स्तोत्ररत्नाकरः (द्वितीयो भागः)

[[स्तोत्ररत्नाकरः (द्वितीयो भागः) Source: EB]]

[

[TABLE]

SRI

STOTRA-RATNAKARA

PART II.

<MISSING_FIG href="../books_images/U-IMG-1723710085400.png"/>

MADRAS:

V. RAMASWAMY SASTRULU & SONS

292, Esplanade.
1929.
All Rights Reserved.

PRINTED AT
THE ‘VAVILLA’ PRESS,
MADRAS.—1929.

॥ श्रीरस्तु ॥

॥ स्तोत्ररत्नाकरे ॥

॥ द्वितीयभागः ॥

<MISSING_FIG href="../books_images/U-IMG-1723906743Screenshot2024-08-17202837.png"/>

चेन्नपुर्यां

वाविल्ल रामस्वामिशास्त्रुलु अण्ड् सन्स्

इत्येतैः प्रकटितः

१९२९.

All Rights Reserved.

चेन्नपुरीस्थे

वाविल्लमुद्रणालये

सम्मुद्रितः.

॥ श्रीरस्तु ॥
॥ स्तोत्राणामनुक्रमणिका ॥

________

स्तोत्राणि स्तोत्राणि
श्रीभवानीसहस्रनामस्तोत्रम् अम्बास्तुतिः
अन्नपूर्णाष्टोत्तरशतनामस्तोत्रम् सकलजननीस्तवः
अन्नपूर्णासहस्रनामस्तोत्रम् श्रीपञ्चदशीस्तोत्रम् (कल्याणवृष्टिस्तवः )
श्रीललितासहस्रनामस्तोत्रपूर्वभागः श्री मीनाक्षीस्तोत्रम्
" न्यासः श्री मीनाक्षीपश्चरत्नस्तोत्रम्
श्रीललितासहस्रनामस्तोत्रम् श्रीराजराजेश्वर्यष्टकम्
" फलश्रुतिः त्रिपुरसुन्दरीवेदपादस्तोत्रम्
श्रीकालिकासहस्रनामस्तोत्रम् त्रिपुरसुन्दरीमानसपूजास्तोत्रम्
आनन्दलहरी देवी चतुःषष्ट्युपचारपूजास्तोत्रम्
देवीभुजङ्गस्तोत्रम् ललितापञ्चरत्नम्
देव्यपराधक्षमापनस्तोत्रम् नवरत्नमालिका
त्रिपुरसुन्दर्यष्टकम् गौरीदशकम्
सौन्दर्यलहरी भगवत्यष्टकम्
भवानीभुजङ्गस्तोत्रम् शारदाभुजङ्गाष्टकम्
श्यामलादण्डकम् वाल्मीकिविरचितगङ्गाष्टकम्
नवरत्नमाला श्रीशङ्कराचार्यविरचितगङ्गाष्टकम्
अन्नपूर्णास्तोत्रम् श्रीकालिदासकृतगङ्गाष्टकम्
देवीपश्चरत्नम् " द्वितीयगङ्गाष्टकम्
मन्त्रमातृकापुष्पमालास्तवः गङ्गालहरीस्तोत्रम्
लघुस्तुतिः श्रीलक्ष्म्यष्टोत्तरशतनामस्तोत्रम्
चर्चास्तुतिः श्रीलक्ष्मीसहस्रनामस्तोत्रम्
स्तोत्राणि स्तोत्राणि
श्रीस्तोत्रम् मनीषापञ्चकम्
श्रीकनकधारास्तोत्रम् अभिलाषाष्टकम्
चतुश्श्लोकी (लक्ष्मीस्तुतिः) श्रीवेदव्यासाष्टकम्
श्रीस्तवः गुरुवरप्रार्थनापञ्चरत्नस्तोत्रम्
श्रीगुणरत्नकोशः यतिपञ्चकस्तोत्रम्
श्रीस्तुतिः यतिराजसप्ततिः
भूस्तुतिः यतिराजविंशतिः
गोदास्तुतिः सप्ततिरत्नमालिका
षोडशायुधस्तोत्रम् द्रमिडोपनिषत्तात्पर्यरत्नावलिः
सुदर्शनाष्टकम् द्रमिडोपनिषत्सारः
सुदर्शनशतकम् हरिदिनतिलकम्
गरुडदण्डकः शरणागतिदीपिका
गरुडपञ्चाशत् न्यासतिलकम्
प्रातर्निर्वेदकारिकाः न्यासदशकम्
परमार्थस्तुतिः न्यासविंशतिः
परत्वादिपञ्चकस्तुतिः यथोक्तकारिस्तोत्रम्
प्रातरनुसन्धेयं श्लोकद्वयं श्लोकत्रयं च दिव्यसूरिस्तोत्रम्
दिव्यदेशमङ्गलाशासनपञ्चकम् श्रीमद्वेदान्तदेशिकमङ्गलाशासनम्
श्रीमच्छारीरकसुप्रभातम् श्रीमद्वेदान्तदेशिकप्रार्थनाष्टकम्
आत्मपञ्चकम् श्रीमद्वेदान्तदेशिकदिनचर्या
वैराग्यपञ्चकम् श्रीमद्वेदान्तदेशिकप्रपत्तिः
धन्याष्टकम् आदिवण् शठवैरिमङ्गलम्
विज्ञाननौका श्रीमदादिशठवैरिगद्यम्
द्वादशपञ्जरिकास्तोत्रम् श्रीदेशिकगद्यम्
चर्पटपंजरिकास्तोत्रम् श्रीलक्ष्मीनृसिंहप्रपत्तिः
हस्तामलकस्तोत्रम् श्रीलक्ष्मीनृसिंहादिसुप्रभातम्
साधनपञ्चकम् श्रीशठकोपसूरिमङ्गलम्
स्तोत्राणि स्तोत्राणि
श्रीभाष्यकारमङ्गलम् इन्द्रकृतरामस्तोत्रम्
पञ्चायुधस्तोत्रम् रामचन्द्राष्टकम्
हनुमत्पश्चरत्नम् श्रीसीतारामाष्टकम्
श्रीदक्षिणामूर्तिस्तोत्रम् परपूजा
यमुनाष्टकम् भगवत्प्रातःस्मरणम्
" प्रातःस्मरणस्तोत्रम्
नर्मदाष्टकम् अश्वत्थस्तोत्रम्
मणिकर्णिकाष्टकम् नवग्रहस्तोत्रम्
निर्गुणमानसपूजा नवनागस्तोत्रम्
भ्रमराम्बाष्टकम् शनिस्तोत्रम्
शिवपञ्चाक्षरनक्षत्रमालास्त्रोत्रम् ऋणमोचकमङ्गलस्तोत्रम्
काशीपञ्चकम् तुलसीकवचम्
गुर्वष्टकम् देवकृतगर्भस्तुतिः
उमामहेश्वरस्तोत्रम् वसुदेवकृतश्रीकृष्णस्तोत्रम्
रामहृदयम् श्री वेंकटेश्वरमंगलस्तोत्रम्
रामस्तवराजः बालकृतकृष्णस्तोत्रम्
रामगीता गोपालस्तोत्रम्
रामरक्षास्तोत्रम् मोहिनीकृतकृष्णस्तोत्रम्
ब्रह्मदेवकृतरामस्तुतिः ब्रह्मदेवकृतकृष्णस्तोत्रम्
जटायुकृतरामस्तोत्रम् इन्द्रकृतकृष्णस्तोत्रम्
रामाष्टकम् विप्रपत्नीकृतकृष्णस्तोत्रम्
" श्रीकृष्णाष्टकम्
श्रीमहादेवकृतरामस्तुतिः सत्यव्रतोक्तदामोदरस्तोत्रम्
अहल्याकृतरामस्तोत्रम्

__________

॥श्रीरस्तु॥

॥ स्तोत्ररत्नाकरः ॥

<MISSING_FIG href="../books_images/U-IMG-1723907724Screenshot2024-08-17204501.png"/>

॥ द्वितीयभागः ॥

॥ श्रीभवानीसहस्रनामस्तोत्रम् ॥

शंखत्रिशूलशरचापकरां त्रिनेत्रां तिग्मेतरां शुकलया विलसत्किरीटां।
सिंहस्थितामसुरसिद्धनुतां च दुर्गां दुर्गानिभां दुरितदुःखहरां नमामि॥

अकुलकुलपतंती चक्रमध्ये स्फुरंती मधुरमधुपिबंती कंटकान्भक्षयंती।
दुरितमपहरंती साधकान्पोषयंती जयति जगति देवी सुंदरी क्रीडयंती॥

चतुर्भुजामेकवक्त्रां पूर्णेंदुवदनप्रभां।
खड्गशक्तिधरां देवीं वरदाभयपाणिकां॥३॥

प्रेतसंस्थां महारौद्रीं भुजगेनोपवर्तिनीं।
भवानीं कालसंहारबद्धमुद्राविभूषितां॥४॥

जगत्स्थितिकरीं ब्रह्मविष्णुरुद्रादिभिस्सुरैः ।
स्तुतां तां परमेशानीं नौम्यहं विघ्नहारिणीं॥५॥

ओं नमो भवान्यै॥

कैलासशिखरे रम्ये देवदेवं महेश्वरम्।
ध्यानोपरतमासीनं प्रसन्नमुखपङ्कजम्॥६॥

सुरासुरशिरोरत्नरञ्जिताङ्घ्रियुगं प्रभुम्।
प्रणम्य शिरसा नन्दी बद्धाञ्जलिरभाषत॥७॥

श्री नन्दिकेश्वर उवाच—

देवदेव जगन्नाथ संशयोऽस्ति महान्मम।
रहस्यमेकमिच्छामि प्रष्टुं त्वां भक्तवत्सल॥८॥

देवतायास्त्वया कस्याः स्तोत्रमेतद्दिवानिशम्।
पठ्यते निरतं नाथ त्वत्तः किमपरं महत् ?॥९॥

इति पृष्टस्तदा देवो नन्दिकेन जगद्गुरुः।
प्रोवाच भगवानेको विकसन्नेत्रपङ्कजः॥१०॥

श्रीभगवानुवाच—

साधु साधु गुणश्रेष्ठ पृष्टवानसि मां च यत्।
स्कन्दस्याऽपि च यद्गोप्यं रहस्यं कथयामि तत्॥११॥

पुरा कल्पक्षये लोकान्सिसृक्षुर्मूढचेतसः।
गुणत्रयमयी शक्तिर्मूलप्रकृतिसंज्ञिता॥१२॥

तस्यामहं समुत्पन्नस्तत्त्वैस्तैर्महदादिभिः।
चेतनेति ततः शक्तिर्मां काप्यालिङ्ग्यतस्थुषी॥१३॥

हेतुस्सङ्कल्पजालस्य मनोधिष्ठायिनी शुभा।
इच्छेति परमा शक्तिरुन्मिमील ततः परम्॥१४॥

ततो वागिति विख्याता शक्ति श्शब्दमयी पुरा।
प्रादुरासीज्जगन्माता वेदमाता सरस्वती॥१५॥

ब्राह्मी च वैष्णवी सैन्द्री कौमारी पार्वती शिवा।
सिद्धिदा बुद्धिदा शान्ता सर्वमङ्गलदायिनी॥१६॥

तयैतत्सृज्यते विश्वमनाधारं च धार्यते।
तथैतत्पाल्यते सर्वं तस्यामेव प्रलीयते॥१७॥

अर्चिता प्रणता ध्याता सर्वभावविनिश्चितैः।
आराधिता स्तुता सैव सर्वसिद्धिप्रदायिनी॥१८॥

तस्या अनुग्रहादेव तामेव स्तुतवानहम्।
सहस्त्रैर्नामभिर्दिव्यैस्त्रैलोक्यप्रणिपूजितैः॥१९॥

स्तवेनानेन सन्तुष्टा मामेव प्रविवेश सा।
तदारभ्य मया प्राप्तमैश्वरं पदमुत्तमम्॥२०॥

तत्प्रभावान्मया सृष्टं जगदेतच्चराचरम्।
ससुरासुरगन्धर्वयक्षराक्षसमानवम्॥२१॥

सपन्नगं साच्छिकं च सशैलवनकाननम्।
सराशिग्रहनक्षत्रं पञ्चभूतगुणान्वितम्॥२२॥

नन्दिन्नामसहस्रेण स्तवेनानेन सर्वदा।
स्तुवे परापराशक्तिं ममानुग्रहकारिणीम्॥२३॥

इत्युक्त्वोपरतं देवं चराचरगुरुं विभुम्।
प्रणम्य शिरसा नन्दी प्रोवाच परमेश्वरम्॥२४॥

श्रीनंदिकेश्वर उवाच—

भगवन्देवदेवेश लोकनाथ जगत्पते।
भक्तोऽस्मि तव दासोऽस्मि प्रसादः क्रियतां मयि॥२५॥

देव्याः स्तवमिमं पुण्यं दुर्लभं यत्सुरैरपि।
श्रोतुमिच्छाम्यहं देव प्रभावमपि चास्य तु॥२६॥

श्रीभगवानुवाच —

शृणु नंदिन्महाभाग स्तवराजंमिमं शुभं।
सहस्रै र्नामभिर्दिव्यै स्सिद्धिदं सुखमोक्षदं॥२७॥

शुचिभिः प्रातरुत्थाय पठितव्यं समाहितैः।
त्रिकालं श्रद्धया युक्तैर्नातः परतरः स्तवः॥२८॥

अथ न्यासः—

ओं एकवीरायै नमः, ओं महामायायै नमः, ओं पार्वत्यै नमः, ओं गिरिशप्रियायै नमः, ओं गौर्यै नमः, ओं करालिन्यै नमः, ओं अंगुष्ठाभ्यां नमः, ओं तर्जनीभ्यां नमः, ओं मध्यमाभ्यां नमः, ओं अनामिकाभ्यां नमः, ओं कनिष्ठिकाभ्यां नमः, ओं करतलकरपृष्ठाभ्यां नमः॥

एवं षडंगादिहृदयन्यासः॥

ओं अस्य श्रीभवानीनामसहस्रस्तवराजस्य, श्रिभगवान्महादेव ऋषिः अनुष्टुप्छंदः आद्या शक्तिः श्रीभगवती भवानी देवता ह्रीं बीजं श्रीं शक्तिः क्लीं कीलकं श्रीभगवतीभवानी र्प्रीत्यर्थे जपे विनियोगः॥

अथ ध्यानम् —

अर्धेन्दुमौलिममलाममराभिवंद्या-
मंभोजपाशसृणिरक्तकपालहस्ताम्।

रक्तांगरागवसनाभरणां त्रिनेत्रां
ध्यायेच्छिवस्य वनितां मदविह्वलांगीं॥

ओं॥ बालार्कमंडलाभासां चतुर्बाहुं त्रिलोचनां।
पाशांकुशशरं चापं धारयंतीं शिवां भजे॥

ओं श्रीईश्वर उवाच—

ओं महाविद्या जगन्माता महालक्ष्मीः शिवप्रिया।
विष्णुमाया शुभा शांता सिद्धासिद्धसरस्वती॥१॥

क्षमा कांतिः प्रभा ज्योत्स्ना पार्वती सर्वमंगला।
हिंगुला चंडिकादांता पद्मा लक्ष्मीर्हरिप्रिया॥२॥

त्रिपुरा नंदिनी नंदा सुनंदा सुरवंदिता।
यज्ञविद्या महामाया वेदमाता सुधाधृतिः॥३॥

प्रीतिप्रदा प्रसिद्धा च मृडानी विंध्यवासिनी।
सिद्धविद्या महाशक्तिः पृथ्वी नारदसेविता॥४॥

पुरुहूतप्रियाकांताकामिनी पद्मलोचना।
प्रह्लादिनी महामाता दुर्गा दुर्गातिनाशिनी॥५॥

ज्वालामुखी सुगोत्राच ज्योतिः कुमुदवासिनी।
दुर्गमा दुर्लभाविद्या स्वर्गतिः पुरवासिनी॥६॥

अपर्णा शांबरी माया मदिरामृदुहासिनी।
कुलवागीश्वरी नित्या नित्यक्लिन्ना कृशोदरी॥७॥

कामेश्वरी च नीला च भीरुंडा वह्निवासिनी।
लंबोदरी महाकाली विद्याविद्येश्वरी तथा॥८॥

नरेश्वरी च सत्या च सर्वसौभाग्यवर्धिनी।
संकर्षिणी नारसिंही वैष्णवी च महोदरी॥९॥

कात्यायनी च चंपा च सर्वसंपत्तिकारिणी।
नारायणी महानिद्रा योगनिद्रा प्रभावती॥१०॥

प्रज्ञा पारमिताप्राज्ञा तारा मधुमती मधु।
क्षीरार्णवसुधाहारा कालिका सिंहवाहना॥११॥

ओंकारा च सुधाकारा चेतना कोपनाकृतिः।
अर्धबिंदुधराधारा विश्वमाता कलावती॥१२॥

पद्मावती सुवस्त्रा च प्रबुद्धा च सरस्वती।
कुंडासना जगद्धात्री बुद्धमाता जिनेश्वरी॥१३॥

जिनमाता जिनेंद्रा च शारदा हंसवाहना।
राज्यलक्ष्मीर्वषट्कारा सुधाकारा सुधोत्सुका॥१४॥

राजनीतिस्त्रयीवार्ता दंडनीतिः क्रियावती।
सद्भूतिस्तारिणी श्रद्धा सद्गतिः सत्परायणा॥१५॥

सिंधुर्मंदाकिनी गंगा यमुना च सरस्वती।
गोदावरी विपाशा च कावेरी च शतह्रदा॥१६॥

सरयूश्चंद्रभागा श्च कौशिकी गंडकी शुचिः।
नर्मदा कर्मनाशा च चर्मण्वत्यथवेदिका॥१७॥

वेत्रवती वितस्ता च वरदा नरवाहना।
सती पतिव्रता साध्वी सुचक्षुः कुंडवासिनी॥१८॥

एकचक्षुः सहस्राक्षी सुश्रोणिर्भगमालिनी।
सेनाश्रोणिः पताका च सुव्यूहा युद्धकांक्षिणी॥१९॥

पताकिनी दयारंभा विपंची पंचमप्रिया।
परा परकला कांता त्रिशक्तिर्मोक्षदायिनी॥२०॥

ऐंद्री माहेश्वरी ब्राह्मी कौमारी कुलवसिनी।
इच्छा भगवती शक्तिः कामधेनुः कृपावती॥२१॥

वज्रायुधा वज्रहस्ता चंडी चंडपराक्रमा।
गौरी सुवर्णवर्णा च स्थितिसंहारकारिणी॥२२॥

एकानेका महेज्या च शतबाहुर्महाभुजा।
भुजंगभूषणा भूषा षट्चक्रक्रमवासिनी॥२३॥

षट्चक्रभेदिनी श्यामा कायस्था कायवर्जिता।
सुस्मिता सुमुखी क्षामा मूलप्रकृतिरीश्वरी॥२४॥

अजाच बहुवर्णा च पुरुषार्थप्रवर्तिनी।
रक्ता नीला सिता श्यामा कृष्णा पीता च कर्बुरा॥२५॥

क्षुधा तृष्णा जरा वृद्धा तरुणी करुणालया।
कला काष्ठा मुहूर्ता च निमिषा कालरूपिणी॥२६॥

सुवर्णरशना नासाचक्षुः स्पर्शवती रसा।
गंधप्रिया सुगंधा च सुस्पर्शा च मनोगतिः॥२७॥

मृगनाभिर्मृगाक्षी च कर्पूरामोदधारिणी।
पद्मयोनिः सुकेशी च सुलिंगा भगरूपिणी॥२८॥

योनिमुद्रा महामुद्रा खेचरी खगगामिनी।
मधुश्री र्माधवी वल्ली मधुमत्ता मदोद्धता॥२९॥

मातंगी शुकहस्ता च पुष्पबाणेक्षुचापिनी।
रक्तांबरधराक्षीबा रक्तपुष्पावतंसिनी॥३०॥

शुभ्रांबरधराधीरा मह श्वेता वसुप्रिया।
सुवेणी पद्महस्ता च मुक्ताहारविभूषणा॥३१॥

कर्पूरामोदनिःश्वासा पद्मिनी पद्यमंदिरा।
खड्गिनी चक्रहस्ता च भुशुंडी परिघायुधा॥३२॥

चापिनी पाशहस्ता च त्रिशूलवरधारिणी।
सुबाणा शक्तिहस्ता च मयूरवरवाहना॥३३॥

वरायुधधरा वीरा वीरपानमदोत्कटा।
वसुधा वसुधरा च जया शाकंभरी शिवा॥३४॥

विजया च जयंती च सुस्तनी शत्रुनाशिनी।
अंतर्वत्नी वेदशक्तिर्वरदावरधारिणी॥३५॥

शीतला च सुशीला च बालग्रहविनाशिनी।
कौमारी च सुपर्वा च कामाख्या कामवंदिता॥३६॥

जालंधरधरानंता कामरूपनिवासिनी।
कामबीजवती सत्या सत्यधर्मपरायणा॥३७॥

स्थूलमार्गस्थिता सूक्ष्मा सूक्ष्मबुद्धिप्रबोधिनी।
षट्कोणा च त्रिकोणा च त्रिनेत्रा त्रिपुरसुंदरी॥३८॥

वृषप्रिया वृषारूढा महिषासुरघातिनी।
शुंभदर्पहरा दीप्ता दीप्तपावकसन्निभा॥३९॥

कपालभूषणा काली कपालामाल्यधारिणी।
कपालकुंडला दीर्घा शिवदूतीघनध्वनिः॥४०॥

सिद्धिदा बुद्धिदा नित्या सत्यमार्गप्रबोधिनी।
कंबुग्रीवावसुमती छत्रच्छाया कृतालया॥४१॥

जगद्गर्भा कुंडलिनी भुजगाकारशायिनी।
प्रोल्लसत्सप्तपद्मा च नाभिनालमृणालिनी॥४२॥

मूलाधारा निराकारा वह्निकुंडकृतालया।
वायुकुंडसुखासीना निराधारा निराश्रया॥४३॥

श्वासोच्छ्वासगतिर्जीवग्राहिणी वह्निसंश्रया।
वल्लीतंतुसमुत्थाना षड्गसास्वादलोलुपा॥४४॥

तपस्विनी तपसिद्धि सप्तसा सिद्धिदायिनी।
तपोनिष्ठा तपोयुक्ता तापसी च तपःप्रिया॥४५॥

सप्तधातुमयीमूर्तिः सप्तधात्वंतराश्रया।
देहपुष्टिर्मनःपुष्टिरन्नपुष्टिर्बलोद्धता॥४६॥

औषधी वैद्यमाता च द्रव्यशक्तिप्रभाविनी।
वैद्या वैद्यचिकित्सा च सुपथ्यारोगनाशिनी॥४७॥

मृगया मृगमांसादा मृगत्वङ् मृगलोचना।
वागुराबंधरूपा च बंधरूपावधोद्धता॥४८॥

बंदी बंदिस्तुता कारागारबंधविमोचिनी।
शृंखला खलहा विद्या दृढबंधविमोचिनी॥४९॥

अंबिका बालिका चांबा स्वच्छा साधुजनार्चिता।
कालिकी कुलविद्या च सुकुला कुलपूजिता॥५०॥

कालचक्रभ्रमिर्भ्रांता विभ्रमाभ्रमनाशिनी।
वात्यावी मेघमाला च सुवृष्टिः सस्यवर्धिनी॥५१॥

अकारा च इकारा च उकारौकाररूपिणी।
ह्रिड्ङ्कार बीजरूपा च क्लीङ्काराम्बरवासिनी॥५२॥

सर्वाक्षरमयीशक्तिरक्षरा वर्णमालिनी।
सिन्दूरारुणवर्णा च सिन्दूरतिलकप्रिया॥५३॥

वश्या च वश्यबीजा च लोकवश्य विभाविनी।
नृपवश्या नृपैः सेव्या नृपवश्यकरप्रिया॥५४॥

महिषानृपमान्या च नृमान्या नृपनन्दिनी।
नृपधर्ममयी धन्या धनधान्यविवर्धिनी॥५५॥

चतुर्वर्णमयीमूर्तिश्चतुर्वर्णैश्च पूजिता।
सर्वधर्ममयीसिद्धि चतुराश्रमवासिनी॥५६॥

ब्राह्मणीक्षत्रियावैश्या शूद्राचावरवर्णजा।
वेदमार्गरता यज्ञा वेदिर्विश्वविभाविनी॥५७॥

अनुशस्त्रमयी विद्या वरशस्त्रास्त्रधारिणी।
सुमेधा सत्यमेधा च भद्रकाल्यपराजिता॥५८॥

गायत्री सत्कृतिस्सन्ध्या सावित्री त्रिपदाश्रया।
त्रिसन्ध्या त्रिपदी धात्री सुपर्वा सामगायिनी॥५९॥

पाञ्चाली बालिका बाला बालक्रीडा सनातनी।
गर्भाधारधराशून्या गर्भाशयनिवासिनी॥६०॥

सुरारिघातिनी कृत्या पूजना च तिलोत्तमा।
लज्जा रसवती नन्दा भवानी पापनाशिनी॥६१॥

पट्टाम्बरधरागीतिः सुगीतिर्ज्ञानलोचना।
सप्तस्वरमयी तन्त्री षड्जमध्यमदैवता॥६२॥

मर्छना ग्रामसंस्थाना मूर्छा सुस्थानवासिनी।
अटाट्टहासिनी प्रेता प्रेतासननिवासिनी॥६३॥

गीतनृत्यप्रियाकामा तुष्टिदा पुष्टिदाक्षया।
निष्ठा सत्यप्रिया प्राज्ञा लोलाक्षी च सुरोत्तमा॥६४॥

सविषा ज्वालिनी ज्वाला विश्वमोहार्तिनाशिनी।
विषारिर्नागदमनीकुरुकुल्याऽमृतोद्भवा॥६५॥

भूतभीतिहरारक्षा भूतावेशविनाशिनी।
रक्षोघ्नी राक्षसीरात्रिर्दीर्घनिद्रानिवारिणी॥६६॥

चन्द्रिका चन्द्रकान्तिश्च सूर्यकान्तिर्निशाचरी।
डाकिनी शाकिनी शिष्या हाकिनी चक्रवाकिनी॥६७॥

सिता सितप्रिया स्वङ्गा सकला वनदेवता।
गुरुरूपधरागुर्वी मृत्युर्मारी विशारदा॥६८॥

महामारी विनिद्रा च तन्द्रा मृत्युविनाशिनी।
चन्द्रमण्डलसङ्काशा चन्द्रमण्डलवासिनी॥६९॥

अणिमादिगुणोपेता सुस्पृहा कामरूपिणी।
अष्टसिद्धिप्रदा प्रौढा दुष्टदानवघातिनी॥७०॥

अनादिनिधना पुष्टिश्चतुर्बाहुश्चतुर्मुखी।
चतुस्समुद्रशयना चतुर्वर्गफलप्रदा॥७१॥

काशपुष्पप्रतीकाशा शरत्कुमुदलोचना।
भूता भव्या भविष्या च शैलजा शैलवासिनी॥७२॥

वाममार्गरता वामा शिववामाङ्गवासिनी।
वामचारप्रिया तुष्टिर्लोपामुद्रा प्रबोधिनी॥७३॥

भूतात्मा परमात्मा च भूतभावविभाविनी।
मङ्गला च सुशीला च परमार्थप्रबोधिनी॥७४॥

दक्षिणा दक्षिणामूर्तिः सुदीक्षा च हरिप्रसूः।
योगिनी योगयुक्ता च योगाङ्गा ध्यानशालिनी॥७५॥

योगपट्टधरा मुक्ता मुक्तानां परमा गतिः।
नारसिंहा नुजन्मा च त्रिवर्गफलदायिनी॥७६॥

धर्मदा धनदा चैका कामदा मोक्षदा द्युतिः ।
साक्षिणी क्षणदा दक्षा मोक्षदा कोटिरूपिणी॥७७॥

क्रतुः कात्यायनीस्वच्छा सुच्छंदा च कविप्रिया।
सत्यागमा बहिःस्था च काव्यशक्तिः कवित्वदा॥७८॥

मीनपुत्री सती माता मैनाकभगिनी तटित्।
सौदामनी सुदामा च सुधामा धामशालिनी॥७९॥

सौभाग्यदायिनी द्यौश्च सुभगा द्युतिवर्धिनी।
श्रीकृत्तिवसना चैव कंकाली कलिनाशिनी॥८०॥

रक्तबीज वधोद्युक्ता सुतंतुर्बीजसंततिः।
जगज्जीवा जगद्बीजा जगत्र्तयहितैषिणी॥८१॥

चामीकररुचि श्चंद्री साक्षाद्या षोडशीकला।
यत्तत्पदानुबंधा च यक्षिणी धनदार्चिता॥८२॥

चित्रिणी चित्रमाया च विचित्रा भुवनेश्वरी।
चामुंडा मुंडहस्ता च चंडमुंडवधोद्यता॥८३॥

अष्टम्येकादशी पूर्णा नवमी च चतुर्दशी।
अमा कलशहस्ता च पूर्णकुंभपयोधरा॥८४॥

अभीरूर्भैरवी भीरू भीमात्रिपुरभैरवी।
महारुंडा च रौद्री च महाभैरवपूजिता॥८५॥

निर्मुंडा हस्तिनीचंडा करालदशनानना।
कराला विकराला च घोरा घुर्घुरनादिनी॥८६॥

रक्तदंतोर्ध्वकेशी च बंधूककुसुमारुणा।
कादंबिनीपटासा च काश्मीरीकुंकुमप्रिया॥८७॥

क्षांतिर्बहुसुवर्णाच रतिर्बहुसुवर्णदा।
मातंगिनी वरारोहा मत्तमातंगगामिनी॥८८॥

हंसा हंसगतिर्हंसी इंसोज्ज्वलशिरोरुहा।
पूर्णचंद्रमुखी क्षामा स्मितास्या श्यामकुंडला॥८९॥

महिषी च लेखनी लेखा सुलेखा लेखकप्रिया।
शंखिनी शंखहस्ता च जलस्था जलदेवता॥९०॥

कुरुक्षेत्राऽवनिः काशी मधुरा कांच्यवंतिका।
अयोध्या द्वारका माया तीर्था तीर्थकरप्रिया॥९१॥

त्रिपुष्कराऽप्रमेया च कोशस्था कोशवासिनी।
कौशिकी तु कुशावर्ता कौशांबी कोशवर्धिनी॥९२॥

कोशदा पद्मकोशाक्षी कुसुंभकुसुमप्रिया।
तोतला च तुला कोटिः कोटस्था कोटराश्रया॥९३॥

स्वयंभूश्च सुरूपा च स्वरूपा पुण्यवर्धिनी।
तेजस्विनी सुभिक्षा च बलदा बलदायिनी॥९४॥

महाकोशी महावार्ता बुद्धिः सदसदात्मिका।
महाग्रहहरा सौम्या विशोका शोकनाशिनी॥९५॥

सात्विकी सत्त्वसंस्था च राजसी च रजोवृता।
तामसी च तमोयुक्ता गुणत्रयविभाविनी॥९६॥

अव्यक्ता व्यक्तरूपा च वेदविद्या च शाम्भवी।
शङ्करा कल्पिनी कल्पा मनस्सङ्कल्पसन्ततिः॥९७॥

सर्वलोकमयी शक्तिः सर्वश्रवणगोचरा।
सर्वज्ञानवती वाञ्छा सर्वतत्त्वावबोधिका॥९८॥

जाग्रतिश्च सुषुप्तिश्च स्वप्नावस्था तुरीयका।
सत्त्वरा मन्दरा मन्दा मन्दिरा मोदधारिणी॥९९॥

पानभूमिः पानपात्र पानदानकरोद्यता।
अपूर्णारुणनेत्रा च किंचिदव्यक्तभाषिणी॥१००॥

आशापूरा च दीक्षा च दक्षादीक्षितपूजिता।
नागवल्ली नागकन्या भोगिनी भोगवल्लभा॥ १०१ ॥

सर्वशास्त्रमयी विद्या सुस्मृतिर्धर्मवादिनी।
श्रुतिस्मृतिधरा ज्येष्ठा श्रेष्ठा पातालवासिनी॥१०२॥

मीमांसा तर्कविद्या च सुभक्तिर्भक्तवत्सला।
सुनाभिर्यातनाजाति र्गम्भीरा भाववर्जिता॥१०३॥

नागपाशधरामूर्ति रगाधा नागकुण्डला।
सुचक्रा चक्रमध्यस्था चक्रकोणनिवासिनी॥१०४॥

सर्वमन्त्रमयी विद्या सर्वमन्त्राक्षरावलिः।
मधुस्रवास्रवन्ती च भ्रामरी भ्रमरालका॥१०५॥

मातृमण्डलमध्यस्था मातृमण्डलवासिनी।
कुमारजननी क्रूरा सुमुखी ज्वरनाशिनी॥१०६॥

अतीता विद्यमाना च भाविनी प्रीतिमञ्जरी।
सर्वसौख्यवतीयुक्ति राहारपरिणामिनी॥१०७॥

निधाना पञ्चभूतानां भवसागरतारिणी।
अक्रूरा च ग्रहवती विग्रहा ग्रहवर्जिता॥१०८॥

रोहिणी भूमिगर्भा च कालभूः कालवर्तिनी।
कलङ्करहिता नारी चतुष्षष्ठ्यभिधावती॥१०९॥

जीर्णा च जीर्णवस्त्रा च नूतना नववल्लभा।
अरजा च रतिप्रीतिरतिरागविवर्धिनी॥११०॥

पञ्चवातगतिर्भिन्ना पञ्चश्लेष्माशयाधरा।
पञ्चपित्तवतीशक्तिः पञ्चस्थानविभाविनी॥१११॥

उदक्या च वृषस्यन्ती बहिः प्रस्रविणी त्र्यहा।
रजः शुक्रधराशक्तिर्जरायुर्गर्भधारिणी॥११२॥

त्रिकालज्ञा त्रिलिङ्गा च त्रिमूर्तिस्त्रिपुरवासिनी।
अरागा शिवतत्त्वा च कामतत्वानुरागिणी॥११३॥

प्राच्यवाची प्रतीची दिगुदीची दिग्विदिग्दिशा।
अहङ्कृतिरहङ्कारा बाला माया बलिप्रिया॥११४॥

स्रुक्स्रुवा सामिधेनी च सुश्रद्धा श्राद्धदेवता।
माता मातामही तृप्तिः पितृमाता पितामही॥११५॥

स्नुषा दौहित्रिणी पुत्री पौत्री नप्त्री शिशुप्रिया।
स्तनदा स्तनधारा च विश्वयोनिः स्तनन्धयी॥११६॥

शिशूत्सङ्गधरा दोला लोला क्रीडाभिनन्दिनी।
उर्वशी कदली केका विशिखा शिखिवर्तिनी॥११७॥

खट्वाङ्गधारिणी खट्वबाणपुङ्खानुवर्तिनी।
लक्ष्यप्राप्तिकरा लक्ष्यालक्ष्या च शुभलक्षणा॥११८॥

वर्तिनी सुपथाचारा परिखा च खनिर्वृतिः।
प्राकारवलया वेला मयादा च महोदधिः॥११९॥

पोषिणी शोषिणी शक्तिर्दीर्घकेशी सुलोमशा।
ललिता मांसला तन्वी वेदवेदांगधारिणी॥१२०॥

नरासृक्पानमत्ता च नरमुंडास्थिभूषणा।
अक्षक्रीडारतिः शारी सारिका शुकभाषिणी॥१२१॥

शांबरी गारुडी विद्या वारुणी वरुणार्चिता।
वाराही तुंडहस्ता च दंष्ट्रोद्धृतवसुंधरा॥१२२॥

मीनमूर्तिर्धरामूर्तिर्वदान्याऽप्रतिमाश्रया।
अमूर्ता निधिरूपा च शालग्रामशिलाशुचिः॥१२३॥

स्मृतिसंस्काररूपा च सुसंस्कारा च संस्कृतिः।
प्राकृता देशभाषा च गाधा गीति प्रहेलिका॥१२४॥

इडा च पिंगला पिंगा सुषुम्ना सूर्यवाहिनी।
शशिस्रवा च तालस्था काकिन्यमृतजीविनी॥१२५॥

अणुरूपा बृहद्रूपा लघुरूपा गुरुस्थिरा।
स्थावरा जंगमा देवी कृतकर्मफलप्रदा॥१२६॥

विषयाक्रांतदेहा च निर्विशेषा जितेंद्रिया।
विश्वरूपा चिदानंदा परब्रह्मप्रबोधिनी॥१२७॥

निर्विकारा च निर्वैरा विरतिः सत्यवर्धिनी ।
पुरुषाज्ञा च भिन्ना च क्षांतिः कैवल्यदायिनी॥१२८॥

विविक्तसेविनी प्रज्ञा जनयित्री बहुश्रुतिः।
निरीहा च समस्तैका सर्वलोकैकसेविता॥ १२९॥

सेवासेवा प्रियासेव्या सेवाफलविवर्धिनी।
कलौ कल्किप्रिया काली दुष्टम्लेच्छविनाशिनी॥१३०॥

प्रत्यक्षा च धनुर्यष्टिः खड्गधारा दुरानतिः।
अश्वप्लुतिश्च वल्गा च सृणिः सन्मृत्युवारिणी॥१३१॥

वीरभू र्वीरमाता च वीरसूर्वीरनंदिनी।
जयश्रीर्जयदीक्षा च जयदा जयवर्धिनी॥१३२॥

सौभाग्यसुभगाकारा सर्वसौभाग्यवर्धिनी।
क्षेमंकरी सिद्धिरूपा सत्कीर्तिः पथि देवता॥१३३॥

सर्वतीर्थमयीमूर्तिः सर्वदेवमयीप्रभा।
सर्वसिद्धिप्रदा शक्तिः सर्वमंगलमंगला॥१३४॥

पुण्यं सहस्रनामेदं शिवायाः शिवभाषितं।
यः पठेत्प्रातरुत्थाय शुचिर्भूत्वा समाहितः॥१३५॥

यश्चापि शृणुयान्नित्यं नरो निश्चलमानसः।
एककालं द्विकालं वा त्रिकालं श्रद्धयाऽन्वितः॥१३६॥

सर्वदुःखविनिर्मुक्तो धनधान्यसमन्वितः।
तेजस्वी बलवान् शूरः शोकरोगविवर्जितः॥१३७॥

यशस्वी कीर्तिमान् धन्यः सुभगो लोकपूजितः।
रूपवान्गुणसंपन्नः प्रभावीर्यसमन्वितः॥१३८॥

श्रेयांसि लभते नित्यं निश्चलां च शुभां श्रियं।
सर्वपापविनिर्मुक्तो लोभक्रोधविवर्जितः॥१३९॥

नित्यं बंधुसुतैर्दारैः पुत्रपौत्रैर्महोत्सवैः।
नंदितः सेवितोभृत्यैर्बहुभिः शुचिमानसैः॥१४०॥

विद्यानां पारगो विप्रः क्षत्रियो विजयी रणे।
वैश्यस्तु धनलाभाढ्यः शूद्रः सुखमवाप्नुयात्॥१४१॥

पुत्रार्थी लभते पुत्रं धनार्थी विपुलं धनं।
इच्छाकामं तु कामार्थी धर्मार्थी धर्ममक्षयं॥ १४२॥

कन्यार्थी लभते कन्यां रूपशीलगुणान्वितां।
क्षेत्रं च बहुसस्यं स्याद्गावस्तु बहुदुग्धदाः॥१४३॥

नाशुभं नापदस्तस्य न भयं नृपशत्रुतः।
जायते नाशुभा बुद्धिर्लभते कुलधुर्यताम्॥१४४॥

न बाधंते ग्रहास्तस्य न रक्षांसि न पन्नगाः।
न पिशाचो न डाकिन्यो भूतव्यंतरजंबुकाः॥१४५॥

बालग्रहाभिभूतानां बालानां शांतिकारकं।
द्वंद्वानां प्रीतिभेदेच मैत्रीकरणमुत्तमम्॥१४६॥

लोहपाशैर्दृढै र्बद्धो बद्धो वेश्मनि दुर्गमे।
तिष्ठन् शृण्वन्पठे न्मर्त्यो मुच्यते नात्र संशयः॥१४७॥

न दाराणां न पुत्राणां न बंधूनां न मित्रजं।
पश्यंति तेन शोकं हि वियोगं चिरजीविताम्॥१४८॥

अंधस्तु लभते दृष्टिं चक्षूरोगैर्न बाध्यते।
बधिरः श्रुतिमाप्नोति मूको वाचं शुभां नरः॥१४९॥

एतद्गर्भा च या नारी स्थिरगर्भा प्रजायते।
स्त्राविणी बद्धगर्भा च सुखमेव प्रसूयते॥१५०॥

कुष्ठिनः शीर्णदेहाये गतकेशनखत्वचः।
पठनाच्छ्रवणा द्वापि दिव्यकाया भवंति ते॥१५१॥

ये पठंति सदा मर्त्याः शुचिष्मंतो जितेंद्रियाः।
अपुत्राः प्राप्नुयुः पुत्रान् शृण्वंतोऽपि न संशयः॥१५२॥

महाव्याधिपरिग्रस्तास्तप्ता ये विविधैर्ज्वरैः।
भूताभिषंगसंघातैश्चातुर्थिकतृतीयकैः॥१५३॥

अन्यैश्च दारुणैरोगैः पीड्यमानाश्च मानवाः।
गतबाधाः प्रजायंते तैर्मुक्ता नात्र संशयः॥१५४॥

श्रुतिगंधधरो बालो दिव्यवादी कवीश्वरः।
पठनाच्छ्रवणाद्वापि भवत्येव न संशयः॥१५५॥

अष्टम्यां वा चतुर्दश्यां नवम्यां चैकचेतसः।
ये पठंति सदा, मर्त्या न ते वै दुःखभाजनाः॥१५६॥

नवरात्रं जिताहारो दृढभक्तिर्जितेंद्रियः।
चंडिकायतने विद्वांच्छुचिष्मान्मूर्तिसन्निधौ॥१५७॥

एकाकी तु शतावृत्या पठन्धीर श्च निर्भयः।
साक्षाद्भगवती तस्मै प्रयच्छेदीप्सितं फलम्॥१५८॥

सिद्धपीठे गिरौ रम्ये सिद्धक्षेत्रे सुरालये।
पठनात्साधकस्याशु सिद्धिर्भवति वांछिता॥१५९॥

दशावर्तं पठे द्यस्तु भूमिशायी नरः शुचिः।
स्वप्ने मूर्तिमयीं देवीं वरदां सोऽपि पश्यति॥१६०॥

कवित्वं संस्कृते तेषां शास्त्राणां व्याकृतौ ततः।
शक्तिः प्रोन्मील्यते शास्त्रेष्वनधीतेषु भारती॥१६१॥

आवर्तनसहस्रैर्ये पठंति पुरुषोत्तमाः।
से सिद्धाः सिद्धिदा लोके शापानुग्रहणे क्षमाः॥ १६२॥

नखरागशिरोरत्नद्विगुणीकृतरोचिषः।
प्रयच्छंतश्च सर्वस्वं सेवंते तान्महीश्वराः॥ १६३॥

रोचना लिखितं भूर्जे कुंकुंमेन शुभे दिने।
धारये द्यंत्रितं देहे पूजयित्वा कुमारिकाम्॥१६४॥

विप्राश्च वरनारीश्च धूपैः कुसुमचंदनैः।
श्रीरखंडाज्यभोज्यैश्च पूजयित्वा सुभूषिताः॥१६५॥

बध्नंति ये महारक्षां बालानां च विशेषतः।
भवंति नृपपूज्यास्ते कीर्तिभाजो यशस्विनः॥१६६॥

शत्रुतो न भयं तेषां दुर्जनेभ्योन राजतः।
न च दाराभिचारेभ्यो न दारिद्र्यं न पश्यति॥१६७॥

महार्णवे महानद्यां स्थितेऽपि च नभीः क्वचित्।
रणे द्यूते विवादे च विजयं प्राप्नुवंति ते॥१६८॥

नृपाश्च वश्यतां यांति नृपमान्या च ये नराः।
सर्वत्र पूजिता लोके बहुमानपुरस्सराः॥ १६९॥

रतिरागविवृद्धा श्च विह्वलाः कामपीडिताः।
यौवनाक्रांतदेहाश्च श्रयंते वामलोचनाः॥१७०॥

लिखितं मूर्ध्नि कंठे वा धारये द्यो रणे शुचिः।
शतधा युध्यमानं तं प्रतियोधो न पश्यति॥ १७१ ॥

केतौवा दुंदुभौ येषां तिष्ठते लिखितं रणे।
माया सैन्यपरिग्रस्तान्कांदिशीकान्हतौजसः॥ १७२॥

विचेतनान्विमूढांश्च शत्रुकृत्यविवर्जितान्।
निर्जित्य शत्रुसंघातान् लभते विजयं ध्रुवम्॥१७३॥

नाभिचारो न शाप श्च बाणवीरादिकीलनम्।
डाकिनीपूतनाकृत्या महामारी च शाकिनी॥१७४॥

भूताः प्रेताः पिशाचाश्च रक्षांसि व्यंतरादयः।
न वसंति गृहे देहे लिखितं यत्र तिष्ठति॥१७५॥

न शस्त्रानलतोयौघैर्भयं तस्योपजायते।
दुर्वृत्तानां च पापानां बलहानिकरं परम्॥१७६॥

मंदुराकरिशालासु गवां गोष्ठे समाहितः।
पठेत्तदोषशांत्यर्थं कूटं कपटनाशिनी॥ १७७॥

यमदूतान्न पश्यंति न ते निरययातनाम्।
प्राप्नुवंत्यक्षयं चांते शिवलोकं सनातनम्॥१७८॥

सर्वबाधासुघोरासु सर्वदुःखनिवारणम्।
सुमंगलकरं स्वर्ग्यं पठितव्यं समाहितैः॥ १७९॥

श्रोतव्यं च सदा भक्त्या परं स्वस्त्ययनं महत्।
पुण्यं सहस्रनामेदमंबाया रुद्रभाषितम्॥१८०॥

चतुर्वर्गप्रदं सत्यं नंदिकेन प्रकाशितम्।
नातः परतरो मंत्रो नातः परतरः स्तवः॥ १८१॥

नातः परतरा विद्या तीर्थं नातः परात्परम्।
ते धन्याः कृतपुण्यास्त त एव भुवि पूजिताः॥१८२॥

एकवारं मुदा नित्यं येऽर्चयंति महेश्वरीम्।
देवतानां देवताया ब्रह्माद्यर्या च पूजिता॥ १८३॥

भूयात्सा वरदा लोके साधूनां विश्वमंगला।
एतामेव पुराराध्यां विद्यां त्रिपुरभैरवीम्॥ १८४ ॥

त्रैलोक्यमोहिनीरूपामकार्षीद्भगवान्हरिः॥१८५॥

इति श्रीरुद्रयामले तंत्रे नंदिकेश्वरसंवादे महाप्रभावो भवानीनामसहस्रस्तोत्रं
संपूर्णम्॥

————

॥अन्नपूर्णाष्टोत्तरशतनामस्तोत्रम्॥

अस्य श्री अन्नपूर्णाष्टोत्तरशतनामस्तोत्रमहामन्त्रस्य, ब्रह्मा-ऋषिः, अनुष्टुप्छन्दः, श्रीअन्नपूर्णेत्यधि देवता, स्वधाबीजं, स्वाहा शक्तिः, ओं कीलकं, ममसर्वाभीष्टप्रसादसिद्ध्यर्थे जपे विनियोगः॥

ओं अन्नपूर्णाशिवादेवीभीमापुष्टि स्सरस्वती।
सर्वज्ञापार्वतीदुर्गा शर्वाणी शिववल्लभा॥१॥

वेदवेद्यामहाविद्याविद्यादात्रीविशारदा।
कुमारीत्रिपुरा बालालक्ष्मीश्श्रीर्भयहारिणी॥२॥

भवानीविष्णुजननी ब्रह्मादिजननीतथा।
गणेशजननी शक्तिः कुमारजननी शुभा॥३॥

भोगप्रदाभगवती भक्ताभीष्टप्रदायिनी।
भवरोगहरा भव्या शुभ्रा परममङ्गला॥४॥

भवानी चञ्चला गौरी चारुचन्द्रकलाधरा।
विशालाक्षी विश्वमाता विश्ववन्द्या विलासिनी॥ ५॥

आर्याकल्याणनिलयारुद्राणीकमलासना।
शुभप्रदाशुभावर्तावृत्तपनिपयोधरा॥६॥

अम्बा संहारमथनी मृडानी सर्वमङ्गला।
विष्णुसंसेवितासिद्धा ब्रह्माणीसुरसेविता॥७॥

परमानन्ददाशांतिः परमानन्दरूपिणी।
परमानन्दजननी परानन्दप्रदायिनी॥८॥

परोपकारनिरता परमाभक्तवत्सला।
पूर्णचन्द्राभवदना पूर्णचन्द्रनिभांशुका॥९॥

शुभलक्षणसंपन्ना शुभानन्दगुणार्णवा।
शुभसौभाग्यनिलया शुभदाच रतिप्रिया॥१०॥

चण्डिका चण्डमथनी चंण्डदर्पनिवारिणी।
मार्ताण्डनयना साध्वी चन्द्राग्निनयनासती॥११॥

पुण्डरीकहरापूर्णा पुण्यदापुण्यरूपिणी।
मायातीताश्रेष्ठमाया श्रेष्ठधर्मात्मवन्दिता॥ १२ ॥

असृष्टिस्सङ्गरहितासृष्टि हेतुःकपर्दिनी।
वृषारूढा शूलहस्ता स्थितिसंहारकारिणी॥१३॥

मन्दस्मिता स्कन्दमाता शुद्धचित्ता मुनिस्तुता।
महाभगवती दक्षा दक्षाध्वरविनाशिनी॥१४॥

सर्वार्थदात्री सावित्री सदाशिवकुटुम्बिनी।
नित्यसुन्दरसर्वाङ्गी सच्चिदानन्दलक्षणा॥१५॥

नाम्नामष्टोत्तरशत मम्बायाःपुण्यकारणम्।
सर्वसौभाग्यसिद्ध्यर्थं जपनीयं प्रयत्नतः॥१६॥

इदंजपाधिकारस्तु प्राणमेवततस्स्तुतः।
आवहन्तीतिमन्त्रेण प्रत्येकञ्च यथाक्रमम्॥१७॥

कर्तव्यं तर्पणं नित्यं पीठमंत्रेतिमूलवत्।
तत्तन्मन्त्रेतिहोमेति कर्तव्यश्चेतिमालवत्॥१८॥

एतानि दिव्यनामानि श्रुत्वा ध्यात्वा निरंतरम्।
स्तुत्वा देवीञ्च सततं सर्वान्कामानवाप्नुयात्॥ १९ ॥

इति श्रीब्रह्मोत्तरखण्डे, आगमप्रख्यातिशिवरहस्ये
अन्नपूर्णाष्टोत्तरशतनामस्तोत्रं समाप्तम्॥

__________

॥अन्नपूर्णासहस्रनामस्तोत्रम्॥

कैलासशिखरासीनं देवदेवं महेश्वरम्।
प्रणम्य दण्डवद्भूमौ पार्वती परिपृच्छति॥१॥

श्री पार्वत्युवाच —

अन्नपूर्णामहादेवी त्रैलोक्ये जीवधारिणी।
नाम्नां सहस्रं तस्यास्तुकथयस्व महाप्रभो॥२॥\

श्रीशिव उवाच—

शृणु देवि वरारोहे जगत्कारिणि कौलिनि।
आराधिता च सर्वेषां सर्वेषां परिपृच्छसि॥३॥

सहस्रैर्नामभिर्दिव्यै त्रैलोक्यप्राणिपूजितैः।
अन्नदायास्स्तवं दिव्यं यत्सुरैरपि वाञ्छितम्॥४॥

कथयामि तवस्नेहात्सावधानावधारय।
गोपनीयं प्रयत्नेन स्तवराज मिदं शुभम्॥५॥

न प्रकाश्यं त्वया भद्रे दुर्जनेभ्यो विशेषतः।
न देयं परशिष्येभ्यो भक्तिहीनाय पार्वति॥६॥

देयं शिष्याय शान्ताय गुरुदेवरताय च।
अन्नपूर्णास्तवं देयं कौलिकाय कुलेश्वरि॥७॥

ओं अस्य श्रीमन्महाश्रीअन्नपूर्णासहस्रनामस्तोत्रमालामन्त्रस्य, श्रीभगवान् सदाशिव ऋषिः, अनुष्टुप्छन्दः, प्रकटगुप्तगुप्ततरसम्प्रदाय कुलोत्तीर्णनिगर्भ रहस्यातिपूर्वाचिन्त्यप्रभावा भगवती श्रीमन्महा

श्रीअन्नपूर्णा देवता, हलो बीजं, स्वरा श्शक्तिः, जीवो बीजं, बुद्धिश्शक्तिः, उदानो बीजं, सुषुम्ना नाडी, सरस्वती शक्तिः, धर्मार्थकाममोक्षार्थे पाठे जपे विनियोगः॥

॥ध्यानम्॥

अर्कोन्मुक्तशशाङ्ककोटिवदनामापीनतुङ्गस्तनीं
चन्द्रार्धाङ्कितमस्तकां मधुमदामालोलनेत्रत्रयीम्।

बिभ्राणामनिशं वरं जपपटीं शूलं कपालं करै
राद्यां यौवनगर्वितां लिपितनुं वागीश्वरीमाश्रये॥९॥

ओं अन्नपूर्णायै नमः॥

अन्नपूर्णा अन्नदात्री अन्नराशिकृतालया।
अन्नदा अन्नरूपा च अन्नदानरतोत्सवा॥१॥

अनन्ता च अनन्ताक्षी अनन्तगुणशालिनी।
अच्युता अच्युतप्राणा अच्युतानन्तकारिणी॥२॥

अव्यक्ताऽनन्तमहिमा अनन्तस्य कुलेश्वरी।
अधिस्था अब्धिशयना अब्धिजा अब्धिनन्दिनी॥३॥

अब्जस्था अब्जनिलया अब्जजा अब्जभूषणा।
अब्जाभा अब्जहस्ता च अब्जपत्र शुभेक्षणा॥४॥

अब्जानना अनन्तात्मा अग्निस्था अग्निरूपिणी।
अग्निजाया अग्निमुखी अग्निकुण्डकृतालया॥५॥

अकारा अग्निमाता च अजयाऽदितिनन्दिनी।
आद्या आदित्यसङ्कासा आत्मज्ञा आत्मगोचरा॥६॥

आत्मसूरात्मदयिता आधारा आत्मरूपिणी।
आशा आकाशपद्मस्था अवकाशस्वरूपिणी॥७॥

आशापुरी अगाधा च अणिमादिसुसेविता।
अम्बिका अबला अम्बा अनाद्या च अयोनिजा॥८॥

अनीशा ईशिका ईशा ईशानी ईश्वरप्रिया।
ईश्वरी ईश्वरप्राणा ईश्वरानन्ददायिनी॥९॥

इन्द्राणी इन्द्रदयिता इन्द्रसूरिन्द्रपालिनी।
इन्दिरा इन्द्रभगिनी इन्द्रिया इन्दुभूषणा॥१०॥

इन्दुमाता इन्दुमुखी इन्द्रियाणां वशङ्करी।
उमा उमापतेः प्राणा ओड्याणौ पीठवासिनी॥११॥

उत्तरज्ञा उत्तराख्या उकारा उत्तरात्मिका
ऋसूता ऋभवा ऋस्था ऋलॄकारस्वरूपिणी॥१२॥

ऋकाराच ऌकाराच लॄतकप्रीतिदायिनी।
एका च एकवीरा च एकारैकाररूपिणी॥१३॥

ओकारी ओघरूपा च औघत्रयसुपूजिता।
ओघस्था ओघसम्भूता ओघधात्री च ओघसूः॥१४॥

षोडशस्वरसम्भूता षोडशस्वररूपिणी।
वर्णात्मा वर्णनिलया शूलिनी वर्णमालिनी॥१५॥

कालरात्रि र्महारात्रि र्मोहरात्रि स्सुलोचना।
काली कपालिनी कृत्या कालिका सिंहगामिनी॥१६॥

कात्यायनी कलाधारा कालदैत्यनिकृन्तनी।
कामिनी कामवन्द्या च कमनीया विनोदिनी॥ १७ ॥

कामसूः कामवनिता कामधूः कमलावती।
कामदात्री कराली च कामकेलिविनोदिनी॥ १८॥

कामना कामदा काम्या कमला कमलार्चिता।
काश्मीरलिप्तवक्षोजा काश्मीरद्रवचर्चिता॥१९॥

कनका कनकप्राणा कनकाचलवासिनी।
कनकाभा काननस्था कामाख्या कनकप्रदा॥२०॥

कामपीठस्थिता नित्याकामधामनिवासिनी।
कम्बुकण्ठी करालाक्षी किशोरी च ललाटिनी॥२१॥

कलाकाष्ठा निमेषाच्च कालस्था कामरूपिणी।
कालज्ञा कालमाता च कालधात्री कलावती॥२२॥

कालदा कालहा कुल्या कुरुकुल्या कुलाङ्गना।
कीर्तिदा कीर्तिहा कीर्तिः कीर्तिस्था कीर्तिवर्धिनी॥२३॥

कीर्तिज्ञा कीर्तितपदा कृत्तिका केशवप्रिया।
केशिहा केलिकारी च केशवानन्दकारिणी॥२४॥

कुमुदाभा कुमारी च कर्मदा कमलेक्षणा।
कौमुदी कुमुदानन्दा कौलिकी च कुमुद्वती॥२५॥

कोदण्डधारिणी क्रोधा कूटस्था कोटराश्रया।
कालकण्ठी करालाङ्गी कालाङ्गी कालभूषणा॥२६॥

कङ्काली कामदामा च कङ्कालकृतभूषणा।
कपालकर्तृककरा करवीरस्वरूपिणी॥२७॥

कपर्दिनी कोमलाङ्गी कृपासिन्धुः कृपामयी।
कुशावती कुण्डसंस्था कौबेरी कौशिकी तथा॥२८॥

काश्यपी कद्रुतनया कलिकल्मषनाशिनी।
कञ्जस्था कञ्जवदना कञ्जकिञ्जल्कचर्चिता॥२९॥।

कञ्जाभा कञ्जशैलस्था कञ्जनेत्रा कचोद्भवा।
कामरूपा च ह्रीङ्कारी कश्यपान्वयवर्धिनी॥३०॥

खर्वा च खञ्जनद्वन्द्वलोचना सर्ववाहिनी।
खड्गिनी खड्गहस्ता च खेचरी खड्गरूपिणी॥३१॥

खगस्था खगरूपा च खगगा खगसम्भवा।
खगधात्री खगानन्दा खगयोनिस्वरूपिणी॥३२॥

खगेशी खेटककरा खगानन्दविवर्धिनी।
स्वगमान्या खगाधारा खगगर्वविमोचनी॥३३॥

गङ्गा गोदावरी गीति र्गायत्री गगनालया।
गीर्वाणसुन्दरी गौश्च गाधा गीर्वाणपूजिता॥३४॥

गीर्वाणचर्चितपदा गान्धारी गोमती तथा।
गर्विणी गर्वहन्त्री च गर्भस्था गर्भधारिणी॥३५॥

गर्भदा गर्भहन्त्री च गन्धर्वकुलपूजिता।
गया गौरीच गिरिजा गिरिस्था गिरिसम्भवा॥३६॥

गिरिगह्वरमध्यस्था कुञ्जरेश्वरगामिनी।
किरीटिनी गदिनी गुञ्जाहारविभूषणा॥३७॥

गणपा गणका गण्या गणलानन्दकारिणी।
गणपूज्याच गीर्वाणा गणपानन्दवर्धिनी॥३८॥

गुरुमाता गुरुरता गुरुभक्तिपरायणा।
गोत्रा गौः कृष्णभागिनी कृष्णसूः कृष्णनन्दिनी॥३९॥

गोवर्धनी गोत्रधरा गोवर्धनकृतालया।
गोवर्धनधरा गोदा गौराङ्गी गौतमात्मजा॥४०॥

घर्घरा घोररूपा च घोरा घर्घरनादिनी।
श्यामा घनरवा घोरा घना घोरार्तिनाशिनी॥४१॥

घनस्था च घनानन्दा दारिद्र्य घननाशिनी।
चित्तज्ञा चिन्तितपदा चित्तस्था चित्तरूपिणी॥४२॥

चकिणी चारुचम्पाभा चारुचम्पकमालिनी।
चन्द्रिका चन्द्रकान्तिश्च चापिनी चन्द्रशेखरा॥४३॥

चण्डिका चण्डदैत्यघ्न्नी चन्द्रशेखरवल्लभा।
चण्डालिनी च चामुण्डा चण्डमुण्डवधोद्यता॥४४॥

चैतन्यभैरवी चण्डा चैतन्यघनगेहिनी।
चित्स्वरूपा चिदाधारा चण्डवेगा चिदालया॥४५॥

चन्द्रमण्डलमध्यस्था चन्द्रकोटिसुशीतला।
चपला चन्द्रभागिनी चन्द्रकोटिनिभानना॥४६॥

चिन्तामणिगुणाधारा चिन्तामणि विभूषणा।
भक्तचिन्तामणिलता चिन्तामणिकृतालया॥४७॥

चारुचन्दनलिप्ताङ्गी चतुरा च चतुर्मुखी।
चैतन्यदा चिदानन्दा चारुचामरवीजिता॥४८॥

छत्रदा छत्रधारी च छलच्छद्मविनाशिनी।
छत्रहा छत्ररूपा च छत्रच्छायाकृतालया॥ ४९ ॥

जगज्जीवा जगद्धात्री जगदानन्दकारिणी।
यज्ञप्रिया यज्ञरता जपयज्ञपरायणा॥५०॥

जननी जानकी यज्वा यज्ञहा यज्ञनन्दिनी।
यज्ञदा यज्ञफलदा यज्ञस्थानकृतालया॥५१॥

यज्ञभोक्त्री यज्ञरूपा यज्ञविघ्नविनाशिनी।
जपाकुसुमसङ्काशा जपाकुसुमशोभिता॥५२॥

जालन्धरी जया जैत्री जीमूतचयभाषिणी।
जयदा जयरूपाच जयस्था जयकारिणी॥५३॥

जगदीशप्रिया जीवा जलस्था जलजेक्षणा।
जलरूपा जह्नुकन्या यमुना जलजोदरी॥५४॥

जलजात्या जाह्नवी जलजाभा जलोदरी।
यदुवंशोद्भवा जीवा यादवानन्दकारिणी॥५५॥

यशोदा यशसां राशिर्यशोदानन्दकारिणी।

ज्वलिनी ज्वालिनी ज्वाला ज्वलत्पावकसन्निभा॥५६॥

ज्वालामुखी जगन्माता यमलार्जुनभञ्जनी।
+न्मदा जन्महा जन्मा जन्मभूर्जनकात्मजा॥५७॥

नानन्दा जाम्बवती जम्बूद्वीपकृतालया।

जम्बूनदसमानाभा जाम्बूनदविभूषणा॥५८॥

जम्भहा जातिदा जातिर्ज्ञानदा ज्ञानगोचरा।

+महा ज्ञानरूपा च ज्ञानविज्ञानशालिनी॥५९॥

+निजैत्री जिनाधरा जिनामाता जिनेश्वरी।

जितेन्द्रिया जनाधारा अजिनाम्बरधारिणी॥६०॥

++कोटिदुराधर्षा विष्णुकोटिविमर्दिनी।
मुद्रकोटिगम्भीरा वायुकोटिमहाबला॥६१॥

+कोटिप्रतीकाशा यमकोटिदुरापहा।
+++क्कोटिफलदा शक्रकोटिसुराज्यदा॥६२॥

+++कोटिलावण्या पद्मकोटिनिभानना।

+++कोटिजनाधारा अग्निकोटिभयङ्करी॥६३॥

++मा महिमा प्राप्तिर्गरिमा लघिमा तथा।

++का+दा वशकरी ईशिका सिद्धिदा तथा॥६४॥

++++गुणोपेता अणिमाद्यष्टसिद्धिदा।
+++ जनाधीना जामिनी च जरापहा॥६५॥

तरिणी तारिकातारा तोतला तुलसीप्रिया।
तन्त्रिणी तन्त्ररूपाच तन्त्रज्ञा तन्त्रधारिणी॥६६॥

तारहारा च तुलजा डाकिनी तन्त्रगोचरा।
त्रिपुरा त्रिदशात्रिस्था त्रिपुरासुरघातिनी॥६७॥

त्रिगुणा च त्रिकोणास्या त्रिमाना त्रितनुस्थिता।
त्रैविद्या च त्रयी त्रिघ्नी तुरीया त्रिपुरेश्वरी॥६८॥

त्रिकोदरस्था त्रिविधा त्रैलोक्या त्रिपुरात्मिका।
त्रिधाम्नी त्रिदशाराध्या त्र्यक्षा त्रिपुरवासिनी॥६९॥

त्रिवर्णा त्रिपदी तारा त्रिमूर्तिजननी त्वरा।
त्रिदिवा त्रिदिवेशानी देवी त्रैलोक्यधारिणी॥७०॥

त्रिमूर्तिश्च त्रिजननी त्रिभूस्त्रिपुरसुन्दरी।
तपस्विनी तपोनिष्ठा तरुणी ताररूपिणी॥७१॥

तामसी तापसी चैव तापघ्नी च तमोपहा।
तरुणार्कप्रतीकाशा तप्तकाञ्चनसन्निभा॥७२॥

उन्मादिनी तन्तुरूपा त्रैलोक्यव्यापिनीश्वरी।
तार्किकी तर्कविद्या च तापत्रयविनाशिनी॥७३॥

त्रिपुष्करा त्रिकालज्ञा त्रिसन्ध्या च त्रिलोचना।
त्रिवर्गा च त्रिवर्गस्था तपसस्सिद्धिदायिनी॥७४॥

अधोक्षजा अयोध्या च अपर्णा च अवन्तिका।
कारिका तीर्थरूपा च तीर्थतीर्थकरी तथा॥७५॥

दारिद्र्यदुःखदलिनी अदीना दीनवत्सला।
दीननाथप्रिया दीर्घा दयापूर्णा दयात्मिका॥७६॥

देवदानवसंपूज्या देवानां प्रियकारिणी।
दक्षपुत्री दक्षमाता दक्षयज्ञविनाशिनी॥७७॥

देवसूर्दक्षिणा दक्षा दुर्गा दुर्गतिनाशिनी।
देवकीगर्भसंभूता दुर्गदैत्यविनाशिनी॥७८॥

अट्टाट्टहासिनी दोला दोलाकर्माभिनन्दिनी।
देवकी देविका देवी दुरितघ्नी तटित्तथा॥७९॥

गण्डकी गल्लकी क्षिप्रा द्वारा द्वारवती तथा।
आनन्दोदधिमध्यस्था कटिसूत्रैरलङ्कृता॥८०॥

पाराग्निदाहदमनी दुःखदुस्स्वप्ननाशिनी।
श्रीमयी श्रीमती श्रेष्ठा श्रीकरी श्रीविभावनी॥८१॥

श्रीदा श्रीशा श्रीनिवासा श्रीमती श्रीमती गतिः।
अमदा दामिनी दान्ता धर्मदा धनशालिनी॥८२॥

दाडिमीपुष्पसङ्काशा धनागारा धनञ्जया।
धूम्नाभा धूम्रदैत्यग्नी धवला धवलप्रिया॥८३॥

धूम्रवक्त्रा धूम्रनेत्रा धूम्रकेशी च धूसरा।
धरणी धारणी धैर्या धरा धात्री च धैर्यदा॥८४॥

धमिनी धर्मिणी धूश्च दया दोग्ध्री दुरासदा।
नारायणी नारसिंही नृसिंहहृदयालया॥८५॥

नागिनी नागकन्या च नागसूर्नागनायिका।
नानारत्नविचित्राङ्गी नानाभरणमण्डिता॥८६॥

दुर्गस्था दुर्गरूपा च दुःखदुष्कृतनाशिनी।
ह्रीङ्गारीचैव श्रीङ्कारी हुङ्कारी क्लेशनाशिनी॥८७॥

नगात्मजा नागरीच नवीना नूतनप्रिया।
नीरजास्या नीरदाभा नवलावण्यसुन्दरी॥८८॥

नीतिज्ञा नीतिदा नीतिर्निम्ननाभिर्नगेश्वरी।
निष्ठा नित्या निरातङ्का नागयज्ञोपवीतिनी॥८९॥

निधिदा निधिरूपा च निर्गुणा नरवाहिनी।
नरमांसरता नारी नरमुण्डविभूषणा॥९०॥

निराधारा निर्विकारा नुतिर्निर्वाणसुन्दरी ।
नरासृक्पानमत्ता च निर्वैरा नागगामिनी॥९१॥

परमा प्रमिताप्राज्ञा पार्वती पर्वतात्मजा।
पर्वप्रिया पर्वरता पर्वपावनपावनी॥९२॥

परात्परतरा पूर्वा पश्चिमा पापनाशिनी।
पशूनां पतिपत्नी च पतिभक्तिपरायणी॥९३॥

परेशीपारगापारा परञ्जयोतिस्स्वरूपिणी।
निष्टुगक्रूरहृदया परासिद्धिः परागतिः॥ ९४ ॥

पशुघ्नीपशुरूपा च पशुहापशुवाहिनी।
पिता माता च यन्त्रीच पशुपाशविनाशिनी॥९५॥

पद्मिनी पद्महस्ता च पद्मकिञ्जल्कवासिनी।
पद्मवक्त्रा च पद्माक्षी पद्मस्था पद्मसंभवा॥९६॥

पद्मास्या पञ्चमी पूर्णा पूर्णपीठनिवासिनी।
पद्मरागप्रतीकाशा पाञ्चाली पञ्चमप्रिया॥९७॥

परब्रह्मस्वरूपा च परब्रह्मनिवासिनी।
परमानन्दमुदिता परचक्रविनाशिनी॥९८॥

परेशी परमा पृथ्वी पीनतुङ्गपयोधरा।
परावरापराविद्या परमानन्ददायिनी॥९९॥

पूजा प्रजावती पुष्टिः पिनाकी परिकीर्तिता।
प्राणहा प्राणरूपा च प्राणदा च प्रियंवदा॥१००॥

फणिभूता फणावेशी फकाराकुण्ठमालिनी।
फणिराड्वृतसर्वाङ्गी फलभागनिवासिनी॥१०१॥

फणिभद्रस्य भगिनी बाला बालप्रदायिनी।
फल्गुरूपा प्रलम्बघ्नी फल्गूत्सव विनोदिनी॥१०२॥

भवानी भवपत्नी च भवभीतिहरा भवा।

+++री भवाराध्या भवेशी भवदायिका॥१०३॥

+++ता भवागम्या भवकण्टकनाशिनी।
भावप्रिया भवानन्दा भव्या च भवमोचनी॥१०४॥

भावनीया भगवती भवभारविनाशिनी।
भूतधात्री च भूतेशी भूतस्था भूतरूपिणी॥१०५॥

भूतमाता च भूतघ्नी भूतपञ्चकवासिनी।
भोगोपचारकुशला भिस्साधात्री च भूचरी॥१०६॥

भीतिघ्नी भक्तिगम्या च भक्ताना मार्तिनाशिनी।
भक्तानुकम्पिनी भीमा भगिनीभगनायिका॥१०७॥

भगविद्या भगक्लिन्ना भगयोनिर्भगप्रदा।
भगेशी भगरूपा च भगगुह्मा भगापहा॥१०८॥

भगोदरी भगानन्दा भाग्यदा भगमालिनी।
भोगप्रदा भोगवासा भोगमूला च भोगिनी॥१०९॥

भेरुण्डा भेदिनी भीमा भद्रकाली भिदोइिझता।
भैरवी भुवनेशानी भुवना भुवनेश्वरी॥११०॥

भीमाक्षी भारतीचैव भैरवाष्टकसेविता।
भास्वरा भास्वती भीति र्भास्वदुत्तानशालिनी॥१११॥

भागीरथी भोगवती भवघ्नी भुवनात्मिका
भूतिदा भूतिरूपा च भूतस्था भूतवर्धिनी॥११२॥

माहेश्वरी महामाया महातेजा महासुरी।
महाजिह्वा महालोला महादंष्ट्रा महाभुजा॥११३॥

महामोहान्धकारघ्नी महामोक्षप्रदायिनी।
महादारिद्र्यशमनी महाशत्रुविमर्दिनी॥११४॥

महाशक्तिर्महाज्योति र्महासुरविमर्दिनी।
महाकाया महावीर्या महापातकनाशिनी॥११५॥

महारवा मन्त्रमयी मणिपूरनिवासिनी।
मानसी मानदा मान्या मनश्चक्षुरगोचरा॥११६ ॥

माहेन्द्री मधुरा माया महिषासुरमर्दिनी।
कुण्डलिनी शक्ति र्महाविभववर्धिनी॥ ११७ ॥

मानसी माधवी मेधा मतिदा मतिधारिणी।
मेनका गर्भसम्भूता मेनका भगिनी मतिः॥ ११८॥

महोदरी मुक्तकेशी मुक्तिकामार्थसिद्धिदा।
माहेशी महिषारूढा मधुदैत्यविमर्दिनी॥११९॥

महाव्रता महामूर्धा महाभयविनाशिनी।
मातङ्गी मत्तमातङ्गी मातङ्गकुलमण्डिता॥१२०॥

महाघोरा माननीया मत्तमातङ्गगामिनी।
मुक्ताहारलतोपेता मदघूर्णितलोचना॥१२१॥

महापराधराशिघ्नी महाचौरभयापहा।
महाचिन्त्यस्वरूपा च मणिमन्त्रमहौषधी॥१२२॥

मणिमण्डपमध्यस्था मणिमालाविराजिता।
मन्त्रात्मिका मन्त्रगम्या मन्त्रमाता सुमन्त्रिणी॥१२३॥

महमन्दिरमध्यस्था मकराकृतिकुण्डला।
मन्धरा च महासूक्ष्मा महादूती महेश्वरी॥१२४॥

मालिनी मानवी माध्वी मदरूपा मदोत्कटा।
मदिरा मधुरा चैव मोदिनी च महोद्धता॥ १२५॥

मङ्गलाङ्गी मधुमयी मधुपानपरायणा।
मनोरमा रमामाता राजराजेश्वरी रमा

राजमान्या राजपूज्या रक्तोत्पलविभूषणा।
राजीवलोचना रामा राधिका रामवल्लभा

शाकिनी डाकिनी चैव लावण्याम्बुधिवीचिका।
रुद्राणी रुद्ररूपा च रौद्रा रुद्रार्तिनाशिनी

रक्तप्रिया रक्तवस्त्रा रक्ताक्षी रक्तलोचना।
रक्तकेशी रक्तदंष्ट्रा रक्तचन्दनचर्चिता

रक्ताङ्गी रक्तभूषा च रक्तबीजनिपातिनी।
रागादिदोषरहिता रतिजा रतिदायिनी

विश्वेश्वरी विशालाक्षी विन्ध्यपीठनिवासिनी।
विश्वभू र्वीरविद्या च वीरसूर्वोरनन्दिनी

वीरेश्वरी विशालाक्षी विष्णुमाया विमोहिनी।
विद्यावी विष्णुरूपा च विशालनयनोत्पला

विष्णुमाता च विश्वात्मा विष्णुजायास्वरूपिणी।
ब्रह्मेशी ब्रह्मदा ब्राह्मी ब्रह्माणी ब्रह्मरूपिणी

द्वारका विश्ववन्द्या च विश्वपाशविमोचनी।
विश्वासकारिणी विश्वा विश्वशक्तिर्विचक्षणा

बाणचापधरा वीरा बिन्दुस्था बिन्दुमालिनी।
षट्चक्रमोदिनी षोढा षोडशारनिवासिनी

शितिकण्ठप्रिया शान्ता शाकिनी वातरूपिणी।
शाश्वती शम्भुवनिता शाम्भवी शिवरूपिणी॥१३६॥

शिवमाता च शिवदा शिवा शिवहृदासना।
शुक्लाम्बरा शीतलाच शीलशीलप्रदायिनी॥१३७॥

शिशुप्रिया वैद्यविद्या सालग्रमशिला शुचिः।
हरिप्रिया हरमूर्ति र्हरिनेत्रकृतालया॥ १३८॥

हरिवक्त्रोद्भवा हाला हरिवक्षस्स्थलस्थिता।
क्षेमङ्करी क्षितिक्षेत्रा क्षुधितस्य प्रपूरणी॥१३९॥

वैश्या च क्षत्रिया शूद्री क्षत्रियाणां कुलेश्वरी।
हरपत्नी हराराध्या हरसूर्हररूपिणी॥१४०॥

सर्वानन्दमयी सिद्धि स्सर्वरक्षास्वरूपिणी।
सर्वदुष्टप्रशमनी सर्वेप्सितफलप्रदा॥१४१॥

सर्वसिद्धेश्वराराध्या सर्वमङ्गल मङ्गला।
पुण्यं सहस्रनामेदं तव प्रीत्या प्रकाशितम्॥१४२॥

गोपनीयं प्रयत्नेन पठनीयं प्रयत्नतः।
नातः परतरं पुण्यं नातः परतरं तपः॥१४३॥

नातः परतरं स्तोत्रं नातः परतरा गतिः।
स्तोत्रं नामसहस्राख्यं मम वक्त्रा द्विनिर्गतम्॥१४४॥

यः पठेत्परया भक्त्या शृणुया द्वा समाहितः।
मोक्षार्थी लभते मोक्षं स्वर्गार्थी स्वर्गमाप्नुयात्॥१४५॥

कामार्थी लभते कामं धनार्थी लभते धनम्।
विद्यार्थी लभते विद्यां यशोऽर्थी लभते यशः॥१४६॥

कन्यार्थी लभते कन्यां सुतार्थी लभते सुतान्।
मूर्खोऽपि लभते शास्त्रं चोरोऽपि लभते गतिम्॥ १४७॥

गुर्विणी जनयेत्पुत्रं कन्या विन्दति सत्पतिम्।
संक्रान्त्यां च चतुर्दश्या मष्टम्यां च विशेषतः॥ १४८ ॥

पौर्णमास्या ममावास्यां नवभ्यां भौमवासरे।
पठेद्वा पाठयेद्वापि पूजयेद्वापि पुस्तकम्॥ १४९॥

समुक्तस्सर्वपापेभ्यः कामेश्वरसमो भवेत्।
लक्ष्मीवान् सुतवांश्चैव वल्लभ स्सर्वयोषिताम्॥ १५०॥

तस्य वश्यं भवेदाशु त्रैलोक्यं सचराचरम्।
विद्यानां पारगो विप्रः क्षत्रियो विजयी रणे॥ १५१ ॥

वैश्यो धनसमृद्ध स्स्याच्छूद्रस्सुख मवाप्नुयात्
क्षेत्रं च बहुसस्यं स्याद्गावश्च बहुदुग्धदाः॥१५२॥

नाशुभं नापदस्तस्य नभयं नृपशत्रुतः।
जायते नाशुभा बुद्धिर्लभते कुलपूज्यताम्॥१५३॥

नबाधन्ते ग्रहास्तस्य न रक्षांसि न पन्नगाः।
न पिशाचा न डाकिन्यो भूतभेतालडम्भकाः॥१५४॥

बालग्रहाभिभूतानां बालानां शान्तिकारकम्।
द्वन्द्वानां प्रीतिभेदे च मैत्रीकरणमुत्तमम्॥१५५॥

लोहपाशैर्दृढैर्बद्धो बन्दी वेश्मनि दुर्गमे।
तिष्ठञ्छृण्व न्पठन्मर्त्यो मुच्यते नात्र संशयः॥१५६॥

पश्यन्ति नहि ते शोकं वियोगं चिरजीविनः।
शृण्वती बद्धगर्भा च सुखं सैव प्रसूयते॥१५७॥

एकदा पठना देव सर्वपापक्षयो भवेत्।
नश्यन्ति च महारोगा दशधावर्तनेन च॥१५८॥

शतधावर्तनेचैव वाचां सिद्धिः प्रजायते।
नवरात्रे जिताहारो दृढबुद्धि र्जितेन्द्रियः॥१५९॥

अम्बिकायतने विद्वान् शुचिष्मान् मूर्तिसन्निधौ।
एकाकी च दशावर्तं पठन्धीरश्च निर्भयः॥ १६०॥

साक्षाद्भगवती तस्मै प्रयच्छे दीप्सितं फलम्।
सिद्धपीठे गिरौ रम्ये सिद्धेक्षत्रे सुरालये॥१६१॥

पठनात्साधकस्याशु सिद्धिर्भवति वाञ्छिता।
दशावर्तं पठेन्नित्यं भूमिशायी नरश्शुचिः॥ १६२॥

स्वप्ने मूर्तिमयीं देवीं वरदां सोऽपि पश्यति।
आवर्तनसहस्रैर्ये जपन्तिपुरुषोत्तमाः॥ १६३॥

वे सिद्धाः सिद्धिदा लोके शापानुग्रहणक्षमाः।
प्रयच्छन्तश्च सर्वस्वं सेवन्ते तान्महीश्वराः॥ १६४ ॥

भूर्जपत्रेष्टगन्धेन लिखित्वा तु शुभे दिने।
धारयेद्यन्त्रितं शीर्षे पूजयित्वा कुमारिकाम्॥१६५॥

ब्राह्मणान् वरनारीश्च धूपैः कुसुमचन्दनैः।
क्षीरखण्डादिभोज्यांश्च भोजयित्वा सुभक्तितः॥१६६॥

बध्नन्ति ये महारक्षां बालानां च विशेषतः।
रुद्रं दृष्ट्वा यथा देवा विष्णुं दृष्ट्वा च दानवाः॥१६७॥

पन्नगा गरुडं दृष्ट्वा सिंहं दृष्ट्वा यथा गजाः।
मण्डूका भोगिनं दृष्ट्वा मार्जारं मूषिकास्तथा॥१६८॥

विघ्नभूताः पलायन्ते तस्यवक्त्रविलोकनात्।
अग्निचौरभयं तस्य कदाचिन्नैव सम्भवेत्॥१६९॥

पातकान्विविधान्सोऽपि मेरुमन्दरसन्निभान्।
भस्मितान्कुरुते क्षिप्रं तृणं वह्नि हुतं यथा॥१७०॥

नृपाश्चवश्यतां यान्ति नृपपूज्याश्च ते नराः।
महार्णवे महानद्यां पोतस्थे च न भीः क्वचित्॥१७१॥

रणे द्यूते विवादे च विजयं प्राप्नुवन्तिते।
सर्वत्र पूजितो लोकै र्बहुमानपुरस्स्सरैः॥१७२॥

रतिरागविवृद्धाश्च विह्वलाः कामपीडिताः।
यौवनाक्रान्तदेहास्तान् श्रयन्ते वामलोचनाः॥ १७३॥

सहस्रं जपते यस्तु खेचरो जायते नरः।
सहस्रदशकं देवि यः पठेद्भक्तिमान्नरः॥ १७४॥

सा तस्य जगतां धात्री प्रत्यक्षा भवति ध्रुवम्।
लक्षं पूर्णं यदा देवीस्तोत्रराजं जपेत्सुधीः॥१७५॥

भवपाशविनिर्मुक्तो मम तुल्यो न संशयः।
सर्वतीर्थेषु यत्पुण्यं सर्वतीर्थेषु यत्फलम्॥१७६॥

सर्वधर्मेषु यज्ञेषु सर्वदानेषु यत्फलम्।
सर्ववेदेषु प्रोक्तेषु यत्फलं परिकीर्तितम्॥१७७॥

तत्पुण्यं कोटिगुणितं सकृज्जप्त्वा लभेन्नरः।
देहान्ते परमं स्थानं यत्सुरैरपि दुर्लभम्॥१७८।॥
सयास्यति न सन्देहस्स्तवराजस्य कीर्तनात्॥

इति श्री रुद्रयामले उत्तरखण्डे भवानीश्वरसंवादे
अन्नपूर्णासहस्रनामस्तोत्रं समाप्तम्॥

__________

श्रीललितासहस्रनामस्तोत्रे पूर्वभागः॥

अगस्त्य उवाच—

अश्वानन महाबुद्धे सर्वशास्त्रविशारद।
कथितंललितादेव्याश्चरितं परमाद्भुतम्॥१॥

पूर्वं प्रादुर्भवो मातुस्ततःपट्टाभिषेचनम्।
भण्डासुरवधश्चैव विस्तरेण त्वयोदितः॥२॥

वर्णितं श्रीपुरञ्चापि महाविभवविस्तरम्।
श्रीमत्पञ्चदशाक्षर्यामहिमा वर्णितस्तथा॥३॥

षोढा न्यासादयो न्यासा न्यासखण्डे समीरिताः।
अन्तर्यागक्रमश्चैव बहिर्यागक्रमस्तथा॥४॥

महायागक्रमश्चापि पूजाखण्डे प्रकीर्तितः।
पुरश्चरणखण्ढे तु जपलक्षणमीरितम्॥५॥

होमखण्डे त्वया प्रोक्तो होमद्रव्यविधिक्रमः।
चक्रराजस्य विद्यायाः श्रीदेव्या देशिकान्मनोः॥६॥

रहस्यखण्डे तादात्म्यं परस्परमुदीरितम्।
स्तोत्रखण्डे बहुविधाः स्तुतयः परिकीर्तिताः॥७॥

मन्त्रिणीदण्डिनीदेव्योः प्रोक्ते नामसहस्रके।
न तु श्रीललितादेव्याः प्रोक्तं नामसहस्रकम्॥८॥

तत्र मे संशयो जातो हयग्रीव दयानिधे।
किं वा त्वया विस्मृतं तज्ज्ञात्वा वा समुपेक्षितम्॥९॥

मम वा योग्यता नास्ति श्रोतुं नामसहस्रकम्।
किमर्थं भवता नोक्तं तत्र मे कारणं वद॥१०॥

सूत उवाच—

इति पृष्टो हयग्रीवो मुनिना कुम्भजन्मना।
प्रहृष्टो वचनं प्राह तापसं कुम्भसंभवम्॥११॥

श्रीहयग्रीव उवाचः—
लोपामुद्रापतेऽगस्त्य सावधानमनाः शृणु।
नाम्नां सहस्रं यन्नोक्तं कारणं तद्वदामि ते॥१२॥

रहस्यमिति मत्वाहं नोक्तवांस्ते न चान्यथा।
पुनश्च पृच्छते भक्त्या तस्मात्तत्ते तदाम्यहम्॥१३॥

ब्रूयाच्छिष्याय भक्ताय रहस्यमपि देशिकः।
भवता न प्रदेयं स्यादभक्ताय कदाचन॥१४॥

न शठाय न दुष्टाय नाविश्वासाय कर्हिचित्।
श्रीमातृभक्तियुक्ताय श्रीविद्या राजवेदिने॥१५॥

उपासकाय शुद्धाय देयं नामसहस्रकम्।
यानि नामसहस्राणि सद्यः सिद्धिप्रदानि वै॥१६॥

तन्त्रेषु ललितादेव्यास्तेषु मुख्यमिदं मुने।
श्रीविद्यैव तु मन्त्राणां तत्र कादिर्यथापरा॥१७॥

पुराणां श्रीपुरमिव शक्तीनां ललिता यथा।
श्रीविद्योपासकानां च यथा देवः परः शिवः॥१८॥

तथा नामसहस्रेषु परमेतत्प्रकीर्तितम्।
यथास्य पठनाद्देवी प्रीयते ललिताम्बिका॥१९॥

अन्यनामसहस्रस्य पाठान्न प्रीयते तथा।
श्रीमातुः प्रीतये तस्मादनिशं कीर्तयेदिदम्॥२०॥

बिल्वपत्रैश्चक्रराजे योऽर्चयेल्ललिताम्बिकाम्।
पद्मैर्वा तुलसीपुष्पै रेभिर्नामसहस्रकैः॥२१॥

सद्यः प्रसादं कुरुते तस्य सिंहासनेश्वरी।
चक्राधिराजमभ्यर्च्य जप्त्वापञ्चदशाक्षरीम्॥२२॥

जपान्ते कीर्तयन्नित्यमिदं नामसहस्रकम्।
जपपूजाद्यशक्तश्चेत्पठेन्नामसहस्रकम्॥२३॥

साङ्गार्चने साङ्गजपेतत्फलं तदवाप्नुयात्।
उपासने स्तुतीरन्याः पठेदभ्युदयो हि सः॥२४॥

इदं नामसहस्रं तु कीर्तयेन्नित्यकर्मवत्।
चक्रराजार्चनं देव्याजपो नाम्नां च कीर्तनम्॥२५॥

भक्तस्य कृत्यमेतावदन्यदभ्युदयंविदुः।
भक्त्यावश्यकमिदं नामसाहस्रकीर्तनम्॥२६॥

तत्र हेतुं प्रवक्ष्यामि शृणु त्वं कुम्भसंभव।
पुरा श्रीललितादेवी भक्तानां हितकाम्यया॥२७॥

वाग्देवीर्वशिनी मुख्याः समाहूयेदमब्रवीत्।
वाग्देवता वशिन्याद्याः शृणुध्वं वचनं मम॥२८॥

भवत्योमत्प्रसादेन प्रोल्लमद्वाग्विभूतयः।
मद्भक्तानां वाग्विभूतिप्रदाने विनियोजिताः॥२९॥

मच्चक्रस्य रहस्यज्ञा मम नामपरायणाः।
मम स्तोत्रविधानाय तस्मादाज्ञापयामि वः॥३०॥

कुरुध्वमङ्कितं स्तोत्रं मम नामसहस्रकैः।
येन भक्तैः स्तुताया मे सद्यः प्रीतिः परा भवेत्॥३१॥

इत्या

ज्ञप्तास्ततो देव्यः श्रीदेव्याललिताम्बया।
रहस्यैर्नामभिर्दिव्यैश्चक्रुः स्तोत्रमनुत्तमम्॥३२॥

रहस्यनामसाहस्रमिति तद्विश्रुतं परम्।
ततः कदाचित्सदसि स्थित्वा सिंहासनेऽम्बिका॥३३॥

स्वसेवावसरं प्रादात्सर्वेषां कुम्भसंभव।
सेवार्थमागतास्तत्र ब्रह्माणी ब्रह्मकोटयः॥३४॥

लक्ष्मीनारायणानां च कोटयः समुपागताः।
गौरीकोटिसमेतानां रुद्राणामपि कोटयः॥३५॥

मन्त्रिणीदण्डिनीमुख्याः सेवार्थं याः समागताः।
शक्तयो विविधाकारास्तासां संख्या न विद्यते॥३६॥

दिव्यौघा मानवौघाश्च सिद्धौघाश्च समागताः।
तत्र श्रीललितादेवी सर्वेषां दर्शनं ददौ॥३७॥

तेषु दृष्टोपविष्टेषु स्वे स्वे स्थाने यथाक्रमम्।
ततः श्रीललितादेवीकटाक्षाक्षेपचोदिताः॥३८॥

उत्थाय वशिनीमुख्या बद्धाञ्जलिपुटास्तदा।
अस्तुवन्नामसाहस्रैः स्वकृतैर्ललिताम्बिकाम्॥ ३९ ॥

श्रुत्वास्तवं प्रसन्नाभूल्ललिता परमेश्वरी।
ते सर्वे विस्मयं जग्नुर्ये तत्र सदसि स्थिताः॥४०॥

ततः प्रोवाच ललिता सदस्यान्देवतागणान्।
ममाज्ञयैव वाग्देव्यञ्चक्रुः स्तोत्रमनुत्तमम्॥४१॥

अङ्कितं नामभिर्दिव्यैर्मम प्रीतिविधायकैः।
सत्पठध्वं सदा यूयं स्तोत्रं मत्प्रीतिवृद्धये॥४२॥

प्रवर्तयध्वं भक्तेषु मम नामसहस्रकम्।
इयं नामसहस्रं मे यो भक्तः पठते सकृत्॥४३॥

स मे प्रियतमो ज्ञेयस्तस्मै कामान् ददाम्यहम्।
श्रीचक्रे मां समभ्यर्च्य जप्त्वा पञ्चदशाक्षरीम्॥४४॥

पञ्चान्नामसहस्रं मे कीर्तयेन्मम तुष्टये।
मामर्चयतु वा मा वा विद्यां जपतु वा न वा॥४५॥

कीर्तयेन्नामसाहस्रमिदं मत्प्रीतये सदा।
मत्प्रीत्या सकलान्कामांल्लभते नात्र संशयः॥४६॥

तस्मान्नामसहस्रं मे कीर्तयध्वं सदादरात्।
इति श्रीललितेशानी शास्ति देवान्सहानुगान्॥४७॥

तदाज्ञया तदारभ्य ब्रह्मविष्णुमहेश्वराः।
शक्तयो मन्त्रिणीमुख्या इदं नामसहस्रकम्॥४८॥

पठन्ति भक्त्या सततं ललितापरितुष्टये।
तस्मादवश्यं भक्तेन कीर्तनीयमिदं मुने॥४९॥

आवश्यकत्वे हेतुस्ते मया प्रोक्तो मुनीश्वर।
इदानीं नामसाहस्रं वक्ष्यामि श्रद्धया शृणु॥५०॥

इति श्रीब्रह्माण्डपुराणे श्री हयग्रीवागस्त्यसंवादे
श्रीललितानामसहस्रपूर्वभागो नाम प्रथमोऽध्यायः॥

_________

॥न्यासः॥

अस्य श्री ललितासहस्रनामस्तोत्रमहामन्त्रस्य। वशिन्यादिवाग्देवता ऋषयः। अनुष्टुप् छन्दः। श्रीललितापरमेश्वरी देवता।

श्रीमद्वाग्भवकूटेति बीजम्। मध्यकूटेति शक्तिः। शक्तिकूटेति कीलकम्। मूलप्रकृतिरिति ध्यानम्। श्रीललितामहात्रिपुरसुन्दरीप्रसादसिद्धिद्वारा चिन्तितफलावाप्त्यर्थे जपे विनियोगः॥

मूलमन्त्रेण अङ्गन्यासं करन्यासं कुर्यात् ॥

ध्यानम्—

सिन्दूरारुणविग्रहां त्रिणयनां माणिक्यमौलिस्फु-
रत्तारानायकशेखरां स्मितमुखीमापीनवक्षोरुहाम्।
पाणिभ्यामलिपूर्णरत्नचषकं रक्तोत्पलं बिभ्रतीं
सौम्यां रत्नघटस्थरक्तचरणां ध्यायेत्परामम्बिकाम्॥

अरुणां करुणातरङ्गिताक्षीं धृतपाशांकुशपुष्पबाणचापाम्।
अणिमादिभिरावृतां मयूखैरहमित्येव विभावये भवानीम्॥

ध्याये पद्मासनस्थां विकसितवदनां पद्मपत्रायताक्षीं
हेमाभां पीतवस्त्रां करकलितलसद्धेमपद्मां वराङ्गीम्।
सर्वालङ्कारयुक्तां सततमभयदां भक्तनम्रां भवानीं
श्रीविद्यां शान्तमूर्तिं सकलसुरनुतां सर्वसंपत्प्रदात्रीम्॥

सकुंकुमविलेपनामलिकचुंबिकस्तूरिकां
ममन्दहसितेक्षणां सशरचापपाशांकुशाम्।
अशेषजनमोहिनीमरुणमाल्यभूषांबरां
जपाकुसुमभासुरां जपविधौ स्मरेदंबिकाम्॥

लमित्यादिपञ्जपूजां कुर्यात्॥

__________

॥श्रीललितासहस्रनामस्तोत्रम्॥

श्रीमाता श्रीमहाराज्ञी श्रीमत्सिंहासनेश्वरी।
चिदग्निकुण्डसंभूता देवकार्यसमुद्यता॥१॥

उद्यद्भानुसहस्राभा चतुर्बाहुसमन्विता।
रागस्वरूपपाशाढ्या क्रोधाकारांकुशोज्ज्वला॥२॥

