमर्चयति भक्तजनस्त्वाम्॥१८॥
ज्योतिरिति। ज्योतिर्वाह्यान्तरजं ज्ञानं यत्र नाम्ना किञ्चिन्नास्ति समस्तमायीयप्रथायाः संहरणाद्विश्वमपि सकलमतिसुप्तम्, अत्र शिवरात्रिपदे शिवसमावेशभूमौ समस्ताख्यातिप्रथायाः संहरणाद्रात्रिरिव रात्रिस्तस्याः पदे स्थाने॥१८॥
सत्वं सत्यगुणे शिवे भगवति स्फारीभवत्वर्चने
चूडायां विलसन्तु शम्भुचरणप्रोछद्रजःसञ्चयाः।
रागादिस्मृतिवासनामपि समुच्छेत्तुं तमो जृम्भताम्
शम्भो मे भवतात्त्वदात्मविलये त्रैलोक्यवर्गोथव॥१९॥
सत्वमिति। सत्याःपारमार्थिकाः सर्वज्ञत्वादयो गुणा यस्य, तत्र शिवे भगवति यदर्चनं चिद्विश्रान्तिपरमार्थस्वरूपं तत्र सत्वं प्रकाशः स्फारीभवतु। चूडायां मध्यशिखायां शिवशक्त्युदिता रजः प्रकाशप्रवृत्तिनियमार्था इति सत्त्वरजस्तमःप्रसराः, किरणनिकराः स्वरूपोन्मीलकाः विकसन्तु। तनुश्चाख्यात्मा मोहः रागादिस्मृतिहेतुं वासनामपि सम्यगुच्छेत्तुमपुनर्भवाय जृम्भताम्। अथवा त्रैगुण्यवतस्त्वदात्मनि यो विलयः निःशेषमुपशान्तिस्तत्र भवतात् त्वय्येव विलीनो भृयादित्यर्थः॥१९॥
संसाराध्वा सुदूरः खरतरविविधव्याधिदग्धाङ्गयष्टिः
भोगानेवोपभुत्त्का यदपि सुखमभूज्जातु तन्नो चिराय।
इत्थं व्यर्थोऽस्मि जातः शशिधरचरणाक्रान्तिकान्तोत्तमाङ्ग–
स्त्वद्भक्तश्चेति तन्मे कुरु सपदि महासम्पदो दीर्घदीर्घाः॥२०॥
संसारेति। सुदूरः कृच्छ्रप्राप्यपर्यन्तः, भोगा इति उत्तमा इह विवक्षिताः‚ जातु कदाचिन्नो निषेधे, अस्मीति देहादिप्रमातृरूपः, यतस्तु शशिधरचरणाक्रान्त्या ईश्वरशक्तिपातेन कान्तं दीप्रं संवित्प्रधानम्, अत एवोत्तमाङ्गं स्वरूपं यस्य त्वद्भक्त—
श्चेति। तथा भूतोऽपि त्वामेव सेवमानः तस्मान्मे दीर्घदीर्घाः शाश्वतीर्महासम्पदः प्राग्वदद्वयमयी कुर्विति शिवम्॥१९॥
इति श्रीमदुत्पलदेवाचार्यविरचितस्तोत्रावलौ भक्तिस्तोत्रनामनि पञ्चदशे स्तोत्रे श्रीमद्राजानकक्षेमराजाचार्य
विरचिता विवृतिः॥१९॥
ॐ न किञ्चिदेव लोकानां भवदावरणं प्रति।
न किञ्चिदेव भक्तानां भवदावरणं प्रति॥१॥
न किञ्चिदिति। भवदावरणं प्रति चिन्मयत्वत्स्बरूपावरणाय लोकानां संसारिणां न किञ्चिदेव काक्वा अपि तु सर्वमेव भेदेन विश्वमेव पर्यन्तसमस्तशक्तिचक्रव्यवहितत्वात्, भक्तानां तु न किञ्चिदेब नैव किञ्चिदित्यर्थः शिवतत्वपर्यन्तस्याशेषस्य स्वाङ्गकल्पनया प्रमेयीकृतत्वात्॥१॥
अप्युपायक्रमप्राप्यः सङ्कुलोऽपि विशेषणैः।
भक्तिभाजां भवानात्मा सकृच्छुद्धोऽवभासते॥२॥
अप्युपायेति। उपायक्रमस्तत्तच्छास्त्रोक्तज्ञानक्रियायोगचर्यादिर्विशेषणैः सर्वज्ञत्वसर्वकर्तृत्वसर्वशक्तिमयादिभिरसंख्यैः, यथोक्तमपि “सर्गसिद्धिवाचः क्षयेरन्” इत्यादि च, तथाभूतानां शक्तिभाजां सकृत्सन्ततं शुद्धचिदेकपरमार्थोऽवभासते, समावेशेन स्फुरति यश्च क्रमप्राप्यः सङ्कुलश्च स कथं सकृच्छुद्धश्च भातीति विरोधाभास॥२॥
जयन्तोऽपि हसन्त्येते जिता अपि हसन्ति च
भवद्भक्तिसुधापानमत्ताः केप्येव ये विभो॥३॥
जयन्तोऽपीति। जयन्त इति भेदानास्पदीकरणेन समाविशन्त, हसन्ति विकसन्ति, जिता अपीति,व्युत्थानेवाकृष्यमाण अपि समावेशसंस्काराद्बहिश्च विकसन्ति लौकजयपराजययोर्हसन्त्येव मत्ता हृष्टा अथ च ये मत्ताः क्षीवास्ते जयपराजययोर्हसन्तो भवन्ति केपीत्यलौकिकाः॥३॥
शुष्ककं भैव सिद्धेय मैव मुच्येय वाऽपि तु।
स्वादिष्ठपरकाष्ठाप्तत्वद्भक्तिरसनिर्भरः॥४॥
शुष्ककमिति। शुष्कमेव शुष्ककं क्रियाविशेषणं, शुष्ककं भक्तिसमावेशरहितं कृत्वा तादृशौ भोगमोक्षौ भेदवादिनां स्वादिष्टौ निरतिशयचमत्कारो धारादिरूढश्च, यस्त्वत्समावेशरसः तेन निर्भरं पूर्णं कृत्वा अत एव शुष्कतानिवृत्तिः॥४॥
यथैवाज्ञातपूर्वोऽयं भवद्भक्तिरसो मम।
घटितस्तद्वदीशान स एव परिपुष्यतु॥५॥
यथैवेति। अज्ञातपूर्व इति, जन्मकोटिमध्येऽप्यविदित अयमिति स्फुरद्रूपः भक्तिरसः समावेशप्रसरः, ईशान स्वतन्त्र तद्वदिति, झटित्यज्ञातपूर्वः यथैवेति, यं प्रकारं त्वमेव जानासीत्यर्थः॥५॥
सत्येन भगवन्नान्यः प्रार्थनाप्रसरोऽस्ति मे।
केवलं स तथा कोऽपि भक्त्यावेशोऽस्तु मे सदा॥६॥
सत्येनेति। अतिप्रणयपरिचयादियमुक्तिः। अन्य इति, प्रार्थनातो व्यतिरिक्तः स तथा कोऽपीति, वाग्विकल्पातीत भक्त्यावेशः समावेशकवैल्यम्॥६॥
भक्तिक्षीवोऽपि कुप्पेयं भवायानुशयीय च।
तथा हसेयं रुद्यां च रटेयं च शिवेत्यलम्॥७॥
भक्तीति। भवाय संसाराय कुप्येयं ग्राम्यत्वेन संसारमवलोकयेयमित्यर्थः, अनुशयीयेति, कथमियन्तं कालं व्यामूढ़ आसमिति पश्चात्तापमनुभवेयम्, हसेयं प्रमोदेन विकसेयम्, रुद्यां आनन्दाश्रुप्लुतः स्याम, रटेयमिति शिव शिवेति मुखर स्याम्, श्रीवस्येव मे नानावृत्युदयो भवतु॥७॥
विषमस्थोऽपि सुस्थोऽपि रुदन्नपि हसन्नपि।
गभीरोऽपि विचित्तोऽपि भवेयं भक्तितः प्रभो॥८॥
विषमस्थ इति। विषमस्थोऽपि दौर्गत्योपहतोऽपि, भक्तित स्वानन्दविश्रान्त, सूचीपुञ्जोपविष्ट इव लौकिकं सुखं दुखरूपेण पश्यन्, तथा बान्धवमरणाद्यवस्थायां रुदन्नपि तथा अन्तश्चिद्विकासलाभात्प्रहृष्यन्, तथा सांसारिकप्रमोदेषु तथा हसन्नपि रुदन् शोचनीयतां मन्यमानस्तथा लौकिकव्यवहारे गभीरोऽपि परैरनालक्ष्योऽपि विचित्त तां दशामुत्पातमिव मन्यमानस्तथा विचित्तोऽपि क्वचन सन्निंपाताद्यवसरे नष्टस्मृतिरपि गंभीर परैरालोचितोप्यन्तर्दशाव्याप्तिप्रमोदनिर्भर स्याम्॥८॥
भक्तानां नास्ति संवेद्यं त्वदन्तर्यदि वा बहिः।
चिद्धर्मा यत्र न भवान्निर्विकल्पः स्थितः स्वयम्॥९॥
भक्तानामिति। संवेद्यं संसारलीलादि, चिद्धर्मा चित्स्वयमिति साक्षात्स्फुरन् नान्याधिष्ठानेन॥९॥
भक्ता निन्दानुकारेऽपि तवामृतकणैरिव।
हृष्यन्त्येवान्तरा विद्धास्तीक्ष्णारोमाञ्चसूचिभिः॥१०॥
भक्ता इति। तव निन्दानुकारेऽपि उपहतजन्तूपक्लृप्तामप्रशंसामनुकुर्वन्तो भक्ता हृष्यन्त्येव, स्फुरत्तात्विकरूपाः परमानन्दव्याप्ति लभन्त एव अत एव पाशनिर्भेदिनीभिस्तीक्ष्णाभी रोमाञ्चसूचिभिरासमन्ताद्विद्धा॥१०॥
दुःखापि वेदना भक्तिमतां भोगाय कल्पते।
येषां सुधार्द्रा सर्वैव संवित्त्वच्चन्द्रिकामयी॥११॥
दुखापीति। वेदना संवित्, दुःखापि दुःखकारिण्यपि, भोगायेति दुःखस्य चमत्कार्यत्वाच्चमत्कर्तृतासारानन्दघनप्रमातृपदवित्तये तत एवाहं सर्वैव संवित् चितिशक्ति, येषां सुधार्द्रा परमानन्दघनत्वाच्चन्द्रिकामयी पराशक्तिरूपा॥११॥
यत्र तत्रोपरुद्धानां भक्तानां बहिरन्तरे।
निर्व्याजं त्वद्वपुःस्पर्शरसास्वादसुखं समम्॥१२॥
यत्रेति। सुखदुःखतद्धेत्वादिरूपे उपरुद्धानामवस्थितानां भक्तानां निर्व्याजमन्तर्विचित्रवासनाकालुष्यशून्यं त्वद्वपुश्चिन्मयत्वात्यत्स्वरूपस्य संबन्धि यत्स्पर्शरसास्वादसुखं तत्समं सर्वतुल्य, उक्तं च “समबुद्धिर्विशिष्यते” इति॥१२॥
तवेश भक्तेरर्चायां दैन्यांशं द्वयसंश्रयम्।
विलुप्यास्वादयन्त्येके वपुरच्छं सुधामयम्॥१३॥
तवेति। तवार्चायां प्राग्व्याख्यातायां या भक्ति सेवा तस्याः द्वयसंश्रयं भेदसम्बद्धं दैन्यांशं दीनतालेशमपि विलुप्य छित्वा एके केचिदेव भेदविगलनादच्छं निर्मलं तद्वदेव सुधामयमानन्दरससारं वपुरास्वादयन्ति चमत्कुर्वन्ति दैन्यांशमिति। अत्रायमाशय द्वैतभक्तेरद्वैतभक्ति सद्यः समावेशमयी द्वैतभक्तिस्त्वतथात्वाच्छिवताऽऽकाङ्क्षामयी॥१३॥
भ्रान्तास्तीर्थदृशो भिन्ना भ्रान्तेरेव हि भिन्नता।
निष्प्रतिद्वन्द्वि वस्त्वेकं भक्तानां त्वं तु राजसे॥१४॥
भ्रान्ता इति। तीर्थदृश शास्त्रदृष्टयो यतो भ्रान्तास्ततो भिन्नाः, यस्माद्भिन्नता नाम भ्रान्तेरैक्याख्यातेर्हेतुर्भवति न तु वस्तुतः, भक्तानां तत्त्वमेकमद्वितीयं वस्तुतत्वं निष्प्रतिद्वन्द्वित्वानिच्चद्घंराजसे दीप्यसे॥१४॥
