अभिलाषाष्टकम्

[[अभिलाषाष्टकम् Source: EB]]

[

अभिलाषाष्टकम्

कदा पक्षीन्द्रांसोपरि गतमजं कञ्चनयनम्

रमासंश्लिष्टाङ्गं गगनरुचमापीतवसनम् ।

गदाशङ्खाम्भोजारिवरमालोक्य सुचिरं

गमिष्यत्येतन्मे ननु सफलतां नेत्रयुगलम् ॥ १॥

कदा क्षीराब्ध्यन्तः सुरतरुवनान्तर्मणिमये

समासीनं पीठे जलधितनयालिङ्गिततनुम् ।

स्तुतं देवैर्नित्यं मुनिवरकदम्बैरभिनुतम्

स्तवैः सन्तोष्यामि श्रुतिवचनगर्भैः सुरगुरुम् ॥ २॥

कदा मामाभीतं भयजलधितस्तापसतनुं

गता रागं गङ्गातटगिरिगुहावाससहनम् ।

लपन्तं हे विष्णो सुरवर रमेशेति सततं

समभ्येत्योदारं कमलनयनो वक्ष्यति वचः ॥ ३॥

कदा मे हृद्पद्मे भ्रमर इव पद्मे प्रतिवसन्

सदा ध्यानाभ्यासादनिशमुपहूतो विभुरसौ ।

स्फुरज्ज्योतीरूपो रविरिव रसासेव्यचरणो

हरिष्यत्यज्ञानाज्जनिततिमिरं तूर्णमखिलम् ॥ ४॥

कदा मे भोगाशा निबिडभवपाशादुपरतं

तपःशुद्धं बुद्धं गुरुवचनतोदैरचपलम् ।

मनो मौनं कृत्वा हरिचरणयोश्चारु सुचिरं

स्थितिं स्थाणुप्रायां भवभयहरां यास्यति पराम् ॥ ५॥

कदा मे संरुद्धाखिलकरणजालस्य परितो

जिताशेषप्राणानिलपरिकरस्य प्रजपतः ।

सदोङ्कारं चित्तं हरिपदसरोजे धृतवतः

समेष्यत्युल्लासं मुहुरखिलरोमावलिरियम् ॥ ६॥

कदा प्रारब्धान्ते परिशिथिलतां गच्छति शनैः

शरीरे चाक्षौघेऽप्युपरतवति प्राणपवने ।

वदत्यूर्ध्वं शश्वन्मम वदनकञ्जे मुहुरहो

करिष्यत्यावासं हरिरिति पदं पावनतमम् ॥ ७॥

कदा हित्वा जीर्णां त्वचमिव भुजङ्गस्तनुमिमां

चतुर्बाहुश्चक्राम्बुजदरकरः पीतवसनः ।
घनश्यामो दूतैर्गगनगतिनीतो नतिपरै-

र्गमिष्यामीशस्यान्तिकमखिलदुःखान्तकमिति ॥ ८॥

इति श्रीमत्परमहंसस्वामिब्रह्मानन्दविरचितं अभिलाषाष्टकं संपूर्णम्

]