मनोरूपेक्षुकोदण्डा पञ्चतन्मात्रसायका।
निजारुणप्रभापूरमज्जद्ब्रह्माण्डमण्डला॥३॥

चम्पकाशोकपुन्नागसौगन्धिकलसत्कचा।
कुरुविन्दमणिश्रेणीकनत्कोटीरमण्डिता॥४॥

अष्टमीचन्द्रविभ्राजदलिकस्थलशोभिता।
मुखचन्द्रकलङ्काभमृगनाभिविशेषका॥५॥

वदनस्मरमाङ्गल्यगृहतोरणचिल्लिका।
वक्त्रलक्ष्मीपरीवाहचलन्मीनाभलोचना॥६॥

नवचम्पकपुष्पाभनासादण्डविराजिता।
ताराकान्तितिरस्कारिनासाभरणभासुरा॥७॥

कदम्बमञ्चरीक्लृप्तकर्णपूरमनोहरा।
ताटङ्कयुगलीभूततपनोडुपमण्डला॥८॥

पद्मरागशिलादर्शपरिभाविकपोलभूः।
नवविद्रुमबिम्बश्रीन्यक्कारिदशनच्छदा॥९॥

शुद्धविद्याङ्कुराकारद्विजपंक्तिद्वयोज्वला।
कर्पूरवीटिकामोदसमाकर्षद्दिगन्तरा॥१०॥

निजसल्लापमाधुर्यविनिर्भर्त्सितकच्छपी।
मन्दस्मितप्रभापूरमज्जत्कामेशमानसा॥११॥

अनाकलितसादृश्यचुबुकश्रीविराजिता।
कामेशबद्धमाङ्गल्यसूत्रशोभितकन्धरा॥१२॥

कनकाङ्गदकेयूरकमनीयभुजान्विता।
रत्नग्रैवेयचिन्ताकलोलमुक्ताफलान्विता॥१३॥

कामेश्वरप्रेमरत्नमणिप्रतिपणस्तनी।
नाभ्यालवालरोमलिलताफलकुचद्वयी॥१४॥

लक्ष्यरोमलताधारतासमुन्नेयमध्यमा।
स्तनभारदलन्मध्यपट्टबन्धवलित्रया॥१५॥

अरुणारुणकौसुम्भवस्त्रभास्वत्कटीतटी।
रत्नकिङ्किणिकारम्यरशनादामभूषिता॥१६॥

कामेशज्ञातसौभाग्यमार्दवोरुद्वयान्विता।
माणिक्यमकुटाकारजानुद्वयविराजिता॥१७॥

इन्द्रगोपपरिक्षिप्तस्मरतूणाभजङ्घिका।
गूढगुल्फा कूर्मपृष्ठजयिष्णुप्रपदान्विता॥१८॥

नखदीधितिसंछन्ननमज्जनतमोगुणा।
पदद्वयप्रभाजालपराकृतसरोरुहा॥१९॥

शिञ्जानमणिमञ्जीरमण्डितश्रीपदाम्बुजा।
मरालीमन्दगमना महालावण्यशेवधिः॥२०॥

सर्वारुणाऽनवद्याङ्गी सर्वाभरणभूषिता।
शिवकामेश्वराङ्कस्था शिवा स्वाधीनवल्लभा॥२१॥

सुमेरुमध्यशृङ्गस्था श्रीमन्नगरनायिका।
चिन्तामणिगृहान्तस्था पञ्चब्रह्मासनस्थिता॥२२॥

महापद्माटवीसंस्था कदम्बवनवासिनी।
सुधासागरमध्यस्था कामाक्षी कामदायिनी॥२३॥

देवर्षिगणसङ्घातस्तूयमानात्मवैभवा।
भण्डासुरवधोयुक्तशक्तिसेनासमन्विता॥२४॥

सम्पत्करी समारूढसिंधुरब्रजसेविता।
अश्वारूढाधिष्ठिताश्वकोटिकोटिभिरावृता॥२५॥

चक्रराजरथारूढसर्वायुधपरिष्कृता।
गेयचक्ररथारूढमन्त्रिणीपरिसेविता॥२६॥

किरिचक्ररथारूढदण्डनाथापुरस्कृता।
ज्वालामालिनिकाक्षिप्तवह्निप्राकारमध्यगा॥२७॥

भण्डसैन्यवधोद्युक्तशक्तिविक्रमहर्षिता।
नित्या पराक्रमाटोपनिरीक्षणसमुत्सुका॥२८॥

भण्डपुत्रवधोद्युक्तबालाविक्रमनन्दिता।
मन्त्रिण्यम्बाविरचितविषङ्गवधतोषिता॥२९॥

विशुक्रप्राणहरणवाराहीवीर्यनन्दिता।
कामेश्वरमुखालोककल्पितश्रीगणेश्वरा॥३०॥

महागणेशनिर्भिन्नविघ्नयन्त्रप्रहर्षिता।
भण्डासुरेन्द्रनिर्मुक्तशस्त्रप्रत्यस्त्रवर्षिणी॥३१॥

कराङ्गुलिनखोत्पन्ननारायणदशाकृतिः।
महापाशुपतास्त्राग्निनिर्दग्धासुरसैनिका॥३२॥

कामेश्वरास्त्रनिर्दग्धसभण्डासुरशून्यका।
ब्रह्मोपेन्द्रमहेन्द्रादिदेवसंस्तुतवैभवा॥३३॥

हरनेत्राग्निसंदग्धकामसंजीवनौषधिः।
श्रीमद्वाग्भवकूटैकस्वरूपमुखपङ्कजा॥३४॥

कण्ठाधःकटिपर्यन्तमध्यकूटस्वरूपिणी।
शक्तिकूटैकतापन्नकट्यधोभागधारिणी॥३५॥

मूलमन्त्रात्मिका मूलकूटत्रयकलेबरा।
कुलामृतैकरसिका कुलसंकेतपालिनी॥३६॥

कुलाङ्गना कुलान्तस्था कौलिनी कुलयोगिनी।
अकुला समयान्तस्था समयाचारतत्परा॥३७॥

मूलाधारैकनिलया ब्रह्मग्रन्थिविभेदिनी।
मणिपूरान्तरुदिता विष्णुग्रन्थिविभेदिनी॥३८॥

आज्ञाचक्रान्तरालस्था रुद्रग्रन्थिविभेदिनी।
सहस्राराम्बुजारूढा सुधासाराभिवर्षिणी॥३९॥

तटिल्लतासमरुचिः षट्चक्रोपरिसंस्थिता।
महाशक्तिः कुण्डलिनी बिसतन्तुतनीयसी॥४०॥

भवानी भावनागम्या भवारण्यकुठारिका।
भद्रप्रिया भद्रमूर्तिर्भक्तसौभाग्यदायिनी॥४१॥

भक्तिप्रिया भक्तिगम्या भक्तिवश्या भयापहा।
शांभवी शारदाराध्या शर्वाणी शर्मदायिनी॥४२॥

शांकरी श्रीकरी साध्वी शरच्चन्द्रनिभानना।
शातोदरी शान्तिमती निराधारा निरञ्जना॥४३॥

निर्लेपा निर्मला नित्या निराकारा निराकुला।
निर्गुणा निष्कलाशान्ता निष्कामा निरुपप्लवा॥४४॥

नित्यमुक्ता निर्विकारा निष्प्रपञ्चा निराश्रया।
नित्यशुद्धा नित्यबुद्धा निरवद्या निरन्तरा॥४५॥

निष्कारणा निष्कलङ्का निरुपाधिर्निरीश्वरी।
नीरागा रागमथना निर्मदा मदनाशिनी॥४६॥।

निश्चिन्ता निरहंकारा निर्मोहा मोहनाशिनी।
निर्ममा ममताहन्त्री निष्पापा पापनाशिनी॥४७॥

निष्क्रोधा क्रोधशमनी निर्लोभा लोभनाशिनी।
निःसंशया संशयघ्नी निर्भवा भवनाशिनी॥४८॥

निर्विकल्पा निराबाधा निर्भेदा भेदनाशिनी।
निर्नाशा मृत्युमथनी निष्क्रिया निष्परिग्रहा॥४९॥

निस्तुला नीलचिकुरा निरपाया निरत्यया।
दुर्लभा दुर्गमा दुर्गादुःखहन्त्री सुखप्रदा॥५०॥

दुष्टदूरा दुराचारशमनी दोषवर्जिता।
सर्वज्ञा सान्द्रकरुणा समानाधिकवर्जिता॥५१॥

सर्वशक्तिमयी सर्वमङ्गला सद्गतिप्रदा।
सर्वेश्वरी सर्वमयी सर्वमन्त्रस्वरूपिणी॥५२॥

सर्वयन्त्रात्मिका सर्वतन्त्ररूपा मनोन्मनी।
माहेश्वरी महादेवी महालक्ष्मीर्मृडप्रिया॥५३॥

महारूपा महापूज्या महापातकनाशिनी।
महामाया महासत्वा महाशक्तिर्महारतिः॥५४॥

महाभोगा महेश्वर्या महावीर्या महाबला।
महाबुद्धिर्महासिद्धि र्महायोगीश्वरेश्वरी॥५५॥

महातन्त्रा महामन्त्रा महायन्त्रा महासना।
महायागक्रमाराध्या महाभैरवपूजिता॥५६॥

महेश्वरमहाकल्पमहाताण्डवसाक्षिणी।
महाकामेशमहिषी महात्रिपुरसुन्दरी॥५७॥

चतुःषष्ट्युपचाराढ्या चतुःषष्टिकलामयी।
महाचतुःषष्टिकोटियोगिनीगणसेविता॥५८॥

मनुविद्या चन्द्रविद्या चन्द्रमण्डलमध्यगा।
चारुरूपा चारुहासा चारुचन्द्रकलाधरा॥५९॥

चराचरजगन्नाथा चक्रराजनिकेतना।
पार्वती पद्मनयना पद्मरागसमप्रभा॥६०॥

पञ्चप्रेतासनासीना पञ्चब्रह्मस्वरूपिणी।
चिन्मयी परमानन्दा विज्ञानघनरूपिणी॥ ६१॥

ध्यानध्यातृध्येयरूपा धर्माधर्मविवर्जिता।
विश्वरूपा जागरिणी स्वपन्ती तैजसात्मिका॥६२॥

सुप्ता प्राज्ञात्मिका तुर्या सर्वावस्थाविवर्जिता।
सृष्टिकर्त्री ब्रह्मरूपा गोप्त्री गोविन्दरूपिणी॥६३॥

संहारिणी रुद्ररूपा तिरोधानकरीश्वरी।
सदाशिवानुग्रहदा पञ्चकृत्यपरायणा॥६४॥

भानुमण्डलमध्यस्था भैरवी भगमालिनी।
पद्मासना भगवती पद्मनाभसहोदरी॥६५॥

उन्मेषनिमिषोत्पन्नविपन्नभुवनावली।
सहस्रशीर्षवदना सहस्राक्षी सहस्रपात्॥६६॥

आब्रह्मकीटजननी वर्णाश्रमविधायिनी।
निजाज्ञारूपनिगमा पुण्यापुण्यफलप्रदा॥६७॥

श्रुतिसीमन्तसिन्दूरीकृतपादाब्जधूलिका।
सकलागमसंदोहशक्तिसंपुटमौक्तिका॥६८॥

पुरुषार्थप्रदा पूर्णा भोगिनी भुवनेश्वरी।
अम्बिकानादिनिधना हरिब्रह्मेन्द्रसेविता॥६९॥

नारायणी नादरूपा नामरूपविवर्जिता।
ह्रींकारी ह्रीमती हृद्या हेयोपादेयवर्जिता॥७०॥

राजराजार्चिताराज्ञी रम्या राजीवलोचना।
रञ्चनी रमणी रस्या रणत्किङ्गिणिमेखला॥७१॥

रमा राकेन्दुवदना रतिरूपा रतिप्रिया।
रक्षाकरी राक्षसघ्नी रामा रमणलम्पटा॥७२॥

काम्या कामकलारूपा कदम्बकुसुमप्रिया।
कल्याणी जगतीकन्दा करुणारससागरा॥७३॥

कलावती कलालापा कान्ता कादम्बरीप्रिया।
वरदा वामनयना वारुणीमदविह्वला॥७४॥

विश्वाधिका वेदवेद्या विन्ध्याचलनिवासिनी।
विधात्री वेदजननी विष्णुमायाविलासिनी॥७५॥

क्षेत्रस्वरूपा क्षेत्रेशी क्षेत्रक्षेत्रज्ञपालिनी।
क्षयवृद्धिविनिर्मुक्ता क्षेत्रपालसमर्चिता॥७६॥

विजया विमला वन्द्या वन्दारुजनवत्सला।
वाग्वादिनी वामकेशी वह्निमण्डलवासिनी॥७७॥

भक्तिमत्कल्पलतिका पशुपाशाविमोचिनी।
संहृताशेषपाषण्डा सदाचारप्रवर्तिका॥७८॥

तापत्रयाग्निसंतप्तसमाह्लादनचन्द्रिका।
तरुणी तापसाराध्या तनुमध्या तमोऽपहा॥७९॥

चितिस्तत्पदलक्ष्यार्था चिदेकरसरूपिणी।
स्वात्मानन्दलवीभूतब्रह्माद्यानन्दसन्ततिः॥८०॥

परा प्रत्यक्चितीरूपा पश्यन्ती परदेवता।
मध्यमा वैखरीरूपा भक्तमानसहंसिका॥८१॥

कामेश्वरप्राणनाडी कृतज्ञा कामपूजिता।
शृङ्गाररससंपूर्णा जया जालन्धरस्थिता॥८२॥

ओड्याणपीठनिलया बिन्दुमण्डलवासिनी।
रहोयागक्रमाराध्या रहस्तर्पणतर्पिता॥८३॥

सद्यःप्रसादिनी विश्वसाक्षिणी साक्षिवर्जिता।
षडङ्गदेवतायुक्ता षाड्गुण्यपरिपूरिता॥८४॥

नित्यक्लिन्ना निरुपमा निर्वाणसुखदायिनी।
नित्यषोडशिकारूपा श्रीकण्ठार्धशरीरिणी॥८५॥

प्रभावती प्रभारूपा प्रसिद्धा परमेश्वरी।
मूलप्रकृतिरव्यक्ता व्यक्ताव्यक्तस्वरूपिणी॥८६॥

व्यापिनी विविधाकारा विद्याविद्यास्वरूपिणी।
महाकामेशनयनकुमुदाह्लादकौमुदी॥८७॥

भक्तहार्दतमोभेदभानुमद्भानुसंततिः।
शिवदूती शिवाराध्या शिवमूर्तिः शिवंकरी॥८८॥

शिवप्रिया शिवपरा शिष्टेष्टा शिष्टपूजिता।
अप्रमेया स्वप्रकाशा मनोवाचामगोचरा॥८९॥

चिच्छक्तिश्चेतनारूपा जडशक्तिर्जडात्मिका।
गायत्री व्याहृतिः सन्ध्या द्विजवृन्दनिषेविता॥९०॥

तत्त्वासना तत्त्वमयी पञ्चकोशान्तरस्थिता।
निःसीममहिमा नित्ययौवना मदशालिनी॥९१॥

मदघूर्णितरक्ताक्षी मदपाटलगण्डभूः।
चन्दनद्रवदिग्धाङ्गी चाम्पेयकुसुमप्रिया॥९२॥

कुशला कोमलाकारा कुरुकुल्ला कुलेश्वरी।
कुलकुण्डालया कौलमार्गतत्परसेविता॥९३॥

कुमारगणनाथाम्बा तृष्टिः पुष्टिर्मतिर्धृतिः।
शान्तिः स्वस्तिमती कान्तिर्नन्दिनी विघ्ननाशिनी॥९४॥

तेजोवती त्रिणयना लोलाक्षी कामरूपिणी।
मालिनी हंसिनी माता मलयाचलवासिनी॥९५॥

सुमुखी नलिनी सुभ्रूः शोभना सुरनायिका।
कालकण्ठी कान्तिमती क्षोभिणी सूक्ष्मरूपिणी॥९६॥

वज्रेश्वरी वामदेवी वयोवस्थाविवर्जिता।
सिद्धेश्वरी सिद्धविद्या सिद्धमाता यशस्विनी॥९७॥

विशुद्धिचक्रनिलयाऽऽरक्तवर्णा त्रिलोचना।
खट्वाङ्गादिप्रहरणा वदनैकसमन्विता॥९८॥

पायसान्नप्रिया त्वक्स्था पशुलोकभयंकरी।
अमृतादिमहाशक्तिसंवृता डाकिनीश्वरी॥९९॥

अनाहताब्जनिलया श्यामाभा वदनद्वया।
दंष्ट्रोज्ज्वलाऽक्षमालादिधरा रुधिरसंस्थिता॥१००॥

कालरात्र्यादिशक्त्योघवृता स्निग्धौदनप्रिया।
महावीरेन्द्रवरदा राकिण्यम्बास्वरूपिणी॥१०१॥

मणिपूराब्जनिलया वदनत्रयसंयुता।
वज्रादिकायुधोपेता डामर्यादिभिरावृता॥१०२॥

रक्तवर्णा मांसनिष्ठा गुडान्नप्रीतमानसा।
समस्तभक्तसुखदा लाकिन्यम्बास्वरूपिणी॥१०३॥

स्वाधिष्ठानाम्बुजगता चतुर्वक्त्रमनोहरा।
शूलाद्यायुधसंपन्ना पीतपर्णाऽतिगर्विता॥१०४॥

मेदोनिष्ठा मधुप्रीता वन्दिन्यादिसमन्विता।
दध्यन्नासक्तहृदया काकिनीरूपधारिणी॥१०५॥

मूलाधाराम्बुजारूढा पञ्चवक्त्राऽस्थिसंस्थिता।
अङ्कुशादिप्रहरणा वरदादिनिषेवेता॥१०६॥

मुद्गौदनासक्तचित्ता साकिन्यम्बास्वरूपिणी।
आज्ञाचक्राव्जनिलया शुक्लवर्णा षडानना॥१०७॥

मज्जासंस्था हंसवती मुख्यशक्तिसमन्विता।
हरिद्रान्नैकरसिका हाकिनीरूपधारिणी॥१०८॥

सहस्रदलपद्मस्था सर्ववर्णोपशोभिता।
सर्वायुधधरा शुक्लसंस्थिता सर्वतोमुखी॥१०९॥

सर्वोदनप्रीतचित्ता याकिन्यम्बास्वरूपिणी।
स्वाहा स्वधा मतिर्मेधा श्रुतिः स्मृतिरनुत्तमा॥११०॥

पुण्यकीर्तिः पुण्यलभ्या पुण्यश्रवणकीर्तना।
पुलोमजार्चिता बन्धमोचनी बन्धुरालका॥१११॥

विमर्शरूपिणी विद्या वियदादिजगत्प्रसूः।
सर्वव्याधिप्रशमनी सर्वमृत्युनिवारिणी॥ ११२॥

अग्रगण्याऽचिन्त्यरूपा कलिकल्मषनाशिनी।
कात्यायनी कालहन्त्री कमलाक्षनिषेविता॥११३॥

ताम्बूलपूरितमुखी दाडिमीकुसुमप्रभा।
मृगाक्षी मोहिनी मुख्या मृडानी मित्ररूपिणी॥ ११४ ॥

नित्यतृप्ता भक्तनिधिर्नियन्त्री निखिलेश्वरी।
मैत्र्यादिवासनालभ्या महाप्रलयसाक्षिणी॥११५॥

पराशक्तिः परानिष्ठा प्रज्ञानघनरूपिणी।
माध्वीपानालसा मत्ता मातृकावर्णरूपिणी॥ ११६॥

महाकैलासनिलया मृणालमृदुदोर्लता।
महनीया दयामूर्तिर्महासाम्राज्यशालिनी॥११७॥

आत्मविद्या महाविद्या श्रीविद्या कामसेविता।
श्रीषोडशाक्षरीविद्या त्रिकूटा कामकोटिका॥११८॥

कटाक्षकिङ्करीभूतकमलाकोटिसेविता।
शिरःस्थिता चन्द्रनिभा भालस्थेंद्रधनुःप्रभा॥११९॥

हृदयस्था रविप्रख्या त्रिकोणानन्तरदी

पिका।
दाक्षायणी दैत्यहन्त्री दक्षयज्ञविनाशिनी॥१२०॥

दरान्दोलितदीर्घाक्षी दरहासोज्जलन्मुखी।
गुरुमूर्तिर्गुणनिधिर्गोमाता गुहजन्मभूः॥१२१॥

देवेशी दण्डनीतिस्था दहराकाशरूपिणी।
प्रतिपन्मुख्यराकान्ततिथिमण्डलपूजिता॥१२२॥

कलात्मिका कलानाथा काव्यालापविनोदिनी।
सचामररमावाणीसव्यदक्षिणसेविता॥१२३॥

आदिशक्तिरमेयात्मा मनसा पावनाकृतिः।
अनेककोटिब्रह्माण्डजननी दिव्यविग्रहा॥१२४॥

क्लीङ्कारी केवला गुह्या कैवल्यपददायिनी।
त्रिपुरा त्रिजगद्वन्द्या त्रिमूर्तिस्त्रिदशेश्वरी॥१२५॥

त्र्यक्षरी दिव्यगन्धाढ्या सिन्दूरतिलकाञ्चिता।
उमा शैलेन्द्रतनया गौरी गन्धर्वसेविता॥१२६॥

विश्वगर्भा स्वर्णगर्भा वरदा वागधीश्वरी।
ध्यानगम्याऽपरिच्छेद्या ज्ञानदा ज्ञानविग्रहा॥१२७॥

सर्ववेदान्तसंवेद्या सत्यानन्दस्वरूपिणी।
लोपामुद्रार्चिता लीलाक्लृप्तब्रह्माण्डमण्डला॥१२८॥

अदृश्या दृश्यरहिता विज्ञात्री वेद्यवर्जिता।
योगिनी योगदा योग्या योगानन्दा युगन्धरा॥१२९॥

इच्छाशक्तिज्ञानशक्तिक्रियाशक्तिस्वरूपिणी।
सर्वाधारा सुप्रतिष्ठा सदसद्रूपधारिणी॥१३०॥

अष्टमूर्तिरजाजैत्री लोकयात्राविधायिनी।
एकाकिनी भूमरूपा निर्द्वैता द्वैतवर्जिता॥१३१॥

अन्नदा वसुदा वृद्धा ब्रह्मात्मैक्यस्वरूपिणी।
बृहती ब्राह्मणी ब्राह्मी ब्रह्मानन्दा बलिप्रिया॥१३२॥

भाषारूपा बृहत्सेना भावाभावविवर्जिता।
सुखाराध्या शुभकरी शोभना सुलभागातिः॥ १३३॥

राजराजेश्वरी राज्यदायिनी राज्यवल्लभा।
राजत्कृपा राजपीठनिवेशितनिजाश्रिता॥१३४॥

राज्यलक्ष्मीः कोशनाथा चतुरङ्गबलेश्वरी।
साम्राज्यदायिनी सत्यसन्धा सागरमेखला॥ १३५॥

दीक्षिता दैत्यशमनी सर्वलोकवशंकरी।
सर्वार्थदात्री सावित्री सच्चिदानन्दरूपिणी॥१३६॥

देशकालापरिच्छिन्ना सर्वगा सर्वमोहिनी।
सरस्वती शास्त्रमयी गुहाम्बा गुह्यरूपिणी॥१३७॥

सर्वोपाधिविनिर्मुक्ता सदाशिवपतिव्रता।
संप्रदायेश्वरी साध्वी गुरुमण्डलरूपिणी॥१३८॥

कुलोत्तीर्णा भगाराध्या माया मधुमती मही।
गणाम्बा गुह्यकाराध्या कोमलाङ्गी गुरुप्रिया॥१३९॥

स्वतन्त्रा सर्वतन्त्रेशी दक्षिणामूर्तिरूपिणी।
सनकादिसमाराध्या शिवज्ञानप्रदायिनी॥१४०॥

चित्कलानन्दकलिका प्रेमरूपा प्रियंकरी।
नामपारायणप्रीता नन्दिविद्या नटेश्वरी॥१४१॥

मिथ्याजगदधिष्ठाना मुक्तिदा मुक्तिरूपिणी।
लास्यप्रिया लयकरी लज्जा रम्भादिवन्दिता॥१४२॥

भवदावसुधावृष्टिः पापारण्यदवानला।
दौर्भाग्यतूलवातूला जराध्वान्तरविप्रभा॥१४३॥

भाग्याब्धिचन्द्रिका भक्तचित्तकेकिघनाघना।
रोगपर्वतदम्भोलिमृत्युदारुकुठारिका॥१४४॥

महेश्वरी महाकाली महाग्रासा महाशना।
अपर्णा चण्डिका चण्डमुण्डासुरनिषूदिनी॥१४५॥

क्षराक्षरात्मिका सर्वलोकेशी विश्वधारिणी।
त्रिवर्गदात्री सुभगा त्र्यम्बका त्रिगुणात्मिका॥१४६॥

स्वर्गापवर्गदा शुद्धा जपापुष्पनिभाकृतिः।
ओजोवती द्युतिधरा यज्ञरूपा प्रियव्रता॥१४७॥

दुराराध्या दुराधर्षा पाटलीकुसुमप्रिया।
महती मेरुनिलया मन्दारकुसुमप्रिया॥१४८॥

वीराराध्या विराड्रूपा विरजा विश्वतोमुखी।
प्रत्यकूरूपा पराकाशा प्राणदा प्राणरूपिणी॥१४९॥

मार्ताण्डभैरवाराध्या मन्त्रिणीन्यस्तराज्यधूः।
त्रिपुरेशी जयत्सेना निस्त्रैगुण्या परात्परा॥१५०॥

सत्यज्ञानानन्दरूपा सामरस्यपरायणा।
कपर्दिनी कलामाला कामधुक्कामरूपिणी॥१५१॥

कलानिधिः काव्यकला रसज्ञा रसशेवधिः।
पुष्टा पुरातना पूज्या पुष्करा पुष्करेक्षणा॥१५२॥

परंज्योतिः परंधाम परमाणुः परात्परा।
पाशहस्ता पाशहन्त्री परमन्त्रविभेदिनी॥१५३॥

मूर्ताऽमूर्ता नित्यतृप्ता मुनिमानसहंसिका।
सत्यव्रता सत्यरूपा सर्वान्तर्यामिनी सती॥१५४॥

ब्रह्माणी ब्रह्मजननी बहुरूपा बुधार्चिता।
प्रसवित्री प्रचण्डाज्ञा प्रतिष्ठा प्रकटाकृतिः॥१५५॥

प्राणेश्वरी प्राणदात्री पञ्चाशत्पीठरूपिणी।
विशृङ्खला विविक्तस्था वीरमाता वियत्प्रसूः॥१५६॥

मुकुन्दा मुक्तिनिलया मूलविग्रहरूपिणी।
भावज्ञा भवरोगघ्नी भवचक्रप्रवर्तिनी॥१५७॥

छन्दःसारा शास्त्रसारा मन्त्रसारा तलोदरी।
उदारकीर्तिरुद्दामवैभवा वर्णरूपिणी॥ १५८॥

जन्ममृत्युजरातप्तजनविश्रान्तिदायिनी।
सर्वोपनिषदुद्धुष्टा शान्त्यतीतकलात्मिका॥१५९॥

गभ्मीरा गगनान्तस्था गर्विता गानलोलुपा।
कल्पनारहिता काष्ठाऽकान्ता कान्तार्धविग्रहा॥१६०॥

कार्यकारणनिर्मुक्ताकामकेलीतरङ्गिता।
कनत्कनकताटङ्का लीलाविग्रहधारिणी॥१६१॥

अजा क्षयविनिर्मुक्ता मुग्धाक्षिप्रप्रसादिनी।
अन्तर्मुखसमाराध्या बहिर्मुखसुदुर्लभा॥१६२॥

त्रयी त्रिवर्गनिलया त्रिस्था त्रिपुरमालिनी।
निरामया निरालम्बा स्वात्मारामा सुधासृतिः॥१६३॥

संसारपङ्कनिर्मग्नसमुद्धरणपण्डिता।
यज्ञप्रिया यज्ञकर्त्री यजमानस्वरूपिणी॥१६४॥

धर्माधारा धनाध्यक्षा धनधान्यविवर्धिनी।
विप्रप्रिया विप्ररूपा विश्वभ्रमणकारिणी॥१६५॥

विश्वग्रासा विद्रुमाभा वैष्णवी विष्णुरूपिणी।
अयोनिर्योनिनिलया कूटस्था कुलरूपिणी॥१६६॥

वीरगोष्ठीप्रिया वीरा नैष्कर्म्या नादरूपिणी।
विज्ञानकलना कल्या विदग्धा बैन्दवासना॥१६७॥

तत्त्वाधिका तत्त्वमयी तत्त्वमर्थस्वरूपिणी।
सामगानप्रिया सौम्या सदाशिवकुटुम्बिनी॥१६८॥

सव्यापसव्यमार्गस्था सर्वापद्विनिवारिणी।
स्वस्था स्वभावमधुरा धीरा धीरसमर्चिता॥१६९॥

चैतन्यार्घ्यसमाराध्या चैतन्यकुसुमप्रिया।
सदोदिता सदातुष्टा तरुणादित्यपाटला॥१७०॥

दक्षिणादक्षिणाराध्या दरस्मेरमुखाम्बुजा।
कौलिनीकेवलाऽनर्घ्यकैवल्यपददायिनी॥ १७१ ॥

स्तोत्रप्रिया स्तुतिमती श्रुतिसंस्तुतवैभवा।
मनस्विनी मानवती महेशी मङ्गलाकृतिः॥१७२॥

विश्वमाता जगद्धात्री विशालाक्षी विरागिणी।
प्रगल्भा परमोदारा परामोदा मनोमयी॥१७३॥

व्योमकेशी विमानस्था वज्रिणी वामकेश्वरी।
पञ्चयज्ञप्रिया पञ्चप्रेतमञ्चाधिशायिनी॥१७४॥

पञ्चमी पञ्चभूतेशी पञ्चसङ्ख्योपचारिणी।
शाश्वती शाश्वतैश्वर्या शर्मदा शंभुमोहिनी॥१७५॥

धरा धरसुता धन्या धर्मिणी धर्मवर्धिनीI
लोकातीता गुणातीता सर्वातीता शमात्मिका॥१७६॥

बन्धूककुसुमप्रख्या बाला लीलाविनोदिनी।
सुमङ्गली सुखकरी सुवेषाढ्या सुवासिनी॥ १७७॥

सुवासिन्यर्चनप्रीता शोभना शुद्धमानसा।
बिन्दुतर्पणसंतुष्टा पूर्वजा त्रिपुराम्बिका॥१७८॥

दशमुद्रासमाराध्या त्रिपुरा श्रीवशंकरी।
ज्ञानमुद्रा ज्ञानगम्या ज्ञानज्ञेयस्वरूपिणी॥१७९॥

योनिमुद्रा त्रिखण्डेशी त्रिगुणाऽम्बा त्रिकोणगा।
अनघाऽद्भुतचारित्रा वाञ्छितार्थप्रदायिनी॥१८०॥

अभ्यासातिशयज्ञाता षडध्वातीतरूपिणी।
अव्याजकरुणामूर्तिरज्ञानध्वान्तदीपिका॥ १८१॥

आबालगोपविदिता सर्वानुल्लङ्घ्यशासना।
श्रीचक्रराजनिलया श्रीमत्त्रिपुरसुन्दरी॥ १८२॥

श्रीशिवा शिवशक्त्यैक्यरूपिणी ललिताम्बिका।
एवं श्रीललितादेव्या नाम्नां साहस्रकं जगुः॥ १८३ ॥

इति श्रीब्रह्माण्डपुराणे उत्तरखण्डे श्रीहयग्रीवागस्त्यसंवादे
श्रीललितासहस्रनामस्तोत्रकथनं नाम
द्वितीयोऽध्यायः॥

__________

॥फलश्रुतिः॥

इत्येतन्नामसाहस्रं कथितं ते घटोद्भव।
रहस्यानां रहस्यं च ललिताप्रीतिदायकम्॥ १ ॥

अनेन सदृशं स्तोत्रं न भूतं न भविष्यति।
सर्वरोगप्रशमनं सर्वसंपत्प्रवर्धनम्॥२॥

सर्वापमृत्युशमनं कालमृत्युनिवारणम्।
सर्वज्वरार्तिशमनं दीर्घायुष्यप्रदायकम्॥३॥

पुत्रप्रदमपुत्राणां पुरुषार्थप्रदायकम्।
इदं विशेषाच्छ्रीदेव्याः स्तोत्रं प्रीतिविधायक्रम्॥४॥

जपेन्नित्यं प्रयत्नेन ललितोपास्तितत्परः।
प्रातः स्नात्वा विधानेन सन्ध्याकर्म समाप्य च॥५॥

पूजागृहं ततो गत्वा चक्रराजं समर्चयेत्।
विद्यां जपेत् सहस्रं वा त्रिशतं शतमेव वा॥६॥

रहस्यनामसाहस्रमिदं पश्चात्पठेन्नरः।
जन्ममध्ये सकृच्चापि य एतत्पठते सुधीः॥७॥

तस्य पुण्यफलं वक्ष्ये शृणु त्वं कुम्भसंभव।
गङ्गादिसर्वतीर्थेषु यः स्नायात्कोटिजन्मसु॥८॥

कोटिलिङ्गप्रतिष्ठां च यः कुर्यादविमुक्तके।
कुरुक्षेत्रे तु यो दद्यात्कोटिवारं रविग्रहे॥९॥

कोटिं सौवर्णभाराणां श्रोत्रियेषु द्विजन्मसु।
यः कोटिं हयमेधानामाहरेद्गाङ्गरोधसि॥१०॥

आचरेत्कूपकोटिर्यो निर्जले मरुभूतले।
दुर्भिक्षे यः प्रतिदिनं कोटिब्राह्मणभोजनम्॥११॥

श्रद्धया परया कुर्यात्सहस्रपरिवत्सरान्।
तत्पुण्यं कोटिगुणितं लभेत्पुण्यमनुत्तमम्॥१२॥

रहस्यनामसाहस्रे नाम्नोऽप्येकस्य कीर्तनात्।
रहस्यनामसाहस्रे नामैकमपि यः पठेत्॥१३॥

तस्य पापानि नश्यन्ति महान्त्यपि न संशयः।
नित्यकर्माननुष्ठानान्निषिद्धकरणादपि॥१४॥

यत्पापं जायते पुंसां तत्सर्वं नश्यति ध्रुवम्।
बहुनात्र किमुक्तेन शृणु त्वं कुंभसंभव॥१५॥

अत्रैकनाम्नो या शक्तिः पातकानां निवर्तने।
तन्निवर्त्यमघं कर्तुं नालं लोकाश्चतुर्दश॥१६॥

यस्त्यक्त्वा नामसाहस्रं पापहानिमभीप्सति।
स हि शीतनिवृत्त्यर्थं हिमशैलं निषेवते॥१७॥

भक्तो यः कीर्तयेन्नित्यमिदं नामसहस्रकम्।
तस्मै श्रीललितादेवी प्रीताभीष्टं प्रयच्छति॥१८॥

अकीर्तयन्निदं स्तोत्रं कथं भक्तो भविष्यति।
नित्यं सङ्कीर्तनाशक्तः कीर्तयेत्पुण्यवासरे॥१९॥

संक्रान्तौ विषुवे चैव स्वजन्मत्रितयेऽयने।
नवाम्यां वा चतुर्दश्यां सितायां शुक्रवासरे॥२०॥

कीर्तयेन्नामसाहस्रं पौर्णमास्यां विशेषतः।
पौर्णमास्यां चन्द्रबिम्बे ध्यात्वा श्रीललिताम्बिकाम्॥२१॥

पञ्चोपचारैः संपूज्य पठेन्नामसहस्रकम्।
सर्वे रोगाः प्रणश्यन्ति दीर्घायुष्यञ्च विन्दति॥२२॥

अयमायुष्करो नाम प्रयोगः कल्पचोदितः।
ज्वरार्तं शिरसि स्पृष्ट्वा पठेन्नामसहस्रकम्॥२३॥

तत्क्षणात्प्रशमं याति शिरस्तोदो ज्वरोऽपि च।
सर्वव्याधिनिवृत्त्यर्थं स्पृष्ट्वा भस्म जपेदिदम्॥२४॥

तद्भस्मधारणादेव नश्यन्ति व्याधयः क्षणात्।
जलं संमन्त्र्य कुम्भस्थं नामसाहस्रतो मुने॥२५॥

अभिषिञ्चेद्ग्रहग्रस्तान्ग्रहा नश्यन्ति तत्क्षणात्।
सुधासागरमध्यस्थां ध्यात्वा श्रीललिताम्बिकाम्॥२६॥

यः पठेन्नामसाहस्रं विषं तस्य विनश्यति।
वन्ध्यानां पुत्रलाभाय नामसाहस्रमन्त्रितम्॥२७॥

नवनीतं प्रदद्यात्तु पुत्रलाभो भवेद्ध्रुवम्।
देव्याः पाशेन संबद्धामाकृष्टामङ्कुशेन च॥२८॥

ध्यात्वाभीष्टां स्त्रियं रात्रौ जपेन्नामसहस्रकम्।
आयाति स्वसमीपं सा यद्यप्यन्तःपुरं गता॥२९॥

राजाकर्षणकामश्चेद्राजावसथदिङ्मुखः।
त्रिरात्रं यः पठेदेतच्छ्रीदेवीध्यानतत्परः॥३०॥

स राजा पारवश्येन तुरङ्गं वा मतङ्गजम्।
आरुह्यायाति निकटं दासवत्प्रणिपत्य च॥३१॥

तस्मै राज्यं च कोशं च ददात्येव वशं गतः।
रहस्यनामसाहस्रं यः कीर्तयति नित्यशः॥३२॥

तन्मुखालोकमात्रेण मुह्येल्लोकत्रयं मुने।
यस्त्विदं नामसाहस्रं सकृत्पठति भक्तिमान्॥३३॥

तस्य ये शत्रवस्तेषां निहन्ता शरभेश्चरः।
यो वाभिचारं कुरुते नामसाहस्रपाठके॥३४॥

निर्वर्त्य तत्क्रियां हन्यात्तं वै प्रत्यङ्गिरा स्वयम्।
ये क्रूरदृष्ट्यावीक्षन्ते नामसाहस्रपाठकम्॥३५॥

तानन्धान्कुरुते क्षिप्रं स्वयं मार्ताण्डभैरवः।
धनं यो हरते चोरैर्नामसाहस्रजापिनः॥३६॥

यत्र कुत्र स्थितं वापि क्षेत्रपालो निहन्ति तम्।
विद्यासु कुरुते वादं यो विद्वान्नामजापिना॥३७॥

तस्य वाक्स्तम्भनं सद्यः करोति नकुलेश्वरी।
यो राजा कुरुते वैरं नामसाहस्रजापिना॥३८॥

चतुरङ्गबलं तस्य दण्डिनी संहरेत्स्वयम्।
यः पठेन्नामसाहस्रं षण्मासं भक्तिसंयुतः॥३९॥

लक्ष्मीश्चाञ्चल्यरहिता सदा तिष्ठति तद्गृहे।
मासमेकं प्रतिदिनं त्रिवारं यः पठेन्नरः॥४०॥

भारती तस्य जिह्वाग्रे रङ्गे नृत्यति नित्यशः।
यस्त्वेकवारं पठति पक्षमात्रमतन्द्रितः॥४१॥

मुह्यन्ति कामवशगा मृगाक्ष्यस्तस्य वीक्षणात्।
यः पठेन्नामसाहस्रं जन्ममध्ये सकृन्नरः॥४२॥

तद्दृष्टिगोचराः सर्वे मुच्यन्ते सर्वकिल्बिषैः।
यो वेत्ति नामसाहस्रं तस्मै देयं द्विजन्मने॥४३॥

अन्नं वस्त्रं धनं धान्यं नान्येभ्यस्तु कदाचन।
श्रीमन्त्रराजं यो वेत्ति श्रीचक्रं यः समर्चति॥४४॥

यः कीर्तयति नामानि तं सत्पात्रं विदुर्बुधाः।
तस्मै देयं प्रयत्नेन श्रीदेवीप्रीतिमिच्छता॥४५॥

न कीर्तयति नामानि मन्त्रराजं न वेत्ति यः।
पशुतुल्यः स विज्ञेयस्तस्मै दत्तं निरर्थकम्॥४६॥

परीक्ष्य विद्याविदुषस्तेभ्यो दद्याद्विचक्षणः।
श्रीमन्त्रराजसदृशो यथा मन्त्रो न विद्यते॥४७॥

देवता ललितातुल्या यथा नास्ति घटोद्भव।
रहस्यनामसाहस्रतुल्या नास्ति तथा स्तुतिः॥४८॥

लिखित्वा पुस्तके यस्तु नामसाहस्रमुत्तमम्।
समर्चयेत्सदा भक्त्या तस्य तुष्यति सुन्दरी॥४९॥

बहुनात्र किमुक्तेन शृणु त्वं कुम्भसंभव।
नानेन सदृशं स्तोत्रं सर्वतन्त्रेषु दृश्यते॥५०॥

तस्मादुपासको नित्यं कीर्तयेदिदमादरात्।
एभिर्नामसहस्रैस्तु श्रीचक्रं योऽर्चयेत्सकृत्॥५१॥

पद्मैर्वा तुलसीपुष्पैः कल्हारैर्वा कदम्बकैः।
चम्पकैर्जातिकुसुमैः मल्लिकाकरवीरकैः॥५२॥

उत्पलैर्बिल्वपत्रैर्वा कुन्दकेसरपाटलैः।
अन्यैः सुगन्धिकुसुमैः केतकीमाधवीमुखैः॥५३॥

तस्य पुण्यफलं वक्तुं न शक्नोति महेश्वरः।
सा वेत्ति ललितादेवी स्वचक्रार्चनजं फलम्॥५४॥

अन्ये कथं विजानीयुर्ब्रह्माद्याः स्वल्पमेधसः ।
प्रतिमासं पौर्णमास्यामेभिर्नामसहस्रकैः॥५५॥

रात्रौ यश्चक्रराजस्यामर्चयेत्परदेवताम्।
स एव ललितारूपस्तद्रूपा ललिता स्वयम्॥५६॥

न तयोर्विद्यते भेदो भेदकृत्पापकृद्भवेत्।
महानवम्यां योभक्तः श्रीदेवीं चक्रमध्यगाम्॥५७॥

अर्चयेन्नामसाहस्रैस्तस्य मुक्तिः करे स्थिता।
यस्तु नामसहस्रेण शुक्रवारे समर्चयेत्॥५८॥

चक्रराजे महादेवीं तस्य पुण्यफलं शृणु।
सर्वान्कामानवाप्येह सर्वसौभाग्यसंयुतः॥५९॥

पुत्रपौत्रादिसंयुक्तो भुक्त्वा भोगान्यथेप्सितान्।
अन्ते श्रीललितादेव्याः सायुज्यमतिदुर्लभम्॥६०॥

प्रार्थनीयं शिवाद्यैश्च प्राप्नोत्येव न संशयः।
यः सहस्रं ब्राह्मणानामेभिर्नामसहस्रकैः॥६१॥

समर्च्य भोजयेद्भक्त्या पायसाऽऽपूपषड्रसैः।
तस्मै प्रीणाति ललिता स्वसाम्राज्यं प्रयच्छति॥६२॥

न तस्य दुर्लभं वस्तु त्रिषु लोकेषु विद्यते।
निष्कामः कीर्तयेद्यस्तु नामसाहस्रमुत्तमम्॥६३॥

ब्रह्मज्ञानमवाप्नोति येन मुच्येत बन्धनात्।
धनार्थी धनमाप्नोति यशोऽर्थी चाप्नुयाद्यशः॥६४॥

विद्यार्थी चाप्नुयाद्विद्यां नामसाहस्रकीर्तनात्।
नानेन सदृशं स्तोत्रं भोगमोक्षप्रदं मुने॥६५॥

कीर्तनीयमिदं तस्माद्भोगमोक्षार्थिभिर्नरैः।
चतुराश्रमनिष्ठैश्च कीर्तनीयमिदं सदा॥६६॥

स्वधर्मसमनुष्ठानवैकल्यपरिपूर्तये।
कलौ पापैकबहुले धर्मानुष्ठानवर्जिते॥६७॥

नामसङ्कीर्तनं मुक्त्वा नृणां नान्यत्परायणम्।
लौकिकाद्वचनान्मुख्यं विष्णुनामानुकीर्तनम्॥६८॥

विष्णुनामसहस्राच्च शिवनामैकमुत्तमम्।
शिवनामसहस्राच्च देव्या नामैकमुत्तमम्॥६९॥

देवीनामसहस्त्राणि कोटिशः सन्तिकुम्भज।
तेषु मुख्यं दशविधं नामसाहस्रमुच्यते॥७०॥

रहस्यनामसाहस्रमिदं शस्तं दशस्वपि।
तस्मात्संकीर्तयेन्नित्यं कलिदोषनिवृत्तये॥७१॥

मुख्यं श्रीमातृनामेति न जानन्ति विमोहिताः।
विष्णुनामपराः केचिच्छिवनामपराः परे॥७२॥

न कश्चिदपिलोकेषु ललितानामतत्परः।
येनान्यदेवतानाम कीर्तितं जन्मकोटिषु॥७३॥

तस्यैव भवति श्रद्धा श्रीदेवीनामकीर्तने।
चरमे जन्मनि यथा श्रीविद्योपासको भवेत्॥७४॥

नामसाहस्रपाठश्च तथा चरमजन्मनि।
तथैव विरला लोके श्रीविद्याराजवेदिनः॥७५॥

तथैव विरला गुह्यनामसाहस्रपाठकाः।
मन्त्रराजजपश्चैव चक्रराजार्चनं ताथा॥७६॥

रहस्यनामपाठश्च नाल्पस्य तपसः फलम्।
अपठन्नामसाहस्रं प्रीणयेद्यो महेश्वरीम्॥७७॥

स चक्षुषा विना रूपं पश्येदेव विमूढधीः।
रहस्यनामसाहस्रं त्यक्त्वा यः सिद्धिकामुकः॥७८॥

स भोजनं विना नूनं क्षुन्निवृत्तिमाभीप्सति।
यो भक्तो ललितादेव्याः स नित्या कीर्तयेदिदम्॥७९॥

नान्यथा प्रीयते देवी कल्पकोटिशतैरपि।
तस्माद्रहस्यनामानि श्रीमातुः प्रयातः पठेत्॥८०॥

इति ते कथितं स्तोत्रं रहस्यं कुंभासंभव।
नाविद्यावेदिने ब्रूयान्नाभक्ताय कदाचन॥८१॥

यथैव गोप्या श्रीविद्या तथा गोप्यमिदं मुने।
पशुतुल्येषु न ब्रूयाज्जनेषु स्तोत्रमुत्तमम्॥८२॥

यो ददाति विमूढात्मा श्रीविद्यारहिताय च।
तस्मै कुप्यन्ति योगिन्यः सोऽनर्थः सुमहान्स्मृतः॥८३॥

रहस्यनामसाहस्रं तस्मात्संगोपयेदिदम्।
स्वतन्त्रेण मया नोक्तं तवापि कलशोद्भव॥८४॥

ललिताप्रेरणेनैव मयोक्तं स्तोत्रमुत्तमम्।
कीर्तनीयमिदं भक्त्या कुम्भयोन्मे निरन्तरम्॥८५॥

तेन तुष्टा महादेवी तवाभीष्टं प्रादास्यति॥

श्रीसूत उवाच—

इत्युक्त्वा श्रीहयग्रीवो ध्यात्वा श्रीललिताम्बिकाम्।
आनन्दमग्नहृदयः सद्यः पुलकितोऽभवत्॥८६॥

इति श्रीब्रह्माण्डपुराणे उत्तरखण्डे श्रीहयग्रीवागस्त्यसंवादे
श्रीललितारहस्यनामसाहस्रफलनिरूपणं नाम
तृतीयोऽध्यायः॥

__________

॥श्रीकालिकासहस्रनामस्तोत्रम्॥

कथितोऽयं महामन्त्रः सर्वमन्त्रोत्तमोत्तमः।
य मासाद्य मया प्राप्त मैश्वर्यपदमुत्तमम्॥ १॥

संयुक्तः परया भक्त्या यथोक्तविधिना भवान्।
कुरुता मर्चनं देव्या स्त्रैलोक्य विजिगीषया॥२॥

परशुराम उवाच—

प्रसन्नो यदि मे देव परमेशः पुरातनः।
रहस्यं परया दैव्याः कृपया कथय प्रभो॥३॥

यथार्चनं विना होमं विना न्यासं विना बलिम्।
विना गन्धं विना पुष्पं विना नित्योदितक्रियाम्॥४॥

प्राणायामं विना ध्यानं विना भूतविशोधनं।
विनाजाप्यं विनादानं विनाकाली प्रसीदति॥५॥

श्रीशङ्कर उवाच—

पृष्टंत्वयोत्तमं प्राज्ञ भृगुवंशविवर्धनम्।
भक्तानामपि भक्तोऽसि त्वमेवं साधयिष्यसि॥६॥

देवीं दानवकोटिघ्नीं लीलया रुधिरप्रियाम्।
सदा स्तोत्रप्रिया मुग्रां कामकौतुकलालसाम्॥७॥

सर्वदानन्दहृदयावासव्यासक्तमानसाम्।
माध्वीकमत्स्यमांसादिरागिणीं रुधिरप्रियाम्॥८॥

श्मशानवासिनीं प्रेतगणनृत्यमहोत्सवाम्।
योगप्रभां योगिनीशां योगीन्द्रहृदये स्थिताम्॥९॥

ता मुग्रकालिकां राम प्रसादयितुमर्हसि।
तस्याः स्तोत्रं महापुण्यं स्वयं काल्या प्रकाशितम्॥१०॥

तव तत्कथयिष्यामि श्रुत्वा वत्सावधारय।
गोपनीयं प्रयत्नेन पठनीयं परात्परम्॥११॥

यस्यैककालपठना त्सर्वे विघ्नाः समाकुलाः।
नश्यन्ति दहने दीप्ते पतङ्गा इव सर्वतः॥१२॥

गद्यपद्यमयी वाणी तस्य गङ्गा प्रवाहवत्।
तस्य दर्शनमात्रेण वादिनो निष्प्रभा मताः॥१३॥

राजानोऽपि च दासत्वं भजन्ति च परे जनाः।
तस्य हस्ते सदैवास्ति सर्वसिद्धिर्नसंशयः॥१४॥

निशीथे मुक्तये शंभु नर्ग्नः शक्तिसमन्वितः।
मनसा चिन्तये त्कालीं महाकालीति लालिताम्॥१५॥

पठे त्सहस्रनामाख्यां स्तोत्रं मोक्षस्य साधनम्।
प्रसन्ना कालिका तस्य पुत्रत्वेनानुकंपते॥१६॥

येधा ब्रह्मास्मृते ब्रह्म कुसुमैः पूजिता पुरा।
प्रसीदति तथा काली यथानेन प्रसीदति॥१७॥

अस्य सहस्रनामस्तोत्रस्य महाकालभैरवऋषिः अनुष्टुप्छन्दः श्मशानकालिका देवता प्रसीद सिध्यर्थे जपे विनियोगः॥

ओं॥ श्मशानकालिका काली भद्रकाली कपालिनी !
गुह्यकाली महाकाली कुरुकुल्या विरोधिनी॥१८॥

कालिका कालरात्रि श्च महाकालनितंबिनी।
कालभैरवभार्या च कुलवर्त्मप्रकाशिनी॥१९॥

कामदा कामिनी काम्या कमनीयसुभाविनी।
कस्तूरी रसनीलाङ्गी कुञ्जरेश्वरगामिनी॥२०॥

ककारवर्णसर्वाङ्गी कामिनी कामसुन्दरी।
कामार्ता कामरूपाच कामधेनुः कलावती॥२१॥

कान्ता कामस्वरूपा च कामाख्या कुलपालिनी।
कुलीना कुलवत्यम्बा दुर्गा दुर्गार्ति नाशिनी॥२२॥

कौमारी कुलजा कृष्णा कृष्णदेहा कृशोदरी।
कृशाङ्गी कुलिशाङ्गी च क्रींङ्कारी कमला कला॥२३॥

करालास्या कराली च कुलकां ताऽपराजिता।
उमा चोग्रप्रभा दीप्ताविप्रचित्ता महाबला॥२४॥

नीला घना बलाका च मात्रामुद्रापिताऽसिता।
ब्राह्मी नारायणी भद्रा सुभद्रा भक्तवत्सला॥२५॥

माहेश्वरी च चामुन्डा वाराही नारसिंहिका।
वज्राङ्गी वज्रकंकाली नृमुन्डस्रग्विणी शिवा॥२६॥

मालिनी नरमुन्डाली गलद्रक्तविभूषणा।
रक्तचन्दनसिक्ताङ्गी सिन्दूरारुणमस्तका॥२७॥

घोररूपा घोरदंष्ट्रा घोराघोरतराशुभा।
महादंष्ट्रा महामाया सुदती युगदन्तुरा॥२८॥

सुलोचना विरूपाक्षी विशालाक्षी त्रिलोचना।
शारदेन्दु प्रसन्नास्या स्फुरत्स्मेरांबुजेक्षणा॥२९॥

अट्टहास प्रसन्नास्या स्मेरवक्त्रा सुभाषिणी।
प्रसन्नपद्मवदनास्मितास्यांप्रियभाषिणी॥३०॥

कोटराक्षी कुलश्रेष्ठा महती बहुभाषिणी।
सुमतिः कुमति श्चण्डा चण्डमुंडातिवेगिनी॥३१॥

प्रचन्डा चन्डिकाचन्डी चर्चिका चन्डवेगिनी।
सुकेशी मुक्तकेशी च दीर्घकेशी महक्त्तचा॥३२॥

प्रेतदेहा कर्णपूरा प्रेतप्राणिसुमेखला।
प्रेतासना प्रियप्रेता प्रेतभूमिकृतालया॥३३॥

श्मशानवासिनी पुण्या पुण्यदा कुलपन्डिता।
पुण्यालया पुण्यदेहा पुण्यश्लोकी च पावनी॥३४॥

पुत्रा परित्रा परमा पुरा पुण्यविभूषणा।
पुण्यनाम्नी भीतिहरा वरदा खड्गपाणिनी॥३५॥

नृमुन्डहस्तशस्ता च छिन्नमस्ता सुनासिका।
दक्षिणा श्यामला श्यामा शान्ता पीनोन्नतस्तनी॥३६॥

दिगंबरा घोररावा सृक्कान्ता रक्तवाहिनी।
घोररावा शिवा खड्गा विशङ्का मदनातुरा॥३७॥

मत्ता प्रमत्ता प्रमदा सुधासिन्धुनिवासिनी।
अतिमत्ता महामत्ता सर्वाकर्षणकारिणी॥३८॥

गीतप्रिया वाद्यरता प्रेतनृत्यपरायणा।
चतुर्भुजा दशभुजा अष्टादशभुजा तथा॥३९॥

कात्यायनी जगन्माता जगती परमेश्वरी।
जगद्बन्धु र्जगद्धात्री जगदानन्दकारिणी॥४०॥

जगन्मयी हैमवती महामाया महामहा।
नागयज्ञोपवीताङ्गी नागिनी नागशायिनी॥४१॥

नागकन्या देवकन्या गन्धर्वी किन्नरेश्वरी।
मोहरात्रि र्महारात्रि र्दारुणा भासुरांबरा॥४२॥

विद्याधरी वसुमती यक्षिणी योगिनी जरा।
राक्षसी डाकिनी वेदमयी वेदविभूषणा॥४३॥

श्रुतिः स्मृति र्महाविद्या गुह्याविद्या पुरातनी।
चिन्त्या ऽचिन्त्या सुधा स्वाहा निद्रा तन्द्रा च पार्वती॥४४॥

अपर्णा निश्चला लोला सर्वाविद्या तपस्विनी।
गङ्गा काशी शची सीता सती सत्यपरायणा॥४५॥

नीति स्सुनीति सुरुचि स्तुष्टिःपुष्टिर्धृतिः क्षमा।
वाणी बुद्धि र्महालक्ष्मी र्लक्ष्मीर्नीलसरस्वती॥४६॥

स्रोतस्वती सरस्वती मातङ्गी विजया जया।
नदी सिन्धुः सर्वमयी तारा शून्यनिवासिनी॥४७॥

शुद्धा तरङ्गिणी मेधा लाकिनी बहुरूपिणी।
स्थूला सूक्ष्मा सूक्ष्मतरा भगवत्यनुरूपिणी॥४८॥

परमाणुस्वरूपा च चिदानन्दस्वरूपिणी।
सदानन्दमयी सत्या सर्वानन्दस्वरूपिणी॥४९॥

सुनन्दा नन्दिनी स्तुत्या स्तवनीयस्वभाविनी।
रङ्गिनी टङ्किनी चित्रा विचित्रा चित्ररूपिणी॥५०॥

पद्मा पद्मालया पद्ममुखी पद्मविभूषणा।
डाकिनी शाकिनी क्षान्ता राकिनी रुधिरप्रिया॥५१॥

भ्रान्ति र्भवानी रुद्राणी मृडानी शत्रुमर्दिनी।
उपेन्द्राणी महेन्द्राणी ज्योत्स्ना चन्द्रस्वरूपिणी॥५२॥

सूर्यात्मिका रुद्रपत्नी रौद्री स्त्री प्रकृतिः पुमान्।
शक्तिर्मुक्ति र्मतिर्माता भक्ति र्मुक्तिः पतिव्रता॥५३॥

सर्वेश्वरी सर्वमाता शर्वाणी हरवल्लभा।
सर्वज्ञा सिद्धिदा सिद्धा भव्याभव्या भयापहा॥५४॥

कर्त्री हर्त्री पालयित्री शर्वरी तामसी दया।
तमिस्रा तामसी स्थाष्णुः स्थिरा धीरा तपस्विनी॥५५॥

चार्वंगी चञ्चला लोलजिह्वा चारुचरित्रिणी।
त्रपात्रपावती लज्जा विलज्जा हरयावती॥५६॥

सत्यवती धर्मनिष्ठा श्रेष्ठा निष्ठुरवादिनी।
गरिष्ठा दुष्टसंहन्त्री विशिष्टा श्रेयसीघृणा॥५७॥

भीमा भयानका भीमनादिनी भीः प्रभावती।
वागीश्वरी श्रीर्यमुना यज्ञकर्त्री यजुःप्रिया॥५८॥

ऋक्सामाथर्वनिलया रागिणी शोभना सुरा।
कलकन्ठी कंबुकन्ठी वेणुवीणापरायणा॥५९॥

वंशिनी वैष्णवीस्वच्छा धात्री त्रिजगतीश्वरी।
मधुमती कुण्डलिनी ऋद्धिः शुद्धिः शुचिस्मिता॥६०॥

रंभोर्वशी रती रामा रोहिणी रेवती मघा।
शङ्खिनी चक्रिणी कृष्णा गदिनी पद्मिनी तथा॥६१॥

शूलिनी परिघास्त्रा च पाशिनी शारङ्गपाणिनी।
पिनाकधारिणी धूम्रा सुरभी वनमालिनी॥६२॥

रथिनी समरप्रीता वेगिनी रणपन्डिता।
जटिनी वज्रिणी नीला लावण्यांबुदचन्द्रिका॥६३॥

बलिप्रिया सदापूज्या दैत्येन्द्र मथिनी तथा
महिषासुरसंहन्त्री कामिनी रक्तदन्तिका॥६४॥

रक्तपा रुधिराक्ताङ्गी रक्तखर्परधारिणी।
रक्तप्रिया मांसरुचि र्वासवासक्तमानसा॥६५॥

गलच्छोणितमुन्डाली कन्ठमाला विभूषणा।
शवासना चितांतस्था माहेशी वृषवाहिनी॥६६॥

व्याघ्रत्वगंबरा चीनचैलिनी सिंहवाहिनी।
वामदेवी महादेवी गौरी सर्वज्ञभामिनी॥६७॥

बालिका तरुणी वृद्धा वृद्धमाता जरातुरा।
सुभ्रू र्विलासिनी ब्रह्मवादिनी ब्राह्मणी सती॥६८॥

सुप्तवती चित्रलेखा लोपामुद्रा सुरेश्वरी।
अमोघा रुन्धती तीक्ष्णा भोगवत्यनुरागिणी॥६९॥

मन्दाकिनी मन्दहासा ज्वाला मुख्यसुरान्तका।
मानदा मानिनी मान्या माननीया मदातुरा॥७०॥

मदिरा मेदुरोन्मादा मेध्या साध्या प्रसादिनी।
सुमध्यानन्तगुणिनी सर्वलोकोत्तमोत्तमा॥७१॥

जयदा जित्वरी जैत्री जयश्री र्जयशालिनी।
सुखदा शुभदा सत्या सभा संक्षोभकारिणी॥७२॥

शिवदूती भूतिमती विभूति र्भूषणानना।
कौमारी कुलजा कुन्ती कुलस्त्री कुलपालिका॥७३॥

कीर्ति र्यशस्विनी भूषा भूष्ठा भूतपति प्रिया।
सुगुणा निर्गुणाऽधिष्ठा निष्ठा काष्ठा प्रकाशिनी॥७४॥

धनिष्ठा धनदा धान्या वसुधा सुप्रकाशिनी।
उर्वी गुर्वी गुरुश्रेष्ठा षड्गुणा त्रिगुणात्मिका॥७५॥

राज्ञा माज्ञा महाप्रज्ञा सुगुणा निर्गुणात्मिका।
महाकुलीना निष्कामा सकामा कामजीवना॥७६॥

कामदेवकला रामा ऽभिरामा शिवनर्तकी।
चिंतामणिः कल्पलता जाग्रती दीनवत्सला॥७७॥

कार्तिकी कृत्तिकाकृत्या अयोध्या विषमासमा।
सुमन्त्रा मन्त्रिणी घूर्णा ह्लादिनी क्लेशनाशिनी॥७८॥

त्रैलोक्यजननी हृष्टा निर्मांसामलरूपिणी।
तडागनिम्नजठरा शुष्कमांसास्थिमालिनी॥७९॥

अवन्ती मधुरा हृद्या त्रैलोक्यपावनक्षमा।
व्यक्ताऽव्यक्ताऽनेकमूर्ति श्शरभी भीमनादिनी॥८०॥

क्षेमङ्करी शाङ्करी च सर्वसम्मोहकारिणी।
ऊर्ध्वतेजस्विनी क्लिन्ना महातेजस्विनी तथा॥८१॥

अद्वैता योगिनी पूज्या सुरभी सर्वमङ्गला।
सर्वप्रियङ्करी भोग्या धनिनी पिशिताशना॥८२॥

भयङ्करी पापहरा निष्कलङ्का वशङ्करी।
आशा तृष्णा चन्द्रकला निद्राणा वायुवेगिनी॥८३॥

सहस्रसूर्यसङ्कशा चन्द्रकोटिसमप्रभा।
निशुम्भशुम्भसंहर्त्री रक्तबीजविनाशिनी॥ ८४॥

मधुकैटभसंहर्त्री महिषासरघातिनी।
वह्निमंडल मध्यस्था सर्वसत्वप्रतिष्ठिता।॥८५॥

सर्वाचारवती सर्वदेव कन्या ऽतिदेवता।
दक्षकन्या दक्षयज्ञनाशिनी दुर्गतारिणी॥८६॥

इज्या पूज्या विभाभूतिः सक्तीर्ति र्ब्रह्मचारिणी।
रंभोरूश्चतुरा राका जयन्ती वरुणा कुहूः॥८७॥

मनस्विनी देवमाता यशस्या ब्रह्मवादिनी।
सिद्धिदा वृद्धिदा वृद्धिः सर्वाद्या सर्वदायिनी॥८८॥

आधाररूपिणी ध्येया मूलाधार निवासिनी।
आज्ञा प्रज्ञा पूर्णमना चन्द्रमुख्यनुकूलिनी॥८९॥

वावदूका निम्ननाभि स्सत्यसन्धा दृढव्रता।
आन्वीक्षिकी दन्डनीति स्त्रयी त्रिदिवसुन्दरी॥९०॥

ज्वलिनी ज्वालिनी शैलतनया विंध्यवासिनी।
प्रत्यया खेचरी धैर्या तुरीया विमलातुरा॥९१॥

प्रगल्भा वारुणी क्षामा दर्शिनी विस्फुलिङ्गिनी।
भक्तिः सिद्धिः सदाप्राप्तिः प्रकाम्या महिमा ऽणिमा॥९२॥

ईक्षा सिद्धि र्वशित्वा च ईशित्वौर्ध्वनिवासिनी।
लघिमा चैव सावित्री गायत्री भुवनेश्वरी॥९३॥

मनोहरा चिता दिव्या देव्युदारा मनोरमा।
पिङ्गला कपिला जिह्वा रसज्ञा रसिकारसा॥९४॥

सुषुम्नेडा योगवती गान्धारी नवकान्तका।
पाञ्चाली रुक्मिणी राधा राध्या भीमा च राधिका॥९५॥

अमृता तुलसीबृन्दा कैटभी कपटेश्वरी।
उग्रचण्डेश्वरी वीरजननी वीरसुन्दरी॥९६॥

उग्रतारा यशोदाख्या देवकी देवमानिता।
निरञ्जना चित्रदेवी क्रोधिनी कुलदीपिका॥९७॥

कुलरागीश्वरी ज्वाला मात्रिका द्राविणी द्रवा।
योगीश्वरी महामारी भ्रामरी बिन्दुरूपिणी॥ ९८ ॥

दूती प्राणेश्वरी गुप्ता बहुलाडामरी प्रभा।
कुब्जिका ज्ञानिनी ज्येष्ठा भृशुण्डी प्रकटाकृतिः॥९९॥

द्राविणी गोपिनी माया कामबीजेश्वरी प्रिया।
शाकम्भरी कोकनदा सुसत्या च तिलोत्तमा॥१००॥

अमेया विक्रमा क्रूरा सम्यक्छीला त्रिविक्रमा।
स्वस्तिर्हव्यवहा प्रीतिरुक्मा धूम्रार्चिरङ्गदा॥१०१॥

तपिनी तापिनी विश्वभोगदा धारिणी धरा।
त्रिखण्डा रोधिनी वश्या सकला शब्दरूपिणी॥१०२॥

बीजरूपा महामुद्रा वशिनी योगरूपिणी।
अनङ्गकुसुमाऽनङ्गमेखलाऽनङ्गरूपिणी॥१०३॥

अनङ्गमदनाऽनङ्गरेखाऽनङ्गाकुशेश्वरी।
अनङ्गमालिनी कामेश्वरी सर्वार्थसाधिका॥१०४॥

सर्वतन्त्रमयी सर्वमोदिन्याऽऽनन्दरूपिणी।
व्रजेश्वरी च जयिनी सर्वदुःखक्षयङ्करी॥१०५॥

षडङ्गयुवती योगयुक्ता ज्वालांशुमालिनी।
दुराशया दुराधारा दुर्जया दुर्गरूपिणी॥१०६॥

दुरन्ता दुष्कृतिहरा दुर्ध्येया दुरतिक्रमा।
हंसेश्वरी त्रिलोकस्था शाकम्भर्यनुरागिणी॥१०७॥

त्रिकोणनिलया नित्या परमामृतरञ्जिता।
महाविद्येश्वरी श्वेता भेरुण्डा कुलसुन्दरी॥१०८॥

त्वरिता भक्तिसंयुक्ता भक्तिवश्या सनातनी।
भक्तानन्दमयी भक्तभाविता भक्तशङ्करी॥१०९॥

सर्वसौन्दर्यनिलया सर्वसौभाग्यशालिनी।
सर्वसंभोगभवना सर्वसौख्यानुरूपिणी॥११०॥

कुमारी पूजनरता कुमारी व्रतचारिणी।
कुमारी भक्तिसुखिनी कुमारी रूपधारिणी॥१११॥

कुमारीपूजकप्रीता कुमारीप्रीतिदप्रिया।
कुमारीसेवकासङ्गा कुमारीसेवकालया॥११२॥

आनन्दभैरवी बालाभैरवी वटुभैरवी।
श्मशानभैरवी कालभैरवी पुरभैरवी॥११३॥

महाभैरवपत्नी च परमानन्दभैरवी।
सुरानन्दभैरवी च उन्मदानन्दभैरवी॥११४॥

यज्ञानन्दभैरवी च तथा तरुणभैरवी।
ज्ञानानन्दभैरवी च अमृतानन्दभैरवी॥११५॥

महाभयङ्करी तीव्रा तीव्रवेगा तरस्विनी।
त्रिपुरा परमेशानी सुन्दरी पुरसुन्दरी॥ ११६ ॥

त्रिपुरेशी पञ्चदशी पञ्चमी पुरवासिनी।
महासप्तदशी चैव षोडशी त्रिपुरेश्वरी॥ ११७॥

महाङ्कुशस्वरूपा च महाचक्रेश्वरी तथा।
नवचक्रेश्वरी चक्रेश्वरी त्रिपुरमालिनी॥११८॥

राजचक्रेश्वरी राज्ञी महात्रिपुरसुन्दरी।
सिन्दूरपूररुचिरा श्रीमत्त्रिपुरसुन्दरी॥११९॥

सर्वाङ्गसुन्दरी रक्तारक्तवस्त्रोत्तरीयका।
यवायावकसिन्दूररक्तचन्दनधारिणी॥१२०॥

यवायावकसिन्दूररक्तचन्दनरूपधृक्।
चमरीवालकुटिला निर्मला श्यामकेशिनी॥१२१॥

वज्रमौक्तिकरत्नाढ्य किरीटकुण्डलोज्ज्वला।
रत्नकुण्डलसंयुक्ता स्फुरद्गण्डमनोरमा॥१२२॥

कुञ्जरेश्वरकुम्भोत्थ मुक्ता रञ्जित नासिका।
मुक्ता विद्रुममाणिक्य हीराद्यस्तनमण्डला॥१२३॥

सूर्यकान्तेन्दुकान्ताढ्या स्पर्शाश्मगलभूषणा।
बीजपूरस्फुरद्बीज दन्तपंक्तिरनुत्तमा॥१२४॥

कामकोदण्डका भग्नभ्रूकटाक्षप्रवर्षिणी।
मातङ्ग कुम्भवक्षोजालसत्कनकदक्षिणा॥१२५॥

मनोज्ञशष्कुली कर्णा हंसीगति विडम्बनी।
पद्मरागाङ्गदद्योतद्दोश्चतुष्कप्रकाशिनी॥१२६॥

कर्पूरागरुकस्तूरी कुङ्कुमद्रवलेपिता।
विचित्ररत्नपृथिवीकल्पशाखितलस्थिता॥१२७॥

रत्नद्वीपस्फुरद्रत्नसिंहासन निवासिनी।
षट्चक्रभेदनकरी परमानन्दरूपिणी॥१२८॥

सहस्रदलपद्मान्ता चन्द्रमण्डलवर्तिनी।
ब्रह्मरूपा शिवक्रोडा नानासुखविलासिनी॥१२९॥

हरविष्णुविरिंचीन्द्र ग्रहनायक सेविता।
शिवा शैवा च रुद्राणी तथैव शिवनादिनी॥१३०॥

महादेव प्रियादेवी तथैवानङ्गमेखला।
डाकिनी योगिनी चैव तथोपयोगिनी मता॥१३१॥

माहेश्वरी वैष्णवी च भ्रामरी शिवरूपिणी।
अलंबुसा भोगवती क्रोधरूपा सुमेखला॥१३२॥

गान्धारी हस्तिजिह्वा च इडाचैव शुभङ्करी।
पिङ्गला दक्षसूत्री च सुषुम्ना चैव गन्धिनी॥१३३॥

भगात्मिका भगाधारा भगेशी भगरूपिणी।
लिङ्गाख्या चैव कामेशी त्रिपुरा भैरवी तथा॥१३४॥

लिङ्गगीतिस्सुगीतिश्च लिङ्गस्था लिङ्गरूपधृक्।
लिङ्गमाला लिङ्गभवा लिङ्गलिङ्गा च पावकी॥१३५॥

भगवती कौशिकी च प्रेमाचैव प्रियंवदा।
गृध्ररूपी शिवा रूपा चक्रेशी चक्ररूपधृक्॥१३६॥

आत्मयोनि र्ब्रह्मयोनि र्जगद्योनि रयोनिजा।
भगरूपा भगस्थात्री भगिनी भगमालिनी॥१३७॥

भगात्मिका भगाधारा रूपिणी भगशालिनी।
लिङ्गाभिधायिनी लिङ्गप्रिया लिङ्गनिवासिनी॥ १३८॥

लिङ्गस्था लिङ्गिनी लिङ्गरूपिणी लिङ्गसुन्दरी।
लिङ्गगीति र्महाप्रीति र्भगगीति र्महासुखा॥१३९॥

लिङ्गनाम सदानन्दा भगनामसदारतिः।
भगनामसदानन्दा लिङ्गनामसदारतिः॥१४०॥

लिङ्गमालाकराभूषा भगमालाविभूषणा।
भगलिङ्गामृतवृता भगलिङ्गामृतात्मिका॥१४१॥

भगलिङ्गार्चनप्रीता भगलिङ्गस्वरूपिणी।
भगलिङ्गस्वरूपा च भगलिङ्गसुखावहा॥१४२॥

स्वयम्भूकुसुमप्रीता स्वयम्भूकुसुमार्चिता।
स्वयम्भू कुसुमप्राणा स्वयम्भू कुसुमोत्थिता॥१४३॥

स्वयम्भू कुसुमस्नाता स्वयम्भू पुष्पतर्पिता।
स्वयम्भूपुष्पघटिता स्वयम्भूपुष्पधारिणी॥ १४४॥

स्वयम्भूपुष्पतिलका स्वयम्भूपुष्पचर्चिता।
स्वयम्भूपुष्पनिरता स्वयम्भूकुसुमाग्रहा॥१४५॥

स्वयम्भूपुष्पयज्ञाशा स्वयम्भूकुसुमालिका।
स्वयम्भूपुष्पनिचिता स्वयम्भूकुसुमप्रिया॥१४६॥

स्वयम्भूकुसुमादान लालसोन्मत्तमानसा।
स्वयम्भूकुसुमानन्दलहरी स्निग्धदेहिनी॥१४७॥

स्वयम्भूकुसुमाधारा स्वयम्भूकुसुमाकुला।
स्वयम्भूपुष्पनिलया स्वयम्भूपुष्पवासिनी॥१४८॥

स्वयम्भूकुसुमास्निग्धा स्वयम्भूकुसुमात्मिका।
स्वयम्भूपुष्पकरिणी स्वयम्भूपुष्पमालिका॥१४९॥

स्वयम्भूकुसुमन्यासा स्वयम्भूकुसुमप्रभा।
स्वयम्भूकुसुमज्ञाना स्वयम्भूपुष्पभोगिनी॥१५०॥

स्वयम्भूकुसुमोल्लासा स्वयम्भूपुष्पवर्षिणी।
स्वयम्भूकुसुमानन्दा स्वयम्भूपुष्पपुष्पिणी॥१५१॥

स्वयम्भूकुसुमोत्साहा स्वयम्भूपुष्परूपिणी।
स्वयम्भूकुसुमोन्मादा स्वयम्भूपुष्पसुन्दरी॥१५२॥

स्वयम्भूकुसुमाराध्या स्वयम्भूकुसुमोद्भवा।
स्वयम्भूकुसुमव्यग्रा स्वयम्भूपुष्पपूर्णिता॥१५३॥

स्वयम्भूपूजकप्राज्ञा स्वयम्भूहोत्रिमात्रिका।
स्वयम्भूदातृरक्षित्व स्वयम्भूभक्तभाविका॥१५४॥

स्वयम्भूकुसुमप्रीता स्वयम्भूपूजकप्रिया।
स्वयम्भूवन्दकाधारा स्वयम्भूनिन्दकान्तका॥१५५॥

स्वयम्भूप्रदसर्वस्वा स्वयम्भूप्रदपुत्रिणी।
स्वयम्भूप्रदसस्मेरा स्वयम्भूतशरीरिणी॥१५६॥

सर्वलोकोद्भवप्रीता सर्वकालोद्भवात्मिका।
सर्वकालोद्भवोद्भावा सर्वकालोद्भवोद्भवा॥१५७॥

कुण्डपुष्पसमाप्रीतिः कुण्डपुष्पसमारतिः।
कुण्डगोलोद्भवप्रीता कुण्डगोलोद्भवात्मिका॥१५८॥

स्वयंभूर्वा शिवा शक्ता पाविनी लोकपाविनी।
कीर्तिर्यशस्विनी मेधा विमेधा सुरसुन्दरी॥१५९॥

अश्विनी कृत्तिका पुष्या तेजस्वी चन्द्रमण्डला।
सूक्ष्मा सूक्ष्मप्रदा सूक्ष्मासूक्ष्मभयविनाशिनी॥१६०॥

वरदा भयदा चैव मुक्तिबन्धविनाशिनी।
कामका कामदा क्षान्ता कामाख्या कुलसुन्दरी॥१६१॥

सुखदा दुःखदा मोक्षा मोक्षदार्थप्रकाशिनी।
दुष्टादुष्टमती चैव सर्वकार्यविनाशिनी॥१६२॥

शुक्राधारा शुक्ररूपा शुक्रसिन्धुनिवासिनी।
शुक्रालया शुक्रभोगा शुक्रपूजासदारतिः॥ १६३॥

शुक्रपूज्या शुक्रहोमसन्तुष्टा शुक्रवत्सला।
शुक्रमूर्तिः शुक्रदेहा शुक्रपूजकपुत्रिणी॥१६४॥

शुक्रस्था शुक्रिणी शुक्रसंस्पृहा शुक्रसुन्दरी।
शुक्रस्नाता शुक्रकरी शुक्रसेव्याऽतिशुक्रिणी॥१६५॥

महाशुक्रा शुक्रभवा शुक्रवृष्टिविधायिनी।
शुक्राभिधेया शुक्रार्हा शुक्रवन्दकवन्दिता॥१६६॥

शुक्रानन्दकरी शुक्रसदानन्दविधायिनी।
शुक्रोत्साहा सदा शुक्रपूर्णा शुक्रमनोरमा॥१६७॥

शुक्रपूजकसर्वस्वा शुक्रनिन्दकनाशिनी।
शुक्रात्मिका शुक्रसंपच्छुक्राकर्षणकारिणी॥१६८॥

रक्ताशया रक्तभोगा रक्तपूजासदारतिः।
रक्तपूज्या रक्तहोमा रक्तस्था रक्तवत्सला॥१६९॥

रक्तपूर्णा रक्तदेहा रक्तपूजकपुत्रिणी।
रक्ताख्या रक्तिनी रक्तसंस्पृहा रक्तसुन्दरी॥१७०॥

रक्ताभिदेहा रक्तार्हा रक्तवन्दकवन्दिता।
महारक्ता रक्तभवा रक्तवृष्टिविधायिनी॥१७१॥

रक्तस्नाता रक्तप्रीता रक्तसेव्याऽतिरक्तिनी।
रक्तानन्दकरी रक्तसदानन्दविधायिनी॥१७२॥

रक्तारक्ता रक्तपूर्णा रक्तसेव्यक्षणीरमा।
रक्तसेवकसर्वस्वा रक्तनिन्दकनाशिनी॥१७३॥

रक्तात्मिका रक्तरूपा रक्ताकर्षणकारिणी।
रक्तोत्साहा रक्तव्यग्रा रक्तपानपरायणा॥१७४॥

शोणितानन्दजननी कल्लोलसिग्नरूपिणी।
साधकान्तर्गता देवी पाविनी पापनाशिनी॥१७५॥

साधूनां हृदिसंस्थात्री साधकानन्दकारिणी।
साधकानां च जननी साधकप्रियकारिणी॥१७६॥

साधकप्रचुरानन्दसम्पत्ति सुखदायिनी।
साधका साधकप्राणा साधकासक्तमानसा॥१७७॥

साधकोत्तमसर्वस्वासाधका भक्तरक्तपा।
साधकानन्दसन्तोषा साधकारिविनाशिनी॥१७८॥

आत्मविद्या ब्रह्मविद्या परब्रह्मकुटुम्बिनी।
त्रिकूटस्था पञ्चकूटा सर्वकूटाशरीरिणी॥ १७९॥

सर्ववर्णमयी वर्णजपमालाविधायिनी।
इति श्रीकालिकानाम्नां सहस्रं शिवभाषितम्॥१८०॥

गुह्या द्गुह्यतरं साक्षान्महापातकनाशनम्।
पूजाकाले निशीथे च सन्ध्ययो रुभयोरपि॥ १८१ ॥

लभते गाणपत्यं स यः पठे त्साधकोत्तमः।
यः पठे त्पाठये द्वापि शृणोति श्रावयेदपि॥१८२॥

सर्वपापविनिर्मुक्तः स याति कालिकापदं।
श्रद्धाया ऽश्रद्धया वापि यः कश्चि न्मानवः पठेत्॥१८३॥

दुर्गा दुर्गतरं तीर्त्वा स याति कालिकापदम्।
वन्ध्या वा काकवन्ध्या च मृतपुत्रा च याङ्गना॥ १८४॥

श्रुत्वा स्तोत्रमिदं पुत्रान् लभते चिरजीविनः।
यं यं कामयते कामं पठन् स्तोत्रमनुत्तमम्॥१८५॥

देवीवरप्रदानेन तं तं प्राप्नोति नित्यशः।
स्वयम्भूकुसुमैः शुक्लैः सुगन्धिकुसुमान्वितैः॥१८६॥

यवायावकासिन्दूर रक्तचन्दनसंयुतैः।
मत्स्यमांसादिभि र्वीरो मधुभिः साज्यपायसैः॥१८७॥

भक्त्योपनीतै र्मन्त्रेण साधितैः शक्तिभिः सह।
पञ्चोपचारै र्नैवेद्यै र्बलिभि बहुशोणितैः॥१८८॥

धूपदीपै र्महादेवीं पूजयित्वा मनोहरैः।
जप्त्वा महामन्त्रं स्तोत्रं पठे द्भक्तिसमन्वितः॥१८९॥

अनन्यचेताः स्थिरधी र्मुक्तकेशो दिगम्बरः।
शवारूढ श्चितास्थोवा श्मशानालय मागतः॥ १९०॥

शून्यालयगतो वापिशय्यास्थो वापि साधकः।
स भवेत्कालिकापुत्रो इति ख्याति मुपागतः॥१९१॥

सर्वविद्यावतां श्रेष्ठो धनेन च धनाधिपः।
वायुतुल्यबलो लोके दुर्जयः शत्रुमर्दनः॥ १९२॥

सर्वसङ्कटसंतीर्णः सर्वसिद्धिसमन्वितः।
मधुमत्या स्वयंदेव्या सेव्यमानः स्मरोपमःः॥१९३॥

महेश इव योगीन्द्रः सर्वशत्रुपुरस्कृतः।
कालिका कामरूपोऽसौ सर्वाकर्षणकारकः॥१९४॥

जलसूर्येंदुवायूनां स्तंभकोराजवल्लभः।
यशस्वी सत्कविर्धीमान् सन्मन्त्री कोकिलस्वरः॥ १९५॥

बहुपुत्री गजाश्वाना मीश्वरो धार्मिकः कृती।
मार्कण्डेय इवाऽयुष्मान् जरापलितवर्जितः॥१९६॥

नवयौवनयुक्तः स्या दपि वर्षसहस्रभाक्।
बहु किं कथ्यतांतस्य पठतः स्तवमुत्तमम्॥१९७॥

न किञ्चि द्दुर्लभंलोके यद्य न्मनसि कल्पितम्।
ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः॥१९८॥

सर्वमाशु तरत्येव स्तवस्यास्य प्रसादतः।
रजस्वलाभगं पश्यन् जप्त्वा कालीमहामनुम्॥ १९९॥

स्तवेनानेन संस्तुत्य साधकः किं न साधयेत्।
परदारपरो वापि जप्त्वा मन्त्रं स्तवं पठेत्॥२००॥

कुबेर इव वित्ताढ्यो जायते मदनोपमः।
अष्टोत्तरशतं जप्त्वायोनि मामन्त्र्य भक्तितः॥२०१॥

सङ्गम्य पठनादस्य सर्वसिद्धेश्वरो भवेत्।
दिगम्बरो मुक्तकेशः शय्यास्थो मैथुनी नरः॥२०२॥

जप्त्वा स्तुत्वा महादेवीं खेचरोजायते चिरात्।
शुक्रोत्सरणकाले तु जपपूजापरायणः॥२०३॥

श्मशानकालिकां स्तुत्वा वाणीवत्सकविर्भवेत्।
आलोकयन् चिन्तयन्वा विवस्त्रां परयोषितम्॥२०४॥

जप्त्वास्तुत्वा महेशानीं सर्वपापात्प्रमुच्यते।
सुरतेषु मनुं जप्त्वा स्तुत्वा भगवतीं शिवाम्॥२०५॥

सर्वपापैः परित्यक्तो मानवः स्या त्सुरोपमः।
कुहूपूर्णेंदुसंक्रान्त्यां चतुर्दश्यष्टमीषु च॥२०६॥

नवम्यां मङ्गलदिने पठेत् स्तोत्रं प्रयत्नतः।
भौमावास्यानिशीथे च चतुष्पथगतो नरः॥२०७॥

मांसभक्तबलिं दद्या त्सदुग्धं मीनशोणितम्।
अष्टोत्तरशतं जप्त्वा पठे न्नामसहस्रकम्॥२०८॥

सुदर्शनो भवे दाशु सर्वगन्धर्वसेवितः।
सदा शिवो भवत्येष जन्माशाभ्यासयोगतः॥२०९॥

येन केन प्रकारेण लिङ्गस्तुति परायणः।
स्तम्भये दखिला न्लोकान् राजानमपि मोहयेत्॥२१०॥

आकर्षये द्देवकन्यां वशये दपि केशवम्।
मारये दखिला न्लोका नुच्चाटयति शात्रवान्॥२११॥

नरमार्जारमहिषछागमूषकशोणितैः।
सास्थिमाम्सै स्समधुभिः सामृतैः साज्यपायसैः॥२१२॥

योनिक्षालनतोयेन भगलिङ्गामृतेन च।
शुक्रैः पूजा जपान्ते यो देवीं संतर्प्यसाधकः॥२१३॥

संहस्रनामभि र्देवीं स्तौति भक्तिपरायणः।
मातेव कालिकायस्य सर्वत्र हितकारिणी॥२१४॥

परनिन्दा परद्रोह परिवादपराय च।
खलाय परतन्त्राय भ्रष्टाय साधकाय च॥२१५॥

शिवाभक्ताय दुष्टाय दूषकाय दुरात्मने।
हरिभक्तिविहीनाय परदारपराय च॥२१६॥

पूजाजपविहीनाय स्त्रीसुरानन्दकाय च।
न स्तवंदर्शये द्दिव्यं दर्शयन् शिवहा भवेत्॥२१७॥

कुलीनाय महेच्छाय दुर्गाभक्तिपराय च।
वैष्णवाय विशुद्धाय शक्तिभक्ताय मन्त्रिणे॥२१८॥

अद्वैतानन्दरूपाय निवेदितपराय च।
दद्यात् स्तोत्रं महादेव्याः साधकाय तथाऽऽज्ञया॥२१९॥

गुरुविष्णुमहेशाना मभेदेन महेश्वरी।
समन्तात् भावयेन् मन्त्री महेशोनात्र संशयः॥२२०॥

सशाक्तःशिवभक्तश्च सएव वैष्णवोत्तमः।
संपूज्य स्तौति यः काली मद्वैतभाव मावहन्॥२२१॥

देव्यानन्देन सानन्दो देवीभक्तैकभक्तिमान्।
स एव धन्यो यस्यार्धे महेशो व्यग्रमानसः॥२२२॥

कामयित्वा यथाकामं स्तवमेन मुदीरयेत्।
सर्वरोगैः परित्यक्तो जायते मदनोपमः॥२२३॥

चक्रं वास्तवमेनं वा धारये दङ्गसङ्गतम्।
विलिख्य विधिव त्साधुः स एव कालिकातनुः॥२२४॥

देव्यै निवेदितं यद्य त्तस्यांशं भक्षये न्नरः।
दिव्यदेहधरो भूत्वा देव्याः पार्श्वचरो भवेत्॥२२५॥

नैवेद्यनिन्दकं दृष्ट्वा नृत्यन्ति योगिनीगणाः।
रक्तपानोद्यतास्सर्वे माम्सास्थि चर्वणोद्यताः॥२२६॥

तस्मा न्निवेदितं देव्यै दृष्ट्वा श्रुत्वा च मानवः।
न निन्दे न्मनसा वाचा कुष्ठव्याधिपराङ्मुखः॥२२७॥

आत्मानङ्कालिकात्मानं भावयन् स्तौति यः शिवाम्।
शिवोपमं गुरुं ध्यात्वा स एव श्रीसदाशिवः॥२२८॥

यस्यालये तिष्ठति नूनमेतत् स्तोत्रं भवान्या लिखितं विधिज्ञैः।
गोरोचनालक्तक कुङ्कुमाक्तकर्पूर सिन्दूरमधुद्रवेण॥२२९॥

न तत्र चोरस्य भयं नहास्योन वैरिभि र्नाशनिवह्निभीतिः।
उत्पातवायोरपि नात्रशङ्का लक्ष्मीः स्वयंतत्र वसेदलोला॥२३०॥

स्तोत्रं पठेदेत दनन्तपुण्यं देवी पदाम्भोजपरो मनुष्यः।
विधानपूजाफलमेव सम्य क्प्राप्नोति सम्पूर्णमनोरथोऽसौ ॥२३१॥

मुक्ताः श्रीचरणारविन्द निरताः स्वर्गामिनो भोगिनो-
ब्रह्मो पेन्द्रशिवात्मकार्चनरता लोकेऽपि संलेभिरे।

श्रीमच्छङ्करभक्ति पूर्वकमहा देवीपदध्यायिनो-
मुक्ति र्भुक्तिमतिः स्वयं स्तुतिपरा भक्तिः करस्थायिनी॥२३२॥

इति श्रीकालिकाकुलसर्वस्वे हरपरशुरामसंवादो
श्रीकालिकासहस्रनामस्तोत्रं संपूर्णम्

___________

॥आनन्दलहरी॥

भवानीस्तोत्रं त्वां प्रभवति चतुर्भिर्न वदनैः
प्रजानामीशानस्त्रिपुरमथनः पञ्चभिरपि।
न षड्भिः सेनानीर्दशशतमुखैरप्यहिपति-
स्तदान्येषां केषां कथय कथमस्मिन्नवसरः॥१॥

घृतक्षीरद्राक्षामधुमधुरिमाकैरपि पदै-
र्विशिष्यानाख्येयो भवति रसनामात्रविषयः।
तथा ते सौन्दर्यं परमशिवदृङ्मात्रविषयः
कथङ्कारं ब्रूमः सकलनिगमागोचरगुणे॥२॥

मुखे ते तांबूलं नयनयुगुले कज्जलकला
ललाटे काश्मीरं विलसति गले मौक्तिकलता।
स्फुरत्काञ्ची शाटी पृथुकटितटे हाटकमयी
भजामस्त्वां गौरीं नगपतिकिशोरीमविरतम्॥३॥

विराजन्मन्दारद्रुमकुसुमहारस्तनतटी
नदद्वीणानादश्रवणविलसत्कुन्डलगुणा।
नताङ्गी मातङ्गी रुचिरगतिभङ्गी भगवती
सती शम्भोरम्भोरुहचटुलचक्षुर्विजयते॥४॥

नवीनार्कभ्राजन्मणिकनकभूषापरिकरै-
र्वृताङ्गी सारङ्गीरुचिरनयनाङ्गीकृतशिवा।
तडित्पीता पीताम्बरललितमञ्जीरसुभगा
ममाऽपर्णा पूर्णा निरवधिमुखैरस्तु सुमुखी॥५॥

हिमाद्रेः संभूता सुललितकरैः पल्लवयुता
सुपुष्पा मुक्ताभिर्भ्रमरकलिता चालकभरैः
कृतस्थाणुस्थाना कुचफलनता सूक्तिसरसा
रुजां हन्त्री गन्त्री विलसति चिदानन्दलतिका॥६॥

सपर्णामाकीर्णां कतिपयगुणैः सादरमिह
श्रयन्त्यन्ये वल्लीं मम तु मतिरेवं विलसति।
अपर्णैका सेव्या जगति सकलैर्यत्परिवृतः
पुराणोऽपि स्थाणुः फलति किल कैवल्यपदवीम्॥७॥

विधात्री धर्माणां त्वमसि सकलाम्नायजननी
त्वमर्थानां मूलं धनदनमनीयाङ्घ्रिकमले।
त्वमादिः कामानां जननि कृतकन्दर्पविजये
सतां भक्तेर्बीजं त्वमसि परमब्रह्ममहिषी॥८॥

प्रभूता भक्तिस्ते यदपि न ममालोलमनस
स्त्वया तु श्रीमत्या सहयमवलोक्योऽहमधुना।
पयोदः पानीयं दिशति मधुरं चातकमुखे
भृशं शङ्के कैर्वा विधिभिरनुनीता मम मतिः॥९॥

कृपापाङ्गालोकं वितर तरसा साधुचरिते
न ते युक्तोपेक्षा मयि शरणदीक्षामुपगते।
न चेदिष्टं दद्यादनुपदमहो कल्पलतिका
विशेषः सामान्यैः कथमितरवल्लीपरिकरैः॥१०॥

महान्तं विश्वासं तव चरणपङ्केरुहयुगे
निधायान्यन्नैवाश्रितमिह मया दैवतमुमे।
तथापि त्वच्चेतो यदि मयि न जायेत सदयं
निरालंबो लंबोदरजननि कं यामि शरणम्?॥ ११॥

अयः स्पर्शे लग्नं सपदि लभते हेमपदवीं
यथा रथ्यापाथः शुचि भवति गङ्गौघमिलितम्।
तथा तत्त्पापैरतिमलिनमन्तर्मम यदि
त्वयि प्रेम्णा सक्तं कथमिव न जायेत विमलम् ?॥१२॥

त्वदन्यस्मादिच्छाविषयफललाभेन नियम-
स्त्वमर्थानामिच्छाधिकमपि समर्था वितरणे।
इतिप्राहुः प्राञ्चः कमलभवनाद्यास्त्वयि मन-
स्त्वदासक्तं नक्तन्दिवमुचितमीशानि कुरु तत्॥१३॥

स्फुरन्नानारत्नस्फटिकमयभित्तिप्रतिफल-
त्वदाकारं चञ्चच्छशधरविलासौघशिखरम्।
मुकुन्दब्रह्मेंद्रप्रभृतिपरिवारं विजयते
तवागारं रम्यं त्रिभुवनमहाराजगृहिणि॥१४॥

निवासः कैलासे विधिशतमखाद्याः स्तुतिकराः
कुटुंबं त्रैलोक्यं कृतकरपुटः सिद्धनिकरः।
महेशः प्राणेशस्तदवनिधराधीशतनये
न ते सौभाग्यस्य कचिदपि मनागस्ति तुलना॥१५॥

वृषो वृद्धो यानं विषमशनमाशा निवसनं
श्मशानं क्रीडाभूर्भुजगनिवहो भूषणानिधिः।

समग्रा सामग्री जगति विदितैव स्मररिपो-
र्यदेतस्यैश्वर्यं तव जनानि सौभाग्यमहिमा॥१६॥

अशेषब्रह्माण्डप्रलयविधिनैसर्गिकमतिः
श्मशानेष्वासीनः कृतभसितलेपः पशुपतिः।
दधौ कंठे हालाहलमखिलभूगोलकृपया
भवत्याः सङ्गत्याः फलमिति च कल्याणि कलये॥१७॥

त्वदीयं सौन्दर्यं निरतिशयमालोक्य परया-
तदेतस्यास्ताम्यद्वदनकमलं वीक्ष्य कृपया
भियैवासीद्गङ्गा जलमयतनुः शैलतनये।
प्रतिष्ठामातेने निजशिरसि वासेन गिरिशः॥१८॥

विशालश्रीखण्डद्रवमृगमदाकीर्णघुसृण
प्रसूनव्यामिश्रं भगवति तवाभ्यङ्गसलिलम्।
समादाय स्रष्टा चलितपदपांसून्निजकरैः
समाधत्ते सृष्टिं विबुधपुरपङ्केरुहदृशाम्॥१९॥

वसन्ते सानन्दे कुसुमितलताभिः परिवृते
स्फुरन्नानापद्मे सरसि कलहंसालिसुभगे।
सखीभिः खेलन्तीं मलयपवनान्दोलितजलैः
स्मरेद्यस्त्वां तस्य ज्वरजनितपीडाऽपसरति॥२०॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्कर भगवतः कृतौ
॥आनन्दलहरी संपूर्णा॥

__________

\।\। देवीभुजङ्गस्तोत्रम् ॥

विरिञ्च्यादिभिः पञ्चभिर्लोकपालैः समूढे महानन्दपीठे निषण्णम्।
धनुर्बाण पाशाङ्कुशप्रोतहस्तं महस्त्रैपुरं शङ्कराद्वैतमव्यात्॥१॥