मानावमानरागादिनिष्पाकविमलं मनः।
यस्यासौ भक्तिमांल्लोकस्तुल्यशीलः कथं भवेत्॥१५॥
मानावमानेति। यस्य भक्तिमतो मानावमानयोः रागादीनां
च यो निष्पाक निःशेषेण पचनं दग्धवीजकल्पतापादनं, तेन हेतुना मन स्वान्तं विमलमकलङ्कम्॥१५॥
रागद्दे्वषान्धकारोऽपि येषां भक्तित्विषा जितः।
तेषां महीयसामग्रे कतमे ज्ञानशालिनः॥१६॥
रागेति।महीयसामिति, ईयसुनोऽयमाशय समव्याप्तिकत्वं ज्ञानिनां भक्तानां च‚ तत्र भक्तानां तु रागद्वेषान्धकारस्य जयाद्विशेष॥१६॥
यस्य भक्तिसुधास्नानपानादिविधिसाधनं।
तस्य प्रारब्धमध्यान्तदशासूच्चैःसुखासिका॥१७॥
यस्येति।भक्तिरेव सुधा अमृतं सा यस्य स्नानपानादिविधेः शुद्धतृप्त्यादिफलस्य व्यापारग्रामस्य साधनं, प्रारब्धमध्यान्तदशासु, आदौ मध्ये चान्ते चार्थात्सर्वव्यापाराणामुच्चैःसुखासिका परमानन्दविश्रान्तित्वम्॥१७॥
कीर्त्यश्चिन्तापदं मृग्यः पूज्यो येन त्वमेव तत्।
भवद्भक्तिमतां श्लाघ्या लोकयात्रा भवन्मयी॥१८॥
कीर्त्यइति।येनेति हेतौ उदिति तस्माल्लोकयात्रा च कीर्तनादिमती च॥१८॥
मुक्तिसंज्ञा विपक्वायाः भक्तेरेव त्वयि प्रभो।
तस्यामाद्यदशारूढा मुक्तकल्पा वयं ततः॥१९॥
मुक्तिरिति। विपक्वायाः परंपरिपूर्णाया, आद्यदशारूढेति उत्तरोत्तरप्रकर्षसाधनायोद्युक्ता अपि प्रथमभूमिकायां लब्धस्थितय मुक्तकल्पा इति मनाङ्मात्रेण सम्पूर्णमुक्तयो न तु मुक्ताः॥१९॥
दुःखागमोऽपि भूयान्मे त्वद्भक्तिभरितात्मनः।
तत्पराची विभो माभूदपि सौख्यपरम्परा॥२०॥
दुःखागम इति। त्वत्पराची त्वत्पराङ्मुखी॥२०॥
त्वं भक्त्या प्रीयसे भक्तिः प्रीते त्वयि च नाथ यत्।
तदन्योन्याश्रयं युक्तं यथा वेत्थ त्वमेव तत्॥२१॥
त्वमिति। यावन्न परमेश्वरः प्रीयते न तावद्भक्तिः यावच्च समावेशमयी भक्तिः न तावत्परमेश्वरः प्रीयते, भक्तिमतश्चिदानन्दमयं वपुः प्रकटयति, तदेतदन्योन्याश्रयं यथा येन प्रकारेण यथा युक्तं भवति तथा त्वमेव अतिदुर्घटकारिणः स्वातन्त्र्यादुभयं घटयसि न त्वत्र पुरुषयुक्तयः प्रभवन्ति॥२१॥
साकारो वा निराकारो वान्तर्वाबहिरेव वा।
भक्तिमत्तात्मनां नाथ सर्वथाऽसि सुधामयः॥२२॥
साकारइति।भक्त्या मत्तः प्रहृष्ट आत्मा येषां तेषां, सर्वत्र त्वं सुधामय ते हि सर्वात्मत्वेन पश्यन्ति॥२२॥
अस्मिन्नेव जगत्यन्तर्भवद्भक्तिमतः प्रति।
हर्षः प्रकाशनफलमन्यदेव जगत्स्थितम्॥२३॥
अस्मिन्निति। सर्वजनातिघोरे तेन आपातमात्रे यद्यपि भक्तिमतां लोकवदेव जगद्भाति तथाऽपि मृग्यमानमेतदेषां प्रकाशानन्दघनमेव॥२३॥
गुह्ये भक्तिः परे भक्तिर्भक्तिर्विश्वमहेश्वरे।
त्वयि शम्भो शिवे देव भक्तिर्नाम किमप्यहो॥२४॥
गुह्ये इति। गुह्ये रहस्यरूपे, परे पूर्णे, असाधारणनामोदीरणं निरतिशयताख्यापनाय किमित्यसामान्यं वस्तु॥२४॥
भक्तिर्भक्तिः परे भक्तिर्भक्तिर्नाम समुत्कटा।
तारं विरौषि यत्तीव्राभक्तिर्मेऽस्तु परं त्वयि॥२५॥
भक्तिरिति। वीप्सायामेव वैवश्यं प्रथयति, परं तीव्राधारारूढा समुत्कटा अभ्यासाद्यनपेक्षं प्रदीप्ताग्निज्वालावज्झटित्युल्लसन्ती, युक्तं चैतत्॥२५॥
यतोऽसि सर्वशोभानां प्रसंवानिरीश यत्।
त्वयि लग्नमनर्घं स्याद्रत्नंवा यदि वा तृणम्॥२६॥
यतोऽसीति। असि त्वं यतः सर्वासां शोभानां दीप्तानाञ्च प्रसवभूः अतो लोकापेक्षया यद्रत्नमिति जात्युत्कृष्टं तृणं वेत्यानुपादेयं वा, तत्त्वयि चेल्लग्नंसमावेशेन सम्बद्धं, तदनर्घमेव भवति॥२६॥
आवेदकादाचवेद्याद्येषां संवेदनाध्वनि।
भवता न वियोगोऽस्ति ते जयन्ति भवज्जुषः॥२७॥
आवेदेति। संवेदनाध्वनि संविन्मये वैद्यवेदकक्षोभेऽपि येषां त्वया न वियोगः ते भवन्तं प्रीत्यासेवमाना जयंति॥ २७॥
संसारसदसो बाह्ये कैश्वित्त्वं परिरभ्यसे।
स्वामिन्परैस्तु तत्रैव ताभ्यद्भिस्त्यक्तयन्त्रणैः॥२८॥
संसारेति। संसारसदसो बाह्ये संसारसभामुल्लङ्घ्य, नियत एव पदे, कैश्विदिति द्वादशान्तादिपदस्थैः निमीलनसमाधिपरैर्योगिभि, परिरभ्यसे समालिङ्ग्यसे, परैरनुभावतो युक्तितत्वज्ञतयोन्मीलनसमाधानविदग्धैः, पुनस्तत्रैव संसारसभामध्ये एव त्यक्तयन्त्रणैः परिहृतध्यानोच्चारकरणाद्यायासैः ताभ्यद्भिर्गाढानुरागविवशैः गाढानुरागिणां हीदृश्येव स्थितिः॥२८॥
पानाशनप्रसाधन–
सम्भुक्तसमस्तविश्वया शिवया।
प्रलयोत्सवसरभसया
दृढमुपगूढं शिवं वन्दे॥२६॥
पानाशनेति। शिवया दृढमुपगूढं आश्लिष्टं, शिवं चिद्भैरवं, वन्दे नौमि समाविशामीति यावत् कीदृश्या पानाशनप्रसाधनसम्भुक्तसमस्तविश्वया, पानेन रक्षणेन स्थित्या, अशनेन कबलीकारात्मना संहारेण, प्रसाधनेन प्रकर्षेण सिद्धिसम्पदादिना सर्गेण च, सम्यक् भुक्तं पालितमभ्यवहृतं च, तथा समस्तं सम्यक् क्षिप्तं विश्वं यया तुर्यरूपया श्रेयःस्वभावया शिवया अत एव प्रलयोत्सवेन संसृष्टिस्थितिसंहाराणामपि संहरणात्मनाऽभ्युदयेन सरभसया सातिशयं स्फारयन्त्यातथा पानेन साराहरणेन, अशनेन अवशिष्टशल्कप्रायवस्तुभक्षणेन, प्रसाधनेनैतदवशिष्टं समस्तं संस्कारशेषमपि विश्वं यथा अत एव विश्वस्य प्रलयोत्सवे सरभसया सत्वरया बाह्यक्रमेणापि तक्नादेः पानेन, मांसादेरशनेन, अस्थ्यादेः प्रसाधनेन भूषणताकरणेन, सम्भुक्तं स्वोपयोगपात्रीकृतं, सम्यगस्तं चात्मन्येव क्षिप्तं समस्तं च षट्त्रिंशत्तत्वमयं विश्वं यया, प्रलयोत्सवे कल्पितसंहर्तृपदप्रलीनताकरणक्रीडायां सरभसया प्रोद्युक्तया अनुरणनशक्त्याऽपि पानचर्बणमण्डनैः संभुक्तं सम्भोग्यतां नीतं, समस्तं विभवरूपं विश्व यया सुन्दर्या सा लयोत्सवे उभयानन्दसमापत्त्यात्मनि सरभसा सती शक्तिमन्तमाश्लिष्यन्ती भवति॥२९॥
परमेश्वरता जयत्यपूर्वा
तव विश्वेश यदीशितव्यशून्या।
अपराऽपि तथैव ते ययेदं
जगदाभाति यथा तथा न भाति॥३०॥
परमेश्वरेति। हे विश्वेश, तव अपूर्वा परमा प्रकृष्टा परमशिवरूपा, ईश्वरता जयति यद्यस्मादियमीशितव्येन भिन्नेन ईशनीयेन वस्तुना शून्या स्वात्मसात्कृताशेषविश्वत्वात्, अपराऽपि परमशिवापेक्षया स्थूलाऽपि सदाशिवेश्वररूपा तव सम्बन्धि नीश्वरता तथैवेति अपूर्वा जयति इत्यर्थः, ययेदं जगद्यथेतिनीलसुखादिदेहादिभेदैन आभाति तथा तेनैव प्रकारेण भासमानं सत् अहन्ताप्रकाशसमरसीभूतत्वादेवमात्मन्यसङ्कल्पा प्रकाशस्यैव सन्त्यमी जडाः प्रकाश एवास्ति स्वात्मन स्वपरात्मभिरितिस्थित्याभातीत्यर्थः॥३०॥ इति शिवम्॥
इति श्रीमदुत्पलदेवाचार्यविरचितस्तोत्रावलौ पाशानुद्भेदनामनि षोडशे स्तोत्रे
श्रीक्षेमराजविरचिता विवृतिः॥
<MISSING_FIG href="../books_images/U-IMG-1724304339Screenshot2024-08-22105405.png"/>
ॐ तत्सत्। अहो कोऽपि जयत्येप स्वादुपूजामहोत्सवः।
यतोऽमृतरसास्वादमश्रूण्यपि ददत्यलम्॥१॥
ॐ अहो इति। एष इत्यनुभवसाक्षिक, स्वादुरानन्दमयः, कोऽपीति समावेशात्मा पूजोत्सवो जयति यतः पूजामहोत्सवादस्रूणि बाष्पा अपि अमृतास्वादमलं ददति आनन्दप्रभवाच्चमत्कारमेव पुष्णन्ति॥१॥
व्यापाराः सिद्धिदाः सर्वे ये त्वत्पूजापुरःसराः।
भक्तानां त्वन्मयाः सर्वे स्वयं सिद्धय एव ते॥२॥
व्यापारा इति। ये त्वत्पूजोपक्रमव्यापारास्ते तावत्सिद्धिदा। भक्तानां तु साक्षात् एव सिद्धय त्वन्मयत्वेन प्रकाशमानत्वात्॥२॥
सर्वदा सर्वभावेषु युगपत्सपर्वरूपिणम्।
त्वामर्चयन्त्यविश्रान्तं ये ममैतेऽधिदेवताः॥३॥
सर्वदेति। युगपत्सर्वरूपिणम् अक्रमक्रोङीकृताशेषनिर्भरं त्वां सर्वकालं सर्वत्र ये अविश्रान्तं कृत्वा अर्चयन्ति ते मम अधिष्ठातृदेवरूपा॥३॥
ध्यानायासतिरस्कारसिद्धस्त्वत्स्पर्शनोत्सवः।
पूजाविधिरिति ख्यातो भक्तानां स सदाऽस्तु मे॥४॥