यदन्नादिभिः पञ्चभिः कोशजालैः शिरः पक्षपुच्छात्मकैरन्तरन्तः।
निगूढे महायोगपीठे निषण्णं पुरारेरथान्तः पुरं नौमि नित्यम् ॥२॥

विरिञ्चादिरूपैः प्रपञ्चे विहृत्य स्वतन्त्रा यदा स्वात्मविश्रान्तिरेषा।
तदा मानमातृप्रमेयातिरिक्तं परानन्दमीडे भवानि त्वदीयम् ॥३॥

विनोदाय चैतन्यमेकं विभज्य द्विधा देवि जीवः शिवश्चेतिनाम्ना।
शिवस्यापि जीवत्वमापादयन्ती पुनर्जीवमेनं शिवं वा करोषि ॥४॥

समाकुञ्च्य मूलं हृदिन्यस्य वायुं मनो भ्रूबिलं प्रापयित्वा निवृत्ताः।
ततरसच्चिदानन्दरूपे पदे ते भवन्त्यम्ब जीवाः शिवत्वेन केचित् ॥५॥

शरीरेऽतिकष्टे रिपौ पुत्रवर्गे सदा भीतिमूले कलत्रे धने वा।
न कश्चिद्विरज्यत्यहो देविचित्रं कथं त्वत्कटाक्षं विना तत्वबोधः॥

शरीरे धनेऽपत्यवर्गे कलत्रे विरक्तस्य सद्देशिकादिष्टबुद्धेः।
यदाकस्मिकं ज्योति रानन्दरूपं समाधौ भवेत्तत्वमस्यम्ब सत्यम् ॥७॥

मृषान्यो मृषान्यः परो मिश्रमेनं परः प्राकृतं चापरो बुद्धिमात्रम्।
प्रपञ्चंमिमीते मुनीनां गणोऽयं तदेतत्तत्वमवेति नत्वां जहीमः॥८॥

निवृत्तिः प्रतिष्ठा च विद्या च शान्ति स्तथा शान्त्यतीतेति पञ्चकृिताभिः ।
कलाभिः परे पञ्चविंशात्मिका भिरत्वमेकैव सेव्या शिवा भिन्नरूपा॥

अगाधेऽत्रसंसारपङ्के निमग्नं कलत्रादि भारेण खिन्नं नितान्तम्।
महामोहपाशौघबद्धं चिरान्मां समुद्धर्तुमम्ब त्वमेकैव शक्ता ॥१०॥

समारभ्यमूलं गतो ब्रह्मचक्रं भवद्दिव्यचक्रेश्वरी धामभाजः।
महासिद्धिसङ्घात कल्पद्रुमाभानवाप्याम्ब नादानुपास्ते च योगी॥११॥

गणेशैर्ग्रहैरम्ब नक्षत्रपंक्त्या तथा योगिनीराशि पीठैरभिन्नम्।
महाकालमात्मानमामृश्य लोकं विधत्से कृतिं वा स्थितिं वा महेशि॥

लसत्तारहारामतिस्वच्छचेलां वहन्तीं करे पुस्तकं चाक्षमालाम्।
शरश्चन्द्रकोटिप्रभा भासुरां त्वां सकृद्भावयन्भारती वल्लभः स्यात्॥

संमुद्यत्सहस्रार्क बिम्बाभवक्त्रां स्वभासैव सिन्दूरिताजाण्डकोटिम्।
धनुर्बाण पाशाङ्कुशान्धारयन्तीं स्मरन्तःस्मरं वापि संमोहयेयुः॥१४॥

मणिस्यूतताटङ्क शोणास्यबिम्बां हरित्पट्टवस्त्रां त्वगुल्लासि भूषाम्।
हृदा भावयं स्तप्तहेमप्रभां त्वां श्रियो नाशयत्यम्ब चाञ्चल्यभावम्॥

महामन्त्रराजान्तबीजं पराख्यं स्वतो न्यस्तबिन्दु स्वयं न्यस्तहार्दम्।
भवद्वक्त्रवक्षोज गुह्याभिधानं स्वरूपं सकृद्भावये त्स त्वमेव॥१६॥

तथान्ये विकल्पेषु निर्विण्णचित्तास्तदेकं समाधायबिन्दुत्रयं ते।
परानन्दसन्धानसिन्धौ निमग्नाः पुनर्गर्भरन्ध्रं नपश्यन्ति धीराः॥

त्वदुन्मेष लीलानुबन्धाधिकारान्विरिञ्च्यादिकांस्त्वद्गुणांभोधिबिन्दून्।
भजन्तस्तितीर्षन्ति संसारसिन्धुं शिवं तावकीना सुसम्भावनेयम्॥

कदावा भवत्पादपोतेन तूर्णं भवांभोधि मुत्तीर्य पूर्णान्तरङ्गः।
निमज्जन्तमेनं दुराशा विषाब्धौ समालोक्य लोकं कथं पर्युदास्से ?॥

कदा वा हृषीकाणि साम्यं भजेयुः कदा वा न शत्रुः नामित्रं भवानि।
कदा वा दुराशा विषूचीविलोपः कदा वा मनोमे समूले विनश्येत् ?॥

नमो वाकमाशास्महे देवि युष्मत्पदांभोजयुग्माय तिग्माय गौरि।
विरिञ्च्यादि भास्व त्त्किरीट प्रतोलीप्रदीपायमान प्रभाभास्वराय॥

कचे चन्द्ररेखं कुचे तारहारं करे स्वादुचापं शरे षट्पदौघम्।
स्मरामि स्मरारेरभिप्रायमेकं मदाघूर्णनेत्रं मदीयं निधानम् ॥२२॥

शरेष्वेव नासा धनुष्वेव जिह्वा जपापाटले लोचने ते स्वरूपे।
त्वमेषा भवच्चन्द्रखण्डे श्रवो मे गुणे ते मनोवृत्तिरंब त्वयि स्थात्।

जगत्कर्मधीरान् वचोधूतकीरान् कुचन्यस्तहारान् कृपासिन्धुपूरान्।
भवांभोधिपारान् महापापदूरान् भजे वेदसारान् शिवप्रेमसारान्॥

सुधासिन्धुसारे चिदानन्दनीरे समुत्फुल्लनीपे सुरत्नान्तरीपे।
मणिव्यूहसाले स्थिते हैमशाले मनोजारिवामे निषण्णं मनो मे

दृगन्ते विलोला सुगन्धीषुमाला प्रपञ्चेन्द्रजाला विपत्सिन्धुकूला।
मुनिस्वान्तशाला नमल्लोकमाला हरिप्रेमलोलामृतस्वादुलीला॥२६॥

जगज्जालमेत त्त्वयैवांब सृष्टं त्वमेवाद्ययासीन्द्रियैरर्थजालम्।
त्वमेव कर्त्री त्वमेकैव भोक्त्री नमे पुण्यपापे नमे बन्धमोक्षौ॥

इति प्रेमभारेण किंचिन्मयोक्तं न बुध्वैव तत्वं मदीयं त्वदीयम्।
विनोदाय बालस्य मौर्ख्यंहिमातस्तदेतत्प्रलाप स्तुतिं मे गृहाण॥

इति श्रीमत्परमहंस परिव्राजकाचार्यस्य
श्रीगोविन्द भगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्कर भगवतः कृतौ
॥ देवीभुजङ्गस्तोत्रं सम्पूर्णम् ॥

__________

॥ देव्यपराधक्षमापनस्तोत्रम् ॥

न मन्त्रं नो यन्त्रं तदपि च न जाने स्तुतिमहो
न चाह्वानं ध्यानं तदपि च न जाने स्तुतिकथाः।
न जाने मुद्रास्ते तदपि च न जाने विलपनं
परं जाने मातस्त्वदनुसरणं क्लेशहरणम्॥१॥

विधेरज्ञानेन द्रविणविरहेणालसतया
विधेयाशक्यत्वात्तव चरणयोर्या च्युतिरभूत्।
तदेतत्क्षंतव्यं जननि सकलोद्धारिणि शिवे
कुपुत्रो जायेत क्वचिदपि कुमाता न भवति॥२॥

पृथिव्यां पुत्रास्ते जननि बहवः संति सरलाः
परं तेषां मध्ये विरलतरलोऽहं तव सुतः।
मदीयोऽयं त्यागः समुचितमिदं नो तव शिवे
कुपुत्रो जायेत क्वचिदपि कुमाता न भवति॥३॥

जगन्मातर्मातस्तव चरणसेवा न रचिता
न वा दत्तं देवि द्रविणमपि भूयस्तव मया।
तथापि त्वं स्नेहं मयि निरुपमं यत्प्रकुरुषे
कुपुत्रो जायेत क्वचिदपि कुमाता न भवति॥४॥

परित्यक्त्वा देवान्विविधविधसेवाकुलतया
मया पञ्चाशीतेरधिकमपनीते तु वयसि।
इदानीं चेन्मातस्तव यदि कृपा नापि भविता
निरालंबो लंबोदरजननि कं यामि शरणम्॥५॥

श्वपाको जल्पाको भवति मधुपाकोपमगिरा
निरातङ्को रङ्को विहरति चिरं कोटिकनकैः।
तवापर्णे कर्णे विशति मनुवर्णे फलमिदं
जनः को जानीते जननि जपनीयं जपविधौ॥६॥

चिताभस्मालेपो गरलमशनं दिक्पटधरो
जटाधारी कण्ठे भुजगपतिहारी पशुपतिः।
कपाली भूतेशो भजति जगदीशैकपदवी
भवानि त्वत्पाणिग्रहणपरिपाटी फलमिदम्॥७॥

न मोक्षस्याकांक्षा न च विभववांछापि च न मे
न विज्ञानापेक्षा शशिमुखि सुखेच्छापि न पुनः।
अतस्त्वां संयाचे जननि जननं यातु मम वै
मृडानी रुद्राणी शिवशिव भवानीति जपतः॥८॥

नाराधितासि विधिना विविधोपचारैः
किं रूक्षचिंतनपरैर्न कृतं वचोभिः।
श्यामे त्वमेव यदि किंचन मय्यनाथे
धत्से कृपामुचितमंब परं तवैव॥९॥

आपत्सु मग्नः स्मरणं त्वदीयं करोमि दुर्गे करुणार्णवेशि।
नैतच्छटत्वं मम भावयेथाः क्षुधातृषार्ता जननीं स्मरंति॥१०॥

जगदंब विचित्रमत्र किं परिपूर्णा करुणाऽस्ति चेन्मयि।
अपराधपरंपरावृतं नहि माता समुपेक्षते सुतम्॥ ११॥

मत्समः पातकी नास्ति पापघ्नी त्वत्समा नहि।
एवं ज्ञात्वा महादेवि यथा योग्यं तथा कुरु॥१२॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ
॥ दिव्यापराधक्षमापणस्तोत्रं संपूर्णम् ॥

__________

॥त्रिपुरसुन्दर्यष्टकम्॥

कदंबवनचारिणीं मुनिकदंबकादंबिनीं
नितंबजितभूधरां सुरनितंबिनीसेविताम्।
नवांबुरुहलोचनामभिनवांबुदश्यामलां
त्रिलोचनकुटुंबिनीं त्रिपुरसुन्दरीमाश्रये॥१॥

कदंबवनवासिनीं कनकवल्लकीधारिणीं
महार्हमणिहारिणीं मुखसमुल्लसद्वारुणीम्।
दयाविभवकारिणीं विशदलोचनीं चारुणीं
त्रिलोचनकुटुंबिनीं त्रिपुरसुंदरीमाश्रये॥२॥

कदंबवनशालया कुचभरोल्लसन्मालया
कुचोपमितशैलया गुरुकृपालसद्वेलया।
मदारुणकपोलया मधुरगीतवाचालया
कयापि घननीलया कवचिता वयं लीलया॥३॥

कदंबवनमध्यगां कनकमण्डलोपस्थितां
षडंबुरुहवासिनीं सततसिद्धसौदामिनीम्।

विडम्बितजपारुचिं विकचचंद्रचूडमणिं
त्रिलोचनकुटुंबिनीं त्रिपुरसुंदरीमाश्रये॥४॥

कुचांचितविपंचिकां कुटिलकुंतलालंकृतां
कुशेशयनिवासिनीं कुटिलचित्तविद्वेषिणीम्।
मदारुणविलोचनां मनसिजारिसंमोहिनीं
मतंगमुनिकन्यकां मधुरभाषिणीमाश्रये ॥५॥

स्मरेत्प्रथमपुष्पिणीं रुधिरबिंदुनीलांबरां
गृहीतमधुपात्रिकां मधुविघूर्णनेत्रांचलाम्।
घनस्तनभरोन्नतां गलितचूलिकां श्यामलां
त्रिलोचनकुटुंबिनीं त्रिपुरसुंदरीमाश्रये॥६॥

सकुंकुमविलेपनामलकचुंबिकस्तूरिकां
समेदहसितेक्षणां सशरचापपाशांकुशाम्।
अशेषजनमोहिनीमरुणमाल्यभूषांबरां
जपाकुसुमभासुरां जपविधौ स्मराम्यंबिकाम्॥७॥

पुरंदरपुरंध्रिकाचिकुरबंधसैरंध्रिकां
पितामहपतिव्रतां पटुपटोरचर्चारताम्।
मुकुंदरमणीं मणीलसदलंक्रियाकारिणीं
भजामि भुवनांबिकां सुरवधूटिकाचेटिकाम्॥८॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्कर भगवतः कृतौ
॥ त्रिपुरसुंदरीस्तोत्रं संपूर्णम् ॥

__________

॥ सौन्दर्यलहरी ॥

शिवः शक्त्या युक्तो यदि भवति शक्तः प्रभवितुं
न चेदेवं देवो न खलु कुशलःस्पन्दितुमपि।
अतस्त्वामाराध्यां हरिहरविरिञ्चादिभिरपि
प्रणन्तुं स्तोतुं वा कथमकृतपुण्यः प्रभवति॥१॥

तनीयांसं पांसुं तव चरणपङ्केरुहभवं
विरिञ्चिः संचिन्वन्विरचयति लोकानविकलम्।
वहत्येनं शौरिः कथमपि सहस्रेण शिरसां
हरः संक्षुद्यैनं भजति भसितोद्धूलनविधिम्॥२॥

अविद्यानामन्तस्तिमिरमिहिरद्वीपनगरी
जडानां चैतन्यस्तबकमकरन्दस्रुतिझरी।
दरिद्राणां चिन्तामणिगुणनिका जन्मजलधौ
निमग्नानां दंष्ट्रा मुररिपुवराहस्य भवति॥३॥

त्वदन्यः पाणिभ्यामभयवरदो दैवतगण-
स्त्वमेका नैवासि प्रकटितवराभीत्यभिनया।
भयात्त्रातुं दातुं फलमपि च वान्छासमधिकं
शरण्ये लोकानां तव हि चरणावेव निपुणौ॥४॥

हरिस्त्वामाराध्य प्रणतजनसौभाग्यजननीं
पुरा नारी भूत्वा पुररिपुमपि क्षोभमनयत्।
स्मरोऽपि त्वां नत्वा रतिनयनलेह्येन वपुषा
मुनीनामप्यन्तः प्रभवति हि मोहाय महताम्॥५॥

धनुःपौष्पं मौर्वी मधुकरमयी पञ्च विशिखा
वसन्तः सामन्तो मलयमरुदायोनररथः।
तथाप्येकः सर्वं हिमगिरिसुते कामपि कृपा-
मपाङ्गात्ते लब्ध्वा जगदिदमनङ्गो विजयते॥६॥

क्वणत्काञ्चीदामा करिकलभकुम्भस्तननता
परिक्षुण्णा मध्ये परिणतशरच्चन्द्रवदना।
धनुर्बाणान् पाशं सृणिमपि दधाना करतलैः
पुरस्तादास्तां नः पुरमथितुराहो पुरुषिका॥७॥

सुधासिन्धोर्मध्ये सुरविटपिवाटीपरिवृते
मणिद्वीपे नीपोपवनवति चिन्तामणिगृहे।
शिवाकारे मञ्चे परमशिवपर्यङ्कनिलयां
भजन्ति त्वां धन्याः कतिचन चिदानन्दलहरीम्॥८॥

महीं मूलाधारे कमपि मणिपूरे हुतवहं
स्थितं स्वाधिष्ठाने हृदि मरुतमाकाशमुपरि।
मनोऽपि भ्रूमध्ये सकलमपि भित्त्वा कुलपथं
सहस्रारे पद्मे सह रहसि पत्या विहरसे॥९॥

सुधाधारासारैश्चरणयुगलान्तर्विगलितैः
प्रपञ्चं सिञ्चन्ती पुनरपि रसान्नायमहसः।
अवाप्य स्वां भूमिं भुजगनिभमध्युष्ट्रवलयं
स्वमात्मानं कृत्वा स्वपिषि कुलकुण्डे कुहरिणि॥१०॥

चतुर्भिः श्रीकण्ठैः शिवयुवतिभिः पञ्चभिरपि
प्रभिन्नाभिः शंभोर्नवभिरपि मूलप्रकृतिभिः।
चतुश्चत्वारिंशद्वसुदलकलाश्रत्रिवलय-
त्रिरेखाभिः सार्धं तव शरणकोणाः परिणताः॥ ११॥

त्वदीयं सौन्दर्यं तुहिनगिरिकन्ये तुलयितुं
कवीन्द्राः कल्पन्ते कथमपि विरिञ्चिप्रभृतयः।
यदा लोकौत्सुक्यादमरललना यान्ति मनसा
तपोभिर्दुष्प्रापामपि गिरिशसायुज्यपदवीम्॥ १२॥

नरं वर्षीयांसं नयनविरसं नर्मसु जडं
तवापाङ्गालोके पतितमनुधावन्ति शतशः।
गलद्वेणीबन्धाः कुचकलशविस्रस्तसिचया
हठात्त्रुट्यत्काञ्च्यो विगलितदुकूला युवतयः॥ १३ ॥

क्षितौ षट्पञ्चाशद्दिसमधिकपञ्चाशदुदके
हुताशे द्वाषष्टिश्चतुरधिकपञ्चाशदनिले।
दिवि द्विःषट्त्रिंशन्मनसि च चतुःषष्टिरिति ये
मयूखास्तेषामप्युपरि तव पादाम्बुजयुगम्॥ १४ ॥

शरज्ज्योत्स्नाशुद्धां शशियुतजटाजूटमकुटां
वरत्रासत्राणस्फटिकघटिकापुस्तककराम्।
सकृन्नत्वा नत्वा कथमिव सतां सन्निदधते
मधुक्षीरद्राक्षामधुरिमधुरीणाः फणितयः॥१५॥

कवीन्द्राणां चेतःकमलवनबालातपरुचिं
भजन्ते ये सन्तः कतिचिदरुणामेव भवतीम्।
विरिञ्चिप्रेयस्यास्तरुणतरशृङ्गारलहरी-
गभीराभिर्वाग्भिर्विदधति सतां रञ्जनममी॥१६॥

सवित्रीभिर्वाचां शशिमणिशिलाभङ्गरुचिभि-
र्वशिन्याद्याभिस्त्वां सह जननि संचिन्तयति यः।
स कर्ता काव्यानां भवति महतां भङ्गिरुचिभि-
र्वचोभिर्वाग्देवीवदनकमलामोदमधुरैः॥१७॥

तनुच्छायाभिस्ते तरुणतरणिश्रीसरणिभि-
र्दिवं सर्वामुर्वीमरुणिमनिमग्नां स्मरति यः।
भवन्त्यस्य त्रस्यद्वनहरिणशालीननयनाः
सहोर्वश्या वश्याः कति कति न गीर्वाणगणिकाः॥१८॥

मुखं बिन्दुं कृत्वा कुचयुगमधस्तस्य तदधो
हरार्धं ध्यायेद्यो हरमहिषि ते मन्मथकलाम्।
स सद्यः संक्षोभं नयति वनिता इत्यतिलघु
त्रिलोकीमप्याशु भ्रमयति रवीन्दुस्तनयुगाम्॥१९॥

किरन्तीमङ्गेभ्यः किरणनिकुरुम्बामृतरसं
हृदि त्वामाधत्ते हिमकरशिलामूर्तिमिव यः।
स सर्पाणां दर्पं शमयति शकुन्ताधिप इव
ज्वरप्लुष्टान् दृष्टया सुखयति सुधाधारसिरया॥२०॥

तटिल्लेखातन्वीं तपनशशिवैश्वानरमयीं
निषण्णां षण्णामप्युपरि कमलानां तव कलाम्।
महापद्माटव्यां मृदितमलमायेन मनसा
महान्तः पश्यन्तो दधति परमानन्दलहरीम्॥२१॥

भवानि त्वं दासे मयि वितर दृष्टिं सकरुणा-
मिति स्तोतुं वाञ्छन् कथयति भवानि त्वमिति यः।
तदैव त्वं तस्मै दिशसि निजसायुज्यपदवीं
मुकुन्दब्रह्मेन्द्रस्फुटमकुटनीराजितपदाम्॥२२॥

त्वया हृत्वा वामं वपुरपरितृप्तेन मनसा
शरीरार्धं शंभोरपरमपि शङ्के हृतमभूत्।
यदेतत्त्वद्रूपं सकलमरुणाभं त्रिनयनं
कुचाभ्यामानम्रं कुटिलशशिचूडालमकुटम्॥२३॥

जगत्सूते धाता हरिरवति रुद्रः क्षपयते
तिरस्कुर्वन्नेतत्स्वमपि वपुरीशस्तिरयति।
सदापूर्वः सर्वं तदिदमनुगृह्णाति च शिव-
स्तवाज्ञामालम्ब्य क्षणचलितयोर्भ्रूलतिकयोः॥२४॥

त्रयाणां देवानां त्रिगुणजनितानां तव शिवे
भवेत्पूजा पूजा तव चरणयोर्या विरचिता।
तथाहि त्वत्पादोद्वहनमणिपीठस्य निकटे
स्थिता ह्येते शश्वन्मुकुलितकरोत्तंसमकुटाः॥२५॥

विरिञ्चिः पञ्चत्वं व्रजति हरिराप्नोति विरतिं
विनाशं कीनाशो भजति धनदो याति निधनम्।
वितन्द्री माहेन्द्री विततिरपि संमीलितदृशा
महासंसारेऽस्मिन् विहरति सति त्वत्पतिरसौ॥२६॥

जपो जल्पः शिल्पं सकलमपि मुद्राविरचना
गतिः प्रादक्षिन्यक्रमणमशनाद्याहुतिविधिः।
प्रणामः संवेशः सुखमखिलमात्मार्पणदृशा
सपर्यापर्यायस्तव भवतु यन्मे विलसितम्॥२७॥

सुधामप्यास्वाद्य प्रतिभयजरामृत्युहरिणीं
विपद्यन्ते विश्वे विधिशतमखाद्या दिविषदः।
करालं यत्क्ष्वेलं कबलितवत्तः कालकलना
न शंभोस्तन्मूलं तव जननि ताटङ्कमहिमा॥२८॥

किरीटं वैरिञ्चं परिहर पुरः कैटभभिदः
कठोरे कोटीरे स्खलसि जहि जम्भारिमकुटम्।
प्रणम्रेष्वेतेषु प्रसभमुपयातस्य भवनं
भवस्याभ्युत्थाने तव परिजनोक्तिर्विजयते॥२९॥

स्वदेहोद्भूताभिर्घृणिभिरणिमाद्याभिरभितो
निषेव्ये नित्ये त्वामहमिति सदा भावयति यः।
किमाश्चर्यं तस्य त्रिनयनसमृद्धिं तृणयतो
महासंवर्ताग्निर्विरचयति नीराजनविधिम्॥३०॥

चतुःषष्ट्या तन्त्रैः सकलमतिसन्धाय भुवनं
स्थितस्तत्तत्सिद्धिप्रसवपरतन्त्रैः पशुपतिः।
पुनस्त्वन्निर्बन्धादखिलपुरुषार्थैकघटना-
स्वतन्त्रं ते तन्त्रं क्षितितलमवातीतरदिदम्

शिवः शक्तिः कामः क्षितिरथ रविः शीतकिरण-
स्स्मरो हंसः शक्रस्तदनुचरपरमारहरयः।
अमी हृल्लेखाभिस्तिसृभिरवसानेषु घटिता
भजन्ते वर्णास्ते तव जननि नामावयवताम्

स्मरं योनिं लक्ष्मीं त्रितयमिदमादौ तव मनो-
र्निधायैके नित्ये निरवधिमहाभोगरसिकाः।
भजन्ति त्वां चिन्तामणिगुणनिबद्धाक्षवलयाः
शिवाग्नौ जुह्वन्तः सुरभिघृतधाराहुतिशतैः

शरीरं त्वं शंभोः शशिमिहिरवक्षोरुयुगं
तवात्मानं मन्ये भगवति नवात्मानमनघम्।
अतः शेषः शेषीत्ययमुभयसाधारणतया
स्थितः संबन्धो वां समरसपरानन्दपरयोः

मनस्त्वं व्योम त्वं मरुदसि मरुत्सारथिरसि
त्वमापस्त्वं भूमिस्त्वयि परिणतायां न हि परम्।
त्वमेव स्वात्मानं परिणमयितुं विश्ववपुषा
चिदानन्दाकारं शिवयुवतिभावेन बिभृषे

तवाज्ञाचक्रस्थं तपनशशिकोटिद्युतिधरं
परं शंभुं वन्दे परिमिलितपार्श्वं परचिता।
यमाराध्यन् भक्त्या रविशशिशुचीनामविषये
निरालाकेलोके निवसति हिमालोकभुवने॥३६॥

विशुद्धौ ते शुद्धस्फटिकविशदं व्योमजनकं
शिवं सेवे देवीमपि शिवसमानव्यवसिताम्।
ययोः कान्त्या यान्त्याः शशिकिरणसारूप्यसरणे-
र्विधूतान्तर्ध्वान्ता विलसति चकोरीव जगती॥३७॥

समुन्मीलत्संवित्कमलमकरन्दैकरसिकं
भजे हंसद्वन्द्वं किमपि महतां मानसचरम्।
यदालापादष्टादशगुणितविद्यापरिणति-
र्यदादत्ते दोषाद्गुणमखिलमद्भ्यःपय इव॥३८

तव स्वाधिष्ठाने हुतवहमधिष्ठाय निरतं
तमीडे संवर्तं जननि महतीं तां च समयाम्।
यदालोके लोकान्दहति महसि क्रोधकलिते
दयार्द्रा या दृष्टिः शिशिरमुपचारं रचयति॥ ३९॥

तटित्त्वन्तं शक्त्या तिमिरपरिपन्थिस्फुरणया
स्फुरन्नानारत्नाभरणपरिणद्धेन्द्रधनुषम्।
तव श्यामं मेघं कमपि मणिपूरैकशरणं
निषेवे वर्षन्तं हरमिहिरतप्तं त्रिभुवनम्॥४०॥

तवाधारे मूले सह समयया लास्यपरया
नवात्मानं मन्ये नवरसमहाताण्डवनटम्।
उभाभ्यामेताभ्यामुदयविधिमुद्दिश्य दयया
सनाथाभ्यां जज्ञे जनकजननीमज्जगदिदम्॥४१॥

गतैर्माणिक्यत्वं गगनमणिभिः सांद्रघटितं
किरीटं ते हैमं हिमगिरिसुते कीर्तयति यः।
स नीडे यच्छायाच्छुरणशबलं चंद्रशकलं
धनुः शौनासीरं किमिति न निबध्नाति धिषणाम्॥४२॥

धुनोतु ध्वांतं नस्तुलितदलितेंदीवरवनं
घनस्निग्धश्लक्ष्णं चिकुरनिकुरम्बं तव शिवे।
यदीयं सौरभ्यं सहजमुपलब्धुं सुमनसो
वसंत्यस्मिन्मन्ये बलमथनवाटीविटपिनाम्॥४३॥

तनोतु क्षेमं नस्तव वदनसौंदर्यलहरी
पररीवाहःस्त्रोतःसरणिरिव सीमन्तसरणिः।
वहंती सिंदूरं प्रबलकबरीभारतिमिर-
द्विषां बॄंदैर्बंदीकृतमिव नवीनार्ककिरणम्॥४४॥

अरालैः स्वाभाव्यादलिकलभसश्रीभिरलकैः
परीतं ते वक्त्रं परिहसति पङ्केरुहरुचिम्।
दरस्मेरे यस्मिन् दशनरुचिकिञ्जल्करुचिरे
सुगंधौ माद्यंति स्मरमथनचक्षुर्मधुलिहः॥४५॥

ललाटं लावण्यद्युतिविमलमाभाति तव य-
द्द्वितीयं तन्मन्ये मकुटघटितं चंद्रशकलम्।
विपर्यासन्यासादुभयमपि संभूय च मिथः
सुधालेपस्यूतिः परिणमति राकाहिमकरः॥४६॥

भ्रुवौ भुग्ने किंचिद्भुवनभयभङ्गव्यसनिनि
त्वदीये नेत्राभ्यां मधुकररुचिभ्यां धृतगुणम्।
धनुर्मन्ये सव्येतरकरगृहीतं रतिपतेः
प्रकोष्ठे मुष्टौ च स्थगयति निगूढान्तरमुमे॥४७॥

अहः सूते सव्यं तव नयनमर्कात्मकतया
त्रियामां वामं ते सृजति रजनीनायकतया।
तृतीया ते दृष्टिर्दरदलितहेमाम्बुजरुचिः
समाधत्ते सन्ध्यां दिवसनिशयोरन्तरचरीम्॥४८॥

विशाला कल्याणी स्फुटरुचिरयोध्या कुवलयैः
कृपाधाराधारा किमपि मधुराभोगवनिका।
अवन्ती दृष्टिस्ते बहुनगरविस्तारविजया
ध्रुवं तत्तन्नामव्यवहरणयोग्या विजयते॥४९॥

कवीनां सन्दर्भस्तबकमकरन्दैकरसिकं
कटाक्षव्याक्षेपभ्रमरकलभौ कर्णयुगलम्।
अमुञ्चन्तौ दृष्ट्वा तव नवरसास्वादतरला-
वसूयासंसर्गादलिकनयनं किंचिदरुणम्॥५०॥

शिवे शृङ्गारार्द्रां तदितरजने कुत्सनपरा
सरोषा गङ्गायां गिरिशचरिते विस्मयवती।
हराहिभ्यो भीता सरसिरुहसौभाग्यजयिनी
सखीषु स्मेरा ते मयि जननि दृष्टिः सकरुणा॥५१॥

गते कर्णाभ्यर्णं गरुत इव पक्ष्माणि दधती
पुरां भेत्तुश्चित्तप्रशमरसविद्रावणफले।
इमे नेत्रे गोत्राधरपतिकुलोत्तंसकलिके
तवाकर्णाकृष्टस्मरशरविलासं कलयतः॥५२॥

विभक्तत्रैवर्ण्यं व्यतिकरितलीलाञ्जनतया
विभाति त्वन्नेत्रत्रितयमिदमीशानदयिते।
पुनः स्रष्टुं देवान् द्रुहिणहरिरुद्रानुपरतान्
रजः सत्त्वं बिभ्रत्तम इति गुणानां स्वयमिव॥५३॥

पवित्रीकर्तुं नः पशुपतिपराधीनहृदये
दयामित्रैर्नेत्रैररुणधवलश्यामरुचिभिः।
नदः शोणो गङ्गा तपनतनयेति ध्रुवमयं
त्रयाणां तीर्थानामुपनयसि संभेदमनघम्॥५४॥

निमेषोन्मेषाभ्यां प्रलयमुदयं याति जगती
तवेत्याहुः सन्तो धरणिधरराजन्यतनये।
त्वदुन्मेषाज्जातं जगदिदमशेषं प्रलयतः
परित्रातुं शङ्के परिहृतनिमेषास्तव दृशः॥५५॥

तवापर्णे कर्णेजपनयनपैशुन्यचकिता
निलीयन्ते तोये नियतमनिमेषाः शफरिकाः।
इयं च श्रीर्बद्धच्छदपुटकवाटं कुवलयं
जहाति प्रत्यूषे निशि च विघटय्य प्रविशति॥५६॥

दृशा द्राघीयस्या दरदलितनीलोत्पलरुचा
दवीयांसं दीनं स्नपय कृपया मामपि शिवे।
अनेनायं धन्यो भवति न च ते हानिरियता
वने वा हर्म्ये वा समकरनिपातो हिमकरः॥५७॥

अरालं ते पालीयुगलमगराजन्यतनये
न केषामाधत्ते कुसुमशरकोदण्डकुतुकम्।
तिरश्वीनो यत्र श्रवणपथमुल्लङ्घय विलस-
न्नपाङ्गव्यासङ्गो दिशति शरसन्धानधिषणाम्॥५८॥

स्फुरद्गण्डाभोगप्रतिफलितताटङ्कयुगलं
चतुश्चक्रं मन्ये तव मुखमिदं मन्मथरथम्।
यमारुह्य द्रुह्यत्यवनिरणमर्केन्दुचरणं
महावीरो मारः प्रमथपतये सज्जितवते॥५९॥

सरस्वत्याः सूक्तीरमृतलहरीकौशलहरीः
पिबन्त्याः शर्वाणि श्रवणचुलुकाभ्यामविरलम्।
चमत्कारश्लाघाचलितशिरसः कुण्डलगणो
झणत्कारैस्तारैः प्रतिवचनमाचष्ट इव तौ॥६०॥

असौ नासावंशस्तुहिनगिरिवंशध्वजपटे
त्वदीयो नेदीयः फलतु फलमस्माकमुचितम्।
वहत्यन्तर्मुक्ताः शिशिरकरनिश्वासगलिता
समृद्धया यत्तासां बहिरपि च मुक्तामणिधरः॥६१॥

प्रकृत्यारक्तायास्तव सुदति दन्तच्छदरुचेः
प्रवक्ष्ये सादृश्यं जनयतु फलं विद्रुमलता।
न बिम्बं तद्बिम्बप्रतिफलनरागादरुणितं
तुलामध्यारोढुं कथमिव न लज्जेत कलया॥६२॥

स्मितज्योत्स्नाजालं तव वदनचन्द्रस्य पिबतां
चकोराणामासीदतिरसतया चंचुजडिमा।
अतस्ते शीतांशोरमृतलहरीमाम्लरुचयः
पिबन्ति स्वच्छन्दं निशिनिशि भृशं काञ्चिकधिया॥६३॥

अविश्रांतं पत्युर्गुणगणकथाम्रेडनजपा
जपापुष्पच्छाया तव जननि जिह्वा जयति सा।
यदग्रासीनायाः स्फटिकदृषदच्छच्छविमयी
सरस्वत्या मूर्तिः परिणमति माणिक्यवपुषा॥६४॥

रणे जित्वा दैत्यानपहृतशिरस्त्रैः कवचिभि
र्निवृत्तैश्चण्डांशुत्रिपुरहरनिर्माल्यषिमुखैः।
विशाखेन्द्रोपेन्द्रैः शशिविशदकर्पूरशकला
विलीयन्ते मातस्तव वदनताम्बूलकबलाः॥६५॥

विपञ्च्या गायन्ती विविधमपदानं पशुपते-
स्त्वयारब्धे वक्तुं चलितशिरसा साधुवचने।
तदीयैर्माधुर्यैरपलपिततन्तीकलरवां
निजां वीणां वाणी निचुलयति चोलेन निभृतम्॥६६॥

कराग्रेण स्पृष्टं तुहिनगिरिणा वत्सलतया
गिरीशेनोदस्तं मुहुरधरपानाकुलतया।
करग्राह्यं शंभोर्मुखमुकुरवृन्तं गिरिसुते
कथंकारं ब्रूमस्तव चुवुकमौपम्यरहितम्॥६७॥

भुजाश्लेषान्नित्यं पुरदमयितुः कण्टकवती
तव ग्रीवा धत्ते मुखकमलनालश्रियमियम्।
स्वतः श्वेता कालागरुबहुलजम्बालमलिना
मृणालीलालित्यं वहति यदधो हारलतिका॥६८॥

गले रेखास्तिस्रो गतिगमकगीतैकनिपुणे
विवाहव्यानद्धप्रगुणगुणसंख्याप्रतिभुवः।
विराजन्ते नानाविधमधुररागाकरभुवां
त्रयाणां ग्रामाणां स्थितिनियमसीमान इव ते॥६९॥

मृणालीमृद्वीनां तव भुजलतानां चतसृणां
चतुर्भिः सौन्दर्यं सरसिजभवः स्तौति वदनैः।
नखेभ्यः संत्रस्यन् प्रथममथनादन्धकरिपो-
श्चतुर्णां शीर्षाणां सममभयहस्तार्पणधिया॥७०॥

नखानामुद्द्योतैर्नवनलिनरागं विहसतां
कराणां ते कान्तिं कथय कथयामः कथमुमे।
कयाचिद्वा साम्यं भजतु कलया हन्त कमलं
यदि क्रीडल्लक्ष्मीचरणतललाक्षारसचणम्॥७१॥

समं देवि स्कन्दद्विपवदनपीतं स्तनयुगं
तवेदं नः खेदं हरतु सततं प्रस्नुपमुखम्।
यदालोक्याशङ्काकुलितहृदयो हासजनकः
स्वकुम्भौ हेरम्बः परिमृशति हस्तेन झडिति॥७२॥

अमू ते वक्षोजावमृतरसमाणिक्यकुतुपौ
न संदेहस्पन्दो नगपतिपताके मनसि नः।
पिबन्तौ तौ यस्मादविदितवधूसङ्गरसिकौ
कुमारावद्यापि द्विरदवदनक्रौञ्चदलनौ॥७३॥

वहत्यम्ब स्तम्बेरमदनुजकुम्भप्रकृतिभिः
समारब्धां मुक्तामणिभिरमलां हारलतिकाम्।
कुचाभोगो बिम्बाधररुचिभिरन्तः शबलितां
प्रतापव्यामिश्रां पुरदमयितुः कीर्तिमिव ते॥७४॥

तव स्तन्यं मन्ये धरणिधरकन्ये हृदयतः
पयःपारावारः परिवहति सारस्वतमिव।
दयावत्या दत्तं द्रविडशिशुरास्वाद्य तव या
कवीनां प्रौढानामजनि कमनीयः कवयिता॥७५॥

हरक्रोधज्वालावलिभिरवलीढेन वपुषा
गभीरे ते नाभीसरसि कृतसङ्गो मनसिजः।
समुत्तस्थौ तस्मादत्तलतनये धूमलतिका
जनस्तां जानीते जननि तव रोमावलिरिति॥७६॥

यदेतत्कालिन्दीतनुतरतरङ्गाकृतिशिवे
कृशे मध्ये किंचित्तव जननि यद्भाति सुधियाम्।
विमर्दादन्योन्यं कुचकलशयोरन्तरगतं
तनूभूतं व्योम प्रविशदिव नाभिं कुहरिणीम्॥७७॥

स्थिरो गङ्गावर्तः स्तनमुकुलरोमावलिलता
कलावालं कुण्डं कुसुमशरतेजोहुतभुजः।
रतेर्लीलागारं किमपि तव नाभिर्गिरिसुते
बिलद्वारं सिद्धेर्गिरिशनयनानां विजयते॥७८॥

निसर्गक्षीणस्य स्तनतटभरेण क्लमजुषो
नमन्मूर्तेर्नारीतिलक शनकैस्त्रुट्यत इव।
चिरं ते मध्यस्य त्रुटिततटिनीतीरतरुणा
समावस्थास्थेम्नो भवतु कुशलं शैलतनये॥७९॥

कुचौ सद्यः स्विद्यत्तटघटितकूर्पासभिदुरौ
कषन्तौ दोर्मूले कनककलशाभौ कलयता।
तव त्रातुं भङ्गादलमिति वलग्नं तनुमुवा
त्रिधा नद्धं देवि त्रिवलि लवलीवल्लिभिरिव॥८०॥

गुरुत्वं विस्तारं क्षितिधरपतिः पार्वति निजा-
न्नितम्बादाच्छिद्य त्वयि हरणरूपेण निदधे।
अतस्ते विस्तीर्णो गुरुरयमशेषां वसुमतीं
नितम्बप्राग्भारः स्थगयति लघुत्वं नयति च॥८१॥

करीन्द्राणां शुण्डान् कनककदलीकाण्डपटली-
मुभाभ्यामूरुभ्यामुभयमपि निर्जित्य भवति।
सुवृत्ताभ्यां पत्युः प्रणतिकठिनाभ्यां गिरिसुते
विधिज्ञे जानुभ्यां विबुधकरिकुम्भद्वयमसि॥८२॥

पराजेतुं रुद्रं द्विगुणशरगर्भौ गिरिसुते
निषङ्गौ जङ्घे ते विषमविशिखो बाढमकृत।
यदग्रे दृश्यन्ते दशशरफलाः पादयुगली-
नखाग्रच्छद्मानः सुरमकुटशाणैकनिशिताः॥८३॥

श्रुतीनां मूर्धानो दधति तव यौ शेखरतया
ममाप्येतौ मातः शिरसि दयया धेहि चरणौ।
ययोः पाद्यं पाथः पशुपतिजटाजूटतटिनी
ययोर्लाक्षालक्ष्मीररुणहरिचूडामणिरुचिः॥८४॥

नमोवाकं बूमो नयनरमणीयाय पदयो-
स्तवास्मै द्वन्द्वाय स्फुटरुचिरसालक्तकवते।
असूयत्यत्यन्तं यदभिहननाय स्पृहयते
पशूनामीशानः प्रमदवनकङ्केलितरवे॥८५॥

मृषा कृत्वा गोत्रस्खलनमथ वैलक्ष्यनमितं
ललाटे भर्तारं चरणकमले ताडयति ते।
चिरादन्तःशल्यं दहनकृतमुन्मूलितवता
तुलाकोटिक्वाणैः किलिकिलितमीशानरिपुणा॥८६॥

हिमानीहन्तव्यं हिमगिरिनिवासैकचतुरौ
निशायां निद्राणं निशि चरमभागे च विशदौ।
वरं लक्ष्मीपात्रं श्रियमतिसृजन्तौ समयिनां
सरोजं त्वत्पादौ जननि जयतश्चित्रमिह किम्॥८७॥

पदं ते कीर्तीनां प्रपदमपदं देवि विपदां
कथं नीतं सद्भिः कठिनकमठीकर्परतुलाम्।
कथं वा बाहुभ्यामुपयमनकाले पुरभिदा
यदादाय न्यस्तं दृषदि दयमानेन मनसा॥८८॥

नखैर्नाकस्त्रीणां करकमलसंकोचशशिभि-
स्तरूणां दिव्यानां हसत इव ते चण्डि चरणौ।
फलानि स्वःस्थेभ्यः किसलयकराग्रेण ददतां
दरिद्रेभ्यो भद्रां श्रियमनिशमह्नाय ददतौ॥८९॥

ददाने दीनेभ्यः श्रियमनिशमाशानुसदृशी
ममन्दं सौन्दर्यप्रकरमकरन्दं विकिरति।
तवास्मिन्मन्दारस्तबकसुभगे यातु चरणे
निमज्जन्मज्जीवः करणचरणैः षट्चरणताम्॥९०॥

पदन्यासक्रीडापरिचयमिवारब्धुमनसः
स्खलन्तस्ते खेलं भवनकलहंसा न जहति।
अतस्तेषां शिक्षां सुभगमणिमञ्जीररणित-
च्छलादाचक्षाणं चरणकमलं चारुचरिते॥९१॥

गतास्ते मञ्चत्वं द्रुहिणहरिरुद्रेश्वरभृतः
शिवः स्वच्छच्छायाघटितकपटप्रच्छदपटः।
त्वदीयानां भासां प्रतिफलनरागारुणतया
शरीरी शृङ्गारो रस इव दृशां दोग्धि कुतुकम्॥९२॥

अराला केशेषु प्रकृतिसरला मंदहसिते
शिरीषाभा चित्ते दृषदुपलशोभा कुचतटे।
भृशं तन्वी मध्ये पृथुरुरसिजारोहविषये
जगत्त्रातुं शंभोर्जयति करुणा काचिदरुणा॥९३॥

कलङ्कः कस्तूरी रजनिकरबिम्बं जलमयं
कलाभिः कर्पूरैर्मरकतकरण्डं निबिडितम्
अतस्त्वद्भोगेन प्रतिदिनमिदं रिक्तकुहरं
विधिर्भूयो भूयो निबिडयति नूनं तव कृते॥९४॥

पुरारातेरन्तः पुरमसि ततस्त्वच्चरणयोः
सपर्यामर्यादा तरलकरणानामसुलभा।
तथा ह्येते नीताः शतमखमुखाः सिद्धिमतुलां
तव द्वारोपान्तस्थितिभिरणिमाद्याभिरमराः॥९५॥

कलत्रं वैधात्रं कतिकति भजन्ते न कवयः
श्रियो देव्याः को वा न भवति पतिः कैरपि धनैः।
महादेवं हित्वा तब सति सतीनामचरमे
कुचाभ्यामासङ्गः कुरबकतरोरप्यसुलभः॥९६॥

गिरामाहुर्देवीं द्रुहिणगृहिणीमागमविदो
हरेः पत्नीं पद्मां हरसहचरीमद्रितनयाम्।
तुरीया कापि त्वं दुरधिगमनिःसीममहिमा
महामाया विश्वं भ्रमयति परब्रह्ममहिषी॥९७॥

कदा काले मातः कथय कलितालक्तकरसं
पिबेयं विद्यार्थी तव चरणनिर्णेजनजलम्।
प्रकृत्या मूकानामपि च कविताकारणतया
कदा धत्ते वाणीमुखकमलताम्बूलरसताम्॥९८॥
सरस्वत्या लक्ष्म्या विधिहरिसपत्नो विहरते
रतेः पातिव्रत्यं शिथिलयति रम्येण वपुषा।
चिरं जीवन्नेव क्षपितपशुपाशव्यतिकरः
परानन्दाभिख्यं रसयति रसं त्वद्भजनवान्॥९९॥

प्रदीपज्वालाभिर्दिवसकरनीराजनविधिः
सुधासूतेश्चन्द्रोपलजललवैरर्घ्यरचना।
स्वकीयैरम्भोभिः सलिलनिधिसौहित्यकरणं
त्वदीयाभिर्वाग्भिस्तव जननि वाचां स्तुतिरियम्॥१००॥

सौन्दर्यलहरी समाप्ता.

__________

॥भवानीभुजङ्गस्तोत्रम्॥

षढाधार पङ्केरुहान्तं र्विराज त्सुषुम्नां तरालेषु तेजोल्लसंतीम्।
सुधामण्डलीं द्रावयन्तीं पिबंती सुधामूर्ति मीडे चिदानंद रूपाम्॥

ज्वलत्कोटि बालार्क भासारुणाङ्गीं सुलावण्य शृङ्गार शोभाभिरामाम्।
महापद्मकिञ्जल्क मध्ये विराज त्त्रिकोणोल्लसंतीं भजे श्रीभवानीम्॥

क्वणत्किङ्किणी नूपुरोद्भासि रत्न प्रभालीढ लाक्षार्द्र पादारविन्दम्।
अजेशाच्युताद्यैस्सुरै स्सेव्यमानं महादेवि मन्मूर्ध्नि ते भावयामि॥

सुशोणांबराबद्ध नीवीविराज न्महारत्न काञ्चीकलापं नितंबम्।
स्फुरद्दक्षिणा वर्तनाभिं च तिस्रो वलीरंबते रोमराजिं भजेऽहम्॥

लसद्वृत्त मुत्तङ्ग माणिक्यकुंभोपमश्री स्तनद्वन्द्व मंबांबुजाक्षि।
भजे दुग्धपूर्णाभि रामं त्वदीयं महाहारदीप्तं सदा प्रस्नुतास्यम्॥५॥

शिरीष प्रसूनोल्लस द्बाहुदंडै र्ज्वलद्बाण कोदण्ड पाशाङ्कुशैश्च।
चलकङ्कणो द्दामकेयूर भूषो ज्वलद्भिर्लसन्तीं भजे श्रीभवानीम्॥

वलत्कुन्तलां तद्भ्रमद्भृङ्ग बृन्दं घनस्निग्ध धम्मिल्ल भूषोज्ज्वलं ते।
स्फुरन्मौलि माणिक्यबद्धेंदुरेखा विलासोल्लस द्दिव्यमूर्धान मीडे॥

इतिश्री भवानिस्वरूपं तवैनं प्रपञ्चात्परं चाति सूक्ष्मं प्रसन्नम्।
स्फुरत्वम्ब डिम्भस्य मे हृत्सरोजे सदावाङ्मयं सर्वतेजो मयत्वम्॥

गणेशाभिमुख्याखिलै श्शक्तिबृन्दै र्वृतां वै स्फुर च्चक्रराजो ल्लसंतीम्।
परां राज राजेश्वरि त्रैपुरि त्वां शिवाङ्को परिस्थां शिवां भावयामि॥

शिवस्त्वं गुरुस्त्वं च शक्तिस्त्वमेव त्वमेवासि माता पिता च त्ममेव।
त्वमेवासि विद्या त्वमेवासि बंधु र्गतिर्मेमतिर्देवि सर्वंत्वमेव॥१०॥

श्रुतीनागम्ये सुवेदागमज्ञा महिम्नो न जानंतिपारं तवात्र।
स्तुतिं कर्तुमिच्छामि ते त्वं भवानि क्षमस्वैव मंब प्रमुग्धः किलाहम्॥

शरण्ये वरेण्ये सुकारुण्यमूर्ते हिरण्योदराद्यै रगण्ये सुपुण्ये।
भवारण्य भीतेश्च मां पाहि भद्रे नमस्ते नमस्ते नमस्ते भवानि॥

॥भवानीभुजङ्गस्तोत्रं समाप्तम्॥

__________

॥श्यामलादण्डकम्॥

माणिक्यवीणा मुपलालयन्तीं मदालसां मञ्जुलवाग्विलासाम्।
माहेन्द्रनीलद्युतिकोमलाङ्गीं मातङ्गकन्यां सततं स्मरामि॥

चतुर्भुजे चन्द्रकलावतंसे कुचोन्नते कुङ्कुमुरागशोणे।
पुण्ड्रेक्षुपाशाङ्कुशपुष्पबाणहस्ते नमस्ते जगदेकमातः॥

माता मरकतश्यामा मातङ्गी मदशालिनी।
कटाक्षयतु कल्याणी कदम्बवनवासिनी॥

जय मातङ्गतनये जय नीलोत्पलद्युते।
जय संगीतरसिके जय लीलाशुकप्रिये॥

जय जननि सुधासमुद्रान्तहृद्यन्मणिद्वीपसंरूढबिल्वाटवीमध्यकल्पद्रुमाकल्पकादंबकान्तारवासप्रिये, कृत्तिवासप्रिये, सर्वलोकप्रिये। सादरारब्धसंगीतसंभावनासंभ्रमालोलनीपस्रगाबद्धचूली सनाथत्रिके, सानुमत्पुत्रिके। शेखरीभूतशीतांशुरेखामयूखावलीबद्धसुस्निग्धनीलालकश्रेणिशृङ्गारिते, लोकसंभाविते। कामलीलाधनुसंनिभभ्रूलता-

पुष्पसंदोहसंदेहुकृल्लोचने, वाक्सुधासेचने। चारुगोरोचनापङ्ककेलीललामाभिरामे सुरामे, रमे। प्रोल्लसद्वालिकामौक्तिकश्रेणिकाचन्द्रिकामण्डलोद्भासिलावण्यगण्डस्थलन्यस्त कस्तूरिकापत्ररेखाखमुद्भूतसौरभ्यसंभ्रान्तभृङ्गाङ्गनागीतसान्द्रीभवन्मन्द्रतन्त्रीस्वरे, सुस्वरे, भास्वरे। वल्लकीवादनप्रक्रियालोलतालीदलाबद्धताटङ्कभूषाविशेषान्विते, सिद्धसंमानिते। दिव्यहालामदोद्वेलहेलालसच्चक्षुरान्दोलनश्रीसमाक्षिप्तकर्णे कनीलोत्पले, पूरिताशेषलोकाभिवाञ्छाफले, श्रीफले। स्वेदबिन्दूल्लसत्फाललावण्यनिःष्यन्दसंदोहसंदेहकृन्नासिकामौक्तिके, सर्वविश्वात्मिके, कालिके। मुग्धमन्दस्मितोदारवक्तूस्फुरत्पूगताम्बूलकर्पूरखण्डोत्करे, ज्ञानमुद्राकरेसर्वसंपत्करे, पद्मभास्वत्करे। कुन्दपुष्पद्युतिस्निग्धदन्तावली निर्मलालोलकल्लोलसंमेलनस्मेरशोणाघरे, चारुवीणाधरे, पक्वबिम्बाधरे॥१॥

सुललितनवयौवनारंभचन्द्रोदयोद्वेललावण्यदुग्धार्णवाविर्भवत्कंबुबिब्बोकभृत्कन्धरे, सत्कलामन्दिरे, मन्थरे। दिव्यरत्नप्रभाबन्धुरच्छन्नहारादिभूषासमुद्द्योतमानानवद्यांशुशोभे, शुभे। रत्नकेयूररश्मिच्छटापल्लवप्रोल्लसद्दोर्लताराजिते। योगिभिः पूजिते विश्वदिङ्मण्डलव्यापिमाणिक्यतेजःस्फुरत्कङ्कणालंकृते, विभ्रमालंकृते, साधकैः सत्कृते। वासरारंभबेलासमुज्जृम्भमाणारविन्दप्रतिद्वन्द्विपाणिद्वये, संततोद्यद्दये, अद्वये। दिव्यरत्नोर्मिकादीधितिस्तोमंसन्ध्यायमानाङ्गुलीपल्लवोद्यन्नखेन्दुप्रभामण्डले, सन्नताखण्डले, चित्प्रभामण्डले, प्रोल्लसत्कुण्डले। तारका राज्जिनीकाशहारावलिस्मेरचारुस्तनाभोगभारानमन्मध्यवल्लीव

लिच्छेदवीची समुल्लाससंदर्शिताकारसौन्दर्यरत्नाकरे, वल्लकीभृत्करे, किंकरश्रीकरे। हेमकुम्भोपमोत्तुङ्गवक्षोजभारावनम्रे, त्रिलोकावनम्रे। लसद्वृत्तगम्भीरनाभीसरस्तीरशैवालशङ्काकरश्यामरोमावलीभूषणे, मञ्जुसंभाषणे। चारुशिञ्जत्कटीसूत्रनिर्भत्सितानङ्ग-लीलाधनुःशिञ्जिनीडम्बरे। दिव्यरत्नांबरे। पद्मरागोल्लसन्मेखलाभास्वरश्रोणिशोभाजितस्वर्णभूभृत्तलेचन्द्रिकाशीतले ॥२॥

विकसितनवकिंशुकाताम्रदिव्यांशुकच्छन्नचारुरुशोभापराभूतसिंदूरशोणायमानेन्द्रमातङ्गहस्तार्गले, वैभवानर्गले, श्यामले। कोमलस्निग्धनीलोत्पलोत्पादितानङ्गतूणीरशङ्काकरोदारजङ्घालते, चारुलीलागते। नम्रदिक्पालसीमन्तिनीकुन्तल-स्निग्धनीलप्रभापुञ्ज संजातदूर्वाकुराशङ्कसारङ्गसंयोगरिङ्खन्नखेन्दुज्ज्वले, प्रोज्ज्वले, निर्मले। प्रह्वदेवेशलक्ष्मीशभूतेशतोये-शवाणीशकीनाशदैत्येश यक्षेशवाय्वग्निकोटीरमाणिक्य संघुष्टबालातपोद्दामलाक्षारसारुण्यतारुण्यलक्ष्मीगृहीताङ्घ्रिपद्मे, सुपद्मे, उमे॥३॥

सुरुचिरनवरत्नपीठस्थिते, सुस्थिते। रत्नपद्मासने, रत्नसिंहासने। शङ्खपद्मद्वयोपाश्रिते। तत्र विघ्नेशदुर्गावदुक्षेत्रपालै र्युते। मत्तमा तङ्गकन्यासमूहान्विते। मञ्जुलामेनकाद्यङ्गनामानिते। भैरवैरष्टभिर्वेष्टिते। देवि वामादिभिः शक्तिभिः सेविते। धात्रिलक्ष्म्यादिशक्त्यष्टकैः संयुते। मातृकामण्डलैर्मण्डिते। यक्षगन्धर्वसिद्धाङ्गनामण्डलैरर्चिते। पञ्चबाणात्मिके । पञ्चबाणेन रत्या च संभाविते। प्रीतिभाजा वसन्तेन चानन्दिते। भक्तिभाजां परं श्रेयसे कल्पसे। योगि

नां मानसे द्योतसे। छन्दसा मोजसा भ्राजसे। गीतविद्याविनोदातितृष्णेन कृष्णेन संपूज्यसे। भक्तिमच्चेतसा वेधसास्तूयसे। विश्वहृद्येन वाद्येन विद्याधरै र्गीयसे ॥४॥
श्रवणहरणदक्षिणक्वाणया वीणया किंनरै र्गीयसे। यक्षगन्धर्वसिद्धाङ्गनामण्डलै रर्च्यसे। सर्वसौभाग्यवान्छावतीभि र्वधूभिः सुराणां समाराध्यसे। सर्वविद्याविशेषात्मकं चाटुगाथासमुच्चारणं कण्ठमूलोल्लसद्वर्णराजित्रयं कोमलश्यामलोदारपक्षद्वयं तुण्डशोभातिदूरीभवत्किंशुकं तं शुकं लालयन्ती परिक्रीडसे। पाणिपद्मद्वयेनाक्षमाला मपि स्फाटिकीं ज्ञानसारात्मकं पुस्तकं चाङ्कुशं पाश माबिभ्रती येन संचिन्त्यसे, तस्य वक्त्रान्तराद्गद्यपद्यात्मिका भारती निःसरेत्। येन वा यावकाभाकृति र्भाव्यसे, तस्य वश्या भवन्ति स्त्रियः पूरुषाः। येन वा शातकुम्भद्युति र्भाव्यसे सोऽपि लक्ष्मीसहस्त्रैः परिक्रीडते। किं न सिद्ध्ये द्वपुःश्यामलं कोमलं चन्द्रचूडान्वितं तावकं ध्यायतः। तस्य लीलासरो वारिधि, स्तस्य केलीवनं नन्दनं, तस्य भद्रासनं भूतलं, तस्य गीर्देवता किंकरी, तस्य चाज्ञाकरी श्रीः स्वयम्। सर्वतीर्थात्मिके सर्वमन्त्रात्मिके सर्वतन्त्रात्मिके सर्वयन्त्रात्मिके सर्वपीठात्मिके सर्वतत्त्वात्मिके सर्वशक्त्यात्मिके सर्वविद्यात्मिके सर्वयोगात्मिके सर्वनादात्मिके सर्वशब्दात्मिके सर्वविश्वात्मिके सर्वदीक्षात्मिके सर्वसर्वात्मिके सर्वगे पाहि मां पाहि मां पाहि मां देवि तुभ्यं नमो देवि तुभ्यं नमो देवि तुभ्यं नमः॥५॥

श्यामलादण्डकम् समाप्तम्.

॥नवरत्नमाला॥

ओंकारपञ्जरशुकीमुपरिषदुद्यानकेलिकलकण्ठीम्।
आगमविपिनमयूरीमार्ग मंतर्विभावये गौरीम्॥१॥

दयमानदीर्घनयनां देशिकरूपेण दर्शिताभ्युदयाम्।
वामकुचनिहितवीणां वरदां संगीतमातृकां वन्दे॥२॥

श्यामलिमसौकुमार्यामानंदामंदसंपदुन्मेषाम्।
तरुणिमकरुणापूरां म

त्जलकल्लोललोचनां वंदे॥३॥

नखमुखमुखरितवीणानादरसास्वादनवनवोल्लासम्।
मुख मंब मोदयतु मे मुक्ताताटङ्कमुग्धहसितं ते॥४॥

सरिगमपधनिरतां तां वीणासंक्रान्तकान्तहस्तान्ताम्।
शांतां मृदुलस्वांतां कुचभरतांतां नमामि शिवकांताम्॥५॥

अवटुतटघटितचूलीपालीं तालीपलाशताटङ्काम्।
वीणावादनवेलाकंपितशिरसं नमामि मातङ्गीम्॥६॥

वीणारवानुषङ्गविकचम्दामोदमाधुरीभृङ्गम्।
करुणापूरितरङ्गंकलये नातङ्गकन्यकापाङ्गम्॥७॥

मणिभङ्गमेचकाङ्गीं मातङ्गीं नौमि सिद्धमातङ्गीम्।
यौवनवनसारङ्गीं संगीताम्भोरुहानुभवभृङ्गीम्॥८॥

मेचक मासेचनकं मिथ्यादृष्टान्तमध्यभागं तम्।
मात स्तव स्वरूपं मङ्गलसंगीतसौरभं मन्ये॥९॥

नवरत्नमाला समाप्ता
__________

॥अन्नपूर्णास्तोत्रम्॥

नित्यानंदकरी वराभयकरी सौंदर्यरत्नाकरी
निर्धूताखिलघोरपावनकरी प्रत्यक्षमाहेश्वरी।
प्रालेयाचलवंशपावनकरी काशीपुराधीश्वरी
भिक्षां देहि कृपावलंबनकरी मातान्नपूर्णेश्वरी॥ १॥

नानारत्नविचित्रभूषणकरी हेमांबराडंबरी
मुक्ताहारविलंबमानविलसद्वक्षोजकुंभांतरी।
काश्मीरागरुवासिताङ्गरुचिरेकाशीपुराधीश्वरी भिक्षां देहि०॥२॥

योगानंदकरी रिपुक्षयकरी धर्मार्थनिष्ठाकरी
चंद्रार्कानलभासमानलहरी त्रैलोक्यरक्षाकरी।
सर्वैश्वर्यसमस्तवांछितकरी काशीपुराधीश्वरी भिक्षां देहि०॥३॥

कैलासाचलकंदरालयकरी गौरी उमा शङ्करी
कौमारी निगमार्थगोचरकरी ओंकारबीजाक्षरी।
मोक्षद्वारकवाटपाटनकरी काशीपुराधीश्वरी भिक्षां देहि०॥४॥

दृश्यादृश्यविभूतिवाहनकरी ब्रह्मांडभांडोदरी
लीलानाटकसूत्रभेदनकरी विज्ञानदीपांकुरी।
श्रीविश्वेशमनःप्रसादनकरी काशीपुराधीश्वरी भिक्षां देहि०॥५॥

उर्वीसर्वजनेश्वरी भगवती मातान्नपूर्णेश्वरी
वेणीनीलसमानकुंतलहरी नित्यान्नदानेश्वरी।
सर्वानंदकरी सदाशुभकरी काशीपुराधीश्वरी भिक्षां देहि०॥६॥

आदिक्षांतिसमस्तवर्णनकरी शंमोस्त्रिभावाकरी
काश्मीरात्रिजलेश्वरी त्रिलहरी नित्यांकुरा शर्वरी।
कामाकांक्षकरी जनोदयकरी काशीपुराधीश्वरी भिक्षां देहि०॥७॥

देवी सर्वविचित्ररत्नरचिता दाक्षायणी सुंदरी
वामं स्वादुपयोधरप्रियकरी सौभाग्यमाहेश्वरी।
भक्ताभीष्टकरी सदाशुभकरी काशीपुराधीश्वरी भिक्षां देहि०॥८॥

चंद्रार्कानलकोटिकोटिसदृशा चंद्रांशुबिंबाधरी
चंद्रार्काग्निसमानकुंतलधरी चंद्रार्कवर्णेश्वरी।
मालापुस्तकपाशसांकुशधरी काशीपुराधीश्वरी भिक्षां देहि०॥९॥

क्षत्रत्राणकरी महाऽभयकरी माता कृपासागरी
साक्षान्मोक्षकरी सदा शिवकरी विश्वेश्वरश्रीधरी।
दक्षाक्रंदकरी निरामयकरी काशीपुराधीश्वरी भिक्षां देहि० ॥१०॥

अन्नपूर्णे सदापूर्णे शङ्करप्राणवल्लभे।
ज्ञानवैराग्यसिद्ध्यर्थं भिक्षां देहि च पार्वति॥११॥

माता च पार्वती देवी पिता देवो महेश्वरः।
बांधवाः शिवभक्ताश्च स्वदेशो भुवनत्रयम्॥१२॥

इति श्रीमत्परमहंस परिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ
॥अन्नपूर्णास्तोत्रं संपूर्णम्॥
__________

॥देवीपञ्चरत्नम्॥

प्रातस्स्मरामि ललितावदनारविंदं बिंबाधरं पृथुलमौक्तिकशोभिनासम्।
आकर्णदीर्घनयनं मणिकुण्डलाढ्यं मंदस्मितं मृगमदोज्ज्वलफालदेशम्॥

प्रातर्भजामि ललिताभुजकल्पवल्लीं रत्नाङ्गुलीयलसदङ्गुलिपल्लवाढ्याम्।
माणिक्यहेमवलयाङ्गदशोभमानां पुंड्रेक्षुचापकुसुमेषुसृणीर्दधानाम्॥

प्रातर्नमामि ललिताचरणारविंदं भक्तेष्टदाननिरतं भवसिंधुपोतम्।
पद्मासनादिसुरनायकपूजनीयं पद्माङ्कुशध्वज सुदर्शनलाञ्छनाढ्यम्॥

प्रातस्तुवे परशिवां ललितां भवानीं त्रय्यंतवेद्यविभवां करुणानवद्याम्।
विश्वस्य सृष्टिविलयस्थितिहेतुभूतां विद्येश्वरीं निगमवाङ्मनसातिदूराम्॥

प्रातर्वदामि ललिते तवपुण्यनाम कामेश्वरीति कमलेति महेश्वरीति।
श्रीशांभवीति जगतां जननी परेति वाग्देवतेति वचसा त्रिपुरेश्वरीति॥

यश्श्लोक पञ्चकमिदं ललितांबिकायास्सौभाग्यदं सुललितं पठतिप्रभाते।
तस्मैददातिललिताझडिति प्रसन्नाविद्यां श्रियं विमलसौख्यमनंतकर्तिम्॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्कर भगवतः कृतौ
॥देवीपञ्चरत्नं संपूर्णम्॥

___________

॥मन्त्रमातृकापुष्पमालास्तवः॥

कल्लोलोल्लसितामृताब्धिलहरी मध्ये विराजन्मणि
द्वीपेकल्पकवाटिकापरिवृते कादंबवाट्युज्ज्वले।

रत्नस्तंभसहस्रनिर्मितसभामध्ये विमानोत्तमे
चिंतारत्नविनिर्मितं जननि ते सिंहासनं भावये॥१॥

एणांकानलभानुमण्डललसच्छ्रीचक्रमध्ये स्थिताम्
बालार्कद्युतिभासुराङ्करतलैः पाशांकुशौ बिभ्रतीम्।
चापं बाण मपि प्रसन्नवदनां कौसुंभवस्त्रान्वितां
तां त्वां चंद्रकलावतंसमकुटां चारुस्मितां भावये॥२॥

ईशानादिपदं शिवैकफलकं रत्नासनं ते शुभं
पाद्यं कुंकुमचन्दनादिभरितैरर्घ्यं सरत्नाक्षतैः
शुद्धै राचमनीयकं तव जलै र्भक्त्या मया कल्पितं
कारुण्यामृतवारिधे तदखिलं संतुष्टये कल्प्यताम्॥३॥

लक्ष्ये योगिजनस्य लक्षितजगज्जाले विशालेक्षणे
प्रालेयांबुपटीरकुङ्कुमलसत्कर्पूरमिश्रोदकैः।
गोक्षीरै रपि नारिकेलसलिलै श्शुद्धोदकै र्मंत्रितै
स्स्नानं देवि धिया मयैत दखिलं संतुष्टये कल्प्यताम्॥४॥

ह्रींकारांकितमंत्रलक्षिततनोहेमाचलात्संचितै
रत्नै रुज्ज्वल मुत्तरीयसहितं कौसुंभवर्णांशुकम्।
मुक्तासंततियज्ञसूत्रममलं सौवर्णतंतूद्भवं
दत्तं देवि धियामयैतदखिलं संतुष्टये कल्प्यताम्॥५॥

हंसै रप्यतिलोभनीयगमने हारावली मुज्ज्वलां
हिंदोलद्युतिहीरपूरिततरे हेमाङ्गदेकङ्कणे

मञ्जीरौ मणिकुंडले मकुटमप्यर्धेंदुचूडामणिं
नासामौक्तिकमंगुलीयकटकौ काञ्ची मपि स्वीकुरु॥६॥

सर्वाङ्गे घनसारकुङ्कुमघन श्रीगंधपङ्काङ्कितं
कस्तूरीतिलकञ्च फालफलके गोरोचनापत्रकम्।
गंडादर्शनमंडले नयनयोर्दिव्यांजनं तेंऽचितं
कंठाब्जे मृगनाभिपङ्क ममलं त्वत्प्रीतये कल्प्यताम्॥७॥

कह्लारोत्पलमल्लिकामरुवकै स्सौवर्णपङ्केरुहै
र्जातीचंपकमालतीवकुलकै र्मंदारकुंदादिभिः।
केतक्या करवीरकैः र्बहुविधैः क्लृप्ता स्त्रजो मालिका
स्सङ्कल्पेन समर्पयामि वरदे संतुष्टये गृह्यताम्॥८॥

हंतारं मदनस्य नंदयसि यै रङ्गै रसंगोज्ज्वलै
र्यै र्भृंगावलिनीलकुन्तलभरैर्बघ्नासितस्याशयम्।
तानीमानि तवांब कोमलतराण्यामोदलीलागृहा
ण्यामोदाय दशांगगुग्गुलुघृतै र्धूपै रहं धूपये॥९॥

लक्ष्मी मुज्ज्वलयामि रत्ननिवहोद्धासांतरे मन्दिरे
मालारूपविलंबितैर्मणिमयस्तंभेषु संभावियैः।
चित्रैर्हाटकपुत्रिकाङ्करधृतै र्गव्यै घृतैर्वर्धितै
र्दिव्यै दीपगणै र्धिया गिरिसुते संतुष्टये कल्प्यताम्॥१०॥

ह्रींकारेश्वरि तप्तहाटककृतैः स्थालीसहस्त्रे र्भृतं
दिव्यान्नं घृतसूपशाकभरितं चित्रान्नभेदं तथा।

दुग्धान्नं मधुशर्करादधियुतं माणिक्यपात्रे स्थितं
माषापूपसहस्र मंब सफलं नैवेद्य मावेदये॥११॥

सच्छायै र्वरकेतकीदलरुचातांबूलवल्लीदलैः
पूगै र्भूरिगुणैस्सुगंधिमधुरैः कर्पूरखंडोज्ज्वलैः।
मुक्ताचूर्णविराजितैर्बहुविधै र्वक्त्रांबुजामोदितैः
पूर्णारत्नकलाचिका तवमुदे न्यस्ता पुरस्ता दुमे॥१२॥

कन्याभिः कमनीयकांतिभि रलङ्कारामलारार्तिका
पात्रे मौक्तिकचित्रपंक्तिविलसत्कर्पूरदीपालिभिः।
तत्तत्तालमृदंगगीतसहितं नृत्यत्पदांभोरुहं
मंत्राराधनपूर्वकं सुनिहितं नीराजनं गृह्यताम्॥१३॥

लक्ष्मी र्मौक्तिकलक्षकल्पितसितच्छत्रं तु धत्तेरसा
दिंद्राणी च रति श्च चामरवरे धत्ते स्वयं भारती।
वीणा मेणविलोचना स्सुमनसां नृत्यंति संरागव-
द्भावै रांगिकसात्त्विकैः स्फुटरसं मात स्त्व माकर्ण्यताम्॥१४॥

ह्रींकारत्रयसंपुटेन मनुनोपास्ये त्रयीमौलिभि
र्वाक्यै लक्ष्यतनो तव स्तुतिविधौ कोवा क्षमेतांबिके।
सल्लापाः स्तुतयः प्रदक्षिणशतं संचार एवास्तु ते
संवेशो मनस स्सहस्रमखिलं त्वत्प्रीतये कल्प्यताम्॥१५॥

श्रीमंत्राक्षरमालया गिरिसुतां यः पूजये च्चेतसा
सन्ध्यासु प्रतिवासरं सुनियत स्तस्यामल स्याचिरात्।

चित्तांभोरुहमंटपे गिरिसुता नृत्तं विधत्ते रसा
द्वाणी वक्त्रसरोरुहे जलधिजा गेहे जगन्मंगला॥१६॥

इति गिरिवरपुत्तीपादराजीवभूषा
भुवनममलयंती सूक्तिसौरभ्यसारैः।
शिवपदमकरंदस्यंदिनी मन्निबद्धा
मदयतु कविभृंगान् मातृकापुष्पमाला॥१७॥

इति श्रीमद्भगवत्पादाचार्यविरचिता मन्त्रमातृकापुष्पमालात्मक
नित्यमानसपूजास्तुतिः संपूर्णा.

__________

॥लघुस्तुतिः॥

ऐन्द्रस्येव शरासनस्यदधती मध्येललाटं प्रभा
शौक्लीं कान्तिमनुष्णगोरिव शिरस्यातन्वती सर्वतः।
एषा सौ त्रिपुराहृदि द्युति रिवोष्णांशो स्सदाहस्थिता
छिंद्या न्न स्सहसा पदै स्त्रिभि रघं ज्योतिर्मयी वाङ्मयी॥१॥

यामात्रा त्रपुकीलिता तनुलसत्तंतुस्थितिस्पर्धिनी
वाग्बीजेप्रथमे स्थिता हृदिसदा तां मन्महे ते वयम्।
शक्तिः कुंडलिनीति विश्वजननी व्यापारबंधोद्यमां
ज्ञात्वेत्थंनपुन स्स्पृशंति जननीगर्भेऽर्भकत्वं सुराः॥२॥

दृष्ट्वा संभ्रमकारि वस्तुसहसा ऐऐ इति व्याहृतं
येनाऽकूतवशादपीह वरदे बिंदुविनाप्यक्षरम्।
तस्यापिध्रुवमेव देवि तरसा काते तवानुग्रहे
वाच स्सूक्तिसुधारसद्रवमुचो निर्यांति वक्त्रांबुजात्॥३॥

य न्नित्ये तबकामराज मपरं मंत्राक्षरं निष्कलं
त त्सारस्वत मित्यवैति विरलः कश्चि द्बुधश्चेद्भुवि।
आख्यानं प्रतिपर्व सत्यतपसो यत्कीर्तयंतो द्विजाः
प्रारंभे प्रणवास्पद प्रणयितां नीत्वोच्चरंति स्फुटम्॥४॥

य त्सद्यो वचसां प्रवृत्तिकरणे दृष्टप्रभावं बुधै
स्तार्तीयं बत हं नमामि मनसा त्वद्वीज मिंदुप्रभम्
अस्त्यारोपि सरस्वती मनुगतो जाड्यांबुविच्छित्तये
सौशब्दोगिरि वर्तते सनियतं योगं विनासिद्धिदः॥५॥

एकैकं तव देवि बीज मनघं सव्यंजनाव्यंजनं
कूटस्थं यदिवा पृथक्क्रमगतंयद्वा स्थितं व्युत्क्रमात्।
यं यं काम मपेक्ष्य येन विधिना केनापिवा चिंतितं
जप्तंवा सफलीकरोति तरसा तं तं समस्तं नृणाम्॥६॥

वामे पुस्तकधारिणीमभयदां साक्षस्रजं दक्षिणे
भक्तेभ्यो वरदानपेशलकरां कर्पूरकुंदोज्ज्वलाम्।
उज्जृम्भांबुजपत्रकांति निवहस्निग्धप्रभालोकिनीं
ये त्वा मंब नशीलयंति मनसातेषां कवित्वं कुतः॥७॥

ये त्वां पांडरपुंडरीकपटलस्रष्टाभिरामप्रभां
सिंचंती ममृतद्रवैरिव शिवे ध्यायंति मूर्ध्नि स्थिताम्।
अश्रांतं विकटस्फुटाक्षरपदं निर्याति वक्त्रोदरा त्तेषां
भारति भारती सुरसरित्कल्लोल लोलोर्मिवत्॥८॥

ये सिंदूरपरागपुञ्जपिहितां त्वत्तेजसा द्या मिमा
मुर्वी चापि विलीनयावकरस प्रस्तार मज्ञामिव।
ध्यायंति क्षणमप्यनन्यमनस स्तेषामनङ्ग ज्वर
क्लांतास्त्रस्तकुरंगशाबकदृशो वश्या भवंति स्त्रियः॥९॥

चंचत्कांचन कुंडलांगदधरा माबद्धकांचीस्रजं
ये त्वां चेतसि तद्गतेक्षणमपि ध्यायंति कृत्वा स्त्रियम्।
तेषां वेश्मसु विभ्रमा दहरह स्स्फारीभवंत्य श्चिरं
माद्यत्कुंजरकर्णतालतरला स्थैर्यं भवंतिस्त्रियः॥१०॥

आर्भट्या शशिखण्डमण्डनजटाजूटां नृमुंडस्रजं
बंधूकप्रसवारुणांबरधरां प्रेतासनाध्यासिनीम्।
त्वां ध्यायंति चतुर्भुजां त्रिनयना मापीनतुङ्गस्तनीं
मध्ये निम्नवलित्रयांकिततनुं त्वद्रूप संवित्तये॥११॥

जातोऽप्यल्पपरिच्छदे क्षितिभुजां सामान्यमात्रे कुले
निश्शेषावनिचक्रवर्तिपदवीं लब्धा प्रतापोन्नतः।
यद्विद्याधरवृंदवंदितपदः श्रीवत्सराजोऽभव
द्देवित्वच्चरणांबुजप्रणतिज स्सोऽयंप्रसादोदयः॥१२॥

चंडित्वच्चरणांबुजार्चनविधौ बिल्वीदलोल्लुंठना
त्रुट्यत्कंटककोटिभिः परिचयं येषां न जग्मुः कराः।
ते दंडांकुशचक्रचापकुलिशश्रीवत्समत्स्यांकितैः
जायंते पृथिवीभुजः कथमिवांभोजप्रभैः पाणिभिः॥१३॥

विप्राः क्षोणिभुजो विशस्तदितरे क्षीराज्यमध्वासवै
स्त्वां देवि त्रिपुरे परापरमयीं संतर्प्यपूजाविधौ।
यां यां प्रार्थयते मनस्थिरतया तेषां त एतेध्रुवं
तां तां सिद्धिमवाप्नुवंति तरसा विघ्नै रविघ्नीकृताः॥१४॥

शब्दानांजननि त्वमत्र भुवने वाग्वादिनीत्युच्यसे
त्वत्तः केशववासवप्रभृतयोऽप्याविर्भवंति ध्रुवम्।
लीयंतेखलु यत्रकल्पविरमे ब्रह्मादयस्तेऽप्यमी
सात्वं काचिदचिंत्यरूपगरिमा शक्तिः परागीयसे॥१५॥

देवानां त्रितयंत्रयी हुतभुजां शक्तित्रयं त्रिस्वरा
स्त्रैलोक्यत्रिपुटीत्रिपुष्करमथत्रिब्रद्मवर्णा स्त्रयः
यत्किंचिज्जगति त्रिधानियमितं वस्तुत्रिवर्गात्मकं
तत्सर्वं त्रिपुरेति नामभगवत्यन्वेति ते तत्त्वतः॥१६॥

लक्ष्मीं राजकुले जयां रणमुखे क्षेमंकरी मध्वनि
क्रव्यादद्विपसर्पभाजि शबरीं कांतारदुर्गेगिरौ।
भूतप्रेतपिशाचजृंभकभये स्मृत्वा महाभैरवीं
व्यामोहेत्रिपुरां तरंति विपद स्तारांचतोयप्लवे॥१७॥

मायाकुंडलिनीक्रिया मधुमथी कालीकलामालिनी
मातंगी विजयाजयाभगवती गौरीशिवा शांभवी।
शक्ति श्शङ्करवल्लभात्रिनयना वाग्वादिनी भैरवी
ह्रीङ्कारी त्रिपुरे परापरमयी माता कुमारीत्यसि॥१८॥

आईपल्लवितैः परस्परयुतै र्द्वित्रिक्रमाद्यक्षरैः
काद्यैः क्षांतगतै स्स्वरादिभि रथ क्षांतैश्च तै स्सस्वरैः।
नामानि त्रिपुरे भवंति खलु या न्यत्यंतगुह्यानिते
तेभ्यो भैरवपत्निविंशतिसहस्रेभ्यः परेभ्यो नमः॥१९॥

बोद्धव्या निपुणं पदैस्तुति रियं कृत्वा मनस्तद्गतं
भारत्यात्रिपुरे त्वनन्यमनसो यत्राद्यपद्यै स्स्फुटम्।
एकद्वित्रिपदक्रमेण कथित स्त्वत्पादसंख्याक्षरै
र्मंत्रोद्धारनिधि र्विशेषसहित स्सत्यं प्रदायान्वितः॥२०॥

सावद्यं निरवद्य मस्तुयदिवा किंवाऽनया चिंतया
नूनंस्तोत्र मिदं पठिष्यतिजनो यस्यास्ति भक्तिस्त्वयि।
संचिंत्यापि लघुत्वमात्मनि दृढं संजायमानं हठा
त्त्वद्भक्त्या मुखरीकृतेन सुचिरं यस्मान्मयाऽपि ध्रुवम्॥२१॥

इति श्रीमत्कविराजराजमकुटरत्न राजिनीराजितचरणारुणराजीवस्य राजराजेश्वरी
करुणाकटाक्षलब्धनिखिलानवद्यविद्यस्य तत्रभवतः श्रीकालिदासस्य
कृतिषु श्रीदेवीलघुस्तुति सम्पूर्णा

__________

॥चर्चास्तुतिः॥

सौन्दर्यविभ्रमभुवो भुवनाधिपत्यं संपत्तिकल्पतरवस्त्रिपुरे जयंति।
एते कवित्वकुमुदप्रकरावबोधपूर्णेंदवस्त्वयि जगज्जननि प्रणामाः॥१॥

देविस्तुतिव्यतिकरे कृतबुद्धयस्ते वाचस्पतिप्रभृतयोऽपि जडीभवंति।
तस्मा न्निसर्गजडिमा कतमोऽहमत्रस्तोत्रं तव त्रिपुरतापनपत्नि कर्तुम्॥

मातस्तथापि भवती भवतीप्रतापविच्छित्तये स्तुतिमहार्णवकर्णधारः।
स्तोतुं भवानि स भवच्चरणारविंदभक्तिग्रहःकिमपि मांमुखरीकरोति॥

सूते जगंति भवती भवती बिभर्ति जागर्तितत्क्षयकृते भवती भवानि।
मोहं भिनत्तिभवती भवती रुणद्धिलीलायितंजगतिचक्रमिदं भवत्याः॥

यस्मिन्मनागपि नवांबुजपत्तगौरींगौरीप्रसादमधुरांदृश मादधासि।
तस्मि न्निरंतर मनंगशरप्रकीर्णसीमंतिनीनयनसन्ततयः पतंति॥५॥

पृथ्वीभुजोऽप्युदयनप्रवरस्य तस्य विद्याधरप्रणतिचुंबितपादपीठः।
चक्रवर्तिपदवीं प्रणय स्सएष त्वत्पादपंकजरजःकणजः प्रसादः॥

कल्पद्रुमप्रसवकल्पितचित्रपूजा मुद्दीपितप्रियतमामदरक्त गीतैः।
नित्यं भवानि भवती मुपवीणयंति विद्याधराः कनकशैलगृहागतेषु॥

लक्ष्मीवशीकरणकर्मणि कामिनीना माकर्षणव्यतिकरेषु च सिद्धमंत्रः।
नीरंध्रमोहतिमिरच्छिदुरप्रदीपो देवि त्वदंघ्रिजनितो जयति प्रसादः॥

देवि त्वदंघ्रिनखरत्नभुवा मयूखाः प्रत्युप्तमौक्तिरुचोमुद मुद्वहंति।
सेवानतिव्यतिकरे सुरसुन्दरीणां सीमंतसीम्नि कुसुमस्तबकायितं यैः॥

मूर्ध्नि स्फुरत्तुहिनदीधिति कांतिमित्रं मध्येललाटमपरायुधरश्मिचित्रम्।
हृच्चक्रचुंबिहुतभुक्कणिकानुरूपं ज्योतिर्यदेतदिद मंब तवस्वरूपम्॥

रूपं तव स्फुरितचन्द्रमरीचिगौर मालोक्यते शिशिरवागधिदैवतं यः।
निस्सीमसूक्तिरचनामृतनिर्झरिण्यस्तस्य प्रकाममधुराः प्रसरंतिवाचः॥

सिंदूरपांसुपटलच्छुरिता मिवद्यां त्वत्तेजसा जतुरसन्नपिता मिवोर्वीम्।
यः पश्यति क्षणमपि त्रिपुरेविहाय व्रीलां विहाय सुदृश स्तमनुव्रजंति॥

मात र्मुहूर्तमपि य स्स्मरति स्वरूपं लाक्षारसन्नपिततंतुनिभं भवत्याः।
ध्यायं त्यनन्यमयसस्त मनंगतताः प्रद्युम्न सीम्नि सुभगत्वगुणास्तरुण्यः॥

योऽयं चकास्ति भगणार्णवरत्न मिंदु र्योऽयं सुरासुरगुरुः पुरुषः पुराणः।
यद्वाम मर्धमिद मंधकसूदनस्य देवि त्वमेव तदिति प्रतिपादयंति॥

इच्छानुरूपमनुरूपगुणप्रकर्षं संकर्षणत्व मभिसृत्य यदा बिभर्षि।
जायेत न त्रिभुवनैकगुरुस्तदानींदेव श्शिवोऽपिभुवनत्रय सूत्रधारः॥

त्वां व्यापिनीति सुमना इति कुंडलीति
त्वां कामिनीति कमलेति कलावतीति।
त्वां मालिनी त्यमलिने त्यपराजितेति
देवि स्तुवंति विजयेति जये त्युमेति॥१६॥

आधारमारुतनिरुद्धवशेन एषां
सिंदूररंजितसरोजगुणानुकारि।
तीव्रं हृदि स्फुरति देवि महस्त्वदीयं
ध्यायंति तानि प्रसमीहितसिद्धसाध्याः॥१७॥

ये चिंतयंत्यरुणमंडलमध्यवर्तिरूपं तवांबनवयावकपंकरम्यं।
तेषां तथैव कुसुमायुधबाणभिन्न वक्षःस्थला मृगदृशोवशगा भवंति॥

त्वां मैंदवी मिव कला मनुफालदेश
मुद्भासितांबरधरा मभिलोकयंति।
सद्योभवानि सुधियः कवयो भवंति
त्वद्भावनाधिकधियां किल कामधेनुः॥१९॥

उत्तप्तहेमरुचिरे त्रिपुरे पुनीहिचेत श्चिरंतन मघौघवनं पुनीहि।
कारागृहे निगलबंधनयंत्रितस्य त्वत्संस्मृतौ झडिति तन्निगलागलंति॥

लक्ष्मीवशीकरणचूर्णसहोदराणि
त्वत्पादपङ्कजरजांसि शिवे जयंति।
यानि प्रणाममिलितानि नृणां ललाटे
शंसंति धातृलिखितानि दुरक्षराणि॥२१॥

यस्स्तोत्रमेतदनुवासरमंबिकायाः
श्रेयस्करं पठति वायदिवा शृणोति।
तस्येप्सितं फलति राजभिरीड्यतेऽसौ
ध्यायेत स त्रिभुवनीमदिरेक्षणानाम्॥२२॥

खड्गं पादुक मञ्जनं च घुटिकां सारस्वतं संपदं
मृत्यो र्वंचनमुग्रकालहरणं देहस्थितेः कारणम्।
भ्रूभङ्गा दगतुङ्गवृक्षपतनं वश्यं जगद्योषितां
चर्चा जाप्य भिदं करोति सततं त्वत्पूजक स्येप्सितम्॥२३॥

इति श्रीकालिदासविरचिता चर्चास्तुतिः समाप्ता

__________

॥अम्बास्तुतिः॥

या मामनंति मुनयः प्रकृतिं पुराणीं विद्येतियां श्रुतिरहस्य गिरो गृणंति।
ता मर्धपल्लवितशङ्कर रूपमुद्री देवी मनन्यशरण श्शरणं प्रपद्ये॥

अम्बस्तवेषु तव तावदकृत्रिमाणि
कुंठीभवंति वचसामपिगुंभनानि।

डिंभस्य मे स्तुति रसा वसमञ्जसापि
वात्सल्यनिघ्नहृदयां भवतीं धिनोतु॥२॥

व्योमेति बिंदु रिति नाद इतींदुरेखा
रूपेति वाग्भवतनूरिति मातृकेति।
निष्यंदमाणसुखबोधसुधास्वरूपा
विद्योतसे मनसि भाग्यवतां जनानाम्॥३॥

आविर्भवत्पुलकसंहतिभि श्शरीरै निष्यंदमानसलिलै र्नयनै श्च नित्यम्।
वाग्भि श्च गद्गदपदाभि रुपासते ये पादौ तवांब भुवनेषु त एव धन्याः॥

वक्त्रं यदुद्यतमभिष्टुतये भवत्या
स्तुभ्यं नमो यदसि देवि शिरः करोति
चेत श्च यत्त्वयि परायण मम्बतानि
कस्यापि तैरपि भवंति तपोविशेषैः॥५॥

मूलालवालकहरादुदिता भवानि निर्भिद्य षट्छिरसिजानि तटिल्लतेव।
भूयोऽपि तत्र विशति ध्रुव मंचितेंदुनिष्यन्दमान परमामृतवृष्टिरूपा॥

दग्धं पुरा मदन मेकमनेक धाते मुग्धः कटाक्षविधि रंकुरयांचकार।
धत्ते तदा प्रभृति देवि ललाटनेत्रं सत्यं ह्रियैव मुकुलीकृतमिंदुमौलेः॥

अज्ञातसंभव मनाकलितान्ववायं भिक्षुं कपालिन मवासस मद्वितीयम्।
पूर्वं करग्रहणमङ्गलतो भवत्या श्शंभुं कएव बुबुधे गिरिराजकन्ये॥

चर्मां बरं च शवभस्मविलेपनं च भिक्षाटनं च वसति श्च परेतभूमौ।
भेतालसंहतिपरिग्रहिता च शंभो श्शोभांवहंति गिरिजे तव साहचर्यात्।

कल्पोपसंहरणकेलिषु पंडितानि
चंडानि खण्डपरशो रपि तांडवानि।
आलोकितेन तव कोमलितानि मात
र्लास्यात्मना परिणमंति जगद्विभूत्यै॥१०॥

जंतो रपश्चिमतनो स्सति कर्मसाम्ये
निश्शेषपाशपटलच्छिदुरा निमेषान्।
कल्याणदेशिककटाक्षसमाश्रयेण
तारुण्यतो भवति शांभवदेवदीक्षाम्॥११॥

मुक्ताविभूषणवती नवविद्रुमाभा यच्चेतसि स्फुरसि तारकितेव संध्या।
एक स्सएव भुवनत्रयसुंदरीणां कंदर्पतांव्रजति पञ्चशरीं विनापि॥

ये भावयं त्यमृतवाहिभिरंशुजालै
राप्लाव्यमानभुवना ममृतेश्वरीं ताम्।
ते लंघयंति ननु मात रलंघनीयां
ब्रह्मादिभि स्सुरवरै रपि कालकाक्ष्याम्॥१३॥

यः स्फाटिकाक्षगुणपुस्तककुंडिकाढ्यां
व्याख्यानमुद्रितकरां शरदिंदुशुभ्राम्।
पद्मासनां च हृदये भवती मुपास्ते
मात स्स विश्वकवितार्किकचक्रवर्ती॥१४॥

बर्हावतंसयुत बर्बरकेशपाशां
गुञ्जवली कृतघनस्तनभारशोभाम्।

श्यामां प्रवालवसनां शरचापहस्तां
त्वामेव नौमि शबरीं शबरस्य नाथाम्॥१५॥

अर्धेन किं तव तथा कलितेन मुग्धे
क्रीतं विभोः पुरुष मर्ध मिदं शरीरम्।
आलीजनस्य परिहासवचांसि मन्ये
मंदस्मितेन तव देवि जडीभवंति॥१६॥

ब्रह्मांडबुद्बुदकदंबक संकुलोऽयं मायोदधिर्विविधतत्त्वतरङ्गमालः।
आश्चर्य मंब झडिति प्रलयं प्रयाति त्वद्ध्यानसंततिमहाबडबामुखाग्नौ॥

दाक्षायणीति कुटिलेति कुहारिणीति
कात्यायनीति कमलेति सरस्वतीति।
एका सती भगवती परमार्थतोऽपि
संदृश्यसे बहुविधा ननु नर्तकीव॥ १८॥

आनंदलक्षण मनाहतनाम्नि देशे नादात्मना परिणतं तव रूप मीशे।
प्रत्यङ्मुखेन मनसा परिचीयमानं शंसंतिनेत्रसलिलैः पुलकैश्च धन्याः॥

त्वं चंद्रिकाशशिनि तिग्मरुचौ रुचि स्त्वं
त्वं चेतनाऽसि पुरुषे पवने बलं त्वम्।
त्वं स्वादुताऽसि सलिले शिखिनि त्वमूष्मा
निस्सार मेत दखिलं त्वद्यते यदिस्यात्॥२०॥

ज्योतींषि य द्दिवि चरंति य दंतरिक्षं
सूते पयांसि यदहि र्धरणीं च धत्ते।

यद्वाति वायु रनलो य दुदर्चि रास्ते
तत्सर्व मंब तव केवल माज्ञयैव॥२१॥

संकोच मिच्छसि यदा गिरिजे तदानीं
वाक्तर्कयोस्त्व मसि भूमि रनामरूपा।
यद्वाविकास मुपयासि यदा तदानीं
त्वन्नामरूपगणना स्सुकराभवंति॥२२॥

भोगाय देवि भवतीं कृतिनः प्रणम्य
भ्रूकिंकरीकृतसरोजगुहा स्सहस्रम्।
चिन्तामणौ प्रलयकल्पित केलिशैले
कल्पद्रु मोपवन एव चिरं चरन्ति॥२३॥

हर्त्री त्वमेव भवसि त्वदधीन मीशे
संसारताप मखिलं दययापशूनाम्।
वैकर्तनी किरणसन्तति रेव नूनं
धर्मं निजं शमयितुं निजयाहि दृष्टया॥२४॥

शक्ति श्शरीर मधिदैवत मन्तरात्मा
ज्ञानं क्रियाकरणमानसजाल मिच्छा।
ऐश्वर्यमायतन मावरणानि तत्त्वं
किं त न्नय द्भवसि देवि शशाङ्कमौलेः॥२५॥

भूमौ निवृत्ति रुदिता वयसि प्रतिष्ठा
विद्यावरे मरुति शान्ति रतीवकान्तिः।

व्योम्नीति याः किलकलाः कलयन्ति विश्वं
तासां हि दूरतर मंब पदं त्वदीयम्॥२६॥

विद्यां परां कतिचिदम्बर मंब केचि
दानन्दमेव त्कतिचित्कतिचि च्च मायाम्।
त्वां विश्वमाहुरपरे वय मामनाम
स्साक्षादपापकरुणां गुरुमूर्तिमेव॥२७॥

यावत्पदं पदसरोजयुगं त्वदीयं नांगीकरोति हृदयेषु जगच्छरण्ये।
तानि त्रिकल्पजटिलाः कुटिलप्रतर्कग्राहा स्समयिनां प्रलयं प्रयांति॥

निर्देवयानपितृयान विहारमेति
कृत्वा मनःकरणमण्डलसार्वभौमम्।
यनेनिवेश्य तव कारणपञ्चकस्य
सर्वाणि पार्वतिनयन्ति निजासनत्वम्॥२९॥

स्थूलासु मूर्तिषु महीप्रमुखासुमूर्तेः
कत्याश्च नापि तव वैभव मम्ब्रयस्याः।
पत्यागिरा मपि नशक्यत येव वक्त्रं

सापि स्तुता किलमयेति तितीक्षितव्यम्॥३०॥

कालाग्निकोटिरुचिपुञ्जषडध्वशुद्धा
वप्लावनेषु भवती ममृतौघवृष्टिम्।
श्यामां घनस्तनतटांशकलीकृताघां
ध्यायंति ये हि जगतां गुरवोभवंति॥३१॥

कुवलयदलनीलं बर्बरस्निग्धकेशं
पृथुतरकुचभारक्रान्तकान्तावलग्नम्।
बहुभि रिह कि मुक्तै स्निग्धरूपं परं न
स्सकलभुवनमात स्संततं सन्निधत्ताम्॥३२॥

इति श्रीकालिदासकृतौ अम्बास्तुतिः समाप्ता.

__________

॥सकलजननीस्तवः॥

अजानन्तो यांति क्षयमवश मन्योन्यकलहै
रमीमायाग्रन्थौ तव परिलुठन्त स्समयिनः।
जगन्मातर्जन्मज्वरभयतमः कौमुदिरियं
नमस्ते कुर्वाण श्शरण मुपयामो भगवतीम्॥१॥

वचस्तर्कागम्यस्वरसपरमानन्दविभव
प्रबोधाकाराय द्युतिदलितनीलोत्पलरुचे।
शिवाद्याराध्याय स्तनभरविनम्राय महते
नमो यस्मै कस्मैचन भवतु मुग्धाय महसे॥२॥

लुठद्गुञ्जाहारस्तनभरनमन्मध्यलतिका
मुदञ्चद्धर्मांभः कणगुणितवक्त्रांबुजरुचिंम्।
शिवं पार्थत्राणप्रवणमृगयाकारकरुणं
शिवामन्वग्यांतीं शरणमह मन्वैमि शबरीम्॥३॥

मिथः केशाकेशिप्रथननिथना स्तर्कघटना
बहुश्रद्धाभक्ति प्रणतविषयाश्चापि विधयः।

प्रसीद प्रत्यक्षीभवगिरिसुते देहिचरणौ
निरालंबेचेतः परिलुठति पारिप्लवमिदम्

शुनां वा वह्नेर्वा खगपरिषदं वा यदशनं
तयाकेन क्वेति क्वचिदपि न कश्चित्कलयति।
अमुष्मिन्विश्वासं विसिहि निजमह्नाय वपुषि
प्रपद्येधाश्चेत स्सकलजननी मेवशरणम्

अनाद्यंताभेदप्रणयरचितापि प्रणयिनी
शिवस्याजय्यत्वं परिणयविधौ देवि गृहिणी।
सवित्री भूतानामपि यदुदभूश्शैलतनया
तदेतत्संसारप्रणयनमहानाटकमुखम्

ब्रुवंत्येते तत्त्वं भगवति स दन्ये विदुरसत्
परेमातः प्राहुस्सदसदपिचान्येऽप्यसदसत्।
चिरेणैतत्सर्वं समभिदधतं देवि सुधिय
स्तदेत त्वन्मायाविलसितमशेषं ननु शिवे

तटित्कोटिर्ज्योतिर्द्युतिदलितषड्ग्रन्थिघटनं
प्रविष्टं स्वाधारे पुनरपि सुधावृष्टिवपुषा।
किमप्यष्टाविंशत्किरणशकलीभूत मनिशं
भजे धाम श्यामं कुचभरनतं बर्बरकचम्

चतुष्पत्रान्त ष्षड्दलपुटभगान्त स्त्रिवलयां
स्फुरद्विद्युद्वह्निद्युमणि नियुताभद्युतियुते।

षडश्रंभित्वादौ दशदल मथ द्वादशदलं
कलाश्रंच द्व्यंश्रंगतवति नमस्ते गिरिसुते॥९॥

कुलं केचित्प्राहु र्वपुरकुलमन्ये तव बुधाः
परे तत्संभेदं समभिदधते कौल मपरे।
चतुर्णा मेतेषा मुपरि किमपि प्राहु रपरे
महामाये तत्त्वं तव विधममी निश्चिनुमहे॥१०॥

प्रकाशानं दाभ्या मविदितचरीं मध्यपदवीं
प्रविश्यैतद्द्वन्द्वं रवि शशिसमाख्यं कबलयन्।
प्रपद्योर्ध्वं नादं लयदहन भस्मीकृतकुलः
प्रसादात्ते जंतु श्शिव मतुल मंब प्रविशते॥११॥

षडध्वारण्यानीं प्रलयशिखिकोटिप्रतिरुचा
रुचाभस्मीकृत्य स्वपदकमलप्रह्वशिरसम्।
वितन्वानाशैवं किमपिवपु रिंदूपलरुचिः
कुचाभ्या मानम्र श्शिवपुरुषकारो विजयते॥१२॥

मनुष्यास्तिर्यंचो मरुत इति लोकत्रयमिदं
भवाम्भोधौ मग्नं त्रिगुणलहरीकोटिलुठितम्।
कटाक्षश्वे द्यत्र क्वचन तव मातः करुणया
शरीरीसद्योऽयं व्रजति परमानंदतनुताम्॥१३॥

षडाधारावर्तै रपरिमितमंत्रोर्मिपटलै-
र्बलन्मुद्राफेनै बहुविधलस द्वैवतझषैः।

क्रम स्रोतोभि स्त्वं वहसि परनादामृतनदीं
भवानिप्रत्यश्च श्चिदचिदमृताब्धिप्रणयनी॥।१४॥

महीपालो वह्निश्वसनवियदात्मेंदुरविभि
र्वपुर्भिर्ग्रस्ताशैरपि तव कियानम्ब महिमा।
अमू न्यालोक्यंते भगवति न कुत्राप्यणुतरा
मनास्थ प्राप्तानि त्वयि तु परमव्योमवपुषि॥१५॥

कलां प्राज्ञा माज्ञां समय मनुभूतिं समरसं
गुरुं पारम्पर्यं विनय मुपदेशं शिवपरम्।
प्रमाणं निर्वाणं प्रकृति मतिभूतं परगुहां
विधिं विद्यामाहु स्सकलजननी मेव मुनयः॥१६॥

प्रलीने शब्दौघे तदनुविरते बिंदुविभवे
तत स्तत्वेचाष्टध्वनिभि रनपायि व्यधिगते
गतेशाक्ते पर्वण्यपि कलितचिन्मात्रगहनां
स्वयं व्यक्तं योगी रचयति शिवानन्दतनुताम्॥१७॥

परानन्दाकारां निरवधिक मैश्वर्यवपुषं
निराघातज्ञानप्रकृति मनवच्छिन्नकरुणाम्।
सवित्रीं भूतानां निरतिशयमायास्पदपदां
भवो वा मोक्षो वा भवतु भवतीमेव भजताम्॥१८॥

जगक्ताये कृत्वा तदपि हृदये तच्च वपुषे
पुमांसं बिन्दुस्थं तमपि करुणाख्येति गहने।

तदेत ज्ज्ञानाख्ये तदपि वियदानन्दगहने
महाव्योमाकारस्तदनुभवशीलो विजयते॥ १९ ॥

विदे विद्ये वेद्ये विनयसुलभे वेदगुलिके
विचित्रे विश्वाद्ये विविधसमये वीतजनने।
शिवाज्ञे शीलस्थे शिवपदवान्ये शिवनिधे
शिवेमात र्मह्यं त्वयि वितर भक्तिं निरुपमाम्॥२०॥

विधे र्मुण्डं हृत्वायदकुरुत पात्रं करतले
हरिं शूलप्रोतं हि यदगमदंसाभरणताम्।
अलञ्चक्रे कण्ठं यदपि गरले नांबगिरिश
श्शिवस्थाया शक्ते स्तदिद मखिलं ते विलसितम्॥२१॥

विरिञ्चाख्यामातस्तृजसिहरिसंज्ञात्वमसिच
त्रिलोकीं रुद्राख्या हरसि निदधासीश्वरदशाम्।
भवन्तीं साराख्यां शिवयशि च पाशौघदलना
त्तदेका नै कासि त्वमसि कृतिभेदैर्गिरिसुते॥२२॥

मुनीनां चेतोभिः प्रमुदितकषायैरपि मना
गसह्ये संस्प्रष्टुं चकितचकितै रम्ब सततम्।
श्रुतीनां मूर्धानः प्रकृतिकठिनाः कोमलतले
कथंवा विंदंते पदकिसलये पर्वतसुते॥२३॥

पिता माता भ्राता सुहृदनुचर स्सद्मगृहिणी
वपुः पुत्रः क्षेत्रं धनमपि यदामां विजहति।

तदामे भिंदाना सपरिभवमोहांधतमसं
महा ज्योत्स्ना मात र्भव करुणया सन्निधिकरी॥२४॥

प्रियंगुश्यामाङ्गी मरुणतरवासःकिसलयां
समुन्मीलन्मुक्ताफलकुसुमनैपथ्यसुभगाम्।
स्तनद्वंद्वस्फारस्तबकनमितां कल्पलतिकां
सकृद्धयायन्त स्त्वा मभिदधति संतो भगवतीम्॥२५॥

शिव स्त्वं शक्तिस्त्वं त्व मसिसमय स्त्वं समयिनी
त्वमाज्ञा त्वं दीक्षा त्व मथमणिमादि र्गुणगणः।
अविद्या त्वं विद्या त्वमसि निखिलंतत्त्व मपरं
पृथक्त्वत्तः किंचिद्भगवति न वीक्षामहउमे॥२६॥

पुरः पश्चादन्त र्बहि रपरिमेयं परिमितं
चिरं स्थूलं सूक्ष्मं संकलकमलं गुह्य मगुणम्।
दवीयोनेदीय स्सदसदिति विश्वं भगवतीं
सदा पश्यंत्याज्ञां भवसि भुवनक्षोभजननीम्॥२७॥

त्वयाऽसौ जानीते रचयति भवत्यैव सततं
त्वमेवेच्छत्यम्ब त्वमसि तनवोऽप्यस्य विहिताः।
जगत्साम्यं शम्भो र्वहसि परमव्योमवपुष
स्तथा प्यर्धं भूत्वा विहरसि हरस्येति किमिदम्॥२८॥

मयूखाः पूष्णीव ज्वलन इव तद्दीप्तिकणिकाः
पयोधौ कल्लोलप्रतिभयमहिम्नीव पृषताः।

उदेत्योदेत्यंबत्वयिसहनिजै स्सात्विकगुणै
र्भजंते तत्वौघाः प्रणयमनुकल्पं परवशाः॥२९॥

सुता दक्षस्यादौकिल सकलमातस्त्व मुदभू
स्सरोषं तं हित्वा तदनुगिरिराजस्य तनया।
अनाद्यन्ता शम्भो रपृथगपि शक्ति र्भगवती
विवाहाज्जायाऽऽसीत्यहह तव कोवेत्ति चरितम्॥३०॥

कलास्त्वद्दीप्तीनां रविशशिकृशानुप्रभृतयः
परंब्रह्म क्षुद्रास्तवनियत मानन्दकलिताः।
शिवादिक्षित्यन्तं त्रिवलिततनोर्विश्वमुदरे
तवास्ते भक्तस्य स्फुरसि हृदिचित्रं भगवति॥३१॥

शरीरं क्षित्यंभः प्रभृतिरचितं केवलमचि-
त्सुखं दुःखं चायं कलयति परश्चेतन इति।
स्फुटं जानानोऽपि प्रभवतिव देही रहयितुं
शरीराहङ्कारात्तवजननि बाह्ये गिरिसुते॥३२॥

असंख्यैः प्राचीनैर्जननि जननैः कर्मनिलया
त्सकृज्जन्मन्यन्ते गुरुवपुष मासाद्य वपुषि।
तवाप्याज्ञां शैवीं शिवतनुमपि त्वां विदितवा
न्नयेयं त्वत्पूजामलविनमनेनैव दिवसान्॥३३॥

सुषिपयसि कृशानौ मारुते खे शशाङ्के
अवितरि यजमानेऽप्यष्टधाशक्ति रेका।

वहसि कुचभराभ्यां याविनम्राऽसि विश्वं
सकलजननि सा त्वं पाहि मा मित्यवाच्यम्॥३४॥

य ष्षट्पत्रङ्कमलमुदितं तस्यया कर्णिकाख्या
योनि स्तस्याः प्रथितमुदरे तत्तदोङ्कारपीठम्।
तस्याप्यन्तःकुचभरनतां कुण्डलीति प्रसिद्धां
श्यामाकारास्सकलजननींचेतसाचिन्तयामि॥३५॥

इति श्रीमत्कविराजराजमकुटरत्न राजिनीराजितचरणारुणराजीवस्य राजराजेश्वरी
करुणाकटाक्षलब्धनिखिलानवद्यविद्यस्य तत्रभवतः श्रीकालिदासस्य
कृतिषु सकलजननीस्तवः स्सम्पूर्णः

__________

॥श्रीपञ्चदशीस्तोत्रम्॥

ओं कल्याणवृष्टिभिरिवामृतपूरिताभि-
र्लक्ष्मीस्वयं वरणमङ्गलदीपिकाभिः।
सेवाभिरम्ब तव पादसरोजमूले
ना कारि किं मनसि भाग्यवतां जनानाम्॥१॥

एतावदेव जननि स्पृहणीयमास्ते त्वद्वन्दने च सलिलस्थगिते च नेत्रे।
सान्निध्य मद्य तरुणांबुजसोदरस्य त्वद्विग्रहस्य परया सुधयाऽऽप्लुतस्य॥

ईशत्वनामकलुषाः कति नाम संति
ब्रह्मादयः प्रतिभवं प्रलयाभिभूताः।
एकस्स एव जगति स्थिर संस्थिता स्ते
यः पादयो स्तव सकृत्प्रणतिं करोति॥३॥

लब्ध्वा सकृत्त्रिपुरसुन्दरि तावकीनं
कारुण्यकन्दलितकान्तिभरं कटाक्षम्।
कन्दर्पभावसुभगाः खलु भक्तिभाज-
स्संमोहयन्ति तरुणीर्भुवनत्रयेऽपि॥४॥

ह्रीङ्कार मेव तव नाम गृणंति वेदा
मात स्त्रिकोणनिलये त्रिपुरे त्रिनेत्रे।
त्वत्सम्स्मृतौ यमभटादिभयं विहाय
दीव्यंति नन्दनवने सहलोकपालैः॥५॥

हंतुः पुरा मधिगलं परिपीयमानः क्रूरः कथं न भविता गरलस्य वेगः।
नाश्वासनाय यदि मातरिदं तवार्धं देहस्य शश्वदमृताप्लुतशीतलस्य॥

सर्वज्ञतां सदसि वाक्पटुतां प्रसूते देवि त्वदंघ्रिसरसीरुहयोः प्रणामः।
किंच स्फुरन्मकुटमुज्ज्वलमातपत्रं द्वेचामरे च महतीं वसुधां ददाति॥

कल्पद्रुमैरभिमत प्रतिपादनेषु
कारुण्यवारिधिभि रम्ब भवत्कटाक्षैः।
आलोकय त्रिपुरसुंदरि मा मनाथं
त्वय्येव भक्तिभरितं त्वयि बद्धतृष्णम्॥८॥

हंतेतरेष्वपि मनांसि विधाय चान्य भक्तिं वहंति किल पामरदैवतेषु।
त्वामेव देवि मनसा समनुस्मरामि त्वामेव नौमि शरणं जननि त्वमेव॥

लक्ष्येषु सत्स्वपि कटाक्षनिरीक्षकाना
मालोकय त्रिपुरसुन्दरि मां कदाचित्।

नूनं मया तु सदृशः करुणैकपात्रं
जातो जनिष्यति जनो न च जायते वा॥१०॥

ह्रींह्री मिति प्रतिदिनं जपतां तवाख्यां
कि न्नाम दुर्लभमिह त्रिपुराधिवासे।
मालाकिरीटमदवारण माननीयां
त्वां सेवते वसुमती स्वयमेव लक्ष्मीः॥११॥

संपत्कराणि सकलेंद्रियनन्दनानि साम्राज्यदाननिरतानि सरोरुहाक्षि।
त्वद्वंदनानि दुरिताहरणोद्यतानि मामेव मात रनिशं कलयन्तु नान्यम्॥

कल्पोपसंहृतिषु कल्पितताण्डवस्य देवस्य खण्डपरशोः परभैरवस्य।
पाशांकुशैक्षव शरासनपुष्पबाणा सा साक्षिणी विजयते तव मूर्तिरेका॥

लग्नं सदा भवतु मातरिदं तवार्धं तेजःपरं बहुलकुङ्कुमपङ्कशोणम्।
भास्वक्तिरीटममृतां शुकरावतंसं मध्ये त्रिकोणनिलयं परमामृतार्द्रम्॥

ह्रींकारमेव तव नाम तदेव रूपं त्वन्नाम दुर्लभमिह त्रिपुरे गृणंति।
तत्तेजसा परिणतं वियदादिभूतं सौख्यं तनोति सरसीरुहसम्पदाद्यैः॥

ह्रीकारत्रयसंपुटेन महता मंत्रेन संदीपितं
स्तोत्रं यः प्रतिवासरं तव पुरो मात र्जपेन्मंत्रवित्।
तस्य क्षोणिभुजो भवंति वशगा लक्ष्मी श्विरस्थायिनी
वाणी निर्मलंसूक्ति भारभरिता जागर्ति दीर्घं वयः॥१६॥

इति श्रीमच्छङ्करभगवदाचार्यकृतिषु पञ्चदशीस्तोत्रं (कल्याणवृष्टिस्तवः)
॥संपूर्णम्॥
__________

॥श्री मीनाक्षीस्तोत्रम्॥

श्रीविद्ये शिववामभागनिलये श्रीराजराजार्चिते
श्रीनाथाधिगुरुस्वरूपविभवे चिन्तामणीपीठिके।
श्री वाणीगिरिजानुतांघ्रिकमले श्रीशाम्भवि श्रीशिवे
मध्याह्ने मलयध्वजाधिपसुते मां पाहि मीनांबिके॥१॥

चक्रस्थेऽचपले चराचरजगन्नाथे जगत्पूजिते
आर्तालीवरदे नताभयकरे वक्षोज भारान्विते।
विद्ये वेदकलापमौलि विदिते विद्युल्लताविग्रहे
मातःपूर्ण सुधारसार्द्रहृदये मां पाहि मीनांबिके॥२॥

कोटीराङ्गदरत्नकुण्डलधरे कोदण्डबाणाञ्चिते
कोकाकार कुचद्वयोपरिलसत्प्रालम्बहाराञ्चिते।
शिञ्जन्नूपुरपादसारसमणी श्रीपादुकालङ्कृते
मद्दारिद्र्य भुजङ्गगारुडखगे मां पाहि मीनांबिके॥३॥

ब्रह्मेशाच्युतगीयमानचरिते प्रेतासनान्तस्थिते
पाशोदङ्कुशचापबाणकलिते बालेन्दुचूडाञ्चिते
बाले बालकुरङ्गलोलनयने बालार्ककोट्युज्ज्वले
मुद्राराधित दैवते मुनिसुते मां पाहि मीनांबिके॥४॥

गन्धर्वामरयक्षपन्नगसुते गङ्गाधरालिङ्गिते
गायत्रीगरुडासने कमलजे सुश्यामले सुस्थिते।
खातीते खलदारुपावकाशिखे खद्योतकोट्युज्ज्वले
मन्त्राराधितदैवते मुनिसुते मां पाहि मीनांबिके॥५॥

नादे नारदतुम्बुराद्यविनुते नादान्तनादात्मिके
नित्ये नीलवतात्मिके निरुपमे नीवारशूकोपमे।
कान्ते कामकले कदम्बनिलये कामेश्वराङ्कस्थिते
मद्विद्ये मदभीष्टकल्पलतिके मां पाहि मीनांबिके॥६॥

वीणानादनिमीलितार्धनयने विस्रस्तचूलीभरे
ताम्बूलारुणपल्लवाधरयुते ताटङ्क हारान्विते।
श्यामे चन्द्र कलावतंसकलिते कस्तूरिकापालिके
पूर्णे पूर्णकलाभिरामवदने मां पाहि मीनांबिके॥७॥

शब्दब्रह्ममयी चराचरमयी ज्योतिर्मयी वाङ्मयी
नित्यानन्दमयी निरञ्जनमयी तत्त्वम्मयी चिन्मयी।
तत्त्वातीतमयी परात्परमयी मायामयी श्रीमयी
सर्वैश्वर्यमयी सदाशिवमयी मां पाहि मीनांबिके॥८॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्कर भगवतः कृतौ
॥श्री मीनाक्षीस्तोत्रम् संपूर्णम्॥

__________

॥श्रीमीनाक्षी पञ्चरत्नस्तोत्रम्॥

उद्यद्भानुसहस्रकोटिसदृशां केयूरहारोज्ज्वलां
बिंबोष्ठीं स्मितदन्तपङ्क्तिरुचिरां पीताम्बरालङ्कृताम्।
विष्णुब्रह्मसुरेन्द्रसेवितपदां तत्त्वस्वरूपां शिवां
मीनाक्षीं प्रणतोऽस्मि सन्ततमहं कारुण्यवारांनिधिम्॥१॥

मुक्ताहारलसत्किरीट रुचिरां पूर्णेन्दु वक्त्रप्रभां
शिंजन्नूपुर किङ्किणी मणिधरां पुष्पप्रभाभासुराम्।
सर्वाभीष्टफलप्रदां गिरुसुतां वाणीरमासेवितां मीनाक्षीं०॥२॥

श्रीविद्यां शिववामभागनिलयां ह्रीङ्कार मन्त्रोज्ज्वलां
श्री चक्राङ्कित बिंदुमध्यवसतिं श्रीमत्सभानायकीम्।
श्रीमत्षण्मुखविघ्नराजजननीं श्रीमज्जगन्मोहिनीं मीनाक्षीं०॥३॥

श्रीमत्सुन्दरनायकीं भयहरां ज्ञानप्रदां निर्मलां
श्यामांमां कमलासनार्चितपदां नारायणस्यानुजाम्।
वीणावेणुमृदङ्गवाद्यरसिकां नानाविधाडम्बिकां मीनाक्षीं०॥४॥

नानायोगि मुनींद्रहृन्निवसतिं नानार्थसिद्धिप्रदां
नानापुष्पविराजितांघ्रियुगलां नारायणेनार्चिताम्।
नादब्रह्ममयीं परात्परतरां नानार्थ तत्त्वात्मिकां मीनाक्षीं०॥५॥

इति श्रीमत्परमहंस परिव्राजकाचार्यस्य
श्रीगोविन्द भगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्कर भगवतः कृतौ
॥श्रीमीनाक्षीपञ्चरत्नस्त्रोत्रम् सम्पूर्णम्॥

__________

॥श्री राजराजेश्वर्यष्टकम्॥

अम्बा शाम्भविचन्द्र मौलि रबलाऽपर्णा उमापार्वती
कालीहैमवती शिवात्रिणयिनी कात्यायनी भैरवी।
सावित्री नवयौवना शुभकरी साम्राज्यलक्ष्मीप्रदा
चिद्रूपी परदेवता भगवती श्रीराजराजेश्वरी॥१॥

अम्बा मोहिनि देवता त्रिभुवनी आनन्दसन्दायिनी
वाणीपल्लवपाणिवेणु मुरलीगानप्रिया लोलिनी।
कल्याणी उडुराजबिम्बवदना धूम्राक्ष संहारिणी चिद्रूपी०॥२॥

अम्बानूपुररत्न कङ्कणधरी केयूरहारावली
जातीचम्पक वैजयन्तिलहरी ग्रैवेयवैराजताम्।
वीणावेणु विनोदमण्डितकरा वीरासनासंस्थिता चिद्रूपी०॥३॥

अम्बारौद्रिणि भद्रकालि बगला ज्वालामुखीवैष्णवी
ब्रह्माणी त्रिपुरान्तकी सुरनुता देदीप्यमानोज्ज्वला।
चामुण्डा श्रितरक्षपोषजननी दाक्षायणीवल्लवी चिद्रूपी०॥४॥

अम्बा शूलधनुः कुशाङ्कुशधरी अर्धेंन्दु बिम्बाधरी
वाराहीमधुकैटभ प्रशमनी वाणीरमासेविते।
मल्लाद्यासुरमूकदैत्यमथनीमाहेश्वरीचाम्बिका चिद्रूपी०॥५॥

अम्बासृष्टि विनाश पालनकरी आर्याविशम्शोभिता
गायत्री प्रणवाक्षरामृतरसः पूर्णानुसन्धीकृता।
ओंकारीविनुतासुतार्चितपदा उद्दण्डदैत्यापहा चिद्रूपी०॥६॥

अम्बा शाश्वत आगमादिविनुता आर्यामहादेवता
याब्रह्मादि पिपीलिकान्तजननी यावैजगन्मोहिनी।
यापञ्च प्रणवादि रेफजननी याचित्कला मालिनी चिद्रूपी० ॥७॥

अम्बा पालित भक्तराजरनिशं अम्बाष्टकं यः पठेत्
अम्बालोककटाक्ष वीक्षललिता ऐश्वर्यमव्याहता।
अम्बापावनमन्त्र राजपठना दन्तीशमोक्षप्रदा चिद्रूपी०॥८॥

इति श्रीराजराजेश्वर्यष्टकम् समाप्तम्.
__________

॥त्रिपुरसुन्दरीवेदपादस्तोत्रम्॥

वेदपादस्तवं वक्ष्ये देव्याः प्रियचिकीर्षया।
यथामति मतिं देवः तन्नो दन्तिः प्रचोदयात्॥१॥

अकिंचित्कर कर्मभ्यः प्रत्याहृत्य कृपावशात्।
सुब्रह्मण्यः स्तुतावस्यां तन्नः षण्मुखः प्रचोदयात्॥२॥

अकारादि क्षकारान्त वर्णावयवशालिनी।
वीणापुस्तकहस्ताव्यात् प्रणो देवी सरस्वती॥३॥

या वर्णपदवाक्यार्थ गद्यपद्य स्वरूपिणी।
वाचि नर्तयतु क्षिप्रं मेधां देवी सरस्वती॥४॥

उपास्यमाना विप्रेन्द्रैः सन्ध्यासु च तिसृष्वपि।
सद्यः प्रसीद मे मातः सन्ध्याविद्ये सरस्वती॥५॥

मन्दानिन्दा लोलुप स्वभावा देतत्स्तोत्रं पूर्यते किं मयेति।
माते भीतिर्हे मते त्वादृशाना मेषानेत्री राधसा सूनृतानाम्॥६॥

तरङ्ग भ्रुकुटीकोटि भङ्ग्यातर्जयते जराम्।
सुधामयाय शुभ्राय सिन्धूनां पतये नमः॥७॥

तस्य मध्ये मणिद्वीपः कल्पकारामभूषितः।
अस्तु मे ललितावासः स्वस्तिदा अभयं करः॥८॥

कदम्बमञ्जरीनिर्यद्वारुणी पारणोन्मदैः।
द्विरेफैर्वर्णनीयाय वनानां पतये नमः॥९॥

तत्र वप्रावलीलीला गगनोलङ्घि गोपुरम्।
मातः कौतूहलं दद्यात् सँहार्य नगरं तव॥१०॥

मकरन्दझरीमज्जन्मिलिन्दकुलसङ्कुलाम्।
महापद्माटवीं वन्दे यशसा संपरीवृताम्॥ ११॥

तत्रैव चिन्तामणि धोरणार्चिभि र्विनिर्मितं रोपितरत्न भृङ्गम्।
भजे भवानी भवनावतंस मादित्यवर्णं तमसः परस्तात्॥१२॥

मुनिभिः स्वात्मलाभाय यच्चक्रं हृदि सेव्यते।
तत्र पश्यामि बुद्ध्या तदक्षरे परमे व्योमन्॥१३॥

पञ्च ब्रह्ममयो मञ्चस्तत्रयो बिन्दुमध्यगः।
तव कामेशि वासोऽय मायुष्मन्तं करोतु माम्॥१४॥

नानारत्नगुलुच्छालीकान्ति किम्मीलितोदरम्।
विमृशामि वितानंतेऽतिश्लक्ष्णमतिलोमशम्॥ १५॥

पर्यङ्कतल्पोपरि दर्शनीयं सबाणचापङ्कुश पाशपाणिम्।
अशेष भूषारमणीयमीडे त्रिलोचनं नीलकण्ठं प्रशान्तम्॥१६॥

जटारुणं चन्द्रकलाललामं उद्वेललावण्य कलाभिरामम्।
कामेश्वरं कामशरासनाङ्कं समस्तसाक्षिं तमसः परस्तात्॥१७॥

तत्र कामेशवामाङ्के खेलन्ती मलिकुन्तलाम्।
सच्चिदानन्दलहरीं महालक्ष्मी मुपास्महे॥१८॥

चारुगोरोचनापङ्क जम्बालित घनस्तनीम्।
नमामि त्वामहं लोकमातरं पद्ममालिनीम्॥ १९॥

शिवे नमन्निर्जरकुञ्जरासुर प्रतोलिकामौलि मरीचि वीचिभिः।
इदं तव क्षालन जातसौभगं चरणं नो लोके सुधितां दधातु ॥२०॥

कल्पस्यादौ कारणेशानपि त्रीन्स्रष्टुं देवि त्रीन् गुणानादधानाम्।
सेवे नित्यं श्रेयसे भूयसे त्वामजामेकां लोहित शुक्लकृष्णाम्॥२१॥

केशोद्भूतैरद्भुतामोदपूरैराशाबृन्दं सान्द्रमापूरयन्तीम्।
त्वामानम्य त्वत्प्रसादा त्स्वयं भू रस्मान्मायी सृजते विश्वमेतत्॥

अर्धोन्मील द्यौवनोद्दामदर्पां दिव्याकल्पै रर्पयन्तीं मयूखान्।
देवि ध्यात्वा त्वां पुरा कैटभारिर्विश्वं बिभर्ति भुवनस्य नाभिः॥

कल्हारश्री मञ्जरी पुञ्जरीतिं धिक्कुर्वन्तीमम्ब ते पाटलिम्ना।
मूर्तिं ध्यात्वा शाश्वतीं भूतिमायन्निन्द्रो राजा जगतो यईशे॥२४॥

देवतान्तर मन्त्रौघजपश्री फलभूतया।
जापकस्तव देव्यन्ते विद्यया विन्दतेऽमृतम्॥२५॥

पुंस्कोकिल कलक्वाणकोमलालापशालिनि।
भद्राणि कुरु मे मात र्दुरितानि परासुव॥२६॥

अन्तेवासिन्नस्ति चेत्ते मुमुक्षा वक्ष्ये युक्तिं मुक्तसर्वेषणस्सन्।
सद्भ्यः साक्षात्सुन्दरीं ज्ञप्तिरूपां श्रद्धा भक्ति ध्यानयोगादवेहि॥

षोढा न्यासादि देवैश्च सेविता चक्रमध्यगा।
कामेशमहिषी भूयः षोडशी शार्म यच्छतु॥२८॥

शान्तो दान्तो देशिकेन्द्रं प्रणम्य तस्यादेशात्तारकं मन्त्रतत्वम्।
जानीते चेदम्ब धन्यः समानं नातः परं वेदितव्यं हि किंचित्॥

त्वमेव कारणं कार्यं क्रिया ज्ञानं त्वमेव च।
त्वामम्बनविना किंचि त्वयि सर्वं प्रतिष्ठितम्॥३०॥

परागमद्रीन्द्रसुते तवांघ्रि सरोजयो रम्ब दधामि मूर्ध्ना।
अलंकृतं वेदवधू शिरोभि र्यतो जातो भुवनानि विश्वा॥३१॥

दुष्टान् दैत्यान् हन्तुकामां महर्षीन्शिष्टानन्यान्पातुकामां कराब्जैः।
अष्टाभिस्त्वां सायुधैर्भासमानां दुर्गां देवीं शरणमहं प्रपद्ये॥३२॥

देवि सर्वानवद्याङ्गि त्वामनादृत्य ये क्रियाः।
कुर्वन्ति निष्फलास्तेषाम दुग्धा इव धेनवः॥३३॥

नान्यं मन्ये दैवतं मान्यमन्य त्वत्पादाब्जा दाम्बिके कुम्भजाद्याः।
ये ध्यातारो भक्ति संशुद्धचित्ताः परामृतात् परिमुच्यन्ति सर्वे॥

कुर्वाणोऽपि दुरारम्भां स्तव नामानि शाम्भवि।
प्रजपन्नेति मायान्तमतिमृत्युं तराम्यहम्॥३५॥

कल्याणि त्वं कुन्दहास प्रकाशै रन्यध्वान्तं नाशयन्ती क्षणेन।
हन्तास्माकं ध्यायतां त्वत्पादाब्ज मुच्च तिष्ठ महते सौभगाय॥३६॥

तितीर्षया भवाम्भो धे र्हयग्रीवादयः पुरा।
अप्रमत्ता भवत्पूजां सुविद्वांसो वितेनिरे॥३७॥

मद्वश्या ये दुराचारा ये च सन्मार्गगामिनः।
भवत्याः कृपया सर्वे सुवर्यन्तु यजमानाः॥३८॥

श्रीचक्रस्थां शाश्वतैर्यदात्रीं पौण्ड्रं चापं पुष्पबाणान् दधानाम्।
बन्धूकाभां भावयामि त्रिनेत्रां तामग्निवर्णां तपसा जलन्तीम्॥३९॥

भवानि तव पादाब्जनिर्णेजनपवित्रिताः।
भवामय प्रशान्त्यै त्वामपो याचामि भेषजम्॥४०॥

चिदानन्दसुधाम्भोधेस्तवानन्दलक्षोऽस्तियः।
कारणेशैस्त्रिभिः साकं तद्विश्वमुपजीवति॥४१॥

नोवा यागैर्नैव पूर्तादिकृत्यैर्नोवा जप्ये र्नो महद्भिस्तपोभिः।
नोवा योगैः क्लेशकुद्भिः सुमेधा निचाय्येमां शान्तिमत्यन्तमेति॥

प्रातः पाहि महाविद्ये मध्याहे तु मृडप्रिये।
सायं पाहि जगद्वन्द्ये पुनर्नःपाहि विश्वतः॥४३॥

बन्धूकाभैर्भानुंभि र्भासयन्ती विश्वं शश्वत्तुङ्ग पीनस्तनार्धा।
लावण्याब्धेः सुन्दरि त्वं प्रसादादायुः प्रजा‍<MISSING_FIG href="../books_images/U-IMG-1724929077Screenshot2024-08-29162717.png"/>रयिमस्मासु धेहि॥

कर्णाकर्णय मे तत्वं या चिच्छक्ति रितीर्यते।
त्रिर्वदामि मुमुक्षूणां साकाष्ठा सा परागतिः॥४५॥

वाग्देवीति त्वां वदन्त्यम्ब केचि ल्लक्ष्मीर्गौरीत्येवमन्येऽप्युशन्ति।
शश्वन्मातः प्रत्यगद्वैतरूपां शंसन्ति केचिन्निविदो जनाः॥४६॥

ललितेति सुधापूरमाधुरी चोरमम्बिके।
तव नामास्ति यत्तेन जिह्वामे मधुमत्तमा॥४७॥

ये सम्पन्नाः साधनैस्तैश्चतुर्भिः शुश्रूषाभिः देशिकं प्रीणयन्ति।
सम्यग्विद्वाशुद्धसत्वान्तराणां तेषामेवैतां ब्रह्मविद्यां वदेत॥४८॥

अभिचारादिभिः कृत्यां यः प्रेरयति मय्युमे।
तवहुंकारसन्त्रस्ता प्रत्यक्कर्तारमृच्छतु॥४९॥

जगत्पवित्रि मामिकामपहराशु दुर्जराम्
प्रसीद मे दया धुने प्रशास्तिमम्ब नः स्कृधि॥५०॥

कदम्बारुण मम्बाया रूपं चिन्तय चित्त मे।
मुञ्च पापीयसीं निष्ठां मागृधः कस्यसिद्धनम्॥५१॥

भण्ड भण्डन लीलायां रक्तचन्दनपंकिलः।
अंकुशस्तव तं हन्याद्यश्च नो द्वेषते जनः॥५२॥

रे रे चित्त त्वं वृधा शोकसिन्धौ मज्जस्यन्तर्वच्म्युपायं विमुक्तयै।
देव्याः पादौ पूजयैका क्षरेण तत्तेपदं संग्रहेण ब्रवीम्योम्॥५३॥

चञ्चद्बालातपज्योत्स्नाकलामण्डलशालिने।
ऐक्षवाय नमो मात र्बाहुभ्यां तव धन्वने॥५४॥

तामेवाद्यां ब्रह्मविद्यामुपासे मूर्तैर्वेदैः स्तूयमानां भवानीम्।
हन्तस्वात्मत्वेन यां मुक्तिकामो मत्वा धीरो हर्षशोकौ जहाति॥५५॥

शरणं करवाण्यम्ब चरणं तव सुन्दरि।
शेपे त्वत्पादुकाभ्यां मे नान्यः पन्था अयनाय॥५६॥

रत्नच्छत्रैश्चामरै र्दर्पणाद्यै श्चक्रेशानीं सर्वदोपाचरन्त्यः।
योगिन्योऽन्याः शक्तयश्चाणिमाद्या यूयं पातः स्वस्तिभिस्सदा नः॥

दरिद्रं मां विजानीहि सर्वज्ञासि यतः शिवे।
दूरीकृत्याशु दुरितमथानो वर्धयारयिम्॥५८॥

महेश्वरि महामन्त्र कूटत्रयकलेबरे।
कादिविद्याक्षर श्रोणिमुशन्तस्त्वा हवामहे॥५९॥

मूलाधारादूर्ध्वमन्तश्चरन्तीं भित्वा ग्रन्थीन् मूर्ध्नि निर्यत्सुधार्द्राम्।
पश्यन्तस्त्वां ये च तृप्तिं लभन्ते तेषां शान्तिः शाश्वती नेतरेषाम्॥

मह्यं द्रुह्यन्ति ये मातस्त्वद्ध्यानासक्तचेतसे।
तानम्ब सायकै रेभिरव ब्रह्मद्विषो जहि॥ ६१॥

त्वद्भक्तानामम्ब शान्तैषणानां ब्रह्मिष्ठानां दृष्टिपातेन पूतः।
पापीयानप्यावृतः स्वर्वधूभिः शोकातिगो मोदते स्वर्गलोके॥६२॥

सन्तु विद्या जगत्यस्मिन्संसार भ्रमहेतवः।
भजेऽहं त्वं मया विद्वान् विद्ययामृतमश्नुते

विद्वन्मुख्यै र्विद्रुमाभं विशालश्रोणीशिञ्जन्मेखला किङ्किणीकम्।
चन्द्रोत्तंसं चिन्मयं वस्तु किंचिद्विद्धि त्वमेतन्निहितं गुहायाम्॥६४॥

न विस्मरामि चिन्मूर्ति मिक्षुकोदण्ड शालिनीम्।
मुनयः कनकप्रेष्ठास्तामाहुः परमां गतिम्॥६५॥

चक्षुःप्रेङ्ख त्प्रेमकारुण्य धारां हंसज्योस्नापूरहृष्यच्चकोराम्
यामाश्लिष्यन्मोदते देवदेवः सानोदेवी सुहवा शर्म यच्छतु॥६६॥

मुञ्ज वचकतां चित्त पामरं चापि दैवतम्।
गृहाण पदमम्बाया एतदालम्बनंपरम्॥६७॥

कामे भीतिः काक्षतिः किं दुरापं कामेशाङ्कोत्तुङ्गपर्यङ्गसंस्थाम्।
तत्वातीतामच्युतानन्ददात्रीं देवीमहं निरृतिं वन्दमानः॥६८॥

चिन्तामणिमयोत्तंस कान्तिकञ्चुकितानने।
ललिते त्वां सकृन्नत्वा नबिभेति कुतश्चन॥६९॥

तारुण्योत्तुङ्गितकुचे लावण्यो ल्लासितेक्षणे।
नवाज्ञयैव कामाद्या मास्मान्प्रापन्नरातयः॥७०॥

आकर्णाकृष्टकामास्त्रसंजातं तापमम्ब मेI
आचामतु कटाक्षस्ते पर्जन्यो वृष्टिमानिव॥७१॥

कुर्वेगर्वेणापचारानपारान्यद्यप्यंब त्वप्तदाब्जं तथापि।
मन्ये धन्ये देवि विद्यावलम्बं मातेव पुत्रं बिभृतास्वेनम्॥७२॥

यथोपास्तिक्षतिर्नस्यात्तव चक्रस्य सुन्दरि।
कृपया कुरु कल्याणि तथा मे स्वस्तिरायुषी॥७३॥

चक्रं सेवे तारकं सर्वसिद्ध्यै श्रीमन्मातः सिद्धयश्चाणिमाद्याः।
नित्या मुद्रा शक्तयश्चाङ्गदेव्यो यस्मिन्देवा अधि विश्वे निषेदुः॥

सुकुमारे सुखाकारे सुनेत्रे सूक्ष्ममध्यमे।
सुप्रसन्ना भव शिवे सुमृडीका सरस्वती॥७५॥

विद्युद्वल्लीं कन्दलीं कल्पयन्तीं मूर्तिं स्फूर्त्या पङ्कजं धारयन्तीम्।
ध्यायंहि त्वां जायते सार्वभौमो विश्वा आशाः पृतनाः सञ्जयञ्जयन्॥

अविज्ञाय परां शक्तिमात्मभूतां महेश्वरीम्।
अहो पतन्ति निरयेष्वेके चात्महनो जनाः॥७७॥

सिन्दूराभैः सुन्दरैरंशुवृन्दैर्लाक्षा लक्ष्म्यां मज्जयन्तीं जगन्ति।
हेरम्बाम्ब त्वां हृदा लंबते य स्तस्मै विशः स्वयमेवानमन्ते॥७८॥

तव तत्त्वं विमृशतां प्रत्यगद्वैतलक्षणम्।
चिदानन्दघनादन्यन्नेह नानास्ति किंचन॥७९॥

कण्ठात्कुण्डलिनीं नीत्वा सहस्रारं शिवे तव।
नपुनर्जायते गर्भे सुमेधा अमृतोक्षितः॥८०॥

त्वत्पादुकानुसन्धान प्राप्तसर्वात्मतादृशि।
पूर्णाहं कृतिमत्यस्मिन्न कर्म लिप्यते नरे॥८१॥

तवानुग्रह निर्भिन्नहृदयग्रन्थिरद्रिजे।
स्वात्मत्वेन जगन्मत्वा ततो विजुगुप्सते॥८२॥

कदा वसुदलोपेते त्रिकोण नवकान्विते।
आवाहयामि चक्रे त्वां सूर्याभां श्रियमैश्वरीम्॥८३॥

ह्रीमित्येकं तावकं वाचकार्णं यज्जिह्वाग्रे देवि जागर्ति किंचित्।
कोवायं स्वात्कामकामस्त्रिलोक्यां सर्वेऽस्मै देवा बलिमावहन्ति॥

नाकस्त्रीणां किन्नरीणां नृपाणा मप्याकर्षी चेतसा चिन्तनीयम्।
त्वत्पाणिस्थं कुङ्कुमाभं शिवेयं द्विष्मस्तस्मिन्प्रति मुञ्चामि पाशम्॥

नूनं सिंहासनेश्वर्यास्तवाज्ञां शिरसा वहन्।
भयेन पवमानोऽयं सर्वा दिशोऽनुविधावति॥८६॥

त्रिकलाढ्यां त्रिहृल्लेखां द्विहंसस्वरभूषिताम्।
यो जपत्यम्ब ते विद्यां सोऽक्षरः परमः स्वराट्॥८७॥

दारिद्र्याब्धौ देवि मग्नोऽपि शश्वद्वाचा याचे नाहमम्ब त्वदन्यम्।
तस्मादस्माद्वाञ्छितं पूरयैतदुषा सा नक्ता सुदुघेव धेनुः॥८८॥

यो वा यद्यत्कामनाकृष्टचित्तः स्तुत्वोपास्ते देवि ते चक्रविद्याम्।
कल्याणानामालयः कालयोगा त्तं तं लोकं जयते तांश्च कामान्॥

साधकः सततं कुर्यादैक्यं श्रीचक्रदेहयोः।
तथा देव्यात्मनोरैक्यमेतावदनुशासनम् ॥९०॥

हस्ताम्भोज प्रोल्लसच्चामराभ्यां श्रीवाणीभ्यां पार्श्वयोर्वीज्यमानाम्।
श्रीसाम्राज्ञि त्वां सदालोकयेयं सदा सद्भिः सेव्यमानां निगूढाम्॥

इष्टानिष्ट प्राप्तिविछित्तिहेतुः स्तोतुं वाचांक्लृप्तिरित्येव मन्ये।
त्वद्रूपं हि स्वानुभूत्यैकवेद्यं नचक्षुषा गृह्यते नापि वाचा॥९२॥

हरस्वरैश्चतुर्वर्गप्रदं मन्त्रं सबिन्दुकम्।
देव्या जपत विप्रेन्द्रा अन्या वाचो विमुञ्चथ॥९३॥

यस्ते राकाचन्द्र बिम्बा मनस्थां पीयूषाब्धिं कल्पयन्तीं मयूखैः।
मूर्तिं भक्त्या ध्यायते हृत्सरोजे नतस्य रोगो नजरा न मृत्युः॥

तुभ्यं मातर्योऽञ्जलिं मूर्ध्नि धत्ते मौलिश्रेण्या भूभुजस्तं नमन्ति।
यः स्तौति त्वामम्ब चिद्वल्लिवाचा तं धीरासः कवय उन्नयन्ति॥

वैरिञ्चोघैर्विष्णुरुद्रेन्द्रवृन्दै र्दुर्गाकाली भैरवीशक्तिसङ्घैः।
यन्त्रेशि त्वं वर्तसे स्तूयमाना नतत्र सूर्यो भाति न चन्द्रतारकम्॥

भूत्यै भवानि त्वां वन्दे सुराः शतमखादयः।
त्वामानम्य समृद्धाः स्युरायो धामानि दिव्यानि॥९७॥

पुष्पवत्फुल्लताटङ्कां प्रातरादित्यपाटलाम्।
यस्त्वामन्तः स्मरत्यम्ब तस्य देवा असन्वशे॥९८॥

वश्ये विद्रुमसङ्काशां विद्यायां विशदप्रभाम्।
त्वामंब भावयेद्भूत्यै सुवर्णां हेममालिनीम्॥९९॥

वामाङ्कस्थामाशितुर्दीप्यमानां भूषावृन्दैरिन्दुरेखावतंसाम्।
यस्त्वां पश्यन् सन्ततं नैव तृप्तः तस्मै च देवि वषडस्तु तुभ्यम्॥

नवनीपवनीवास लालसोत्तरमानसे।
शृङ्गार देवते मातः श्रियं वासय मे कुले॥१०१॥

भक्त्या भक्त्या वापि पद्यावसान
श्रुत्या स्तुत्या चैतया स्तौति यस्त्वाम्।
तस्य क्षिप्रं त्वत्प्रसादेन मातः
सत्याः सन्तु यजमानस्य कामाः॥१०२॥

बालिशेन मया प्रोक्तमपि वात्सल्यशालिनोः।
आनन्दमादिदम्पत्यो रिमा वर्धन्तु वाङ्गिरः॥१०३॥

माधुरीसौर भावासचापसायकधारिणीम्।
देवीं ध्यायन् पठेदेतत् सर्वकामार्थ सिद्धये॥१०४॥

स्तोत्रमेतत् प्रजपतस्तव त्रिपुरसुन्दरि।
अनुद्वीक्ष्य भयाद्दूरं मृत्युर्धावति पञ्चमः॥१०५॥

यः पठति स्तुतिमेतां विद्यावन्तं तमम्ब धनवन्तम्।
कुरुदेवि यशस्वन्तं वर्चस्वन्तं मनुष्येषु॥ १०६॥

ये शृण्वन्ति स्तुतिमिमां तव देव्यनसूयकाः।
तेभ्यो देहि श्रियं विद्यामुद्वर्च उत्तनूबलम्॥१०७॥

त्वामेवाहं स्तौमि नित्यं प्रणौमि श्रीविद्येशां वच्मि सन्चिन्तयामि।
अध्यास्ते या विश्वमाता विराजो हृत्पुण्डरीकं विरजं विशुद्धम्॥

शङ्करेण रचितं स्तवोत्तमं यः पठेज्जगति भक्तिमान्नरः।
तस्य सिद्धिरतुला भवेद्ध्रुवा सुन्दरी च सततं प्रसीदति॥१०९॥

यत्रैव यत्रैव मनो मदीयं तत्रैव तत्रैव तव स्वरूपम्।
यत्रैव यत्रैवशिरोमदीयं तत्रैव तत्रैव पदद्वयं ते॥११०॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्कर भगवतः कृतौ
॥ त्रिपुरसुन्दरीवेदपादस्तोत्रम् संपूर्णम्॥

__________

॥त्रिपुरसुन्दरीमानसपूजास्तोत्रम्॥

मम न भजनशक्तिः पादयोस्त न भक्ति
र्नच विषयविरक्ति र्ध्यानयोगे न सक्तिः।
इति मनसि सदाहं चिन्तयन्नाद्यशक्ते
रुचिर वचनपुष्पैरर्चनं संचिनोमि॥१॥

व्याप्तं हाटकविग्रहैर्जलधरैरारूढदेवव्रजैः
पोतैराकुलितान्तरं मणिधरै र्भूमीधरै र्भूषितम्।
आरक्तामृतसिन्धुमुद्धरचलद्वीचीचय व्याकुल
व्योमानं परिचिन्त्य सन्ततमहो चेतः कृतार्थीभव॥२॥

तस्मिन्नुज्वलरत्नजालविलसत्कान्तिच्छटाभिः स्फुटं
कुर्वाणं वियदिन्द्रचापनिचयैराच्छादितं सर्वतः।
उच्चैः शृङ्गनिषण्णदिव्यवनिताबृन्दाननप्रोल्लस
द्गीताकर्णन निश्चलाखिलमृगं द्वीपं नमस्कुर्महे॥३॥

जातीचम्पकपाटलादि सुमनः सौरभ्यसम्भावितं
ह्रीङ्कारध्वनिकण्ठकोकिलकुहूप्रोल्लासिचूतद्रुमम्।

आविर्भूतसुगन्धिचन्दनवनं दृष्टिप्रियं नन्दनं
चञ्चच्चञ्चल चञ्चरीकचटुलं चेत श्चिरं चिन्तय॥४॥

परिपतितपरागैः पाटल क्षोणिभागो
विकसितकुसुमोच्चैः पीतचन्द्रार्करश्मिः।
अलिशुक पिकराजीकूजितैः श्रोत्रहारी
स्फुरतु हृदि मदीये नूनमुद्यानराजः॥५॥

रम्यद्वारपुरप्रचार तमसां संहारकारिप्रभ
स्पूर्जत्तोरणभारहारकमहाविस्तारहारद्युते।
क्षोणीमण्डलहेमहारविलसत्संसारपारप्रद
प्रोद्यद्भक्तमनोविहारकनकप्राकार तुभ्यं नमः॥६॥

उद्यत्कान्तिकलापकल्पितनभः स्पूर्जद्वितानप्रभः
सत्कृष्णागरुधूपवासितवियत्काष्ठान्तरे विश्रुतः।
सेवायातसमस्तदैवतगणैरासेव्यमानोऽनिशं
सोऽयं श्रीमणिमण्डपोऽनवरतं मच्चेतसि द्योतताम्॥७॥

क्वापि प्रोद्भटपद्मराग किरणव्रातेन संध्यायितं
कुत्रापि स्फुटविस्फुरन्मरकतद्युत्या तमिस्रायितम्।
मध्यालम्बिविशालमौक्तिकरुचा ज्योत्स्नायितं कुत्रचि-
न्मातः श्रीमणिमन्दिरं तव सदा वन्दामहे सुन्दरम्॥८॥

उत्तङ्गालय विस्फुरन्मरकत प्रोद्यत्प्रभामण्डला
न्यालोक्याङ्कुरितोत्सवैर्नवतृणाकीर्णस्थलीशङ्कया।

नीतो वाजिभिरुत्पथं बत रथः सूतेन तिग्मद्युते
र्वल्गावल्गितहस्तमस्तशिखरं कष्टैरितः प्राप्यते॥९॥

मणिसदनसमुद्यत्कान्ति धारानुरक्ते
वियति चरमसन्ध्याशङ्किनो भानुरथ्याः।
शिथिलितगतकुप्यत्सूतहुङ्कारनादैः
कथमपि मणिगेहादुच्चकैरुञ्चलन्ति॥१०॥

भक्त्या किंनु समर्पितानि बहुधा रत्नानि पाथोधिना
किंवा रोहणपर्वतेन सदनं यैर्विश्वकर्माकरोत्।
आज्ञातं गिरिजे कटाक्षकलया नूनं त्वया तोषिते
शंभौ नृत्यति नागराजफणिना कीर्णामणिश्रेणयः॥ ११ ॥

विदूरमुक्तवाहनैर्विनम्रमौलिमण्डलै
र्निबद्धहस्तसम्पुटैः प्रयत्नसंयतेंद्रियैः।
विरिंचिविष्णुशंकरादिभिर्मुदा तवाम्बिके
प्रतीक्ष्यमाणनिर्गमो विभाति रत्नमण्डपः॥१२॥

ध्वनन्मृदङ्गकाहलः प्रगीतकिन्नरीगणः
प्रनृत्तदिव्यकन्यकः प्रवृत्तमङ्गलक्रमः
प्रकृष्टसेवकव्रजः प्रहृष्टभक्तमण्डलो
मुदे ममास्तु सन्ततं त्वदीय रत्नमण्डपः॥ १३॥

प्रवेशनिर्गमाकुलैः स्वकृत्य रक्तमानसै
र्बहिः स्थितामरावलीविधीयमान भक्तिभिः।

विचित्र वस्त्र भूषणै स्पेतमङ्गनाजनैः
सदा करोतु मङ्गलं ममेह रत्नमण्डपः॥१४॥

सुवर्णरत्न भूषितै र्विचित्रवस्त्रधारिभि
र्गृहीत हेमयाष्टिभिर्निरुद्धसर्व दैवतैः।
असंख्य सुन्दरी जनैः पुरस्थितैरधिष्ठितो
मदीयमेतु मानसं त्वदीयतुङ्गतोरणः॥१५॥

इन्द्रादीं श्च दिगीश्वरान् सहपरीवारानथो सायुधा
न्योषिद्रूपधरान् स्वदिक्षु निहितान् संचिन्त्य हृत्पङ्कजे।
शङ्के श्रीवसुधारया वसुमतीयुक्तं च पद्मं स्मर
न्कामं नौमि रतिप्रियं सहचरं प्रीत्या वसन्तं भजे॥१६॥

गायन्तीः कलवीणयातिमधुरं हुंकारमातन्वती
र्द्वाराभ्यासकृत स्थितीरिह सरस्वत्यादिकाः पूजयन्।
द्वारे नौमि मदोन्मदं सुरगणाधीशं मदेनोन्मदां
मातङ्गीमसिताम्बरां परिलसन्मुक्ताविभूषां भजे॥१७॥

कस्तूरिकाश्यामलकोमलाङ्गीं कादम्बरी पानमदालसाङ्गीम्।
वामस्तनालिङ्गितरत्नवीणां मातङ्गकन्यां मनसा स्मरामि॥ १८॥

विकीर्णचिकुरोत्करे विगलिताम्बराडम्बरे
मदाकुलितलोचने विमलभूषणोद्भासिनि।
तिरस्करिणि तावकं चरणपङ्कजं चिन्तय
न्करोमि पशुमण्डलीमलिकमोहदुग्धाशयाम्॥१९॥

प्रमत्तवारुणीरसैर्विघूर्णमानलोचनाः
प्रचण्डदैत्यसूदनाः प्रविष्टभक्तमानसाः।
उपोढ कज्जलच्छविच्छटाविराजिविग्रहाः
कपालशूलधारिणीः स्तुवे त्वदीयदूतिकाः॥२०॥

स्फूर्जन्नव्ययवाङ्कुरोपलासिता भोगैः पुरः स्थापितै-
र्दीपोद्भासिशरावशोभितमुखैः कुम्भैर्नवैः शोभिना।
स्वर्णावद्धविचित्ररत्नपटली चञ्चत्कपाटश्रिया
युक्तं द्वारचतुष्टयेन गिरिजे वन्दे मणीमन्दिरम्॥२१॥

आस्तीर्णारुण कम्बलासनयुतं पुष्पोपहारान्वितं
दीप्तानेक मणिप्रदीपसुभगं राजद्वितानोत्तमम्।
धूपोद्वारि सुगन्धि सम्भ्रम मिलद्भृङ्गावलीगुञ्जितं
कल्याणं वितनोतु मेऽनवरतं श्रीमण्डपाभ्यन्तरम्॥२२॥

कनकरचिते पञ्चप्रेतासनेन विराजिते
मणिगणचिते रक्तश्वेताम्बरास्तरणोत्तमे
कुसुमसुरभौ तल्पे दिव्योपधानसुखावहे
हृदयकमले प्रादुर्भूतां भजे परदेवताम्॥२३॥

सर्वाङ्गस्थितिरम्यरूप रुचिरां प्रातः समभ्युत्थितां
जृम्भामञ्जु मुखाम्बुजां मधुमदव्याघूर्णदक्षित्रयाम्।
सेवायातसमस्तसन्निधिसखीः संमानयन्तीं दृशा
सम्पश्यन् परदेवतां परमहो मन्ये कृतार्थं जनुः॥२४॥

उच्चैस्तोरणवर्तिवाद्यनिवह ध्वाने समुज्जृम्भिते
भक्तैर्भूमिविलग्नमौलिभिरलं दण्डप्रणामे कृते।
नानारत्नसमूहनद्धकथन स्थालीसमुद्भासितां
प्रातस्ते परिकल्पयामि गिरिजे नीराजनामुज्ज्वलाम्॥२५॥

पाद्यं ते परिकल्पयामि पदयोरर्घ्यं तथा हस्तयोः
सौधीभिर्मधुपर्कमम्ब मधुरं धाराभि रास्वादय।
तोयेनाचमनं विधेहि शुचिना गाङ्गेन मत्कल्पितं
साष्टाङ्गं प्रणिपातमीशदयिते दृष्ट्या कृतार्थीकुरु॥२६॥

मातः पश्य मुखाम्बुजं सुबिमले दत्ते मया दर्पणे
देवि स्वीकृरु दन्तधावनमिदं गङ्गाजलेनान्वितम्।
सुप्रक्षलितमाननं विरचयंस्निग्धाम्बरप्रोञ्छनं
द्रागङ्गीकुरु तत्वमम्ब मधुरं ताम्बूलमास्वादय॥२७॥

निधेहि मणिपादुकोपरि पदाम्बुजं मज्जना
लयं व्रज शनैः सखीकृत कराम्बुजालम्बनम्।
महेशि करुणानिधे तव दृगन्तपातोत्सुका
न्विलोकय मनागमूनुभयसंस्थितान् दैवतान्॥२८॥

हेमरत्नवरणेन वेष्टितं विस्तृतारुण वितानशोभितम्।
सज्जसर्वपरिचारिकाजनं पश्य मज्जनगृहं मनो मम॥२९॥

कनककलशजाल स्फाटिकस्नानपीठा
द्युपकरणविशालं गन्धमत्तालिमालम्।

स्फुरदरुण वितानं मञ्जु गन्धर्वगानं
परमशिवमहेले मज्जनागारमेहि॥३०॥

पीनोत्तुङ्ग पयोधराः परिलसत्संपूर्णचन्द्रानना
रत्नस्वर्णविनिर्मिताः परिलसत्सक्ष्माम्बरप्रावृताः।
हेमस्नानघटीस्तथा मृदुपटीरुद्वर्तनं कौसुमं
तैलं कङ्कतिकां करेषु दधतीर्वन्देऽम्ब ते दासिकाः॥३१॥

तत्र स्फाटिकपीठमेत्य शनकैरुत्तारितालंकृति
र्नीचैरुज्झितकञ्चुकोपरिहिता रक्तोत्तरीयाम्बरा।
वेणीबन्धमपास्य कङ्कतिकया केशप्रसादं मना
क्कुर्वाणा परदेवता भगवती चित्ते मम द्योतताम्॥३२॥

अभ्यङ्गं गिरिजे गृहाण मृदुना तैलेन सम्पादितं
काश्मीरैरगरुद्रवैर्मलयजैरुद्वर्तनं कारय।
गीते किन्नरकामिनीभिरभितो वाद्येमुदा वादिते
नृत्यन्तीमिह पश्य देवि पुरतो दिव्याङ्गनामण्डलीम्॥३३॥

कृतपरिकरबन्धास्तुङ्गपीनस्तनाढ्या
मणिनिवहनिबद्धा हेमकुम्भीदधानाः
सुरभिसलिल निर्यद्गन्धलुब्धालिमालाः
सविनयमुपतस्थुः सर्वतः स्नानदास्यः॥ ३४ ॥

उद्गन्धैरगरुद्रवैः सुरभिणा कस्तूरिकावारिणा
स्फूर्जत्सौरभयक्षकर्दमजलैः काश्मीरनीरैरपि।

पुष्पाम्भोभिरशेषतीर्थसलिलैः कर्पूरपाथोभरैः
स्नानं ते परिकल्पयामि गिरिजे भक्त्या तदङ्गीकुरु॥३५॥

प्रत्यङ्गं परिमार्जयामि शुचिना वस्त्रेण संप्रोज्छनं
कुर्वे केशकलापमायततरं धूपोत्तमैर्धूपितम्।
आलीबृन्दविनिर्मितां यवनिकामास्थाप्य रत्नप्रभं
भक्तत्राणपरे महेशगृहिणि स्नानाम्बरं मुच्यताम्॥३६॥

पीतं ते परिकल्पयामि निबिडं चण्डातकं चण्डिके
सूक्ष्मं स्निग्धमुरीकुरुष्व वसनं सिन्दूरपूरप्रभम्।
मुक्तारत्नविचित्रहेमरचना चारुप्रभाभास्वरं
नीलंकञ्चुकमर्पयामि गिरिशप्राणप्रिये सुन्दरि॥३७॥

विलुलितचिकुरेण च्छादितांसप्रदेशो
मणिनिकरविराजत्पादुकान्यस्तपादे।
सुललितमवलम्ब्य द्राक्सखीमंसदेशा
गिरिशगृहिणि भूषामण्टपाय प्रयाहि॥३८॥

लसत्कनककुट्टिम स्फुरदमन्दमुक्तावली
समुल्लसितकान्तिभिः कलितशक्रचापव्रजे।
महाभरणमण्डपे निहितहेमसिंहासनं
सखीजनसमावृतं समधितिष्ठ कात्यायनि॥३९॥

स्निग्धं कंकतिकामुखेन शनकैःसंशोध्यकेशोत्करं
सीमन्तं विरचय्य चारु विमलं सिन्दूररेखान्वितम्।

मुक्ताभिर्ग्रथितालकां मणिचितैः सौवर्णसूत्रैः स्फुटं
प्रान्ते मौक्तिकगुच्छकोपलतिकां ग्रथ्नामि वेणीमिमाम्॥४०॥

विलम्बिवेणी भुजगोत्तमाङ्ग स्फुरन्मणिभ्रान्तिमुपानयन्तम्।
स्वरोचिषोल्लासितकेशपाशं महेशि चूडामणिमर्पयामि॥४१॥

त्वामाश्रयद्भिः कबरीतमिस्रैर्बन्दीकृतं द्रागिव भानुबिंबम्।
मृडानि चूडामणिमादधानं वन्दामहे तावकमुत्तमाङ्गम्॥४२॥

स्वमध्यनद्धहाटकस्फुरन्मणिप्रभाकुलं
विलम्बिमौक्तिकच्छटाविराजितं समन्ततः।
निषद्धलक्षचक्षुषा भवेन भूरि भावितं
समर्पयामि भास्वरं भवानि फालभूषणम्॥४३॥

मीनाम्भोरुह खञ्जरीटसुषमाविस्तारविस्मारके
कुर्वाणे किल कामवैरिमनसः कन्दर्प बाणप्रभाम्।
माध्वीपानमदारुणेऽतिचपले दीर्घे दृगम्भोरुहे
देवि स्वर्णशलाक योजितमिदं दिव्याञ्जनं दीयताम्॥४४॥

मध्यस्थारुणरत्नकान्तिरुचिरां मुक्तामुगोद्भासितां
दैवाद्भार्गव जीवमध्यगरवेर्लक्ष्मीमधः कुर्वतीम्।
उत्सिक्ताधर बिम्बकान्ति विसरै र्भौमी भवन्मौक्तिकां
मद्दत्तामुररीकुरुष्व गिरिजे नासाविभूषामिमाम्॥४५॥

उडुकुतपरिवेष स्पर्धयाशीतभानो
रिव विरचितदेहद्वन्द्व मादित्यबिम्बम्।

अरुणमणिसमुद्यत्प्रान्तविभ्राजिमुक्तं
श्रवसि परिनिधेहि स्वर्णताटङ्कयुग्मम्॥ ४६ ॥

मरकतवरपद्मरागहीरो त्थितगुलिकात्रितयावनद्धमध्यम्।
विततविमलमौक्तिकं च कण्ठाभरणमिदं गिरिजे समर्पयामि ॥४७॥

नानादेशसमुत्थितैर्मणिगण प्रोद्यत्प्रभामण्डल
व्याप्तैराभरणैर्विराजितगलां मुक्ताच्छटालङ्कृताम्।
मध्यस्थारुणरत्नकान्ति रुचिरां प्रान्तस्थमुक्ताफल
व्रातामम्ब चतुष्किकां परशिवे वक्षः स्थले स्थापय॥४८॥

अन्योन्यं प्लावयन्ती सतत परिचल त्कान्तिकल्लोलजालैः
कुर्वाणा मज्जदन्तः करणविमलतां शोभितेव त्रिवेणी।
मुक्ताभिः पद्मरागैः मरकतमणिभिर्निर्मिता दीप्यमानै
र्नित्यं हारत्रयी ते परशिवरसिके चेतसि द्योततां नः॥४९॥

करसरसिजनाले विस्फुरत्कान्तिजाले
विलसदमलशोभे चञ्चदीशाक्षिलोभे।
विविधमणिमयूखोद्भासितं देवि दुर्गे
कनककटकयुग्मं बाहुयुग्मे निधेहि॥५०॥

व्यालम्बमानसितपट्टकगुच्छशोभि
स्फूर्जन्मणी घटितहारविरोचमानम्।
मातर्महेशमहिले तव बाहुमूले
केयूरकद्वयमिदं विनिवेशयामि॥५१॥

विततनिजमयूखैर्निर्मितामिन्द्रनीलै-
र्विजितकमलनालालीनमत्तालिमालाम्।
मणिगणखचिताभ्यां कङ्कणाभ्यामुपेतां
कलय वलयराजीं हस्तमूले महेशि॥५२॥

नीलपट्टमृदुगुच्छशोभिता बद्धनैकमणिजालमञ्जुलाम्।
अर्पयामि वलयात् पुरःसरे विस्फुरत्कनकतैतृपालिकाम्॥५३॥

आलवालमिव पुष्पधन्वना बालविद्रुमलतासुनिर्मितम्।
अङ्गुलीषु विनिधीयतां शनै रङ्गुलीयकमिदं मदर्पितम्॥५४॥

विजितहरमनोभूमत्तमातङ्गकुम्भ
स्थलविलुलितकूजत्किङ्किणी जालतुल्याम्।
अविरतकलनादैरीशचेतो हरन्तीं
विविधमणिनिवद्धां मेखलामपर्यामि॥५५॥

व्यालम्बमानवरमौक्तिकगुच्छशोभि विभ्राजि हाटकपुटद्वयरोचमानम्।
हेम्ना विनिर्मितमनेकमणिप्रबन्धं नीवीनिबन्धनगुणं विनिवेदयामि॥
विनिहतनवलाक्षापङ्कबालातपौघे
मरकतमणिराजी मञ्जुमञ्जीरघोषे।
अरुणमणिसमुद्यत्कान्ति धाराविचित्र
स्तव चरणसरोजे हंसकः प्रीतिमेतु॥५७॥

निबद्धशितिपट्टकप्रवरगुच्छ संशोभितां
कलक्कणितमञ्जुलां गिरिशचित्तसंमोहनीम्।

अमन्दमणिमण्डली विमलकान्तिकिम्मीरितां
निधेहि पदपङ्कजे कनकघुङ्घुरूमम्बिके॥५८॥

विस्फुरत्सहजरागरञ्जिते शिञ्जितेन कलितां सखीजनैः।
पद्मरागमणिनूपूरद्वयीमर्पयामि तव पादपङ्कजे॥५९॥

पदाम्बुजमुपासितुं परिगतेन शीतांशुना
कृतां तनुपरम्परामिव दिनान्तरागारुणाम्।
महेशि नवयावकद्रवभरेण शोणिकृतां
नमामि नखमण्डलीं चरणपङ्कजस्थां तव॥६०॥

आरक्तश्वेतपीत स्फुरदुरुकुसुमैश्चित्रितां पट्टसूत्रै
र्देवस्त्रीभिः प्रयत्नाद्गरुसमुदितैर्धूपितां दिव्यधूपैः।
उद्यगन्धान्धपुष्पन्धय निवहसमारब्ध झांकारगीतां
चञ्चत्कह्लारमालां परशिवरसिके कण्ठपीठेऽर्पयामि॥ ६१॥

गृहाण परमामृतं कनकपात्रसंस्थापितं
समर्पय मुखाम्बुजे विमलवीटिकामम्बिके।
विकोकय मुखाम्बुजं मुकुरमण्डले निर्मले
निधेहि मणिपादुकोपरि पदाम्बुजं सुन्दरि॥६२॥

आलम्ब्य स्वसखीं करेण शनकैः सिंहासनादुत्थिता
कूजन्मन्दमरालमञ्जुलगति प्रोल्लासि भूषाम्बरा।
आनन्दप्रतिपादकै रुपनिषद्वाक्यैः स्तुता वेधसा
मच्चित्ते स्थिरतामुपैतु गिरिजा यान्ती सभामण्डपम्॥६३॥

चलन्त्यामम्बायां प्रचलति समस्ते परिजने
सवेगं संयाते कनकलतिकालङ्कृतिभरे।
समन्तादुत्तालस्फुरित पदसंपातजनितै
र्झणत्कारै स्तारैर्झणझणितमासीन्मणिगृहम्॥६४॥

चञ्चद्वेत्रकराभिरङ्गविलसद्भूषाम्बराभिः पुरो
यान्तीभिः परिचारिकाभिरमरव्राते समुत्सारिते।
रुद्धे निर्जरसुन्दरीभिरभितः कक्षान्तरे निर्गतं
वन्दे नन्दितशम्भु निर्मलचिदानन्दैकरूपं महः॥६५॥

वेधाः पादतले पतत्ययमसौ विष्णुर्नमत्यग्रतः
शंभुर्देहि दृगञ्चलं सुरपतिं दूरस्थमालोकय।
इत्येवं परिचरिकाभिरुदिते संमाननां कुर्वती
दृग्द्वन्द्वेन यथोचितं भगवती भूयाद्विभूत्यै मम॥६६॥

मन्दं चारणसुन्दरीभिरभितो यान्तीभिरुत्कण्ठ्या
नामोच्चारणपूर्वकं प्रतिदिशं प्रत्येकमावेदितान्।
वेगादक्षिपथं गतान्सुरगणानालोकयन्ती शनै
र्दित्सन्ती चरणांबुजं पथि जगत्पायान्महेशप्रिया॥६७॥

अग्रे केचन पार्श्वयोः कतिपये पृष्ठे परे प्रस्थिता
आकाशे समवस्थिताः कतिपये दिक्षु स्थिताश्चापरे।
संमर्दं शनकैरपास्य पुरतो दण्डप्रणामान्मुहः
कुर्वाणाः कतिचित्सुरा गिरिसुते दृक्पातमिच्छन्तिते॥ ६८॥

अग्रे गायति किन्नरी कलपदं गन्धर्वकान्ताः शनै
रातोद्यानि च वादयन्ति मधुरं सव्यापसव्यस्थिताः।
कूजन्नूपुरनादमञ्जु पुरतो नृत्यन्ति दिव्याङ्गनाः
गच्छन्तः परितः स्तुवन्ति निगमस्तुत्या विरिञ्च्यादयः॥६९॥

कस्मैचित् सुचिरादुपासितमहामन्त्रौघसिद्धिं क्रमा
देकस्मै भव निःस्पृहाय परमानन्दस्वरूपां गतिम्।
अन्यस्मै विषमानुरक्तसनसे दीनाय दुःखापहं
द्रव्यं द्वारसमाश्रिताय ददतीं वंदामहे सुंदरीम्॥७०॥

नम्रीभूय कृताञ्जलिप्रकटित प्रेमप्रसन्नानने
मंदं गच्छति संनिधौ सविनयात् सोत्कण्ठमोघत्रये।
नानामंत्रगणं तदर्थमखिलं तत्साधनं तत्फलं
व्याचक्षाणमुदग्रकांति कलये यत्किञ्चिदाद्यं महः॥७१॥

तव दहनसदृक्षैरीक्षणैरेव चक्षु
र्निखिलपशुजनानां भीषयद्भीषणास्यम्।
कृतवसति परेशप्रेयसि द्वारि नित्यं
शरभमिथुनमुच्चैर्भक्तियुक्तो नतोऽस्मि॥७२॥

कल्पान्ते सरसैकदासमुदितानेकार्क तुल्यप्रभां
रत्नस्तम्भनिबद्धकाञ्चनगुणस्फूर्जद्वितानोत्तमाम्।
कर्पूरागरुगर्भवर्तिकलिकाप्राप्तप्रदीपावलीं
श्रीचक्राकृतिमुल्लसन्मणिगणां वन्दामहे वेदिकाम्॥७३॥

स्वस्थानस्थित देवतागणवृते बिन्दौ मुदा स्थापितं
नानारत्नविराजिहेमविलसत्कान्तिच्छटादुर्दिनम्।
चञ्चत्कौसुमतूलिकासनयुतं कामेश्वराधिष्ठितं
नित्यानन्दनिदानमंब सततं वन्देच सिंहासनम्॥७४॥

वदद्भिरभितो मुदा जय जयेति वृंदारकः
कृताञ्जलिपरंपरा विदधती कृतार्था दृशा।
अमंदमणिमण्डलीखचितहेम सिंहासनं
सखीजन समावृतं समधितिष्ठ दाक्षायणि॥७५॥

कर्पूरादिकवस्तुजातमखिलं सौवर्ण भृङ्गारकं
तांबूलस्य करण्डकं मणिमयं चैलाञ्चलंदर्पणम्।
विस्फूर्जन्मणिपादुके च दधतीः सिंहासनस्याभित
स्तिष्ठतीः परिचारिकास्तव सदा वंदामहे सुंदरि॥७६॥

त्वदमलवपुरुद्यत्क्रांतिकल्लोलजालैः
स्फुटमिव दधतीभिर्बाहु विक्षेपलीलाम्।
मुहुरपि च विधूते चामरग्राहिणीभिः
सितकरकरशुभ्रे चामरे चालयामि॥७७॥

प्रांतस्फुरद्विमलमौक्तिकगुच्छजालं
चञ्चन्महामणिविचित्रितहेमदण्डम्।
उद्यत्सहस्रकरमण्डलचारु हेम
च्छत्रं सहेममहिले विनिवेशयामि॥७८॥

उद्यत्तावकदेहकांति पटलीसिंदूरपूरप्रभा
श्रोणी भूतमुदग्रलोहितमणि च्छेदानुकारिच्छवि।
दूरादादरनिर्मिताञ्जलिपुटैरालोक्यमानं सुर
व्यूहैः काञ्चनमातपत्रमतुलं वन्दामहे सुन्दरम्॥७९॥

सन्तुष्टां परमामृतेन विलसत्कामेश्वराङ्कस्थितां
पुष्पौघैरभिपूजितां भगवतीं त्वां वंदमाना मुदा।
स्फूर्जत्तावकदेहरश्मिकलना प्राप्तस्वरूपाभिधाः
श्रीचक्रावरणस्थिताः सविनयं वन्दामहे देवताः॥८०॥

आधारशक्त्यादिकमाकलय्य मध्ये समस्ताधिकयोगिनीं च।
मित्रेशनाथादिक मत्र नाथ चतुष्टयं शैलसुते नतोऽस्मि॥८१॥

त्रिपुरासुधार्णवासनमारभ्य त्रिपुरमालिनी यावत्।
आवरणाष्टकसंस्थितमासनषट्कं नमामि परमेशि॥८२॥

ईशाने गणपं स्मरामि विचरद्विघ्नान्धकारच्छिदे
वायव्ये वटुकं च कज्जलरुचिं व्यालोपवीतान्वितम्।
नैर्ऋत्ये महिषासुरप्रमथिनीं दुर्गां च संपूजय
न्नाग्नेयेऽखिल भक्तरक्षणपरं क्षेत्राधिनाथं भजे॥ ८३ ॥

उड्यान जालंधरकामरूपपीठानिमान् पूर्णगिरिप्रसक्तान्।
त्रिकोणदक्षाग्रिमसव्यभागमध्यस्थितान् सिद्धिकरान्नमामि॥ ८४ ॥

लोकेशः पृथिवीपतिः निगदितो विष्णुर्जलानां प्रभु
स्तेजोनाथ उमापतिश्च मरुतामीशस्तथाचेश्वरः।

आकाशाधिपतिः सदाशिव इति प्रेताभिधामागता
नेतांश्चक्रबहिः स्थितान् सुरगणान् वन्दामहे सादरम्॥८५॥

तारानाथकलाप्रवेशनिगमव्याजाद्गतासुप्रथं
त्रैलोक्ये तिथिषु प्रवर्तितकलाकाष्ठादिकालक्रमम्।
रत्नालङ्कृतिचित्रवस्त्रललितं कामेश्वरीपूर्वकं
नित्याषोडशकं नमामि लसितं चक्रात्मनोरन्तरे॥८६॥

हृदि भावितदैवतं प्रयत्ना भ्युपदेशानुगृहीतभक्तसंघम्।
स्वगुरुक्रमसंज्ञ चक्रराज स्थितमोघत्रयमानतोऽस्मि मूर्ध्ना॥८७॥

हृदयमथ शिरः शिखाखिलाद्ये कवचमथो नयनत्रयं च देवि।
मुनिजन परिचिन्तितं तथास्त्रं स्फुरतु सदा हृदये षडङ्गमेतत्॥ ८८॥

त्रैलोक्यमोहनमिति प्रथितेतु चक्रे
चञ्चद्विभूषणगणत्रिपुराधिवासे।
रेखात्रये स्थितवतीरणिमादिसिद्धी
र्मुद्रानमामि सततं प्रकटाभिधास्ताः॥८९॥

सर्वाशापरिपूरके वसुदलद्वन्द्वेन विभ्राजिते
विस्फूर्जत्रिपुरेश्वरी निवसतौ चक्रे स्थिता नित्यशः।
कामाकर्षाणिकादयो मणिगणभ्राजिष्णु दिव्याम्बरा
योगिन्यः प्रदिशन्तु का‌ङ्क्षितफलं विख्यातगुप्ताभिधाः॥९० ॥

महेशि वसुभिर्दलैर्लसति सर्वसंक्षोभणे
विभूषणगणस्फुरत्त्रिपुरसुन्दरी सद्मनि।

अनङ्गकुसुमादयो विविधभूषणाद्भासिता
दिशन्तु मम कांक्षितं तनुतराश्च गुप्ताभिधाः॥९१॥

लसद्युगदृशारके स्फुरति सर्वसौभाग्यदे
शुभाभरणभूषितत्रिपुरवासिनीमन्दिरे।
स्थिता दधतु मङ्गलं सुभगसर्वसंक्षोभिणी
मुखाः सकलसिद्धयो विदितसम्प्रदायाभिधाः॥९२॥

बहिर्दशारे सर्वार्थसाधके त्रिपुराश्रयाः।
कुलकौलाभिधाः पान्तु सर्वसिद्धिप्रदायिकाः॥९३॥

अन्तः शोभिदशारकेऽतिललिते सर्वादिरक्षाकरे
मालिन्या त्रिपुराद्यया विरचितावासे स्थितं नित्यशः।
नानारत्नविभूषणं मणिगणभ्राजिष्णुदिव्याम्बरं
सर्वज्ञादिकशक्तिवृन्दमनिशं वन्दे निगर्भाभिधम्॥९४॥

सर्वरोगहरेऽष्टारे त्रिपुरासिद्धयान्विते।
रहस्ययोगिनीर्नित्यं वशिन्याद्या नमाम्यहम्॥९५॥

चूताशोकविकासिकेतकरजः प्रोद्भासिनीलाम्बुज
प्रस्फूर्जन्नवमल्लिकासमुदितैः पुष्पैः शरान्निर्मितान्।
रम्यं पुष्पशरासनं सुललितं पाशं तथाचाङ्कुशं
वन्दे तावकमायुधं परशिवे चक्रान्तराले स्थितम्॥९६॥

त्रिकोण उदित प्रभे जगति सर्वसिद्धिप्रदे
युते त्रिपुरयाम्बया स्थितवती च कामेश्वरी।

तनोतु मम मङ्गलं सकलशर्म वज्रेश्वरी
करोतु भगमालिनी स्फुरतु मामके चेतसि॥९७॥

सर्वानन्दमये समस्तजगतामाकाङ्क्षिते बैन्दवे
भैरव्या त्रिपुराद्यया विरचितावासे स्थितासुंदरी।
आनंदोल्लसितेक्षणा मणिगण भ्राजिष्णु भूषाम्बरा
विस्फूर्जद्वऽसना परापररहः सा पातु मां योगिनी॥९८॥

उल्लसत्कनककांतिभासुरं सौरभस्फुरण वासिताम्बरम्।
दूरतः परिहृतं मधुत्रतै रर्पयामि तव देवि चंपकम्॥९९॥

वैरमुद्धतमपास्य शंभुना मस्तके विनिहितं कलाच्छलात्।
गंधलुब्धमधुपाश्रितं सदा केतकीकुसुममर्पयामि ते॥१००॥

चूर्णीकृतं द्रागिव पद्मजेन त्वदाननस्पर्धिसुधांशुबिंबम्।
समर्पयामि स्फुटमञ्जलिस्थं विकासिजातीकुसुमोत्करं ते॥१०१॥

अगरुबहलधूपाजस्रसौरभ्यरम्यां
मरकतमणिराजीराजिहारिस्रगाभाम्।
दिशि विदिशि विसर्पद्गंधलुब्धालिमालां
वकुलकुसुममालां कण्ठपीठेऽर्पयामि॥१०२॥

ईकारोर्ध्वगबिन्दुराननमधोबिन्दुद्वयं च स्तनौ
त्रैलोक्ये गुरुगम्यमेतदखिलं हार्दं च रेखात्मकम्।
इत्थं कामकलात्मिकां भगवतीमन्तः समाराधय
न्नानन्दाम्बुधिमज्जने प्रलभतामानन्दथुं सज्जनः॥१०३॥

धूपं तेऽगरुसम्भवं भगवति प्रोल्लासिगन्धोद्धुरं
दीपं चैव निवेदयामि महसा हार्दान्धकारच्छिदम्।
रत्नस्वर्णविनिर्मितेषु परितः पात्रेषु संस्थापितं
नैवेद्यं विनिवेदयामि परमानन्दात्मिके सुन्दरि॥१०४॥

जातीकोरकतुल्यमोदनमिदं सौवर्णपात्रे स्थितं
शुद्धान्नं शुचि मुद्गमाषचणकोद्भूतास्तथा सूपकाः।
प्राज्यं माहिषमाज्यमुत्तममिदं हैयंगवीनं पृथ
क्पात्रेषु प्रतिपादितं परशिवे तत्सर्वमङ्गीकुरु॥ १०५ ॥

शिम्बीसूरणशाकबिम्बबृहतीकूश्माण्डकोशातकी
वृन्ताकानि पटोलकानि मृदुना संसाधितान्यग्निना।
सम्पन्नानि च वेसवारविसरैर्दिव्यानि भक्त्या कृता
न्यग्रेते विनिवेदयामि गिरिजे सौवर्णपात्रव्रजे॥ १०६ ॥

निम्बूकार्द्रकचूतकन्दकदली कौशातकीकर्कटी
धात्री बिल्वकरीरकैर्विरचितान्यानन्दचिद्विग्रहे।
राजीभिः कटुतैलसैन्धवहरिद्राभिः स्थितान्पातये
सन्धानानि निवेदयामि गिरिजे भूरिप्रकाराणि ते॥१०७॥

सितयाञ्चितलड्डुकव्रजान्मृदुपूपान्मृदुलाश्च पूरिकाः।
परमान्नमिदं च पार्वति प्रणयेन प्रतिपादयामि ते॥१०८॥

दुग्धमेतदनले सुसाधितं चन्द्रमण्डलनिभं तथादधि।
फाणितं शिखरिणीं सितासितां सर्वमम्ब विनिवेदयामि ते ॥ १०९ ॥

अग्रे ते विनिवेद्य सर्वममितं नैवेद्यमङ्गीकृतं
ज्ञात्वा तत्वचतुष्टयं प्रथमतो मन्ये सुतृप्तां ततः।
देवीं त्वां परिशिष्टमम्ब कनकामत्रेषु संस्थापितं
शक्तिभ्यः समुपाहरामि सकलं देवेशि शम्भुप्रिये॥ ११० ॥

वामेन स्वर्णपात्री मनुपमपरमान्नेन पूर्णां दधाना
मन्येन स्वर्णदर्वीं निजजनहृदयाभीष्टदां धारयन्तीम्।
सिन्दूरारक्तवस्त्रां विविधमणिलसद्भूषणां मेचकाङ्गीं
तिष्ठन्तीमग्रतस्ते मधुमदमुदितामन्नपूर्णां नमामि॥ १११ ॥

पंक्त्योपविष्टान् परितस्तु चक्रं शक्त्या स्वयालिङ्गितवामभागान्।
सर्वोपचारैः परिपूज्य भक्त्या तवाम्बिके पारिषदान्नमामि ॥ ११२ ॥

परमामृतमत्तसुन्दरीगणमध्यस्थितमर्कभासुरम्।
परमामृतघूर्णितेक्षणं किमपि ज्योतिरुपास्महे परम्॥११३॥

दृश्यते तव मुखाम्बुजं शिवे श्रूयते स्फुटमनाहतध्वनिः।
अर्चने तव गिरामगोचरे न प्रयाति विषयान्तरं मनः॥ ११४॥

त्वन्मुखाम्बुजविलोकनोल्लस त्प्रेमनिश्चल विलोचनद्वयीम्।
उन्मनीमुपगतां सभामिमां भावयामि परमोशि तावकीम्॥११५॥

चक्षुः पश्यतु नेह किंचन परं घ्राणं नवा जिघ्रतु
श्रोत्रं हन्त शृणोतु न त्वगपि न स्पर्शं समालम्बताम्।
जिह्वा वेत्तु नवा रसं मम परं युष्मत्स्वरूपामृते
नित्यानन्दविघूर्णमाननयने नित्यं मनो मज्जतु॥ ११६ ॥

यस्त्वां पश्यति पार्वति प्रतिदिनं ध्यानेन तेजोमयीं
मन्ये सुन्दरि तत्वमेतदखिलं वेदेषु निष्ठां गतम्।
यस्तस्मिन्समये तवार्चनविधावानन्दसान्द्राशयो
यातोऽहं तदभिन्नता परशिवे सोऽयं प्रसादस्तव॥११७॥

गणाधिनाथं वटुकं च योगिनीः क्षेत्राधिनाथं च विदिक्चतुष्टये
सर्वोपचारैः परिपूज्य भक्तितो निवेदयामो बलिमुक्तयुक्तिभिः॥
वीणामुपान्ते खलु वादयन्त्यै निवेद्य शेषं खलु शेषिकायै।
सौवर्ण भृङ्गार विनिर्गतेन जलेन शुद्धाचमनं विधेहि॥ ११९ ॥

ताम्बूलं विनिवेदयामि विलसत्कर्पूरकस्तूरिका
जातीपूगलवङ्गचूर्णखदिरै र्भक्त्या समुल्लासितम्।
स्फूर्जद्रत्नसमुद्गकप्रणिहितं सौवर्णपात्रे स्थितै
र्दीपैरुज्ज्वलमन्नचूर्णरचितैरारार्तिकं गृह्यताम्॥१२०॥

काचिद्गायति किंनरी कलपदं वाद्यं दधानोर्वशी
रम्भा नृत्यति केलिमञ्जुलपदं मातः पुरस्तात्तव।
कृत्यं प्रोज्झ्य सुरस्त्रियो मधुमदव्याघूर्णमानेक्षणं
नित्यानन्दसुधाम्बुधिं तव मुखं पश्यन्ति हृष्यन्ति च॥१२१॥

ताम्बूलोद्भासिवक्त्रैस्त्वदमलवदनालोकनोल्लासिनेत्रै
श्चक्रस्थैः शक्तिसंघैः परिहृतविषयासङ्गमाकर्ण्यमानम्।
गीतज्ञाभिः प्रकामं मधुरसमधुरं वादितं किन्नरीभि
र्वीणाझङ्कारनादं कलय परशिवानन्दसन्धानहेतोः॥ १२२ ॥

अर्चाविधौ ज्ञानलवोऽपि दूरे दूरे तदापादकवस्तुजातम्।
प्रदक्षिणीकृत्य ततोऽर्चनं ते पंचोपचारात्मकमर्पयामि॥ १२३॥

यथेप्सितमनोगतप्रकटितोपचारार्चितां
निजावरणदेवतागणवृतां सुरेशस्थिताम्।
कृताञ्जलिपुटो मुहुः कलितभूमिरष्टाङ्गकै
र्नमामि भगवत्यहं त्रिपुरसुन्दरि त्राहि माम्॥१२४॥

विज्ञप्ती रवधेहि मे सुमहता यत्नेन ते संनिधिं
प्राप्तं मामिह कान्दिशीकमधुना मातर्न दूरीकुरु।
चित्तं त्वत्पदभावने व्यभिचरे दृग्वाक्च मे जातु चे
त्तत्सौम्ये स्वगुणै र्बधान न यथा भूयोः विनिर्गच्छति॥१२५॥

काहं मन्दमतिः क्वचेदमखिलेरेकान्तभक्तैः स्तुतं
ध्यातं देवि तथापि ते स्वमनसा श्रीपादुकापूजनम्।
कादाचित्कमदीयचिन्तनविधौ सन्तुष्टया शर्मदं
स्तोत्रं देवतया तया प्रकटितं मन्ये मदीयानने॥ १२६॥

नित्यार्चनमिदं चित्ते भाव्यमानं सदा मया।
निबद्धं विविधैः पद्यैरनुगृह्णातु सुन्दरी॥१२७॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमाच्छङ्करभगवतः कृतौ
॥ त्रिपुरसुन्दरीमानसपूजास्तोत्रं संपूर्णम् ॥

<MISSING_FIG href="../books_images/U-IMG-172362997930.png"/>

॥ देवीचतुःषष्ट्युपचारपूजास्तोत्रम् ॥

उषसि मागधमङ्गलगायनैर्झटिति जागृहि जागृहि जागृहि।
अतिकृपार्द्रकटाक्षनिरीक्षणैर्जगदिदं जगदम्ब सुखीकुरु॥१॥

कनकमयवितर्दिशोभमानं दिशि दिशि पूर्णसुवर्णकुम्भयुक्तम्।
मणिमयमण्डपमध्यमेहि मातर्मयि कृपयाशु समर्चनं ग्रहीतुम्॥२॥

कनककलशशोभमानशीर्षं जलधरलम्बि समुल्लसत्पताकम्।
भगवति तव संनिवासहेतो र्मणिमयमन्दिरमेतदर्पमामि॥३॥

तपनीयमयी सुतूलिका कमनीया मृदुलोत्तरच्छदा।
नवरत्नविभूषिता मया शिबिकेयं जगदम्ब तेऽर्पिता॥४॥

कनकमयवितर्दिस्थापिते तूलिकाढ्ये
विविधकुसुमाकीर्णे कोटिबालार्कवर्णे।
भगवति रमणीये रत्नसिंहासनेऽस्मि
न्नुपविश पदयुग्मं हेमपीठे निघाय॥५॥

मणिमौक्तिक निर्मितं महान्तं कनकस्तम्भचतुष्टयेन युक्तम्।
कमनीयतमं भवानि तुभ्यं नवमुल्लोचमहं समर्पयामि॥६॥

दूर्वया सरसिजान्वितविष्णुक्रान्तया च सहितं कुसुमाढ्यम्।
पद्मयुग्मसदृशे पदयुग्मे पाद्यमेतदुररीकुरु मातः॥७॥

गन्धपुष्पयवसर्षपदूर्वासंयुतं तिलकुशाक्षतमिश्रम्।
हेमपात्रनिहित्तं सह रत्नैरर्घ्यमेतदुररीकुरु मातः॥८॥

जलजद्युतिना करेण जातीफलतक्कोललवङ्गगन्धयुक्तैः।
अमृतैरमृतैरिवातिशीतैर्भगवत्याचमनं विधीयताम्॥९॥

निहितं कनकस्य सम्पुटे पिहितं रत्नपिधानकेन यत्।
तदिदं जगदम्ब तेऽर्पितं मधुपर्कं जननि प्रगृह्यताम्॥१०॥

एतञ्चम्पकतैलमम्ब विविधैः पुष्पैर्मुहुर्वासितं
न्यस्तं रत्नमये सुवर्णचषके भृङ्गै र्भ्रमद्भिर्वृतम्।
सानन्दं सुरसुन्दरीभिरभितो हस्तै र्धृतं ते मया
केशेषु भ्रमरभ्रमेषु सकलेष्वङ्गेषु चालिप्यते॥११॥

मातः कुङ्कुमपङ्कनिर्मितमिदं देहे तवोद्वर्तनं
भक्त्याहं कलयामि हेमरजसा संमिश्रितं केसरैः।
केशानामलकैर्विशोध्य विशदान् कस्तूरिकोदञ्चितैः
स्नानं ते नवरत्नकुम्भमहितैः संवासितोष्णोदकैः॥१२॥

दधिदुग्धघृतैः समाक्षिकैः सितया शर्करया समन्वितैः।
स्नपयामि तवाह मादरा ज्जननि त्वां पुनरुष्णवारिभिः॥१३॥

एलोशीरसुवासितैः सकुसुमैर्गङ्गादितीर्थोदकैः
माणिक्यामलमौक्तिकामृतरसैः स्वच्छेः सुवर्णोदकैः।
मन्त्रान् वैदिकतान्त्रिकान् परिपठन्सानन्दमत्यादरात्
स्नानं ते परिकल्पयामि जननि स्नेहा त्त्वमङ्गीकुरु॥ १४ ॥

बालार्कद्युति दाडिमीय कुसुमप्रस्पर्धि सर्वोत्तमं
मातस्त्वं परिधेहि दिव्यवसनं भक्त्या मया कल्पितम्।
मुक्ताभिर्ग्रथितं सुकञ्चुकमिदं स्वीकृत्य पीतप्रभं
तप्तस्वर्णसमानवर्णमतुलं प्रावर्णमङ्गीकुरु॥१५॥

नवरत्नमये मयार्पिते कमनीये तपनीयपादुके।
सविलासमिदं पदद्वयं कृपया देवि तयोर्निधीयताम्॥१६॥

बहुभिरगरुधूपैः सादरं धूपयित्वा
भगवति तव केशान् कङ्कतैर्मार्जयित्वा।
सुरभिभिररविन्दैश्चम्पकैश्चार्चयित्वा
झटिति कनकसूत्रैर्जूटयन्वेष्टयामि॥१७॥

सौवीराञ्जनमिदमम्ब चक्षुषोस्ते विन्यस्तं कनकशलाकया मया यत्।
तन्न्यूनं मलिनमपि त्वदक्षिसङ्गात् ब्रह्मेन्द्राद्यभिलषणीयतामियाय॥

मञ्जीरे पदयोर्निधाय रुचिरां विन्यस्य काञ्चीं कटौ
मुक्ताहारमुरोजयोरनुपमां नक्षत्रमालां गले।
केयूराणि भुजेषु रत्नवलयश्रेणीं करेषु क्रमा
त्ताटङ्के तव कर्णयोर्विनिदधे शीर्षे च चूडामणिम्॥ १९ ॥

धम्मिल्ले तव देवि हेमकुसुमान्याधाय फालस्थले
मुक्ताराजिविराजमानतिलकं नासापुटे मौक्तिकम्।
मातर्मौक्तिकजालिकां च कुचयोः सर्वाङ्गुलीषूर्मिकाः
कट्यां काञ्चनकिङ्किणीर्विनिदधे रत्नावतंसं श्रुतौ॥२०॥