ध्यानायासेति। ध्यानमुच्चारकरणादीनप्युपलक्षयति तेन तेनोच्चारकरणध्यानाद्यायासस्य तिरस्कारेण अपहस्तनेन यस्त्वत्स्पर्शनोत्सवः सिद्धो प्रयत्नसिद्धः स एव भक्तानां पूजाविधिरिति ख्यातः‚ यथोक्तम् “निर्विकल्पे महाब्योम्निसा पूजा ह्यादराल्लयः” इति एष स एव पूजाविधिर्मम सदाऽस्तु॥४॥
भक्तानां समतासारविषुवत्समयः सदा।
त्वद्भावरसपीयूषरसेनैषां तदर्चनम्॥५॥
भक्तानामिति। विषुवति पूजाकर्तव्यत्वेनाम्नाता सैव विषुवत्समयः शिवैक्यप्रथात्मसमतासारभक्तानां सदैवास्ति, तथा त्वद्भावनारस एव पीयूषरसः तेन सदैषामर्चनमस्ति॥५॥
यस्यानारम्भपर्यन्तौ न च कालक्रमः प्रभो।
पूजात्माऽसौ क्रिया तस्याः कर्तारस्त्वज्जुषः परम्॥६॥
यस्यानारम्भेति। न च कालक्रम इति मध्येऽपि क्रमवत्ता नास्ति, असौ समावेशविश्रान्त्यात्मा क्रिया, तस्याश्च त्वज्जुपः त्वत्समावेशतत्वज्ञा एव परं कर्तारो नान्ये॥६॥
ब्रह्मादीनामपीशास्ते ते च सौभाग्यभागिनः।
येषां स्वप्नेऽपि मोहेऽपि स्थितस्त्वत्पूजनोत्सवः॥७॥
ब्रह्मादीनामिति। निःसामान्यमहेश्वरसमावेशशालित्वाद्ब्रह्मादीनामपीश्वरा इति वस्त्वेवैतत् न त्वर्थवादः, सौभाग्य भागिन इति आनन्दरसनिर्भरत्वात्सर्वस्पृहणीया, स्वप्नेऽपि मोहेऽपीति न केवलं जाग्रति “यावत्स्वप्नसुषुप्तयोरिति” स्वरसोदितस्त्वत्स्पर्शनोत्सवस्त्वत्समावेशाभ्युदयः॥७॥
जपतां जुह्वतां स्नातां ध्यायतां न च केवलम्।
भक्तानां भवदभ्यर्चामहो वाऽवद्यदा तदा॥८॥
जपतामिति। जपध्यानादिपदे तावदीश्वरपूजापरा भवन्ति भक्ता पुनः सदैव त्वत्पूजनोत्सवाविष्टाः॥८॥
भवत्पूजासुधास्वादसम्भोगसुखिनः सदा।
ब्रह्मादीनामथा ब्रह्ममुख्यानामस्ति कः समः॥९॥
भवत्पूजेति। भवत्पूजैव सुधास्वादसम्भोगस्तेन यः सुखी भक्तिमान् तस्यब्रह्मादीनां मध्यात् क सम न कश्चित् अत्र युक्तिरुक्तैव॥९॥
जगत्क्षोभैकजनके भवत्पूजामहोत्सवे।
यत्प्राप्यं प्राप्यतेकिंचिद्भक्ता एव विदन्ति तत्॥१०॥
जगदिति। जगतः षट्त्रिशत्तत्वमयस्य स्थूलसूक्ष्मादेर्देहस्य तद्द्वारेण विश्वस्य क्षोभ विगलत्स्वरूपतया वैवश्यमेव जनयति यो भवत्पूजामहोत्सव तत्र यत्किञ्चित्परमानन्दात्मकं पूर्णं स्वं स्वरूपं प्रापणार्ह प्राप्यते तद्भक्ता एव विदन्ति॥१०॥
त्वद्धाम्निचिन्मये स्थित्वा षट्त्रिंशत्तत्वकर्मभिः।
कायवाक्चित्तचेष्टाद्यैरर्चये त्वां सदा विभो॥११॥
त्वद्धाम्नीति।धाम तेजः षट्त्रिशत्तत्वानां कर्माणि कायवाक्चित्तचेष्टाख्यानि तैरित्थं प्रत्यभिज्ञातव्याप्तिकैरहं प्रभो त्वामर्चये देहादिषट्त्रिशत्तत्वमयं कठिनत्वद्रवत्वप्रकाशमानत्वादागमेषु बहुषु प्रतिपादितं तथा त्रिशिरःशास्त्रे “सर्वदेवमयः काय" इत्युपक्रम्य “पृथिवी कठिनत्वेन द्रवत्वेऽम्भः प्रकीर्तितम्” इत्यादि “त्रिशिरो भैरव साक्षाद्व्याप्य विश्वं व्यवस्थितः" इत्यन्तमुपदिष्टम्॥११॥
भवत्पूजामयासङ्गसम्भोगसुखिनो मम।
प्रयातु कालः सकलोऽप्यनन्तोपीयदर्थये॥१२॥
भवदिति। भवत्पूजामयो य आसङ्गः तेन तत्परत्वेन यः सम्भोगस्तेन सुखिनो निर्वृतस्य मे सकलो निरवशेषः अनन्तो निरवधिः प्रयात्विति इयदर्थये न त्वन्यत्॥१२॥
भवत्पूजामृतरसा भोगलम्पटता विभो।
विवर्धतामनुदिनं सदा च फलतां मम॥१३॥
भवत्पूजेति। यावद्यावद्भवत्पूजामृतरससम्भोगो मया प्राप्यते तावत्तावदधिकमधिकं तत्र स्पृहणीयालुतामेव विवर्धतां तदुत्कर्षसमासादनफलेन च सदा फलतु॥१३॥
जगद्विलयसञ्जातसुधैकरसनिर्भरे।
त्वदब्धौ त्वां महात्मानमर्चन्नासीय सर्वदा॥१४॥
जगदिति। जगतो विश्वस्य विलयेन संहारेण जातो यः सुधामय एव रसः तेन निर्भरे परिपूर्णे त्वत्समुद्रे, त्वामेव महात्मनं विश्वव्यापकं सदा अर्चन् अहमासीय स्थेयाम्॥१४॥
अशेषवासनाग्रन्थिविच्छेदसरलं सदा।
मनो निवेद्यते भक्तैः स्वादुपूजाविधौ तत्र॥१५॥
अशेषेति। तव पूजाविधौ भक्तै स्वादु चमत्कारसारं, सदा मनो निवेद्यते त्वय्येवार्प्यते, कीदृक् अशेषा वासनात्मानो ग्रन्थयो बन्धास्तेषां विच्छेदेन विदलनेन सरलं स्पष्टं त्यक्तकुसृतिकौटिल्यम्॥१५॥
अधिष्ठायैव विषयानिमाः करणवृत्तयः
भक्तानां प्रेषयन्ति त्वत्पूजार्थममृतासवम्॥१६॥
अधिष्ठायैवेति। इमा करणवृत्तयोऽपि चक्षुरादिदेव्यः, विषयान् रूपादीनाधिष्ठायैव आक्रम्यैव, सृष्टिरक्षादिदेवतोदयक्रमेण भक्तानां त्वत्पूजार्थमन्तरममृतासवं प्रेषयन्ति॥१६॥
भक्तानां भक्तिसंवेगमहोष्मविवशात्मनाम्।
कोऽन्यो निर्वाणहेतुः स्यात्त्वत्पूजामृतमज्जनात्॥१७॥
भक्तानामिति। भक्तिसंवेगमहोष्मा भक्त्युद्रिक्ततेजस्तेन विवशात्मनां प्रज्वलितात्मनां त्वत्पूजामृतमज्जनादन्यो निर्वाणहेतुर्न कश्चित्॥१७॥
सततं त्वत्पदाभ्यर्चासुधापानमहोत्सवः।
त्वत्प्रसादैकसम्प्राप्तिहेतुर्मे नाथ कल्प्यताम्॥१८॥
सततमिति। त्वत्पदार्चा प्राग्वत् सदैव आनन्दव्याप्तिप्रदत्वात्सुधापानमहोत्सवः, कीदृक त्वत्प्रसादस्य चिदानन्दात्मकत्वात् स्वरूपनैर्मल्यस्येकः सम्प्राप्तिहेतुर्यस्य स मे सततं कल्पतां घटताम्॥१८॥
अनुभूयासमीशान प्रतिकर्म क्षणात्क्षणम्।
भवत्पूजामृतापानमहास्वादमहामुदम्॥१९॥
अनुभूयते। प्रतिकर्म प्रतिब्यापारे, क्षणात् क्षणं भूयो भूय, भवत्पूजामृतापानस्य सम्बन्धी मदप्रधानो हर्षप्रबल आस्वादस्तदुत्थां महामुदं परमानन्दमनुभूयासम्, आमुदं मुदः पर्यन्ते महती मुत् पूजास्वादस्य च ॥ १९ ॥
दृष्टार्थ एव भक्तानां भवत्पूजामहोद्यमः।
तदैव यदसम्भाव्यं सुखमास्वादयन्ति ते॥२०॥
दृष्टार्थ इति। प्राप्तव्यस्य प्राप्तत्वान्नैषामाकाङ्क्षा क्वचिदस्ति यतस्ततो दृष्टार्थ एव, त्वत्पूजायां महानुद्यम, तथा हि तदैव पूजासमय एव, असम्भाव्यं सुखं परमानन्दं, ते भक्ता आस्वादयन्ति॥२०॥
यावन्न लब्धस्त्वत्पूजासुधास्वादमहोत्सवः।
तावन्नास्वादितो मन्ये लवोऽपि सुखसम्पदः॥२१॥
यावदिति। लवोऽपीत्यत्रेदमाकूतं लौकिकसुखानि असुखान्येव कृत्रिमत्वात् यस्त्वकृत्रिमः समावेशानन्दः सैव पारमार्थिकी सुखसम्पत्॥२१॥
भक्तानां विषयान्वेषाभासायासाद्विनैव सा।
अयत्नसिद्धं त्वद्वामस्थितिः पूजासु जायते॥२२॥
भक्तानामिति। पूजासु समावेशकालेषु, ध्यानादियत्नं विना सिद्धं प्रस्फुरन्ती त्वद्धामनि स्थितिः सेति लोकोत्तरा भक्तानां जायते, कथं विषयाणां कुसुमधूपविलेपनादीनामन्वेपाभासो मार्गणप्रतीति स एवायासस्तं विनैव तद्विरहेणेत्यर्थ॥२२॥
न प्राप्यमस्ति भक्तानां नाप्येषामस्ति दुर्लभम्।
केवलं विचरन्त्येते भवत्पूजामदोन्मदाः॥२३॥
नेति। पूर्णशिवात्मकस्वस्वरूपलाभाद्भक्तानां प्रापणीयं दुर्लभं वा न किचिदस्ति, भक्त्यासवक्षीबाश्च केबलमप्रयोजनमेव विचरन्ति॥२३॥
अहो भक्तिभरोदारचेतसां वरदत्वयि।
श्लाघ्यः पूजाविधिः कोऽपि यो न याच्ञाकलंकितः॥२४॥
अहो इति। उदारचेतस्त्वं तत्वत एषामेव ये वरदमपि त्वां न किचन याचन्ते, कोऽपीत्यलौकिकः॥२४॥
का न शोभा न को ह्लादः का समृद्धिर्नवापरा।
को वान मोक्षः कोऽप्येष महादेवो यदर्च्यते॥२५॥
का इति। कोऽपीति चिदात्मा महेश्वरो यदर्च्यते सा शोभादीप्ति का न सर्वेत्यर्थः, एवमन्यत्, को वा न मोक्ष इति सांख्यवैष्णवशाक्तनाकुलपाशुपातादिमोक्षातिशायिनः परमानन्दसारस्य विश्वपरिपूर्णतामयस्य मोक्षस्य लाभात्॥२५॥
अन्तरुल्लसदच्छाच्छभक्तिपीयूषपोषितम्।
भवत्पूजोपयोगाय शरीरमिदमस्तु मे॥२६॥
अन्तरिति। अन्तः संवित्यदे उल्लसता अच्छाच्छेन विश्वप्रतिबिम्बक्षमेण भक्तिपीयूषेण समावेशामृतेन पोषितं पारदेन ताम्रमिव कालिकाक्षपणेन दिदीप्यमानकल्याणमयीकृतं इदं मम शरीरं भवत्पूजोपयोगायास्तु, समावेशरसं सिद्धमपि त्वय्येव चिदानन्दघने प्रविश्य विलीयताम्॥२६॥
त्वत्पादपूजासम्भोगपरतन्त्रः सदा विभो।
भूयासं जगदीशान एकः स्वच्छन्दचेष्टितः॥२७॥
त्वदिति। जगतां कालाग्न्यादिसदाशिवान्तानामीशः स्वामी, स्वतन्त्रोऽहं त्वत्पादपूजाह्लादपरतन्त्रः स्याम् एतदेव हि तदसाधारणं जगदैश्वर्य स्वातन्त्र्यं च ये त्वत्पादसमावेशवैवश्यम् अन्यपादं पारतंत्र्येऽपि निः सामान्यमैश्वर्य स्वातन्त्र्यं चेत्यद्भुतरसध्वनिः॥२७॥
त्वद्ध्यानदर्शनस्पर्शतृषि केषामपि प्रभो
जायते शीतलस्वादु भवत्पूजामहासरः॥२८॥
त्वद्ध्यानेति। परमेश्वरं चिदानन्दघनमपि पश्येयमपि स्पृशेयमिति यत्त्वद्ध्याने दर्शनस्पर्शनतृट् तस्यां सत्यां केषामपीति साक्षात्त्वदनुगृहीतानां शीतलस्वादु भवत्पूजामहासरो जायते सन्तापहारिसचमत्कारत्वदर्चा परिपूर्णः समुद्रो नव एवोत्पद्यत इत्यर्थः॥२८॥
यथा त्वमेव जगतः पूजासम्भोगभाजनम्।
तथैव भक्तिमानेव पूजासम्भोगभाजनम्॥२९॥
यथेति। जगतो विश्वस्य मध्यात्त्वमेव व्याख्यातरूपस्य पूजासम्भोगस्य भाजनमाश्रयो यथा, हे ईश स्वामिन्, तथा भक्तिमानेव समावेशशाल्येव तादृशः पूजासम्भोगस्य भाजनं निर्वर्तक इयर्थः॥२९॥
कोऽप्यसौ जयति स्वामिन्भवत्पूजामहोत्सवः।
षट्त्रिंशतोऽपि तत्त्वानांक्षोभो यत्रोल्लसत्यलम्॥३०॥
कोऽपीति। नीतिसमावेशशालीह्यसाविति स्वामिन्नितीरितः, षट्त्रिशतोऽपीति देहाश्रयाणां तद्द्वारेण तद्बाह्यानां तत्वानां क्षोभ इति, संविदग्निप्लोषवैषम्यम्॥३०॥
नमस्तेभ्यो विभो येषां भक्तिपीयूषवारिणा।
पूज्यान्येव भवन्ति त्वत्पूजोपकरणान्यपि॥३१॥
नमस्तेभ्य इति। त्वत्पूजार्थमुपकरणानि कुसुमादीनि, येषांभक्तिपीयूषवारिणा समावेशामृतरसेन, पूज्यानि भवन्ति त्वदाप्लवनेन शिवतादिव्यक्तेः पूजार्हाणि जायन्ते, तेभ्यो नमः॥३१॥
पूजारम्भे विभो ध्यात्वा मन्त्राधेयांत्वदात्मताम्।
स्वात्मन्येव परे भक्ता मान्तिहर्षेणा न क्वचित्॥३२॥
पूजेति। मन्त्रेण मननत्राणधर्मेण चिन्माहात्म्यप्रकर्षकेण आधातव्यां शिवो भूत्वेति स्थित्यासम्पाद्यां, त्वदात्मतां, पूजारम्भे ध्यात्वा चिन्तयित्वा मन्त्रोच्चिचारयिषात्मकपूजाप्रविवृत्सायामेवायमेवोदयस्तस्येति नीत्याभक्तिप्रकर्षाच्छिवीभूय भक्ताः स्वात्मन्येव परे पूर्णरूपेण न मान्ति न वर्तन्ते॥३२॥
राज्यलाभादिवोत्फुल्लैः कैश्चित्पूजामहोत्सवे
सुधासवेनसकला जगती संविभज्यते॥३३॥
राज्येति। उत्फुल्लैरिति महाविकासंयुक्त्या श्रीभैरवीयमुद्रानुप्रविष्टैः सुधासवेनामृतपानेन, जगती समस्ता वेद्यवेदकभू, संविभज्यते परिपूर्यते स्वानन्दमयीक्रियते, राज्यलाभोत्फुल्लैश्चोत्सवे सर्वा भूः आसवेन संविभज्यते इति स्पष्टम्॥३३॥
पूजामृतापानमयो येषां भोगः प्रतिक्षणम्।
किं देवा उत मुक्तास्ते किं वा केप्येव ते जनाः॥३४॥
पूजेति। भोगश्चमत्कारः प्रतिक्षणमित्रविच्छेदेन केप्येवेति स्तोत्रशतैरपि स्तोतुमशक्याः॥३४॥
पूजोपकरणीभूतविश्वावेशेन गौरवम्।
अहो किमपि भक्तानां किमप्येव च लाघवम्॥३५॥
पूजेति, पूजायां यदुपकरणीभूतं परिकरीभूतं, विश्वं षट्त्रिंशत्तत्त्वरूपं शरीरं बाह्यं च तस्य य आवेशश्चिद्भूमावनुप्रवेशस्तेन, अत अहो आश्चर्यं, किमप्यसामान्यं भक्तानां गौरवं प्रभावितत्वम्, लाघवं च प्रयत्नेनैवाशेषस्वीकारित्वमथ च मायीयभेदभारनिवृत्तिः, गौरवेच कथं लाघवामिति विरोधच्छाया॥३५॥
पूजामयाक्षविक्षपक्षोभादेवामृतोद्गमः।
भक्तानां क्षीरजलधिक्षोभादेव दिवौकसाम्॥३६॥
पूजामयेति। पूजामयानि विश्वस्य चिद्भूमिविश्रान्तिदायीनि देवताचक्रोदयमयानि अक्षाणि इन्द्रियाणि तेषांविक्षेपः स्वविषयग्रहणपरत्वं स एव क्षोभो व्याकुलता तत एवाल्पबोधापेक्षयाऽभिमतादपि भक्तानाममृतस्य महानन्दस्योद्गम उल्लासो ग्राह्यग्राहकविप्लवेऽपि भक्तानां चिदानन्दाभिव्यक्तिरेवे—
त्यर्थः, तदुक्तम् “ग्राह्यप्रवृत्तावपि तत्स्वभाव” इति यथा देवाना क्षीरसमुद्रक्षोभादमृतस्य सुधाया उल्लासः अत्रापि पूजासवस्य पूज्यस्य नागराजात्मन अक्षस्य नेत्रस्य यो विक्षेपः आकर्षापकर्षक्रम स एव क्षोभ इति॥३६॥
पूजां केचन मन्यन्ते धेनुं कामदुघामिव।
सुधाधाराधिकरसां धयन्त्यन्तर्मुखाः परे॥३७॥
पूजामिति। यथा कामधेनुरभीष्टे पूरयति तथा केचित्फलकाङ्क्षिणः पूजां मन्यन्ते निश्चिन्वन्ति, परे केचिदेव, सुधाधाराधिक अमृतधारातिशायी रसःप्रसरो यस्यास्तां पूजामेव कामधेनुमन्तर्मुखाः सन्तो, धयन्ति पिवन्ति सद्य एव चमर्त्कुवन्तीत्यर्थः॥३७॥
भक्तानामक्षविक्षेपोऽप्येष संसारसंमतः।
उपनीय किमप्यन्तः पुष्णात्यर्चामहोत्सवम्॥३८॥
भक्तानामिति। अक्षविक्षेप इन्द्रियप्रसरो, लोके संसारत्वेन संमतः, किमपीत्यलौकिकमानन्दरूपम्, उपनीय प्रापय्य भक्तानां करणे श्रीचक्रप्रसरसमाविष्टानाम्, अर्चामहोत्सवं पूर्णस्वरूपबिश्रान्ति पुष्णाति, तथा च ममैव “प्रज्ञामन्दरमक्तितासममहाभेदोदधेरुद्गतान्यक्षक्षेपविवर्तनाभिरभितो दुग्धामृतान्यादरात्। वञ्चित्वा क्वविकल्पदैन्यविरहं भूतीरनादृत्यये पायंपायमलं पिवन्ति जगति श्लाघ्यास्त एवामरा” इति॥३८॥
भक्तिक्षोभवशादीश स्वात्मभूतेऽर्चनं त्वयि।
चित्रं दैन्याय नो यावद्दीनतायाः परं फलम्॥३९॥
भक्तीति। त्वयि स्वात्मभूते यद्भक्तिक्षोभसमावेशवैवश्यादर्चनं तच्चित्रमाश्चर्य, दैन्याय न भवति न कांचिद्दीनतां फलति,
अन्येषां ह्येतदाकाङ्क्षाप्रधानमेवं न केवलमेवं यावत्प्रत्युत दीनतया लौकिक्या स्पृहायाः परं पार्यन्तिकमानन्दरूपं विभवादिफलस्यापि फलभूतं परं च पूर्णं फलम्॥३९॥
उपचारपदं पूजा केषांचित्त्वत्पदाप्तये।
भक्तानां भवदैकात्म्यनिर्वृतिप्रसरस्तु सः॥४०॥
उपचारेति। केपांचिदिति भेदनिष्टानां त्वत्पदाप्तये त्वदीयं पदं प्राप्तमुपचारपदं क्रियाभूराराधनोपायमात्रमेव, भक्तानां तु भवदैकात्म्यरूपाया निर्वृतेः स प्रसरो विकासः स इति विधेयापेक्षं पुंलिङ्गम्॥४०॥
अप्यसम्बद्धरूपाऽर्चाभक्त्युन्मादनिरर्गलैः।
वितन्यमाना लभते प्रतिष्ठां त्वयि कामपि॥४१॥
अपीति। पूजायां मनागपीति, कर्तव्यताऽन्यथाभावे प्रत्यवायः य प्रक्रियाशास्त्रे युक्तः, आश्चर्य पुनरिदं भक्त्युन्मादेन समावेशवैवश्येन निरर्गलै विस्मृतेतिकर्तव्यतानियमैरसम्बद्धरूपापि असमञ्जसाऽपि अर्च्चा, वितन्यमाना प्रसार्यमाणा, कामपीति क्रियानिष्ठैः सम्भावयितुमष्यशक्यामसामान्यां, प्रतिष्ठां सम्यगाभिमुख्येनावस्थिति त्वयि लभते इद्भुतध्वनिः॥४१॥
स्वादुभक्तिरसास्वादस्तब्धीभूतमनश्च्युताम्।
शम्भो त्वमेव ललितः पूजानां किल भाजनम्॥४२॥
स्वाद्विति। स्वादुश्चमत्कारसारो यो भक्तिरसस्तस्यास्वादनेन, स्तब्धीभूतं चलितचाञ्चल्यं यन्मनस्ततश्च्युत् च्यवनं प्रसरो यासां, पूजानां विश्वार्पणक्रियाणां, तासां ललितो हृद्युचितस्त्वमेव चिदात्मा, शम्भो श्रेयोनिधे, भाजनमाश्रयः,
किलेति युक्तौ एतदेव युज्यत इत्यर्थ, अन्यस्य ब्रह्मादेर्भेदमयत्वेनेदृगर्चापात्रत्वाभावात् पूजानामिति बहुवचनं विचित्रविश्रान्तिसारताप्रथनाय॥४२॥
परिपूर्णानि शुद्धानि भक्तिमन्ति स्थिराणि च।
भवत्पूजाविधौ नाथ साधनानि भवन्तु मे॥४३॥
परिपूर्णानीति। भवतश्चिन्नाथस्य, पूजाविधौ अवश्यकार्यायामर्चायां, मम साधनानि चक्षुरादीनिंअतएव चिन्मरीचिमयत्वाच्छुद्धानि, भक्तिमन्ति विश्वार्पणेन त्वत्सेवापराणि, कदाचिदपि पाशववासनाऽस्पृष्टत्वात् स्थिराणि नित्यमीदृृंश्येव भवन्तु॥४३॥
अशेषपूजासत्कोशे त्वत्पूजाकर्मणि प्रभो।
अहो करणवृन्दस्य काऽपि लक्ष्मीर्विजृम्भते॥४४॥
अशेषेति। इमामेव दशां विमृशन्नाह, शक्तीनामुल्लासप्रसरादिप्रभवशीलप्रभो, अशेषाणां पूजानां विचित्राणां सत्कोशे शोभनगञ्जरूपे, त्वत्पूजाकर्मणि पूर्णचिदानन्दघनश्रीमन्नाथभैरवस्वरूपविश्रान्तौ, करणवृन्दस्य रश्मिचक्रस्य, अहो, काऽपि स्वसंवित्साक्षिका, लक्ष्मीः दीप्तिर्विजृम्भते स्फुरतीति, महार्थपरिपूर्णस्यास्य सारोपदेशवर्षीणि इमानि सूक्तान्युल्लसन्ति॥४४॥