मातः फालतले तवातिविमले काश्मीरकस्तूरिका
कर्पूरागरुभिः करोमि तिलकं देहेऽङ्गरागं ततः।
वक्षोजादिषु यक्षकर्दमरसं सिक्त्वा च पुष्पद्रवं
पादौ चन्दनलेपनादिभिरहं संपूजयामि क्रमात्॥२१॥

रत्नाक्षतैस्त्वां परिपूजयामि मुक्ताफलैर्वारुचिरैरविद्धैः।
अखण्डितैर्देवि यवादिभिर्वा काश्मीरपङ्काङ्किततण्डुलैर्वा॥२२॥

जननि चम्पकतैलमिदं पुरो मृगमदोपयुतं पटवासकम्।
सुरभि गन्धमिदं च चतुःसमं सपदि सर्वमिदं परिगृह्यताम् ॥२३॥

सीमन्ते ते भगवति मया सादरं न्यस्तमेत
त्सिन्दूरं मे हृदयकमले हर्षवर्षं तनोति।
बालादित्यद्युतिरिव सदा लोहिता यस्य कान्ती
रन्तर्ध्वान्तं हरति सकलं चेतसा चिन्तयैव॥२४॥

मन्दारकुन्दकरवीरलवङ्गपुष्पै स्त्वां देवि सन्ततमहं परिपूजयामि।
जातीजपावकुलचम्पककेतकादि नानाविधानि कुसुमानि च तेऽर्पयामि॥२५॥

मालतीवकुल हेमपुष्पिकाकाञ्चनारकरवीरकैतकैः।
कर्णिकारगिरिकर्णिकादिभिः पूजयामि जगदम्ब ते वपुः॥२६॥

पारिजातशतपत्रपाटलैर्मल्लिकावकुलचम्पकादिभिः।
अम्बुजैः सुकुसुमैश्च सादरं पूजयामि जगदम्ब ते वपुः॥२७॥

लाक्षासंमिलितैः सिताभ्रसहितैः श्रीवाससम्मिश्रितैः
कर्पूराकलितैः शिरै र्मधुयुतैर्गोसर्पिषालोडितैः।
श्रीखण्डागरुगुग्गुलुप्रभृतिभिर्नानाविधैर्वस्तुभिः
धूपं ते परिकल्पयामि जननि स्नेहात्त्वमङ्गीकुरु॥२८॥

रत्नालंकृतहेमपात्रनिहितैर्गोसर्पिषा लोङितै
र्दीपैर्दीर्घतरान्धकारभिदुरैर्बालार्ककोटिप्रभैः।

आताम्रज्वलदुज्ज्वलप्रविलसद्रत्नप्रदीपैस्तथा
मातस्त्वा महमादरादनुदिनं नीराजयाम्युच्चकैः॥२९॥

मातस्त्वां दधिदुग्धपायसमहाशाल्यन्नसन्तानिकाः
सूपापूपसिताघृतैः सवटकैः सक्षौद्ररंभाफलैः।
एलाजीरकहिङ्गुनागरनिशाकुस्तुंभरीसंस्कृतैः
शाकैस्साकमहं सुधाधिकरसैः सन्तर्पयाम्यर्चयन्॥३०॥

सापूपसूपदधिदुग्धसिताघृतानि
सुस्वादुभक्तपरमान्नपुरःसराणि।
शाकोल्लसन्मरिचिजीरकबाह्निकानि
भक्ष्याणि भुंक्ष्व जगदंब मयार्पितानि॥३१॥

क्षीरमेतदिदमुत्तमोत्तमं प्राज्यमाज्यमिदमुज्ज्वलं मधु।
मातरेतदमृतोपमं पयः संभ्रमेण परिपीयतां मुहुः॥३२॥

उष्णोदकैः पाणियुगं मुखं च प्रक्षाल्य मातः कलधौतपात्रे
कर्पूरमिश्रेण सकुङ्कुमेन हस्तौ समुद्वर्तय चन्दनेन॥३३॥

अतिशीतमुशीरवासितं तपनीये कलशे निवेशितम्।
पटपूतमिदं जितामृतं शुचि गङ्गाजलमंब पीयताम्॥३४॥

जंब्वाम्ररंभाफलसंयुतानि द्राक्षाफलक्षौद्रसमन्वितानि।
सनारिकेलानि सदाडिमानि फलानि ते देवि समर्पयामि॥३५॥

कूश्माण्डकोशातकिसंयुतानि जंबीरनारङ्गसमन्वितानि।
सबीजपूराणि सबादराणि फलानि ते देवि समर्पयामि॥३६॥

कर्पूरेण युतैर्लवङ्गसहितै स्तक्कोलचूर्णान्वितैः
सुखादुक्रमुकैः सगौरखदिरैः सुस्निग्धजातीफलैः।
मातः कैतकपत्रपाण्डुरुचिभिस्तांबूलवल्लीदलैः
सानन्दं मुखमण्डनार्थमतुलं तांबूलमङ्गीकुरु॥३७॥

एलालवङ्गादिसमन्वितानि तक्कोलकर्पूरविमिश्रितानि।
तांबूलवल्लीदलसंयुतानि पूगानि ते देवि समर्पयामि॥३८॥

तांबूलनिर्जितसुतप्तसुवर्णवर्णं स्वर्णाक्तपूगफलमौक्तिक चूर्णयुक्तम्।
सौवर्णपात्रनिहितं खदिरेणसार्धं तांबूलमंब वदनाम्बुरुहे गृहाण॥

महति कनकपात्रे स्थापयित्वा विशालान्
डमरुसदृशरूपान्बद्धगोधूमदीपान्।
बहुघृतमथ तेषुन्यस्य दीपान्प्रकृष्टा
न्भुवनजननि कुर्वे नित्यमारार्तिकं ते॥४०॥

सविनयमथ दत्वा जानुयुग्मं धरण्यां
सपदि शिरसि धृत्वा पात्रमारार्तिकस्य।
मुखकमलसमीपे तेऽम्ब सार्थं त्रिवारं
भ्रमयति मयि भूयात्ते कृपार्द्रः कटाक्षः॥४१॥

अथ बहुमणिमिश्रैर्मौक्तिकैस्त्वां विकीर्य
त्रिभुवनकमनीयैः पूजयित्वा च वस्त्रैः।
मिलितविविधमुक्तां दिव्यमाणिक्ययुक्तां
जननि कनकवृष्टिं दक्षिणां तेऽर्पयामि॥४२॥

मातः कांचनदण्डमण्डितमिदं पूर्णेन्दुबिम्बप्रभं
नानारत्नविशोभिहेमकलशं लोकत्रयाह्लादकम्।
भास्वन्मौक्तिकजालिकापरिवृतं प्रीत्यात्महस्ते धृतं
छत्रं ते परिकल्पयामि शिरसि त्वष्ट्रा स्वयं निर्मितम्॥४३॥

शरदिन्दुमरीचिगौरवर्णै र्मणिमुक्ताविलत्सुवर्णदण्डैः।
जगदम्ब विचित्रचामरैस्त्वा महमानन्द भरणे वीजयामि॥४४॥

मार्ताण्डमण्डलनिभो जगदम्ब योऽयं।
भक्त्या मया मणिमयो मुकुरोऽर्पितस्ते।
पूर्णेंदुबिम्बरुचिरं वदनं स्वकीय
मस्मिन्विलोकय विलोलविलोचने त्वम्॥४५॥

इन्द्रादयो नतिनतैर्मकुटप्रदीपै र्नीराजयंति सततं तव पादपीठम्।
तस्मादहं तब समस्तशरीरमेत न्नीराजयामि जगदंब सहस्रदीपैः॥४६॥

प्रियगतिरतितुङ्गो रत्नपल्याणयुक्तः
कनकमयविभूषः स्निग्धगम्भीरघोषः।
भगवति कलितोऽयं वाहनार्थं मया ते
तुरगशतसमेतो वायुवेगस्तुरंगः॥४७॥

मधुकरवृतकुम्भ न्यस्तसिन्दूररेणुः
कनककलितघण्टाकिङ्किणी शोभिकण्ठः।
श्रवणयुगलचञ्चच्चामरो मेघतुल्यः
जननि तव मुदेस्यान्मत्तमातङ्गएषः॥४८॥

द्रुततरतुरगैर्विराजमानं मणिमयचक्र चतुष्टयेन युक्तम्।
कनकमयममुं वितानवन्तं भगवति तेहि रथं समर्पयामि॥४९॥

हयगजरथ पत्तिशोभमानं दिशि दिशि दुन्दुभिमेघनादयुक्तम्।
अति बहु चतुरङ्गसैन्यमेतद्भगवति भक्तिभरेण तेऽर्पयामि ॥५०॥

परिधीकृतसप्तसागरं बहुसम्पत्सहितं मयांब ते विपुलम्।
प्रबलं धरणीतलाभिधं दृढदुर्गं निखिलं समर्पयामि॥५१॥

शतपत्रयुतैः स्वभावशीतै रतिसौरभ्ययुतैः परागपीतैः।
भ्रमरीमुखरीकृतै रनन्तै व्यजनैस्त्वां जगदम्ब वीजयामि॥५२॥

भ्रमरलुलितलोलकुन्तलाली विगलितमाल्य विकीर्णरङ्गभूमिः।
इयमतिरुचिरा नटी नटन्ती तव हृदये मुदमातनोतु मातः ॥ ५३ ॥

मुखनमनविलसलोलवेणी विलसितनिर्जितलोल भृङ्गमालाः।
युवजनसुखकारिचारुलीलाभगवति ते पुरतो नटंति बालाः ॥५४॥

भ्रमदलिकुलतुल्यालोलधम्मिल्लभाराः
स्मितमुखकमलोद्यद्दिव्यलावण्यपूराः।
अनुपमितसुवेषा वारयोषा नटंति
परभृतकलकण्ठ्यो देवि दैन्यं धुनोतु॥५५॥

डमरुडिण्डिमजर्झरझल्लरी मृदुरवद्रगडद्द्रगडादयः।
झटितिझाङ्कृतझाङ्कुतझाङ्कृतैर्बहुदयं हृदयं सुखयन्तु ते॥५६॥

विपञ्चीषु सप्तस्वरान्वादयन्त्यस्तव द्वारि गायन्ति गन्धर्वकन्याः।
क्षणं सावधानेन चित्तेन मातः समाकर्णय त्वं मया प्रार्थितासि॥५७॥

अभिनयकमनीयैर्नर्तनैर्नर्तकीनां
क्षणमपि रमयित्वा चेत एतत्त्वदीयम्।
स्वयमहमतिचित्रैर्नृत्तवादित्रगीतै
र्भगवति भवदीयं मानसं रञ्जयामि॥५८॥

तव देवि गुणानुवर्णने चतुरानो चतुराननादयः।
तदिहैकमुखेषु जन्तुषु स्तवनं कस्तव कर्तुमीश्वरः॥५९॥

पदे पदे यत्परिपूजकेभ्यः सद्योऽश्वमेधादिफलं ददाति।
तत्सर्वपापक्षयहेतु भूतं प्रदक्षिणं ते परितः करोमि॥६०॥

रक्तोत्पलारक्तलताप्रभाभ्यां ध्वजोर्ध्वरेखा कुलिशाङ्किताभ्याम्।
अशेष बृन्दारकवन्दिताभ्यां नमो भवानीपदपङ्कजाभ्याम्॥ ६१॥

चरणनलिनयुग्मं पङ्कजैः पूजयित्वा
कनककमलमालां कण्ठदेशेऽर्पयित्वा।
शिरसि विनिहितोऽयं रत्नपुष्पाञ्जलिस्ते
हृदयकमलमध्ये देवि हर्षं तनोतु॥६२॥

अथ मणिमयमञ्चकाभिरामे कनकमयवितानराजमाने।
प्रसरदगरुधूपधूपितेऽस्मिन्भगवति भवनेऽस्तु ते निवासः॥६३॥

एतस्मिन्मणिखचिते सुवर्णपीठे त्रैलोक्या भयवरदौ निधाय हस्तौ।
विस्तीर्णे मृदुलतरोत्तरच्छदेऽस्मि न्पर्यङ्के कनकमये निषीद मातः॥६४॥

तव देवि सरोजचिन्हयोः पदयोर्निर्जित पद्मरागयोः।
अतिरक्ततरैरलक्तकैः पुनरुक्तां रचयामि रक्तताम्॥६५॥

अथ मातरुशीरवासितं निजताम्बूलरसेन रञ्जितम्।
तपनीयमये हि पट्टके मुखगण्डूषजलं विधीयताम्॥६६॥

क्षणमथ जगदम्ब मञ्चकेऽस्मि न्मृदुतलतूलिकया विराजमाने।
अतिरहसि मुदा शिवेन सार्धं सुखशयनं कुरु तत्र मां स्मरन्ती॥६७॥

मुक्ताकुन्देन्दुगौरां मणिमयमकुटां रत्नताटङ्कयुक्ता
मक्षस्रक्पुष्पहस्तामभयवरकरां चन्द्रचूडां त्रिनेत्राम्।
नानालंकारयुक्तां सुरमकुटमणिद्योतित स्वर्णपीठां
सानन्दां सुप्रसन्नां त्रिभुवनजननीं चेतसा चिन्तयामि॥६८॥

एषा भक्त्या तव विरचिता या मया देवि पूजा
स्वीकृत्यैनां सपदि सकलान्मेऽपराधान्क्षमस्व।
न्यूनं यत्तत्तव करुणया पूर्णतामेतु सद्यः
सानन्दं मे हृदयकमले तेऽस्तु नित्यं निवासः॥६९॥

पूजामिमां यः पठति प्रभाते मध्याह्नकाले यदिवा प्रदोषे।
धर्मार्थकामान् पुरुषोऽभ्युपैति देहावसाने शिवभावमेति॥७०॥

पूजामिमां पठेन्नित्यं पूजां कर्तुमनीश्वरः।
पूजाफलमवाप्नोति वाञ्छितार्थं च विन्दति॥७१॥

प्रत्यहं भक्तिसंयुक्तो यः पूजनमिदं पठेत्।
वाग्वादिन्याः प्रसादेन वत्सरात्सकविर्भवेत्॥७२॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवतः कृतौ देवीचतुःषष्ट्युपचापूजास्तोत्रं संपूर्णम्॥

<MISSING_FIG href="../books_images/U-IMG-172363142230.png"/>

॥ ललितापञ्चरत्नम् ॥

प्रातः स्मरामि ललितावदनारविन्दं
बिम्बाधरं पृथुलमौक्तिकशोभिनासम्।
आकर्णदीर्घनयनं मणिकुण्डलाढ्यं
मन्दस्मितं मृगमदोज्ज्वलफालदेशम्॥१॥

प्रातर्भजामि ललिता भुजकल्पवल्लीं
रक्ताङ्गुलीयलसदङ्गुलि पल्लवाढ्याम्।
माणिक्यहेमवलयाङ्गदशोभमानां
पुण्ड्रेक्षुचापकुसुमेषु सृणीर्दधानाम्॥२॥

प्रातर्नमामि ललिताचरणारविन्दं भक्तेष्टदाननिरतं भवसिन्धुपोतम्
पद्मासनादिसुरनायकपूजनीयं पद्माङ्कुशध्वज सुदर्शनलाञ्छनाढ्यम्॥३॥

प्रातः स्तुवे परशिवां ललितां भवानीं
त्रय्यन्तवेद्यविभवां करुणानवद्याम्।
विश्वस्य सृष्टिविलयस्थितिहेतुभूतां
विद्येश्वरीं निगमवाङ्मनसातिदूराम्॥४॥

प्रातर्वदामि ललिते तव पुण्यनाम कामेश्वरीति कमलेति महेश्वरीति।
श्रीशांभवीति जगतां जननी परेति वाग्देवतेति वचसा त्रिपुरेश्वरीति॥५॥

यः श्लोकपञ्चकमिदं ललितांबिकायाः
सौभाग्यदं सुललितं पठति प्रभाते।

तस्मै ददाति ललिता झटिति प्रसन्ना
विद्यां श्रियं विमलसौख्य मनन्तकीर्तिम्॥६॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ
॥ ललितापञ्चरत्नं संपूर्णम् ॥

<MISSING_FIG href="../books_images/U-IMG-172361219930.png"/>

॥ नवरत्नमालिका ॥

हारनूपुरकिरीटकुण्डलविभूषितावयवशोभिनीं
कारणेशवरमौलिकोटिपरिकल्प्यमानपदपीठिकाम्।
कालकालफणिपाशबाणधनुरङ्कुशामरुणमेखलां
फालभूतिलकलोचनां मनसि भावयामि परदेवताम्॥१॥

गन्धसारघनसारचारुनवनागवल्लिरसवासिनीं
सान्ध्यरागमधुराधराभरणसुन्दराननशुचिस्मिताम्।
मन्धरायतविलोचनाममलबालचन्द्रकृतशेखरीं
इन्दिरारमणसोदरीं मनसि भावयामि परदेवताम्॥२॥

स्मेरचारुमुखमण्डलां विमलगण्डलम्बिमणिमण्डलां
हारदामपरिशोभमानकुचभार भीरुतनुमध्यमाम् ।
वीरगर्वहरनूपुरां विविधकारणेशवरपीठिकां
मारवैरिसहचारिणीं मनसि भावयामि परदेवताम्॥३॥

भूरिभारधरकुण्डलीन्द्र मणिबद्ध भूवलयपीठिकां
वारिराशिमणिमेखलावलयवह्निमण्डलशरीरिणीम्।
वारिसारवहकुण्डलां गगनशेखरीं च परमात्मिकां
चारुचन्द्ररविलोचनां मनसि भावयामि परदेवताम्॥४॥

कुण्डलत्रिविधकोणमण्डलविहारषड्दलसमुल्लस
त्पुण्डरीकमुखभेदिनीं च प्रचण्डभानु भासमुज्ज्वलाम्।
मण्डलेन्दुपरिवाहितामृततरङ्गिणीमरुणरूपिणीं
मण्डलान्तमणिदीपिकां मनसि भावयामि परदेवताम्॥५॥

वारणाननमयूरवाहमुखदाहवारणपयोधरां
चारणादिसुरसुन्दरीचिकुरशेखररीकृतपदाम्बुजाम्।
कारणाधिपतिपञ्चकप्रकृतिकारणप्रथममातृकां
वारणान्तमुखपारणां मनसि भावयामि परदेवताम्॥६॥

पद्मकान्तिपदपाणिपल्लवपयोधराननसरोरुहां
पद्मरागमणिमेखलावलयनीविशोभितनितम्बिनीम्।
पद्मसंभवसदाशिवान्तमयपञ्चरत्नपदपीठिकां
पद्मिनीं प्रणवरूपिणीं मनसि भावयामि परदेवताम्॥७॥

आगमप्रणवपीठिकाममलवर्णमङ्गलशरीरिणीं
आगमावयवशोभिनीमखिलवेदसारकृतशेखरीम्।
मूलमन्त्रमुखमण्डलां मुदितनादबिन्दुनवयौवनां
मातृकां त्रिपुरसुन्दरीं मनसि भावयामि परदेवताम्॥८॥

कालिकातिमिरकुन्तलान्तघन भृङ्गमङ्गलविराजिनीं
चूलिकाशिखरमालिकावलयमल्लिकासुरभिसौरभाम्।
वालिकामधुरगण्डमण्डलमनोहराननसरोरुहां
कालिकामखिलनायिकां मनसि भावयामि परदेवताम्॥९॥

नित्यमेव नियमेन जल्पतां भुक्तिमुक्तिफलदामभीष्टदाम्।
शङ्करेण रचितां सदा जपेन्नामरत्ननवरत्नमालिकाम्॥१०॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ
नवरत्नमालिका संपूर्णा ॥

<MISSING_FIG href="../books_images/U-IMG-172361249330.png"/>

॥ गौरीदशकम् ॥

लीलालब्धस्थापितलुप्ताखिललोकां लोकातीतैर्योगिभिरन्तश्चिरमृग्याम्।
बालादित्यश्रेणिसमानद्युतिपुञ्जां गौरीमम्बामम्बुरुहाक्षीमहमीडे ॥१॥

प्रत्याहार ध्यानसमाधिस्थितिभाजां
नित्यं चित्ते निर्वृतिकाष्ठां कलयन्तीम्।
सत्यज्ञानानन्दमयीं तां तनुरूपां गौरी०॥२॥

चन्द्रापीडानन्दितमन्दस्मितवक्त्रां चन्द्रापीडालंकृतनीलालकभाराम्।
इन्द्रोपेन्द्राद्यर्चितपादाम्बुजयुग्मां गौरी०॥३॥

आदिक्षान्तामक्षरमूर्त्या विलसन्तीं भूते भूते भूतकदम्बप्रसवित्रीम्।
शब्दब्रह्मानन्दमयीं तां तटिदाभां गौरी०॥४॥

मूलाधारादुत्थित वीथ्या विधिरन्ध्रं
सौरं चान्द्रं व्याप्य विहारज्जलिताङ्गीम्।
येयं सूक्ष्मा सूक्ष्मतनुस्तां सुखरूपां गौरी०॥५॥

नित्यः शुद्धो निष्कल एको जगदीशः साक्षीयस्याः सर्गविधौ संहरणे च।
विश्वत्राणक्रीडनलोलां शिवपत्नीं गौरी०॥६॥

यस्याः कुक्षौ लीनमखण्डं जगदण्डं भूयो भूयः प्रादुरभूदुत्थितमेव।
पत्या सार्धं तां रजताद्रौ विहरन्तीं गौरी ०॥७॥

यस्यामोतं प्रोतमशेषं मणिमाला सूत्रे यद्वत्क्वापि चरं चाप्यचरं च।
तामध्यात्मज्ञानपदव्या गमनीयां गौरी॥८॥

नानाकारैः शक्तिकदम्बैः भुवनानिव्याप्य स्वैरं क्रीडति येयं स्वयमेका।
कल्याणीं तां कल्पलतामानतिभाजां गौरी०।॥९॥

आशापाशक्लेशविनाशं विदधानां पादाम्भोजध्यानपराणां पुरुषाणाम्।
ईशामीशार्धाङ्गहरां तामभिरामां गौरी ०॥१०॥

प्रातःकाले भावविशुद्धः प्रणिधाना
द्भक्त्या नित्यं जल्पति गौरीदशकं यः।
वाचां सिद्धिं संपदमग्र्यां शिवभक्तिं
तस्यावश्यं पर्वतपुत्री विदधाति॥११॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ
गौरीदशकं संपूर्णम् ॥

<MISSING_FIG href="../books_images/U-IMG-172361263930.png"/>

॥ भगवत्यष्टकम् ॥

नमोऽस्तुते सरस्वति त्रिशूलचक्रधारिणि
सितांबरावृते शुभे मृगेन्द्रपीठसंस्थिते।
सुवर्णबन्धुराधरे सुझल्लरी शिरोरुहे
सुवर्णपद्मभूषिते नमोऽस्तुते महेश्वरि॥१॥

पितामहादिभिर्नुते स्वकांतिलुप्तचन्द्रभे
सुरत्नमालयावृते भवाब्धिकष्टहारिणि।
तमालहस्तमण्डिते तमालफालशोभिते
गिरामगोचरे इले नमोऽस्तुते महेश्वरि॥२॥

स्वभक्तवत्सलेऽनघे सदापवर्गभोगदे
दरिद्रदुःख हारिणि त्रिलोक शङ्करीश्वरि।
भवानिभीम अम्बिके प्रचण्डतेज उज्ज्वले
भुजाकलापमण्डिते नमोऽस्तुते महेश्वरि॥३॥

प्रपन्नभीतिनाशके प्रसूनमाल्यकन्धरे
धियस्तमो निवारिके विशुद्ध बुद्धिकारिके।
सुरार्चितांघ्रिपङ्कजे प्रचण्डविक्रमेक्षरे
विशालपद्म लोचने नमोऽस्तुते महेश्वरि॥४॥

हतस्त्वया सदैत्य धूम्रलोचनो यदारणे
तदाप्रसून वृष्टयस्त्रिविष्टपै स्सुरैः कृताः।
निरीक्ष्य तत्रते प्रभामलज्जतप्रभाकर
स्त्वये दयाकरे ध्रुवेनमोऽस्तुते महेश्वरि॥५॥

ननादकेसरी यदा चचाल मेदिनीतदा
जगामदैत्यनायक स्ससेनया द्रुतम्भिया।
सकोपकं पदच्छदे सचण्डमुण्ड घातिके
मृगेन्द्रनाद नादिते नमोऽस्तुते महेश्वरिः॥६॥

सुचन्दनार्चितालके सितोष्ण वारणाधरे
सशर्करासने वरे निशुम्भ शुम्भ मर्दिके।
प्रसीद चण्डिके अजे समस्तदोषघातिके
शुभामतिप्रदे चले नमोऽस्तु ते महेश्वरि॥७॥

त्वमेव विश्वधारिणि त्वमेव विश्वकारिणि
त्वमेव सर्वहारिणि नगम्यसेऽजितात्मभिः।
दिवौकसां हितेरता करोतिदैत्यनाशनं
शताक्षि रक्तदन्तिके नमोऽस्तुते महेश्वरि॥८॥

पठन्ति ये समाहिता इमं स्तवं सदा नराः
अनन्यभक्तिसंयुता अहं मुखे सुवासरम्।
भवन्तु ते तु पण्डिता सुपुत्रधान्यसंयुताः
कलत्रभूति संयुताव्रजन्ति नामृतंसुखम्॥९॥

इति श्रीमद्धंसदासशिष्येणामरदासकृतं
श्रीभगवत्यष्टकं समाप्तम् ॥

<MISSING_FIG href="../books_images/U-IMG-172362409930.png"/>

॥ शारदाभुजङ्गाष्टकम् ॥

सुवक्षोजकुम्भां सुधापूर्णकुम्भां प्रसादावलम्बां प्रपुण्यावलम्बाम्।
सदास्येन्दुबिम्बां सदानोष्ठबिम्बां भजे शारदाम्बामजस्रं मदम्बाम् ॥१॥

कटाक्षे दयार्द्रां करे ज्ञानमुद्रां कलाभिर्विनिद्रां कलापैस्सुभद्राम्।
पुरस्त्रीं विनिद्रां पुरस्तुङ्गभद्रां भजे०॥२॥

ललामाङ्कफालां लसद्गानलोलां स्वभक्तैकपालां यशः श्रीकपोलाम्।
करेत्वक्षमालां कनत्प्रत्नलोलां भजे०॥३॥

सुसीमन्तवेणीं दृशा निर्जितैणीं रमत्कीरवाणीं नमद्वज्रपाणीम्।
सुधामन्थरास्यां मुदाचिन्त्य वेणीं भजे०॥४॥

सुशान्तां सुदेहां दृगन्ते कचान्तां लसत्सल्लताङ्गीमनन्तामचिन्त्याम्।
स्मरेत्तापसैः सङ्गपूर्वस्थितां तां भजे०॥५॥

कुरङ्गे तुरङ्गे मृगेन्द्रे खगेन्द्रे मराले मदेभे महोक्षेऽधिरूढाम्।
महत्यां नवम्यां सदा सामरूपां भजे०॥६॥

ज्वलत्कान्ति वन्हिं जगन्मोहनाङ्गीं भजे मानसाम्भोजसुभ्रान्त भृङ्गीम् ।
निजस्तोत्रसङ्गीतनित्य प्रभाङ्गीं भजे०॥७॥

भवाम्भोजनेत्राजसंपूज्यमानां लसन्मन्दहासप्रभावक्त्रचिह्नाम्।
चलच्चञ्चलाचारुताटङ्ककर्णां भजे०॥८॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ
शारदाभुजङ्गप्रयाताष्टकं संपूर्णम् ॥

<MISSING_FIG href="../books_images/U-IMG-172361301530.png"/>

॥ वाल्मीकि विरचित गङ्गाष्टकम् ॥

मातश्शैलसुतासपत्नि वसुधा शृङ्गार हारावलि
स्वर्गारोहण वैजयंति भवतीं भागीरथीं प्रार्थये।
त्वत्तीरे वसतस्त्वदम्बु पिबत स्त्वद्वीचिषुप्रेङ्खत
स्त्वन्नामस्मरत स्त्वदर्पितधिय स्स्यान्मेशरीरव्ययः॥१॥

त्वत्तीरे तरुकोटरान्तरगतो गङ्गे विहंगो वरं
त्वत्तीरे नरकान्तकारिणि परं मत्स्योऽथवा कच्छपः।
नैवान्यत्रमदांधसिंधुरघटा सङ्घट्ट घंटारण
त्कारत्रस्त समस्तवैरिवनिता लब्धस्तुतिर्भूपतिः॥२॥

उक्षापक्षी तुरगउरगः कोऽपिवावारणोवा
वाराणस्यां जननमरणक्लेशदुःखासहिष्णुः।
नत्वन्यत्र प्रविरलरणत्किङ्किणी क्वाणमिश्रं
वारस्त्रीभिश्चमर मरुता वीजितो भूमिपालः॥३॥

काकौर्णिष्कुषितं श्वभिः कबलितं गोमायुभि र्लुण्ठितं
स्रोतोभि श्चलितं तटांबुमिलितं वीचीभि रांदोलितम्।
दिव्यस्त्रीकरचारुचामरमरुत्संवीज्यमानः कदा
द्रक्ष्येऽहं परमेश्वरि त्रिपथगे भागीरथि त्वद्वपुः ?॥४॥

अभिनव बिसवल्लीपादपद्मस्य विष्णो
र्मदन मथनमौलेर्मालती पुष्पमाला।

जयतु जयपताका काप्यसौ मोक्षलक्ष्म्याः
क्षपित कलिकलंका जाह्नवी नः पुनातु॥५॥

एतत्तालतमालतालसरलव्यालोलबल्लीलता
च्छन्नं सूर्यकरप्रतापरहितं शङ्खेन्दुकुन्दोज्वलम्।
गंधर्वामरसिद्धकिन्नरवधूत्तुङ्गस्तनास्फालितं
स्नानाय प्रतिवासरं भवतु मे गाङ्गञ्जलं निर्मलम्॥६॥

गाङ्गवारि मनोहारि मुरारि चरणच्युतम्।
त्रिपुरारिशिरश्चारि पापहारि पुनातु माम्॥७॥

पापापहारि दुरितारि तरङ्गधारि शैलप्रचारिगिरिराजगुहाविहारि।
झंकारकारि हरिपाद रजोपहारि गांगपुनातु सततं शुभकारि वारि ॥

गङ्गाष्टकं पठति यः प्रयतः प्रभाते
वाल्मीकिना विरचितं शुभदंमनुष्यः।
प्रक्षाल्यगात्रकलिकल्मष पङ्कमाशु
मोक्षंलभेत्पततिनैव पुनर्भवाब्धौ॥९॥

इति श्रीवाल्मीकिमहर्षिणा विरचितं
गङ्गाष्टकम् समाप्तम्.

<MISSING_FIG href="../books_images/U-IMG-172361336830.png"/>

॥ शङ्कराचार्य विरचित गङ्गाष्टकम् ॥

भगवति भवलीला मौलि माले तवाम्भः
कणमणु परिमाणं प्राणिनो ये स्पृशन्ति।
अमरनगरनारी चामरग्राहिणीनां
विगतकलिकलङ्कातङ्कमङ्के लुठंति॥१॥

ब्रह्माण्डं खण्डयन्ती हरशिरसि जटावल्लिमुल्लासयन्ती
स्वर्लोका दापतन्ती कनकगिरिगुहागण्डशैलात् स्खलन्ती।
क्षोणीपृष्ठे लुठन्ती दुरितचयचमू निर्भरं मर्दयंती
पाथोधिं पूरयन्ती सुरनगरसरित्पावनी नःपुनातु॥२॥

मज्जन्मातङ्गकुंभच्युतमदमदिरामोदमत्तालिजालं
स्नानैस्सिद्धाङ्गनानां कुचयुगविगलत्कुङ्कुमा सङ्गपिङ्गम्।
सायंप्रात मुनीनां कुश कुसुमचयैश्छन्न तीरस्थनीरं
पायान्नो गाङ्गमम्भः करिकलभकराक्रान्तरंहस्तरङ्गम्॥३॥

आदावादिपितामहस्य नियमव्यापारपात्रे जलं
पश्चात्पन्नगशायिनो भगवतः पादोदकंपावनम्।
भूयश्शंभु जटाविभूषणमणिर्जह्नोर्महर्षेरियं
कन्याकल्मषनाशिनी भगवती भागीरथी भूतले॥४॥

शैलेन्द्रादवतारिणी निजजले मज्जज्जनोत्तारिणी
पारावारविहारिणी भवभयश्रेणी समुत्सारिणी।

शेषाङ्गै रनुकारिणी हरशिरो वल्लीदला कारिणी
काशीप्रांत विहारिणी विजयते गङ्गा मनोहारिणी॥५॥

कुतोऽवीचि र्वीचि स्तवयदिगता लोचनपथं
त्वमापीता पीताम्बर पुरनिवासं वितरसि।
त्वदुत्सङ्गे गङ्गे पततियदिकाय स्तनुभृतां
तदा मातश्शात क्रतव पदलाभोऽप्यतिलघुः॥६॥

भगवति तवतीरे नीरमात्राशनोऽहं
विगत विषयतृष्णः कृष्ण माराधयामि।
सकलकलुषभङ्गे स्वर्गसोपान सङ्गे
तरलतर तरङ्गे देविगङ्गे प्रसीद॥७॥

मातर्जाह्नविशम्भुसङ्ग मिलिते मौलौ निधायाञ्जलिं
त्वत्तीरे वपुषोऽवसानसमये नारायणांघ्रिद्वयम्।
सानन्दं स्मरतो भविष्यति ममप्राणप्रयाणोत्सवे
भूयाद्भक्ति रविच्युता हरिहरा द्वैतात्मिका शाश्वती॥८॥

गङ्गाष्टकमिदं पुण्यं यः पठेत्प्रयतो नरः।
सर्वपापविनिर्मुक्तो विष्णुलोकं सगच्छति॥९॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छंकराचार्यविरचितं
गङ्गाष्टकम् संपूर्णम्.

—————

॥ कालिदासकृतगंगाष्टकम् ॥

नमस्तेऽस्तु गंगे त्वदंग प्रसंगा द्भुजंगास्तुरंगाः कुरंगाः प्लवंगाः।
अनंगारिरंगा सगंगाश्शवंगा भुजंगाधिपांगीकृतांगा भवंति॥१॥

नमोजह्नुकन्ये नमन्येत्वदन्यै र्निसगेंदु चिह्नादिभिर्लोकभर्तुः।
अतोऽहं नतोऽहं नतोगौरतोये वसिष्ठादिभि र्गीयमानाभिधेये ॥२॥

त्वदामज्जना त्सज्जनो दुर्जनोवा विमानै स्समानै समासैर्हिमानैः।
समायाति तस्मिन्पुराराति लोके पुरद्वार संरुद्ध दिक्पाल लोके॥३॥

स्वरावासदंभोलिदंभोऽपि रंभापरीरंभसंभावनाधीरचेताः।
समाकांक्षते त्वत्तटे वृक्षवाटी कुटीरे वसन्नेतु मायुर्दिनानि ॥४॥

त्रिलोकस्य भर्तु र्जटाजूट बंधा त्स्वसीमांतभागे मनाक्प्रस्खलतः।
भवान्यारुषा प्रौढसापत्नभावा त्करेणाहत स्वत्तरंगा जयंति ॥ ५॥

जलोन्मज्ज दैरावतो द्दानकुंभम्भरत्प्रस्वल त्सांद्र सिंधूररागे।
कचित्पद्मिनी रेणुभंगे प्रसंगे मनः खेलतां जह्नुकन्या तरंगे॥६॥

भवत्तीर वानीर वातोत्थ धूली लवस्पर्शतस्तत्क्षणं क्षीणपापः।
जनोऽयं जगत्पावने त्वत्प्रसादात्पदे पौरुहूतेऽपि धत्तेऽवहेलाम्॥७॥

त्रिसंध्यं नमल्लेखकोटीरनाना विधानेकरत्नांशुबिंबप्रभाभिः।
स्फुरत्पादपीठे हठेनाष्ठमूर्ते र्जटाजूटवासेनतास्स्मः पदं ते॥८॥

इदं यःपठे दष्टकं जहुपुत्र्या स्त्रिकालं कृतं कालिदासेन रम्यम्।
समायास्यतींद्रादिभि र्गीयमानं पदं कैशवं शैशवं नोलभेत्सः ॥९॥

इति श्रीकालिदासकृतं गंगाष्टकं संपूर्णम् ॥

<MISSING_FIG href="../books_images/U-IMG-172363716830.png"/>

॥ कालिदास द्वितीय गंगाष्टकम् ॥

कत्यक्षीणि करोटयः कतिकति द्वीपिद्विपानां त्वचः
काकोलाः कतिपन्नगाः कतिसुधा धाम्नश्च खंडाः कति।
किंचत्वंच कतित्रिलोक जननि त्वद्वारि पूरोदरे
मज्जज्जंतु कदंबकं समुदयत्येकैक मादाययत्॥१॥

देवित्वत्पुलिनांगणे स्थितिजुषां निर्मानिनां ज्ञानिनां
स्वल्पाहार निबद्धशुद्धवपुषां तार्णं गृहं श्रेयसे।
नान्यत्रक्षिति मंडलेश्वरशतैस्संरक्षितो भूपतेः
प्रासादो ललनागणैरधिगतो भोगींद्र भोगोन्नतः॥२॥

तत्तत्तीर्थगतैः कदर्थनशतैः किंतैरनर्थाश्रितैः
ज्योतिष्टोममुखैः किमीशविमुखै र्यज्ञैरवज्ञादृतैः।
सूते केशववासवादिविबुधप्रामाभिरामां श्रियं
गंगे देवि भवत्तटे यदि कुटीवासः प्रयासं विना॥३॥

गंगातीर मुपेत्य शीतलशिला मालंब्य हैमाचलीं
यैराकर्णि कुतूहला कुलतया कल्लोल कोलाहलः।
ते श्रुण्वंति सुपर्व पर्वतशिला सिंहासना ध्यासन
स्संगीतागम शुद्धसिद्ध रमणी मंजीर धीरध्वनिम्॥४॥

दूरं गच्छ न कच्छपं च भवतो नालोकयामो मुखं
रेपाराक वराक साकमितरैर्नाकप्रदैर्गम्यताम्।

सद्यःप्रोद्यतमंदमारुत रजः प्राप्ताकपोलस्थले
गंगांभः कणिकाविमुक्तगणिका संगाय संभाव्यते॥५॥

विष्णोस्संगति कारिणी हरजटा जूटाटवीचारिणी
प्रायश्चित्त निवारिणी जलकणैः पुण्यौघ विस्तारिणी।
भूभृत्कंदर धारिणी निजजले मज्जज्जनोत्तारिणी
श्रेयस्स्वर्ग विहारिणीविजयते गंगामनोहारिणी॥६॥

वाचालं विकलं खलं श्रितमलं कामाकुलं व्याकुलं
चांडालं तरलं निपीतगरलं दोषाविलं चाखिलम्।
कुंभीपाकगतं तमंतककरादाकृष्यक स्तारये
न्मातर्जह्नु मुनींद्र नंदिनि तव स्वल्पोदबिंदुं विना॥७॥

श्लेष्माश्लेषणयामले मृतविले कालाकुले व्याकुले
कंठेघर्झर घोषनाद मलिने काये च संमीलति।
यां ध्यायन्नपि भारभंगुरतरां प्राप्नोति मुक्तिं नरः
स्नातुश्चेतसि जाह्नवी निवसतां संसारसंतापहृत्॥८॥

इति श्रीमत्कालिदास विरचितं द्वितीयगंगाष्टकं संपूर्णम् ॥

<MISSING_FIG href="../books_images/U-IMG-172355243630.png"/>

॥ गङ्गालहरीस्तोत्रम् ॥

समृद्धं सौभाग्यं सकलवसुधायाः किमपित
न्महैश्वर्यंलीला जनितजगतः खण्डपरशोः।
श्रुतीनां सर्वस्वं सुकृतमथमूर्तं सुमनसां
सुधासौदर्यं ते सलिलमशिवं न श्शमयतु॥१॥

दरिद्राणां दैन्यं दुरितमथ दुर्वासनहृदां
द्रुतंदूरीकुर्वन्सकृदपिगतो दृष्टिसरणिम्।
अपिद्रागाविद्याद्रुमदलन दीक्षागुरुरिह
प्रवाहस्तेवारांश्रियमयमपारां दिशतु नः॥२॥

उदंच न्मार्ताण्ड स्फुटकपट हेरम्बजननी
कटाक्ष व्याक्षेप क्षणजनित संक्षोभनिवहाः।
भवन्तु त्वं गन्तोहरशिरसि गङ्गातनुभुव
स्तरङ्गाः प्रोत्तुंगा दुरित भयभङ्गाय भवताम्॥३॥

तवालम्बा दंब स्फुरदलघु गर्वेण सहसा
मयासर्वेऽवज्ञा सरणिमधनीता स्सुरगणाः।
इदानी मौदास्यं भजसि यदि भागीरथि सदा
निराधारो हा रोदिमि कथय केषामिह पुरः॥४॥

स्मृतिं याता पुंसा मकृत सुकृता नामपिचया
हरत्यंतस्तन्द्रां तिमिरमिव चन्द्रांशु सरणिः।
इयं सा ते मूर्तिः सकल सुरसंसेव्यसलिला
ममांतस्सन्तापं त्रिविधमपि पापञ्च हरताम्॥५॥

अपिप्राज्यं राज्यं तृणमिव परित्यज्य सहसा
विलोल द्वानीरं तवजननितीरं श्रितवताम्।
सुधातस्स्वादीयस्सलिलभरमातृप्तिपिबतां
जनानामानन्दः परिहसति निर्वाणपदवीम्॥६॥

प्रभाते स्नातीनां नृपति रमणीनां कुचतटी
गतो यावन्मात र्मिलति तवतोयै मृगमदः।
मृगास्तावद्वैमानिक शतसहस्रैः परिवृताः
विशंति स्वच्छंदं विमलवपुषो नंदनवनम्॥७॥

स्मृतंसद्यः स्वांतं विरचयति शांतं सकृदपि
प्रगीतं यत्पापं झटिति भवतापंच हरति।
इदं तद्गंगेति श्रवणरमणीयं खलुपदं
ममप्राणप्रांते वदनकमलांत र्विलसतु॥८॥

यदंतः खेलंतो बहुलतरसंतोषभरिताः
वराकानाकाधीश्वरनगरसाकांक्षमनसः।
निवासाल्लोकानां जनिमरणशोकापहरणं
तदेतत्ते तीरं श्रमशमनधीरं भवतु नः॥९॥

नयत्साक्षा द्वेदैरपिगलितभैदै रवसितं
नयस्मिन् जीवानां प्रसरतिमनोवागवसरः।
निराकारं नित्यं निजमहिम निर्वासिततमो
विशुद्धं यत्तत्त्वं सुरतटिनि तत्त्वं नविषयः॥१०॥

महादानैर्ध्यानैर्बहुविधिवितानैरपिचय
न्नलभ्यं घोराभिस्सुविमलतपोराशिभिरपि।
अचिंत्यं तद्विष्णोः पदमखिल साधारणयता
ददानाकेनापि त्वमिह तुलनीया कथय नः॥११॥

नृणामीक्षामात्रादपि परिहरंत्या भवभय
शिवायास्ते मूर्तेः क इह महिमानं निगदतु।
अमर्षम्लानायाः परम मनुरोधं गिरिभुवो
विहाय श्रीकंठ श्शिरसि नियतं धारयति याम्॥१२॥

विनिंद्यान्युन्मत्तै रपिच परिहार्याणि पतितै
रवाच्यानि व्रात्यै स्सपुलकमपास्यानि पिशुनैः।
हरंती लोकाना मनवरत मेनांसि कियतां
कदाप्य श्रांतात्वं जगतिपुनरेका विजयसे॥१३॥

स्खलंती स्वर्लोका दवनितल शोकापहृतये
जटाजूटग्रंथौ यदसिविनिबद्धा पुरभिदा।
अयेनिर्लोभानामपि मनसिलोभं जनयतां
गुणाना मेवायं तवजननिदोषः परिणतः॥ १४ ॥

जडानंधा न्पंगून्प्रकृति बधिरा नुक्तिविकला
न्ग्रहग्रस्ता नस्ताखिल दुरितनिस्तारसरणीन्।
निलिंपै र्निर्मुक्तानपि च निरयांतर्निपततो
नरानंब त्रातुं त्वमिह परमं भेषजमसि॥१५॥

स्वभावस्वच्छानां सहजशिशिराणामयमपा
मपारस्ते मातर्जयति महिमा कोऽपिजगति।
मुदायंगायंती द्युतलमनवद्य द्युतिभृतः
समासाद्याद्यापि स्फुटपुलकसांद्रा स्सगरजाः॥१६॥

कृतक्षुद्रैनस्कानथ झटिति संतप्त मनसः
समुद्धर्तुं संति त्रिभुवनतले तीर्थनिवहाः।
अपिप्रायश्चित्त प्रसरण पथा तीरचरिता
न्नरान्दूरी कर्तुं त्वमिव जननि त्वं विजयसे॥ १७॥

निधानं धर्माणां किमपि च विधानं नवमुदां
प्रधानं तीर्थाना ममलपरिधानं त्रिजगतः।
समाधानं बुद्धे रथखलु तिरोधान मधियां
श्रियामाधानं नः परिहरतु तापं तववपुः॥१८॥

महीपानां नानातरुणतर खेदस्य नियतिम्।
पुरोधावं धावं द्रविणमदिरा घूर्णितदृशां
ममैवायं मंतु स्स्वहित शतहंतु र्जडधियो
वियोगस्ते मात र्यदिहकरुणांतः क्षणमपि॥ १९॥

मरुल्लीलालोल ल्लहरिलुलितां भोजपटली
स्खलत्पांसुव्रात च्छुरणविसरत्कौंकुमरुचिः।
सुरस्त्री वक्षोज क्षर दगरुजंबालजटिलं
जलंते जंबालं मम जनन जालं जरयतु॥२०॥

समुत्पत्तिः पद्मारमण पदपद्मामलनखा
न्निवासः कंदर्प प्रतिभटजटा जूटभवने।
अथायं व्यासंगो हतपतित निस्तारण विधौ
न कस्मादुत्कर्षस्तवजननि जागर्ति जगति॥२१॥

नगेभ्योयांतीनां कथय तटिनीनां कथमया
पुराणां संहर्तु स्सुरधुनि कपर्दोऽधिरुरुहे।
कयाचश्रीभर्तुः पदकमल मक्षालि सलिलै
स्तुलालेशो यस्यां तवजननिदीयेत कविभिः॥२२॥

विधत्तां निश्शंकं निरवधि समाधिं विधिरहो
सुखंशेषे शेतां हरिरविरतं नृत्यतुहरः।
कृतं प्रायश्चित्तै रलमथ तपोदान यजनै
स्सवित्रीकामानां यदिजगति जागर्ति भवती॥२३॥

अनाथः स्नेहार्द्रां विगलितगतिः पुण्यगतिदां
पतन्विश्वोद्धर्त्रीं गदविगलितः सिद्धभिषजम्।
सुधासिंधुं तृष्णाकुलित हृदयो मातरमयं
शिशुस्संप्राप्तस्त्वा महमिहविदध्या स्समुचितम्॥२४॥

विलीनो वैवस्वत नगर कोलाहलभरो
गतादूतादूरं कचिदपिपरेता न्मृगयितुम्।
विमानानांव्रातो विदलयतिवीधी र्दिविषदां
कथाते कल्याणी यदवधि महीमंडलमगात्॥२५॥

स्फुरत्कामक्रोध प्रबलतर संजात जटिल
ज्वलज्ज्वालाजाल ज्वलितवपुषां नः प्रतिदिनम्।
हरंतां संतापं कमपिमर दुल्लास लहरी
च्छटाचंचत्पाथः कणसरणयोः दिव्यसरितः॥२६॥

इदं हि ब्रह्मांडं सकलभुवना भोगभवनं
तरंगैर्यस्यांतर्लुठति परितस्तिंदुकमिव।
स एष श्रीकंठ प्रविततजटाजूट जटिलो
जलानां संघात स्तवजननि तापं हरतु नः॥२७॥

त्रपंते तीर्थानि त्वरितमिह यस्योद्धृतिविधौ
करंकर्णेकुर्वन्त्यपिकिल कपाली प्रभृतयः।
इमं तं मामंब त्वमियमनु कंपार्द्र हृदये
पुनाना सर्वेषा मघमथन दर्पं दलयसि॥२८॥

श्वपाकानां व्रातै रमित विचिकित्सा विचलितै
र्विमुक्तानामेकं किलसदनमेनः परिषदाम्।
अहो मामुद्धर्तुं जननि घटयंत्याः परिकरं
तवश्लाघांकर्तुं कथमिव समर्थो नरपशुः॥२९॥

नकोऽप्येतावंतं खलुसमय मारभ्य मिलितो
यदुद्धारादारा द्भवतिजगतो विस्मयभरः।
इती मामीहांते मनसिचिरकालं स्थितवती
मयं संप्राप्तोऽहं सफलयितु मंबप्रणयनः॥३०॥

श्ववृत्तिव्यासंगो नियतमथमिथ्या प्रलपनं
कुतर्केष्वभ्यासस्सततपरपैशून्यमननम्।
अपिश्रावंश्रावं ममतुपुनरेवं गुणगणा
नृतेत्वत्कोनाम क्षणमपि निरीक्षेत वदनम्॥३१॥

विशालाभ्या माभ्यां किमिहनयनाभ्यां खलुफलं
नयाभ्यामालीढा परमरमणीया तवतनुः।
अयं हि न्यक्कारो जननिमनुजस्य श्रवणयो
र्ययोर्मात र्यातस्तवलहरि लीला कलकलः॥३२॥

विमानैस्स्वच्छंदं सुरपुरमयंते सुकृतिनः
पतंति द्राक्पापाजननिनरकांतः परवशाः।
विभागोऽयं तस्मिन्नशुभमयमूर्तौ जनपदे
नयत्रत्वं लीलादलितमनुजाशेषकलुषा॥३३॥

अपिघ्नंतोविप्रा नविरतमुशंतो गुरुसतीः
पिंबंतोमैरेयं पुनरपिहरंतश्च कनकम्।
विहायत्वय्येते तनु मतनु दाना ध्वरजुषा
मुपर्यंबक्रीडंत्यखिलसुरसंभावितपदाः॥३४॥

अलभ्यं सौरभ्यं हरति सततं यस्सुमनसां
क्षणादेव प्राणादपि विरहशस्त्र क्षतभृताम्।
त्वदीयानां लीला चलित लहरीणां व्यतिकरात्
पुनीतेसोऽपिद्रागहहपवमान स्त्रिभुवनम्॥३५॥

कियन्तस्सन्त्येके नियतमिह लोकार्थघटकाः
परेपूतात्मानः कतिचपरलोकप्रणयिनः।
सुखंशेतेमातस्तवखलु कृपान्तः पुनरयं
जगन्नाथश्शश्वत्त्वयि नियतलोकद्वयभरः॥३६॥

भवत्याहि व्रात्याधम पतित पाषण्ड परिष
त्परित्राणस्नेहः श्लथयितु मशक्यः खलुयथा।
ममाप्येवंप्रेमा दुरितनिवहे ष्वम्बजगति
स्वभावोऽयं सर्वैरपिखलुयतो दुष्परिहरः॥३७॥

प्रदोषान्तर्नृत्य त्पुरमथन लीलो द्धृतजटा
तटा भोगप्रेंख ल्लहरिभुज सन्तानविधृतिः।
बिलक्रोडक्रीडज्जल डमरु टङ्कार सुभग
स्थिरोधत्तातापन्त्रिदशतटिनीताडनविधिः॥३८॥

सदैवत्वय्येवार्पित कुशलचिन्ता भरमिमं
यदित्वंमामम्ब त्यजसिसमयेऽस्मि न्सुविषमे।
तदाविश्वासोऽयं त्रिभुवनतला दस्तमयते
निराधाराचेयं भवतिखलु निर्व्याजकरुणा॥३९॥

कपर्दादुर्लस्य प्रणयमिल दर्धाङ्ग युवतेः
पुरारेः प्रेङ्खन्त्यो मृदुलतर सीमन्तसरणौ।
भवान्या स्सापत्न्यस्स्फुरितनयनं कोमलरुचा
करेणाक्षिप्तास्ते जननिविजयन्तां लहरयः॥४०॥

प्रपद्यन्तेलोकाः कतिनभवती मत्रभवती
मुपाधिस्तत्रायं स्फुरतियदभीष्टं वितरसि।
शपेतुभ्यं मातर्ममतु पुनरात्मा सुरधुनी
स्वभावादेव त्वय्यमितमनुरागं विधृतवान्॥ ४१ ॥

ललाटे यालोकै रिहखलु सलीलं तिलकिता
तमोहंतुं धत्ते तरुणतर मार्ताण्डतुलनाम्।
विलुम्पन्ती नद्योविधिलिखित दुर्वर्णसरणि
त्वदीयासा मृत्स्ना ममहरतु कृत्स्नादपिशुचम्॥४२॥

नरान्मूढांस्तत्तज्जनपद समासक्तमनसो
हसन्तस्सोल्लासं विकचकुसुमव्रातमिषतः।
पुनानास्सारैभ्यैस्सततमलिनो नित्यमलिना
न्सखायो नस्सन्तु त्रिदशतटिनी तीरतरवः॥४३॥

यजन्त्येके देवान्कठिनतरसेवां स्तदपरे
वितानव्यासक्ता यमनियमरक्ताः कतिपये।
अहन्तु त्वन्नामस्मरण भृतिकामा स्त्रीपथगे
जगज्जालञ्जाने जननि तृणजालेन सदृशम्॥४४॥

अविश्रान्तं जन्मावधि सुकृतजन्मार्जनकृतां
सतांश्रेयःकर्तुं कतिनकृतिन स्सन्तिविबुधाः।
निरस्तालंबानामकृत सुकृतानान्तु भवतीं
विनामुष्मिंल्लोके नपरमवलोके हितकरम्॥४५॥

पयःपीत्वा मातस्तव सपदियातस्सहचरै
र्विमूढै स्संरंतुं क्वचिदपि नविश्रान्ति मगमम्।
इदानीमुत्संगे मृदुपवन संचारशिशिरे
चिरादुन्निद्रं मां सदयहृदये शाययचिरम्॥४६॥

बधान द्रागेव द्रढिम रमणीयं परिकरं
किरीटे बालेंदुं नियमयति पुनः पन्नगगणैः।
नकुर्यास्त्वं हेलामितरजनसाधारणतया
जगन्नाथस्यायं सुरधुनि समुद्धारसमयः॥४७॥

शरश्चंद्रश्वेतां शशिसकलश्वेतालमुकुटां
करैःकुंभांभोजे वरभयनिरासौ नदधतीम्।
सुधाधाराकाराभरणवसनां शुभ्रमकर
स्थितां त्वां ये ध्यायंत्युदयति न तेषां परिभवः॥४८॥

दरस्मित समुल्लस द्वदनकांति पूरामृतै
र्भवज्ज्वलन भर्जिताननिश मूर्जयंती नरान्।
चिदेकमयचंद्रिकाचयचमत्कृतिं तन्वती
तनोतु मम शं तनो स्सपदि शंतनो रंगना॥४९॥

मंत्रैर्मीलित मौषधै र्मुकुलितं त्रस्तं सुराणां गणैः
स्रस्तं सांद्र सुधारसै र्विदलितं गारुत्मतै र्ग्रावभिः।
वीचीक्षालितकालियाहितपदे स्वर्लोककल्लोलिनि
त्वं तापं तिरयाधुना मम भवज्वालावलीढात्मनः॥५०॥

द्यूते नागेंद्रकृत्तिप्रमथगणमणिश्रेणिनंदींदुमुख्यं
सर्वस्वं हारयित्वा स्वमथपुरभिदि द्राक्पणी कर्तुकामे।
साकूतं हैमवत्या मृदुलहसितया वीक्षिताया स्तनाम्ब
व्यालोलोल्लासि वल्गल्लहरि नटघटी ताण्डवं नः पुनातु॥५१॥

विभूषितानङ्गरिपूत्तमाङ्गा सद्यः कृतासेकजनार्तिभङ्गा।
मनोहरोत्तुङ्ग चलत्तरङ्गा गङ्गाममाङ्गान्यमलीकरोतु॥५२॥

इमां पीयूषलहरीं जगन्नाथेन निर्मिताम्।
यः पठेत्तस्य सर्वत्र जायन्ते सुखसंपदः॥५३॥

इति श्रीमत्रैलिङ्गकुलोद्भवेन जगन्नाथेन विरचिता पीयूषल
हर्याख्यगङ्गास्तुतिस्सम्पूर्णा ॥

<MISSING_FIG href="../books_images/U-IMG-172355278230.png"/>

॥ श्रीलक्ष्म्यष्टोत्तरशतनामस्तोत्रम् ॥

ओम् देव्युवाचः—

देवदेव महादेव त्रिकालज्ञ महेश्वर।
करुणाकर देवेश भक्तानुग्रहकारक॥१॥

अष्टोत्तरशतं लक्ष्म्याः श्रोतुमिच्छामि तत्त्वतः।

ईश्वरउवाचः—

देवि साधु महाभागे महाभाग्यप्रदायकम्।
सर्वैश्वर्यकरं पुण्यं सर्वपापप्रणाशनम्॥२॥

सर्वदारिद्र्यशमनं श्रवणाद्भुक्तिमुक्तिदम्।
राजवश्यकरं दिव्यं गुह्याद्गुह्यतमं परम्॥३॥

दुर्लभं सर्वदेवानां चतुष्षष्टिकलास्पदम्।
पद्मादीनां वरान्तानां निधीनां नित्यदायकम् ॥४॥

समस्तदेवसंसेव्यमणिमाद्यष्टसिद्धिदम्।
किमत्र बहुनोक्तेन देवीप्रत्यक्षदायकम्॥५॥

तव प्रीत्याऽद्य वक्ष्यामि समाहितमनाश्शृणु।
अष्टोत्तरशतस्यास्य महालक्ष्मीस्तु देवता॥६॥

क्लींबीजपदमित्युक्तं शक्तिस्तु भुवनेश्वरी।
अङ्गन्यासः करन्यासः स इत्यादिप्रकीर्तितः॥७॥

ध्यानम्—

वन्दे पद्मकरां प्रसन्नवदनां सौभाग्यदां भाग्यदां
हस्ताभ्यामभयप्रदां मणिगणैर्नानाविधैर्भूषिताम्।
भक्ताभीष्टफलप्रदां हरिहरब्रह्मादिभिस्सेवितां
पार्श्वे पङ्कजशङ्खपद्मनिधिभि र्युक्तां सदा शक्तिभिः॥८॥

सरसिजनयने सरोजहस्ते धवलतरांशुकगन्धमाल्यशोभे।
भगवति हरिवल्लभे मनोज्ञे त्रिभुवनभूतिकरि प्रसीद मह्यम्॥९॥

प्रकृतिं विकृतिं विद्यां सर्वभूतहितप्रदाम्।
श्रद्धां विभूतिं सुरभिं नमामि परमात्मिकाम्॥१०॥

चाचं पद्मालयां पद्मां शुचिं स्वाहां स्वधां सुधाम्।
धन्यां हिरण्मयीं लक्ष्मीं नित्यपुष्टां विभावरीम्॥११॥

आदितिं च दितिं दीप्तां वसुधां वसुधारिणीम्।
नमामि कमलां कान्तां कामाक्षीं क्रोधसंभवाम्॥१२॥

अनुग्रहपदां बुद्धिमनघां हरिवल्लभाम्।
अशोकाममृतां दीप्तां लोकशोकविनाशिनीम्॥१३॥

नमामि धर्मनिलयां करुणां लोकमातरम्।
पद्मप्रियां पद्महस्तां पद्माक्षीं पद्मसुन्दरीम्॥१४॥

पद्मोद्भवां पद्ममुखीं पद्मनाभप्रियां रमाम्।
पद्ममालाधरां देवीं पद्मिनीं पद्मगन्धिनीम्॥१५॥

पुण्यगन्धां सुप्रसन्नां प्रसादाभिमुखीं प्रभाम्।
नमामि चन्द्रवदनां चन्द्रां चन्द्रसहोदरीम्॥१६॥

चतुर्भुजां चन्द्ररूपामिन्दिरामिन्दुशीतलाम्।
आह्लादजननीं पुष्टिं शिवां शिवकरीं सतीम्॥१७॥

विमलां विश्वजननीं तुष्टिं दारिद्र्यनाशिनीम्।
प्रीतपुष्करिणीं शान्तां शुक्लमाल्यांबरां श्रियम्॥ १८॥

भास्करीं बिल्वनिलयां वरारोहां यशस्विनीम्।
वसुन्धरा मुदाराङ्गां हरिणीं हेममालिनीम्॥१९॥

धनधान्यकरी सिद्धिं स्त्रैण सौभ्यां शुभप्रदाम्।
नृपवेश्मगतानन्दां वरलक्ष्मीं वसुप्रदाम्॥२०॥

शुभां हिरण्यप्राकारां समुद्रतनयां जयाम्।
नमामि मङ्गलां देवीं विष्णुवक्षस्स्थलस्थिताम्॥२१॥

विष्णुपत्नीं प्रसन्नाक्षीं नारायणसमाश्रिताम्।
दारिद्रयध्वंसिनीं देवीं सर्वोपद्रववारिणीम्॥२२॥

नवदुर्गां महाकालीं ब्रह्मविष्णुशिवात्मिकाम्।
त्रिकालज्ञानसंपन्नां नमामि भुवनेश्वरीम्॥२३॥

लक्ष्मीं क्षीरसमुद्रराजतनयां श्रीरङ्गधामेश्वरीं
दासीभूतसमस्तदेववनितां लोकैकदीपाङ्कुराम्।
श्रीमन्मन्दकटाक्षलब्धविभवब्रह्मेन्द्रगन्गाधराम्
त्वां त्रैलोक्यकुटुम्बिनीं सरसिजां वन्दे मुकुन्दप्रियाम्॥२४॥

मातर्नमामि कमले कमलायताक्षि
श्रीविष्णुहृत्कमलवासिनि विश्वमातः।
क्षीरोदजे कमलकोमलगर्भगौरि
लक्ष्मीः प्रसीद सततं नमतां शरण्ये॥२५॥

त्रिकालं यो जपे द्विद्वान् षण्मासं विजितेन्द्रियः।
दारिद्र्यध्वंसनं कृत्वा सर्व माप्नोति यत्नतः॥२६॥

देवीनामसहस्रेषु पुण्यमष्टोत्तरं शतम्।
येन श्रियमवाप्नोति कोटिजन्मदरिद्रतः॥२७॥

भृगुवारे शतं धीमान् पठे द्वत्सरमात्रकम्।
अष्टैश्वर्य मवाप्नोति कुबेर इव भूतले॥२८॥

दारिद्र्यमोचनं नाम स्तोत्र मम्बापरं शतम्।
येन श्रिय मवाप्नोति कोटिजन्मदरिद्रतः॥२९॥

भुक्त्वा तु विपुलान् भोगा नस्या स्सायुज्यमाप्नुयात्।
प्रातःकाले पठे न्नित्यं सर्वदुःखोपशान्तये॥३०॥

पठंस्तु चिन्तयेद्देवीं सर्वाभरणभूषिताम्।

श्रीलक्ष्म्यष्टोत्तरशतनामस्तोत्रं समाप्तम्॥

<MISSING_FIG href="../books_images/U-IMG-172355286430.png"/>

॥ लक्ष्मीसहस्रनामस्तोत्रम् ॥

हरिः ओम् ॥

नाम्नां साष्टसहस्रञ्च ब्रूहि गार्ग्य महामते।
महालक्ष्म्या महादेव्या भुक्तिमुक्त्यर्थसिद्धये॥१॥

गार्ग्य उवाच—

सनत्कुमारमासीनं द्वादशादित्यसन्निभम्।
अपृच्छन्योगिनो भक्त्या योगिनामर्थसिद्धये॥२॥

सर्वलौकिककर्मभ्यो विमुक्तानां हिताय वै।
भुक्तिमुक्तिप्रदं जप्यमनुब्रूहि दयानिधे॥३॥

सनत्कुमारभगवन्सर्वज्ञोऽसि विशेषतः।
आस्तिक्यसिद्धये नॄणां क्षिप्रधर्मार्थसाधनम्॥४॥

खिद्यन्ति मानवास्सर्वे धनाभावेन केवलम्।
सिद्ध्यन्ति धनिनोऽन्यस्य नैव धर्मार्थकामनाः॥५॥

दारिद्र्यध्वंसिनी नाम केन विद्या प्रकीर्तिता।
केन वा ब्रह्मविद्याऽपि केन मृत्युविनाशिनी॥६॥

सर्वासां सारभूतैका विद्यानां केन कीर्तिता।
प्रत्यक्षसिद्धिदा ब्रह्मन् तामाचक्ष्व दयानिधे॥७॥

सनत्कुमार उवाच—

साधु पृष्टं महाभागास्सर्वलोकहितैषिणः ।
महतामेष धर्मश्च नान्येषामिति मे मतिः॥८॥

ब्रह्मविष्णुमहादेव महेंद्रादिमहात्मभिः।
संप्रोक्तं कथयाम्यद्य लक्ष्मीनामसहस्रकम्॥९॥

यस्योच्चारणमात्रेण दारिद्र्यान्मुच्यते नरः।
किं पुनस्तज्जपाज्जापी सर्वेष्टार्थानवाप्नुयात्॥१०॥

अस्य श्रीलक्ष्मीदिव्यसहस्रनामस्तोत्रमहामन्त्रस्य आनन्दकर्दमचिक्लीतेंदिरासुतादयो महात्मानो महर्षयः अनुष्टुप्छन्दः। विष्णुमाया शक्तिः महालक्ष्मीः परादेवता। श्रीमहालक्ष्मीप्रसादद्वारा सर्वेष्टार्थसिद्ध्यर्थे जपे विनियोगः।

श्रीमित्यादि षडङ्गन्यासः—

ध्यानम्—

पद्मनाभप्रियां देवीं पद्माक्षीं पद्मवासिनीम्।
पद्मवक्त्रां पद्महस्तां वन्दे पद्मामहर्निशम्॥१॥

पूर्णेदुवदनां दिव्यरत्नाभरणभूषिताम्।
वरदाभयहस्ताढ्यां ध्यायेच्चन्द्रसहोदरीम्॥२॥

इच्छारूपां भगवतस्सच्चिदानन्दरूपिणीम्।
सर्वज्ञां सर्वजननीं विष्णुवक्षस्स्थलालयाम्॥३॥

दयालुमनिशं ध्यायेत्सुखसिद्धिस्वरूपिणीम्।

हरिः ओम्—

नित्यागतानन्तनित्या नन्दिनी जनरञ्जनी।
नित्यप्रकाशिनी चैव स्वप्रकाशस्वरूपिणी॥१॥

महालक्ष्मीर्महाकाली महाकन्या सरस्वती।
भोगवैभवसंधात्री भक्तानुग्रहकारिणी॥२॥

ईशावास्या महामाया महादेवी महेश्वरी।
हृल्लेखा परमा शक्तिर्मातृका बीजरूपिणी॥३॥

नित्यानन्दा नित्यबोधा नादिनी जनमोदिनी।
सत्यप्रत्ययनी चैव स्वप्रकाशात्मरूपिणी॥४॥

त्रिपुरा भैरवी विद्या हंसा वागीश्वरी शिवा।
वाग्देवी च महारात्रिः कालरात्रिस्त्रिलोचना॥५॥

भद्रकाली कराली च महाकाली तिलोत्तमा।
काली करालवक्त्रांता कामाक्षी कामदा शुभा॥६॥

चण्डिका चण्डरूपेशा चामुण्डा चक्रधारिणी।
त्रैलोक्यजपिनी देवी त्रैलोक्यविजयोत्तमा॥७॥

सिद्धलक्ष्मीः क्रियालक्ष्मीर्मोक्षलक्ष्मीः प्रसादिनी।
उमा भगवती दुर्गा चांद्री दाक्षायणी शिवा॥८॥

प्रत्यङ्गिरा धरावेला लोकमाता हरिप्रिया।
पार्वती परमा देवी ब्रह्मविद्याप्रदायिनी॥९॥

अरूपा बहुरूपा च विरूपा विश्वरूपिणी।
पञ्चभूतात्मिका वाणी पञ्चभूतात्मिका परा॥१०॥

काली मा पञ्चिका वाग्मी हविःप्रत्यधिदेवता।
देवमाता सुरेशाना देवगर्भाऽम्बिका धृतिः॥११॥

सङ्ख्या जातिः क्रिया शक्तिः प्रकृतिर्मोहिनी मही।
यज्ञविद्या महाविद्या गुह्यविद्या विभावरी॥१२॥

ज्योतिष्मती महामाता सर्वमन्त्रफलप्रदा।
दारिद्र्यध्वंसिनी देवी हृदयग्रन्थिभेदिनी॥१३॥

सहस्रादित्यसङ्काशा चन्द्रिका चन्द्ररूपिणी।
गायत्री सोमसंभूतिस्सावित्री प्रणवात्मिका॥१४॥

शाङ्करी वैष्णवी ब्राह्मी सर्वदेवनमस्कृता।
सेव्यदुर्गा कुबेराक्षी करवीरनिवासिनी॥१५॥

जया च विजया चैव जयन्ती चापराजिता।
कुब्जिका कालिका शास्त्री वीणापुस्तकधारिणी॥१६॥

सर्वज्ञशक्तिश्श्रीशक्तिर्ब्रह्मविष्णुशिवात्मिका।
इडापिङ्गलिका मध्या मृणाली तन्तुरूपिणी॥१७॥

यज्ञेशानी प्रथा दीक्षा दक्षिणा सर्वमोहिनी।
अष्टाङ्गयोगिनी देवी निर्बीजध्यानगोचरा॥१८॥

सर्वतीर्थस्थिता शुद्धा सर्वपर्वतवासिनी।
वेदशास्त्रप्रमा देवी षडङ्गादिपदक्रमा॥ १९॥

शिवा धात्री शुभानन्दा यज्ञकर्मस्वरूपिणी।
व्रतिनी मेनका देवी ब्रह्माणी ब्रह्मचारिणी॥२०॥

एकाक्षरपरा तारा भवबन्धविनाशिनी।
विश्वंभरा धरा धारा निराधाराऽधिकस्वरा॥२१॥

राका कुहूरमावास्या पूर्णिमाऽनुमती द्युतिः।
सिनीवाली शिवा वश्या वैश्वदेवी पिशङ्गिला॥२२॥

पिप्पला च विशालाक्षी रक्षोघ्नी वृष्टिकारिणी।
दुष्टविद्राविणी देवी सर्वोपद्रवनाशिनी॥२३॥

शारदा शरसन्धाना सर्वशस्त्रस्वरूपिणी।
युद्धमध्यस्थिता देवी सर्वभूतप्रभञ्जनी॥२४॥

अयुद्धा युद्धरूपा च शान्ता शान्तिस्वरूपिणी।
गङ्गा सरस्वती वेणी यमुना नर्मदापगा॥२५॥

समुद्रवसनावासा ब्रह्माण्डश्रोणिमेखला।
पश्चवक्त्रा दशभुजा शुद्धस्फटिकसन्निभा॥२६॥

रक्ता कृष्णा सिता पीता सर्ववर्णा निरीश्वरी।
कालिका चक्रिका देवी सत्या तु वटुका स्थिता॥२७॥

तरुणी वारुणी नारी ज्येष्ठा देवी सुरेश्वरी।
विश्वंभरा धरा कर्त्री गलार्गलविभञ्जनी॥२८॥

सन्ध्या रात्रिर्दिवा ज्योत्स्ना कला काष्ठा निमेषिका।
उर्वी कात्यायनी शुभ्रा संसारार्णवतारिणी॥२९॥

कपिला कौलिकाऽशोका मल्लिका नवमल्लिका।
देविका नन्दिका शान्ता भञ्जिका भयभञ्जिका॥३०॥

कौशिकी वैदिकी देवी सौरोरूपाधिकातिमा।
दिग्वस्त्रा नववस्त्रा च कन्यका कमलोद्भवा॥३१॥

श्रीस्सौम्यलक्षणाऽतीतदुर्गा सूत्रप्रबोधिका।
श्रद्धा मेधा कृतिः प्रज्ञा धारणा कान्तिरेव च॥३२॥

श्रुतिः स्मृतिर्धृतिर्धन्या भूतिरिष्टिर्मनीषिणी।
विरक्तिर्व्यापिनी माया सर्वमायाप्रभञ्जनी॥३३॥

महेंद्री मंत्रिणी सिंही चेंद्रजालस्वरूपिणी।
अवस्थात्रयनिर्मुक्ता गुणत्रयविवर्जिता॥३४॥

ईषणत्रयनिर्मुक्ता सर्वरोगविवर्जिता।
योगिध्यानान्तगम्या च योगध्यानपरायणा॥३५॥

त्रयीशिखाविशेषज्ञा वेदान्तज्ञानरूपिणी ।
भारती कमला भाषा पद्मा पद्मवती कृतिः॥३६॥

गौतमी गोमती गौरी ईशाना हंसवाहनी।
नारायणी प्रभाधारा जाह्नवी शङ्करात्मजा॥३७॥

चित्रघण्टा सुनन्दा श्रीर्मानवी मनुसंभवा
स्तंभिनी क्षोभिणी मारी भ्रामिणी शत्रुमारिणी॥ ३८ ॥

मोहिनी द्वेषिणी वीरा अघोरा रुद्ररूपिणी।
रुद्रैकादशिनी पुण्या कल्याणी लाभकारिणी॥३९॥

देवदुर्गा महादूता स्वप्नदुर्गाष्टभैरवी।
सूर्यचन्द्राग्निरूपा च ग्रहनक्षत्ररूपिणी॥४०॥

बिंदुनादकलातीता बिंदुनादकलात्मिका।
दशवायुजयाकारा कलाषोडशसंयुता॥४१॥

काश्यपी कमलादेवी नादचक्रनिवासिनी।
मृडाधारा स्थिरा गुह्या देविका चक्ररूपिणी॥४२॥

अविद्या शार्वरी भुञ्जा जंभासुरनिबर्हिणी।
श्रीकाया श्रीकला शुभ्रा कर्मनिर्मूलकारिणी॥४३॥

आदिलक्ष्मीर्गुणाधारा पञ्चब्रह्मात्मिकापरा।
श्रुतिर्ब्रह्ममुखावासा सर्वसंपत्तिरूपिणी॥४४॥

मृतसञ्जीवनी मैत्री कामिनी कामवर्जिता।
निर्वाणमार्गदा देवी हंसिनी काशिका क्षमा॥४५॥

सपर्यागुणिनी भिन्ना निर्गुणा खण्डिता शुभा।
स्वामिनी वेदिनी शक्या शांबरी चक्रधारिणी॥४६॥

दण्डिनी मुण्डिनी व्याघ्री शिखिनी सोमसंहतिः।
चिन्तामणिश्चिदानन्दा पञ्चवाणाग्रबोधिनी॥४७॥

बाणश्रेणिस्सहस्राक्षी सहस्रभुजपादुका।
सन्ध्याबलिस्त्रिसन्ध्याख्या ब्रह्माण्डमणिभूषणा॥४८॥

वासवी वारुणी सेना कुलिका मन्त्ररञ्जनी।
जितप्राणस्वरूपा च कान्ता काम्यवरप्रदा॥४९॥

मन्त्रब्राह्मणविद्यार्था नादरूपा हविष्मती।
आथर्वणिश्श्रुतिश्शून्या कल्पनावर्जिता सती॥५०॥

सत्ता जातिः प्रमाऽमेया प्रमितिः प्राणदा गतिः।
अवर्णा पञ्चवर्णा च सर्वदा भुवनेश्वरी॥५१॥

त्रैलोक्यमोहिनी विद्या सर्वभर्त्री क्षराक्षरा।
हिरण्यवर्णा हरिणी सर्वोपद्रवनाशिनी॥५२॥

कैवल्यपदवीरेखा सूर्यमण्डलसंस्थिता।
सोममण्डलमध्यस्था वह्निमण्डलसंस्थिता॥५३॥

वायुमण्डलमध्यस्था व्योममण्डलसंस्थिता।
चक्रिकाचक्रमध्यस्था चक्रमार्गप्रवर्तिनी॥५४॥

कोकिलाकुलचक्रेशा पक्षतिः पंक्तिपावनी।
सर्वसिद्धांतमार्गस्था षड्वर्णावरवर्जिता॥५५॥

शररुद्रहरा हन्त्री सर्वसंहारकारिणी।
पुरुषाः पौरुषी तुष्टिस्सर्वतन्त्रप्रसूतिका॥५६॥

अर्धनारीश्वरी देवी सर्वविद्याप्रदायिनी।
भार्गवी भूजुषी विद्या सर्वोपनिषदास्थिता॥५७॥

व्योमकेशाखिलप्राणा पञ्चकोशविलक्षणा।
पञ्चकोशात्मिका प्रत्यक्पञ्चब्रह्मात्मिका शिवा॥५८॥

जगज्जरा जनित्री च पञ्चकर्मप्रसूतिका।
वाग्देव्याभरणाकारा सर्वकाम्यस्थिता स्थितिः॥५९॥

अष्टादशचतुष्षष्ठपीठिका विद्यया युता।
कालिकाकर्षणश्यामा यक्षिणी किन्नरेश्वरी॥६०॥

केतकी मल्लिकाशोकवाराहीधरणीध्रुवा।
नारसिंही महोग्रास्या भक्तानामार्तिनाशिनी॥ ६१॥

अन्तर्बला स्थिरा लक्ष्मीर्जरामरणनाशिनी।
श्रीरञ्जिता महाकाया सोमसूर्याग्निलोचना॥६२॥

अदितिर्देवमाता च अष्टपुत्राऽष्टयोगिनी।
अष्टप्रकृतिरष्टाष्टविभ्राजद्विकृताकृतिः॥६३॥

दुर्भिक्षध्वंसिनी देवी सीता सत्या च रुक्मिणी।
ख्यातिजा भार्गवी देवी देवयोनिस्तपस्विनी॥६४॥

शाकंभरी महाशोणा गरुडोपरिसंस्थिता।
सिंहगा व्याघ्रगा देवी वायुगा च महाद्रिगा॥६५॥

अकारादिक्षकारान्ता सर्वविद्याधिदेवता।
मन्त्रव्याख्याननिपुणा ज्योतिश्शास्त्रैकलोचना॥६६॥

इडापिङ्गलिकामध्या सुषुम्नाग्रन्थिभेदिनी।
कालचक्राश्रयोपेता कालचक्रस्वरूपिणी॥६७॥

वैशारदी मतिश्रेष्ठा वरिष्ठा सर्वदीपिका।
वैनायकी वरारोहा श्रोणिवेलाबहिर्वलिः॥६८॥

जंभिनी जृंभणी जंभकारिणी गणकारिका।
शरणी चक्रिकाऽनन्ता सर्वव्याधिचिकित्सकी॥६९॥

देवकी देवसङ्काशा वारिधिः करुणाकरा।
शर्वरी सर्वसंपन्ना सर्वपापप्रभञ्जिनी॥७०॥

एकमात्रा द्विमात्रा च त्रिमात्रा च तथापरा।
अर्धमात्रा परा सूक्ष्मा सूक्ष्मार्थाऽर्थपराऽपरा॥ ७१ ॥

एकवीरा विशेषाख्या षष्ठी देवी मनस्विनी।
नैष्कर्म्या निष्कला लोका ज्ञानकर्माधिका गुणा॥७२॥

सबन्ध्वानन्दसन्दोहा व्योमाकाराऽनिरूपिता।
गद्यपद्यात्मिका वाणी सर्वालङ्कारसंयुता॥७३॥

साधुबन्धपदन्यासा सर्वौकोघटिकावलिः।
षट्कर्मा कर्कशाकारा सर्वकर्मविवर्जिता॥७४॥

आदित्यवर्णा चापर्णा कामिनी वररूपिणी।
ब्रह्माणी ब्रह्मसन्ताना वेदवागीश्वरी शिवा॥७५॥

पुराणन्यायमीमांसाधर्मशास्त्रागमश्रुता।
सद्यो वेदवती सर्वा हंसी विद्याधिदेवता॥७६॥

विश्वेश्वरी जगद्धात्री विश्वनिर्माणकारिणी।
वैदिकी वेदरूपा च कालिका कालरूपिणी॥७७॥

नारायणी महादेवी सर्वतत्त्वप्रवर्तिनी।
हिरण्यवर्णरूपा च हिरण्यपदसंभवा॥७८॥

कैवल्यपदवी पुण्या कैवल्यज्ञानलक्षिता।
ब्रह्मसंपत्तिरूपा च ब्रह्मसंपत्तिकारिणी॥७९॥

वारुणी वारुणाराध्या सर्वकर्मप्रवर्तिनी।
एकाक्षरपराऽऽयुक्ता सर्वदारिद्र्यभञ्जिनी॥८०॥

पाशांकुशान्विता दिव्या वीणाव्याख्याक्षसूत्रभृत्।
एकमूर्तिस्त्रयीमूर्तिर्मधुकैटभभञ्जिनी॥८१॥

सांख्या सांख्यवती ज्वालाज्वलन्ती कामरूपिणी।
जाग्रन्ती सर्वसंपत्तिस्सुषुप्तान्वेष्टदायिनी॥८२॥

कपालिनी महादंष्ट्रा भ्रुकुटी कुटिलानना।
सर्वावासा सुवासा च बृहत्यष्टिश्च शक्वरी॥८३॥

छन्दोगणप्रतिष्ठा च कल्माषी करुणात्मिका।
चक्षुष्मती महाघोषा खड्गचर्मधरा शनिः॥ ८४ ॥

शिल्पवैचित्र्यविद्योता सर्वतोभद्रवासिनी।
अचिन्त्यलक्षणाकारा सूत्रभाष्यनिबन्धना॥८५॥

सर्ववेदार्थसपंत्तिस्सर्वशास्त्रार्थमातृका।
अकारादिक्षकारांतसर्ववर्णकृतस्थला॥८६॥

सर्वलक्ष्मी स्सदानन्दा सारविद्या सदाशिवा।
सर्वज्ञा सर्वशक्तिश्च खेचरी रूपगोच्छ्रिता॥८७॥

अणिमादिगुणोपेता परा काष्ठा परा गतिः।
हंसयुक्तविमानस्था हंसारूढा शशिप्रभा॥८८॥

भवानी वासनाशक्तिराकृतिस्थाऽखिलाखिला।
तन्त्रहेतुर्विचित्राङ्गी व्योमगङ्गाविनोदिनी॥८९॥

वर्षा च वार्षिका चैव ऋग्यजुस्सामरूपिणी।
महानदीनदीपुण्याऽगण्यपुण्यगुणक्रिया॥९०॥

समाधिगतलभ्यार्था श्रोतव्या स्वप्रिया घृणा।
नामाक्षरपरा देवी उपसर्गनखाञ्चिता॥९१॥

निपातोरुद्वयीजङ्घा मातृका मन्त्ररूपिणी।
आसीना च शयाना च तिष्ठन्ती धावनाधिका॥९२॥

लक्ष्यलक्षणयोगाढ्या ताद्रूप्यगणनाकृतिः।
सैकरूपा नैकरूपा सेंदुरूपा तदाकृतिः॥९३॥

समासतद्धिताकारा विभक्तिवचनात्मिका।
स्वाहाकारा स्वधाकारा श्रीपत्यर्धाङ्गनन्दिनी॥९४॥

गंभीरा गहना गुह्या योनिलिङ्गार्धधारिणी।
शेषवासुकिसंसेव्या चषालावरवर्णिनी॥९५॥

कारुण्याकारसंपत्तिः कीलकृन्मन्त्रकीलिका।
शक्तिबीजात्मिका सर्वमन्त्रेष्टाक्षयकामना॥९६॥

आग्नेयी पार्थिवा आप्या वायव्या व्योमकेतना।
सत्यज्ञानात्मिकाऽऽनन्दा ब्राह्मी ब्रह्मसनातनी॥९७॥

अविद्यावासना माया प्रकृतिस्सर्वमोहिनी।
शक्तिर्धारणशक्तिश्च चिदचिच्छक्तियोगिनी॥९८॥

वक्त्रारुणा महामाया मरीचिर्मदमर्दिनी।
विराड् स्वाहा स्वधा शुद्धा नीरूपास्तिस्सुभक्तिगा॥ ९९ ॥

निरूपिताद्वयीविद्या नित्यानित्यस्वरूपिणी।
वैराजमार्गसंचारा सर्वसत्पथदर्शिनी॥१००॥

जालन्धरी मृडानी च भवानी भवभञ्जनी।
त्रैकालिकज्ञानतन्तुस्त्रिकालज्ञानदायिनी॥१०१॥

नादातीता स्मृतिः प्रज्ञा धात्रीरूपा त्रिपुष्करा।
पराजिताविधानज्ञा विशेषितगुणात्मिका॥१०२॥

हिरण्यकेशिनी हेमब्रह्मसूत्रविचक्षणा।
असंख्येयपरार्धांतस्वरव्यञ्चनवैखरी॥१०३॥

मधुजिह्वा मधुमती मधुमासोदया मधुः।
माधवी च महाभागा मेघगंभीरनिस्वना॥१०४॥

ब्रह्मविष्णुमहेशादिज्ञातव्यार्थविशेषगा।
नाभौ वह्निशिखाकारा ललाटे चन्द्रसन्निभा॥१०५॥

भ्रूमध्ये भास्कराकारा सर्वताराकृतिर्हृदि।
कृत्तिकादिभरण्यन्तनक्षत्रेष्ट्यार्चितोदया॥ १०६ ॥

ग्रहविद्यात्मिका ज्योतिर्ज्योतिर्विन्मतिजीविका।
ब्रह्माण्डगर्भिणी बाला सप्तावरणदेवता॥ १०७ ॥

वैराजोत्तमसाम्राज्या कुमारकुशलोदया
बगला भ्रमरांबा च शिवदूती शिवात्मिका॥ १०८ ॥

मेरुविन्ध्यातिसंस्थाना काश्मीरपुरवासिनी।
योगनिद्रा महानिद्रा विनिद्रा राक्षसाश्रिता॥१०९॥

सुवर्णदा महागङ्गा पञ्चाख्या पञ्चसंहतिः।
सुग्रजाता सुवीरा च सुपोषा सुपतिश्शिवा॥११०॥

सुगृहा रक्तबीजान्ता हतकन्दर्पजीविका।
समुद्रव्योममध्यस्था समबिंदुसमाश्रया॥ १११ ॥

सौभाग्यरसजीवातुस्सारासारविवेकदृक्।
त्रिवल्यादिसुपुष्टाङ्गा भारती भरताश्रिता॥११२॥

नादब्रह्ममयीविद्या ज्ञानब्रह्ममयी परा।
ब्रह्मनाडी निरुक्तिश्च ब्रह्मकैवल्यसाधनम्॥११३॥

कालिकेयमहोदारवीर्यविक्रमरूपिणी।
बडबाग्निशिखावक्त्रा महाकवलतर्पणा॥११४॥

महाभूता महादर्पा महासारा महाक्रतुः।
पञ्चभूतमहाग्रासा पञ्चभूताधिदेवता॥११५॥

सर्वप्रमाणा संपत्तिस्सर्वरोगप्रतिक्रिया।
ब्रह्माण्डान्तर्बहिर्व्याप्ता विष्णुवक्षोविभूषणी॥११६ ॥

शाङ्करी विधिवक्त्रस्था प्रवरा वरहेतुकी।
हेममाला शिखामाला त्रिशिखा पञ्चमोचना॥११७॥

सर्वागमसदाचारा मर्यादायातुभञ्जनी।
पुण्यश्लोकप्रबन्धाढ्या सर्वान्तर्यामिरूपिणी॥११८॥

सामगानसमाराध्या श्रोत्रकर्णरसायनम्।
जीवलोकैकजीवातुर्भद्रोदारविलोकना॥११९ ॥

तटित्कोटिलसत्कान्तिस्तरुणी हरिसुन्दरी।
मीननेत्रा च सेंद्राक्षी विशालाक्षी सुमङ्गला॥१२०॥

सर्वमङ्गलसंपन्ना साक्षान्मङ्गलदेवता।
देहहृद्दीपिकादीप्तिर्जिह्मपापप्रणाशिनी॥१२१॥

अर्धचन्द्रोल्लसद्दंष्ट्रा यज्ञवाटीविलासिनी।
महादुर्गा महोत्साहा महादेवबलोदया॥ १२२॥

डाकिनीड्या शाकिनीड्या साकिनीड्या समस्तजुट्।
निरङ्कुशा नाकिवन्द्या षडाधाराधिदेवता॥ १२३॥

भुवनज्ञानिनिश्श्रेणी भुवनाकारवल्लरी।
शाश्वती शाश्वताकारा लोकानुग्रहकारिणी॥ १२४॥

सारसी मानसी हंसी हंसलोकप्रदायिनी।
चिन्मुद्रालङ्कृतकरा कोटिसूर्यसमप्रभा॥१२५॥

सुखप्राणिशिरोरेखा नददृष्टप्रदायिनी।
सर्वसाङ्कर्यदोषघ्नी ग्रहोपद्रवनाशिनी॥ १२६॥

क्षुद्रजन्तुभयघ्नी च विषरोगादिभञ्जनी।
सदाशान्ता सदाशुद्धा गृहच्छिद्रनिवारिणी॥१२७॥

कलिदोषप्रशमनी कोलाहलपुरस्स्थिता।
गौरी लाक्षणकी मुख्या जघन्याकृतिवर्जिता॥१२८॥

मायाविद्यामूलभूता वासवी विष्णुचेतना।
वादिनी वसुरूपा च वसुरत्नपरिच्छदा॥१२९॥

छांदसी चन्द्रहृदया मन्त्रस्वच्छन्दभैरवी।
वनमाला वैजयन्ती पञ्चदिव्यायुधात्मिका॥१३०॥

पीताम्बरमयी चञ्चत्कौस्तुभा हरिकामिनी।
नित्या तथ्या रमा रामा रमणी मृत्युभञ्जनी॥१३१॥

ज्येष्ठा काष्ठा घनिष्ठान्ता शराङ्गी निर्गुणप्रिया।
मैत्रेया मित्रविन्दा च शेष्यशेषकलाशया॥१३२॥

वाराणसी वासरताचार्यावरंजनस्तुता।
जगदुत्पत्तिसंस्थानसंहारत्रयकारणम्॥१३३॥

त्वमंब विष्णु सर्वस्वं नमस्तेऽस्तु महेश्वरि।
नमस्ते सर्वलोकानां जनन्यै पुण्यमूर्तये॥१३४॥

सिद्धलक्ष्मीर्महाकालि महालक्ष्मि नमोऽस्तु ते।
सद्योजातादिपञ्जाग्निरूपा पञ्चकपञ्चकम्॥१३५॥

यन्त्रलक्ष्मीर्भवत्यादिराद्याद्ये ते नमो नमः।
सृष्टयादिकारणाकारवितते दोषवर्जिते॥१३६॥

जगल्लक्ष्मीर्जगन्मातर्विष्णुपत्नि नमोऽस्तु ते।
नवकोटिमहाशक्ति समुपास्यादाम्बुजे॥१३७॥

कनत्सौवर्णरत्नाढ्ये सर्वाभरणभूषिते।
अनन्तानित्यमहिषीप्रपञ्चेश्वरनायकि॥१३८॥

अत्युच्छ्रितपदान्तस्थे परमव्योमनायकि।
नाकपृष्ठगताराध्ये विष्णुलोकविलासिनि॥१३९॥

वैकुण्ठराजमहिषि श्रीरङ्गनगराश्रिते।
रङ्गनायकि भूपुत्रि कृष्णे वरदवल्लभे॥१४०॥

कोटिब्रह्मादिसंसेव्ये कोटिरुद्रादिकीर्तिते।
मातुलुङ्गमयं खेटं सौवर्णचषकं तथा॥१४१ ॥

पद्मद्वयं पूर्णकुंभं कीरञ्च वरदाभये।
पाशमङ्कुशकं शङ्खं चक्रं शूलं कृपाणिकाम्॥१४२॥

धनुर्बाणौ चाक्षमालां चिन्मुद्रामपि बिभ्रती।
अष्टादशभुजे लक्ष्मीमहाष्टादशपीठगे॥१४३॥

भूमिनीलादि संसेव्ये स्वामिचित्तानुवर्तिनि।
पद्मे पद्मालये पद्मिपूर्णकुंभाभिषेचिते॥१४४ ॥

इन्दिरेंदिंदिराभाक्षि क्षीरसागरकन्यके।
भार्गवि त्वं स्वतंत्रेच्छा वशीकृतजगत्पतिः॥१४५॥

मङ्गलं मङ्गलानां त्वं देवतानां च देवता।
त्वमुत्तमोत्तमानाञ्च त्वं श्रेयः परमामृतम्॥१४६ ॥

धनधान्याभिवृद्धिश्च सार्वभौमसुखोछ्रया।
आन्दोलिकादिसौभाग्यं मत्तेभादिमहोदयः॥१४७॥

पुत्रपौत्राभिवृद्धिश्च विद्याभोगबलादिकम्।
आयुरारोग्यसंपत्तिरष्टैश्वर्यं त्वमेव हि॥१४८ ॥

पदमेव विभूतिश्च सूक्ष्मासूत्क्ष्मतरागतिः।
सदयापाङ्गसंदत्तब्रह्मेंद्रादिपदस्थितिः॥१४९॥

अव्याहतमहाभाग्यं त्वमेवाक्षोभ्यविक्रमः ।
समन्वयश्च वेदानामविरोधस्त्वमेव हि॥१५०॥

निःश्रेयसपदप्राप्तिसाधनं फलमेव च।
श्रीमन्त्रराजराज्ञी च श्रीविद्या क्षेमकारिणी॥१५१ ॥

श्रींबीजजपसंतुष्टा ऐं ह्रीं श्रीं बीजपालिका।
प्रपत्तिमार्गसुलभा विष्णुप्रथमकिङ्करी॥१५२॥

क्लीङ्कारार्थसवित्री च सौमङ्गल्याधिदेवता।
श्रीषोडशाक्षरीविद्या श्रीयन्त्रपुरवासिनी॥१५३॥

सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके।
शरण्ये त्र्यंबके देवि नारायणि नमोऽस्तु ते॥ १५४॥

पुनः पुनर्नमस्तेऽस्तु साष्टाङ्गमयुतं पुनः।

सनत्कुमार उवाच—

एवं स्तुता महालक्ष्मीर्ब्रह्मरुद्रादिभिस्सुरैः।
नमद्भिरार्तैर्दीनैश्च निस्स्वत्वैर्भोगवर्जितैः॥१॥

ज्येष्ठा जुष्टैश्च निश्श्रीकैस्संसारात्स्वपरायणैः
विष्णुपत्नी ददौ तेषां दर्शनं दृष्टितर्पणम्॥२॥

शरत्पूर्णेन्दुकोट्याभधवलापाङ्गवीक्षणैः।
सर्वात्सत्वसमाविष्टांचक्रे हृष्टा वरं ददौ॥३॥

महालक्ष्मीरुवाच—

नाम्नां साष्टसहस्रं मे प्रमादाद्वापि यस्सकृत्।
कीर्तयेत्तत्कुले सत्यं वसाम्याचन्द्रतारकम्॥४॥

किं पुनर्नियमाज्जप्तुर्मदेकशरणस्य च।
मातृवत्सानुकंपाहं पोषकी स्यामहर्निशम्॥५॥

मन्नाम स्तवतां लोके दुर्लभं नास्ति चिंतितम्।
मत्प्रसादेन सर्वेऽपि स्वस्वेष्टार्थ मवाप्स्यथ॥६॥

लुप्तवैष्णवधर्मस्य मद्द्रतेष्ववकीिर्णिनः।
भक्तिप्रपत्तिहीनस्य वन्द्योनाम्नां जरापि मे॥७॥

तस्मादवश्यं तैर्दोषै र्विहीनः पापवर्जितः।
जपेत्साष्टसहस्रं मे नाम्नां प्रत्यहमादरात्॥८॥

साक्षादलक्ष्मीपुत्रोऽपि दुर्भाग्योऽप्यलसोऽपि वा।
अप्रयत्नोऽपि मूढोऽपि विकलः पतितोऽपि च॥९॥

अवशात्प्राप्नुयाद्भाग्यं मत्प्रसादेन केवलम्।
स्पृहेयमचिराद्देवाः वरदानाय जापिनः॥१०॥

ददामि सर्वमिष्टार्थं लक्ष्मीति स्मरतां ध्रुवम् ॥

सनत्कुमार उवाच —

इत्युक्त्वा ऽन्तर्दधे लक्ष्मी र्वैष्णवी भगवत्कला।
इष्टापूर्तं च सुकृतं भागधेयं च चिंतितम्॥

स्वंस्वं स्थानं च भोगं च विजयं लेभिरे सुराः।
तदेत् प्रवदाम्यद्य लक्ष्मीनामसहस्रकम्॥

योगिनः पठत क्षिप्रं चिन्तितार्थानवाप्स्यथ॥

गार्ग्य उवाच—

सनत्कुमारोयोगींद्र इत्युक्त्वा स दयानिधिः।
अनुगृह्य ययौ क्षिप्रं तांश्च द्वादशयोगिनः॥

तस्मादेतद्रहस्यञ्च गोप्यं जप्यं प्रयत्नतः।
अष्टम्यां च चतुर्दश्यां नवम्यां भृगुवासर॥

पौर्णमास्याममायां च पर्वकाले विशेषतः।
जपेद्वा नित्यकार्येषु सर्वान्कामानवाप्नुयात्॥

इति श्रीस्कान्दपुराणे सनत्कुमारसंहितायां
लक्ष्मीसहस्रनामस्तोत्रं संपूर्णम्॥

<MISSING_FIG href="../books_images/U-IMG-172360930230.png"/>

॥ श्रीस्तोत्रम् ॥

इन्द्र उवाच—

नमोऽस्तु सर्वलोकानां जननीमब्धिसंभवाम्।
श्रियमुन्निद्रपद्माक्षीं विष्णुवक्षःस्थलस्थिताम्॥ १ ॥

त्वं सिद्धिस्त्वं स्वधा स्वाहा सुधा त्वं लोकपावनी।
सन्ध्या रात्रिः प्रभा मूर्तिर्मेधा श्रद्धा सरस्वती॥२॥

यज्ञविद्या महाविद्या गुह्यविद्या च शोभने।
आत्मविद्या च देवि त्वं विमुक्तिफलदायिनी॥३॥

आन्वीक्षिकी त्रयी वार्ता दण्डनीतिस्त्वमेव च।
सौम्यासौम्यैर्जगद्रूपैस्त्वयैतद्देवि पूरितम्॥४॥

कात्वन्या त्वामृते देवि सर्वयज्ञमयं वपुः।
अध्यास्ते देवदेवस्य योगिचिन्त्यं गदाभृतः॥५॥

त्वया देवि परित्यक्तं सकलं भुवनत्रयम्।
विनष्टप्रायमभवत् त्वयेदानीं समेधितम्॥६॥

दाराः पुत्रास्तथागारं सुहृद्धान्यधनादिकम्।
भवत्येतन्महाभागे नित्यं त्वद्वीक्षणान्नृणाम्॥७॥

शरीरारोग्यमैश्वर्यमरिपक्षक्षयः सुखम्।
देवि त्वद्दृष्टिदृष्टानां पुरुषाणां न दुर्लभम्॥८॥

त्वमंबा सर्वलोकानां देवदेवो हरिः पिता।
त्वयैतद्विष्णुना चांब जगद्व्याप्तं चराचरम्॥९॥

मानं कोषं तथा कोष्ठं मा गृहं मा परिच्छदम्।
मा शरीरं कलत्रं च त्यजेथाः सर्वपावनि॥१०॥

मा पुत्रान्मा सुहृद्वर्गान् मा पशून्मा विभूषणम्।
त्यजेथा मम देवस्य विष्णोर्वक्षःस्थलालये॥ ११॥

सत्वेन सत्यशौचाभ्यां तथा शीलादिभिर्गुणैः।
त्यजन्ते ते नराः सद्यः सन्त्यक्ता ये त्वयामले॥१२॥

त्वयावलोकिताः सद्यः शीलाद्यैरखिलैगुणैः।
कुलैश्वर्यैश्च युज्यन्ते पुरुषा निर्गुणा अपि॥१३॥

स श्लाघ्यः स गुणी धन्यः स कुलीनः स बुद्धिमान्।
स शूरः स च विक्रान्तो यस्त्वया देवि वीक्षितः॥१४ ॥

सद्यो वैगुण्यमायान्ति शीलाद्याः सकला गुणाः।
पराङ्मुखी जगद्धात्री यस्य त्वं विष्णुवल्लभे॥१५॥

न ते वर्णयितुं शक्ता गुणान् जिह्वापि वेधसः।
प्रसीद देवि पद्माक्षी नास्मांस्त्याक्षीः कदाचन॥१६॥

पुष्कर उवाच—

एवं स्तुता ददौ श्रीश्च वरमिंद्राय चेप्सितम्।
सुस्थिरत्वं च राज्यस्य संग्रामविजयादिकम्॥ १७॥

स्वस्तोत्रपाठश्रवणकर्तॄणां भुक्तिमुक्तिदम्।
श्रीस्तोत्रं सततं तस्मात्पठेच्च शृणुयान्नरः॥१८॥

इति श्रीअग्निपुराणान्तर्गतं श्रीस्तोत्रं समाप्तम् ॥

<MISSING_FIG href="../books_images/U-IMG-172370392630.png"/>

॥ श्रीकनकधारास्तोत्रम् ॥

अङ्गं हरेः पुलकभूषणमाश्रयन्ती भृङ्गाङ्गनेव मुकुलाभरणं तमालम्।
अंङ्गीकृताखिलविभूतिरपाङ्गलीलामाङ्गल्यदास्तु मम मङ्गलदेवतायाः॥१॥

मुग्धा मुहुर्विदधती वदने मुरारेः प्रेमत्रपाप्रणिहितानि गतागतानि।
माला दृशोर्मधुकरीव महोत्पले या सा मे श्रियं दिशतुसागरसंभवायाः ॥२॥

आमीलिताक्षमधिगम्य मुदा मुकुन्दमानन्दकन्दमनिमेषमनङ्गतन्त्रम्।
आकेकरस्थितकनीनिकपक्ष्मनेत्रं भूत्यै भवेन्मम भुजङ्गशयाङ्गनायाः ॥३॥

बाह्वन्तरे मधुजितः श्रितकौस्तुभे या हारावली च हरिनीलमयीविभाति।
कामप्रदा भगवतोऽपि कटाक्षमाला कल्याणमावहतुमे कमलालयायाः॥४॥

कालांबुदालिललितोरसि कैटभारेर्धराधरे स्फुरति या तडिदङ्गनेव।
मातुः समस्तजगतां महनीयमक्षि भद्राणि मे दिशतु भार्गवनंदनायाः॥५॥

प्राप्तं पदं प्रथमतः खलु यत्प्रभावान्मङ्गल्यभाजि मधुमाथिनि मन्मथेन।
मय्यापतेत्तदिह मन्थरमीक्षणार्धं मंदालसाक्षि मकराकरकन्यकायाः॥६॥

विश्वामरेंद्रपदविभ्रमदानदक्षमानंदहेतुरधिकं मधुविद्विषोऽपि।
ईषन्निषीदतु मयि क्षणमीक्षणार्धमिंदीवरोदरसहोदरमिंदिरायाः॥७॥

इष्टाविशिष्टमतयोऽपि नरा ययाद्राग्दृष्टास्त्रिविष्टपपदं सुलभं भजन्ते !
दृष्टिः प्रहृष्टकमलोदरदीप्तिरिष्टां पुष्टिं कृषीष्ट मम पुष्करविष्टायाः॥८॥

दद्याद्दयानुपवनो द्रविणां बुधारामस्मिन्नकिश्चनविहङ्गशिशौ निषण्णे।
दुष्कर्मधर्ममपनीय चिराय दूरान्नारायणप्रणयिनीनयनांबुवाहः॥९॥

गीर्देवतेति गरुडध्वजभामिनीति शाकंभरीति शशिशेखरवल्लभेति।
सृष्टिस्थितिप्रलयकेलिषु संस्थितायै तस्यै नमस्त्रिभुवनैकगुरोस्तरुण्यै॥१०॥

संपत्कराणि सकलेन्द्रियनंदनानि साम्राज्यदानविभवानि सरोरुहाक्षि।
त्वद्वंदनानि दुरिताहरणोद्यतानि मामेव मातरनिशं कलयंतु मान्ये॥११॥

यत्कटाक्षसमुपासनाविधिः सेवकस्य सकलार्थसंपदः।
संतनोति वचनाङ्गमानसैस्त्वां मुरारिहृदयेश्वरीं भजे॥१२॥

सरसिजनिलये सरोजहस्ते धवलतमांशुकगन्धमाल्यशोभे।
भगवति हरिवल्लभे मनोज्ञे त्रिभुवनभूतिकरि प्रसीद मह्यम् ॥१३॥

दिघ्घस्तिभिः कनककुम्भमुखावसृष्ट
स्वर्वाहिनीविमलचारुजलप्लुताङ्गीम्।
प्रातर्नमामि जगतां जननीमशेष-
लोकाधिनाथगृहिणीममृताब्धिपुत्रीम्॥ १४ ॥

कमले कमलाक्षवल्लभे त्वं करुणापूरतरङ्गितैरपाङ्गैः।
अवलोकय मामकिंचनानां प्रथमं पात्रमकृत्रिमं दयायाः॥१५॥

श्रुत्यै नमोऽस्तु शुभकर्मफलप्रसूत्यै रत्यै नमोऽस्तु रमणीयगुणाश्रयायै।
शक्त्यै नमोऽस्तु शतपत्रनिकेतनायैपुष्टयै नमोऽस्तु पुरुषोत्तमवल्लभायै॥१६॥

नमोऽस्तु नालीकनिभाननायै नमोऽस्तु दुग्धोदधिजन्मभूम्यै।
नमोऽस्तु सोमामृतसोदरायै नमोऽस्तु नारायणवल्लभायै॥१७॥

नमोऽस्तु हेमांबुजपीठिकायै नमोऽस्तु भूमण्डलनायिकायै।
नमोऽस्तु देवादिदयापरायै नमोऽस्तु शार्ङ्गायुधवल्लभायै॥१८॥

नमोऽस्तु देव्यै भृगुनन्दनायै नमोऽस्तु विष्णोरुरसि स्थितायै।
नमोऽस्तु लक्ष्म्यै कमलालयायै नमोऽस्तु दामोदरवल्लभायै ॥१९॥

नमोऽस्तु कान्त्यै कमलेक्षणायै नमोऽस्तु भूत्यै भुवनप्रसूत्यै।
नमोऽस्तु देवादिभिरर्चितायै नमोऽस्तु नन्दात्मजवल्लभायै

स्तुवन्ति ये स्तुतिभिरमूभिरन्वहं त्रयीमयीं त्रिभुवनमातरं रमाम्।
गुणाधिका गुरुधनभाग्यभागिनो भवन्ति ते भवमनु भाविताशयाः॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ
कनकधारास्तोत्रं संपूर्णम् ॥

<MISSING_FIG href="../books_images/U-IMG-172378586030.png"/>

॥ चतुश्लोकी (लक्ष्मीस्तुतिः) ॥

यत्पदाम्भोरुहध्यानविध्वस्ताशेषकल्मषः।
वस्तुतामुपयातोऽहं यामुनेयं नमामि तम्॥

कान्तस्ते पुरुषोत्तमः फणिपतिश्शयाऽऽसनं वाहनं
वेदात्मा विहगेश्वरो यवनिका माया जगन्मोहिनी।
ब्रह्मेशादिसुरव्रजस्सदयित स्त्वद्दासदासीगण
श्श्रीरित्येव च नाम ते भगवति ब्रूमः कथं त्वां वयम्॥१॥

यस्यास्ते महिमानमात्मन इव त्वद्वल्लभोऽपि प्रभु
र्नालं मातुमियत्तया निरवधिं नित्यानुकूलं स्वतः।

तां त्वां दास इति प्रपन्न इति च स्तोष्याम्यहं निर्भयो
लोकैकेश्वरि लोकनाथदयिते दान्ते दयां ते विदन्॥२॥

ईषत्वत्करुणा निरीक्षणसुधासन्धुक्षणाद्रक्ष्यते
नष्टं प्राक्तदलाभतस्त्रिभुवनं सम्प्रत्यनन्तोदयम्।
श्रेयो न ह्यरविन्दलोचनमनःकान्ताप्रसादादृते
संसृत्यक्षरवैष्णवाध्वसु नृणां सम्भाव्यते कर्हिचित्॥३॥

शान्तानन्तमहाविभूति परमं यद्ब्रह्मरूपं हरे
र्मूर्तं ब्रह्म ततोऽपि यत्प्रियतरं रूपं यदत्यद्भुतम्।
यान्यन्यानि यथासुखं विहरतो रूपाणि सर्वाणि ता
न्याहुस्स्वैरनुरूपरूपविभवैर्गाढोपगूढानि ते॥४॥

आकारत्रयसम्पन्नामरविन्दनिवासिनीम्।
अशेषजगदीशित्रीं वन्दे वरदवल्लभाम्॥५॥

॥ श्रीमद्यामुनमुनिविरचिता चतुश्श्लोकी (लक्ष्मीस्तुतिः) संपूर्णा ॥

<MISSING_FIG href="../books_images/U-IMG-172363747230.png"/>

॥ श्रीस्तवः ॥

श्रीवत्सचिन्हमिश्रेभ्यो नम उक्तिमधीमहे।
यदुक्तयस्त्रयीकण्ठे यान्ति मङ्गलसूत्रताम्॥

स्वस्ति श्रीर्दिशतादशेषजगतां सर्गोपसर्गस्थिती-
स्स्वर्गं दुर्गतिमापवर्गिकपदं सर्वञ्च कुर्वन्हरिः।
यस्या वीक्ष्य मुखं तदिङ्गितपराधीनो विधत्तेऽखिलं
क्रीडेयं खलु नाऽन्यदास्य रसदा स्यादैकरस्यात्तया॥१॥

हे श्रीर्देवि समस्तलोकजननि त्वां स्तोतुमीहामहे
युक्तां भावय भारतीं प्रगुणय प्रेमप्रधानां धियम्।
भक्तिं बन्धय नन्दयाश्रितमिमं दासं जनं तावकं
लक्ष्यं लक्ष्मि कटाक्षवीचिविसृतेस्ते स्याम चामी वयम्॥२॥

स्तोत्रं नाम किमामनन्ति कवयो यद्यन्यदीयान्गुणा-
नन्यत्रत्वसतोऽधिरोप्य फणितिस्सा तर्हि वन्ध्या त्वयि।
सम्यक्सत्यगुणाभिवर्णनमघो ब्रूयुः कथं तादृशी
वाग्वाचस्पतिनापि शक्यरचना त्वत्सद्गुणार्णोनिधौ॥३॥

ये वाचां मनसाञ्च दुर्ग्रहतया ख्यातागुणास्तावका
स्तानेव प्रतिसाम्बुजिह्वमुदिता है मामिका भारती।
हास्यं तत्तु न मन्महे न हि चकोर्येकाऽखिलां चन्द्रिकां
नालं पातुमिति प्रगृह्य रसनामासीत सत्यां तृषि॥४॥

क्षोदीयानपि दुष्टबुद्धिरपि निस्नेहोऽप्यनीहोऽपि ते
कीर्तिं देवि लिहन्नहं न च बिभेम्यज्ञो न जिह्रेमि च।
दुष्येत्सा तु न तावता न हि शुना लीढापि भागीरथी
दूष्येच्चापि न लज्जते न हि बिभेत्यार्तिस्तु शाम्येच्छुनः॥५॥

ऐश्वर्यं महदेव वाऽल्पमथवा दृश्येत पुंसां हि य
त्तल्लक्ष्म्यास्समुदीक्षणात्तव यतस्सार्वत्रिकं वर्तते।
तेनैतेन न विस्मयेमहि जगन्नाथोऽपि नारायणो
धन्यं मन्यत ईक्षणात्तव यतस्स्वात्मानमात्मेश्वरः॥६॥

ऐश्वर्यं यदशेषपुंसि यदिदं सौन्दर्यलावण्ययोः
रूपं यच्च हि मङ्गलं किमपि यल्लोके सदित्युच्यते।
तत्सर्वं त्वदधनमेव यदतश्श्रीरित्यभेदेन वा
यद्वा श्रीमदितीदृशेन वचसा देवि प्रधामश्नुते॥७॥

देवि त्वन्महिमावधिर्न हरिणा नापि त्वया ज्ञायते
यद्यप्येवमथापि नैव युवयोस्सर्वज्ञता हीयते।
यन्नास्त्येव तदज्ञतामनुगुणां सर्वज्ञताया विदु-
र्व्योमाम्भोजमिदन्तया किल विदन्भ्रान्तोऽयमित्युच्यते॥८॥

लोकेवनस्पतिबृहस्पतितारतम्यं
यस्याः प्रसादपरिणाममुदाहरन्ति।
सा भारती भगवती तु यदीयदासी
तां देवदेवमहिषीं श्रियमाश्रयामः॥९ ॥

यस्याः कटाक्षमृदुवीक्षणदीक्षितेन
सद्यस्समुल्लसितपल्लवमुल्ललास।
विश्वं विपर्ययसमुत्थविपर्ययं त्वां
तां देवदेवमहिषीं श्रियमाश्रयामः॥१०॥

यस्याः कटाक्षवीक्षणाक्षणलक्ष्यं लक्षिता महेशास्स्युः।
श्रीरङ्गराजमहिषी सा माम (पि) भिवीक्षतां लक्ष्मीः॥११॥

इति हारितकुलतिलकश्रीवत्साङ्कमिश्रविरचितः
श्रीस्तवस्संपूर्णः ॥

<MISSING_FIG href="../books_images/U-IMG-172364179430.png"/>

॥ श्रीगुणरत्नकोशः ॥

श्री पराशरभट्टार्यश्श्रीरङ्गेशपुरोहितः।
श्रीवत्साङ्गसुतश्श्रीमान्श्रेयसे मेऽस्तु भूयसे ॥

श्रियै समस्तचिदचिद्विधानव्यसनं हरेः।
अङ्गीकारिभिरालोकैस्सार्थयन्त्यै कृतोऽञ्जलिः॥१॥

उल्लासपल्लवितपालित सप्तलोकीनिर्वाहकोरकितने मकटाक्षलीलाम्।
श्रीरङ्गहर्म्यतलमङ्गलदीपरेखां श्रीरङ्गराजमहिषीं श्रियमाश्रयामः॥२॥

अनुकलतनुकाण्डालिङ्गनारम्भशुम्भ
त्प्रतिदिशभुजशाखि श्रीसखानोकहर्धिः।
स्तननयनगुलुच्छस्फारपुष्पद्विरेफा
रचयतु मयि लक्ष्मीकल्पवल्ली कटाक्षान्॥३॥

यद्भूभङ्गाः प्रमाणं स्थिरचररचनातारतम्ये मुरारे
र्वेदान्तास्तत्वचिन्तां मुरभिदुरसि यत्पादचिह्नैस्तरन्ति।
भोगोपोद्धातकेलीचुलुकितभगवद्वैश्वरूप्यानुभावा
सा नश्श्रीरास्तृणीताममृतलहरिधीलङ्घनीयैरपाङ्गैः॥४॥

यद्यावत्तव वैभवं तदुचितस्तोत्राय दूरे स्पृहा
स्तोतुं के वयमित्यदश्च जगृहुः प्राञ्चो विरिञ्चादयः।
अप्येवं तव देवि वाङ्मनसयोर्भाषानभिज्ञं पदं
कावाचः प्रयतामहे कवयितुं स्वस्ति प्रशस्त्यै गिराम्॥५॥

स्तोतारं तमुशन्ति देवि कवयो यो विस्तृणीते गुणान्
स्तोतव्यस्य ततश्च ते स्तुतिधुरा मय्येव विश्राम्यति।

यस्मादस्मदमर्षणीयफणिति स्वीकारतस्ते गुणाः
क्षान्त्यौदार्यदयादयो भगवति स्वां प्रस्नुवीरन्प्रथाम्॥६॥

सूक्तिं समग्रयतु नस्स्वयमेव लक्ष्मी
श्श्रीरङ्गराजमहिषी मधुरैः कटाक्षैः।
वैदग्ध्यवर्णगुणगुम्भनगौरवैर्यां
कण्डूलकर्णकुहराः कवयो धयन्ति॥७॥

अनाघ्रातावद्यं बहुगुणपरीणाहि मनसो
दुहानं सौहार्दं परिचितमिवाथापि गहनम्।
पदानां सौभ्रात्रादनिमिषनिषेव्यं श्रवणयो
स्त्वमेव श्रीर्मह्यं बहुमुखय वाणी विलसितम्॥८॥

श्रियश्श्री श्श्रीरङ्गेशय तत्र च हृद्यां भगवतीं
श्रियं त्वत्तोऽप्युच्छैर्वयमिह फणामश्शृणुतराम्।
दृशौ ते भूयास्तां सुखतरलतारे श्रवणतः
पुनर्हर्षोत्कर्षात्स्फुटतु भुजयोः कञ्चुकशतम्॥९॥

देवि श्रुतिं भगवतीं प्रथमे पुमांस स्त्वत्सद्गु णौघमणिकोशगृहं गृणन्ति।
तद्द्वारपाटनपटूनि च सेतिहाससं तर्कणस्मृतिपुराणपुरस्सराणि ॥ १० ॥

आहुर्वेदा नमानं कतिचन कतिचाराजकं विश्वमेत
द्राजन्वत्केचिदीशं गुणिनमपिगुणैस्तं दरिद्राणमन्ये।
भिक्षामन्ये सुराजं भवमितिचजडास्ते तलातल्यकार्षु
र्ये ते श्रीरङ्गहर्म्याऽङ्गणकनकलते न क्षणं लक्ष्यमासन्॥११॥

मनसि विलसताक्ष्णा भक्तिसिद्धाञ्जनेन
श्रुतिशिरसि निगूढं लक्ष्मि ते वीक्षमाणाः।
निधिमिव महिमानं भुंजते येऽपि धन्या
ननु भगवति दैवीं सम्पदं तेऽभिजाताः॥१२॥

अस्येशाना जगत इति ते धीमहे यां समृद्धिं
श्रीश्रीसूक्तं बहुमुखयते तां च शाखानुशाखम्।
ईष्टे कश्चिज्जगत इति यः पौरुषे सूक्त उक्त
स्तं च त्वत्कं पतिमधिजगावुत्तरश्चानुवाकः॥१३॥

उद्वाहुस्त्वामुपनिषदसावाह नैकानियन्त्रीं
श्रीमद्रामायणमपि परं प्राणिति त्वच्चरित्रे।
स्मर्तारोऽस्मज्जननि यतमे सेतिहासैः पुराणै
र्निन्युर्वेदानपि च ततमे त्वन्महिम्नि प्रमाणम्॥१४॥

आकुग्रामनियामकादपि विभोरासर्वनिर्वाहका
दैश्वर्यं यदिहोत्तरोरगुणं श्रीरङ्गभर्तुःप्रिये।
तुङ्गं मङ्गलमुज्वलं गरिमवत्पुण्यं पुनः पावनं
धन्यं यत्तददश्च वीक्षणभुवस्ते पञ्चषा विप्रुषः॥१५॥

एको मुक्तातपत्रप्रचलमणिघणात्कारिमौलिर्मनुष्यो
दृप्यद्दन्तावलस्थो न गणयति नतान्यत्क्षणं क्षोणिपालान्।
यत्तस्मै तिष्ठतेऽन्यः कृपणमशरणो दर्शयन्दन्तपंक्तिं
तत्ते श्रीरङ्गराजप्रणयिनि नयनोदञ्चितन्यञ्चिताभ्याम्॥१६॥

रतिर्मति सरस्वती धृति समृद्धि सिद्धि श्रिय
स्सुधासखि यतोमुखं विचलिषेत्तव भ्रूलता।
ततोमुखमथेन्दिरे बहुमुखी महंपूर्विकां
विगाह्य च वशंवदाः परिवहन्ति कूलङ्कषाः॥१७॥

सहस्थिरपरित्रसव्रजविरिञ्चनाकिञ्चनै-
रनोकहबृहस्पति प्रबलविक्लबप्रक्रियम्।
इदं सदसदात्मना निखिलमेव निम्नोन्नतं
कटाक्षतदुपेक्षयोस्तव हि लक्ष्मि तत्ताण्डवम्॥ १८॥

काले शंसति योग्यतां चिदचितोरन्योन्यमालिङ्गतो-
र्भूताहङ्कृतिबुद्धि पञ्चकरणी स्वान्तप्रवृत्तीन्द्रियैः।
अण्डानावरणैस्सहस्रमकरोन्भूर्भुवस्स्वर्वत
श्श्रीरङ्गेश्वरदेवि ते विहृतये सङ्कल्पमानः प्रियः॥ १९॥

शब्दादीन्विषयान्प्रदर्श्य विभवं विस्मार्य दास्यात्मकं
वैष्णव्या गुणमाययात्मनिवहान् विप्लाव्य पूर्वः पुमान्।
पुंसा पण्यवधूविडम्बिवपुषा धूर्तानिवायासयन्
श्रीरङ्गेश्वरि कल्पते तव परीहासात्मने केलये॥२०॥

यद्दूरे मनसो यदेव तमसः पारे यदत्यद्भुतं
यत्कालादपचेलिमं सुरपुरी यद्गच्छतो दुर्गतिः।
सायुज्यस्य यदेव सूतिरथवा यद्दुर्ग्रहं मद्गिरां
तद्विष्णोः परमं पदं तव कृते मातस्समाम्नासिषुः॥२१॥

हेलायामखिलं चराचरमिदं भोगे विभूतिः परा
पुण्यास्ते परिचारकर्मणि सदा पश्यन्ति ये सूरयः।
श्रीरङ्गेश्वरदेवि केवलकृपानिर्वाह्यवर्गे वयं
शेषित्वे परमः पुमान्परिकरा ह्येते तव स्फारणे॥२२॥

आज्ञानुग्रहभीमकोमलपुरीपालाफलं भेजुषां
यायोध्येत्यपराजितेति विदिता नाकं परेण स्थिता।
भावैरद्भुतभोगभूमगहनैस्सान्द्रासुधास्यन्दिभि
श्श्ररिङ्गेश्वरगेहलक्ष्मि युवयोस्तां राजधानीं विदुः॥२३॥

तस्यां च त्वत्कृपावन्निरवधिजनताविश्रमार्हावकाशं
सङ्कीर्णं दास्यतृष्णाकलितपरिकरैः पुंभिरानन्दनिघ्नैः।
स्नेहादस्थानरक्षा व्यसनिभिरभयं शार्ङ्गचक्रासिमुख्यै
रानन्दैकार्णवं श्रीर्भगवति युवयोराहुरास्थानरत्नम्॥२४॥

तत्र स्रक्स्पर्शगन्धं स्फुरदुपरिफणारत्नरोचिर्वितानं
विस्तीर्यानन्तभोगं तदुपरि नयता विश्वमेकातपत्रम्।
तैस्तैः कान्तेन शान्तोदितगुणविभवैरर्हता त्वामसंख्यै
रन्योन्याद्वैतनिष्ठाघनरसगहनान्देवि वघ्नासि भोगान्॥२५॥

भोग्यानामपि नान्तरीयकतया पुष्पाङ्गरागैस्समं
निर्वृत्तप्रणयातिवाहनविधौ नीताः परीवाहताम्।
देवि त्वामनु नीलया सह मही देव्यस्सहस्रं तथा
याभिस्त्वं स्तनबाहुदृष्टिभिरिव स्वाभिः प्रियं श्लाघसे॥२६॥

ते साध्यास्सन्ति देवा जननि गुणवपुर्वेषवृत्तस्वरूपै-
र्भोगैर्वा निर्विशेषास्सवयस इव ये नित्यनिर्दोषगन्धाः।
हे श्रीश्श्रीरङ्गभर्तुस्तव च पदपरीचारवृत्त्यै सदापि
प्रेमप्रद्राणभावाविलहृदयहठात्कारकैङ्कर्यभोगाः॥२७॥

स्वरूपं स्वातन्त्र्यं भगवत इदं चन्द्रवदने
त्वदाश्लेषोत्कर्षाद्भवति खलु निष्कर्षसमये।
त्वमासीर्मातश्श्रीः कमितुरिदमित्थंत्वविभवं
तदन्तर्भावात्त्वां न पृथगभिधत्ते श्रुतिरपि॥२८॥

तव स्पर्शादीशं स्पृशति कमले मङ्गलपदं
तवेदं नोपाधेरुपनिपतितं श्रीरसि यतः।
प्रसूनं पुष्यन्तीमपि परिमलर्धिं जगदिषु-
र्न चैवंत्वादेवं स्वदत इति कश्चित्कवयते॥२९॥

अपाङ्गा भूयांसो यदुपरि परं ब्रह्म तदभू
दमी यत्र द्वित्रास्स च शतमखादिस्तदधरात्।
अतश्श्रीराम्नायस्तदुभयमुशंस्त्वां प्रणिजगौ
प्रशस्तिस्सा राज्ञो यदपि च पुरीकोशकथनम्॥३०॥

स्वतश्श्रीस्त्वं विष्णोस्स्वमसि तत एवैष भगवान्
त्वदायत्तर्धित्वेऽप्यभवदपराधी न विभवः।
स्वया दीप्त्या रत्नं भवदपि महार्घं न विगुणं
न कुण्ठस्वातन्त्र्यं भवति च न चान्याहितगुणम्॥ ३१ ॥

प्रशकनबलज्योतिर्ज्ञानेश्वरी विजयप्रथा
प्रणतवरणप्रेमक्षेमंकरत्वपुरस्सराः।
अपि परिमलः कान्तिर्लावण्यमर्चिरितीन्दिरे
तव भगवतश्चैते साधारणा गुणराशयः॥३२॥

अन्येऽपि यौवनमुखा युवयोस्समाना
श्श्रीरङ्गमङ्गलविजृम्भण वैजयन्ति।
तस्मिंस्तव त्वयि च तस्य परस्परेण
विस्तीर्य दर्पण इव प्रचुरं स्वदन्ते॥३३॥

युवत्वादौ तुल्येऽप्यपरवशताशत्रुशमन
स्थिरत्वादीन्कृत्वा भगवति गुणान्पुंस्त्वसुलभान्।
त्वयि स्त्रीत्वैकान्तान्म्रदिमपतिपारार्थ्यकरुणा-
क्षमादीन्वा भोक्तुं भवति युवयोरात्मनि भिदा॥३४॥

घनकनकद्युती युवदशामपि मुग्धदशां
युवतरुणत्वयोरुचितमाभरणादि परम्।
ध्रुवमसमानदेशविनिवेशि विभज्य हरौ
त्वयि च कुशेशयोदरविहारिणि निर्विशसि॥३५॥

अङ्गं ते मृदुशीतमुग्धमधुरोदारैर्गुणैर्गुम्भतः
क्षीराब्धेः किमृजीषतामुपगतामन्येमहार्घास्ततः।
इन्दुः कल्पलता सुधामधुमुखा इत्याविलां वर्णनां
श्रीरङ्गेश्वरि शान्तकृत्रिमकथं दिव्यं वपुर्नार्हति॥३६॥

प्रणमदनुविधित्सावासनानम्रमग्रे
प्रणयिपरिचिचीर्षाकुञ्चितं पार्श्वके च
कनकनिकषचञ्चच्चम्पकस्त्रक्समान-
प्रवरमिदमुदारं वर्ष्म वाचामभूमिः॥३७॥

एकं न्यञ्च्य नतिक्षमं मम परं चाकुञ्च्चय पादाम्बुजं
मध्ये विष्टरपुण्डरीकमभयं विन्यस्य हस्ताम्बुजम्।
त्वां पश्येम निषेदुषीं प्रतिकलं कारुण्यकूलङ्कष
स्फारापाङ्गतरङ्गमम्ब मधुरं मुग्धं मुखं बिभ्रतीम्॥३८॥

सुरभितनिगमान्तं वन्दिषीयेन्दिराया-
स्तव कमलपलाशप्रक्रियं पादयुग्मम्।
वहति यदुपमदैर्वैजयन्ती हिमाम्भः-
प्लुतिभिरिव नवत्वं कान्तबाहान्तराले॥३९॥

त्वत्स्वीकारकलावलेपकलुषा राज्ञां दृशो दुर्वचा
नित्यं त्वन्मधुपानमत्तमधुपश्रीनिर्भराभ्यांपतिम्।
दृग्भ्यामेव हि पुण्डरीकनयनं वेदो विदामासते
साक्षाल्लक्ष्मि तवावलोकविभवः काक्का कया वर्ण्यते॥४०॥

आनन्दात्मभिरीशमज्जनमदक्षीबालसैरागल-
प्रेमार्द्रैरपि कूलमुद्वहकृपासंप्लावितास्मादृशैः।
पद्मे ते प्रतिबिन्दुबद्धकलितब्रह्मादिविष्कम्भकै-
रैश्वर्योद्गमगद्गदैरशरणं मां पालयालोकितैः॥४१॥

पादारुंतुदमेव पङ्कजरजश्चेटी भृशालोकितै
रङ्गम्लानिरथाम्ब साहसविधौ लीलारविन्दग्रहः।
डोला ते वनमालया हरिभुजे हा कष्टशब्दास्पदं
केन श्रीरिति कोमला तनुरियं वाचां विमर्दक्षमा॥४२॥

आमर्यादमकण्टकं स्तनयुगं नाद्यापि नालोकित
भ्रूभेदस्मितविभ्रमा जहति वानैसर्गिकत्वादयः।
सूते शैशवयौवनव्यतिकरो गात्रेषु ते सौरभं
भोगस्त्रोतसि कान्तदेशिककरग्राहेण गाहक्षमः॥४३॥

आमोदाद्भुतशालियौवनदशाव्याकोचमम्लानिम-
त्सौन्दर्यामृतसेकशीतलमिदं लावण्यसूत्रार्पितम्।
श्रीरङ्गेश्वरि कोमलाङ्गसुमनस्सन्दर्भणं देविते
कान्तोरःप्रतियत्नमर्हतिकविं धिङ्मामकाण्डाकुलम्॥४४॥

मर्मस्पृशोरससिराव्यतिविध्यवृत्तैः कान्तोपभोगललितैलुलिताङ्गयष्टिः ।
पुष्पावलीवरसिकभ्रमरोपभुक्ता त्वंदेवि नित्यमभिनन्दयसे मुकुन्दम् ॥

कनकरशनामुक्ताताटङ्कहारललाटिका
मणिसरतुलाकोटिप्रायैर्जनार्दनजीविके।
प्रकृतिमधुरं गात्रं जागर्तिमुग्धविभूषणै
वलयशकलैर्दुग्धं पुष्पैश्चकल्पलता यथा॥४६॥

सामान्यभोग्यमपि कौस्तुभवैजयन्ती
पञ्चायुधादिरमणस्स्वयमेवबिभ्रत्

तद्भारखेदमिव ते परिहर्तुकाम
श्श्रीरङ्गधाममणिमञ्जरिगाहतेत्वाम्॥४७॥

यदिमनुजतिरश्चां लीलयातुल्यवृत्ते
रनुजनुरनुरूपा देविनावातरिष्यः।
असरसमभविष्यन्नर्मनाथस्य मात
र्दरदलदरविन्दोदन्तकान्तायताक्षि॥४८॥

स्खलितकटकमालैर्दोर्भिरब्धिं मुरारे
र्भगवतिदधिमाथं मथ्नतश्श्रान्तिशान्त्यै।
भ्रमदमृततरङ्गावर्ततः प्रादुरासी
स्स्मितनयनसुधाभिस्सिञ्चतीचन्द्रिकेव॥४९॥

मातर्मैथिलिराक्षसीस्त्वयितदैवार्द्रापराधास्त्वया
रक्षन्त्यापवनात्मजाल्लघुतरा रामस्यगोष्टीकृता।
काकंतञ्च विभीषणं शरणमित्युक्तिक्षमारक्षत
स्सानस्सान्द्रमहागसस्सुखयतुक्षान्तिस्तवाकस्मिकी॥५०॥

मातर्लक्ष्मियथैव मैथिलजनस्तेनाध्वनातेवयं
त्वद्दास्यैकरसाभिमानसुभगैर्भावैरिहामुत्र च।
जामातादयितस्तवेति भवती सम्बन्धदृष्ट्याहरिं
पश्येमप्रतियामयाम च परीचारान्पृहृष्येमच॥५१॥

पितेवत्वत्प्रेयान्जननि परिपूर्णागसिजने
हितस्रोतोवृत्त्या भवतिच कदाचित्कलुषधीः।

किमेतन्निर्दोषःकइह जगतीतित्वमुचितै
रुपायैर्विस्मार्य स्वजनयसि मातातदसिनः॥५२॥

नेतुर्नित्यसहायिनी जननिनस्त्रातुं त्वमत्रागता
लोके त्वन्महिमावबोधबधिरे प्राप्ताविमर्दं बहु।
किष्टंग्रावसुमालती मृदुपदं विश्लिष्यवासोवने
जातोधिक्करुणांधिगस्तुयुवयोरस्वातन्त्र्यमत्यङ्कुशम्॥५३॥

अधिशयितवानब्धिं नाथो ममन्थबबन्धतं
हरधनुरसौवल्लीभंजंबभंजचमैथिलि।
अपिदशमुखं लूत्वारक्षः कबन्धमनर्तय
त्किमिवनपतिः कर्तात्वच्चाटुचुञ्चुमनोरथः॥५४॥

दशशतपाणिपादवदनाक्षि मुखैरखिलै
रपि निजवैश्वरूप्यविभवैरनुरूपगुणैः।
अवतरणैरतैश्चरसयन्कमिताकमले
क्वचनहिविभ्रमभ्रममुखेविनिमज्जतिते॥५५॥

जननि भवनप्रीत्या दुग्धार्णवं बहुमन्यसे
जननिदयितप्रेम्णा पुष्णासि तत्परमंपदम्।
उदधिपरमव्योम्नोर्विस्मृत्यमादृशरक्षण
क्षममितिधियाभूय श्श्रीरङ्गधामनिमोदसे॥५६॥

औदार्यकारुणिकताश्रितवत्सलत्व पूर्वेषु सर्वमतिशायितमत्रमातः।
श्रीरङ्गधाम्नियदुतान्यदुदाहरन्ति सीतावतारमुखमेतदमुष्ययोग्यम्॥५७॥

एैश्वर्यमक्षरगतिं परमं पदं वा कस्मैचिदजलिभरं वहतेवितीर्य।
अस्मैनकिञ्चिदुचितंकृतमित्यथांब त्वं लज्जसेकथयकोऽयमुदारभावः॥५८॥

ज्ञानक्रियाभजनसम्पदकिञ्चनोह मिच्छाधिकारशकनानुशयानभिज्ञः।
आगांसि देवियुवयोरपि दुस्सहानि बध्नामिमूर्खचरितस्तवदुर्भरोऽस्मि॥५९॥

इत्युक्तिकैतवशतेन विडम्बयामि तानम्बसत्यवचसः पुरुषान्पुराणान्।
यद्वानमे भुजबलं तव पादपद्म लाभे त्वमेव शरणं विधितः कृताऽसि॥६०॥

श्रीरङ्गेशरदश्शतं सहसुहृद्वर्गेण निष्कण्टकं
निर्दुःखं सुसुखं च दास्यरसिकां भुक्त्वासमृद्धिंपराम्।
युष्मत्पादसरोरुहान्तररजस्स्यामत्वमम्बापिता
सर्वंचत्वमसित्वमेवभवनस्वीकुर्वकस्मात्कृपाम्॥६१॥

इति श्री पराशरभट्टारकविरचितः श्रीगुणरत्नकोशस्समाप्तः॥

<MISSING_FIG href="../books_images/U-IMG-172378521030.png"/>

॥ श्रीस्तुतिः ॥

श्रीमान्वेङ्कटनाथार्यः कवितार्किककेसरी।
वेदान्ताचार्यवर्यो मे संनिधत्तां सदा हृदि॥

मानातीतप्रथितविभवां मङ्गलं मङ्गलानां
वक्षःपीठीं मधुविजयिनो भूषयन्तीं स्वकान्त्या।

प्रत्यक्षानुश्रविकमहिमप्रार्थनीनां प्रजानां
श्रेयोमूर्तिं श्रियमशरणस्त्वां शरण्यां प्रपद्ये॥१॥

आविर्भावः कलशजलधावध्वरे वापि यस्याः
स्थानं यस्याः सरसिजवनं विष्णुवक्षःस्थलं वा।

भूमा यस्या भुवनमखिलं देवि दिव्यं पदं वा
स्तोकप्रज्ञैरनवधिभुणा स्तूयसे सा कथं त्वम्॥२॥

स्तोतव्यत्वं दिशति भवती देहिभिः स्तूयमाना
तामेव त्वामनितरगतिः स्तोतुमाशंसमानः।
सिद्धारम्भः सकलभुवनश्लाघनीयो भवेयं
सेवापेक्षा तव चरणयोः श्रेयसे कस्य न स्यात् ?॥३॥

यत्सङ्कल्पाद्भवति कमले यत्र देहिन्यमीषां
जन्मस्थेमप्रलयरचना जङ्गमाजङ्गमानाम्।
तत्कल्याणं किमपि यमिनामेकलक्ष्यं समाधौ
पूर्ण तेजः स्फुरति भवतीपादलाक्षारसाङ्कम्॥४॥

निष्प्रत्यूहप्रणयघटितं देवि नित्यानपायं
विष्णुस्त्वं चेत्यनवधिगुण द्वन्द्वमन्योन्यलक्ष्यम्।
शेषश्चित्तं विमलमनसां मौलयश्च श्रुतीनां
संपद्यन्ते विहरणविधौ यस्य शय्याविशेषाः॥५॥

उद्देश्यत्वं जननि भजतोरुज्झितोपाधिगन्धं
प्रत्यग्रूपे हविषि युवयोरेकशेषित्वयोगात्।
पद्मे पत्युस्तव च निगमैर्नित्यमन्विष्यमाणो
नावच्छेदं भजति महिमा नर्तयन्मानसं नः॥६॥

पश्यन्तीषु श्रुतिषु परितः सूरिवृन्देन सार्धं
मध्येकृत्यत्रिगुणफलकं निर्मितस्थानभेदम्।

विश्वाधीशप्रणयिनि सदा विभ्रमद्यूतवृत्तौ
ब्रह्मेशाद्या दधति युवयोरक्षशारप्रचारम्॥७॥

अस्येशाना त्वमसि जगतः संश्रयन्ती मुकुन्दं
लक्ष्मीः पद्मा जलधितनया विष्णुपत्नीन्दिरेति।
यन्नामानि श्रुतिपरिपणान्येवमावर्तयन्तो
नावर्तन्ते दुरितपवनप्रेरिते जन्मचक्रे॥८॥

त्वामेवाहुः कतिचिदपरे त्वत्प्रियं लोकनाथं
किं तैरन्तःकलहमलिनैः किंचिदुत्तीर्य मग्नैः।
त्वत्संप्रीत्यै विहरति हरौ संमुखीनां श्रुतीनां
भावारूढौ भगवति युवां दैवतं दंपती नः॥९॥

आपन्नार्तिप्रशमनविधौ बद्धदीक्षस्य विष्णो-
राजख्युस्त्वां प्रियसहचरीमैकमत्योपपन्नाम्।
प्रादुर्भावैरपि समतनुः प्राध्वमन्वीयसे त्वं
दूरोत्क्षिप्तैरिव मधुरता दुग्धराशेस्तरङ्गैः॥१०॥

धत्ते शोभां हरिमरकते तावकी मूर्तिराद्या
तन्वी तुङ्गस्तनभरनता तप्तजाम्बूनदाभा।
यस्यां गच्छन्त्युदयविलयैर्नित्यमानन्दसिन्धा-
विच्छावेगोल्लसितलहरीविभ्रमव्यक्तयस्ते॥११॥

आसंसारं विततमखिलं वाङ्मयं यद्विभूति-
र्यद्भूभङ्गात्कुसुमधनुषः किङ्करो मेरुधन्वा।

यस्यां नित्यं नयनशतकैरेकलक्ष्यो महेन्द्रः
पद्मे तासां परिणतिरसौ भावलेशैस्त्वदीयैः॥१२॥

अग्रे भर्तुः सरसिजमये भद्रपीठे निष्णा-
मम्भोराशेरधिगतसुधासंप्लवादुत्थितां त्वाम्।
पुष्पासारस्थगितभुवनैः पुष्कलावर्तकाद्यैः
क्लृप्तारम्भाः कनककलशैरम्यषिञ्चन्गजेन्द्राः॥१३॥

आलोक्य त्वाममृतसहजे विष्णुवक्षःस्थलस्थां
शापाक्रान्ताः शरणमगमन्सावरोधाः सुरेन्द्राः।
लब्ध्वा भूयस्त्रिभुवनमिदं लक्षितं त्वत्कटाक्षैः
सर्वाकारस्थिरसमुदयां संपदं निर्विशन्ति॥ १४ ॥

आर्तत्राणवृतिभिरमृतासारनीलाम्बुवाहै-
रम्भोजानामुषसि मिषतामन्तरङ्गैरपाङ्गैः।
यस्यां यस्यां दिशि विहरते देवि दृष्टिस्त्वदीया
तस्यां तस्यामहमहमिकां तन्वते संपदोघाः॥१५॥

योगारम्भत्वरितमनसो युष्मदैकान्त्ययुक्तं
धर्मं प्राप्तुं प्रथममिह ये धारयन्ते धनायाम्।
तेषां भूमेर्धनपतिगृहादम्बरादम्बुधेर्वा
धारा निर्यान्त्यधिकमधिकं वाञ्छितानां वसूनाम्॥१६॥

श्रेयस्कामाः कमलनिलये चित्रमाम्नयवाचां
चूडापीडं तव पदुयुगं चेतसा धारयन्तः।

छत्रच्छायासुभगशिरसश्चामरस्मेरपार्श्वाः
श्लाघाशब्दश्रवणमुदिताः स्रग्विणः संचरन्ति॥१७॥

ऊरीकर्तुं कुशलमखिलं जेतुमादीनरातीन्
दूरीकर्तुं दुरितनिवहं त्यक्तुमाद्यामविद्याम्।
अम्ब स्तम्बावधिकजननग्रामसीमान्तरेखा-
मालम्बन्ते विमलमनसो विष्णुकान्ते दयां ते॥१८॥

जाताकाङ्क्षा जननि युवयोरेकासेवाधिकारे
मायालीढं विभवमखिलं मन्यमानास्तृणाय।
प्रीत्यै विष्णोस्तव च कृतिनः प्रीतिमन्तो भजन्ते
वेलाभङ्गप्रशमनफलं वैदिकं धर्मसेतुम्॥१९॥

सेवे देवि त्रिदशमहिलामौलिमालार्चितं ते
सिद्धिक्षेत्रं शमितविपदां संपदां पादपद्मम्।
यस्मिन्नीषन्नमितशिरसोयापयित्वा शरीरं
वर्तिष्यन्ते वितमसि पदे वासुदेवस्य धन्याः॥२०॥

सानुप्रासप्रकटितदयैः सान्द्रवात्सल्यदिग्धै-
रम्ब स्निग्धैरमृतलहरीलब्धसब्रह्मचर्यैः।
घर्मे तापत्रयविरचिते गाढतप्तं क्षणं मा-
माकिञ्चन्यग्लपितमनघैरार्द्रयेथाः कटाक्षैः॥२१॥

संपद्यन्ते भवभयतमीभानवस्त्वत्प्रसादा-
द्भावाः सर्वे भगवति हरौ भक्तिमुद्वेलयन्तः।

याचे किं त्वामहमिह यतः शीतलोदारशीला
भूयो भूयो दिशसि महतां मङ्गललानां प्रबन्धान्॥२२॥

माता देवि त्वमसि भगवान्वासुदेवः पिता मे
जातः सोऽहं जननि युवयोरेकलक्ष्यं दयायाः।
दत्तो युष्मत्परिजनतया देशिकैरप्यतस्त्वं
किं ते भूयः प्रियमिति किल स्मेरवक्त्रा विभासि॥२३॥

कल्याणानामविकलानिधिः कापि कारुण्यसीमा
नित्यामोदा निगमवचसां मौलिमन्दारमाला।
संपद्दिव्या मधुविजयिनः संनिधत्तां सदा मे
सैषा देवी सकलभुवनप्रार्थनाकामधेनुः॥२४॥

उपचितगुरुभक्तेरुत्थितं वेङ्कटेशा-
त्कलिकलुषनिवृत्त्यै कल्प्यमानं प्रजानाम्।
सरसिजनिलयायाः स्तोत्रमेतत्पठन्तः
सकलकुशलसीमा सार्वभौमा भवन्ति॥२५॥

इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्श्रीमद्वेङ्कटनाथस्य
वेदान्ताचार्यस्य कृतिषु श्रीस्तुतिः संपूर्णा ॥

<MISSING_FIG href="../books_images/U-IMG-172368527830.png"/>

कवितार्किकसिंहाय कल्याणगुणशालिने।
श्रीमते वेङ्कटेशाय वेदान्तगुरवे नमः ॥

<MISSING_FIG href="../books_images/U-IMG-172368530330.png"/>

॥ भूस्तुतिः ॥

श्रीमान्वेङ्कटनाथार्यः कवितार्किककेसरी।
वेदान्ताचार्यवर्यो मे संनिधत्तां सदा हृदि॥

संकल्पकल्पलतिकामवधिं क्षमायाः
स्वेच्छावराहमहिषीं सुलभानुकम्पाम्।
विश्वस्य मातरमकिंचनकामधेनुं
विश्वभरामशरणः शरणं प्रपद्ये॥१॥

त्वं व्याहृतिः प्रथमतः प्रणवः प्रियस्ते
संवेदयत्यखिलमन्त्रगणस्तमेव।
इत्थं प्रतीतविभवामितरेष्विदानीं
स्तोतुं यथावदवने क इवार्हति त्वाम् ?॥२॥

नित्यं हिताहितविपर्ययबद्धभावे त्वद्वीक्षणैकविनिवर्त्य बहुव्यापाये।
मुग्धाक्षरैरखिलधारिणि मोदमाना मातःस्तनंधयधियं मयि वर्तयेथाः॥३॥

संकल्पकिंकरचराचरचक्रवालं सर्वातिशायिनमनन्तशयस्य पुंसः।
भूमानमात्मविभवैः पुनरुक्तयन्ती वाचामभूमिरसि भूमिरपि त्वमेका॥४॥

वेधस्तृणावधि विहारपरिच्छदं ते विश्वं चराचरतया व्यतिभिद्यमानम्।
अम्ब त्वदाश्रिततया परिपोषयंती विश्वंभरस्य दयितासि तदेकनामा॥५॥

सर्वंसहेत्यवनिरित्यचलेति मात-
र्विश्वंभरेति विपुलेति वसुंधरेति।
अन्यानि चान्यविमुखान्यभिधानवृत्त्या
नामान्यमूनि कथयंति तवानुभावम्॥६॥

तापान्क्षिपन्प्रसविता सुमनोगणानां
प्रच्छायशीतलतलः प्रदिशन्फलानि।
त्वत्सङ्गमाद्भवति माधवि लब्धपोषः
शाखाशतैरधिगतो हरिचन्दनोऽसौ॥७॥

स्मेरेण वर्धितरसस्य मुखेन्दुना ते
निस्पन्दतां विजहतो निजया प्रकृत्या।
विश्रान्तिभूमिरसि तत्त्वतरङ्गपंक्ते-
र्वेलेव विष्णुजलधेरपृथग्भवन्ती॥।८॥

स्वाभाविके वसुमति श्रुतिभिर्विभाव्ये
पत्युर्महिम्नि भवतीं प्रतिपन्नवासाम्।
शङ्के विमानवहनप्रतिमासमानाः
स्तम्बेरमप्रभृतयोऽपि वहन्ति सत्त्वाः॥९॥

संभावयन्मधुरिपुः प्रणयानुरोधाद्वक्षःस्थलेन वरुणालय राजकन्याम्।
विश्वंभरे बहुमुखप्रतिपन्नभोगः शेषात्मना तु भवतीं शिरसा दधाति॥१०॥

क्रीडावराहदयिते कृतिनः क्षितीन्द्राः
संक्रन्दनस्तदितरेऽपि दिशामधीशाः।
आमोदयन्ति भुवनान्यलिकाश्रिताना-
मम्ब त्वदङ्घ्रिरजसां परिणामभेदैः॥११॥

भूतेषु यत्त्वदभिमानविशेषपात्रं पोषं तदेव जयतीति विभावयन्तः।
भूतं प्रभूतगुणपञ्चकमाद्यमेव प्रायो निदर्शनतया प्रतिपादयन्ति॥१२॥

कान्तस्तवैष करुणाजलधिः प्रजानामाज्ञातिलङ्घनवशादुपजातरोषः।
अह्नाय विश्वजननि क्षमया भवत्या सर्वावगाहन सहामुपयात्यवस्थाम्॥१३॥

आश्वासनाय जगतां पुरुषे परस्मिन्नापन्नरक्षणदशामभिनेतुकामे।
अन्तर्हितेतरगुणादबलास्वभावादौदन्वते पयसि मज्जनमभ्यनैषीः॥१४॥

पूर्वं वराहवपुषा पुरुषोत्तमेन प्रीतेन भोगिसदने समुदीक्षितायाः।
पादाहताः प्रलयवारिधयस्तवासन्नुद्वाहमङ्गलविधेरुचिता मृदङ्गाः॥१५॥

व्योमातिलाङ्घनि विभोः प्रलयाम्बुराशौ
वेशन्तलेश इव मातुमशक्यमूर्तेः।
सद्यः समुद्रवसने सरसैरकार्षी-
रानन्दसागरमपारमपाङ्गपातैः॥१६॥

दंष्ट्राविदारितमहासुरशोणिताङकैरङ्गैः प्रियस्तव दधे परिरम्भलीलाम्।
सा ते पयोधिजलकेलिसमुत्थितायाः सैरन्ध्रिकेव विदधे नवमङ्गरागम्॥

अन्योन्यसंवलनजृम्भिततूर्यघोषैः संवर्तसिन्धुसलिलैर्विहिताभिषेका।
एकातपत्रयसि विश्वमिदं गुणैः स्वैरध्यास्य भर्तुरधिकोन्नतमंसपीठम्॥

भर्तुस्तमालरुचिरे भुजमध्यभागे पर्यायमौक्तिकवती पृषतैः पयोधेः।
तापानुबंधशमनी जगतां त्रयाणां तारापथे स्फुरसि तारकिता निशेव ॥

आसक्तवासवशरासनपल्लवैस्त्वां संवृद्धये शुभतटिगुणजालरम्यैः।
देवेशदिव्यमहिषीं धृतसिन्धुतोयैर्जीमूत रत्न कलशैरभिषिश्वति द्यौः॥

आविर्मदैरमरदन्तिभिरुह्यमानां रत्नाकरेण रुचिरां रशनागुणेन।
मातस्त्रिलोकजननीं वनमालिनीं त्वां मायावराहमहिषीमवयंति संतः ॥

निष्कण्टकप्रशमयोगनिषेवणीयां छायाविशेषपरिभूतसमस्ततापाम्।
स्वर्गापवर्गसरणिं भवतीमुशन्ति स्वच्छन्दसूकरवधूमवधूतपङ्काम्॥२२॥

गण्डोज्ज्वलां गहनकुन्तलदर्शनीयां शैलस्तनीं तरलनिर्झरलम्बहाराम्।
श्यामां स्वतस्त्रियुगसूकरगेहिनि त्वं व्यक्तिं समुद्रवसनामुभयीं बिभर्षि॥२३॥

निःसंशयैर्निगमसीमनि विष्णुपत्नि प्रख्यापितं भृगुमुखैर्मुनिभिः प्रतीतैः।
पश्यन्त्यनन्यपरधीरससंस्तुतेन सन्तः समाधिनयनेन तवानुभावम्॥२४॥

सञ्चोदिता करुणया चतुरः पुमर्थान् व्यातन्वती विविधमन्त्रगणोपगीता।
सञ्चिन्त्यसे वसुमति स्थिरभक्तिबन्धैः अन्तर्बहिश्च बहुधा प्रणिधानदक्षैः॥२५॥

क्रीडागृहीतकमलादिविशेषचिह्नां
विश्राणिताभयकरां वसुधे सभूतिम्।
दौर्गत्यदुर्विषविनाशसुधानदीं त्वां
सञ्चिन्तयन् हि लभते धनदाधिकारान्॥२६॥

उद्वेलकल्मषपरम्परितादमर्षात् उत्तंसितेन हरिमञ्जलिनाऽप्यधृष्यम्।
आकस्मिकोऽयमधिगम्ययति प्रजानां अम्ब त्वदीयकरुणापरिणाम एव॥२७॥

प्रत्येकमब्दनियुतैरपि दुर्व्यपोहात् प्राप्ते विपाकसमये जनितानुतापात्।
नित्यापराधनिवहाच्चकितस्य जन्तोः गन्तुं मुकुन्दचरणौ शरणं क्षमे त्वम्॥२८॥

त्राणाभिसन्धिसुभगेऽपि सदा मुकुन्दे संसारतन्त्रवहनेन विलम्बमाने।
रक्षाविधौ तनुभृतामनघानुकम्पा मातः स्वयं वितनुषे महतीमपेक्षाम्॥२९॥

धर्मद्रुहं सकलदुष्कृतिसार्वभौमं आत्मानभिज्ञमनुतापलवोज्झितं माम्।
वैतानसूकरपतेश्चरणारविन्दे सर्वंसहे ननु समर्पयितुं क्षमा त्वम्॥३०॥

तापत्रयीं निरवधिं भवतीदयार्द्राः संसारघर्मजनितां सपदि क्षिपन्तः।
मातर्भजंन्तु मधुरामृतवर्षमैत्रीं मायावराहदयिते मयि ते कटाक्षाः॥३१॥

पत्युर्दक्षिणपाणिपङ्कजपुटे विन्यस्तपादाम्बुजा
वामं पन्नगसार्वभौमसदृशं पर्यङ्कयन्ती भुजम्।
पोत्रस्पर्शलसत्कपोलफलका फुल्लारविन्देक्षणा
सा मे पुष्यतु मङ्गलान्यनुदिनं सर्वाणि सर्वंसहा॥३२॥

अस्येशाना जगत इति या श्रूयते विष्णुपत्नी
तस्याः स्तोत्रं विरचितमिदं वेङ्कटेशेन भक्त्या ।
श्रद्धाभक्तिप्रचयगुरुणा चेतसा संस्तुवानो
यद्यत्कामः सपदि लभते तत्र तत्र प्रतिष्ठाम् ॥ ३३॥

इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्यश्रीमद्वेङ्कटनाथस्य
वेदान्ताचार्यस्य कृतिषु भूस्तुतिःसंपूर्णा॥
<MISSING_FIG href="../books_images/U-IMG-172406039230.png"/>
कवितार्किकसिंहाय कल्याणगुणशालिने।
श्रीमतेवेङ्कटेशाय वेदान्तगुरवे नमः॥
<MISSING_FIG href="../books_images/U-IMG-172406040630.png"/>

॥गोदास्तुतिः॥

श्रीमान्वेङ्कटनाथार्यः कवितार्किककेसरी।
वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि॥

श्रीविष्णुचित्तकुलनन्दनकल्पवल्लीं श्रीरङ्गराजहरिचन्दनयोगदृश्याम्। साक्षात्क्षमां करुणया कमलामिवान्यां गोदामनन्यशरणः शरणं प्रपद्ये॥१॥


त्वत्प्रेयसः श्रवणयोरमृतायमानां तुल्यां त्वदीयमणिनूपुरशिञ्जितानाम्। गोदे त्वमेव जननि त्वदभिष्टवार्हां वाचं प्रसन्नमधुरां मम संविधेहि॥३॥

कृष्णान्वयेन दधतीं यमुनानुभावं तीर्थैर्यथावदवगाह्य सरस्वतीं ते। गोदे विकस्वरधियां भवतीकटाक्षा द्वाचः स्फुरन्ति मकरन्दमुचः कवीनाम्॥४॥

अस्मादृशामपकृतौ चिरदीक्षितानाम् मह्नाय देवि दयते यदसौ मुकुन्दः। तन्निश्चितं नियमितस्तव मौलिदाम्ना तन्त्रीनिनादमधुरैश्च गिरां निगुम्भैः॥५॥

शोणाधरेऽपि कुचयोरपि तुङ्गभद्रा वाचां प्रवाहनिवहेऽपि सरस्वती त्वम्। अप्राकृतैरपि रसैर्विरजा स्वभावात् गोदाऽपि देवि कमितुर्ननु नर्मदाऽसि॥६॥

वल्मीकतः श्रवणतो वसुधात्मनस्ते जातो बभूव स मुनिः कविसार्वभौमः। गोदे किमद्भुतमिदं यदमी स्वदन्ते वक्त्रारविन्दमकरन्दनिभाः प्रबन्धाः॥७॥ ```

भोक्तुं तव प्रियतमं भवतीव गोदे  
भक्तिं निजां प्रणयभावनया गृणन्तः।  
उच्चावचैर्विरहसङ्गमजैरुदन्तैः  
शृङ्गारयन्ति हृदयं गुरवस्त्वदीयाः  
मातः समुत्थितवतीमधिविष्णुचित्तं  
विश्वोपजीव्यममृतं वचसा दुहानाम्।  
तापच्छिदं हिमरुचेरिव मूर्तिमन्यां  
सन्तः पयोधिदुहितुः सहजां विदुस्त्वाम्  
तातस्तु ते मधुभिदः स्तुतिलेशवश्या-  
त्कर्णामृतैः स्तुतिशतैरनवाप्तपूर्वम्।  
त्वन्मौलिगंधसुभगामुपहृत्य मालां  
लेभे महत्तरपदानुगुणं प्रसादम्॥  
दिग्दक्षिणापि परिपक्त्रिमपुण्यलभ्या-  
त्सर्वोत्तरा भवति देवि तवावतारात्।  
यत्रैव रङ्गपतिना बहुमानपूर्वं  
निद्रालुनापि नियतं निहिताः कटाक्षाः  
प्रायेण देवि भवतीव्यपदेशयोगात्  
गोदावरी जगदिदं पयसा पुनीते।  
यस्यां समेत्य समयेषु चिरं निवासात्  
भागीरथीप्रभृतयोऽपि भवन्ति पुण्याः

नागेशयः सुतनु पक्षिरथः कथं ते  
जातः स्वयंवरपतिः पुरुषः पुराणः।  
एवं विधाः समुचितं प्रणयं भवत्याः  
सन्दर्शयन्ति परिहासगिरः सखीनाम्॥१३॥

त्वद्भुक्तमाल्यसुरभीकृतचारुमौले  
र्हित्वा भुजान्तरगतामपि वैजयन्तीम्।  
पत्युस्तवेश्वरि मिथः प्रतिघातलोलाः  
बर्हातपत्ररुचिमारचयन्ति भृङ्गाः॥१४॥

आमोदवत्यपि सदा हृदयङ्गमाऽपि  
रागान्विताऽपि ललिताऽपि गुणोत्तराऽपि।  
मौलिस्रजा तव मुकुन्दकिरीटभाजा  
गोदे भवत्यधरिता खलु वैजयन्ती॥१५॥

त्वन्मौलिदामनि विभोः शिरसा गृहीते  
स्वच्छन्दकल्पितसपीतिरसप्रमोदाः।  
मञ्जुस्वना मधुलिहो विदधुः स्वयं ते  
स्वायंवरं कमपि मङ्गलतूर्यघोषम्॥१६॥

विश्वायमानरजसा कमलेन नाभौ  
वक्षःस्थले च कमलास्तनचन्दनेन।  
आमोदितोऽपि निगमैर्विभुरङ्घ्रियुग्मे  
धत्ते नतेन शिरसा तव मौलिमालाम्॥१७॥

चूडापदेन परिगृह्य तवोत्तरीयं  
मालामपि त्वदलकैरधिवास्य दत्ताम्।  
प्रायेण रङ्गपतिरेष बिभर्ति गोदे  
सौभाग्यसम्पदभिषेकमहाधिकारम्॥१८॥

तुङ्गैरकृत्रिमगिरः स्वयमुत्तमाङ्गैः  
र्यं सर्वगन्ध इति सादरमुद्वहन्ति।  
आमोदमन्यमधिगच्छति मालिकाभिः  
सोऽपि त्वदीयकुटिलालकवासिताभिः॥१९॥

धन्ये समस्तजगतां पितुरुत्तमाङ्गे  
त्वन्मौलिमाल्यभरसम्भरणेन भूयः।  
इन्दीवरस्रजमिवादधति त्वदीया-  
न्याकेकराणि बहुमानविलोकितानि॥२०॥

रङ्गेश्वरस्य तव च प्रणयानुबन्धा-  
दन्योन्यमाल्यपरिवृत्तिमभिष्टुवन्तः।  
वाचालयन्ति वसुधे रसिकास्त्रिलोकीं  
न्यूनाधिकत्वसमताविषयैर्विवादैः॥२१॥

दूर्वादलप्रतिमया तव देवि कान्त्या  
गोरोचनारुचिरया च रुचेन्दिरायाः।  
आसीदनुज्झितशिखावलकण्ठशोभं  
माङ्गल्यदं प्रणमतां मधुवैरिगात्रम्॥२२॥

अर्च्यं समर्च्य नियमैर्निगमप्रसूनैः  
र्नाथं त्वया कमलया च समेयिवांसम्।  
मातश्चिरं निरविशन्निजमाधिराज्यं  
मान्या मनुप्रभृतयोऽपि महीक्षितस्ते॥२३॥

आर्द्रापराधिनि जनेऽप्यभिरक्षणार्थं  
रङ्गेश्वरस्य रमया विनिवेद्यमाने।  
पार्श्वे परत्र भवती यदि तत्र नासीत्  
प्रायेण देवि वदनं परिवर्तितं स्यात्॥२४॥

गोदे गुणैरपनयन् प्रणतापराधान्  
भ्रूक्षेप एव तव भोगरसानुकूलः।  
कर्मानुबन्धि फलदानरतस्य भर्तुः  
स्वातन्त्र्यदुर्व्यसनमर्मभिदानिदानम्॥२५॥

रङ्गे तटिद्गुणवतो रमयैव गोदे  
कृष्णाम्बुदस्य घटितां कृपया सुवृष्ट्या।  
दौर्गत्यदुर्विषविनाशसुधानदीं त्वां  
सन्तः प्रपद्य शमयन्त्यचिरेण तापान् ॥ २६॥

जातापराधमपि मामनुकम्प्य गोदे  
गोप्त्री यदि त्वमसि युक्तमिदं भवत्याः ।  
वात्सल्यनिर्भरतया जननी कुमारं  
स्तन्येन वर्धयति दष्टपयोधराऽपि ॥ २७॥

शतमखमणिनीला चारुकल्हारहस्ता  
स्तनभरनमिताङ्गी सान्द्रवात्सल्यसिन्धुः।  
अलकविनिहिताभिः स्रग्भराकृष्टनाथा।  
विलसतु हृदि गोदा विष्णुचित्तात्मजा नः॥२८॥

इति विकसितभक्तेरुत्थितां वेङ्कटेशात्  
बहुगुणरमणीयां वक्ति गोदास्तुतिं यः।  
स भवति बहुमान्यः श्रीमतो रङ्गभर्तुः  
चरणकमलसेवां शाश्वतीमभ्युपैष्यन् ॥ २९॥

इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्यश्रीमद्वेङ्कटनाथस्य  
वेदान्ताचार्यस्य कृतिषु गोदास्तुतिः संपूर्णा॥

<MISSING_FIG href="../books_images/U-IMG-172406153930.png"/>

कवितार्किकसिंहाय कल्याणगुणशालिने।  
श्रीमते वेङ्कटेशाय वेदान्तगुरवे नमः॥  
<MISSING_FIG href="../books_images/U-IMG-172406155230.png"/>

**॥ षोडशायुधस्तोत्रम्‌ ॥**

श्रीमान्वेङ्कटनाथार्यःकवितार्किककेसरी।  
वेदान्ताचार्यवर्योमेसन्निधत्तां सदा हृदि॥

स्वसङ्कल्पकलाकल्पैरायुधैरायुधेश्वरः।  
जुष्टः षोडशभिर्दिव्यैर्जुषतां वः परः पुमान् ॥ १॥  
यदायत्तं चगच्चक्रं कालचक्रं च शाश्वतम्।  
पातु वस्त्वपरं चक्रं चक्ररूपस्य चक्रिणः ॥ २॥

यत्प्रसूतिशतैरासन् द्रुमाः परशुलाञ्छिताः।  
स दिव्यो हेतिराजस्य परशुः परिपातु वः॥३॥

हेलया हेतिराजेन यस्मिन् दैत्याः समुद्धृते।  
शकुन्ता इव धावन्ति स कुन्तः पालयेत वः॥४॥

दैत्यदानवमुख्यानां दण्ड्यानां येन दण्डनम्।  
हेतिदण्डेशदण्डोऽसौ भवतां दण्डयेद्विषः॥५॥

अनन्यान्वयभक्तानां रुन्धन्नाशामतङ्गजान्।  
अनङ्कुशविहारो वः पातु हेतीश्वराङ्कुशः॥६॥

सम्भूय शलभायन्ते यत्र पापानि देहिनाम्।  
स पातु शतवक्त्राग्निहेतिर्हेतीश्वरस्य वः॥७॥

अविद्यां स्वप्रकाशेन विद्यारूपश्छिनत्ति यः।  
स सुदर्शननिस्त्रिंशः सौतु वस्तत्त्वदर्शनम्॥८॥

क्रियाशक्तिगुणो विष्णोर्यो भवत्यतिशक्तिमान्।  
अकुण्ठशक्तिः सा शक्तिरशक्तिं वारयेत नः॥९॥

तारत्वं यस्य संस्थाने शब्दे च परिदृश्यते।  
प्रभोः प्रहरणेन्द्रस्य पाञ्चजन्यः स पातु वः॥१०॥

यं सात्त्विकमहङ्कारमामनन्त्यक्षसायकम्।  
अव्याद्वश्चक्ररूपस्य तद्धनुः शार्ङ्गिधन्वनः॥११॥

आयुधेन्द्रेण येनैव विश्वसर्गो विमुच्यते।  
स वः सौदर्शनः कुर्यात्पाशः पाशविमोचनम् ॥१२॥

विहारो धेन देवस्य विश्वक्षेत्रकृषीवलः।  
व्यज्यते तेन सीरेण नासीरविजयोऽस्तु वः॥१३॥

आयुधानामहं वज्रं इत्यगीयत यः स वः।  
अव्याद्धेतीशवज्रोऽसावदधीच्यस्थिसम्भवः॥१४॥

विश्वसंहृतिशक्तिर्या विश्रुता बुद्धिरूपिणी।  
सा नः सौदर्शनी भूयाद्गदप्रशमिनी गदा॥१५॥

यात्यतिक्षोदशालित्वं मुसलो येन तेन वः।  
हेतीशमुसलेनाशु भिद्यतां मोहमौसलम्॥१६॥

शूलिदृष्टमनोर्वाच्यो येन शूलयति द्विषः।  
भवतां तेन भवतात्त्रिशूलेन विशूलता॥१७॥

अस्त्रग्रामस्य कृत्स्नस्य प्रसूतिं यं प्रचक्षते।  
सोऽव्यात्सुदर्शनो विश्वमायुधैः षोडशायुधः॥१८॥

श्रीमद्वेङ्कटनाथेन श्रेयसे भूयसे सताम्।  
कृतेयमायुधेन्द्रस्य षोडशायुधसंस्तुतिः॥१९॥

इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्यश्रीमद्वेङ्कटनाथस्य  
वेदान्ताचार्यस्य कृतिषु षोडशायुधस्तोत्रं संपूर्णम्॥  
<MISSING_FIG href="../books_images/U-IMG-172406199230.png"/>  
कवितार्किकसिंहाय कल्याणगुणशालिने।  
श्रीमतेवेङ्कटेशाय वेदान्तगुरवे नमः॥  
<MISSING_FIG href="../books_images/U-IMG-172406200730.png"/>

**॥ सुदर्शनाष्टकम्‌ ॥**

श्रीमान्वेङ्कटनाथार्यःकवितार्किककेसरी।  
वेदान्ताचायवर्योमे संनिधत्तां सदा हृदि॥

प्रतिभटश्रेणिभीषण वरगुणस्तोमभूषण  
जनिभयस्थानतारण जगदवस्थानकारण।  
निखिलदुष्कर्मकर्शन निगमसद्धर्मदर्शन  
जय जय श्रीसुदर्शन जय जय श्रीसुदर्शन॥१॥

शुभजगद्रूपमण्डन सुरगणत्रासखण्डन  
शतमखब्रह्मवन्दित शतपथब्रह्मनन्दित।  
प्रथितविद्वत्सपक्षित भजदहिर्बुध्न्यलक्षित जय जय० ॥२॥

स्फुटतटिज्जालपिञ्जर पृथुतरज्वालपञ्जर  
परिगतप्रत्नविग्रह परिमितप्रज्ञदुर्ग्रह।  
प्रहरणग्राममण्डित परिजनत्राणपण्डित जय जय ०॥३॥

निजपदप्रीतसगुण निरुपधिस्फीत षड्गुण  
निगमनिर्व्यूढवैभव निजपरव्यूह वैभव ।  
हरिहयद्वोपदारण हरपुरप्लोषकारण जय जय०॥४॥

दुनुजविस्तार कर्तन जनितमिस्राविकर्तन  
दनुजविद्यानिकर्तन भजदविद्यानिवर्तन ।  
अमरदृष्टस्वविक्रम समरजुष्टभ्रमिक्रम जय जय ०॥५॥

प्रतिमुखालीढबन्धुर पृथुमहाहेति दन्तुर  
विकटमायाबहिष्कृत विविधमालापरिष्कृत।  
पृथुमहायन्त्रतन्त्रित दृढदयातन्त्रयन्त्रित जय जय ०॥६॥

महितसंपत्सदक्षर विहितसंपत्षडक्षर  
षडरचक्रप्रतिष्ठित सकलतत्त्वप्रतिष्ठित।  
विविधसंकल्पकल्पक विबुधसंकल्पकल्पक जय जय०॥७॥

भुवननेतस्त्रयीमय सवनतेजस्त्रयीमय  
निरवधिस्वादुचिन्मय निखिलशक्ते जगन्मय।  
अमितविश्वक्रियामय शमितविष्वग्भयामय जय जय०॥८॥

द्विचतुष्कमिदं प्रभूतसारं पठतां वेङ्कटनायकप्रणीतम्।  
विषमेऽपि मनोरथः प्रधावन्नविहन्येत रथाङ्गधुर्यगुप्तः॥९॥

इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्यश्रीमद्वेङ्कटनाथस्य  
वेदान्ताचार्यस्य कृतिषु सुदर्शनाष्टकंसंपूर्णम्॥  
<MISSING_FIG href="../books_images/U-IMG-1724755832mn.png"/>  
कवितार्किकसिंहाय कल्याणगुणशालिने।  
श्रीमतेवेङ्कटेशाय वेदान्तगुरवे नमः॥  
<MISSING_FIG href="../books_images/U-IMG-1724755862mn.png"/>

**॥ सुदर्शनशतकम्‌ ॥**

रङ्गेशविज्ञप्तिकरामयस्य चकार चक्रेशनुतिंनिवृत्तये।  
समाश्रयेयं वरपूरणीयं तं कूरनारायणनामकंमुनिम्‌॥

सौदर्शन्युज्जिहाना दिशि विदिशितिरस्कृत्य सावित्रमर्चि-  
र्बाह्याबाह्यान्ध्कारक्षतजगदगदंकारभूम्ना स्वधाम्ना।  
दोःखर्जूदूरगर्जद्विबुधरिपुवधूकण्ठकैवल्यकल्या  
ज्वालाजाज्वल्यमानावितरतुभवतांवीप्सयाऽभिप्सितानि॥१॥

प्रत्युद्यातं मयूखैर्नभसि दिनकृतः प्राप्तसेवं प्रभाभि-  
र्भूमौ सौमेरवीभिर्दिविवरिवसितं दीप्तिभिर्देवधाम्नाम्।  
भुयस्यैभूतयेव स्फुरतु सकलदिग्भ्रान्तसान्द्रस्फुलिङ्गं  
चाक्रं जाग्रत्प्रतापं त्रिभुवनविजयव्यग्रमुग्रंमहस्तत्॥२॥

पूर्णेपूरैस्सुधानां सुमहति लसतस्सोमबिम्बालवाले-  
बाहाशाखावरुद्धं क्षितिगगनदिवश्चक्रराजद्रुमस्य।  
ज्योतिश्छद्माप्रवालः प्रकटितसुमनस्सम्पदुत्तंसलक्ष्मीं  
पुष्णन्नाशामुखेषु प्रदिशतु भवतां सप्रकर्षं प्रहर्षम्॥३॥

आरादारात्सहस्राद्विसरति विमतक्षेपदक्षाद्यदक्षा-  
न्नाभेर्भास्वत्सनाभेर्निजविभवपरिच्छिन्नभूमेश्च नेमेः।  
आम्नायैरेककण्ठैः स्तुतमहिममहोमाधवीयस्य हेते-  
स्तद्वोदिक्ष्वेधमानं चतसृषु चतुरः पुष्यतात्पूरुषार्थान्॥४॥

श्यामंधामप्रसृत्याक्वचनभगवतः क्वापि बभ्रु प्रकृत्या  
शुभ्रं शेषस्यभाषा क्वचन मणिरुचा क्वापितस्यैव रक्तम्।  
नीलं श्रीनेत्रकान्त्या क्वचिदपि मिथुनस्यादिमस्येवचित्रां  
व्याप्तन्वानं वितानश्रियमुपचिनुताच्छर्म वश्चक्रभानम्॥५॥

शंसन्त्युन्मेषमुच्छोषितपरमहसोभास्वतः कैटभारे-  
रिन्धेसन्ध्येवनक्तञ्चरविलयकरी या जगद्वन्दनीया।  
बन्धूकच्छायबन्धुच्छविघटितघनच्छेदमेदस्विनी सा  
राथाङ्गी रश्मिभङ्गी प्रणुदतु भवतां प्रत्यहोत्थानमेनः॥६॥

``` साम्यंधूम्याप्रवृद्ध्या प्रकटयति नभस्तारकाजालकानि स्फौलिङ्गीं यान्तिकान्तिं दिशतियदुदयेमेरुरङ्गारशङ्काम्। अग्निर्मग्नार्चिरैक्यं भजति दिननिशावल्लभौ दुर्लभाभौ ज्वालावर्ताविव स्तः प्रहरणपतिजं धाम वस्तद्धिनोतु॥७॥

दृष्टेऽधिव्योमचक्रे विकचनवजपासन्निकाशे सकाशं स्वर्भानुर्भानुरेष स्फुटमिति कलयन्नागतोवेगतोऽस्य। निष्टप्तोयैर्निवृत्तो विधुमिवसहसास्प्रष्टुमद्यापिनेष्टे घर्मांशुं ते घटन्तामहितविहतये भानवो भास्वरावः॥८॥

देवं हेमाद्रितुङ्गं पृथुभुजशिखरं बिभ्रतीं मध्यदेशे नाभिद्वीपाभिरामामरविपिनवतीं शेषशीर्षासनस्थाम्। नेमिं पर्यायभूमिं दिनकरकिरणादृष्टसीमःपरीत्य प्रीत्यै वश्चक्रवालाचल इव विलसन्नस्तुदिव्यास्त्ररश्मिः॥९॥

एकं लोकस्य चक्षुर्द्विविधमपनुदत्कर्मनम्रत्रिनेत्रं दात्रर्थानां चतुर्णां गमयदरिगणं पञ्चतां षड्गुणाढ्यम्। सप्तार्चिःशोषिताष्टापदनवकिरणश्रेणिरज्यद्दशांशं पर्यस्याद्वश्शताङ्गावयवपरिवृढज्योतिरीतीसहस्रम्॥१०॥

उच्चण्डेयच्छिखण्डे निबिडयति नभः क्रोडमर्कोऽटतिद्या- मभ्यस्य प्रौढतापग्लपितवपुरपोबिभ्रतीरभ्रपङ्क्तीः। धत्ते शुष्यत्सुधोत्सो विधुरपमधुनः क्षौद्रकोशस्य साम्यं रक्षन्त्वस्त्रप्रभोस्ते रचितसुचरितव्युष्टयो घुष्टयोवः॥११॥ ```

``` पद्मौघोदीर्घिकाम्भस्यवनिधरतटेगैरिकाम्बुप्रपात सिन्दूरं कुञ्जराणां दिशिदिशि गगने सान्ध्यमेघप्रबन्धः। पारावारे प्रवालो वनभुवि च तथा प्रेक्ष्यमाणः प्रमुग्धैः स्साधिष्ठं वः प्रमोदं जनयतु दनुजद्वेषिणस्त्वैषराशिः॥१२॥

भानोभानोत्वदीया स्फुरति कुमुदिनी मित्रते कुत्र तेज- स्तारास्तारादधीरोऽस्यनलनभवतःस्वैरमैरंम्मदार्चिः। शंसन्तीत्थं नभःस्थायदुदयसमये चक्रराजांशवस्ते युष्माकं प्रौढतापप्रभवगदापक्रमाय क्रमन्ताम्॥१३॥

जग्ध्वा कर्णेषु दूर्वाङ्कुरमरिसुदृशामक्षिषु स्वर्वधूनां पीत्वा चाम्भश्चरन्त्यः सवृषमनुगतावल्लवेनादिमेन। गावोवश्चक्रभर्तुः परममृतरसंप्रश्रितानां दुहाना ऋद्धिं स्वालोकलुप्तत्रिभुनतमसः सानुबन्धां ददन्ताम्॥१४॥

सेनांसेनांमघोनो महतिरणमुखेऽलंभयं लम्भयन्ती- रुत्सेकोष्णालुदोष्णां प्रथमदिविषदामावलीर्यावलीढे। विश्वं विश्वम्भराद्यं रथपदधिपतेर्लीलया पालयन्ती वृद्धिस्सा दीधितीनां वृजिनमनुजनुर्मार्जयत्वार्जितं वः॥१५॥

तप्तास्वेनोष्मणेव प्रतिभटवपुषामस्रधारांधयन्ती प्राप्तेवक्षीबभावं प्रतिदिशमसकृत्तन्वतीघूर्णितानि। वंशास्थिस्फोटशब्दं प्रकटयति पटून्याऽऽवहन्त्यट्टहासान् भास्स्वावस्स्यन्दनाङ्गप्रभुसमुदयिनीस्पन्दतां चिन्तिताय॥१६॥ ```

``` देवैरासेव्यमानोदनुजभटभुजादण्डदर्पोष्णतप्तै- राशारोधोऽतिलङ्घी लुठदुडुपटलीलक्ष्यडिण्डीरपिण्डः। रिङ्गज्ज्वालातरङ्गत्रुटितरिपुतरुव्रातपातोग्रमार्ग- श्चाक्रोवश्शोचिरोधशमयतुदुरितापह्नवं दाववह्निम्॥१७॥

भ्राम्यतीसंश्रितानां भ्रमशमनकरीच्छन्नसूर्यप्रकाशा सूर्यालोकानुरूपारिपुहृदयतमस्कारिणी निस्तमस्का। धारासम्पातिनीच प्रकटितदहना दीप्तिरस्त्रेशितुर्व- श्चित्रा भद्राय विद्रावितविमतजना जायतामायताय॥१८॥

निन्ये वन्येवकाशीदवशिखिजटिलज्योतिषा येनदाहं कृत्या वृत्त्याविलिल्येशलभसुलभया यत्र चित्रप्रभावे। रुद्रोऽप्यद्रेर्दुहित्रा सह गहनगुहां यद्भयादभ्ययासी द्दिश्याद्विश्वार्चितोवस्स्शुभमनिभृतं शौरिहेति प्रतापः॥१९॥

उद्यन्बिम्बादुदारां नयनजलहिमं मार्जयन्निर्जरीणा- मज्ञानध्वान्तमूर्च्छाकरजनिरजनीभञ्जनव्यञ्जिताध्वा। न्यक्कुर्वाणोग्रहाणां स्फुरणमपहरन्नर्चिषः पावकीया- श्चक्रेशार्कप्रकाशो दिशतुदशदिशोव्यश्नुवानं यशोवः॥२०॥

वर्गस्य स्वर्गधाम्नामपि दनुजनुषां विग्रहं निग्रहीतुं दातुं सद्योऽबलानां श्रियमतिशयिनीं पत्रभङ्गानुवृत्या। योक्तुं देदीप्यते या युगपदपि पुरो भूतिमय्या प्रकृत्या सा वो नुद्यादविद्यां द्युतिरमृतरसस्यन्दिनीस्यान्दनाङ्गी॥२१॥ ```

``` दाहंदाहं सपत्नान्समरभुविलसद्भस्मना वर्त्मनायान् क्रव्यादप्रेतभूताद्यभिलषितपुषा प्रीतकापालिकेन। कङ्कालैः कालधौतं गिरिमिवकुरुते यास्वकीर्तेर्विहर्तुं घृष्टिस्सान्दृष्टिकंवस्सकलमुपनयत्वायुधाग्रेसरस्य॥२२॥

दग्धानां दानवानां सभसितनिचयैरस्थिभिः सर्वशुभ्रां पृथ्वीं कृत्वापिभूयो नवरुधिरझरी कौतुकं कौणपेभ्यः। कुर्वाणं बाष्पपूरैः कुचतटघुसृण क्षालनैस्तद्वधूनां पापं पापच्यमानं शमयतुभवतामस्त्रराजस्य तेजः॥२३॥

मागान्मोषं ललाटानल इति मदनद्वेषिणाध्यायतेव स्रष्ट्राप्रोन्निद्रवासाम्बुजदलपटलप्लोषमुत्पश्यतेव। वज्राग्निर्मास्मनाशं व्रजदितिचकितेनेव शक्रेणबद्धै स्स्तोत्रैरस्त्रेश्वरस्यद्यतुदुरितशतं द्योतमानाद्युतिर्वः॥२४॥

॥इति ज्वालावर्णनम्॥

शस्त्रास्त्रं शात्रवाणां शलभकुलमिवज्वालयालेलिहाना घौषैस्स्वैः क्षोभयन्ती विघटितभगवद्योगनिद्रा स्समुद्रान्। व्यूढोरः प्रौढचार त्रुटितपटुरटत्कीकसक्षुण्णदैत्या नेमि सौदर्शनीव श्श्रियमतिशयिनीं दाशताशताब्दम्॥२५॥

धाराचक्रस्य तारागणकपिशघृणिद्योतितद्युप्रचारा पारावाराम्बुपूरक्वथनपिशुनितोत्तालपातालयात्रा। गोत्राद्रिस्फोटशब्द प्रकटितवसुधामण्डली चण्डयाना पन्थानंवः प्रदिश्यात्प्रशमनकुशला पाप्मना मात्मनीनम्॥२६॥ ```

``` यात्रायात्रातलोका प्रकटितवरुणत्रासमुद्रे समुद्रे 
सत्त्वासत्त्वासहोष्मा कृतसगरुदगस्पन्ददानाददाना। 
हानिंहानिन्दितानां जगतिपरिषदां दानवीनां नवीनां 
चक्रे चक्रेशनेमि श्शममुपहरता त्सप्रभावप्रभावः॥२७॥

यत्रामित्रान्दिधक्षौ प्रविशति बलिनो दामनिस्सीमधाम्नि ग्रस्तापस्तापशीर्णैः प्रगुणितसिकतो मौक्तिकैश्शौक्तिकेयैः। राशि र्वारामपारां प्रकटयति पुनर्वैरिदाराश्रुपूरै र्वृद्धिंनिर्याति निर्यापयतु स दुरितान्यस्त्रधुर्यप्रधिर्वः॥२८॥

कक्ष्यातौल्येन कद्रूतनयफणमणीन्कल्यदीपस्य युञ्जन् पातालान्तः प्रपाती निखिलमपितमस्स्वेन धाम्नानिगीर्य। दैतेयप्रेयसीनां वमति हृदि हतप्रेयसां भूयसांय- श्चक्राग्रीयाग्रदेशो दहतु विलसितं भूयसा मंहसांवः॥२९॥

कृष्णाम्भोदस्य भूषा कृतनयननयव्याहतिर्भार्गवस्य प्राप्तामावेदयन्ती प्रतिभटसुदृशामुद्भटां वाष्पवृष्टिम्। निष्टप्ताष्टापदश्री स्समममरचमूगर्जितैरुज्जिहाना कीर्तिवः केतकीभिः प्रथयतु सदृशीं चञ्चलाचक्रधारा॥३०॥

वप्राणांभेदिनीं यः परिणतिमखिलश्लाघनीयां दधानः क्षुण्णां नक्षत्रमालां दिशिदिशिविकिरन्विद्युतातुल्यकक्ष्यः। निर्याणेनोत्कटेन प्रकटयति नवं दानवारिप्रकर्षं चक्राधीशस्य भद्रो वशयतु भवतां सप्रधि श्चित्तवृत्तिम्॥३१॥ ```

``` नाकौकश्शत्रुजत्रु त्रुटनविघटित स्कन्धनीरन्ध्र निर्य न्नव्यक्रव्यास्र हव्य ग्रसन रसलसज्ज्वालजिह्वालवह्निम्। यं दृष्ट्वा सांयुगीनं पुनरपि विदधत्याशिषोवीर्यवृद्ध्यै गीर्वाणानिर्वृणाना वितरतु स जयं विष्णुहेतिप्रधिर्वः॥३२॥

धन्वाध्वन्यस्यधारा सलिलमिवधनं दुर्गतस्येवदृष्टि- र्जात्यन्धस्येव पङ्गोः पदविहृतिरिव प्रीणनीप्रेमभाजाम् । पत्युर्मायाक्रियायां प्रकटपरिणतिर्विश्वरक्षाक्षमायां माया मायामिनींव स्त्रुटयतु महती नेमिरस्त्राधिपस्य॥३३॥

त्राणंया विष्टपानां वितरति  दयया कल्प्यतेकामपूर्ति- र्नस्थातुं यत्पुरस्तात्प्रभवति कलयाप्योषधीनामधीशः। उन्मेषोयाति यस्या नसमयनियतिं साश्रियं वः प्रदेया- न्न्यक्कृत्यद्योतमाना त्रिपुरहरदृशं नेमिरस्त्रेश्वरस्य॥३४॥

नक्षत्रक्षोदभूतिप्रकरविकिरणश्वेतिताशावकाशा जीर्णैः पर्णैरिवद्यां जलधरपटलैश्चूर्णितैरूर्णुवाना। आजावाजानवाजानतरिपुजनतारण्य मावर्तमाना नेमिर्वात्येवचाक्री प्रणुदतुभवतां संहतंपापतूलम्॥३५॥

क्षिप्त्वा नेपथ्यशाटीमिव जलदघटां जिष्णुकोदण्डचित्रां तारापुञ्जं प्रसूनाञ्जलिमिव विपुले व्योमरङ्गेविकीर्य। निर्वेदग्लानिचिन्ताप्रभृतिपरवशा नन्तरादानवेन्द्रान् नृत्यन्नानालयाढ्यं नटइवतनुतां शर्म चक्रप्रधिर्वः॥३६॥ ```

``` दौर्गत्यप्रौढतापप्रतिभटविभवा वित्तधाराःसृजन्ती गर्जन्ती चीत्क्रियाभिर्ज्वलदनलशिखोद्दामसौदामनीका। अव्यात्क्रव्याद्वधूटीनयनजलभरैर्दिक्षु नव्याननाव्या त्पुष्यन्ती सिन्धुपूरान् रथचरणपतेर्नेमिकादम्बिनीवः॥३७॥

सन्दोहं दानवानामजसमजमिवा लभ्यजाज्वल्यमाने वह्नावह्नाय जुह्वत्त्रिदशपरिषदे स्वस्वभागप्रदायी। स्तोत्रैर्बह्मादिगीतैर्मुखरपरिसरं श्लाघ्यशस्त्रप्रयोगं प्राप्तः सङ्ग्रामसत्रं प्रधिरसुररिपोः प्रार्थितं प्रस्नुतां वः॥३८॥ 

॥इति नेमिवर्णनम्॥

उत्पातालातकल्पा न्यसुरपरिषदामाहव प्रार्थिनीना- मध्वानध्वाववोधक्षपणचणतमः क्षेपदीपोपमानि। त्रैलोक्यागारभारोद्वहनसहमणिस्तम्भसम्पत्सखानि त्रायन्तामन्तिमायां विपदि सपदिवोऽराणि सौदर्शनानि॥३९॥

ज्वालाजालप्रवालस्तबकितशिरसो नाभिमावालयन्त्य स्सिक्ता रक्ताम्बुपूरैः शकलितवपुषां शात्रवानीकिनीनाम्। चक्राक्रीडप्ररूढाभुजगशयभुजोपघ्ननिघ्नप्रचाराः पुष्प्यन्त्यःकीर्तिपुष्पाण्यरकनकलताः प्रीतये वः प्रथन्ताम्॥४०॥

ज्वालाजालाब्धिमुद्रं क्ष्तीवलयमिवाबिभ्रती नेमिचक्रं नागेन्द्रस्येव नाभेः फणपरिषदिव प्रौढरत्नप्रकाशा। दत्तांवोदिव्यहेतेर्मतिमरविततिः ख्यातसाहस्रसङ्ख्या सङ्ख्यावत्सङ्घचित्त श्रवणहरगुणस्यन्दिसन्दर्भगर्भाम्॥४१॥ ```

``` ब्रह्मेशोपक्रमाणां बहुविधविनुतक्षोदसम्मोदितानां सेवायै देवतानां दनुजकुलरिपोः पिण्डिकाद्यङ्गभाजाम्। तत्तद्धामान्तसीमाविभजनविधये मानदण्डायमाना भूमानं भूयसांवोदिशतु दशशती भास्वराणामराणाम्॥४२॥

ज्वालाकल्लोलमालानिबिडपरिसरां नेमिवेलांदधाने पूर्वेणाक्रान्तमध्ये भुवनमयहविर्भोजिना पूरुषेण। प्रस्फूर्जत्प्राज्यरत्ने रथपदजलधावेधमानैः स्फुलिङ्गैः भद्रंवोविद्रुमाणां श्रियमरविततिर्विस्तृणाना विधत्ताम्॥४३॥

नासीरस्वैरभग्नप्रतिभटरुधिरासारधारावसेका- नेकान्तस्मेरपद्मप्रकरसहचरच्छायया प्राप्यनाभ्या। मुक्तानीवाङ्कुराणि स्फुरदनलशिखादर्शितप्राक्प्रवाला- 
न्यव्याघातेन भव्यं प्रददतुभवतां दिव्यहेतेरराणि॥४४॥

दावोल्कामण्डलीव द्रुमगणगहने बाडवस्येव वह्ने- र्ज्वालावृद्धिर्महाब्धौ प्रवयसितमसि प्रातरर्कप्रभेव। चक्रे या दानवानां हयकरटिघटासङ्कटे जाघटीति प्राज्यंसावः प्रेदेयात्पदमरपरिषत्पद्मनाभायुधस्य॥४५॥

तापाद्दैत्यप्रतापातप समुचिता त्त्रायमाणंत्रिलोकीं लोलैर्ज्वालाकलापैः प्रकटयदभित श्चीन पट्टाञ्चलानि। छत्राकारंशलाकाइव कनककृताः शौरिदोर्दण्डलग्नं भूयासुर्भूषयन्त्यो रथचरणमरस्फूर्तयःकीर्तये वः॥४६॥ ```

``` नाभीशालानिखातां नहन समुचितां वैरिलक्ष्मीवशानां संयद्वारीहृतानां समनुविदधती काञ्चनालानपङ्क्तिम्। राज्याच प्राज्यदैत्यव्रजविजयमहोत्तम्भितानां भुजानां

तुल्या चक्रारमाला तुलयतु भवतां तूलवच्छत्रुलोकम्॥४७॥ आनेमेश्चक्रवालात्त्विष इववितताः पिण्डिकाचण्डदीप्ते- र्दीप्तादीपा इवाराद्गहनरणतमीगाहिनः पूरुषस्य। शाणे रेखायितानां रथचरणमये शत्रुशौण्डीर्य हेम्नां रेखाः प्रत्यग्रलग्ना इव भुवनमरश्रेयणः प्रीणयन्तु॥४८॥

दीप्तैरर्चिःप्ररोहैर्दलवति विधृते बाहुनालेनविष्णो- रुद्यत्प्रद्योतनाभम्प्रथयति पुरुषं कर्णिकावर्णिकायाम्। चूडालं वेदमौलिं कलयति कमले चक्रनाम्नोपलक्ष्ये लक्ष्मीं स्फारामराणि प्रतिविदधतु वः केसरश्रीकराणि॥४९॥

धातुस्यन्दैरमन्दैः कलुषितवपुषो निर्झराम्भःप्रपाता- नर्चिष्मत्या स्वमूर्त्या रथचरणगिरेर्नेमिनाभीतटस्य। व्याकुर्वाणारपङ्क्तिर्वितरतु विभुताविस्तृतिं वित्तकोटी- कोटीरच्छत्रपीठीकटककरिघटाचामरस्रग्विणीं वः॥५०॥

॥इत्यरवर्णनम्॥

ऐक्येन द्वादशानामशिशिरमहसां दर्शयन्ती प्रवृत्तिं दत्तस्वर्लोकलक्ष्म्यास्तिलक इवमुखे पद्मरागद्रवेण। देयाद्दैतेयदर्प क्षतिकरणरण प्रीणिताम्भोजनाभि- र्नाभिर्नाभित्वमुर्व्यास्सुरपतिविभव स्पर्शिसौदर्शनीवः॥५१॥ ```