एषा पेशलिमा नाथ तवैव किल दृश्यते।
विश्वेश्वरोऽपि भृत्यैर्यदर्च्यसे यश्च लभ्यते॥४५॥
एषा इति। तान्येवाह, पेशलिमा सरलता, तवैवेति चिद्घनत्वेन सर्वेषामात्मनो, विश्वेश्वरत्वेऽपि सदाशिवादीनामपि स्वामी, अर्च्यसे समाविश्यसे लभ्यसे निरर्गलमात्मीक्रियसे॥४५॥
सदा मूर्तदमूर्ताद्वा भावाद्यद्वाप्यभावतः।
उत्थेयान्मे प्रशस्तस्य भवत्पूजामहोत्सवः॥४६॥
सदेति। मूर्तोभावो घटादि अमूर्त सुखादिः मूर्तोभावो घटस्य कपालानि अभावो विकल्पकल्पितप्रसज्यप्रतिषेधात्मा तत, उत्थेयादिति समस्तं भावाभावपदमधरीकृत्य उन्मज्ज्यामित्यर्थः, भवत्पूजामहोत्सवस्त्वद्विश्रान्त्युदयः, भावादित्यादिका ल्यब्लोपे पञ्चमी॥४६॥
कामक्रोधाभिमानैस्त्वामुपहारीकृतैः सदा।
येऽर्चयन्ति नमस्तेभ्यस्तेषां तुष्टोऽसि तत्त्वतः॥४७॥
कामक्रोधेति। सर्वचित्तवृत्तीनां कामादिभिः स्वीकारात्तेषामेवोपादानमुपहारीकृतैर्विचार्य त्वय्येवापितैः, तत्वतस्तुष्टोऽसि “हर्षामर्षभयक्रोधैर्मुक्तो य स च मे प्रिय” इत्यभिधानात्, ननुच श्रीमन्महार्थसारोक्तिमये स्वकृतस्तोत्रेऽयं श्लोको दद्रुस्थानीयः सत्यम् अशेषवासनाग्रन्थीत्यादिकस्यापि स्मर्तव्यं लोकवद्भवत्तमे निजनिजेषु अस्मिन्नेव जगाते आवेदकत्पानाशनसमुल्लास न क्वापि गत्वेऽत्यादयस्त्वनुगुणा अप्यत्र श्लोका न सन्ति उदयमसमञ्जसशय्याप्रस्तारिण विश्वावर्तस्यैव प्रसादः, एवमन्येष्वपि स्तोत्रष्वेवंप्रायं बहुरचितमस्ति न त्वस्माभिर्नोद्घाटितमित्यलम् सूक्तान्येवानुसरामः॥४७॥
जयत्येष भवद्भक्तिभाजां पूजाविधिः परः।
यस्तृणैः क्रियमाणोऽपि रत्नैरेवोपकल्पते॥४८॥
जयतीति। अपिर्भिन्नक्रमस्तेन तृणैरापे क्रियमाणः यो रत्नैरेवोपकल्पते पूर्णविश्रान्तिप्रदो भवति, स भगवद्भक्तिभाजां त्वत्समावेशेन शालिनां, परःपूर्णः, पूजाधिर्जयतीति शिवम्॥४८॥
इति श्रीमदीश्वरप्रत्यभिज्ञाकारोत्पलदेवाचार्यविरचितसप्तदशस्तोत्रे परमेश्वरस्तोत्रावलौदिव्यक्रीडाबहुमाननामनि
श्रीक्षेमराजविरचिता विवृतिः॥१७॥
ॐ तत्सत्। जगतोन्तरतो भवन्तमाप्त्वा
पुनरेतद्भवताेन्तराल्लभन्ते।
जगदीश तवैव भक्तिभाजो
न हि तेषामिह दूरतोऽस्ति किंचित॥१॥
ॐ जगत इति। हे जगदीश ये तवैव चिद्रूपस्य स्वात्मनो, भक्तिभाजस्ते जगतो विश्वस्यान्तरंतो मध्यात्, भवन्तमाप्त्वा प्रकाशमानव्यवहारपदादेव प्रकाशरूपं त्वां लब्ध्वा‚ पुनरस्य ते जगद्भवतश्चिद्रूपस्यान्तरतो मध्याल्लभन्ते, यस्मात्तेषां भक्तिभाजां सम्यक् प्रत्यभिज्ञातविश्वात्मकत्वत्स्वरूपाणामिह जगति दूरे न किचिदिति सर्वस्य स्वाङ्गकल्पत्वेन स्फुरणात्, तदुक्तम् “यो मां पश्यति सर्वत्र सर्व च मयि पश्यति।” इत्यादि गीतासु॥१॥
क्वचिदेव भवान्क्वचिद्भवानी
सकलार्थक्रमगर्भिणी प्रधाना।
परमार्थंपदे तु नैव देव्या
भवतो नापि जगत्त्रयस्य भेदः॥२॥
क्वचिदिति। मुक्तौ क्वचिदिति, तदुपायतायां भोगे च भवानी परा शक्तिः, सकल कालादिक्षित्यन्त, अर्थक्रमः प्रमेयराशिर्गर्भेऽन्तः, शिम्बिकाबीजवत्संस्पृष्टौ यस्याः परमार्थपदे गलितकल्पनायां तात्विक्यां दृष्टौ पुनः जगत्त्रयस्यापि भवातिभवाभयात्मनः त्वत्तो भेदो नास्ति कि पुनः शक्तेः॥२॥
नो जानते सुभगमप्यवलेवपन्तो
लोकाः प्रयत्नसुभगा निखिला हि भावाः।
चेतः पुनर्यदिदमुद्यतमप्यवैति
नैवात्मरूपमिह हा तदहो हतोऽस्मि॥३॥
नो जानत इति। लोकास्तावदवलेपवन्तः सन्तः, सुभगमपि चिदात्मकं रूपं भावानां न जानन्ति, यतः प्रयत्नने सर्वथा निश्चयेन, सुभगा उत्कृष्टा एव, निखिलाः सर्वे, भावाः प्रकाशमानत्वेन चिन्मयत्वात्पुनरास्तां, भावस्वरूपज्ञानं आश्चर्यमात्मनोऽपि रूपमुद्यतमपि चेतो यत्रैवावैति समावेशधारारुरुक्षारणकाक्रान्तमपि यश्चिदैकात्म्यं न लभते तत्हतोऽस्मि इति जगति समावेशप्रकर्षमलभमानस्य ताम्यत इयमुक्तिः॥३॥
भवन्मयस्वात्मनिवासलब्ध–
सम्पद्भराभ्यर्चितयुष्मदङ्घ्रिः।
न भोजनाच्छादनमप्यजस्त्र–
मपेक्षते यस्तमहं नमामि॥४॥
भवन्निति। भवान् चिद्रूपः प्रकृतं रूपं यस्य तथाभूते स्वात्मनि निवासेन विश्रान्त्या लब्धेन सम्पद्भरेण परमानन्दभूति प्रसरेणाभ्यर्चितौ गाढमभेदेनावष्टब्धौ युष्मदङ्घ्रीयेन तथा भूतोऽजस्त्रं यो भोजनाच्छादनमपि नापेक्षते अश्नन्यद्वातद्वेति स्थित्या व्यवहारानपेक्ष पूजापर एव तमहं नौमि॥४॥
सदा भवद्देहनिवासस्वस्थो–
प्यन्तः परं दह्यत एष लोकः।
तवेच्छया तत्कुरु मे यथाऽत्र
त्वदर्चनानन्दमयो भवेयम्॥५॥
सदेति। सदा भवदीये देहे उपचिते स्वरूपेति वसनेन वस्तुत स्वस्थ, आनन्दमयोप्येष लोकः, तवेच्छया भेदप्रवाहरू—
पया त्वन्यय्या शक्त्या, अतः परमतिशयेन, दह्यते तद्दुःखैरायास्यत यत एवं यस्मात्तवेच्छयाऽनुजिघृक्षयाऽत्र कल्पिते विषये, त्वं मे भक्तस्य, तदिति तथा कुरु यथाऽहं त्वदर्चनानन्दमयः स्याम्॥५॥
स्वरसादितयुष्मदङ्घ्रिपद्म–
द्वयपूजामृतपानमुक्तचित्तः।
सकलार्थचयेष्वहं भवेयं
सुखसंस्पर्शनमात्रलोकयात्रः॥६॥
स्वरसेति। स्वरसेनाप्रयत्नमेवोदिता या युष्मदङ्घ्रिपूजा त्वत्समावेशसम्पत्सैवामृतपानं तत्र सक्तचित्तो विश्रान्तिमानसः, सकलेषु हेयोपादेयाद्यभिमतेषु अर्थचयेषु व्यवहारेषु, अहं सुखस्पर्शनमात्रलोकयात्रो भवेयं स्वानन्दोल्लाससारजगद्व्यवहारः स्याम्॥६॥
सकलव्यवहारगोचरे
स्फुटमन्तः स्फुरति त्वयि प्रभो।
उपयान्त्यपयान्ति चानिशम्
मम वस्तूनि विभान्तु सर्वदा॥७॥
सकलेति। सर्वदा सदाऽनिशं निर्विरामं, व्यवहारविषयस्यान्तर्मम त्वयि चिद्रूपे, स्फुटं स्फुरति सति सर्वाणि वस्तूनि उपयान्त्यपयान्ति‚ च सृज्यमाणानि संहियमाणानि च, स्फुरन्तु त्वदाविष्टोऽहं सदा भावसर्गसंहारकृत्स्यामित्यर्थः, उपयान्त्यपयान्ति चेति पाठे आगच्छन्तोऽपि दर्पणप्रतिबिम्बवद्विलीयमाना एव न त्ववस्थितिं मनागपि भजमाना भान्तु इति व्याख्येयं च एवार्थे उद्यन्तो विनश्यन्तश्च लोकवद्यथा भान्ति तथा भान्त्विति वा योज्यम्॥७॥
सततमेव तवैव पुरेऽथवाऽ–
प्यरहितो विचरेयमहं त्वया।
क्षणलवोप्यथ मा स भवेत् स्म मे
न विजये ननु यत्र भवन्मयः॥८॥
सततमिति। तवैव सम्बन्धिनि पुरे पूरके शान्ते पदे, विचरेय शाक्तसमावेशशालीं स्याम्, अथवा त्वया विरहित इति शाम्भवसमावेशमयः अथवा भवन्मय इति, त्वद्रूपो विमुक्तस्वभावो, यत्र न विजये न सर्वोत्कर्षेण वर्ते, स क्षणलवोऽपि मे मा भूदित्युत्तरोत्तरसातिशयदशाशंसापरमेतत्, ननु वितकें॥८॥
भवदङ्गपरिस्रवत्सुशीता–
मृतपूरैर्भरिते समन्ततोऽपि।
भवदर्चनसम्पदेह भक्ता–
स्तव संसारसरोन्तरे चरन्ति॥६॥
भवदिति। तव भक्ताः भवदर्चनसम्पदा त्वद्विश्रान्तिसम्पदोपलक्षिता, इह संसारसरसो भवसमुद्रस्यान्तरे मध्ये, चरन्ति व्यवहरन्ति, कीदृशि भवदीयात्परशक्तिरूपादङ्गात्परितः समन्तात्स्रवद्भिः सुष्टु शीतलैः दुःखानलतापोपशान्तिदैरमृतपूरैरानन्दोल्लासैः समन्ताद्भरिते पूरिते इति यावत् ॥ ९ ॥
महामन्त्रतरुच्छायाशीतले त्वन्महावने।
निजात्मनि सदा नाथ वसेयं तव पूजकः॥१०॥
महामन्त्रेति। महामन्त्रः परवाग्रूपः शुद्धाऽहंविमर्श एव शक्तिशाखाशतै प्रसृतत्वात्तरुस्तस्य छायया कान्त्या शीतले
भेदसन्तापहारिणि, त्वन्महावने त्वमेव चिदानन्दात्मा महावनं विपुलं विश्रान्तिस्थानं तत्र, निजात्मनि स्वस्वभावे, नाथ सदा तव पूजकः त्वदर्चापरो, वसेयं स्थिर्ति बध्नीयाम्॥१०॥
प्रतिवस्तु समस्तजीवतः
प्रतिभासि प्रतिभामयो यथा।
मम नाथ तथा पुरः प्रथां
ब्रज नेत्रत्रयशूलशोभितः॥११॥