``` शस्त्रश्यामेशताङ्गक्षितिभृति तरलैरुत्तरङ्गे तुरङ्गै- स्त्वङ्गन्मातङ्गनक्रे कुपितभटमुखच्छायमुग्धप्रवाले। अस्तोकंप्रास्नुवाना प्रतिभटजलधौ पाटवंवाडवस्य श्रेयो स्स्संविधत्तां श्रितदुरितहरा श्रीधरास्त्रस्य नाभिः॥५२॥

ज्वालाचूडालकालानल चलनसमा डम्बरासाम्परायं यासावासाद्य माद्यत्सुरसुभटभुजास्फोटकोलाहलाढ्यम्। दैत्यारण्यंदहन्ती विरचयतियशो भूतिशुभ्रां धरित्रीं सावश्चक्रस्य नक्रस्यदमृदितगजत्रायिणी नाभि रव्यात्॥५३॥

विन्दन्ती सान्ध्यमर्चिर्विदलितवपुषः प्रत्यनीकस्यरक्तैः स्फायन्नक्षत्रराशिर्दिशि दिशि कणशः कीकसैः कीर्यमाणैः। नाकौकः पक्ष्मलाक्षीनवमदहसित च्छाययाचन्द्रपादान् राथाङ्गीविस्तृणाना रचयतु कुशलं पिण्डिकायामिनीवः॥५४॥

निःसीमंनिस्सृताया भुजधरणिधराघाटतःकैटभारे- राशाकूलङ्कषर्द्धेरहितबलमहाम्भोधिमासादयन्त्याः। चक्रज्वालापगाया श्चलदरलहरी मालिकादन्तुरायाः बिभ्रत्यावर्तभावं भ्रमयतु भुवने पिण्डिका वः प्रशस्तिम् ॥५५॥

पाणौ कृत्वाहवाग्रे प्रतिभटविजयोपार्जितां वीरलक्ष्मी- मानीतायास्ततोऽस्याः स्वसविधमसुरद्वेषिणा पूरुषेण। प्रासादं वासहेतोर्विरचितमरुणै रश्मिभिः स्सूचयन्ती नाभिर्वो निर्मिमीतां रथचरणपते र्निवृतिं निर्विघाताम्॥५६॥ ```

``` डिण्डीरापाण्डुगण्डै ररियुवतिमुखैः पिण्डिकाकृष्णहेते- रुच्चण्डाश्रुप्रवर्षै रुपरततिलकैरुक्तशौण्डीर्यचर्या। द्वित्रग्रामाधिपत्यद्रुहिणमदमषी दूषिताक्षक्षमाभृ त्सेवाहेवाकपाकं शमयतु भवतां कर्म शर्मप्रतीपम्॥५७॥

पर्याप्तामुन्नतिं या प्रथयतिकमलं या तिरोभाव्यभाति स्रष्टुस्सृष्टेर्दवीयः कुवलयमहितंया बिभर्ति स्वरूपम्। भूम्ना स्वेनान्तरिक्षं कबलयतिचया सा विचित्रा विधत्तां दैतेयारातिनाभिर्द्रविणपतिपद द्वेषिणीं सम्पदं वः॥५८॥

वाणीवाङ्गैश्चतुर्भिः सदसिसुमनसां द्योतमानस्वरूपा बाह्वन्तःस्थामुरारेरभिमतमखिलं श्रीरिवस्पर्शयन्ती। दुर्गेवोग्राकृतिर्या त्रिभुवनजननस्थेमसंहारधुर्या मर्यादालङ्घनं वः क्षपयतु महती हेतिवर्यस्यनाभिः॥५९॥

स्रग्भिः सन्तानजाभिर्मधुरमधुरसस्यन्दसन्दोहिनीभिः पाटीरैः प्रौढचन्द्रातपचयसुषमालोपनैर्लेपनैश्च। धूपैः कालागरूणामपि सुरसुदृशो विस्रमर्चासुयस्या गन्धं रुन्धन्ति सावश्चिरमसुरभिदो नाभिरव्यादभव्यात्॥६०॥

अंहस्संहत्यदग्ध्वा प्रतिजनिजनितं प्रौढसंसारवन्या दूराध्वन्यानधन्यान्महति विनतिभिर्धामनि स्थापयन्ती। विश्रान्तिं शाश्वतीं या नयति रमयतां चक्रराजस्य नाभिः संयन्मोमुह्यमानत्रिदशरिपुदशा साक्षिणी साऽक्षिणी वः॥६१॥

इतिनाभिवर्णनम्॥

श्रुत्वायन्नामशब्दं श्रुतिपथकटुकं देवनक्रडनेषु स्वर्वैरिस्वैरपत्नयो भयविवशधियः कातरन्यस्तशाराः। मन्दाक्षं यान्त्यमन्दं प्रतियुवतिमुखैर्दर्शितोत्प्रासदर्पै- रक्षं सौदर्शनं तत्क्षपयतु भवतामेधमानां धनाशाम्॥६२॥

व्यस्तस्कन्धं विशीर्णप्रसवपरिकरं प्रत्तपत्रोपमर्दं संयद्वर्षासुतर्षातुरखगपरिषत्पीत रक्तोदकासु। अक्षं रक्षस्तरूणामशनिवदशनैरापतन्मूर्ध्नि-मूर्ध्नि स्तादस्त्राधीशितुर्वः स्तबकितयशसे द्वेषिणां प्लोषणाय॥६३॥

दीक्षां सङ्गामसत्रे महति कृतवतोदीप्तिभिस्संहताभिः र्जिह्वालेसप्तजिह्वे दनुजकुलहविर्जुह्वतोनेमिजुह्वा। वैकुण्ठास्त्रस्यकुण्डं महदिवविलसत्पिण्डिकावेदिमध्ये दिव्याद्दिव्यर्द्धि देश्यं पदमिहमहता मक्षतोन्मेषमक्षम्॥६४॥

तुङ्गाद्दोरद्रिश‍ृङ्गाद्दनुजविजयिनः स्स्पष्टदानोद्यमानां शत्रुस्तम्बेरमाणं शिरसि निपततः स्रस्तमुक्तास्थिपुञ्जे। रक्तैरभ्यक्तमूर्ते र्विदलनगलितै र्व्यक्त वीरायितर्द्धे- र्हर्यक्षस्यारिभङ्गं जनयतुजगता मीडितं क्रीडितं वः॥६५॥

उन्मीलत्पद्मरागं कटकमिवधृतं बाहुना यन्मुरारे- र्दीप्तान् रश्मीन्दधानं नयनमिव यदुत्तारकं विष्टपस्य। चक्रेशार्कस्य यद्वापरिधिरभिदध द्दैत्यहत्या मिवद्रा गक्षं पक्षेपतित्वा परिघटयतुव स्तद्द्रढिष्ठां प्रतिष्ठाम्॥६६॥ ```

``` क्रीडत्प्राक्क्रोडदंष्ट्राहतिदलितहिरण्याक्षवक्षःकवाट- प्रादुर्भूतप्रभूत क्षतजसमुदितारुण्यमुद्रं समुद्रम्। उन्मीलत्किंशुकाभैरुपहसदमितै रंशुभिः संशयघ्नी- मक्षंचक्रस्यदत्ता मघशतशमनं दाशुषीं शेमुषीं वः॥६७॥

मत्तानामिन्द्रियाणां कृतविषयमहाकाननक्रीडनानां सृष्टं चक्रेश्वरेण ग्रहणधिषणया वारिवद्वारणानाम् । 
गम्भीरं यन्त्रगर्तं कमपि कृतधियो मन्वते यत्प्रदेया- 
दस्थूलां संविदं वस्त्रिजगदभिमतस्थूललक्षं तदक्षम्॥६८॥

पद्मोल्लासप्रदं यज्जनयति जगतीमेधमानप्रबोधां यस्यच्छायासमाना लसति परिसरे रोहिणी तारकाग्र्या। नानाहेत्युन्नतत्त्वं प्रकटयति च यत्प्राप्तकृष्णप्रयाणं त्रेधाभिन्नस्यधाम्न स्समुदय इव तत्पातुवश्चाक्रमक्षम्॥६९॥

शोचिर्भिः पद्मरागद्रवसमसुषमैश्शोभमानावकाशं प्रत्यग्राशोकरागप्रतिभटवपुषा भूषितं पूरुषेण। अन्तः स्वच्छन्दमग्नोत्थितभृगुतनयं क्षत्रियाणां क्षताना- मारब्धं शोणितौघैस्सर इव भवतो दिव्यहेत्यक्षमव्यात्॥७०॥

प्रणादीन्सन्नियम्य प्रणिहितमनसां योगिनामन्तरङ्गे तुङ्गंसङ्कोच्यरूपं विरचितदहराकाशकृच्छ्रासिकेन। प्राप्तं यत्पूरुषेण स्वमहिमसदृशं धाम कामप्रदंवो भूयत्तद्भूर्भुवस्स्वस्त्रयवरिवसितं पुष्कराक्षायुधाक्षम्॥७१॥ ```

``` विद्धान्वीध्रेणधाम्ना चरणनखभुवा बद्धवासस्यमध्ये चक्राध्यक्षस्यबिभ्रत्परिहसितजपा पुष्पकोशान्प्रकाशान्। शुभ्रैरभ्रैरदभ्रैश्शरदि तत इतो व्योम विभ्राजमानं प्रातस्त्यादित्यरोचिस्ततमिव भवतः पातुराथाङ्गमक्षम्॥७२॥

श्रीवाणीवाङ्मृडान्यो विदधति भजनंशक्तयोयस्य दिक्षु प्राहव्यूहं यदाद्यं प्रथममपि गुणं भारती पाञ्चरात्री। घोरांशान्तां च मूर्तिं प्रथयति पुरुषः प्राक्तनः प्रार्थनाभि- र्भक्तानां यस्य मध्ये दिशतुतदनघा मक्षमध्यक्षतां वः॥७३॥

रक्षःपक्षेण रक्षत्क्षतममरगणं लक्ष्यवैलक्ष्यमाजौ लक्ष्मीमक्षीयमाणां बलमथनभुजे वज्रशिक्षानपेक्षे। निक्षिप्यक्षिप्रमध्यक्षयति जगति यद्दक्षतां दिव्यहेते- रक्षामामक्षमांवः क्षपयतु भवतामक्षजिल्लक्ष्यमक्षम्॥७४॥

॥इत्यक्षवर्णनम्॥

ज्योतिश्चूडालमौलिस्त्रिनयन वदनः षोडशोत्तुङ्गबाहुः प्रत्यालीढेन तिष्ठन्प्रणवशशधराधारषट्कोणवर्ती। निस्सीमेनस्वधाम्ना निखिलमपि जगत्क्षेमवन्निर्मिमाणो भूयात्सौदर्शनो वः प्रतिभटपरुषः पूरुषः पौरुषाय॥७५॥

वाणीपौराणिकीयं प्रथयति महितं प्रेक्षणं कैटभारे श्शक्तिर्यस्येषुदंष्ट्रा नखपरशुमुखव्यापिनी तद्विभूत्याम्। कर्तुं यत्तत्त्वबोधो न निशितमतिभि र्नारदाद्यैश्च शक्यो दैवीं वोमानुषीं चक्षिपतु सविपदं दुस्रामस्त्रराजः॥७६॥ ```

``` रूढस्तारालवाले रुचिरदलचयश्यामलै श्शस्त्रजालै- र्ज्वालाभिस्सप्रवालः प्रकटितकुसुमो बद्धसङ्घैः स्फुलिङ्गैः। प्राप्तानां पादमूलं प्रकृतिमधुरया छाययातापहृद्वो दत्तामुद्दोःप्रकाण्डः फलमभिलषितं विष्णुसङ्कल्पवृक्षः॥७७॥

धाम्नामैरम्मदानां निचयमिव चिरस्थायिनां द्वादशानां मार्तण्डानां समूहं मह इवबहुलां रत्नभासामिवर्द्धिम्। अर्चिस्सङ्घातमेकी कृतमिवशिखिनां वाडवाग्रेसराणां दृश्यन्ते यस्य रूपं स भवतु भवतां तेजसे चक्रराजः॥७८॥

उग्रंपश्याक्षमुद्यद्भ्रुकुटि समुकुटं कुण्डलंस्पष्टदंष्ट्रं चण्डास्त्रै र्बाहुदण्डैर्लसदनलसमक्षौम लक्ष्योरुकाण्डम्। प्रत्यालीढस्थपादं प्रथयतु भवतां पालनव्यग्रमग्रे चक्रेशोऽकालकालेरितभट विकटाटोपलोपाय रूपम्॥७९॥

चक्रं कुन्तंकृपाणं परशुहुतवहावङ्कुशं दण्डशक्ती शङ्खं कोदण्डपाशौ हलमुसलगदावज्रशूलाख्यहेतीन्। दोर्भि स्सव्यापसव्यै र्दधततुलबल स्तम्भिताराति दर्पै- र्व्यूहस्तेजोभिमानी नरकविजयिनोजृम्भतां सम्पदेवः॥८०॥

पीतं केशेरिपोरप्यसृजिरथप(थे)दे संश्रितेऽप्युत्कटाक्षं चन्द्राधःकारियन्त्रे वपुषि चदलने मण्डले च स्वराङ्कम्। हस्ते वक्त्रे च हेति स्तबकितमसमं लोचने मोचने च स्ता दस्तोकायधाम्ने सुरवरपरिषत्सेवितं दैवतं वः॥८१॥ ```

``` चित्राकारै स्स्वचारैर्मित सकलजगज्जागरूकप्रतापो मन्त्रं तन्त्रानुरूपं मनसि कलयतोमानयन्नात्मगुह्यान्। पञ्चाङ्ग स्फूर्तिनिर्वर्तित रिपुविजयोधामषण्णां गुणानां लक्ष्मीं राजासनस्थो वितरतु भवतां पूरुषश्चक्रवर्ती॥८२॥

अक्षावृत्ताभ्रमाला न्यरविवरलुठ च्चन्द्रचण्डद्युतीनि ज्वाला जालावलीढ स्फुटदुडुपटली पाण्डुदिङ्मण्डलानि। चक्रान्ताक्रान्त चक्राचलचलित महीचक्रवालार्तशेषा- ण्यस्त्रग्रामाग्रिमस्य प्रददतु भवतां प्रार्थितं प्रस्थितानि॥८३॥

शूलं त्यक्तात्मशीलं सृणिरणुकघृणिः पट्टसस्स्पष्टसाद श्शक्तिश्शालीनशक्तिः कुलिशमकुशलं कुण्ठधारः कुठारः। दण्डश्चण्डत्वशून्यो भवति तनुधनु र्यत्पुरस्तात्स वस्स्ता द्ग्रस्ताशेषास्त्रगर्वो रथचरणपतिः कर्मणे शार्मणाय॥८४॥

क्षुण्णाजानेयवृन्दं क्षुभितरथगणं सन्नसान्नाह्ययूथं क्ष्वेलासंरम्भहेला कलकल विगलत्पूर्वगीर्वाणगर्वम्। कुर्वाणःसाम्परायं रथचरणपतिः स्थेयसीं वःप्रशस्तिं दुग्धां दुग्धाब्धिभासं भयविवशशुनासीरनासीरवर्ती॥८५॥

द्रुह्यद्दोश्शालिमालिप्रहरणरभसोत्तानिते वैनतेये विद्राति द्राक्प्रयुक्तः प्रथनभुवि परावर्तमानेन भर्त्रा। निर्जित्य प्रत्यनीकं निरवधिकचरद्धास्तिकाश्वीयरथ्यं पथ्यं विश्वस्य दाश्वान्प्रथयतु भवतो हेतिरिन्द्रानुजस्य॥८६॥ ```

``` नन्दिन्यानन्दशून्ये गलति गणपतौ व्याकुले बाहुलेये चण्डे चाकित्यकुण्ठे प्रमथपरिषदि प्राप्तवत्यां प्रमादम्। उच्छिद्याजौ बलिष्ठं वलिजभुजवनं यो ददावादिभिक्षो- र्भिक्षां तत्प्राणरूपां सभव दकुशलं कृष्णहेतिःक्षिणोतु॥८७॥

रक्तौघाभ्यक्तमुक्ताफललुलितललद्वीचिवृद्धौमहाब्धौ सन्ध्यासम्बद्धताराजलधरशबलाकाश नीकाशकान्तौ। गम्भीरारम्भमम्भश्चरमसुरकुलं वेदविघ्नं विनिघ्नन् निविघ्नं वः प्रसूतां व्यपगतविपदं सम्पदं चक्रराजः॥८८॥

काशीविप्लोषचैद्य क्षपणधरणिजध्वंससूर्यापिधान- ग्राहद्वेधात्वमालि त्रुटनमुखकथा वस्तुसत्कीर्तिगाथाः। गीयन्ते किन्नरीभिः कनकगिरिगेहिनीभिर्यदीया देयाद्दैतेयवैरी स सकलभुवनश्लाघनीयां श्रियं नः॥८९॥

नानावर्णान्विवृण्वन्विरचितभुवनानुग्रहान् विग्रहान्य श्चक्रेष्वष्टासुमृष्टासुरवरतरुणीकण्ठ कस्तूरिकेषु। 
आतारादर्णमालावधिषु वसतियः पूरुषोवस्सदेया द्व्यध्वैरुद्धूतसत्त्वैरुपहितमबहिर्ध्वान्त मध्वान्तवर्ती॥९०॥

द्वात्रिंशत्षोडशाष्टप्रभृति पृथुभुजस्फूर्तिर्भिमूर्तिभेदैः कालाद्येचक्रषट्के प्रकटितविभवः पञ्चकृत्यानुरूपम्। अर्थानामर्थिताना महरहरखिलं निर्विलम्बैर्विलम्बैः कुर्वाणो भक्तवर्गं कुशलिन मवतादायुधग्रामणीर्वः॥९१॥ ```

``` कोणैरर्णैस्सरोजै रपिकपिशगुणैः षड्भिरुद्भिन्नशोभे श्रीवाणीपूर्विकाभिर्दधति विकसतश्शक्तिभिः केशवादीन्। तारां तेभूपुरादौ रथचरणगदाशार्ङ्गखड्गाङ्किताशे यन्त्रे तन्त्रोदिते वः स्फुरतु कृतपदं लक्ष्म लक्ष्मीसखस्य॥९२॥

दंष्ट्राकान्त्या कडारेकपटकिटितनोः कैटभारेरधस्ता- दूर्ध्वं हासेन विद्धे नरहरिवपुषो मण्डले वासवीये। प्राक्प्रत्यक्सान्ध्यसान्द्रच्छविभरभरिते व्योम्नि विद्योतमानो दैतेयोत्पातशंसी रविरिव रहयत्वस्त्रराजो रुजंवः॥९३॥

कोणे क्वापिस्थितोऽपि त्रिभुवनवितत श्चन्द्रधामापिरूक्षो रुक्मच्छायोऽपि कृष्णाकृतिरनलमयोऽप्याश्रितत्राणकारी। धारासारोऽपि दीप्तो दिनकररुचिरोऽप्युल्लसत्तारकश्री- श्चक्रेशश्चित्रभूमा वितरतु विमतत्रासनं शासनंवः॥९४॥

शुक्लश्शक्रस्तवस्तेसहदहन कलां कालतेऽयंनकालः किं वो रक्षांसि रक्षा तवफलति पते यादसांपादसेवा। वायो हृद्योऽसि भर्तुंस्त्यज धनदमदं सेव्यतांत्रयम्बकेति प्राहुर्यद्यन्त्रपाला स्सदनुजविजयी हन्तुतन्द्रालुतांवः॥९५॥

गायत्र्यर्णारचक्रे प्रथममनुसखस्स्मेरपत्रारविन्दे बिम्बं वह्नेस्त्रिकोणं वहति जयजया द्यष्टशक्तौनिषण्णा। शोकं वोऽशोकमूलेपदसविधलसद्भीमभीमाक्षभीमा- पुंसोदिव्यास्त्रधामा पुरुषहरिमयी मूर्तिरस्यत्वपूर्वा॥९६॥ ```

``` पाश्चात्याशोकपुष्पप्रकरनिपतितैः प्राप्तरागं परागैः स्सन्ध्यारोचिस्सगन्धैः स्वपदशशधरं प्रेक्ष्य तारानुषक्तम्। पद्मानाबद्धकोशानिव सुरनिवहैरञ्जलीन् कल्प्यमानां- श्चक्राधीशोऽभिनन्दन्प्रदिशतु सदृशीमुत्तमश्लोकतां वः॥९७॥

रक्ताशोकस्य वेदस्य च विहितपदं प्राप्तशाखस्य मूले चक्रैरस्त्रैस्तदाद्यैरपि महितचतु र्द्विश्चतु र्बाहुदण्डम्। आसीनं भासमानं स्थितमपिभयतस्त्रायतां तत्त्वमेकं पश्चात्पूर्वत्रभागे स्फुटनरहरितामानुषंजानुषाद्वः॥९८॥

प्राणे दत्तप्रयाणे मुषितदिशि दृशि त्वक्तधारेशरीरे मत्यांव्यामोहवत्यां सतमसिमनसि व्याहृतेव्याहते च। चक्रान्तर्वर्ति मृत्युप्रतिभय मुभयाकार चित्रं पवित्रं तेजस्तत्तिष्ठतां व स्त्रिदशकुलधनंत्रीक्षणं तीक्ष्णदंष्ट्रम्॥९९॥

यस्मिन्विन्यस्य भारं विजयिनि जगतां जङ्गमस्थावराणां लक्ष्मीनारायणाख्यं मिथुनमनुभवत्यत्युदारान्विहारान्। आरोग्यंभूतिमायुः कृतमिहबहुना यद्यदास्थापदंच- स्तत्तन्नित्यं समस्तं दिशतु सपुरुषो दिव्यहेत्यक्षवर्ती॥१००॥

॥इति पुंवर्णनम्॥

पद्यानां तत्त्वविद्याद्युमणिगिरिशविध्यंगसंख्याधराणा- मर्चिष्वङ्गेषुनेम्यादिषुचपरमतः पुंसिषड्विंशतिश्च। संघैस्सौदर्शनं यः पठत्ति कृतमिदं कूरनारायणेन स्तोत्रं निर्विष्टमोगो भजतिसपरमां चक्रसायुज्यलक्ष्मीम्॥१०१॥ ```

श्रीमत्कूरनारायण यतींद्र विरचितं सुदर्शनशतकं सम्पूर्णम् ॥  
श्रीमत्कूरनारायण यतींद्र महादेशिकायनमः॥  
<MISSING_FIG href="../books_images/U-IMG-172412855530.png"/>

**॥ गरुडदण्डकः ॥**

नमः पन्नगनद्धाय वैकुण्ठवशवर्तिने ।  
श्रुतिसिन्धुसुधोत्पादमन्दराय गरुत्मते॥

 गरुडमखिलवेदनीडाधिरूढं द्विषत्पीडनोत्कण्ठिता कुण्ठवैकुण्ठ- पीठीकृत स्कन्धमीडे स्वनीडागतिप्रीतरुद्रासुकीर्तिस्तनाभोगगाढोपगूढ- स्फुरत्कण्टकव्रातवेधव्यथावेपमान-द्विजिह्नाधिपाकल्पविष्फार्यमाणस्फ-टावाटिकारत्न रोचिश्छटाराजिनीराजितं कान्तिकल्लोलि-नीराजितम् ॥

 जय गरुड सुपर्ण दर्वीकराहार देवाधिपाहारहारिन् दिवौक- स्पतिक्षिप्तदम्भोलिधाराकिणाकल्प कल्पान्तवातूलकल्पोदयानल्पवीरा- यितोद्यच्चमत्कार-दैत्यारिजैत्रध्वजारोहनिवारितोत्कर्ष संकर्षणात्मन् गरुत्मन् मरुत्पञ्चकाधीश सत्यादिमूर्ते न कश्चित्समस्ते नमस्ते पुनस्ते नमः ॥  

 नम इदमजहस्सपर्याय पर्यायनिर्यातपक्षानिलास्फालनोद्वेल- पाथोधिवीचीचपेटा-हतागाधपातालभांकारसंक्रुद्ध नागेन्द्रपीडासृणीभावभास्वन्नखश्रेणये चण्डतुण्डाय नृत्यद्भुजङ्ग-भ्रुवे वज्रिणे दंष्ट्रया तुभ्यमध्यात्मविद्या विधेया भवद्दास्यमापादयेथा दयेथाश्च मे॥

 मनुरनुगतपक्षिवचस्फुरत्तारकस्तावकश्चित्रभानुप्रियाशेखरस्त्रायतां नस्त्रिवर्गापवर्गप्रसूतिः परव्योमधामन् वलद्वेषिदर्पज्वलद्वालखिल्यप्रतिज्ञावतीर्ण स्थिरां तत्त्वबुद्धिं परां भक्तिधेनुं जगन्मूलकन्दे मुकुन्दे महानन्ददोग्ध्रीं दधीथा मुधाकामहीनामहीनामहीनान्तक॥

षट्त्रिंशद्गुणचरणो नरपरिपाटी नवीनगुम्भगुणः।  
विष्णुरथदण्डकोऽयं विघटयतु विपक्षवाहिनीव्यूहम्॥  
विचित्रसिद्धिदः सोऽयं वेङ्कटेशविपश्चिता।  
गरुडध्वजतोषाय गीतो गरुडदण्डकः॥

इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य  
वेदान्ताचार्यस्य कृतिषु गरुडदण्डकः संपूर्णः॥  
<MISSING_FIG href="../books_images/U-IMG-172411676930.png"/>

कवितार्किकसिंहाय कल्याणगुणशालिने।  
श्रीमते वेङ्कटेशाय वेदान्तगुरवे नमः॥

<MISSING_FIG href="../books_images/U-IMG-172411678830.png"/>

**॥गरुडपञ्चाशत्॥**

श्रीमान्वेङ्कटनाथार्यः कवितार्किककेसरी।  
वेदान्ताचार्यवर्योंमे सन्निधत्तां सदा हृदि॥

अङ्गेष्वानन्दमुख्यश्रुतिशिखरिमिलद्दण्डकं गण्डपूर्वं  
प्रागेवाभ्यस्य षट्सु प्रतिदिशमनघं न्यस्य शुद्धात्रबन्धाः।  
पक्षिव्यत्यस्तपक्षद्वितयमुखपुटप्रस्फुटोदारतारं  
मन्त्रं गारुत्मतं तं हुतवहदयिताशेखरं शीलयामः॥१॥

वेदः स्वार्थाधिरूढो बाहिरबाहिर भिव्यक्तिमभ्येति यस्यां  
सिद्धिः सांकर्षणी सा परिणमति यया सापवर्गत्रिवर्गा।  
प्राणस्य प्राणमन्यं प्रणिहितमनसो यत्र निर्धारयन्ति  
प्राची सा ब्रह्मविद्या परिचितगहना पातु गारुत्मतीनः॥२॥  

नेत्रं गायत्रमूचे त्रिवृदिति च शिरो नामधेयं यजूंषि  
च्छन्दांस्यङ्गानि धिष्ण्यात्मभिरजनि शफैर्विग्रहो वामदेव्यम्।  
यस्य स्तोमात्मनोऽसौ बृहदितरगरुत्तादृशान्मायपुच्छः  
स्वाच्छन्द्यं नः प्रसूतां श्रुतिशतशिखराभिष्टुतात्मा गरुत्मान्॥३॥  

योऽयं धत्ते स्वनिष्ठं वहनमपि वरः स्पर्शिनो येन यस्मै  
यस्माद्यस्याहवश्रीविदधति भजनं यत्र यत्रेति सन्तः।  
प्रायो देवः स इत्थं हरिगरुडभिदाकल्पितारोहवाह-  
स्वाभाव्यः स्वात्मभव्यः प्रदिशतु शकुनिर्ब्रह्मसब्रह्मतां नः॥४॥  

एको विष्णोर्द्वितीयस्त्रिचतुरविदितं पञ्चवर्णीरहस्यं  
षाड्गुण्यस्मेरसप्तस्वरगतिरणिमाद्यष्टसंपन्नवात्मा।  
देवो दर्वीकरारिर्दशशतनयनारातिसाहस्रलक्षै-  
र्विक्रीडत्पक्षकोटिर्विघटयतु भयं वीतसंख्योदयो नः॥५॥  

सत्याद्यैः सात्वतादिप्रथितमहिमभिः पञ्चभिर्व्यूहभेदैः  
पञ्चाभिख्यो निरुन्धन्भवगरलभवं प्राणिनां पञ्चभावम्।  
प्राणापानादिभेदात्प्रतितनु मरुतो दैवतं पञ्चवृत्तेः  
पञ्चात्मा पञ्चधासौ पुरुष उपनिषद्घोषितस्तोषयन्नः॥६॥

श्लिष्यद्भोगीन्द्रभोगे श्रुतिनिकरनिधौ मूर्तिभेदे स्वकीये  
वर्णव्यक्तीर्विचित्राः परिकलयति यो वक्त्रबाहूरुपादैः।  
प्राणः सर्वस्य जन्तोः प्रकटितपरमब्रह्मभावः स इत्थं  
क्लेशं छिन्दन्खगेशः सपदि विपदि नः सन्निधिः संनिधत्ताम्॥७॥  

अग्रे तिष्ठन्नुदग्रोमणिमुकुर इवानन्यदृष्टेर्मुरारेः  
पायान्मायाभुजङ्गीविषमविषभयाद्गाढमस्मान्गरुत्मान्।  
क्षुभ्यत्क्षीराब्धिपाथः सहभवगरलस्पर्शशङ्की स शङ्के  
छायां धत्ते यदीयां हृदि हरिहृदयारोहघन्यो मणीन्द्रः॥८॥  

॥इति गरुडपञ्चाशति परव्यूहवर्णकः प्रथमः।  

आहर्तारं सुधाया दुरधिगममहाचक्रदुर्गस्थितायाः  
जेतारं वज्रपाणेः सह विबुधगणैराहवे बाहुवेगात्।  
विष्णौ संप्रीयमाणे वरविनिमयतो विश्वविख्यातकीर्तिं  
र्देवंयासूत सासौ दिशतु भगवती शर्म दाक्षायणी नः॥९॥  

वित्रासाद्वीतिहोत्रं प्रथममधिगतैरन्तिके मन्दधाम्ना  
भूयस्तेनैव सार्धं भयभरतरलेर्वन्दितो देवबृन्दैः।  
कल्पान्तक्षोभदक्षं कथमपि कृपया संक्षिपन्धाम चण्डं  
भित्त्वाण्डं निर्जिहानो भवभयमिह नः खण्डयत्वण्डजेन्द्रः॥१०॥  

क्षुण्णक्षोणीधराणि क्षुभितचतुरकूपारतिम्यद्गरुन्ति  
त्रुट्यत्तारासराणि स्थपुटितविबुधस्थानकानि क्षिपेयुः।  
पातालब्रह्मसौधावधिविहितमुधावर्तनान्यस्मदार्तिं  
ब्रह्माण्डस्यान्तराले बृहति खगपतेरर्भकक्रीडितानि॥११॥

संविच्छस्त्रंदिशन्त्या सह विजयचमूराशिषः प्रेषयन्त्या  
संबध्नन्त्या तनुत्रं सुचरितमशनं पक्कणं निर्दिशन्त्या।  
एनोऽस्मद्वैनतेयो नुदतु विनतया क्लप्तरक्षाविशेषः  
कद्रूसंकेतदास्यक्षपणपणसुधालक्षभैक्षं जिघृक्षुः॥१२॥

विक्षेपैः पक्षतीनामनिभृतगतिभिर्बादितव्योमतूर्यो  
वाचालाम्भोधिवीचीवलयविरचिता लोकशब्दानुबन्धः ।  
दिक्कन्याकीर्यमाणक्षरदुडुनिकरव्याजलाजाभिषेको  
नाकोन्माथाय गच्छन्नरकमपि स मे नागहन्ता निहन्तु॥१३॥

ऋक्षाक्षक्षेपदक्षो मिहिरहिमकरोत्तालतालाभिघाती  
वेलावाः केलिलोलो विविधघनघटा कन्दुकाघातशीलः।  
पायान्नः पातकेभ्यः पतगकुलपतेः पक्षविक्षोपजातो  
वातः पातालहेलापटहपटुरवारम्भसंरम्भधीरः॥१४॥

किं निर्घातः किमर्कः परिपतति दिवः किं समिद्धोऽयमौर्वः  
किंस्वित्कार्तस्वराद्रिर्ननु विदितमिदं व्योमवर्त्मा गरुत्मान्।  
आसीदत्याजिहीर्षत्यभिपतति हरत्यत्ति हा तात हाम्बे-  
त्यालापोद्युक्तभिल्लाकुलजठरपुटः पातु नः पत्रिनाथः॥१५॥

आसृक्काक्तैरसृग्भिर्तुरुपरमतृषाशातनी शातदंष्ट्रा  
कोटीलोटत्करोटीविकटकटकटारावघोरावतारा।  
भिन्द्यात्सार्धं पुलिन्द्या सपदि परितब्रह्मगा जिह्मगारे  
रुद्वेल्लद्धिल्लपल्लीनिगरणकरणा पारणा करणा नः॥१६॥

स्वच्छन्दस्वर्गिबृन्दप्रथमतममहोत्पातनिर्घातघोरः  
स्वान्तध्वान्तं निरुन्ध्याद्भुतधरणिपयोराशिराशीविषारेः।  
प्रत्युद्यद्भिल्लपल्लीभटरुधिरसरिल्लोलकल्लोलमाला-  
हालानिर्वेश हलाहलहल बहुलो हर्ष कोलाहलो नः॥१७॥  

सान्द्रक्रोधानुबन्ध्यात्सरसि नखमुखे पादपे गण्डशैले  
तुण्डाग्रेकण्ठरन्ध्रे तदनु च जठरे निर्विशेषं युयुत्सू।  
अव्यादस्मामभव्यादविदितनखरश्रेणिदंष्ट्रा निवेशौ  
जीवग्राहं गृहीत्वा कमठकरटिनौ भक्षयन्पक्षिमल्लः॥१८॥  

अल्पः कल्पान्तलीलानटमुकुटसुधासूतिखण्डो बहूनां  
निस्सारस्त्वद्भुजाद्रेरनुभवतु मुधा मन्थनं त्वेष सिन्धुः।  
राकाचन्द्रस्तु राहोः स्वमिति कथयतः प्रेक्ष्य कद्रूकुमारान्  
सान्तर्हासं खगेन्द्रः सपदि हृतसुधस्रायतामायतान्नः॥१९॥  

आरादभ्युत्थितैरावतममितजवोदञ्चदुच्चैःश्रवस्कं  
जातक्षोभं विमथ्नन्दिशि दिशि दिविषद्वाहिनीशं क्षणेन।  
भ्राम्यन्सव्यापसव्यं सुमहति मिषति स्वर्गिसार्थे सुधार्थं  
प्रेङ्खनेत्रः श्रियं नः प्रकटयतु चिरं पक्षवान्मन्थशैलः॥२०॥  

अस्थानेषु प्रहाणामनियतविहितानन्तवक्रातिचारा  
विश्वोपाधिव्यवस्थाविगमविलुलितप्रागवागादिभेदाः।  
द्वित्राः सुत्रामभक्तमहकलहविधावण्डजेन्द्रस्य चण्डाः  
पक्षोत्क्षेपा विपक्षक्षपणसरभसाः शर्म मे निर्मिमीरन्॥२१॥

तत्तत्प्रत्यर्थिसारावाधविहितमृषारोषगन्धो रुषान्धै-  
रेकः क्रीडननेकैः सुरपतिसुभटैरक्षतो रक्षतान्नः।  
अन्योन्याबद्धलक्षापहरणविहितामन्दमात्सर्यतुङ्गै-  
रङ्गैरेव स्वकीयैरहमहमिकया मानितो वैनतेयः॥२२॥  
अस्तव्योमान्तमन्तर्हितनिखिलहरिन्मडलं चण्डभानो-  
र्लुण्टार्केर्यैरकाण्डे जगदखिलभिदं शर्वरी वर्वरीति।  
प्रेङ्खोलत्स्वर्गगोलस्स्वलदुडुनिकरस्कन्धबन्धान्निरुन्धन्  
रंहोभिस्तैर्मदंहों हरतु तरलितब्रह्मसद्मा गरुत्मान्॥२३॥  
यः स्वाङ्गे सङ्गरान्तर्गरुदनिललवस्तम्भिते जम्भशत्रौ  
कुण्ठास्त्रे सन्नकण्ठं प्रणयति पवये पक्षलेशं दिदेश।  
सोऽस्माकं संविधत्तां सुरपतिपृतनाद्वन्द्वयुद्धैकमल्लो  
माङ्गल्यं वालखिल्यद्विजवरतपसां कोऽपि मूर्तोविवर्तः॥२४॥  
रुद्रान्विद्राव्य सेन्द्रान्हुतवहसहितं गन्धवाहं गृहीत्वा  
कालं निष्काल्य धूत्वा निर्ऋतिधनपती पाशिनं क्लेशयित्वा।  
सर्पाणां छाद्मिकानाममृतमयपणप्रापणप्राप्तदर्पो  
निर्बाधं कापि सर्पन्नपहरतु हरेरौपवाह्यो मदंहः॥२५॥।

   ॥गरुडपञ्चाशति अमृतहरणवर्णको द्वितीयः॥

भुग्नभ्रूर्भ्रूकुटीभृद्भूमदमितगरुत्क्षोभितक्ष्मान्तरिक्ष-  
श्चक्राक्षो वक्रतुण्डः खरतरनखरः क्रूरदंष्ट्राकरालः।  
पायादस्मानपायाद्भयभरविगलद्दन्दशूकेन्द्रशूकः  
शौरेः संक्रन्दनादिप्रतिभटपृतनाक्रन्दनः स्यन्दनेन्द्रः॥२६॥

अर्यम्णा धुर्ययोक्त्रप्रहणभयभृता सान्त्वितोऽनूरुबन्धा-  
त्कोदण्डज्यां जिघृक्षेदिति चकितधिया शङ्कितः शङ्करेण।  
तल्पे कल्पेत मा ते मतिरिति हरिणाप्यादरेणानुनीतः  
पक्षीन्द्रस्त्रायतां नः फणधरमहिषीपत्रमङ्गापहारी॥२७॥  
छायातार्क्ष्यानहीनां फणमणिमुकुरश्रेणिविस्पष्टबिम्बां-  
स्त्राणापेक्षाघृतस्वप्रतिकृतिमनसा वीक्ष्य जातानुकम्पः।  
तेषां दृष्ट्वाथ चेष्टाः प्रतिगरुडगणाशङ्कया तुङ्गरोषः  
सर्पन्दपद्धतो नः शमयतु दुरितं सर्पसन्तानहन्ता॥२८॥  
उच्छ्वासाकृष्टतारागणघटितमृषामौक्तिकाकल्पशिल्पः  
पक्षव्याधूतपाथोनिधिकुहरगुहागर्भदत्तावकाशः।  
दृष्टिं दंष्ट्राग्रदूतींपृथुषु फणभृतां प्रेषयन्नुत्तमाङ्गे-  
ष्वङ्गैरङ्गानि रुन्धन्नवतु पिपतिषुः पत्रिणामत्रणीर्नः॥२९॥  
आ वेधःसौधशृङ्गादनुपरतगतेराभुजङ्गेन्द्रलोका-  
च्छ्रेणीबन्धं वितन्वन्क्षणपरिणमितालातपातप्रकारः ।  
पायान्नः पुण्यपापप्रचयमयपुनर्गर्भकुम्भीनिपाता-  
त्पातालस्यान्तराले बृहति खगपतेर्निर्विघातो निपातः॥३०॥  
प्रत्यग्राकीर्णतत्तत्फणामणिनिकरं शङ्कुलाकोटिवक्रं  
तुण्डाग्रंसंक्ष्णुवानः कुलगिरिकठिने कर्परे कूर्मभर्तुः।  
पातालक्षेत्रपक्वाद्विरसनपृतनाशालिविच्छेदशाली  
शैलीं नः सप्तशैलीलघिमदरभसः सौतु साध्वीं सुपर्णः॥३१॥

पर्यस्यत्पन्नगीनां युगपदसमयानर्भकान्गर्भकोशा-  
द्ब्रह्मस्तम्बप्रकम्पव्यतिषजदखिलोदन्वदुन्निद्रघोषम्।  
चक्षुश्चक्षुःश्रुतीनां सपदि बधिरयत्पातु पत्रीश्वरस्य  
क्षिप्रक्षिप्तक्षमामृत्क्षणघटितनभः स्फोटमास्फोटितं नः॥३२॥  
तोयस्कन्धो न सिन्धोः समघटत मिथः पक्षविक्षेपभिन्नः  
पातालं न प्रविष्टं पृथुनि च विवरे रश्मिभिस्तिग्मरश्मेः।  
तावद्ग्रस्ताहिवऋक्षतिविषमषीपङ्ककस्तूरिकाङ्कः  
प्रत्यायातः स्वयूथ्यैः स्थित इति विदितः पातु पत्रीश्वरो नः॥३३॥  
बद्धस्पर्धेरिव स्वैर्बहुभिरभिमुखैरेककण्ठं स्तुवाने  
तत्तद्विश्वोपकारप्रणयिसुरगणप्रार्थितप्राणरक्षे।  
पायान्नः प्रत्यहं ते कमपि विषधरं प्रेषयामीति भीते  
संघित्सौ सर्पराजे सकरुणमरुणानन्तरं धाम दिव्यम्॥३४॥  
काप्यस्थ्नाशर्कराढ्यं क्वचन घनतरासृक्छटाशीधुदिग्धं  
निर्मोकैः क्वापि कीर्णं विषयमपरतो मण्डितं रत्नखण्डैः।  
अध्यारूढैः स्ववारेऽप्यहमहमिकया वध्यवेषं दधानैः  
काले खेलन्भुजङ्गैःकलयतु कुशलं काद्रवेयान्तको नः॥३५॥

  ॥गरुडपञ्चाशति नागदमनवर्णकस्तृतीयः॥

वामे वैकुण्ठशय्याफणिपतिकटको वासुकिब्रह्मसूत्रो  
रक्षेन्नस्तक्षकेण ग्रथितकटितटश्चारुकार्कोटहारः।  
पद्मं कर्णेऽपसव्ये प्रथिमवति महापद्ममन्यत्र बिभ्र-  
च्चूडायां शङ्खपालं गुलिकमपि भुजे दक्षिणे पक्षिमल्लः॥३६॥

वन्यमस्वस्तिकाग्रस्फुरदरुणशिखादी प्ररत्नप्रदीपै-  
र्बध्नद्भिस्तापमन्तर्बहुलविषमषीगन्धतैलाभिपूर्णैः।  
नित्यं नीराजनार्थैर्निजफणफलकैर्घूर्णमानानि तूर्णं  
भोगैरापूरयेयुर्भुजगकुलरिपोभूषणानीषणां नः॥३७॥  
अङ्गप्रत्यङ्गलीनामृतरसविसरस्पर्शलोभादिवान्त-  
स्त्रासाद्ध्रासानुबन्धादिव सहजमिथोवैरशङ्कोत्तरङ्गात्।  
रुद्रागाढोपगूढोच्छ्रसननिबिडितस्थानयोगादिवास्म-  
द्भद्राय स्युर्भजन्तो भगवति गरुडे गाढतां गूढपादः॥३८॥  
कोटीरे रत्नकोटिप्रतिफलिततया नैकधा भिन्नमूर्ति-  
र्वल्मीकस्थान्स्वयूध्यानभित इव निजैर्वेष्टनैः क्लप्तरक्षः।  
क्षेमं नः सौतु हेमाचलविधृतशरन्मेघलेखानुकारी  
रोचिश्चूडालचूडामणिरुरगरिपोरेष चूडाभुजङ्गः॥३९॥  
द्राघीयःकर्णपाशद्युतिपरिभवनत्रीलयेव स्वभोगं  
संक्षिप्याश्नन्समीरं दरविनतमुखो निश्वसन्मन्दमन्दम्।  
आसीद्गण्डभित्तिप्रतिफलनमिषात्कापि गूढं विविक्षुः  
क्षिप्रं दोषान्क्षिपेन्नः खगपति कुहनाकुण्डलः कुण्डलीन्द्रः॥४०॥  
वालाग्रग्रन्थिबन्धप्रथितपृथुशिरोरत्नसंदर्शनीयो  
मुक्ताशुभ्रोदराभो हरिमणिशकलश्रेणिदृश्येतरांशः।  
विष्वग्दम्भोलिधाराव्रणकिणविषमोत्तम्भनस्तब्धवृत्ति-  
र्व्यालाहारस्य हृद्यो हरतु स मदघं हारदर्वीकरेन्द्रः॥४१॥

वैकक्ष्यस्रग्विशेषच्छुरणपरिणमच्छत्रबन्धानुबन्धो  
वक्षः पीठाधिरूढो भुजगदमयितुर्ब्रह्मसूत्रायमाणः।  
अश्नान्तस्वैरनिद्राविरचितविविधोच्छ्रासनिश्वासवेग-  
क्षामोच्छूनाकृतिर्नः क्षपयतु दुरितं कोऽपि कद्रूकुमारः॥४२॥  
श्लिष्यद्रुद्रासुकीर्तिस्तनतटघुमृणालेपसंक्रान्तसार-  
स्फारामोदाभिलाषोन्नमितपृथुफणाचक्रवालाभिरामः।  
प्रायः प्रेयःपटीरद्रुमविटपधियाश्लिष्टपक्षीन्द्रबाहु-  
र्व्याहन्यादस्मदीयं वृजिनभरमसौ बृन्दशो दन्दशूकः॥४३॥  
ग्रस्तानन्तर्निविष्टान्फणिन इव शुचा गाढमाश्लिष्य दुःख्यन्  
क्षुण्णामेकः स्वबन्धून्क्षुधामिव कुपितः पीडयन्वेष्टनेन।  
व्यालस्ताक्ष्र्योदरस्थो विपुलगलगुहावाहिफूत्कारवात्या-  
पौनःपुन्येन हन्यान्पुनरुदरगुहागेहवास्तव्यतां नः॥४४॥  
गाढासक्तो गरुत्मत्कटितटनिकटे रक्तचण्डातकाङ्के  
फक्कत्काञ्चीमहिम्ना फणिमणिमहसा लोहिताङ्गो भुजङ्गः।  
सत्तासांसिद्धिकं न स्सपदिबहुविधं कर्मबन्धं निरुन्ध्या  
द्विंध्याद्र्यालीन सन्ध्याघनघटिततटित्कान्तिचातुर्यधुर्यः॥४५॥  
॥गरुडपञ्चाशति परिष्कारवर्णकश्चतुर्थः॥  
वैगोत्तानं वितानं व्यजनमनुगुणं वैजयन्ती जयन्ती  
मित्रं नित्याभ्यमित्रं युधिविजयरथो युग्ययोगानपेक्षः।  
दासोनिष्पर्युदासोदनुतनयभिदोनिस्सहायरसहायो  
दोधूयेतास्मदीयंदुरितमधरितारातिपक्षैस्स्वपक्षैः॥४६॥

उक्षादक्षान्तकस्यस्खलतिवरजितः कुम्बरः खञ्जरीतिः  
क्लान्तोधातुश्शकुन्तोनुगइतिदययासामिरुद्धस्यदोऽपि।  
ग्राहग्रस्तद्विपेन्द्रक्षतभयचकिताकुण्ठवैकुण्ठचिन्ता  
नासीरोदारमूर्तिर्नरकविहतयेस्ताद्विहङ्गेश्वरो नः॥४७॥  
वेगोद्वेलस्सुवेले किमिदमितिमिथो मन्त्रितोवानरेन्द्रै-  
र्मायामानुष्यलीलामभिनयतिहरौलब्धसेवाविशेषः।  
वैदेहीकर्णपूरस्तबकसुरभिणा यस्समाश्लेषिदोर्ष्णा  
तृष्णापारिप्लवानां सभवतु गरुडोदुःखवारिप्लवो नः॥४८॥  
दुग्धोदन्वत्प्रभूतस्वकमहिमपृथुर्विष्णुनाकृष्णनाम्ना  
पिंछाकल्पानुकल्पस्समघटितदृढो यत्प्रदिष्टः किरीटः।  
वीरो वैरोचनास्त्रवणकिणगुणितोदग्रनिर्घातघात-  
स्सङ्घातं सर्पघातीसहरतुमहतामस्मदत्याहितानां॥४९॥  
रुन्ध्यात्संवर्तसन्ध्याघनपटलकनत्यक्षविक्षेपहेला-  
वातूलास्फालतूलांचलनिचयतुलाधे यदैतेयलोकः।  
आस्माकैः कर्मपाकैरभिगतमहितानीकमप्रत्यनीकै  
र्दिव्यंदिव्यापदानैर्दनुजविजयिनो वैजयन्तीशकुन्तः॥५०॥  
यत्पक्षस्थात्रिवेदीत्रिगुणजलनिधिर्लंघ्यते यद्गुणज्ञै-  
र्वर्गस्त्रैवर्गिकाणांगतिमिहलभतेनाथवद्यत्सनाथः।  
त्रैकाल्योपस्थितात्सत्रियुगनिधिरघादायतात्त्रायतान्न-  
स्नातानेकस्त्रिधाम्नस्त्रिदशरिपुचमूमोहनोवाहनेन्द्रः॥५१॥

सैकांपञ्चाशतंयामतनुतविनता नन्दनं नन्दयिष्य-  
न्कृत्वा मौलौतदाज्ञांकविकथकघटाकेसरी वेङ्कटेशः।  
तामेतां शीलयन्तश्शमितविषधरव्याधिदैवाधिपीडाः  
कांक्षापौरस्त्यलाभाः कृतमितरफलैस्तार्क्ष्यकल्पाभवन्ति॥५२॥

॥गरुडपञ्चाशति अद्भुतवर्णकः पञ्चमः॥

इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्यश्रीमद्वेङ्कटनाथस्य  
वेदान्ताचार्यस्य कृतिषु गरुडपञ्चाशत् संपूर्णा॥

<MISSING_FIG href="../books_images/U-IMG-172464999730.png"/>  
कवितार्किकासिंहाय कल्याणगुणशालिने।  
श्रीमते वेङ्कटेशाय वेदान्तगुरवे नमः ॥

<MISSING_FIG href="../books_images/U-IMG-172465009630.png"/>  

**॥प्रातर्निर्वेदकारिकाः॥**

मातरं रङ्गराजस्य शौरिराज ( शबरीश ) पुरोहितम्।  
गुरुं वरदराजस्य वन्दे वङ्गिपुराधिपम् ॥  

उत्थाय शयने तस्मिन्नासीनो नियतेन्द्रियः।  
त्रस्तनिर्विण्णहृदयो व्यर्थं वीक्ष्य गतं वयः॥१॥  
तापत्रयेण चाक्रान्तस्तीव्रेणाध्यात्मिकादिना।  
दावजेनाग्निनालीढो भ्राम्यन्निववने मृगः॥२॥  
संसारवागुरान्तस्स्थो लूनपक्ष इवाण्डजः।  
अपश्यन्निर्गमोपायमागामिष्वपि जन्मसु॥३॥

अकार्यैरतिबीभत्सैः क्रियमाणैः कृतैरपि।  
लज्जितश्च विषण्णश्च स्मर्यमाणैस्त्वकर्मभिः॥४॥  
अविनीतमशिक्षार्हमसद्गुणगणाकरम्।  
अवधार्य स्वमात्मानमचिकित्स्याशुभाश्रयम्॥५॥  
दह्यमानेन्धनान्तस्स्थो विस्फुरन्निव कीटकः।  
अलब्धनिर्गमस्तिष्ठन्मध्ये मरणजन्मनोः॥६॥  
विह्वलश्च विषण्णश्च विमृशन्स्वामिमां दशाम्।  
चिन्तयन्प्रथमं चैवमाचरन्प्रियमात्मनः॥७॥  
संसारचक्रमारोप्य बलिभिः कर्मरज्जुभिः।  
कालेनाकृष्यमाणस्य जङ्गमस्थावरात्मनः॥८॥  
अहो मे महती याता निष्फला जन्मसन्ततिः।  
अनाराधितगोविन्दचरणाम्भोरुहद्वया॥९॥  
अनासादितसत्कर्मज्ञानभक्तिसुधारसा।  
अदृष्ट्रानन्तसंसारसागरोत्तारणप्लवा॥१०॥  
श्रुतिस्मृत्युदिताशेषसदाचारपराङ्मुखी।  
अनुपासितसद्वृद्धा स्वीकृतासत्समागमा॥११॥  
त्यक्तवर्णसमाचारा भ्रष्टावैदिकवर्त्मनः।  
असम्पादितशुश्रूषा गुर्वाचार्यपितृष्वपि॥१२॥  
निजकर्मजदेवादिदेहाभ्यस्तात्मभावना।  
तद्भावनानुगोद्भूत सुखदुःखव्यवस्थितिः॥१३॥

असम्भूतस्वयाथात्म्यज्ञानजोत्तमनिर्वृतिः।  
पशुवत्प्राकृतैरेव गुणैरधिकनिर्वृता॥१४॥  
न कर्मनिष्ठा नात्मज्ञा नापि भक्तियुता हरौ।  
नोद्युक्ता भक्तिहीनत्वात्तत्क्रियास्वर्चनादिषु॥१५॥  
कर्मभिः पुण्यपापाख्यैरविद्यापरनामभिः।  
धूमैरिवार्चिराग्नेयं ज्ञानमावृत्य देहिनः॥१६॥  
भूषयित्वा स्वकं देहं शब्दाद्यैस्स्वाश्रयैर्गुणैः।  
दर्शयित्वा स्वसौन्दर्यमात्मने तिष्ठमानया॥१७॥  
निरस्तातिशयाह्लाद सुखभावैकलक्षणम्।  
संछाद्य स्वगुणैरेव स्वरूपं च परात्मनः॥१८॥  
गुणमय्या प्रकृत्याख्यभगवन्माययाऽनया।  
स्वसंलीनानन्तजीव कृतकर्मानुरूपया॥१९॥  
गुणत्रयाश्रयानन्तविचित्रपरिणामया।  
अतिदुस्तरया देवप्रपत्तिरहितात्मभिः॥२०॥  
प्रलोभ्यमाना सततं तयैवात्यन्तनिर्वृता।  
अजानतीव स्वहितं मूकस्वप्नानुकारिणी॥२१॥  
निष्पानीये निरालम्बे निश्छाये निरपाश्रये।  
द्राघीयस्यशुभे मार्गे यमस्य सदनं प्रति॥२२॥  
गच्छतो मेऽसहायस्य वर्धयन्ती भयं महत्।  
अतीतापि सदैवैषा तिष्ठतीव पुरो मम॥२३॥

गतया त्वीदृशं रूपं वर्तमानेऽपि जन्मनि।  
तथैव सुमहान्कालो गतः क्षण इवाल्पकः॥२४॥  
अलब्धसुखसंस्पर्शमकृताघौघनिष्कृति।  
विनैव हरिपादार्चामहो पश्यत एव मे॥२५॥  
किं करिष्यामि पदयोर्निपतिष्यामि कस्य वा।  
दुस्तरां दुर्दशामेतां कथयिष्यामि कस्य वा॥२६॥  
इति निर्विद्य तदनु धृतिमालम्ब्य सात्विकीम्।  
विधूय चेमं निर्वेदं सर्वकार्यावसादकम्॥२७॥  
उद्धरिष्यन्स्वमात्मानं मज्जन्तं भवसागरे।  
पुनर्निश्चिनुयादेवं स्थिरधीस्स्वार्थसिद्धये॥२८॥  
गतमेव गतं जन्म कानु तत्र प्रतिक्रिया।  
प्रवहत्येव हि जले सेतुः कार्योविजानता॥२९॥  
इदानीं कर्तुमेतावच्छक्यं काले गते सति।  
मयाऽऽत्महितकामेन बिभ्यता भवसागरात्॥३०॥  
इत ऊर्ध्वमहं तावद्यावज्जीवं श्रियश्श्रियः।  
पदयोरर्चनं कर्तुं यतमानस्समाहितः॥३१॥  
अभिगच्छन्हरिं प्रातः पश्चाद्द्रव्याणि चार्जयन्।  
अर्चयंश्च ततो देवं ततो मन्त्रान्जपन्नपि॥३२॥  
ध्यायन्नपि परं देवं कालेषूतेषु पञ्चसु।  
वर्तमानस्सदा चैवं पाञ्चकालिकवर्त्मना॥३३॥

स्वार्जितैर्गन्धपुष्पाद्यैश्शुभैरशक्त्यनुरूपतः।  
आराधयन्हरिं भक्त्या गमयिष्यामि वासरान्॥३४॥

॥इति वङ्गिवंशेश्वरविरचिताः प्रातर्निर्वेदकारिकाः समाप्ताः॥

<MISSING_FIG href="../books_images/U-IMG-172463684730.png"/>

**॥परमार्थस्तुतिः॥**

वन्देऽहं वरदार्यन्तं वत्साभिजनभूषणम्।  
भाष्यामृतप्रदानाद्य स्सञ्जीवयति मामपि॥

सत्सङ्गाद्भवनिस्पृहो गुरुमुखाच्छ्रीशं प्रपद्यात्मवा  
न्प्रारब्धं परिभुज्य कर्मशकलं प्रक्षीणकर्मान्तरः।  
न्यासादेव निरङ्कुशेश्वरदयानिर्लूनमायान्वयो  
हार्दानुग्रहलब्धमध्यधमनिद्वाराद्बहिर्निर्गतः॥१॥  
मुक्तोऽर्चिर्दिनपूर्वपक्ष षडुदङ्मासाब्द वातांशुम-  
द्ग्लौविद्युद्वरुणेन्द्रधातृमहितस्सीमान्तसिन्ध्वाप्लुतः।  
श्रीवैकुण्ठमुपेत्य नित्यमजडं तस्मिन्परब्रह्मण-  
स्सायुज्यं समवाप्य नन्दति समं तेनैव धन्यः पुमान्॥२॥  
प्रातर्नित्यानुसन्धेयं परमार्थं मुमुक्षुभिः।  
श्लोकद्वयेन संक्षिप्तं सुव्यक्तं वरदोऽब्रवीत्॥

इति श्रीवात्स्यवरददेशिकप्रणीता परमार्थस्तुति स्सम्पूर्णा ॥

<MISSING_FIG href="../books_images/U-IMG-172463702130.png"/>

**॥परत्वादिपञ्चकस्तुतिः॥**

उद्यद्भानुसहस्रभास्वरपरव्योमास्पदंनिर्मल-  
ज्ञानानन्दघनस्वरूपममलं ज्ञानादिभिष्षड्गुणैः।

जुष्टं सूरिजनाधिपं धृतरथाङ्गाब्जं सुभूषोज्वलं  
श्रीभूसेव्यमनन्तभोगिनिलयं श्रीवासुदेवं भजे॥१॥  
आमोदे भुवने प्रमोदउतसम्मोदेचसङ्कर्षणं  
प्रद्युम्नञ्चतथानिरुद्धइतितान्सृष्टिस्थितीचाप्ययम्।  
कुर्वाणान्मतिमुख्यषड्गुणवरैर्युक्तां स्त्रियुग्मात्मकै  
र्व्यूहाधिष्ठितवासुदेवमपितं क्षीराब्धिनाथं भजे॥२॥  
वेदान्वेषणमन्दराद्रिभरणक्ष्मोद्धारणस्वाश्रित  
प्रह्लादावनभूमिभिक्षणजगद्विक्रान्तयोयत्क्रियाः।  
दुष्टक्षत्रनिबर्हणं दशमुखाद्युन्मूलनं कर्षणं  
कालिन्द्या अतिपापकंसनिधनं यत्क्रीडितं तं नुमः॥३॥  
योदेवादि चतुर्विधेषु जनिषु ब्रह्माण्डकोशान्तरे  
संभक्तेषु चराचरेषु निवसन्नास्ते सदान्तर्बहिः।  
विष्णुं तं निखिलेष्वणुष्वणुतरं भूयस्सुभूयस्तरं  
स्वाङ्गुष्ठप्रमितञ्चयोगिहृदयेष्वासीनमीशं भजे॥४॥  
श्रीरङ्गस्थलवेङ्कटाद्रिकरिगिर्यादौ तथाष्टोत्तर-  
स्थाने ग्रामनिकेतनेषु च सदासान्निध्यमासेदुषे।  
अर्चारूपिणमर्चकाभिमतितस्स्वीकुर्वते विग्रहं  
पूजांचाखिलवाञ्छितान्वितरते श्रीशाय तस्मै नमः॥५॥  
प्रातर्विष्णोः परत्वादि पञ्चकस्तुतिमुत्तमाम्।  
पठन्प्राप्नोति भगवद्भक्तिं वरदनिर्मिताम् ॥६॥

॥इति श्रीवात्स्यवरदार्य महादेशिकविरचिता परत्वादिपञ्चकस्तुति स्समाप्ता॥

<MISSING_FIG href="../books_images/U-IMG-172464144830.png"/>

**॥प्रातरनुसन्धेय श्लोकद्वयं श्लोकत्रयञ्च॥**

ग्राहग्रस्ते गजेन्द्रे रुवति सरभसं तार्क्ष्यमारुह्य धाव-  
न्व्याघूर्णन्माल्यभूषावसनपरिकरो मेघगम्भीरघोषः।  
आबिभ्राणो रथाङ्गं शरमसिमभयं शङ्खचापौ सखेटौ  
इस्तैः कौमोदकीमप्यवतु हरिरसावंहसां सहतेर्नः॥१॥  
नक्त्राक्रान्ते करींद्रे मुकुलितनयने मूलमूलेति खिन्ने  
नाहं नाहं नचाहं न च भवति पुनस्तादृशो मादृशेषु।  
इत्येवं त्यक्तहस्ते सपदि सुरगणे भावशून्ये समस्ते  
मूलं यत्प्रादुरासीत्स दिशतु भगवान्मङ्गलं संततं नः॥२॥  
प्रातस्स्मरामि भवभीतिमहार्तिशान्त्यै  
नारायणं गरुडवाहनमञ्जनाभम्।  
ग्राहाभिभूतमदवारणमुक्तिहेतुं  
चक्रायुधं तरुणवारिज पत्रनेत्रम्॥३॥  
प्रातर्नमामि मनसा वचसा च मूर्ध्ना पादारविन्दयुगलं परमस्यपुंसः।  
नारायणस्य नरकार्णवतारणस्य पारायणप्रवणविप्रपरायणस्य॥४॥  
प्रातर्भजामिभजतामभयङ्करं तं प्राक्सर्वजन्मकृतपापभयापनुत्त्यै।  
यो ग्राहवक्त्रपतितांघ्रिगजेन्द्रघोरशोकप्रणाशनकरो धृतशङ्खचक्रः ॥५॥  
श्लोकत्रयमिदं पुण्यं प्रातरुत्थाय यः पठेत्।  
श्लोकत्रयगुरुस्तस्मै दद्यादात्मपदं हरिः॥

इति श्लोकद्वयम्, श्लोकत्रयञ्च सम्पूर्णम्॥

<MISSING_FIG href="../books_images/U-IMG-172464172830.png"/>

**॥दिव्यदेशमङ्गलाशासनपञ्चकम्॥**

श्रीमान्वेङ्कटनाथार्यः सन्निधत्तां सदाहृदि॥

विधिविहितसपर्यां वीतदोषानुषङ्गा-  
मुपचितधनधान्यामुत्सवैस्त्यानहर्षाम्।  
स्वयमुपचिनुनित्यं रङ्गधामन्स्वरक्षां  
शमितविमतपक्षां शाश्वतीं रङ्गलक्ष्मीम्॥१॥  
प्रशमितकलिदोषां प्राज्यभोगानुबन्धां  
समुचितगुणजातां सम्यगाचारयुक्ताम्।  
श्रितजनबहुमान्यां श्रेयसीं वेङ्कटाद्रौ  
श्रियमुपचिनु नित्यं श्रीनिवास त्वमेव॥२॥  
वरदविरचयत्वं वारिताशेषदोषां  
पुनरुपचितपुण्यां भूषितां पुण्यकोट्याम्।  
सितमुदितमनोभिस्तावकैर्नित्यसेव्यां  
हतरिपुजनयोगां हस्तिधाम्नस्समृद्धिम्॥३॥  
नवनवबहुभोगां नाथ नारायणत्वं  
विरचयदुरितौघैस्तामनाघ्रातगन्धाम्।  
सहजसुलभदास्यैस्सद्भिरभ्यर्थनीयां  
यतिपरिबृढहृद्यां यादवाद्रे स्समृद्धिम्॥४॥  
श्रीरङ्गद्विरदवृषाद्रिपूर्वकेषु स्थानेषु स्थिरविभवाभवत्सपर्या।  
आकल्पं वरद विधूतत्रैरिपक्षा भूयस्याभवदनुकम्पयैव भूयात्॥५॥

इति दिव्यदेशमङ्गलाशासनपञ्चकं सम्पूर्णम्॥

<MISSING_FIG href="../books_images/U-IMG-172464208430.png"/>

**॥श्रीमच्छारीरकसुप्रभातम्॥**

हे देवाधिप हेदयेश्वर विभोवेधोऽश्वमेधावधे  
हेयोगींद्रशठारिमोहनतनो गोपालरक्षामनो।  
काञ्चीपूर्णमनोमृतायितवचोमोचारसापूरित-  
श्रीरामानुजसूक्तिदुग्धजलधेरुत्तिष्ठसुष्ठूदितम्॥१॥  
हस्त्यद्रीशत्वयेदं जगदखिलमभूत्सत्पुरायेनभूयो  
भूयस्स्यामित्यवेक्ष्यप्रचुरमिदमभूर्यस्त्वमात्माऽखिलस्य।  
तादृक्षत्वद्धियेदं सकलमिहयथामृद्धियामृण्मयं स्या-  
द्विज्ञातं हीति वेदे सुखशयित समुत्तिष्ठ सुष्ठु प्रभातम्॥२॥  
आप्नोतिब्रह्मवित्तत्परनथगगनाद्यात्मनोभूतमात्मा  
देहप्राणात्मभिन्नः प्रमदमय इहास्यैष आत्मानचान्यः।  
सैषत्विच्छन् बहुस्यामितिजगदसृजत्सोऽपरिच्छिन्नमोदो  
हीत्यत्रानन्दवल्ल्यांसुखशयित समुत्तिष्ठ सुष्ठुप्रभातम्॥३॥  
आदित्येऽन्तर्नखान्तं कनकमयतनुस्तादृशश्मश्रुकेशः  
कप्यासाम्भोरुहाक्षोदुरितत उदितोदृश्यते दिव्यरूपः।  
योऽसावणीक्ष्यतेऽन्तश्श्रुतिमयपुरुषो ब्रह्मतत्तस्यरूपं  
तद्यद्ध्यस्येति वेदे सुखशयित समुत्तिष्ठ सुष्ठुप्रभातम्॥४॥  
आकाशात्सर्वभूतान्यजनिषतपुराकाशमेवापियन्ति  
ज्यायानाकाशएभ्यः परमयनमपिह्येष आकाशएव।  
इत्थं देदीप्यमानाकृतिरखिलजगत्कारणं मोक्षदाता  
प्राप्यश्चेत्यर्थवेदे सुखशयित समुत्तिष्ठ सुष्ठुप्रभातम्॥५॥

प्राणं सर्वाणि भूतान्यभिसमुपविशन्त्येनमभ्युज्जिहीते  
सर्वं प्रस्तावमेषाह्यनुसरतिपरादेवतेत्यत्र वेदे।  
प्राणाधीनस्थितित्वेऽप्यखिलचिदचितांकाष्ठलोष्ठेष्वभावा-  
त्त्वद्भूमैकान्तभावे सुखशयित समुत्तिष्ठ सुष्ठुप्रभातम्॥६॥  
यज्ज्योतिर्दीप्यतेद्योः परमिहपुरुषेऽन्तस्थितज्योतिरेत-  
दित्युक्तासीमदीप्तिः परमपुरुषएवेतिनिर्णीतिदक्षे।  
पादोविश्वानिभूतान्यमृतमिहदिवीतोऽवशिष्टत्रिपादे-  
त्यर्थे छन्दोग वेदे सुखशयित समुत्तिष्ठ सुष्ठुप्रभातम्॥७॥  
प्राणःप्रज्ञात्मभूतस्तमिमममृतमायुश्चमामित्युपास्वे-  
त्युक्तः प्राणेन्द्ररूपः परमपुरुषएवेति निर्णीतिदक्षे।  
सैषप्राणः प्रजानन्नमृतमजर आनन्दइत्यन्तरात्मा  
साधारण्यार्थ वेदे सुखशयित समुत्तिष्ठ सुष्ठुप्रभातम्॥८॥  
सर्वं ब्रह्मेद मेतज्जनिलयभृतिकृद्धीत्युपासीत शान्तो  
ब्रह्मैतत्प्राणदेहं हृदयमयमथाकाशरूपादिभूमा।  
इत्थं सर्वत्रलोकेतनुभृदवगतं ब्रह्मलक्ष्मीश एवे-  
त्येतां शाण्डिल्यविद्यामधिशयित रमाश्लिष्ट सुष्ठुप्रभातम्॥९॥  
ब्रह्मक्षत्रौदनोक्त्यानिखिलविलयकृन्मृष्टमृत्यूपदंशो  
दुर्दर्शोगूढहार्दस्स्वविषयरुचिदश्शोकहत्यैह्युपास्यः।  
यष्टॄणां सेतुरेषोभयमिहभविनामध्वपारस्वधामा  
विष्णुर्ह्येवेति वेदे सुखशयित समुत्तिष्ठ सुष्ठुप्रभातम्॥१०॥

अक्ष्याधारे।य ईक्ष्यः पुरुष इहसआत्मेतिहोवाचचैत-  
द्ब्रह्मेत्याकारवेदेऽमृतमभयमयं वामनिर्भामनिश्च।  
संयद्वामश्च चक्षुस्थितिनियमनवान्ब्रह्मकं ब्रह्मखंचे-  
त्युक्त्या त्वय्येव सक्ते सुखशयित समुत्तिष्ठ सुष्ठुप्रभातम् ॥ ११ ॥  
पृथ्व्यां तिष्ठन्य एषोऽन्तर इह यमयत्येनमेषानवेदे-  
त्यन्तर्यामीतएषोऽमृतइतिनिगमेकाण्वपाठक्रमेण।  
यस्तिष्ठन्सर्वलोकेष्वखिलनिगमयज्ञात्मनांसोऽन्तरात्मा  
तेऽन्तर्यामीतिमाध्यंदिन निगमशयोत्तिष्ठं सुष्ठुप्रभातम् ॥१२॥  
योऽदृश्यत्वादिभूमा विभुरखिलगतं भूतयोन्यक्षरंत  
त्पश्यन्ति ध्यानिनोऽमीइति निगमशिरोवेद्य सार्वज्ञ्यभूमे ।  
दिव्योमूर्तस्सबाह्यान्तर इह पुरुषोऽजोक्षराद्यः परस्स्या  
त्तस्मादुत्कृष्ट इत्युत्तरनिगमशयोत्तिष्ठ सुष्ठुप्रभातम्॥१३॥  
आत्मानं त्वेववैश्वानरमिममधुनाध्येषिनोब्रूहितहर्ही-  
त्यारभ्यात्मानमेवं प्रमितमभिविमानंच वैश्वानरन्तं।  
यस्तूपास्तेससर्वेष्विति निगमसमुत्थान केकोनआत्मा  
किं ब्रह्मेत्यत्र वेदे सुखशयित समुत्तिष्ठ सुष्ठुप्रभातम्॥१४॥  
यस्मिन्नोतंद्युपृथ्व्याद्यखिलमपिमनःप्राणयुक्तं तमेकं  
जानीथात्मानमन्याविसृजतगिरएकोऽमृतस्यैष सेतुः।  
इत्यत्राधर्ववेदे त्वदनुगुणगुणैर्दृश्यताऽभावमुख्यैः  
पूर्व निर्णीतभावे सुखशयित समुत्तिष्ठ सुष्टुप्रभातम्॥१५॥

यत्रान्यन्नेक्षतेन्यन्ननिशमयति नान्यद्विजानातिभूमा  
सेतिच्छन्दोगवेदेतरतिशुचमिमामात्मविद्धीति पृष्टः।  
आचार्यः प्राहनामाद्यसुमदवधिकां ब्रह्मदृष्टिं विधाय  
प्राणात्सत्यज्ञमात्मज्ञमिति बहुसुखोत्तिष्ठ सुष्ठुप्रभातम्॥१६॥  
एतद्वाअक्षरं तद्ध्यभिदधति बुधागार्ग्यनण्वह्रसीयो  
स्थूलादीर्घादिरूपं गगनमुखजगच्छासकं तद्विधर्तृ।  
इत्थंगार्गिश्रुतिस्थाक्षरपदगमितं द्रष्ट्रूदृष्टंपरैरि  
त्यन्यव्यावृत्तभूमन् सुखशयित समुत्तिष्ठ सुष्ठुप्रभातम्॥१७॥  
यस्तुध्यायेत्त्रिमात्रं प्रणवमभिदधत्पूरुषं तं प्रकृष्टं  
सूर्येसम्पन्न एषक्षपितदुरित उन्नीयते ब्रह्मलोकम्।  
सैतस्माज्जीवपुंजात्परतरपुरुषं पश्यतीत्यत्र वेदे  
वेधो मेधाकरं त्वां वदति सुखशयोत्तिष्ठ सुष्ठुप्रभातम्॥१८॥  
यत्त्वस्यां ब्रह्मपुर्यामिदमथदहरं पुण्डरीकं हि वेश्म  
यस्तत्राकाश एषोन्तर इहदहरोयत्तदन्तस्तदेष्यम्।  
जिज्ञास्यं चेतिवेदेापहतदुरितत्वादिभिस्त्वा मुपास्यं  
प्राप्तुस्सत्येच्छभावं वदति सुखशयोत्तिष्ठ सुष्ठुप्रभातम्॥१९॥  
तिष्ठत्यङ्गुष्ठमात्रः पुरुषइहतथांगुष्ठमात्रोऽन्तरात्मा  
लोकानां सन्निविष्टो हृदयइहसदाभूतभव्येशिनेति।  
इत्थं वेदे मनुष्यैर्हृदयपरिमितं त्वामुपास्यं मनुष्यान्  
शास्त्रे शक्तांश्च वक्तर्यतिसुखशयितोत्तिष्ठ सुष्ठुप्रभातम्॥२०॥

जीवेनानुप्रविश्यस्थिरचरजगतां नामरूपप्रकाशं  
कुर्वन्देवादिकानांत्वदधिजिगमिषां साधयन्हस्तिनाथ।  
ब्रह्माणं ब्रह्मविद्यां प्रतिसमुपगतौ देवराड् दैत्यराजा-  
वित्यत्रेंद्रोपदेश सुखशयितसमुत्तिष्ट सुष्ठु प्रभातम्॥२१॥  
वस्वादित्यादिताप्तेरुपरिपरपदाप्त्यर्थविद्यासुशक्ति-  
र्वस्वादीनामपीति ध्वनयति निगमे ब्रह्मविद्यात्ववादे।  
नैवोदेता स्वमेतैकलइति विलयावस्थ तद्ध्यानसिद्ध्या  
कल्पेऽन्यस्मिं स्तदाप्तिं फलयतिशयितोत्तिष्ठसुष्ठु प्रभातम्॥२२॥  
रैक्कोजानश्रुतिंप्रत्युपदिशति परंब्रह्मशूद्रेतिहूत्वा  
ह्यब्रह्मज्ञाननिंदाजनितशुचमिमांख्यापयन्शूद्रशब्दः।  
विद्यानर्हं हि शूद्रं वदति तदपि न ब्राह्मणोवेन्तुमर्हे-  
दित्थं विद्योपदेशेद्रढयतिशयितोत्तिष्ठसुष्ठु प्रभातम्॥२३॥  
आकाशोनामरूपे विदधदपिहितेत्यंतरायत्तदेत-  
द्ब्रह्मेत्युक्तोन मुक्तोभवति नहितयोरेषनिर्वाहकस्स्यात्।  
जीवेनोपास्य एष प्रकृतदहराकाश एवात्रसेव्यो  
व्याकर्तानामरूपे इति निगमशयोत्तिष्ठसुष्ठु प्रभातम्॥२४॥  
स्वादिभ्योर्थादिकानां नियमनविषये यः प्रकर्षस्तदुक्ता-  
वव्यक्तोक्तं शरीरं न कपिलमतमित्यंजयन्नूर्ध्ववेदे।  
ज्ञानंयच्छेन्महत्यात्मनिनिजवशयेच्छांत आत्मन्यमुंचे-  
दात्माद्रेर्वश्यतोक्तौ सुखशयितसमुत्तिष्ठसुष्ठु प्रभातम्॥२५॥

एकाजांरक्तशुक्लासितभृतमखिलास्तत्सरूपास्सृजंती-  
मेकोजुष्टोऽनुशेतेह्यजइतरइमां भुक्तभोगां जहाति।  
इत्थं श्वैताश्वर्यामुपनिषदि तथा तैत्तिरीयश्रुतौ च  
ब्रह्मात्मजैककण्ट्यां सुखशयित समुत्तिष्ठसुष्ठु सुप्रभातम्॥२६॥  
यस्मिन्पञ्चेन्द्रियाणिस्थितमपि गगनं तं तथैवात्ममानी  
विद्वान्ब्रह्मामृतस्स्यादमृतमिति पदेकाण्ववज्युक्तवेदे।  
एकाक्षेपञ्चजन्यव्यवहृति घटकाकाशवाग्वाक्यशेष  
व्यत्यासात्काण्ववेदे सुखशयित समुत्तिष्ठ सुष्ठु प्रभातम्॥२७॥  
तद्भेदं तर्ह्यपव्याकृतमभवदितिप्रोक्तवेदादसद्वा  
अग्रेऽभूदेवदित्यप्यसदितिवचसाव्यक्तहेतुत्ववादे।  
आकाशादौ य आत्माजननकृदुदितस्सोविभक्ताह्वयाङ्ग-  
स्सत्वेनोक्तस्त्वमेवेत्यवसितशयितोत्तिष्ठ सुष्ठु प्रभातम्॥२८॥  
योवैबालाक एषां जनकइहनृणां यस्य कर्मैतदेष  
ध्येयः कौषीतकीश्रुत्युदित इति चितःकर्मणः कारणत्वे।  
प्राप्ते ब्रह्मब्रुवाणीत्यविदितपरमब्रह्मकर्ता ऽर्यमादेः  
कृत्स्नस्यैतस्यचेति त्ववसितशयितोत्तिष्ठ सुष्ठुप्रभातम्॥२९॥  
द्रष्टव्यश्श्राव्य आत्मामननपदमुपास्योर इत्यत्रवाक्ये  
जायापत्यादियोगात्पुरुष उदितइत्यत्रबोध्ये मुमुक्षोः।  
मैत्रेयीं याज्ञवल्क्यप्रतिवचनगिरामुत्तमानन्दरूपा  
त्वत्तोजायाधनादीत्यवसितशयितोत्तिष्ठ सुष्ठु प्रभातम्॥३०॥

इत्थं शारीकाब्धौशयितमुभयथाहेतुमस्यागमान्तै-  
स्सर्वैर्वाक्यैः प्रतीतं वरदमुरुदयं यष्टु मुद्बोधयित्रा।  
उद्बद्धावीररध्वीश्वरशठरिपुणाभिक्षुणाहेमलम्बि-  
न्यब्देऽस्मिन् चापमासेदिनगणगणितास्त्रग्धरास्सर्वधार्याः॥३१॥  
योऽसौ मेधाश्रुताद्यैर्दुरधिगमतयाम्नायशास्त्रैकयोनि-  
र्यच्चासूत्रित्रयीयं परनिरसनतोनेतिनेत्याहचैनं।  
वेधोलव्धाश्वमेधः करिगिरिशिखरे वीक्ष्यहृष्टो यदृक्षे  
सञ्जातं देवराजं वरदमिममहं तत्रहस्ते समीक्षे॥३२॥

इति श्रीवीरराघवशठकोपसंयमिसार्वभौम महादेशिकेन्द्रानुगृहीतं  
श्रीमच्छारीरकसुप्रभातं संपूर्णम्॥

<MISSING_FIG href="../books_images/U-IMG-172464627730.png"/>

**॥आत्मपञ्चकम्॥**

नाहं देहो नेन्द्रियाण्यन्तरंगं नाहंकारः प्राणवर्गो न बुद्धिः  
दारापत्यक्षेत्रवित्तादिदूरः साक्षी नित्यः प्रत्यगात्मा शिवोऽहम् ॥१॥  
रज्ज्वज्ञानाद्भाति रज्जुर्यथाहिः स्वात्माज्ञानादात्मनो जीवभावः।  
आप्तोक्त्याहि भ्रान्तिनाशे स रज्जुर्जीवो नाहं देशिकोक्त्या शिवोऽहम् ॥  
आभातीदं विश्वमात्मन्यसत्यं सत्यज्ञानानन्दरूपे विमोहात्।  
निद्रामोहात्स्वप्नवत्तन्न सत्यं शुद्धः पूर्णो नित्य एकः शिवोऽहम् ॥३॥  
मत्तो नान्यत् किञ्चिदत्रास्ति विश्वं सत्यं बाह्यं वस्तु मायोपक्लृप्तं ।  
आदर्शान्तर्भासमानस्य तुल्यं मय्यद्वैते भाति तस्माच्छिवोऽहम् ॥४॥

नाहं जातो न प्रवृद्धो न नष्टो देहस्योक्ताः प्राकृताः सर्वधर्माः।  
कर्तृत्वादिश्चिन्मयस्यास्ति नाहंकारस्यैव ह्यात्मनो मे शिवोऽहम्॥५॥  
नाहं जातो जन्ममृत्यू कुतो मे नाहं प्राणः क्षुत्पिपासे कुतो मे।  
नाहं चित्तं शोकमोहौ कुतो मे नाहं कर्ता बन्धमोक्षौ कुतो मे॥६॥

इति श्रीमच्छङ्कराचार्यविरचितमात्मपञ्चकस्तोत्रं संपूर्णम्॥

<MISSING_FIG href="../books_images/U-IMG-172464653330.png"/>

**॥ वैराग्यपञ्चकम् ॥**

क्षोणीकोणशतांशपालनकलादुर्वारगर्वानल-  
क्षुभ्यत्क्षुद्रनरेन्द्रचाटुरचनाधन्यान्न मन्यामहे।  
देवं सेवितुमेव निश्चिनुमहे योऽसौ दयालुः पुरा  
धानामुष्टिमुचे कुचेलमुनये दत्ते स्म वित्तेशताम्॥१॥  
सिलं किमनलं भवेदनलमौदरं बाधितुं  
पयः प्रसृतिपूरकं किमु न धारकं सारसम्।  
अयत्नमलमल्लकं पथि पटच्चरं कच्चरं  
भजन्ति विबुधा मुधा ह्यहह कुक्षितः कुक्षितः॥२॥  
ज्वलतु जलधिक्रोडक्रीडत्कृपीडभवप्रभा-  
प्रतिभटपटुज्वालामालाकुलो जठरानलः।  
तृणमपि वयं सायंसंफुल्लमल्लिमतल्लिका-  
परिमलमुचा वाचा याचामहे न महीश्वरान्॥३॥  
दुरीश्वरद्वारबहिर्वितर्दिकादुरासिकायै रचितोऽयमञ्जलिः।  
यदञ्जनाभं निरपायमस्ति मे धनञ्जयस्यन्दनभूषणं धनम्॥४॥

शरीरपतनावधि प्रभुनिषेवनापादना-  
दबिन्धनधनञ्जयप्रशमदं धनं दन्घनम्।  
धनञ्जयविवर्धनं धनमुदूढगोवर्धनं  
सुसाघनमबाधनं सुमनसां समाराधनम्॥५॥  
नास्ति पित्रार्जितं किंचिन्न मया किंचिदार्जितम्।  
अस्ति मे हस्तिशैलाग्रेवस्तु पैतामहं धनम्॥६॥

वैराग्यपञ्चकं संपूर्णम्॥

<MISSING_FIG href="../books_images/U-IMG-172464672830.png"/>

**॥धन्याष्टकम्॥**

तज्ज्ञानं प्रशमकरं यदिंद्रियाणां तज्ज्ञेयं यदुपनिषत्सु निश्चितार्थम्।  
ते धन्या भुवि परमार्थनिश्चितेहाः शेषास्तु भ्रमनिलये परिभ्रमंति॥  
आदौ विजित्य विषयान्मदमोहरागद्वेषादिशत्रुगणमाहृतयोगराज्याः।  
ज्ञात्वाऽमतं समनुभूयपरात्मविद्याकांतासुखाबत गृहेविचरंतिधन्याः  
त्यक्त्वागृहे रतिमतो गतिहेतुभूतामात्मच्छयोपनिषदर्थरसं पिबंतः।  
वीतस्पृहा विषयभोगपदे विरक्ता धन्याश्चरंति विजनेषु विरक्तसङ्गाः॥  
त्यक्त्वा ममाहमिति बंधकरे पदे द्वे मानावमानसदृशाः समदर्शिनश्च।  
कर्तारमन्यमवगम्य तदर्पितानि कुर्वंति कर्मपरिपाकफलानि धन्याः॥  
त्यक्त्वेषणात्रयमवेक्षितमोक्षमार्गा भैक्षामृतेन परिकल्पितदेहयात्राः।  
ज्योतिः परात्परतरं परमात्मसंज्ञं धन्या द्विजा रहसि हृद्यवलोकयंति॥  
नासन्न सन्न सदसन्न महन्न चाणु न स्त्री पुमान्न च नपुंसकमेकबीजम्।  
यैर्ब्रह्म तत्समनुपासितमेकचित्ता धन्या विरेजुरितरे भवपाशबद्धाः॥

अज्ञानपङ्कपरिमग्नमपेतसारं दुःखालयं मरणजन्मजरावसक्तम्।  
संसारबंधनमनित्यमवेक्ष्य धन्या ज्ञानासिना तदवशीर्यं विनिश्चयंति॥  
शान्तैरनन्यमतिभिर्मधुरस्वभावैरेकत्वनिश्चितमनोभिरपेतमोहैः।  
साकं वनेषु विजितात्मपदस्वरूपं शास्त्रेषु सम्यगनिशं विमृशंतिधन्याः॥  
अहिमिव जनयोगं सर्वदा वर्जयेद्यः  
कुणपमिव सुनारीं त्यक्तुकामो विरागी।  
विषमिव विषयान्यो मन्यमानो दुरन्तान्  
जयति परमहंसो मुक्तिभावं समेति॥९॥  
संपूर्णं जगदेव नन्दनवनं सर्वेऽपि कल्पद्रुमा  
गाङ्गं वारि समस्तवारिनिवहः पुण्याः समस्ताः क्रियाः।  
वांचः प्राकृतसंस्कृताः श्रुतिशिरो वाराणसी मेदिनी  
सर्वावस्थितिरस्य वस्तुविषया दृष्टे परब्रह्मणि॥१०॥  

इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीमच्छङ्कराचार्यविरचितं  
धन्याष्टकस्तोत्रं संपूर्णम्॥

<MISSING_FIG href="../books_images/U-IMG-172464722030.png"/>

**॥विज्ञाननौका॥**

तपोयज्ञदानादिभिः शुद्धबुद्धिर्विरक्तोनृपादौ पदे तुच्छबुद्ध्या ।  
परित्यज्य सर्वं यदाप्नोति तत्त्वं परं ब्रह्म नित्यं तदेवाहमस्मि ॥१॥  
दयालुं गुरुं ब्रह्मनिष्ठं प्रशान्तं समाराध्य मत्या विचार्य स्वरूपम्।  
यदाप्नोति तत्त्वं निदिध्यास्य विद्वान्परं ब्रह्म ०॥२॥

यदानन्दरूपं प्रकाशस्वरूपं निरस्तप्रपञ्चं परिच्छेदशून्यम्।  
अहं ब्रह्मवृत्त्यैकगम्यं तुरीयं परं ब्रह्म०॥३॥  
यदज्ञानतो भाति विश्वं समस्तं विनष्टं च सद्यो यदात्मप्रबोधे।  
मनोवागतीतं विशुद्धं विमुक्तं परं ब्रह्म०॥४॥  
निषेधे कृते नेति नेतीति वाक्यैः समाधिस्थितानां यदाभाति पूर्णम्।  
अवस्थात्रयातीतमेकं तुरीयं ब्रह्म०॥५॥  
यदानन्दलेशैः समानन्दि विश्वं यदाभाति सत्त्वे तदाभाति सर्वम्।  
यदालोचने रूपमन्यत्समस्तं परं ब्रह्म ०॥६॥  
अनन्तं विभुं सर्वयोनिं निरीहं शिवं सङ्गहीनं यदोङ्कारगम्यम्।  
निराकारमत्युज्जलं मृत्युहीनं परं ब्रह्म ०॥७॥  
यदानन्दसिंधौ निमग्नः पुमान्स्यादविद्याविलासः समस्तप्रपञ्चः।  
यदा न स्फुरत्यद्भुतं यन्निमित्तं परं ब्रह्म०॥८॥  
स्वरूपानुसंधानुरूपां स्तुतिं यः पठेदादराद्भक्तिभावो मनुष्यः।  
शृणोतीह वा नित्यमुद्युक्तचित्तो भवेद्विष्णुरत्रैव वेदप्रमाणात् ॥९॥  
विज्ञाननावं परिगृह्य कश्चित्तरेद्यदज्ञानमयं भवाब्धिम्।  
ज्ञानासिना याहि विच्छिद्य तृष्णां विष्णोः पदं याति स एव धन्यः॥

इति श्रीशङ्कराचार्यविरचिता विज्ञाननौका संपूर्णा॥

<MISSING_FIG href="../books_images/U-IMG-172464746830.png"/>

**॥द्वादशपंजरिकास्तोत्रम्॥**

मूढ जहीहि धनागमतृष्णां कुरु सद्बुद्धिं मनसि वितृष्णाम्।  
यल्लभसे निजकर्मोपात्तं वित्तं तेन विनोदय चित्तम्॥१॥

अर्थमनर्थं भावय नित्यं नास्ति ततः सुखलेशः सत्यम्।  
पुत्रादपि धनभाजां भीतिः सर्वत्रैषा विहिता नीतिः॥२॥  
का ते कांता कस्ते पुत्रः संसारोऽयमतीव विचित्रः।  
कस्य त्वं कः कुत आयातस्तत्वं चिंतय यदिदं भ्रातः॥३॥  
मा कुरु जनधनयौवनगर्वं हरति निमेषात्कालः सर्वम्।  
मायामयमिदमखिलं हित्वा ब्रह्मपदं त्वं प्रविश विदित्वा॥४॥  
कामं क्रोधं मोहं लोभं त्यक्त्वात्मानं भावय कोऽहम्।  
आत्मज्ञानविहीना मूढास्ते पच्यंते नरकनिगूढाः॥५॥  
सुरमन्दिरतरुमूलनिवासः शय्या भूतलमजिनं वासः।  
सर्वपरिग्रहभोगत्यागः कस्य सुखं न करोति विरागः॥६॥  
शत्रौ मित्रे पुत्रे बन्धौ मा कुरु यत्नं विग्रहसन्धौ।  
भव समचित्तः सर्वत्र त्वं वांछस्यचिराद्यदि विष्णुत्वम्॥७॥  
त्वयि मयि चान्यत्रैको विष्णुर्व्यर्थं कुप्यसि सर्वसहिष्णुः।  
सर्वस्मिन्नपि पश्यात्मानं सर्वत्रोत्सृज भेदाज्ञानम्॥८॥  
प्राणायामं प्रत्याहारं नित्यानित्यविवेकविचारम्।  
जाप्यसमेतसमाधिविधानं कुर्ववधानं महदवधानम्॥९॥  
नलिनीदलगतसलिलं तरलं तद्वज्जीवितमतिशयचपलम्।  
विद्धि व्याध्यभिमानग्रस्तं लोकं शोकहतं च समस्तम्॥१०॥  
का तेऽष्टादशदेशे चिंता वातुल तत्र किं नास्ति नियंता।  
यस्त्वां हस्ते सुदृढनिबद्धं बोधयति प्रभवादिविरुद्धम्॥११॥

गुरुचरणांबुजनिर्भरभक्तः संसारादचिराद्भव मुक्तः।  
सेंद्रियमानसनियमादेवं द्रक्ष्यसि निजहृदयस्थं देवम्॥१२॥  
द्वादशपंजरिकामय एष शिष्याणां कथितो ह्युपदेशः।  
येषां चित्ते नैव विवेकस्ते पच्यंते नरकमनेकम्॥१३॥

इति श्रीमच्छङ्कराचार्यविरचितं द्वादशपंजरिकास्तोत्रं संपूर्णम् ॥  
<MISSING_FIG href="../books_images/U-IMG-1724637745Capture.JPG"/>

**॥चर्पटपंजरिकास्तोत्रम्॥**

दिनमपि रजनी सायं प्रातः शिशिरवसन्तौ पुनरायातः।  
कालः क्रीडति गच्छत्यायुस्तदपि न मुंचत्याशावायुः॥१॥  
भज गोविंदं भज गोविंदं भज गोविंदं मूढमते।  
प्राप्ते सन्निहिते मरणे नहि नहि रक्षति डुकृञ् करणे।  
(ध्रुवपदम्)। अग्रे वह्निः पृष्ठे भानू रात्रौ चुबुकसमर्पितजानुः।  
करतलभिक्षा तरुतलवासस्तदपि न मुंचत्याशापाशः।भज गो०॥२॥  
यावद्वित्तोपार्जनसक्तस्तावन्निजपरिवारो रक्तः।  
पश्चाद्धावति जर्जरदेहे वार्तां पृच्छति कोऽपि न गेहे। भज गो०॥३॥  
जटिलो मुंडी लुंछितकेशः काषायांबरबहुकृतवेषः।  
पश्यन्नपि च न पश्यति मूढ उदरनिमित्तं बहुकृतवेषः।भज गो०॥४॥  
भगवद्गीता किंचिदधीता गङ्गाजललवकणिका पीता।  
सकृदपि यस्य मुरारिसमर्चा तस्य यमः किं कुरुते चर्चाम्। भज गो०॥५॥  
अङ्गं गलितं पलितं मुंडं दशनविहीनं जातं तुंडम्।  
वृद्धो याति गृहीत्वा दंडं तदपि न मुंचत्याशापिंडम्। भज गो०॥६॥

बालस्तावत्क्रीडासक्तस्तरुणस्तावत्तरुणीरक्तः।  
वृद्धस्तावश्चिंतामग्नः परे ब्रह्मणि कोऽपि न लग्नः भज गो०॥७॥  
पुनरपि जननं पुनरपि मरणं पुनरपि जननीजठरे शयनम्।  
इह संसारे खलु दुस्तारे कृपयाऽपारे पाहि मुरारे। भज गो०॥८॥  
पुनरपि रजनी पुनरपि दिवसः पुनरपि पक्षः पुनरपि मासः।  
पुनरप्ययनं पुनरपि वर्षं तदपि न मुंचत्याशामर्षम्। भज गो०॥९॥  
वयसि गते कः कामविकारः शुष्के नीरे कः कासारः।  
नष्टे द्रव्ये कः परिवारो ज्ञाते तत्त्वे कः संसारः। भज गो०॥१०॥  
नारीस्तनभरनाभिनिवेशं मिथ्यामायामोहावेशम् ।  
एतन्मांसवसादिविकारं मनसि विचारय वारंवारम्। भज गो०॥११॥  
कस्त्वं कोऽहं कुत आयातः का मे जननी को मे तातः।  
इति परिभावय सर्वमसारं विश्वं त्यक्त्वा स्वप्नविचारम्। भज गो०॥१२॥  
गेयं गीतानामसहस्रं ध्येयं श्रीपतिरूपमजस्रम्।  
नेयं सज्जनसङ्गे चित्तं देयं दीनजनाय च वित्तम्। भज गो०॥१३॥  
यावज्जीवो निवसति देहे कुशलं तावत्पृच्छति गेहे।  
गतवति वायौ देहापाये भार्या बिभ्यति तस्मिन्काये। भज गो०॥१४॥  
सुखतः क्रियते रामाभोगः पश्चाद्धंत शरीरे रोगः।  
यद्यपि लोके मरणं शरणं तदपि न मुंचति पापाचरणम्। भज गो०॥१५॥  
रथ्याचर्पटविरचितकंथः पुण्यापुण्यविवर्जितपंथः।  
नाहं न त्वं नायं लोकस्तदपि किमर्थं क्रियते शोकः। भज गो०॥१६॥