प्रतिवस्त्विति। प्रतिवस्तु प्रतिभावं, समस्तजीवतः सर्वेषां जीवानामसि, त्वं यथा प्रतिभामयः संविद्रूप, नीलादिग्रहणान्यथानुपपत्या प्रतिभासि अप्रत्याभिज्ञातोऽपि वस्तुतः स्फुरासि, तथा मम दामस्य, नाथ पुरोऽग्रे सर्वत्र, नेत्रत्रयेण शूलेन च शोभितः निरतिशयासाधारणाभिज्ञानेन सम्यक् प्रत्यभिज्ञातः सन्, प्रथां ब्रज प्रकटीभव समावेशेन स्फुरेत्यर्थ, नेत्रत्रयशुले असाधारणाभिज्ञानोपलक्षणपरे न पुनरत्राकारे भरःसमस्तजीवत इति योगे शम्॥११॥
अभिमानचरूपहारतो
समताभक्तिभरेण कल्पितात्।
परितोषगतः कदा भवा–
न्मम सर्वत्र भवेद्दृशः पदम्॥१२॥
अभिमानेति। अभिमानोऽहङ्कार एव चरुः स्थालीपाकस्तस्योपहारो भगवत्यर्पणं पराहंभावग्रहणं ततः, कीदृशान्मम महेश्वरः स्वामी अस्तीत्येवं, समताप्रधानः यो भक्तिरसः सेवाप्रसरस्तेन कल्पितात्सम्पादितात्परितोषं गतः प्रसन्नः सन्, भवा—
न्कदासर्वत्र मम दृशो दर्शनस्य, पदं विश्रान्तिभूर्भवेद, गलिते देहाद्यभिमाने त्वन्मयमेव विश्वं साक्षात्कुर्यामित्यर्थः॥५२॥
निवसन्परमामृताब्धिमध्ये
भवदर्चाविधिमात्रमग्नचित्तः।
सकलं जनवृत्तमाचरेयं
रसयन्सर्वत एव किंचनापि॥१३॥
निवसन्निति। अहं भवदर्चनविधियात्रे मग्नचित्तः आसक्त सन्, परमामृताब्धिमध्ये चिदानन्दसमुद्रस्यान्तर्वसन्, सकलं जनवृत्तं लोकचेष्टितमाचरेयं, कीदृक् सर्वतः सर्वस्यैव मध्यात्, किंचनापि अलौकिकमानन्दस्वरूपमभीष्टंरसयन्॥१३॥
भवदीयमिहास्तु वस्तुतत्वं
विवरीतुं क इवात्र पात्रमर्थे।
इदमेव हि नामरूपचेष्टा–
द्यसमन्ते हरते हरोऽसि यस्मात्॥१४॥
भवदीयमिति। इह जगति, यावत्किंचिद्वस्तु तत्सर्व भवदीयं त्वद्विभूतिरूपमिति, एतदोमित्येवास्तु, अत्रार्थतत्वं विवरीतुं क इव भक्तिमान् पात्रं न कश्चित् यतो यावद्वयं एतद्विचारयितुं प्रक्रमामहे तावद्यदुपक्रमविचारः तत्त्वदीयमिदमेवासामान्यमनुभवसिद्धं नामरूपचेष्टादि महेश्वर इत्यादि नामचिद्घनं रूपं सर्वसृष्टिसंहारकारिणी चेष्टादिग्रहणात्सर्वज्ञता स्वतन्त्रादिरूपस्तत्प्रथममेव स्फुरत् तद्धरते समावेशवैकल्यापादनेन विस्मृतव्यापारानस्मान्सम्पादयति, युक्तं चैतत् यतस्त्वं हरतीति हर इत्यन्वर्थनाम्ना॥१४॥
शान्तये न सुखलिप्सुता मना–
ग्भक्तिसम्भृतमदेषु तैः प्रभो।
मोक्षमार्गणफलाऽपि नार्थना
स्मर्यते हृदयहारिणः पुरः॥१५॥
शान्तय इति। भक्त्या सम्भृतो मदो यत्र तेषु त्वद्दासेषु विषये, शान्तये दुःखनिवृत्तये, या सुखलिप्सुता भोगस्पृहा, सा मनागपि नास्ति, भक्तिसम्भृतमदत्वादेव, तैश्च पुरः प्रभो इति साक्षात्कृतस्याग्रे, मोक्षमार्गणफलाप्यर्थना न स्मर्यते कीदृशप्रभोः हृदयहारिणः मायाप्रमातृतां शमयतः, अत एव येषां हृदयमेव हृतं ते कथमन्यत्स्मरेयुरित्येषां समावेशपरतैवोक्ता॥१५॥
जागरेतरदशाथवा परा
याऽपि काचन मनागवस्थितेः।
भक्तिभाजनजनस्य साऽखिला
त्वत्सनाथमनसो महोत्सवः॥१६॥
जागरेति। अवस्थितेर्जगद्वयवस्थाया सम्बन्धिनी या काचित्जागरस्वप्नसुषुप्तदशा, मनागिति सङ्कुचिताऽपि, सा सर्वा, भक्तिमतस्त्वत्सनाथमनसः त्वदधिष्ठितचित्तस्य, महोत्सवो महाभ्युदयः, त्वत्सनाथत्वादेव॥१६॥
आमनोऽक्षवलयस्य वृत्तय–
स्सर्वतः शिथिलवृत्तयोऽपि ताः।
त्वामवाप्यं दृढंदीर्घसंविदो
नाथ भक्तिधनसोष्मणां कथम्॥१७॥
आमन इति। हे नाथ, आमनो र्मनःपर्यन्तं, अक्षवलयस्येन्द्रियग्रामस्य, वृत्तयो व्यापाराः, सर्वत्र शिथिलवृत्तयश्चञ्चला अपि यास्ताः, भक्तिधनेन सोष्मणामूर्जस्विनां, त्वां चिद्रूपं‚ प्राप्य, दृढा अशिथिलाः दीर्घाश्च त्वदैकात्म्येन त्वद्वदेवावस्थाप्नवः शुद्धबोधरूपाः, कथमिति स्वात्मन्येवास्य विस्मयः॥१७॥
न च विभिन्नमसृज्यत किञ्चिद–
स्त्यथ सुखेतरदंत्र न निर्मितम्।
अथ च दुःखिच भेदि च सर्वथा–
ऽप्यसमविस्मयधाम नमोऽस्तु ते॥१८॥
न चेति। आदिसर्गादौ त्वया न च नैव, किंचिद्भिन्नम् असृज्यत सृष्टं नाप्यस्ति स्वतो विभिन्नं किंचित्, अथशब्दोऽप्यर्थे, सर्वस्य चेत्यमानत्वेन चिन्मयत्वाद्भेदासम्भवः, अथ च सुखेतरदुःखरूपं न किचिन्निर्मितम् उक्तादेव हेतोः, किचिच्छब्दस्त्रिर्योज्यः, अथ चैवं सर्वथैव दुःखि च भिन्नं चापिरेव शब्दार्थः, त्वदैकात्म्याप्रत्यभिज्ञानाच्चैव, एवमसमविस्मयधाम असामान्याश्चर्यभूमे, ते तुभ्यं, नमोऽस्तु॥१८॥
खरनिषेधखदामृतपूरणो–
च्छलितधौतविकल्पमलस्य मे।
दलितदुर्जयसंशयवैरिण–
स्त्वदवलोकनमस्तु निरन्तरम्॥१९॥
खरेति। खरा विषमा या निषेधखदा त्वदख्यातिदरी तस्या अमृतेन त्वदद्वयपीयूषेण यत्पूरणं तेनोच्छलितमुत्प्लावितमत एव धौतं विकल्पमलं यस्य तस्य, तथा दलितश्चूर्णितो दुर्जयः संशय एव वैरी रिपुर्येन तादृशः, सतो मम, त्वदवलोकनं चिद्घनत्वदात्मस्फुरणं, निरंतरं घनमस्तु॥१९॥
स्फुटमाविश मामथाविशेयं
सततं नाथ भवन्तमस्मि यस्मात्।
रभसेन वपुस्तवैव साक्षा–
त्परमासत्तिगतः समर्चयेयम्॥२०॥
स्फुटमिति। हे नाथ, त्वं तावत्स्फुटं प्रकटं कृत्वा न तु गूहितत्वेन, समाविश, अथानन्तरमेवंविधे त्वयि सति, उपजातसामर्थ्योऽस्मि अहं भवन्तं सततमाविशेयं गाढावष्टम्भेन स्वीकरोम्येवेति नियोगे लिङ्, यस्मादिति एवं सति, परमासत्तिगतोऽतिनिकटं प्राप्तस्तवैव, रभसेन त्वरया, साक्षाद्वपुस्तात्विकं स्वरूपं, सम्यगर्चयेयं समाविशेयमिति यावत्॥२०॥
त्वयि न स्तुतिशक्तिरस्ति कस्या–
प्यथवाऽस्त्येव यतोति सुन्दरोऽसि।
सततं पुनरर्थितं ममैत–
द्यदविश्रान्ति विलोकयेयमीशम्॥२१॥
त्वयीति। कस्यापीति, ब्रह्मोपेन्द्ररुद्रादेरपि भेदमयत्वेन चिद्घनपरमेश्वररूपाप्रत्यभिज्ञानात्, अतिसुन्दर इति, चिदानन्दघनस्वात्मरूपत्वादतिस्पृहणीयो हृदयहारी, अतो यस्त्वामात्मानं प्रत्यभिजानाति, तस्य कस्याप्यसामान्यस्य, त्वयि स्तुतिशक्तिरस्त्येव, कस्यापीत्यावर्त्य योज्यं, मम पुनः स्तोतुस्सततमेतदर्थितं बाञ्छितं, यदविश्रान्ति निर्विरामं, त्वामीशं समवलोकयेयम् साक्षात्कुर्यामिति शिवम्॥२१॥
इति श्रीमदुत्पलदेवाचार्यविरचितौस्तोत्रावलौआविष्कारनाम्न्यष्टादशेस्तोत्रे श्रीराजानकक्षेमराजविरचिता विवृतिः॥१८॥
ॐ प्रार्थनाभूमिकातीतविचित्रफलदायकः।
जयत्यपूर्ववृत्तान्तः शिवः सङ्कल्पपादपः॥१॥
ॐ प्रार्थनेति। सङ्कल्पतरुर्वाञ्छितमेव ददाति शिवस्तु प्रार्थयितुमशक्यमपीत्यपूर्ववृत्तान्तः॥१॥
सर्ववस्तुनिचयैकनिधाना–
त्स्वात्मनस्त्वदखिलं किल लभ्यम्।
अस्य में पुनरसौ निज आत्मा
न त्वमेव घटसे परमास्ताम्॥२॥
सर्ववस्त्विति। त्वदिति, त्वत्तः स्वात्मनः सर्वार्थैकाश्रयात्किल विश्वं लभ्यम् अस्येति, सदा स्वरूपनिभालनप्रवणस्य मम पुनः परं लभ्यमास्तां, त्वमेव निज आत्मा स्वं स्वरूपं न घटसे व्युत्थानसमये न प्रकाशसे इति यावत्॥२॥
ज्ञानकर्ममयचिद्वपुरात्मा
सर्वथैष परमेश्वर एव।
स्याद्वपुस्तु निखिलेषु पदार्थे–
ष्वेषु नाम न भवेत् किमुतान्यत्॥३॥
ज्ञानकर्मेति। सर्ववस्तुषु चिद्वपुर्ज्ञानक्रियात्मा परमेश्वर आत्मैव सर्वेण प्रकारेण त्वधिष्ठानेन वपुः स्वरूपं स्यादस्तीति सम्भाव्यते, एष इति स्फुरद्रूप, ननु विचित्रकार्यकरणानां नानादेशस्वरूपाणां कथमेकेश्वरात्मता सम्भाव्यते इत्याह एष वस्तुषु अन्यथा पुनर्नामैव संज्ञैव न भवेत्, किमुतान्यत्कार्यकारणस्वरूपादिकं प्रकाशमयत्वं विना कस्याप्यसिद्धेरन्यथा इत्यध्याहार्यम्॥३॥
विषमार्तिमुषाऽनेन फलेन त्वद्दृगात्मना।
अभिलीय पथा नाथ ममास्तु त्वन्मयी गतिः॥४॥
विषमेति। विषमार्ति संसारतापं मुष्णाति यस्त्वद्दृगात्मा त्वत्साक्षात्काररूपः पन्था तेन, मे अभिलीय, फलेन फलतः, त्वन्मयी त्वदेकरूपा, गतिः प्राप्तिरस्तु, भुत्त्कादेवदत्तगमनमिति वत्, अभिलीयेत्यत्र त्त्काप्रत्यये योजयित्वा परतोऽस्त्विति योज्यम् अभिलीलेति पाठे अभिलीलस्फुरच्चिदानन्दविलासेति व्याकर्तव्यम्॥४॥
भवदमलचरणचिन्तारत्नलता–
ऽलङ्कृता कदा सिद्धिः।
सिद्धजनमानसानां विस्मयजननी
घटेत मम भवतः॥५॥
भवदिति। भवतोऽमलाः शुद्धा ये चरणाः ज्ञानक्रियादिमरीचयस्तेषु चिन्ता पुनः पुनर्निभालनं सैव सर्वसम्पत्प्रदत्वाद्रत्नलता, अलङ्कृता सम्प्राप्ततत्तदनेकशःशोभा, कदा मम पूर्णा सिद्धिर्घटेत भवतः सकाशात्कीदृशी सिद्धजनमानसानां योगिचित्तानां विस्मयजननी॥५॥
कर्हि नाथ विमलं मुखबिम्बं
तावकं समवलोकयितास्मि।
यत्स्रवेत्यमृतपूरमपूर्वं
यो निमज्जयति विश्वमशेषम्॥६॥
कर्हीति। व्युत्थानावस्थितस्येयमुक्तिः, कर्हि नाथ विमलं मुखबिम्बं परं शान्तरूपं, तव समवलोकयितास्मि साक्षात्कारि—
ष्यामि, अमृतपूरमानन्दप्रसरमपूर्वमलौकिकं लोकयितृलोक्यरूपं विश्वं निमज्जयति॥६॥
ध्यातमात्रमुदितं तव रूपं
कर्हि नाथ परमामृतपूरैः।
पूरयेत्त्वदविभेद विमोक्षा–
ख्यातिदूरविवराणि सदा मे॥७॥
ध्यातमात्रमिति। त्वदविभेद एव मोक्षः भेदबन्धापगमः तस्याख्यातिरप्रथा तदीयानि दूराणि विवराणि गर्हनान्याकाङ्क्षामयानि गर्तानि, कर्हि कदा, मे ध्यातमात्रमुदितं चिन्तनानन्तरमेव विकसितं, तत्तव सम्बन्धि रूपं कर्तृ, सदा परमामृतपूरैरानन्दविसरैः, पूरयेदाप्लावयेत्॥७॥
त्वदीयानुत्तररसासङ्गसन्त्यक्तचापलम्।
नाद्यापि मे मनो नाथ कर्हि स्यादस्तु शीघ्रतः॥८॥
त्वदीयेति। त्वदीयोऽनुत्तरो रसः परचित्प्रसरः तदासङ्गः तत्परत्वं तेनापि सन्त्यक्तचापलं गलितव्युत्थानम्, अद्यापीति असकृदास्वादितेऽपि समावेशे, कर्हि शीघ्रं स्यादित्यादि गाढोत्कण्ठापरत्वं सूचयति॥८॥
मा शुष्ककटुकान्येव परं सर्वाणि सर्वदा।
तवोपहृत्य लब्धानि द्वन्द्वान्यप्यापतन्तु मे॥९॥
मेति।तवोपहृत्य लब्धानि चिन्मयत्वेन त्वय्यनुप्रविश्य ब्युत्थाने समावेशसंस्काररसास्वादान्यासादितानि, परं सर्वकालं, सर्वाणि द्वन्द्वानि शीतोष्णादीन्यपि, आपतन्तु, शुष्ककटुकान्येव पुनस्त्वदद्वयस्पर्शामृतपूर्णत्वाद्रूक्षदुःस्वादप्रायाणि॥९॥
नाथ साम्मुख्यमायान्तु विशुद्धास्तव रश्मयः।
यावत्कायमनस्तापतमोभिः परिलुप्यताम्॥१०॥
नाथेति। सांमुख्यमायान्तु देहादिप्रथां निमज्य प्रस्फुरन्तु, शुद्धा अनुग्रहपरा, रश्मय शक्तयः कायमनस्तापतमोभिरिति कायमनस्तापा एव तमांसि तैः‚ परिलुप्यतां समन्तान्नश्यताम्॥१०॥
देव प्रसीद यावन्मे त्वन्मार्गपरिपन्थिकाः।
परमार्थमुषो वश्या भवेयुर्गुणतस्कराः॥११॥
देवेति। प्रसादः प्राग्वत्, त्वन्मार्गपरिपन्थिकाः परमार्थशाक्तभूमिप्रवेशरोधिनः, अत एव परमार्थ चिदभेदं मुष्णन्त्यपहरन्त्यनुपभोग्यं सम्पादयन्ति ये, गुणाः सत्त्वादय एव तस्कराः ते, वश्या भूयासुः, तदुक्तम् “गुणादिस्यन्दनिष्पन्दाः स्युर्ज्ञस्यापरिपन्थिनः" इति प्रसीद, भूयासुरिति लोड्लिङौ सम्भूय आशीर्विशिष्टां प्रार्थनां गमयतः, यथा लुनीहीत्यादौ लोड्बचने कर्मव्यतिहारादेवमन्यत्रापि स्मर्तव्यम्, स्वामिनि प्रसन्ने चौरा वश्या भवन्तीति लौकिकोर्थः स्पष्ट एव॥११॥
त्वद्भक्तिसुधासारैर्मानसमापूर्यतां ममाशु विभो।
यावदिभास्तुह्यन्ते निःशेषासारवासनाः प्लुत्वा॥१२॥
त्वद्भक्तीति। मानसं चित्तं सरश्च, असाराः कुत्सिताः, सरस्यप्यासारैः पूरिते असारवासनाः कटूदकवासनाः, प्लुत्वोत्पत्य, स्वयमेव तुह्यन्ते बहिर्निःसरन्ति॥१२॥
मोक्षदशायां भक्ति–
स्त्वयि कुत इव मर्त्यधर्मिणोऽपि न सा।
राजति ततोऽनुरूपा–
मारोपय सिद्धिभूमिकामज माम्॥१३॥
मोक्षेति। मोक्षदशा परमशिवता जीवन्मुक्तता तन्त्रोक्तप्रायता यदनेनैवोक्तम् “तामासाद्य दशां रूढा मुक्तकल्पा वयं तत” इति, मर्त्यधर्मिण इत्यप्रत्यभिज्ञातात्मस्वरूपस्य, अनुरूपामिति प्राग्वदुद्रशक्तिसमावेशमयी, परमसिद्धिभूमि तत्रैव प्रभुदासभावस्य स्फुटं स्फुरणात्॥१३॥
सिद्धिलवलाभलुब्धं
मामवलेपेन मा विभो मंस्थाः।
क्षामस्त्वद्भाक्तिमुखे
प्रोल्लसदणिमादिपक्षतो मोक्षः॥१४॥
सिद्धीति। समावेशात्मकपूर्णसिद्ध्यपेक्षया भेदमयाणिमादयः सिद्धिलवास्तल्लाभे लुब्धं मा मंस्थाः, अवलेपेनेति, मां सिद्धिलवलुब्धमाकलय्य मावलेपं कुर्या इति यावत्, ननु पारमेशनये साधकानां सिद्ध्युपभोगानन्तरं “भुत्त्काभोगांश्छिवं व्रजेत्" इत्याम्नायेषु शिवतैव श्रूयते, तर्हि मन्दा रुचिरित्याशङ्क्य युक्तिमाह प्रोल्लसदणिमादिपक्षादनन्तरं यो मोक्षस्त्वद्भक्तिमुखे त्वत्समावेशानन्दस्य पुरतः, क्षाम अत्यल्पः॥१४॥
दासस्य मे प्रसीदतु
भगवानेतावदेव ननु याचे।
दाता त्रिभुवननाथा
यस्य न तन्मादृशां दृशो विषयः॥१५॥
दासस्येति। एतावदिति न तु आणिमादि, प्रसीदतु
इति, त्रिभुवनं प्राग्वत्, यस्येत्यसम्भाव्यस्य फलस्य तत्फलं सदृशमिति न मादृशां दृश इति बुद्धेः॥१५॥
त्वद्वपुः स्मृतिसुधारसपूर्णे
मानसे तव पदाम्बुजयुग्मम्।
मामके विकसदस्तु सदैव
प्रस्रवन्मधु किमप्यतिलोकम्॥१६॥
त्वदिति। पादाम्बुजयुग्मं प्राग्वद्, विकसद्भेदसङ्कोचमुज्ज्ञत, मधु परमानन्दरूपं माधुर्यम्, अतिलोकमलौकिकं, रसपूर्णे च मानसे अम्बुजं विकसन्मधु स्रवति॥१६॥
अस्तु मे प्रभुरसौ जनकोऽथ
त्र्यम्बकोऽथ जननी च भवानी।
न द्वितीय इह कोऽपि ममास्ती–
त्येव निर्वृततमो विचरेयम्॥१७॥
अस्त्विति। असाविति चिद्घनो मे प्रभुरनुग्राहकः जनकः प्रमातृतोल्लासकश्च त्र्यम्बकस्तथा भवानी पराशक्ति जननी प्रभ्वी चास्तु, ईदृशस्यैव प्रत्यभिज्ञातमहेश्वरस्वरूपस्य मे इह जगति न द्वितीय कोऽप्यस्ति, ममेति शेषे षष्ठी, इत्येव एतावतैव, निर्वृततमोऽत्यर्थं प्रमुदितो, विचरेयं विहरेयमिति शिवम्॥१७॥
इति श्रीमदुत्पलदेवाचार्यविरचितस्तोत्रावलावुद्योतनाभिवानैकोनविंशस्तोत्रे श्रीक्षेमराजविरचिता विवृतिः॥१९॥
<MISSING_FIG href="../books_images/U-IMG-1724357845Screenshot2024-08-23014614.png"/>
ॐ नार्थं त्रिभुवननाथं
भूतिसितं त्रिनयनं त्रिशूलधरम्।
उपवीतीकृतभोगिन-
मिन्दुकलाशेखरं वन्दे॥१॥
ॐ नाथमिति। त्रिभुवनं प्राग्वत्, भूतिर्विश्वमयी विभूतिस्तया सित सम्बद्धं षिञ् बन्धने इत्यस्य सितशब्द, त्रीणि इच्छाज्ञानक्रियाख्यानि नयनानि यस्य, भेदोद्दलनहेतोः प्रज्वलद्ज्ञानरूपस्य त्रिशूलस्य धारकम्, उप समीपे वीतीकृताः विशेषेणेताः कृताः संहृताश्च भोगिनः प्रसरा येन, वीतः वी गतावित्यस्य प्रयोगः, इन्दुकला विश्वजीविनी चितिशक्तिः शेखरं मुख्यं रूपं यस्य, समग्रमेयमयी इन्दुकला वा स्वातन्त्र्यप्रथने हेतुत्वात् शेखरः क्रीडार्थमाहार्य मण्डनं यस्य, तं वन्दे इति प्राग्वत्, बाह्यक्रमेण स्पष्टार्थः॥१॥
नौमि निजतनुविनिस्सरदंशुक–
परिवेषधवलपरिधानम्।
विलसत्कपालमाला–
कल्पितनृत्तोत्सवाकल्पम्॥२॥
नौमीति। निजतनुश्चिन्मयं रूपं ततो विनिःसरन् स्फुरन् अंशुकपरिवेषो रश्मिपुञ्जप्रसर एव धवलं शुद्धं परिधानं प्रावरणं यस्य, प्रसरत्प्रकृति शिव इति स्थित्या स्वशक्तिचक्रेण सततमाश्लिष्टमित्यर्थः, विकसन्त्या स्वात्मनियोजनेन देदीप्यमानया विलसन्त्या स्फुरन्त्या कपालमालया सदाशिवादिसकलान्ताशेषप्रमातृमुण्डमालया कल्पितो नृत्तोत्सवे स्वातन्त्र्यविजृम्भाभ्युदय आकल्पो मण्डनं येन, बाह्यक्रमः स्पष्टः॥२॥
वन्दे तान् दैवतं येषां
हरश्चेष्टा हरोचिताः।
हरैकप्रवणाः प्राणाः
सदा सौभाग्यद्मनाम्॥३॥
वन्दे इति। हरोचिताः सृष्टिसंहारानुग्रहादिरूपाः, हरैकप्रवणा नित्यतत्समावेशरसिकाः, प्राणा जीवितमत एव सौभाग्यसद्मत्वं परमानन्दपूर्णत्वेन विश्वस्पृहणीयत्वात्॥३॥
क्रीडितं तव महेश्वरतायाः
पृष्ठतोऽन्यदिदमेव यथैतत्।
इष्टमात्रघटितेष्ववदाने–
ष्वात्मना परमुपायमुपैमि॥४॥
क्रीडितमिति। समावेशस्फारेण जगत्क्रीडात्वेन पश्यतेयमुक्तिः। तव महेश्वरताया पृष्ठत एवोपर्येवान्यदिदं क्रीडितं, यथैतदिति प्रदर्शनार्थे, इष्टमात्रघटितेषु इच्छामात्रसम्पन्नेषु, अवदानेषु अद्भुतकर्मसु त्वदीयपञ्चविधकृत्यात्मसु चरितेष्वहमात्मना स्वयमेव, परिपूर्णमुपायं स्वबलाक्रमणमुखेऽपि प्राप्नोमि, त्वत्समावेशात्स्वं चिद्बलमाक्रम्य त्वद्वदहं पञ्चविधकृत्यकारी यत् तत्तवापरं क्रीडितमित्यर्थः, एवकारो भिन्नक्रमः॥४॥
त्वद्धाम्नि विश्ववन्द्येऽस्मि–
न्नियति क्रीडने सति।
तव नाथ कियान् भूया–
नानन्दरससम्भवः॥५॥
त्वदिति। विश्ववन्द्यं यत्त्वद्धाम त्वन्मह तत्रान्तरियति विश्वात्मन्यस्मिन्नियति क्रीडने सति‚ तव भूयानिति अनल्पः, स्वानन्दानुरूपमेव सर्वः क्रीडति‚ यस्य चेद्विश्वं क्रीडा तस्य अपर्यन्त एवानन्द इति स्वात्मनस्तद्दासतया श्लाघां व्यनक्ति, अत एव नाथेत्यामन्त्रणम्॥५॥
कथं स सुभगो मा भू–
द्यो गौर्या वल्लभो हरः।
हरोऽपि मा भूदथ किं
गौर्याः परमवल्लभः॥६॥
कथमिति। सुभग सर्वस्य स्पृहणीयः, गौर्याः परस्याः शक्ते, वल्लभ स्पृहणीय स आनन्दघन परया भट्टारिकयाऽऽलिङ्गित इत्यर्थः, हर समावेशचमत्कारेण हृदयहारी द्वैतपदस्यसंहर्ता च यः, परशक्तेः परमवल्लभ एव॥६॥
ध्यानामृतमयं यस्य
स्वात्ममूलमनश्वरम्।
संविल्लतास्तथारूपा–
स्तस्य कस्यापि सत्तरोः॥७॥
ध्यानेति। यस्य समावेशशालिन, स्वात्मनो मूलं कारणं, ध्यानामृतमयं स्वरूपगोपनोन्मुखचिदानन्दसारप्रत्यभिज्ञातशिवभट्टारकस्वरूपं यथोक्तमस्ति ‘प्रभुरसौ जनको वा’ इत्यादि, अनश्वरं चिद्रूपतयैव नित्यं‚ तस्य कस्याप्पतिदुर्लभस्य सत्तरोः सन्तापहारिणः शोभनपादपस्य, संविल्लताः नीलमुखादिज्ञानानि तथारूपा इति ध्यानामृतमय्य एव॥७॥
भक्तिकण्डूसमुल्लासा–
वसरे परमेश्वरः।
महानिकषपाषाण–
स्थूणापूजैव जायते॥८॥
भक्तीति। भक्तिर्भगवदनुरागएव वैवश्यदायित्वात्कण्डूस्तस्या समुल्लासे, पूर्वनिर्णीता पूजैव, महानिकषपाषाणस्थूणा निघर्षोपलमयो महास्तम्ब, भक्तिकण्डूं यः प्रशमय्य आनन्दघनस्वात्मविश्रान्तिहेतुर्जायते इत्यर्थः॥८॥
सदा सृष्टिविनोदाय
सदा स्थितिसुखासिने।
सदा त्रिभुवनाहार–
तृप्ताय स्वामिने नमः॥६॥
सदेति। “तदेवं व्यवहारेऽपि प्रभुर्देहादिमाविशन्। भान्तमेवान्तरर्थौघमिच्छया भासयेद्बहि” रिति स्थित्या देहादिमाविशतोऽपि भगवतः प्रतिक्षणं तत्तदनन्तग्राह्यग्राहकाद्याभाससंयोजनावियोजनक्रमेण सृष्ट्यादिहेतुत्वं च मया स्पन्दसन्दोहे वितन्य निर्णीतमिति स एवावेक्ष्यः॥९॥
न क्वापि गत्वा हित्वाऽपि
न किंचिदिममेव ये \।
भवं त्वद्धाम पश्यन्ति
भव्यास्तेभ्यो नमो नमः॥१०॥
नेति। एकान्नद्वादशान्तादिपदं परलोकं चागत्वा, भोगा—
नधरभूमीः शरीरं च त्यत्क्वा, इममेवाप्रबुद्धानां हेयाभिमतं, त्वद्धाम चिद्धनं ये पश्यन्ति, भव्याः दिव्यमहार्थदृष्ट्याविष्टास्तेभ्यो नमो नमः वीप्सयैषामेव परतत्त्ववित्वं ध्वनति॥१०॥
मीसमृद्धाना
किमन्यदुपयाचितम्।
एतया वा दरिद्राणां
किमन्यदुपयाचितम्॥११॥
भक्तीति। किमन्यदिति प्राप्तव्यस्य प्राप्तत्वान्नास्त्येवान्यद्याचितव्यं, किमन्यदिति परमार्थस्यानासादनात्किमन्येनासारप्रायेणेत्यर्थः॥११॥
दुःखान्यपि सुखायन्ते
विषमप्यमृतायते।
मोक्षायते च संसारो
यत्र मार्गः स शाङ्करः॥१२॥
दुःखानीति। त्र्ययमप्येतच्चिदानन्दघननिजबलाक्रमणादेव भवति, मार्गपदं शाक्तपदवाचकम्॥१२॥
मूले मध्येऽवसाने च
नास्ति दुःखं भवज्जुषां ।
तथाऽपि वयमीशान
सीदामः कथमुच्यताम्॥१३॥
मूले इति। प्राग्वत् व्युत्थानावस्थितस्योक्तिः, मूले मध्येऽवसाने इति, संविदुदयप्रसरविश्रान्तिषु सीदामः व्युत्थानेनाभिभूयामहे॥१३॥
ज्ञानयोगादिनाऽन्येषा–
मप्यपेक्षितुमर्हति।
प्रकाशः स्वैरिणामेव
भवान्भक्तिमतां प्रभो॥१४॥
ज्ञानेति। प्रभो केषांचित्ज्ञानयोगक्रियाद्युपायैर्भवान् स्फुरति, भक्ताना पुन स्वैरिणामुपायानपेक्षिणां त्वत्समावेशा त्प्राप्तत्वन्महिम्नां च भवान्प्रकाशस्वभावः सदेति यावत्॥१४॥
भक्तानां नार्तयो नाप्य–
स्त्याध्यानं स्वात्मनस्तव।
तथाप्यस्ति शिवेत्येत–
त्किमप्येषां बहिर्मुखे॥१५॥
भक्तानामिति। आर्तयः क्लेशा, आध्यानं प्राप्त्यभिलाषेण चिन्तन, तव स्वात्मन इति स्वात्मतयैव स्फुरतः, तथापीति भक्तत्वादेव किमपीति परमानन्दैकात्म्यव्यञ्जकं निर्निमित्तंच॥१५॥
सर्वाभासावभासो यो
विमर्शवलितोऽपि सन्।
अहमेतदिति स्तौमि
तां क्रियाशक्तिमीश ते॥१६॥
सर्वेति। अहमेतदिति अखिलं यः सर्वाभासाऽवभासः सदा विश्येश्वरप्रकाश, कीदृग्विमर्शेन परमानन्दचमत्कारेण बलितो बृंहितः, क्रियाशक्तिमीशशक्तिमीश ते, स्तौमि इति प्राग्वत्॥१६॥
वर्तन्ते जन्तवोऽशेषा
अपि ब्रह्मेन्द्रविष्णावः
ग्रस्यमानास्ततो वन्दे
देव विश्वं भवन्मयम्॥१७॥
वर्तन्ते इति। अपि ब्रह्मेन्द्रविष्णव इति सृष्टिस्थितिकारिणः प्रसिद्धाः आसतां रुद्रादयस्तेऽपि यावदशेषा जन्तवः क्षेत्रज्ञाः ग्रसमाणाः सदा स्वविषया अतिप्रवणा वर्तन्ते॥१७॥
सतो विनाशसम्बन्धा–
न्मत्परं निखिलं मृषा।
एवमेवाद्यते नाथ
त्वया संहारलीलया॥१८॥
सत इति। हे नाथ, संहारक्रीडया एवमेवोच्यते मत्तच्चिदेकरूपात्परमुल्लासितस्वभावत्वादधिकमिवयत्किञ्चित्सदाशिवान्तंतन्मृषा न पृथग्भवतीत्यर्थः, यतः सतोऽनधिकस्याप्याधिक्येन आभासमानस्य विनाशेन सम्बन्धाच्चिदात्मन्येव विगलितत्वेन स्थितिर्भवति, तदुक्तम् “यत्सदाशिवपर्यन्तम्” इत्यादि “विनाशोत्पत्तिसंयुतम्" इत्यन्तं तथा “कार्यताक्षयिणी तत्र" इत्यादि॥१८॥
ध्यातमात्रमुपतिष्टत एव
त्वदपूर्वरद भक्तिधनानाम्।
अप्यचिन्त्यमखिलाद्भुतचिन्ता–
कर्तृतां प्रति च ते विजयन्ते॥१९॥
ध्यातमात्रमिति। मितयोगिभिश्चिन्तयितुमशक्यमपि यत्स्वरूपं
भक्तिवनानांध्यातमात्रमुपतिष्ठते ध्यानसमनन्तरमेव सन्निधीयते इत्यर्थः, तेच भक्ताः आखिलाया अद्भुतचिन्तायाः कर्तृतां प्रति विजयन्तेत एवासामान्यविस्मयप्रवर्तकाः सर्वोत्कर्षिण इत्यर्थः॥१९॥
तावकभक्तिरसासव–
सेकादिव सुखितमर्ममण्डलस्फुरितैः।
नृत्यति वीरजनो निशि
वेतालकुलैः कृतोत्साहः॥२०॥
तावकेति। बाह्योऽर्थः स्पष्टः। वीरजनः विदारितसंसारमहापशुः भक्तलोको, निशि मायामध्य एव, नृत्यति चिद्विकासेन विलसतितराम्, कथं तावकभक्तिरसासवसेकात् त्वत्समावेशामृतसेकादिव, सुखितानि आनन्दनन्दितानि मर्ममण्डलानि पाशः सञ्चयास्तेषां सम्बन्धिभिः स्फुरितैरासनमुद्रासदृशैः वेतालकुलैपशुहृदयाच्च दृक्प्रत्ययोदयानुवर्तिशक्तिशतैः, कृतोत्साहः परिपोषितचिदभ्युदय इति शिवम्॥२०॥
आरब्धा भवदभिनति–
रमुना येनाङ्गकेन मम शम्भो।
तेनापर्यन्तमिमं कालं
दृढमखिलमेव भविषीष्ट॥२१॥
आरब्धेति। क्वचिदप्यसदृशशैलीदर्शनादनार्ष इवायं श्लोकस्तथाऽपिव्याख्यायते। अमुना चिदद्वयसमावेशोत्कर्षप्रदर्शिना,येनाङ्गकेन सर्वजनासंलक्ष्येण प्रकारेण, शम्भो तव स्तुतिरारब्धा, तेन प्रकारेणापर्यन्तमिममखिलं‚ कालं दृढमविचलं, कृत्वाऽसौ भविषीष्ट प्राप्नुयात्, भूप्राप्तावित्यस्य रूपमिति शिवम्॥२१॥
इति श्रीमदुत्पलदेवाचार्यविरचितस्तोत्रावलौचर्वणास्तोत्रे विंश श्रीक्षेमराजकृता विवृतिः॥२०॥
<MISSING_FIG href="../books_images/U-IMG-17244342361.png"/>
ॐ तत्सत्। क्लेशान्विनाशय विकासय हृत्सरोज–
मोजो विजृम्भय निजं नरिनर्तयाङ्गम्।
चेतश्चकोरचितिचन्द्रमरीचिचक्र–
माचम्य सम्यगमृतीकुरु विश्वमेतत्॥१॥
श्रुतिपथमितासूक्तिश्रेणी धुनोति भवातपं
निरुपमपरानन्दव्याप्ति तनोति च तत्क्षण त्।
इयमिति विभो शम्भोर्भक्त्या परं परमेष्ठिनो
विहितललितव्याख्याऽस्माभिः कृतार्थिजनार्थितैः॥२॥
विश्वत्रयेऽपि विशदैरसमस्वरूपैः
शास्त्रैस्तथा विवरणैः ग्रथितैव कीर्तिः।
तस्माद्गुरोरभिनवात्परमेशमूर्तेः
क्षेमो निशम्य विवृति व्यतनोदमुत्र॥३॥ॐ तत्सत्॥
]