कुरुते गङ्गासागरगमनं व्रतपरिपालनमथवा दानम्।  
ज्ञानविहीने सर्वमनेन मुक्तिर्न भवति जन्मशतेन। भज गो०॥।१७॥

इति श्रीमच्छङ्कराचार्यविरचितं चर्पटपंजरिकास्तोत्रं संपूर्णम् ॥  
<MISSING_FIG href="../books_images/U-IMG-1724638470Capture1.JPG"/>

**॥हस्तामलकस्तोत्रम्॥**

कस्त्वं शिशो कस्य कुतोऽसि गंता किं नाम ते त्वं कुत आगतोऽसि।  
एतन्मयोक्तं वद चार्भक त्वं मत्प्रीतये प्रीतिविवर्धनोऽसि॥१॥  
**हस्तामलक उवाच -**  
नाहं मनुष्यो न च देवयक्षौ न ब्राह्मणक्षत्रियवैश्यशूद्रः।  
न ब्रह्मचारी न गृही वनस्थो भिक्षुर्न चाहं निजबोधरूपः॥२॥  
निमित्तं मनश्चक्षुरादिप्रवृत्तौ निरस्ताखिलोपाधिराकाशकल्पः।  
रविर्लोकचेष्टानिमित्तं यथा यः स नित्योपलब्धिस्वरूपोऽहमात्मा॥३॥  
यमग्नत्युष्णवन्नित्यबोधस्वरूपं मनश्चक्षुरादीन्यबोधात्मकानि।  
प्रवर्तंत आश्रित्य निष्कंपमेकं स नित्योपलब्धिस्वरूपोऽह ०॥४॥  
मुखाभासको दर्पणे दृश्यमानो मुखत्वात्पृथक्त्वेन नैवास्तु वस्तु \।  
चिदाभासको धीषु जीवोऽपि तद्वत्स नित्योपलब्धिस्वरूपो०॥५॥  
यथादर्पणाभाव आभासहानौ मुखं विद्यते कल्पनाहीनमेकम्।  
यथा धीवियोगे निराभासको यः स नित्योप०॥६॥  
मनश्चक्षुरादेर्वियुक्तः स्वयं यो मनश्चक्षुरादेर्मनश्चक्षुरादिः।  
मनश्चक्षुरादेरगम्य स्वरूपः स नित्योपल ०॥७॥

य एको विभाति स्वतः शुद्धचेताः प्रकाशस्वरूपोऽपि नानेव धीषु।  
शरावोदकस्थो यथा भानुरेकः स नित्योपल० ॥८॥  
यथाऽनेकचक्षुः प्रकाशो रविर्न क्रमेण प्रकाशीकरोति प्रकाश्यम्।  
अनेका धियो यस्तथैकः प्रबोधः स नित्योपल०॥९॥।  
विवस्वत्प्रभातं यथारूपमक्षं प्रगृह्णाति नाभातमेवं विवस्वान्।  
यदाभात आभासयत्यक्षमेकः स नित्योपल ०॥१०॥।  
यथा सूर्यं एकोप्स्वनेकश्चलासु स्थिरास्वप्यनन्यद्विभाव्यस्वरूपः।  
चलासु प्रभिन्नः सुधीष्वेकएव स नित्योपल०॥११॥  
घनच्छन्नदृष्टिर्घनच्छन्नमर्कं यथा निष्प्रभं मन्यते चातिमूढः।  
तथा बद्धवद्भाति यो मूढदृष्टेः स नित्योपल ०॥१२॥  
समस्तेषु वस्तुष्वनुस्यूतमेकं समस्तानि वस्तूनि यन्न स्पृशंति।  
वियद्वत्सदा शुद्धमच्छस्वरूपं स नित्यो ०॥१३॥  
उपाधौ यथा भेदता सन्मणीनां तथा भेदता बुद्धिभेदेषु तेऽपि।  
यथा चंद्रिकाणां जले चंचलत्वं तथा चंचलत्वं तवापीह विष्णो॥

इति श्रीमच्छङ्कराचार्यकृत हस्तामलकस्तोत्रं संपूर्णम् ॥  
<MISSING_FIG href="../books_images/U-IMG-1724639105Capture1.JPG"/>

**॥साधनपञ्चकम्॥**

वेदो नित्यमधीयतां तदुदितं कर्म स्वनुष्ठीयतां  
तेनेशस्य विधीयतामपचितिः काम्ये मतिस्त्यज्यताम्।  
पापौघः परिधूयतां भवसुखे दोषोऽनुसंधीयता-  
मात्मेच्छा व्यवसीयतां निजगृहात्तूर्णंविनिर्गम्यताम्॥१॥

सङ्गः सत्सु विधीयतां भगवतो भक्तिर्दृढा धीयतां  
शांत्यादिः परिचीयतां दृढतरं कर्माशु संत्यज्यताम्।  
सद्विद्वानुपसर्प्यतां प्रतिदिनं त्वत्पादुके सेव्यतां  
ब्रह्मैकाक्षरमर्थ्यतां श्रुतिशिरोवाक्यं समाकर्ण्यताम्॥२॥  
वाक्यार्थश्च विचार्यतां श्रुतिशिरःपक्षः समाश्रीयतां  
दुस्तर्कात्सुविरम्यतां श्रुतिमतस्तर्कोऽनुसंधीयताम्।  
ब्रह्मैवास्मि विभाव्यतामहरहर्गर्वः परित्यज्यतां  
देहेहंमतिरुज्ज्झ्यतां बुधजनैर्वादः परित्यज्यताम्॥३॥  
क्षुद्व्याधिश्च चिकित्स्यतां प्रतिदिनं भिक्षौषधं भुज्यतां  
स्वाद्वन्नं न तु याच्यतां विधिवशात्प्राप्तेन संतुष्यताम्।  
शीतोष्णादि विषह्यतां न तु वृथा वाक्यं समुच्चार्यता-  
मौदासीन्यमभीप्स्यतां जनकृपानैष्ठुर्यमुत्सृज्यताम्॥४॥  
एकांते सुखमास्यतां परतरे चेतः समाधीयतां  
पूर्णात्मा सुसमीक्ष्यतां जगदिदं तद्बाधितं दृश्यताम्।  
प्राक्कर्म प्रविलाप्यतां चितिबलान्नाप्युत्तरैः श्लिष्यतां  
प्रारब्धं त्विह भुज्यतामथ परब्रह्मात्मना स्थीयताम्॥५॥  
यः श्लोकपंचकमिदं पठते मनुष्यः  
संचिंतयत्यनुदिनं स्थिरतामुपेत्य।  
तस्याशु संसृतिदवानलतीव्रघोरः  
तापः प्रशान्तिमुपयाति चितिप्रसादात्॥६॥

इति श्रीमच्छङ्कराचार्यविरचितं साधनपञ्चकं संपूर्णम्॥  
<MISSING_FIG href="../books_images/U-IMG-1724639896Capture1.JPG"/>

**॥मनीषापञ्चकम्॥**

सत्याचार्यस्य गमने कदाचिन्मुक्तिदायकम्।  
काशीक्षेत्रं प्रति सह गौर्या मार्गे तु शङ्करम्॥१॥  
अन्त्यवेषधरं दृष्ट्वा गच्छ गच्छेति चाब्रवीत्।  
शङ्करः सोऽपि चांडालस्तं पुनः प्राह शङ्करम्॥२॥  
अन्नमयादन्नमयं ह्यथवा चैतन्यमेव चैतन्यात्।  
द्विजवर दूरीकर्तुं वांछसि किं ब्रूहि गच्छ गच्छेति॥३॥  
किं गङ्गाम्बुनि बिंबितेंबरमणौ चण्डालवाटीपयः-  
पूरे चान्तरमस्ति कांचनघटीमृत्कुंभर्योर्वांबरे।  
प्रत्यग्वस्तुनि निस्तरङ्गसहजानंदावबोधाम्बुधौ  
विप्रोऽयं श्वपचोऽयमित्यपि महान् कोऽयं विभेदभ्रमः॥४॥  
जाग्रत्स्वप्नसुषुप्तिषु स्फुटतरा या संविदुज्जृम्भते  
या ब्रह्मादिपिपीलिकांततनुषु प्रोता जगत्साक्षिणी।  
सैवाहं न च दृश्यवस्त्विति दृढप्रज्ञापि यस्यापिचे-  
च्चांडालोऽस्तु स तु द्विजोऽस्तु गुरुरित्येषा मनीषा मम॥५॥  
ब्रह्मैवाहमिदं जगच्च सकलं चिन्मात्रविस्तारितं  
सर्वं चैतदविद्यया त्रिगुणयाशेषं मया कल्पितम्।  
इत्थं यस्य दृढा मतिः सुखतरे नित्ये परे निर्मले  
चांडालोऽस्तु स तु द्विजोऽस्तु गुरुरित्येषा मनीषा मम॥६॥  
शश्वन्नश्वरमेव विश्वमखिलं निश्चित्य वाचा गुरो-  
र्नित्यं ब्रह्म निरंतरं विमृशता निर्व्याजशांतात्मना।

भूतं भावि च दुष्कृतं प्रदहतासंविन्मये पावके  
प्रारब्धाय समर्पितं स्ववपुरित्येषा मनीषा मम॥७॥  
या तिर्यङ्नरदेवताभिरहमित्यन्तः स्फुटा गृह्यते  
यद्भासा हृदयाक्षदेहविषया भांति स्वतोऽचेतनाः।  
तां भास्यैः पिहितार्कमण्डलनिभां स्फूर्तिं सदा भावय-  
न्योगी निर्वृतमानसो हि गुरुरित्येषा मनीषा मम॥८॥  
यत्सौख्यांबुधिलेशलेशत इमे शक्रादयो निर्वृता  
यश्चित्ते नितरां प्रशांतकलने लब्ध्वा मुनिर्निर्वृतः।  
यस्मिन्नित्यसुखांबुधौ गलितधीब्रह्मेव न ब्रह्मवि-  
द्यः कश्चित्स सुरेंद्रवंदितपदो नूनं मनीषा मम॥९॥

इति मनीषापश्ञ्चकं संपूर्णम्॥  
<MISSING_FIG href="../books_images/U-IMG-1724680559Capture1.JPG"/>

**॥अभिलाषाष्टकम्॥**

कदा पक्षींद्रसोपरि गतमजं कंजनयनं  
रमासंश्लिष्टाङ्गं गगनरुचमापीतवसनम्।  
गदाशङ्खांभोजारिवरकरमालोक्य सुचिरं  
गमिष्यत्येतन्मे ननु सफलतां नेत्रयुगलम्॥१॥  
कदा क्षीराब्ध्यंतः सुरतरुवनांतर्मणिमये  
समासीनं पीठे जलधितनयालिंगिततनुम्।  
स्तुतं देवैर्नित्यं मुनिवरकदंबैरभिनुतं  
स्तवैः स्तोष्यामि श्रुतिवचनगर्भैः सुरगुरुम्॥२॥

कदा मामाभीतं भयजलधितस्तापसतनुं  
गता रागं गङ्गातटगिरिगुहावाससहनम्।  
लपंतं हे विष्णो सुखर रमेशेति सततं  
समभ्येत्योदारं कमलनयनो वक्ष्यति वचः॥३॥  
कदा मे हृत्पद्मे भ्रमर इव पद्मे प्रतिवसन्  
सदा ध्यानाभ्यासादनिशमुपहूतो त्रिभुरसौ।  
स्फुरज्ज्योतीरूपो रविरिव रमासेव्यचरणो  
हरिष्यत्यज्ञानाज्जनिततिमिरं तूर्णमखिलम्॥४॥  
कदा मे भोगाशा निबिडभवपाशादुपरतं  
तपःशुद्धं बुद्धं गुरुवचनतोदैरचपलम्।  
मनो मौनं कृत्वा हरिचरणयोश्चारु सुचिरं  
स्थितिं स्थाणुप्रायां भवभयहरां यास्यति पराम्॥५॥  
कदा मे संरुद्धाखिलकरणजालस्य परितो  
जिताशेषप्राणानिलपरिकरस्य प्रजपतः।  
सदोङ्कारं चित्तं हरिपदसरोजे धृतवतः  
समेत्युल्लासं मुहुरखिलरोमावलिरियम्॥६॥  
कदा प्रारब्धान्ते परिशिथिलतां गच्छति शनैः  
शरीरे चाक्षौघेऽप्युपरतवति प्राणपवने।  
वदत्यूर्ध्वं शश्वन्मम वदनकंजे मुहुरहो  
करिष्यत्यावासं हरिरिति पदं पावनतमम्॥७॥

कदा हित्वा जीर्णां त्वचमिव भुजङ्गस्तनुमिमां  
चतुर्बाहुश्चक्रांबुजदरकरः पीतवसनः।  
घनश्यामो दूतैर्गगनगतिनीतो नतिपरै-  
र्गमिष्यामीशस्यांतिकमखिलदुःखांतकमिति॥८॥

इति श्रीमत्परमहंसस्वामिब्रह्मानन्दविरचितमभिलाषाष्टकं संपूर्णम् ॥  
<MISSING_FIG href="../books_images/U-IMG-1724687044Capture1.JPG"/>

**॥श्रीवेदव्यासाष्टकम्॥**

कलिमलास्तविवेकदिवाकरं समवलोक्य तमोवलितं जनम्।  
करुणया भुवि दर्शितविग्रहं मुनिवरं तमहं सततं भजे॥१॥  
भरतवंशसमुद्धरणेच्छया स्वजननीवचसा परिनोदितः।  
अजनयत्तनयत्रितयं प्रभुर्मुनिवरं तमहं सततं भजे॥२॥  
मतिबलादि निरीक्ष्य कलौ नृणां लघुतरं कृपया निगमांबुधेः।  
समकरोदिह भागमनेकधा मुनिवरं तमहं सततं भजे॥३॥  
सकलधर्मनिरूपणसागरं विविधचित्रकथासमलंकृतम्।  
व्यरचयच्चपुराणकदंबकं मुनिवरं तमहं सततं भजे॥४॥  
श्रुतिविरोधसमन्वयदर्पणं निखिलवादिमतांध्यविदारणम्।  
प्रथितवानपि सूत्रसमूहकं मुनिवरं तमहं सततं भजे॥५॥  
यदनुभाववशेन दिवं गतः समधिगम्य महास्त्रसमुच्चयम्।  
कुरुचमूमजयद्विजयो द्रुतं मुनिवरं तमहं सततं भजे॥६॥  
समरवृत्तविबोधसमीहयाकुरुवरेण मुदा कृतयाचनः।  
सपदि सूतमदादमलेक्षणं मुनिवरं तमहं सततं भजे॥७॥

वननिवासपरौ कुरुदंपती सुतशुचा तपसा च विकर्शितौ।  
मृततनूजगणं समदर्शयन्मुनिवरं तमहं सततं भजे॥८॥  
व्यासाष्टकमिदं पुण्यं ब्रह्मानन्देन कीर्तितम्।  
यः पठेन्मनुजो नित्यं स भवेच्छास्त्रपारगः॥९॥

इति परमहंस स्वामिब्रह्मानंदविरचितं श्रीवेदव्यासाष्टकं संपूर्णम् ॥  
<MISSING_FIG href="../books_images/U-IMG-1724687450Capture1.JPG"/>

**॥गुरुवरप्रार्थना पञ्चरत्नस्तोत्रम् ॥**

यं विज्ञातुं भृगुस्खं पितरमुपगतः पश्ववारं यथावत्  
ज्ञानादेवामृताप्ते स्सततमनुपमं चिद्विवेकादि लब्ध्वा।  
तस्मै तुभ्यं नमः श्रीहरिहरगुरवे सच्चिदानन्द सिन्धो-  
ऽनन्ताद्वैत प्रतीतिं मम कुरु नितरां पाहिमां दीनबन्धो॥१॥  
यस्माद्दृग्दृश्यस्य जन्मस्थितिविलयमिमे तैत्तिरीयाः पठन्ति  
स्वाविद्यामातृयोगा त्सुखशयनतले मुख्यतस्स्वप्नवच्च। तस्मै ०॥२॥  
योवेदान्तैकलभ्यः श्रुतिषु नियमितस्तौत्तिरीयैश्चकण्वै-  
रन्यैरप्यार्यवर्यैरुदितमनुपमं चारुसंस्कारयुक्तं। तस्मै ०॥३॥  
यस्मिन्नैवावसन्ना स्सकलनिगमवाङ्मौलय स्सुप्तपुंसि  
प्रोक्तं तन्नामयद्वन्निजमहिमगतध्वान्तमार्ताण्डरूपे। तस्मै०॥४॥  
चित्यात्सङ्कल्पपूर्वं सृजतिजगदिदं योगिवन्माययायः  
स्वात्मन्येवामितेये परमसुखदृशि स्वप्नवद्भूम्न्यनित्ये।तस्मै०॥५॥

इत्यच्युतविरचितं गुरुवरप्रार्थना पञ्चरत्नस्तोत्रं संपूर्णम् ॥  
<MISSING_FIG href="../books_images/U-IMG-1724687945Capture1.JPG"/>

**॥यतिपश्चकस्तोत्रम्॥**

वेदान्तवाक्येषु सदा रमन्तो भिक्षान्नमात्रेण च तुष्टिमन्तः।  
विशोकमन्तः करणे रमन्तः कौपीनवन्तः खलु भाग्यवन्तः॥१॥  
मूलं तरोः केवलमाश्रयन्तः पाणिद्वयं भोक्तु ममत्रयन्तः।  
कंथामिव श्रीमपि कुत्सयन्तः कौपीनवन्तः खलु भाग्यवन्तः॥२॥  
देहादिभावं परिमार्जयन्तः आत्मानमात्मन्यवलोकयन्तः।  
नान्तं न मध्यं न बहिस्स्मरन्तः कौपीनवन्तः खलु भाग्यवन्तः॥३॥  
स्वानन्दभावे परितुष्टिमन्तस्संशान्तसर्वेन्द्रिय तुष्टिमन्तः।  
अहर्निशं ब्रह्मणि ये रमन्तः कौपीनवन्तः खलु भाग्यवन्तः॥४॥  
पञ्चाक्षरं पावनमुच्चरन्तः पतिं पशूनां हृदिभावयन्तः।  
भिक्षाशना दिक्षुपरिभ्रमन्तः कौपीनवन्तः खलु भाग्यवन्तः॥५॥

इति श्रीमच्छङ्करभगवत्पादपूज्यकृतं यतिपञ्चकस्तोत्रं संपूर्णम् ॥  
<MISSING_FIG href="../books_images/U-IMG-1724688200Capture1.JPG"/>

**॥यतिराजसप्ततिः॥**

श्रीमान्वेङ्कटनाथार्यः कवितार्किककेसरी।  
वेदान्ताचार्यवर्यो मे सनिधत्तां सदा हृदि॥  

कमप्याद्यं गुरुं वन्दे कमलागृहमेधिनम्।  
प्रवक्ता च्छन्दसां वक्ता पञ्चरात्रस्य यः स्वयम्॥१॥  
सहधर्मचरीं शौरेः सम्मन्त्रितजगद्धिताम्।  
अनुग्रहमयीं वन्दे नित्यमज्ञातनिग्रहाम्॥२॥

वन्दे वैकुण्ठसेनान्यं देवं सूत्रवतीसखम्।  
यद्वेत्रशिखरस्पन्दे विश्वमेतद्व्यवस्थितम्॥३॥  
यस्य सारस्वतस्रोतो वकुलामोदवासितम्।  
श्रुतीनां विश्रमायालं शठारिं तमुपास्महे॥४॥  
नाथेन मुनिनाथेन भवेयं नाथवानहम्।  
यस्य नैगमिकं तत्त्वं हस्तामलकतां गतम॥५॥  
नमस्याम्यरविन्दाक्षं नाथभावे व्यवस्थितम्।  
शुद्धसत्वमयं शौरेरवतारमिवापरम्॥६॥  
अनुज्झितक्षमायोगमपुण्यजनबाधकम्।  
अस्पृष्टमदरागं तं रामं तुर्यमुपास्महे॥७॥  
विगाहे यामुनं तीर्थं साधुवृन्दावने स्थितम्।  
निरस्तजिह्मगस्पर्शे यत्र कृष्णः कृतादरः॥८॥  
दयानिघ्नं यतीन्द्रस्य देशिकं पूर्णमाश्रये।  
येन विश्वसृजो विष्णोरपूर्यत मनोरथः॥९॥  
प्रणामं लक्ष्मणमुनिः प्रतिगृह्णातु मामकम्।  
प्रसाधयति यत्सूक्तिः स्वाधीनपतिकां श्रुतिम्॥१०॥  
उपवीतिनमूर्ध्वपुण्ड्रवन्तं त्रिजगत्पुण्यफलं त्रिदण्डहस्तम्।  
शरणागतसार्थवाहमीडे शिखया शेखरिणं पतिं यतीनाम्॥११॥  
प्रथयन्विमतेषु तीक्ष्णभावं प्रभुरस्मत्परिरक्षणे यतीन्द्रः।  
अपृथक्प्रतिपन्नयन्मयत्वैर्ववृधे पञ्चभिरायुधैर्मुरारेः॥१२॥

शमितोदयशङ्करादिगर्वः स्ववलादुद्धृतयादवप्रकाशः।  
अवरोपितवान्श्रुतेरपार्थान्ननु रामावरजः स एष भूयः॥१३॥  
अबहुश्रुतसंभवं श्रुतीनां जरतीनामयथायथप्रचारम्।  
विनिवर्तयितुं यतीश्वरोक्तिर्विदधे ताः स्थिरनीतिपञ्जरस्थाः॥१४॥  
अमुना तपनातिशायिभूम्ना यतिराजेन निबद्धनायकश्रीः।  
महती गुरुपंक्तिहारयष्टिर्विबुधानां हृदयंगमा विभाति॥१५॥  
अलूनपक्षस्य यतिक्षमाभृतो विभाति वंशे हरितत्त्वमक्षतम्।  
यदुद्भवाः शुद्धसुवृत्तशीतला भवन्ति मुक्तावलिभूषणं भुवः॥१६॥  
अनपायविष्णुपदसंश्रयं भजे कलया कयापि कलयाण्यनुज्झितम्।  
अकलङ्कयोगमजडाशयोदयं यतिराजचन्द्रमुपरागदूरगम्॥१७॥  
अभिगम्य सम्यगनघाः सुमेधसो यतिचक्रवर्तिपदपद्मपत्तनम्।  
हरिभक्तदास्यरसिकाः परस्परं क्रयविक्रयार्हदशया समिन्धते॥१८॥  
परुषातिवादपरिवादपैशुनप्रभृतिप्रभूतपतनीयपङ्किला।  
स्वदते ममाद्य सुभगा सरस्वती यतिराजकीर्तिकतकैर्विशोधिता॥१९॥  
अनुकल्पभूतमुरभित्पदं सतामजहत्त्रिवर्गमपवर्गवैभवम्।  
चलचित्तवृत्तिविनिवर्तनौषधं शरणं यतीन्द्रचरणौ वृणीमहे ॥२०॥  
श्वसितावधूतपरवादिवैभवा निगमान्तनीतिजलधेस्तलस्पृशः ।  
प्रतिपादयन्ति गतिमापवर्गिकीं यतिसार्वभौमपदसात्कृताशयाः॥२१॥  
मूले निवेश्य महतां निगमद्रुमाणां मुष्णन्प्रतारकभयं धृतनैकदण्डः।  
रङ्गेशभक्तजनमानसराजहंसो रामानुजः शरणमस्तु मुनिः स्वयं नः॥

सन्मन्त्रवित्क्षिपति संयमिनां नरेन्द्रः  
संसारजिह्मगमुखैः समुपस्थितं नः।  
विष्वक्ततं विषयलोभविषं निजाभि-  
र्गाढानुभावगरुडध्वजभावनाभिः॥२३॥  
नाथः स एष यमिनां नखरश्मिजालै-  
रन्तर्निलीनमपनीय तमो मदीयम्।  
विज्ञानचित्रमनघं लिखतीव चित्ते  
व्याख्यानकेलिरसिकेन कराम्बुजेन॥२४॥  
उद्गृहतीमुपनिषत्सु निगूढमर्थं  
चित्ते निवेशयितुमल्पधियां स्वयं नः।  
पश्येम लक्ष्मणमुनेः प्रतिपन्नहस्ता-  
मुन्निद्रपद्मसुभगामुपदेशमुद्राम्॥२५॥  
आकर्षणानी निगमान्तसरस्वतीना-  
मुच्चाटनानि बहिरन्तरुपप्लवानाम् ।  
पथ्यानि घोरभवसंज्वरपीडितानां  
हृद्यानि भान्ति यतिराजमुनेर्वचांसि॥२६॥  
शीतस्वभावसुभगानुभवः शिखावान्  
दोषावमर्दनियतोन्नतिरोषधीशः।  
तापानुबन्धशमनस्तपनः प्रजानां  
रामानुजो जयति संवलितात्रिधामा॥२७॥

जयति सकलविद्यावाहिनीजन्मशैलो  
जनिपथपरिवृत्तिश्नान्तविश्रान्तिशाखी।  
निखिलकुमतिमायाशर्वरीबालसूर्यो  
निगमजलधिवेलापूर्णचन्द्रो यतीन्द्रः॥२८॥  
मुनिबहुमतसारा मुक्तिनिश्रेणिकेयं  
सहृदयहृदयानां शाश्वती दिष्टसिद्धिः।  
शमितदुरित (गन्धा)स्वेदा संयमीन्द्रस्य सूक्तिः  
परिचितगहना नः प्रस्नुवीत प्रसादम्॥२९॥  
भवमरुपरिस्विन्नस्फीतपानीयसिन्धु-  
र्दुरितरहितजिह्वादुग्धकुल्यासकुल्या।  
श्रुतिनयनसनाभिः शोभते लक्ष्मणोक्ति  
र्नरकमथनसेवास्वादनाडिंधमा नः॥३०॥  
हरिपदमकरन्दस्यन्दिनः संश्रिताना-  
मनुगतबहुशाखास्तापमुन्मूलयन्ति।  
शमितदुरितगन्धाः संयमीन्द्रप्रबन्धाः  
कथकजनमनीषाकल्पनाकल्पवृक्षाः॥३१॥  
नानाभूतैर्जगति समयैर्नर्मलीलां विधित्सो-  
रन्त्यं वर्णं प्रथयति विभोरादिमव्यूहभेदे।  
विश्वं त्रातुं विषयनियतं व्यञ्जितानुग्रहः सन्  
विष्वक्सेनो यतिपतिरभूद्वेत्रसारस्त्रिदण्डः॥३२॥

लक्ष्यं बुद्धे रसिकरसनालास्य लीला निदानं  
शुद्धास्वादं किमपि जगति श्रोत्रदिव्यौषधं नः।  
लक्ष्यालक्ष्यैः सितजलधिवद्भाति तात्पर्यरत्नै-  
र्लक्ष्मीकान्तस्फटिकमुकुरो लक्ष्मणार्योपदेशः॥३३॥  
स्थितिमवधीरयन्त्यतिमनोरथसिद्धिमतीं  
यतिपतिसंप्रदायनिरपायधनोपचिताः।  
मधुकरमौलिदघ्नमददन्तुरदन्तिघटा-  
करटकटाहवाहघनशीकरशीभरिताम्॥३४॥  
निरुपधिरङ्गवृत्तिरसिकानभिताण्डवय-  
न्निगमविमर्शकेलिरसिकैर्निभृतैर्विधृतः।  
गुणपरिणद्धसूक्तिदृढकोणविघट्टनया  
रटति दिशामुखेषु यतिराजयशः पटहः॥३५॥  
इदं प्रथमसंभवत्कुमतिजालकूलङ्कषा  
मृषामतविषानलज्वलितजीवजीवातवः।  
क्षरन्त्यमृतमक्षरं यतिपुरन्दरस्योक्तय-  
श्चिरन्तनसरस्वतीचिकुरबन्धसैरन्ध्रिकाः॥३६॥  
सुधाशनसुदुर्ग्रहश्रुतिसमष्टिमुष्टिन्धयः  
कथाहवमसौ गतान्कपटसौगतान्खण्डयन्।  
मुनिर्मनसिलक्ष्मणो मुदमुदञ्चयत्यञ्चसा  
मुकुन्दगुणमौक्तिकप्रकरशुक्तिभिःसूक्तिभिः॥३७॥

कपर्दिमतकर्दमं कपिलकल्पनावांगुरां  
दुरत्ययमतीत्य तद्दृहिणतन्त्रयन्त्रोदरम्।  
कुदृष्टिकुहनामुखे निपततः परब्रह्मणः  
क(च)रग्रहविचक्षणो जयति लक्ष्मणोऽयं मुनिः॥३८॥  
कणादपरिपाटिभिः कपिलकल्पनानाटकैः  
कुमारिलकुभाषितैर्गुरुनिबन्धनग्रन्थिभिः।  
तथागतकथाशतैस्तदनुसारिजल्पैरपि  
प्रतारितमिदं जगत्प्रगुणितं यतीन्द्रोक्तिभिः॥३९॥  
कथाकलहकौतुकप्रहगृहीतकौतस्क्रुत-  
प्रथाजलधिसंप्लवप्रसनकुम्भसंभूतयः।  
जयन्ति सुधियो यतिक्षितिभृदन्तिकोपासना-  
प्रभावपरिपक्रिमप्रमितिभारतीसंपदः॥४०॥  
यतीश्वरसरस्वती सुरभिताशयानां सतां  
वहामि चरणाम्बुजं प्रणतिशालिना मौलिना।  
तदन्यमतदुर्म(त)दज्वलितचेतसां वादिनां  
शिरस्सु निहितं मया पदमदक्षिणं लक्ष्यताम्॥४१॥  
भजस्व यतिभूपतेरनिदमादिदुर्वासना-  
कदध्वपरिवर्तनश्रमनिवर्तनीं वर्तनीम्।  
लभस्व हृदय स्वयं रथपदायुधानुग्रह-  
द्रुतप्रहृतिनिस्त्रुटद्दुरितदुर्वृतिं निर्वृतिम्॥४२॥

कुमतिविहितग्रन्थग्रन्थिप्रभूतमतान्तर-  
ग्रहिलमनसः पश्यन्त्वल्पां यतीश्वरभारतीम्।  
विकटमुरभिद्वक्षःपीठीपरिष्करणोचितः  
कुलगिरितुलारोहे भावी कियानिव कौस्तुभः॥४३॥  
स्थविरनिगमस्तामस्थेयां यतीश्वरभारतीं  
कुमतिफणितिक्षोभक्षीबाः क्षिपन्तु भजन्तु वा।  
रसपरिमलश्लाघाघोषस्फुटत्पुटभेदनं  
लवणवणिजः कर्पूरार्धं किमित्यभिमन्वते॥४४॥  
वहति महिलामाद्यो वेधास्त्रयीमुस्वरैर्मुखै -  
र्वरतनुतया वामोभागः शिवस्य विवर्तते।  
तदपि परमं तत्त्वं गोपीजनस्य वशंवदं  
मदनकदनैर्न क्लिश्यन्ते यतीश्वरसंश्रयाः॥४५॥  
निगमपथिकच्छायाशाखी निराशमहानिधि -  
र्महितविविधच्छात्रश्रेणीमनोरथसारथिः।  
त्रिभुवनतमः प्रत्यूषोऽयं त्रिविद्यशिखामणिः  
प्रथयति यतिक्ष्माभृत्पारावरीमविपर्ययाम्॥४६॥  
जडमतिमुधादन्तादन्तिव्यथौषधसिद्धयः  
प्रमितिनिधयः प्रज्ञाशालिप्रपालनयष्टयः।  
श्रुतिसुरभयः शुद्धानन्दाभिवर्षुकवारिदा  
यमगतिकथाविच्छेदिन्यो यतीश्वरसूक्तयः॥४७॥

प्रतिकलमिह प्रत्यक्तत्त्वावलोकनदीपिका  
यतिपरिबृढग्रन्थाश्चिन्तां निरन्तरयन्ति नः।  
अकलुषपरज्ञानौत्सुक्यक्षुधातुरदुर्दशा-  
परिणतफलप्रत्यासीदत्फलेप्राहिसुग्रहाः॥४८॥  
मुकुन्दाङ्घ्रिश्रद्धाकुमुदवनचन्द्रातपनिभा  
मुमुक्षामक्षोभ्यां ददति मुनिबृन्दारकगिरः।  
स्वसिद्धान्तध्वान्तस्थिरकुतुकदुर्वादिपरिष-  
द्दिवाभीनप्रेक्षादिनकरसमुत्थानपरुषाः॥४९॥  
निराबाधा बोधायनभणितिनिष्यन्दसुभगा  
विशुद्धोपन्यासव्यतिभिदुरशारीरकनयाः।  
अकुण्ठैः कल्पन्ते यतिपतिनिबन्धा निजमुखै -  
रनिद्राणप्रज्ञारसधमनिवेधाय सुधियाम्॥५०॥  
विकल्पाटोपेन श्रुतिपथमशेषं विघटयन्  
यदृच्छानिर्दिष्टे यतिनृपतिशब्दे विरमति।  
वितण्डाहंकुर्वत्प्रतिकथकवेतण्डपृतना-  
वियातव्यापारव्यतिभथनसंरम्भकलहः॥५१॥  
प्रतिष्ठा तर्काणां प्रतिपदमृचांधाम यजुषां  
परिष्कारः साम्नां परिपणमथर्वाङ्गिरसयोः।  
प्रदीपिस्तत्त्वानां प्रतिकृतिरसौ तापसगिरां  
प्रसत्तिं संवित्तेः प्रदिशति यतीशानफणितिः॥५२॥

हतावद्ये हृद्ये हरिचरणपङ्केरुहयुगे  
निबध्नन्त्यैकान्त्यं किमपि यतिभूभृद्भणितयः।  
शुनासीरस्कन्दद्रुहिणहरहेरम्बहुतभु-  
क्प्रभेशादिक्षुद्रप्रणतिपरिहारप्रतिभुवः॥५३॥  
यथाभूतस्वार्था यतिनृपतिसूक्तिर्विजयते  
सुधासंदोहात्मा सुचरितविपक्तिः श्रुतिगिराम्।  
कथादृप्यत्कौतस्क्रुतकलहकोलाहलहत-  
त्रिवेदीनिर्वेदप्रशमनविनोदप्रणयिनी॥५४॥  
श्रतिश्रेणीचूडापदबहुमते लक्ष्मणमते  
स्वपक्षस्थान्दोषान्वितथमतिरारोपयति यः।  
स्वहस्तेनोत्क्षिप्तैः स खलु निजगात्रेषु बहुलं  
गलद्भिर्जम्बालैर्गगनतलमालिम्पति जडः॥५५॥  
निरालोके लोके निरुपधिपरस्नेहभरितो  
यतिक्ष्माभृद्दीपो यदि न किल जाज्वल्यत इह।  
अहङ्कारध्वान्तं विजहति कथङ्कारमनघाः  
कुतर्कव्यालौघं कुमतिमतपातालकुहरम्॥५६॥  
यतिक्ष्माभृद्दृष्टं मतमिह नवीनं तदपि किं  
ततः प्रागेवान्यद्वद तदपि किं वर्णनिकषे।  
निशाम्यन्तां यद्वा निजमतितिरस्कारविगमा-  
न्निरातङ्काष्टङ्कद्रमिडगुहदेवप्रभृतयः॥५७॥

सुधासारं श्रीमद्यतिवरभुवः श्रोत्रकुहरे  
निषिच्वन्ति न्यञ्चन्निगमगरिमाणः फणितयः।  
यदास्वादाभ्यासप्रचयमहिमोल्लासितधियां  
सदास्वाद्यं काले तदमृतमनन्तं सुमनसाम्॥५८॥  
यतिक्षोणीभर्तुर्यदिदमनिदंभोगजनता-  
शिरःश्रेणीजुष्टं तदिह दृढबन्धं प्रभवति।  
अविद्यारण्यानीकुहरविहरन्मामकमनः-  
प्रमाद्यन्मातङ्गप्रथमनिगलं पादयुगलम्॥५९॥  
सवित्री मुक्तानां सकलजगदेनःप्रशमनी  
मरीयोभिस्तीर्थैरुपचितरसा यामुनमुखैः।  
निरुच्छेदा निम्नेतरमपि समाप्लावयति मां  
यदृच्छाविक्षेपाद्यतिपतिदयादिव्यतटिनी॥६०॥  
चिन्ताशेषदुरर्थदन्तुरवचःकन्थाशतग्रन्थिलाः  
सिद्धान्ता न समिन्धते यतिपतिग्रन्थानुसन्धायिनि।  
मुक्ताशुक्तिविशुद्धसिद्धतटिनी चूडालचूडापदः  
किं कुल्यां कलयेत खण्डपरशुमण्डूकमञ्जूषिकाम्॥६१॥  
वन्दे तं यमिनां धुरन्धरमहं मानान्धकारद्रुहा  
पन्थानं परिपन्थिनां निजदृशा रुन्धानमिन्धानया।  
दत्तं येन दयासुधाम्बुनिधिना पीत्वा विशुद्धं पयः  
काले नः करिशैलकृष्णजलदः काङ्क्षाधिकं वर्षति॥६२॥

काषायेण गृहीतपीतवसना दण्डैस्त्रिभिर्मण्डिता  
सा मूर्तिर्मुरमर्दनस्य जयति त्रय्यन्तसंरक्षिणी।  
यत्प्रख्यापिततीर्थवर्धिताधयामभ्यस्यतां यद्गुणा-  
ना सिन्धोरनिदंप्रदेशनियता कीर्तिः प्रजागर्ति नः॥६३॥  
लिप्से लक्ष्मणयोगिनः पदयुगं रथ्यापरागच्छटा-  
रक्षारोपणधन्यसूरिपरिषत्सीमन्तसीमान्तिकम्।  
भिक्षापर्यटनक्षणेषु बिभरांचक्रे गलत्किल्बिषा  
यद्विन्यासमिषेण पत्रमकरीमुद्रां समुद्राम्बरा॥६४॥  
नानातन्त्रविलोभितेन मनसा निर्णीतदुर्नीतिभिः  
कष्टं कुत्सितदृष्टिभिर्यतिपतेरादेशवैदेशिकैः।  
व्यासो हासपदीकृतः परिहृतः प्राचेतसःश्चेतसः  
क्लुप्तः केलिशुकः शुकः स च मुथाबाधाय बोधायनः॥६५॥  
अर्थ्या तिष्ठति मामिका मतिरसावाजन्मराजन्वती  
पत्या संयमिनामनेन जगतामत्याहितच्छेदिना।  
यत्सारस्वतदुग्धसागरसुधासिद्धौषधास्वादिनां  
प्रस्वापाय न बोभक्तीति भगवन्मायामहायामिनी॥६६॥  
शुद्धादेशवशंवदीकृतयतिक्षोणीशवागीशत-  
प्रत्यादिष्टबहिर्गतिः श्रुतिशिरः प्रासादमासीदति।  
दुग्धोदन्वदपत्यसंनिधिसदासामोददामोदर-  
श्लक्ष्णालोकनदौर्ललित्यललितोन्मेषा मनीषा मम॥६७॥

आस्तां नाम यतीन्द्रपद्धतिजुषामाजानशुद्धा मति-  
स्तच्चान्याजविदग्धमुग्धमधुरं सारस्वतं शाश्वतम्।  
को वा चक्षुरुदचयेदपि पुरः साटोपतर्कच्छटा-  
शस्त्राशस्त्रिविहारसंभृतरणास्वादेषु वादेषु नः॥६८॥  
पर्याप्तं पर्यचैषं कणचरणकथामाक्षपादं शिशिक्षे  
मीमांसामांसलात्मा समजनिषि मुहुः सांख्ययोगौ समाख्यम्।  
इत्थं तैस्तैर्यतीन्द्रत्रुटितबहुमृषातन्त्रकान्तारपान्थै  
रन्तर्मोहक्षपान्धैरहह किमिह नश्चिन्तनीयं तनीयः  
गाथा ताथागतानां गलति गमनिका कापिली कापि लीना  
क्षीणा काणादवाणी द्रुहिणहरगिरः सौरभं नारभन्ते।  
क्षामा कौमारिलोक्तिर्जगति गुरुमतं गौरवाद्दूरवान्तं  
का शङ्का शङ्करादेर्भजति यतिपतौ भद्रवेदीं त्रिवेदीम्॥७०॥  
विष्वग्व्यापिन्यगाधे यतिनृपतियशः संपदेकार्णवेऽस्मिन्  
श्रद्धाशुद्धावगाहैः शुभमतिभिरसौ वेङ्कटेशोऽभिषिक्तः।  
प्रज्ञादौर्जन्यगर्जत्प्रतिकथकवचस्तूलवातूलवृत्त्या  
सप्तत्या सारवत्या समतनुत सतां प्रीतिमेतां समेताम्॥७१॥  
आशामतङ्गजगणानविषह्यवेगा-  
न्पादे यतिक्षितिभृतः प्रसभं निरुन्धन्।  
कार्यः कथाहवकुतूहलिभिः परेषां  
कर्णे स एष कवितार्किक सिंहनादः॥७२॥

उपशमितकुदृष्टिविवानामुपनिषदामुपचारदीपिकेयम् ।  
कबलितभगवद्विभूतियुग्मां दिशतु मति यतिराजसप्ततिर्नः ॥७३॥  
करतलामलकीकृतसत्पथाः श्रुतिवतंसितसूनृतसूक्तयः ।  
दिवसतारकयन्ति समत्सरान् यतिपुरन्दरसप्ततिसादराः॥७४॥

इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य  
वेदान्ताचार्यस्य कृतिषु यतिराजसप्ततिः संपूर्णा॥

कवितार्किकसिंहाय कल्याणगुणशालिने।  
श्रीमते वेङ्कटेशाय वेदान्तगुरवे नमः॥  
<MISSING_FIG href="../books_images/U-IMG-1724693933Capture1.JPG"/>

**॥यतिराजविंशतिः॥**

यस्स्तुतिं यतिपतिप्रसादिनीं व्याजहार यतिराजविंशतिम्।  
तं प्रपन्नजनचातकाम्बुदं नौमिसौम्यवरयोगिपुङ्गवम्॥  
श्रीमाधवांघ्रिजलजद्वयनित्य सेवा प्रेमाविलाशयपराङ्कुशपादभक्तम्।  
कामादिदोषहरमात्मपदाश्रितानां रामानुजं यतिपतिं प्रणमामिमूर्ध्ना॥  
श्रीरङ्गराजचरणाम्बुजराजहंसंश्रीमत्पराङ्कुशपदाम्बुजभृङ्गराजम्।  
श्रभिट्टनाथपरकालमुखाब्जमित्रं श्रीवत्सचिह्न शरणं यतिराजमीडे॥  
वाचायतीन्द्रमनसावपुषाचयुष्मत्पादारविन्दयुगलं भजतां गुरूणाम्।  
कूराधिनाथ कुरुकेशमुखाद्यपुंसां पादानुचिन्तनपरस्सततं भवेयम्॥  
नित्यं यतीन्द्र तवदिव्यवपुस्मृतौ मे सक्तंमनोभवतु वाग्गुणकीर्तनेऽसौ  
कृत्यश्चदास्यकरणेतुकरद्वयस्य वृत्त्यन्तरेऽस्तुविमुखं करणत्रयञ्च॥

अष्टाक्षराख्यमनुराजपदत्रयार्थनिष्ठांममात्रवितराद्ययतीन्द्रनाथ।  
शिष्टाग्रगण्यजनसेव्यभवत्पदाब्जे हृष्टास्तुनित्यमनुभूयममास्यबुद्धिः॥  
अल्पापिमेन भवदीयपदाब्जभक्ति श्शब्दादिभोगरुचिरन्वहमेधतेहा।  
मत्पापमेवहि निदानममुष्यनान्यत्तद्वारयाद्य यतिराजदयैकसिन्धो॥  
वृत्त्यापशुर्नरवपुस्त्वहमीदृशोपि श्रुत्यादिसिद्धनिखिलात्मगुणाश्रयोयम्।  
इत्यादरेणकृतिनोऽपि मिथःप्रवक्तु मद्यापि वञ्चनपरोत्रयतींद्रवर्ते॥  
दुःखावहोऽक्ष्मनिशं तवदुष्टचेष्ट श्शब्दादिभोगनिरतश्शरणागताख्यः।  
त्वत्पादभक्तइवशिष्टजनौघमध्येमिथ्याचरामियतिराजततोऽस्मिमूर्खः॥  
नित्यं त्वहं परिभवामि गुरुं च मंत्रं तद्देवतामपि न किंचिदहो बिभेमि।  
इत्थं शठोऽप्यशठवद्भवदीयसङ्के हृष्टश्चरामि यतिराज ततोऽस्मिमूर्खः॥  
हाहं तहंतमनसा क्रिययाचवाचा योऽहं चरामिसततं त्रिविधापचारान्।  
सोऽहंतवाप्रियकरः प्रियकृद्वदेव कालंनयामियतिराज ततोऽस्मिमूर्खः॥  
पापकृते यदिभवंतिभयानुताप लज्जाः पुनः करणमस्य कथंघटेत।  
मोहेन मे नभवतीह भयादिलेश स्तस्मात्पुनः पुनरघं यतिराजकुर्वे॥  
अंतर्बहिस्सकलवस्तुषुसंतमीश मंतःपुरस्थितमिवाहमवीक्षमाणः।  
कंदर्पवश्यहृदयस्सततंभवामि हंतत्वदग्रगमनस्य यतींद्रनार्हः॥१२॥  
तापत्रयीजनितदुःखनिपातिनोऽपि देहस्थितौ मम रुचिस्तुनतन्निवृत्तौ।  
एतस्य कारणमहो मम पापमेव नाथत्वमेव हरतद्यतिराजशीघ्रम्॥  
वाचामगोचरमहागुणदेशिकाग्र्य कूराधिनाथ कथिताखिलनैच्यपात्रम्।  
एषोऽहमेव नपुनर्जगतीदृशस्तद्रामानुजायेकरुणैवतु मद्गतिस्ते॥१४॥

शुद्धात्मयामुनगुरूत्तम कूरनाथ भट्टाख्यदेशिकनठोक्तसमस्तनैच्यम्।  
अद्यास्त्यसङ्कुचितमेव मयीहलोके तस्माद्यतींद्रकरुणैवतु मद्गतिस्ते॥  
शब्दादिभोगविषयारुचिरस्मदीया नष्टाभवत्विभवद्दयया यतींद्र।  
त्वद्दासदासगणनाचरमावधौयस्तद्दासतैकरसताऽविरता ममास्तु॥  
श्रुत्यग्रवेद्यनिजदिव्यगुणस्वरूपः प्रत्यक्षतामुपगतस्त्विह रङ्गराजः।  
वश्यस्सदाभवतितेयतिराजतस्माच्छक्तस्स्वकीयजनपापविमोचनेत्वम्॥  
कालत्रयेऽपि करणत्रयनिर्मिताति पापक्रियस्य शरणं भगवत्क्षमैव।  
सानत्वयैवकमलारमणेर्थिताय क्षेमस्सएवहियतींद्रभवच्छ्रितानाम्॥  
श्रीमन्यतींद्रभवदीयपदाब्जसेवां श्रीशैलनाथकरुणापरिणामदत्ताम्।  
तामन्वहं मम विवर्धयनाथतस्याः कामविरुद्धमाखिलंच निवर्तयत्वम्॥  
विज्ञापनं यदिदमद्यतुमामकीन मङ्गीकुरुष्व यतिराजद्यांबुराशे।  
अज्ञोऽयमात्मगुणलेशविवर्जितश्च तस्मादनन्यशरणो भवतीतिमत्वा॥  
इतियतिकुलधुर्यमेधमानै श्रुतिमधुरै रुदितैः प्रहर्षयन्तम्।  
वरवरमुनिमेव चिन्तयन्ती मतिरियमेति निरत्ययं प्रसादम्॥

श्री वरवरमुनीन्द्रप्रणीता यतिराजविंशतिः सम्पूर्णा॥  
<MISSING_FIG href="../books_images/U-IMG-1724695113Capture1.JPG"/>

**॥सप्ततिरत्नमालिका॥**

श्रीमान्वेङ्कटनाथार्यः कवितार्किककेसरी।  
वेदान्ताचार्यवर्योमेसन्निधत्तां सदाहृदि।  
श्रीमल्लक्ष्मणयोगीन्द्रसिद्धान्तविजयध्वजम्।  
विश्वामित्रकुलोद्भूतं वरदार्यमहं भजे॥

वेदान्तदेशिककटाक्षविवृद्धबोधं विद्वज्जनेड्यवरदार्यकृपैकपात्रम्॥  
वत्सान्वायमनवद्यगुणैरुपेतं भक्त्याभजामिपरवादिभयङ्करार्यम्॥  
श्रीमत्त्रयमिकुटदेशिकपादपद्मभृङ्गायमानवरदार्यदयैकपात्रम्।  
तत्सूक्तिलेशविभवात्तसमस्ततत्वं भक्त्याभजामिपरवादिभयङ्करार्यम्॥  
जीवनंजगतांजीय्यात् किमप्यपगतस्पृहम्।  
स्वतन्त्रं सर्वतन्त्रेषु वेङ्कटेशाह्वयम्महः॥१॥  
शोश्रूयमाणायच्छब्दं कवितार्किककुञ्जराः।  
स्वप्नेप्रासुस्रुवुर्न्नित्यं सिंहं किमपितंभजे॥२॥  
श्रीमतां हरिदासानां पादरक्षावलम्बिना।  
तेन वेङ्कटनाथेन सनाथास्सुखिनोवयम्॥३॥  
वेदान्तदेशिकपदं यस्मै श्रीरङ्गशायिना।  
दत्तं तस्मै नमस्कुर्मो वेङ्कटेश विपश्चिते॥४॥  
दक्षिणोत्तरदेशीयसूक्त्यावरददेशिकः।  
यस्मादजनिसोदर्यातस्यान्नान्यागतिर्मम॥५॥  
ज्ञानन्तुविनयोभक्तिस्संपत्तिर्वीतरागता।  
आरोग्यं यस्य तस्यास्मिदासो वेदान्तसद्गुरोः॥६॥  
यस्मिन्ननन्यसामान्य वेदान्ताचार्यतागुरौ।  
यथापुरुषताविष्णौ तस्मिन्नयस्तभरोऽस्म्यहम्॥७॥  
सर्वतन्त्रस्वतन्त्रत्वाच्छास्त्रदीप प्रदानतः।  
श्रीवेङ्कटाद्रिनाथोऽसौ साक्षाद्वेदान्तदेशिकः॥८॥  

आविर्भूतिर्यस्य वंशादनर्घात् वैश्वामित्राद्विष्णुघण्टांशकस्य।  
श्रीमान्सोऽयं सर्वतन्त्रस्वतन्त्रो वक्ताव्याख्या सार्वभौमोविभाति॥९॥  
भाद्रपदमासगतविष्णुविमलर्क्षेवेङ्कटमहीध्रपतितीर्थदिनभूते।  
प्रादुरभवज्जगतिदैत्यरिपुघण्टाहंत कवितार्किक मृगेन्द्रगुरुमूर्त्या॥१०॥  
तमिमं श्रीमद्वेङ्कटनाथार्थं वदन्ति किलसन्तः।  
श्रीमद्वेङ्कटनाथं सदसद्गुणराशियोगहानिभ्याम्॥११॥  
श्रीभाष्यंविरचय्य संयमिवरोजित्वास्वयं वादिनो  
बाह्यांश्चापि कुदृष्टिकान् भुविपुनर्भाष्यप्रतिष्ठाशया।  
श्रीमद्वेङ्कटनाथदेशिकशिरोरत्नात्मनाविर्बभा-  
वित्येवञ्चावदन्तिहन्तकृतिनस्त्रैकालिकज्ञानिनः॥१२॥  
अवनायसतामसद्गुणप्रबलारोप निबर्हणायच।  
अपिवैष्णवधर्मवृद्धयेजननं श्रीनिगमान्तसद्गुरोः॥१३॥  
यद्ययं हि कवितार्किकसिंहोनाभविष्यतीह भुव्यवतीर्णः।  
तर्हिबाह्यकुदृगुद्धतपक्षैः मेदिनीपरिवृताह्यभविष्यत्॥१४॥  
वेङ्कटेश्वरविपश्चितिजाते निस्सपत्नमभवत्किलभाष्यम्।  
तत्वमप्रतिहतञ्चतदासीद्येन मोक्षपदवी सुखलभ्या॥१५॥  
पुत्रोऽनन्तार्थसूरेः पुरुषसमगुणाः पुण्डरीकाक्षयष्टुः  
पौलस्तोतारभिख्याश्रुतवरजननी गर्भवाराशिचन्द्रः।  
विश्वामित्रान्वायोवरदगुरुपितावादिहंसांबुवाहा-  
दाचार्यादाप्तशास्त्रोवरदगुरुमतस्सर्वतन्त्रस्वतन्त्रः॥१६॥

अनन्तसूरिसूनवेऽभिनन्द्यमानवैभवा-  
दिगन्तवादिहंसजैत्रकालमेघदेशिकात्।  
उपात्तसर्वशासनाय हंत वर्षविंशतौ  
पुनःपुनर्नमस्क्रियास्तु वेङ्कटेशसूरये॥१७॥  
वेदान्ताचार्यवयविदितबहुगुणोवीतरागाग्रयायी  
विद्वान्विद्यानिषद्याविरचितविविधानेकदिव्यप्रबन्धः।  
विष्णौविष्ण्वाश्रितेषुप्रकटितविनयप्रेमशेषित्ववृत्तिः  
विख्यातः श्रेयसे स्याद्विषयजिदिह नो वेङ्कटाचार्यवर्यः॥१८॥  
यस्संस्कृतकवितायां प्रौढिम्नान्वेति कूरनाथसुतम्।  
द्रमिडकवितामार्गे परकालंवाथभक्तिसारं वा॥१९॥  
परश्शतंवापिपरस्सहस्रं श्रीवेङ्कटाचार्यकृताः प्रबन्धाः।  
तत्रालमेकः खलु भुक्तिमुक्तयोः कार्त्स्न्येनकस्तान् गणयेत्समस्तान् ॥  
यदीयचरितं सतांसुचरितव्यवस्थापकं  
यदीयवचनंपरं सकलसंशयोन्मूलनम्।  
यदीयकरुणागतिस्सकलधर्मशून्यात्मनां  
सनश्शरणमस्त्वसौ सकलतन्त्रनिर्वाहकः॥२१॥  
दान्तिश्शान्तिश्शुचित्वं विषयविजयिताधीरतानिस्पृहत्वं  
शेषत्वं श्रीशतद्दासजनविषयकं पारतन्त्र्यञ्चतत्र ।  
अक्षोभ्यत्वं पटुत्वं मृदुसमवशितानिर्भरत्वानसूये  
यस्मिन्नाजानसिद्धं स खलु विजयते वेङ्कटाचार्यवर्यः॥२२॥

कलये सततं करुणाजलधिं करुणाविषयं कमलाधिपतेः।  
कलिवैरिशठारिवचोरसिकं कवितार्किककेसरिसूरिगुरुम्॥२३॥  
सरोभूतवेतालसारस्वतानां शठद्विट् कलिध्वंसि मुख्योदितानाम् ।  
अविच्छिन्नसत्सम्प्रदायार्थवेदी गुरुर्वेङ्कटेशो गुरुत्कर्षतुल्यः ॥२४॥  
युक्ता अलूक्षा अपिधर्मकामास्सम्मर्शिनोयुक्तिसमन्विताश्च।  
सद्ब्राह्मणावेदशिरःप्रसिद्धाःश्रीवेङ्कटाचार्यमुखाहिनूनम्॥२५॥  
जटावर्णचर्चाद्यनेकप्रकारत्रयीलक्षणोच्चारणे व्यासकल्पः।  
तथा कल्पसूत्रप्रयोगाद्यभिज्ञोजयत्यन्वहं सर्वतन्त्रस्वतन्त्रः॥२६॥  
भरद्वाजशाण्डिल्यहारीतमुख्यस्मृतिस्तोमसूक्ष्मार्थनिर्नीनिदक्षः।  
पुराणागमादिष्वसाधारणश्रीस्सुतोभाति लोकेष्वनन्तार्यसूरेः॥२७॥  
ज्योतिश्छन्दश्शब्दशास्त्रप्रवीणः काव्यश्रेणी नाटकालंकृतिज्ञः।  
मीमांसायां ब्रह्मकर्मात्मिकायां स्रष्टा साक्षात्सर्वतन्त्रस्वतन्त्रः॥२८॥  
सांख्येयोगेभाट्टतन्त्रेगुरूक्तेशैवेजैनेशाङ्करेभास्करेच।  
शास्त्रेबौद्धेयादवेगर्वितानांप्रत्याख्याता सर्वतन्त्रस्वतन्त्रः॥२९॥  
सर्वोज्जीवनचिन्तयाघटकताभावेनदानात्कृति  
श्रेष्ठानां बहुशस्तदुद्धरणतस्त्रैय्यन्तसंरक्षणात्।  
श्रीमच्छ्रीशठकोपमुख्यदिविषन्नाथायरामानुजा-  
चार्यानप्यनुयातिहन्तनिगमान्ताचार्यचूडामणिः॥३०॥  
इहरङ्गपतिप्रसादलब्धोभयवेदान्तधुरन्धरत्वकीर्तिः।  
अपि तत्सहधर्मिणी कृपात्ताखिलतन्त्रप्रभुताकएषसूरिः॥३१॥

अखिलतन्त्रधुरन्धरताहरेस्त्वयितुवेङ्कटनाथगुरौस्थिता।  
विधिशिवादिजनेष्वितरेषुवाक्वचिदपीहनसापरिदृश्यते॥३२॥  
क्षमायां हि यस्योपमानं मुकुन्दः श्रुतौ तस्य कल्पो मतौ देवमंत्री।  
जये वैरिणांदैत्यसंहारकारीसजीयाश्चिरं सर्वतंत्रस्वतंत्रः॥३३॥  
आचार्यत्वोपयुक्ता मुनिगणकथिता देशिकैः स्वेनचोक्ता-  
स्सर्वे भद्रा गुणास्स्युस्समुदितविभवास्सर्वतंत्रस्वतंत्रे।  
शिष्यत्वे चोपयुक्ता अपिच गुणगणाः कूरनाथे यथास्यु-  
र्न्नान्यत्वाचार्यवर्गे कतिचनहिगुणाप्रायशस्तत्र दृष्ठाः॥३४॥  
यतिपतिसंप्रदायपरिपोषकस्य सततन्निगमान्तगुरो-  
रतिविदितामृतासरसतागुणेन सुमनस्सृजोमृदुतरा।  
अधिगतलक्षणाविमलसूक्तिरार्तिशमनीविपक्षमथनी  
कलयतु नश्शुभानिभगवत्तदीय यतिराजहर्षजननी॥३५॥  
अपिच भवाहिदष्टपरिमूर्छितस्यभविनः प्रबोधनकरी  
शमदमदोषभीतिभगवत्तदीयजनभक्तिजननी।  
विषयपरत्वकोपमदमोहलोभशठतादिदोषशमनी  
भुविसदृशीतरास्तिनहिसूक्तिरद्य निगमान्तदेशिकगिरः॥३६॥  
कर्मविचिकित्सावृत्तविचिकित्साधर्मविचिकित्सासर्वविचिकित्सा।  
शाम्यतीहनूनं सर्वपुरुषणां वेङ्कटविपश्चिद्वाग्विलसितेन॥३७॥  
यदुक्तयोयतिपतितन्त्रदीपिकाः सलक्षणास्सरसतमास्सतांमताः।  
समत्सरैरपि सततं परोक्षतः प्रशंसिताः परिकलयेत्सनश्श्रियम्॥३८॥

वाणीयस्यद्रामिडीसांस्कृतीचप्रायः प्राचामाशयानन्ववादीत्।  
अर्वाचामप्यासवैय्यात्म्यमूलंजीय्यात्सोयं सर्वतंत्रस्वतंत्रः॥३९॥  
यदीयकृतिषुक्षणं परिचितिस्सतां चातुरीं  
तनोतिबहुवत्सरश्रममनुस्थितामन्यतः।  
तमद्ययतिभूपतिप्रथितसन्मतोद्धारकं  
भजे कविकथारतद्विरदबृन्दकण्ठीरवम्॥४०॥  
कविवादिकरिसिंहकृतिरत्नतिलकं यतिराजवरसप्ततिमिमायनुदिनम् ।  
प्रवदंतिपरवादितिमिरौघमिहिरास्तइमेहि यतिराजकरुणैकविषयाः॥  
वेङ्कटेशविदुषा रचितानां ज्ञायते न गणनापि कृतीनाम्।  
तत्र चापि नहि रङ्गपति श्रीपादुकास्तुतिसहस्रसमान्या॥४२॥  
वेङ्कटेश्वरगुरुप्रथितं ये पादुकास्तुतिसहस्रमजस्रम्।  
सार्थबोधमनुसन्दधते ते संयमीन्द्रमतसारविदस्स्युः॥४३॥  
अनन्यसाधारणचातुरीचकाव्यादिषु ब्रह्मविदग्रणीत्वम्।  
तथाष्टभाषाकवितापटुत्वं सङ्कल्पसूर्योदयदृश्यमस्य॥४४॥  
दूषिण्यादौतार्किकाग्रेसरत्वंस्पष्टं श्रीमद्वेङ्कटेशस्यसूरेः।  
अन्यालभ्या चातुरीपद्यगुंभे सर्वज्ञत्वं तत्वमुक्ताकलापे॥४५॥  
कलयतां कवितार्किककेसरिप्रकटितां शतदूषणिकां हृदि।  
मशकवत्सुजयाः खलुमायिनः प्रणिपतन्ति परंपदयोर्मुहुः॥४६॥  
अहहयामलयादवभास्करप्रथितदुर्मतदुर्मदवादिनाम्।  
कलकलःकवितार्किककेसरि प्रथितदूषणिकाश्रवणावधिः॥४७॥

सर्वार्थसिद्धिश्शतदूषणीचद्वेखेटशस्त्रेकथकाग्रगानाम्।  
आद्येन तत्र क्रियते स्वरक्षा प्रत्यर्थिभङ्गः कलहेऽन्यतरस्यात्॥४८॥  
अतएव सर्वजगतां सगुरुर्यतिचक्रवर्तिमतदिग्गजतः।  
कवितार्किकद्विरदपञ्चमुखोह्यत ऊर्जितंह्यकृतभाष्यमिदम्॥४९॥  
सर्वतंत्रधूर्वहस्य वेङ्कटेशधीमतः  
कुर्वतेऽवमाननान्तु केचनाधुनोद्भवाः।  
हंतहंत रामकृष्णदूषणाभिधायिनां  
किन्नुचित्रमत्रचैद्यरावणानुसारिणाम्॥५०॥  
श्रुतिशीर्षदेशिक शिरोमणिनाजनकेनयेनहि सुशिक्षितधीः।  
वरदोगुरुश्च यतिराजमत प्रतिवादिकोटि शतकोटिरभूत्॥५१॥  
अपिकाममदलोभशठतादिरहिताः  
अपिनीतिधृतिशांतिमतिदांतिसहिताः।  
यतिराजमतधुर्यपदपद्मविमुखाः  
अवलोकनतिमाननुतिबाह्यविषयाः॥५२॥  
विमतिरथवा तेषांयुक्तायतीश्वरजीवने  
कविकथकपञ्चास्येदेवेसताञ्चधुरन्धरे।  
परिचितिरहोतन्माहात्म्यप्रकाशकतत्कृति-  
ष्वपिलवामितास्वप्नेप्येषांयतोनहिविद्यते॥५३॥  
नद्रष्टारोवैभवस्यास्य साक्षान्नैवाभ्यासस्तत्कृतिष्वस्ति येषाम्।  
येषान्नित्यं मानसं साभ्यसूयं तेषां भक्तिस्यात्कथं वेङ्कटेशे॥५४॥

गुरौवादिहंसांबुदाचार्यशिष्येजनाभक्तिहीनायतींद्राप्रियास्स्युः।  
यतींद्राप्रियाविष्णुकारुण्यदूराः कुतोमुक्तिवार्ताहितादृग्विधानात्॥  
निश्रेयसंयेऽभिलषन्तितस्य मूलं कृपाश्चापिरमासखस्य।  
दयांयतींद्रस्यहितैरवश्यं कार्याहिभक्तिः कविवादिसिंहे॥५६॥  
सेवाविष्णोर्वैष्णवाराधनान्ता तद्वत्सेवास्वामिनस्संयमीनाम्।  
वेदान्ताचार्यांघ्रिपद्मार्चनान्तायस्मादात्मा वेङ्कटेशस्यसूरेः॥५७॥  
कर्माद्युपाया इहकेचनस्युः केचिच्चलक्ष्मीरमणांघ्र्युपायाः।  
श्रीमद्यतींद्रप्रियवेङ्कटेशगुर्व्यन्घ्र्युपायावयमेवधन्याः॥५८॥  
सशङ्खचक्रलांछनस्सदूर्ध्वपुंड्रमंडित-  
स्सकण्ठलग्नसत्तुलस्यनर्घपद्ममालिकः।  
सितान्तरीयसूत्तरीय्ययज्ञसूत्रशोभितो  
ममाविरस्तुमानसेगुरुस्सवेङ्कटेश्वरः॥५९॥  
निगमान्तदेशिकपदाम्बुजद्वयं निरसूयवैष्णवजनप्रियंधनम्।  
कुलदैवतम्ममकुदृष्टिमस्तकक्षितिभृद्विभेदकुलिशायुधायितम्॥६०॥  
महोत्पलायितपादयुगलं रतिप्रियेषुधिप्रतिरोधिसुजङ्घ्रिकम्।  
ककुत्समानसुजानुकमञ्चितं स्फुरत्कटीविलसत्परिधानकम्॥६१॥  
प्रशस्तनाभिकमुज्वलवक्षसं प्रसन्नसस्मितसन्मुखपङ्कजम्।  
मदीयहृत्कमलासनसंस्थितं भजामि वेङ्कटनाथविपश्चितम्॥६२॥  
प्रबुद्धतामरसाभविलोचनं प्रसिद्ध शिष्यजनैः परिवारितम्।  
प्रबद्धरागतमं गुरुपादयोः प्रबुद्धचेतसमर्थसमर्थने॥६३॥

सरत्नकंबलपीठपरिग्रहंसमर्थमुत्थितसंशयनोदने।  
विरक्तसज्जनसङ्घाशिरोमणिंभजामि वेङ्कटनाथविपश्चितम्‌॥६४॥  
कवितार्किककलभव्रजकबलीकृतिसिंहं  
कमलापतिकरुणारसपरिवर्द्धितबोधम्‌।  
यतिनायकपद्पङ्कजयुगलीपरतन्त्रं  
भज मानस बुधवेङ्कटपतिदेशिकमनिशम्‌॥६५॥  
यतिनृपतिपदकमलसकलविधबंधुं  
करिशिखरिपतिनगरसुचिरकृतवासम्‌।  
भजहृदयकविकथकहरिमपिचरंग  
क्षितिरमणचरणयुगसततकृतसेवम्‌॥६६॥  
अतिमृदुलमनसमतिविपुलशुभनेत्र-  
मतिचतुरमधिकगुणयतिनृपतिभाष्ये।  
उपकरणपरमनिशमपकरणशीले-  
ष्वपिकलयममहृदयकविकथकसिंहम्‌॥६७॥  
भोनिगममौलियुगदेशिकदयामृतसमुद्रभवन्‌  
मामकमिदंवचनमयशृणुनाथ कवितार्किकहरे।  
सेहमतिस्विन्नमिहवीक्ष्यजनम्रत्रभवदङ्घ्रिविमुखं  
त्वञ्चकुरुतावकपदांबुजयुगप्रवणमद्यकृपया॥६८॥  
किञ्चममसानसमिदञ्चसमुदंचितमिहान्यविषये-  
ष्वञ्चतिनजातुकविवादिकरिपञ्चमुखतावकपदम्‌।

वञ्चनपरंशठमकिञ्चनजनप्रियसपञ्चशरजं  
चञ्चलमिदं पुनरचञ्चलतरं कुरुभवच्चरणयोः॥६९॥  
श्रीवेङ्कटेशस्यगुरोः पदाब्जयोस्समर्पितासप्ततिरत्नमालिका।  
धृतासुधीभिर्हृदयेविमत्सरैः पुष्णातिशोभां पुरुषार्त्थनिर्भराम्॥७०॥  
वेदान्ताचार्यसप्तत्यागुणवत्यापरिष्कृताः।  
वेदान्तवेद्यश्रीभाष्यकारकारुण्यगोचराः॥७१॥  
वीतरागाविशिष्टार्थावेदान्ताचार्यसप्ततिः।  
श्रीवैष्णवैस्सदाग्राह्याविद्वद्भिर्वीतमत्सरैः॥७२॥  
प्रतिवादिभयङ्करेणसासुधिया सप्ततिरत्नमालिका।  
निगमान्तगुरोस्समर्पिता हृदये तद्भजतां स्वयाधिया॥७३॥

इति प्रतिवादिभयङ्करं अण्णन् कृतिषु सप्ततिरत्नमालिका संपूर्णा॥

कवितार्किकसिंहाय कल्याणगुणशालिने।  
श्रीमते वेङ्कटेशाय वेदान्तगुरवे नमः॥

<MISSING_FIG href="../books_images/U-IMG-172381209930.png"/>  

**॥द्रमिडोपनिषत्तात्पर्यरत्नावलिः॥**  

श्रीमान्वेङ्कटनाथार्यः + सन्निधत्तां सदाहृदि॥

सारस्सारस्वतानां शठरिपुफणितिश्शान्ति शुद्धान्तसीमा  
मायामायामिनीभिस्त्वगुणविततिभिर्बन्धयन्तीं धयन्ती।  
पारंपारंपरीतो भवजलधिभवन्मज्जनानां जननां  
प्रत्यक्प्रत्यक्षयेन्नः प्रतिनियतरमा सन्निधानं निधानम्॥१॥

प्रज्ञाख्ये मन्थशैले प्रथितगुणरुचिं नेत्रयन्संप्रदायं  
तत्तल्लब्धिप्रसक्तैरनुपधिविबुधैरर्थितो वेङ्कटेशः।  
तल्पंकल्पान्तयूनश्शठजिदुपनिषद्दुग्धसिन्धुं विमथ्नन्  
गृघ्नाति स्वादुगाधालहरिदशशतीनिर्गतं रत्नजातम्॥२॥  

पाञ्चालीगात्रशोभाहृतहृदयवधूवर्गपुंभावनीत्या  
पत्यापद्मासहायेप्रणयिनिभजतः प्रेयसीपारतन्त्र्यम्।  
भक्तिश्शृङ्गारवृत्त्यापरिणमति मुनेर्भावबन्धप्रथिम्ना  
योगात्प्रागुत्तरावस्थितिरिहविरहो देशिकास्तत्रदूताः॥३॥  

भाषागीतिः प्रशस्ता भगवतिवचनाद्राजवच्चोपचारात्  
साचागस्त्यप्रसूतात्वित्ति परिजगृहेभूमिकाभेदयोग्या।  
यत्तत्कृत्यं श्रुतीनां मुनिगणविहितैस्सेतिहासैः पुराणै-  
स्तत्रासौसत्वसीम्नश्शठमथनमुनेस्संहिता सार्वभौमी॥४॥  

आदौ शारीरकार्थक्रममिहविशदं विंशतिर्वक्तिसाग्रा  
संक्षेपोऽसौ विभागं प्रथयतिच ऋचं चारुपाठोपपन्नम्।  
सम्यग्गीतानुबन्धं सकलमनुगतं सामशाखासहस्रं  
संलक्ष्यं साभिधेयैर्यजुरपिशतकैर्भात्यथर्वारसैश्च॥५॥  

प्राच्ये सेवानुगुण्यात्प्रभुमिहशतकेऽमंस्तमुक्तेरुपायं  
मुक्तिप्राप्यं द्वितीये मुनिरनुबुबुधे भोग्यताविस्तरेण।  
प्राप्यत्वोपायभावौ शुभसुभगतनोरित्यवादीत्तृतीये  
ऽनन्यप्राप्यश्चतुर्थे समभवदितरैरप्यनन्याद्युपायः॥६॥

देवश्श्रीमां त्स्वसिद्धेः करणमिति वदन्नेकमर्थं सहस्रे  
सेव्यत्वादीन् दशार्थान्पृथगिहशतकैर्वक्ति तत्स्थापनार्थान्।  
ऐकैकश्यात्परत्वादिषु दशकगुणेष्वायतन्ते तथाते  
तत्तद्गाधागुणानामनुविदधति तत्पंक्तयः पंक्तिसंख्याः॥७॥  

सेव्यत्वाद्भोग्यभावाच्छुभतनुविभवात्सर्वभोग्याधिकत्वा-  
च्छ्रेयस्तद्धेतुदानाच्छ्रितविवशतया स्वाश्रितानिष्टहृत्वात्।  
भक्तच्छन्दानुवृत्तेर्निरुपधिकसुहृद्भावतस्सत्पदव्यां  
साहाय्याच्च स्वसिद्धेस्स्वयमिहकरणं श्रीधरः प्रत्यपादि॥८॥  

ब्रूते गाधासहस्रं मुरमथनगुणस्तोमगर्भं मुनीन्द्रः  
प्रत्येकं चात्रगाधाः प्रथितविभुगुणास्स्पष्टमध्यक्षयामः।  
तत्रासंकीर्णतत्तद्दशकगुणशतस्थापनौचित्ययुक्ता-  
नैदंपर्यावरुद्धानगणितगुणितांस्तद्गुणानुद्गृणीमः॥९॥  

इच्छासारथ्यसत्यापितगुणकमलाकान्त गीतान्तसिद्ध्य-  
च्छुद्धान्ताचारशुद्धैरियमनघगुणग्रन्थिबन्धानुबद्धा।  
तत्तादृक्ताम्रपर्णीतटगतशठजिद्दृष्टसर्वीयशाखा  
गाधातात्पर्यरत्नावलि रखिलभयोत्तारणी धारणीया॥१०॥

॥ तिरुवायूमो— प्रथमदशकम् ॥

निस्सीमोद्यगुणत्वादमितरसतयानन्तलीलास्पदत्वात्  
स्वायत्ताशेषसत्तास्थितियतनभिदाऽवैभवाद्वैश्वरूप्यात्।  
त्र्यक्षब्रह्मात्मभावात्सदसदवगते स्सर्वतत्वेषु पूर्तेः  
पश्यन्योगी परं तत्पदकमलनतावन्वशादात्मचित्तम्॥१॥

स्वामित्वात्सुस्थिरत्वान्निखिलनिरुपधिस्वात्मविद्ग्राह्यभावा-  
त्तादृक्सर्वानुकूल्याच्च्यवनवदितरप्राप्यवैषम्यवत्वात्।  
सर्वत्रापक्षपाताच्छुभविभवतया मानसाद्यर्च्यभावा-  
त्सङ्कोचोन्मोचकत्वाज्जगदवनतयोपादिशत्सर्वयोग्यम्॥२॥  

बन्धार्हत्वात्स्वभक्तैरधिकतरगुणानन्तदिव्यावतारात्  
सर्वेष्वासक्तिमत्वान्नतसुगमतया स्वप्रबोधप्रदत्वात्।  
ख्याताभिख्यादिचिह्नात्स्वरुचिवितरणात्सर्वकालाश्रयत्वात्  
शर्वादेस्स्वाङ्गदानात्प्रहितपदतयानन्तसौलभ्यमाह॥३॥  

त्राणेबद्धध्वजत्वाच्छुभनयनतया स्वार्थलाभेऽर्थिभावा-  
त्तिम्यन्मेघस्वभावाज्जगदुपजननस्थापनातिप्रियत्वात्।  
कारुण्याप्तत्वयोगादनुगतमहिषीसन्निधेरसङ्गदैर्घ्या-  
न्नानाबन्धैस्स्वरक्षावहिततमतया क्षाम्यतीत्याहकृष्णम्॥४॥  

सद्ध्रीभव्यान्सुवाच स्सुचरितसुभगान् कृष्णसारूप्यसौम्यान्  
स्वाहारोदारशीलां स्तनुधृतभगवल्लक्षणो बाल्यगुप्तान्।  
छात्रस्वच्छन्दवृत्तीनभिगतशिशिरानन्तरङ्गोक्तियोग्या-  
नाचार्यान् कृष्णलब्धाववृणुत शठजित्प्रेयसीदूतनीत्या॥५॥  

क्षुद्राह्वानाभिमुख्यान्निजमहिमतिरस्कारकार्चप्रियत्वा-  
त्सर्वत्राप्यङ्घ्रिदानात्सविघशयनतस्स्वाङ्घ्रिसक्तैकरस्यात्।  
गोपाद्याप्ते रशेषेक्षणविषयतया भक्तवस्तुप्रसक्ते  
श्लिष्यन्नाशव्यपोहात्तदहितशमनात्प्राहनाथं सुशीलम्॥६॥

अक्रीतैरर्च्यभावादनियतविविधाभ्यर्चनादल्पतुष्टेः  
प्रह्वावर्ज्येशभावात्स्वविषयनियतेष्वादरात्स्वादुभूम्ना।  
पादासक्तप्रसक्तेस्सकृदुपसदने मोक्षणाद्धर्मसौस्थ्या-  
त्क्षिप्रक्षिप्ताहितत्वात्सुकर भजनतां माधवस्याभ्यधत्त॥७॥

सच्चित्ताकर्षहेतोरघशमननिधेर्नित्यभोगामृतस्य  
त्यागेहेतूज्झितस्यप्रवहदुपकुतेर्दुस्त्यजस्वानुभूतेः।  
त्यागाकांक्षानिरोद्धुःश्रितहृदयपृथक्कारनित्याक्षमस्य  
स्वात्मश्लिष्टस्य गायच्छ्रमहरयशसस्सेवनं स्वाद्ववोचत्॥८॥

सूरीणां स्वैरसेव्येस्वयमवतरति क्षुद्रदिव्यैकनेत्रे  
गोपाद्यर्थं धृताद्रौश्रिततनुरसिके वामनीभावदृश्ये।  
सच्चित्तानन्यवृत्तौ विभवसमतनौ स्वायुधारूढहस्ते  
नीचोच्चग्राह्यपादे निरुपधिमृजुतां नीरवर्णेजगाद॥९॥

पर्यन्तेऽङ्केचदृष्टं स्वविरहविधुरं डिम्भवत्पार्श्वलीनं  
चित्ते कॢप्तप्रवेशं भुजशिखरगतं तालुसिंहासनस्थम्।  
चक्षुर्मध्येनिविष्टं स्थितमलिकतटे मस्तकेतस्थिवांसं  
प्रत्याहारोक्तरीत्याविभुमनुबुभुजेसात्म्यभोगप्रदानात्॥१०॥

विष्वग्विक्रांतिदृश्यं विगणनसुलभं व्यक्तपूर्वोपकारं  
स्वान्तस्यैकाग्र्यहेतुं स्वयमुदयजुषं बन्धमात्रोपयातम्।  
चिन्तास्तुत्यादिलक्ष्यं नतजनसततश्लेषिणं दर्शितार्चं  
स्मृत्यैचित्तोमषन्तं स्ववितरणमहौदार्यतुष्टोऽभ्यचष्ट॥११॥

आदावित्थं परत्वादखिलसमतया भक्तसौलभ्यभूम्ना  
निश्शेषागस्सहत्वात्कृपणसुघटनाच्छक्यसंराधनत्वात्।  
स्वादुस्वोपासनत्वात्प्रकृतिऋजुतया सात्म्यभोगप्रदत्वा-  
दव्याजोदारभावादमनुतशतके माधवं सेवनीयम्॥१२॥

॥ द्वितीयदशकम् ॥

निद्राविच्छेदकत्वादरतिजननतोऽजस्रसंक्षोभकत्वा  
दन्वेष्टुं प्रेरकत्वाद्विलयवितरणात्कार्श्यदैन्यादि कृत्त्वात्।  
चित्ताक्षेपाद्विसंज्ञीकरणत उपसंशोषणावर्जनाभ्यां  
दृष्टास्वादस्य शौरेः क्षणविरहदशादुस्सहत्वं जगाद॥१३॥  

पूर्णैश्वर्यावतारं भवदुरितहरं वामनत्वे महान्तं  
नाभीपद्मोत्थ विश्वं तदनुगुणदृशं कल्पतल्पीकृताब्धिम्।  
सुप्तं न्यग्रोधपत्रे जगदवनधियं रक्षणायावतीर्णं  
रुद्रादिस्तुत्यलीलं व्यवृणुत ललितात्तुङ्गभावेन नाथम्॥१४॥  

चित्रास्वादानुभूतिं प्रियमुपकृतिभिर्दास्यसारस्यहेतुं  
स्वात्मन्यासार्हकृत्यं भजदमृतरसं भक्तचित्तैकभोग्यम्।  
सर्वाक्षप्रीणनार्हं सपदिबहुफलस्नेहमास्वाद्यशीलं  
सभ्यैस्साध्यैस्समेतं निरविशदनघाशेषनिर्वेशमीशम्॥१५॥  

प्रह्लादार्थे नृसिंहं क्षपितविपदुषावल्लभं क्षिप्तलङ्कं  
क्ष्वेलप्रत्यर्थिकेतुं श्रमहरतुलसीमालिनं धैर्यहेतुम्।  
त्राणेदत्तावधानं स्वरिपुहतिकृताश्वासनं दीप्तहेतिं  
सत्प्रेक्षारक्षितारं व्यसननिरसनं व्यक्तकीर्तिं जगाद॥१६॥

स्वप्राप्त्या सिद्धकान्तिं सुघटितदयितं विस्फुरत्तुङ्गमूर्तिं  
प्रीत्युन्मेषातिभोग्यं नवघनसरसं नैकभूषादिदृश्यम्।  
प्रख्यातप्रीतिलीलं दुरभिलपरसं सद्गुणामोदहृद्यं  
विश्वव्यावृत्तिचित्रं व्रजयुवतिगणख्यातनीत्याऽन्वभुंक्त॥१७॥

स्वास्वादख्यापकत्वा च्छ्रितनियतदृशेर्नैकभोगप्रदाना-  
त्यागानर्हप्रकाशात्स्थिरपरिचरण स्थापनात्पापभङ्गात्।  
दुस्साधार्थस्यसिद्धेर्विरहभयकृतेर्दुर्विभेदात्मयोगा-  
न्नित्यानेकोपकारात्स्वविरहचकितं प्रैक्षतांभोरुहाक्षम्॥१८॥

सर्वादिस्सर्वनाथस्त्रिभुवनजननीवल्लभस्स्वाश्रितार्थी  
विष्वग्व्याप्त्यातिदीप्तोविमतनिरसनस्स्वांङ्घ्रिसद्भक्तिदायी।  
विश्वाप्त्यै वामनाङ्गस्स्वविभवरसदस्स्वान्त निर्वाहयोग्य-  
स्स्वार्थेहोबन्धमोक्ता स्वजनहिततया द्वादशाख्याभिरूचे॥१९॥

प्राप्याकारोपपत्त्याजनिपरिहरणाद्विश्वसृष्ट्यादिशक्ते  
र्निस्सीमानन्ददेशाऽन्वयत उपजगौवारणार्थावतारात्।  
सुप्रख्यातानुभावाद्विविधविहरणाद्व्याप्तिवैचित्र्यवत्त्वा-  
द्भक्तैर्द्राग्दृश्यभावादखिलफलकृतेर्मुक्तिसौख्यं मुकुन्दे॥२०॥

श्रद्धेयस्वाङ्घ्रियोगं शुभमतिकरं स्तोत्रसामर्थ्यहेतुं  
स्वार्थीकारोपकारं स्मृतिरसशमितान्यादरं प्रीतिवश्यम्।  
प्राप्तौकालाक्षमत्वप्रदममृतरसध्यानमात्मार्पणार्हं  
वैमुख्या द्वारयन्तं वृतपरिचरणं चक्रपाणिं जगाद॥२१॥

दीप्ताश्चर्यस्वभावं मुखरितजलजं वर्षुकाम्भोदवर्णं  
शैलच्छत्राभिगुप्ताश्रितमतिविलसद्धेतिमापीतगव्यम्।  
संरम्भोत्क्षिप्तभूमिं प्रणमदनुगुणं पूतनाचेतनान्तं  
पूर्वाचार्यं श्रुतीनां शुभसविधगिरिस्थानतो निर्विवेश॥२२॥

इत्यब्रूतात्यसह्यक्षणविरहतया मानुषत्वेपरत्वात्  
सर्वास्वादत्वभूम्ना व्यसनहरतयास्वाप्तिसंप्रीतिमत्वात्।  
वैमुख्यत्रासयोगान्निजहृदवनान्मुक्तिसारस्यदाना-  
त्कैङ्कर्योद्देश्यभावाच्छुभनिलयतयाचातिभोग्यं द्वितीये॥२३॥

॥ तृतीयदशकम्॥

सुश्लिष्टाकल्पमङ्गैरनुपमसुषमं वक्तिनिस्सीमदीप्तं  
स्वान्तस्वादुस्वदेहं सुखभजनपदं मण्डिताङ्गंमहिष्या।  
स्तोत्रातिक्रान्तकीर्तिं मलिनिमरहितौज्वल्य मिष्टौपवाह्यं  
वीताश्चर्यत्रिणेत्र प्रभृतिसुरनुतिं चित्रसौन्दर्यविद्धम्॥२४॥

स्रष्टाक्रान्ताचलोकान् हृतधरणिभरोऽनन्यभोग्याङ्घ्रियुग्म-  
श्चित्तोद्यन्नीलरूपो निरवधिरसदस्वाङ्घ्रिरध्यक्षमूर्तिः।  
नित्योपास्यस्वपादो निखिलवसुमती गोपनस्वाङ्घ्रिवृत्ति  
र्मुष्णन्मूर्तिप्रतीत्या यमपरवशतां प्रैक्षिलोकैकनाथः॥२५॥

स्थानोत्कर्षात्सुदीप्तं श्रमहरवपुषं स्वाङ्गपर्याप्तभूषं  
तेजिष्ठं नीचयोगात्प्रणमितभुवनं पावनं सन्नतानाम्।  
प्राप्त्यर्हस्थानमंहः प्रशमनविषयं बन्धविच्छेदिपादं  
भेजे शीघ्राभियानक्षमशुभवसतिं लम्भितार्चाभिमुख्यम्॥२६॥

भूतैस्तत्कार्यभूतैश्शुभनिजवपुषादीप्तिमद्भिः पदार्थैः  
पथ्यास्वादोपपन्नैश्श्रुतिमुखसुभगाशेषशब्दप्रपञ्चैः।  
नानाकारैः पुमर्थैर्जगदधिपतिभिश्चेतनाचेतनौघै-  
र्जुष्टंदोषैरदुष्टं निखिलतनुतया सम्प्रतुष्टावतुष्टः॥२७॥

ग्राहग्रस्तेभमोक्षे सुररिपुदमने गोकुलत्राणकार्ये  
गोदार्थोक्षावमर्दे सदहितमथने सिन्धुपर्यङ्कयोगे।  
क्षोणीभारव्यपोहे क्षितिधरवसतौ निर्जराराध्यतायां  
विश्वारम्भेचशौरेश्शुभतनुसुषुमोन्मादकत्वं जगाद॥२८॥

पद्माक्षीं पापहन्त्रीं मणिरुचिममराधीशचिन्त्याङ्घ्रिपद्मां  
तत्तादृक्कुन्तलश्रीसुघटितमकुटां भावुकप्राप्यपादाम्।  
शुद्धास्वाद्यस्वभावां यमभटमथनीं भक्तधीवृत्तिभाव्यां  
नीचोच्चाभीष्टवृत्तिं हरितनुमवदन्निर्मलार्चानुरक्तः॥२९॥

स्फीतालोकातिभूम्ना पृथुबहुभुजया दिव्यमाल्यास्त्रभाजा  
सद्वस्त्राकल्पक्लृप्त्या त्रिदशरसकृता रक्षणौन्मुख्यवत्या।  
मुक्तैरुत्तंसिताघ्र्या स्थिरधृतरमया श्यामया नित्यसत्या  
शौरेः कान्त्या जितानां स्वबहुमतजनस्वामिता मन्वमंस्त॥३०॥

चित्ताकृष्टिप्रवीणैरभिलपनसुखैरस्पर्शवांछां दुहानै-  
रातन्वानैर्दिदृक्षां श्रुतिहितसहितैरात्मनित्यादरार्हैः।  
विश्लेषक्रोशकृद्भिस्स्मरदरतिहरैर्दत्तसायुज्यसङ्गैः  
कुर्वाणैर्बाललौल्यं मिलितगुणगणैर्नित्यदृश्याङ्गमाह॥३१॥

रम्यस्थानादियोगा दमित विभवत स्सत्पथ प्रापकत्वा-  
त्सम्यक्सायुज्यदाना दनघवितरणात्सर्व शेषित्वचिह्नात्।  
प्रख्याताख्यासहस्रै रवतरणरसैर्भुक्तिमुक्त्याभिमुख्या-  
त्त्रैलोक्योत्पादनाच्च स्तुति विषय तनुं व्याहरन्निंदितान्यः॥३२॥

प्रादुर्भावानुभावाद्भजनविभवात्पावनालंक्रियत्वा-  
ज्जैत्रव्यापारयोगा दघटित घटना द्देवभाव प्रसिद्धम्।  
आश्चर्यक्रीडनत्वात्सरसिज निलयानन्दना च्छन्दवृत्ते-  
रैश्वर्यव्यक्तिमत्त्वा दघशमनतनुं केशवं व्याजहार॥३३॥

एवं सौन्दर्य भूम्ना तनु विहितजगत्कृत्यसौभाग्ययोगा-  
त्स्वेच्छासेव्याकृतित्वान्निखिल तनुतयोन्माददानाऽर्हकांत्या।  
लभ्यार्चा वैभवत्वाद्गुणरसिकगुणोत्कर्षणा दक्षकृष्ट्या  
स्तुत्यत्वात्पापभङ्गाच्छुभसुभगतनुं प्राह नाथं तृतीये॥३४॥

॥ चतुर्थदशकम् ॥

श्रीमन्नारायणस्स्वाम्य नुगुणमकुटो वीर दामाङ्कमौलि -  
र्दुर्दांतारातिहंताऽद्भुतनियततनुः कल्पपाथोधितल्पः।  
विश्वाद्यं ज्योतिरुर्वीवरफणिशयनो वेदरूपस्वकेतु-  
र्निर्धूता शेषदोषः प्रभुरथ कथित सुस्थिरैश्वर्यसीमा॥३५॥

शैत्यात्सौगन्ध्यभूम्ना रुचिरुचिरतया पोषणादाभिरूप्या-  
त्सन्दर्भात्पुष्पसंगान्महिततुलसिकामालया शंखतश्च।  
चक्राधीशस्य योगाद्वटदलशयनाद्यर्हणीयापदानै-  
स्सम्पन्नानेकभोग्यं निरविश दजितं कृष्णमूर्तिं शठारिः॥३६॥

चेतो गन्धानुलेपस्स्तुतिवचनकृतस्त्रक्पटोंऽजल्युपात्ता-  
लङ्कारः प्राणवासी कलित वरशिरोभूषण श्चेतनेन।  
शीर्ष्णासत्पादपीठ स्स्वतनुसदनतामात्मरूपे वितन्व-  
न्नन्योन्यात्मत्वयोगात्प्रभुरगणि मिथश्श्लिष्टभावोऽथतेन॥३७॥

भूम्याद्यै स्सागराद्यै र्ज्वलन शशिमुखै र्वस्तुभिर्वत्सपूर्वै-  
र्नृत्यद्भि स्स्वैश्चलोकादिभि रथ पृथिवीक्षिद्भिरात्मीयदासैः।  
सौलभ्यैश्वर्यवर्गै रपिच गुणगणै र्वासुदेवो वियोगे  
स्वीयैस्तुल्यैश्च भक्तान्व्यथयति मधुहेत्यब्रवीत्कारिसूनुः॥३८॥

आपन्नानन्यबन्धौ सरसिज निलया वल्लभे सांद्रमोदे  
भक्ताघध्वंसशीले तदुचित समयाश्वासदान प्रवीणे।  
कर्पूरालेपशोभे समधिकरहिते तोषके सर्वपूर्णे  
कृष्णे स्तुत्यादिभाजां शठरिफु रवदद्धन्यतां निंदितान्यः॥३९॥

इच्छासारथ्ययोगात्प्रहरण नवना च्छ्रीतुलस्याढ्यमौले-  
स्स्तुत्यांघ्र्योः पादधूल्या स्स्वजनभजनतत्पादधूलीनमोभिः।  
तन्मूलस्वांघ्रिनुत्या तदितर भजनत्याग पूर्वोपसत्त्या  
देवं प्राचिख्यपत्स्वप्रणयिषुभिषजं केसरस्रग्विभूषः॥४०॥

आपद्बन्धुत्व दीप्तं निरवधिक महानन्ददं क्रांतलोकं  
दुर्दर्शं देवतानां पितरमनुपधिं सर्वभूतांतरस्थम्।  
पूर्णज्ञानैकमूर्तिं धृतशुभतुलसीं चक्रनाथं श्रुतीनां  
विश्रांतिस्थान मीशं विशदबहुगुणं प्राह खिन्न श्शठारिः॥४१॥

दुश्शीलो मांसचक्षु र्निरवधिदुरितो वीतलज्जो विलोलः  
प्रेक्षाहीनोऽन्यसंगा त्कृतमपि लघयन् शील मंतर्दधानः।  
कर्मज्ञानादि शून्यो निरुपधि विहितां ज्ञानदृष्टिं विनिंद-  
न्प्रख्याप्येवं स्वदोषान्पति गुणरसिक स्तद्दिदृक्षांच चक्रे॥४२॥

सौंदर्यादौ स्वकीये हृदिच खनिकरे पूर्णतायां च कांतौ  
सम्यक् ज्ञाने प्रकाशे वलयरशनयो र्वर्ष्मणि स्वस्वरूपे।  
स्याद्विष्णो र्यद्युपेक्षा तदिद मखिल मुन्मूलनीयं तदीयै-  
रित्यूचे कारिसूनु स्तदुपरि कथयं स्तंशिवाद्याश्रितांगम्॥४३॥

कारुण्या दब्धिमाथी तदुपरि शयित स्तत्समानांगवर्णः  
ख्यातौदार्य स्स्वदाने रुचिरमणिरुचि र्वेषतोऽतीव भोग्यः।  
आत्मत्वेनानुभाब्यो दुरधिगमपदो बंधमोक्ष स्वतंत्र-  
स्स्वान्यप्रेमोपरोधी स्वदत इह विभु स्तत्पदोत्कंठिताय॥४४॥

तापैस्सम्बंधिदुःखै स्स्वविभव मरणै स्तापकृद्भोग्यसंगै-  
र्दुर्गत्याज्ञातिवृत्ते रनितरविधुते रंधकारानिरोधात्।  
प्रह्वीभावोज्झितत्वात्प्रलघुसुखपरिष्वंगतश्चातिशोच्यं  
विश्वं द्रष्टुं नशक्तो निजपदनयने नाथतिस्म स्वनाथम्॥४५॥

स्वानां निर्वाहकत्वा दहिपतिशयना दब्धिवर्णस्वभावा-  
दत्यंतोदारभावा द्वलभिदुपलवद्दर्शनीयत्व योगात्।  
सन्मौलित्वा त्तुलस्या प्रियकरण मुखैरंड सृष्टौ पटुत्वा -  
त्सुप्रापत्वादिभि स्तं फलमतुल मबैद्भेजुषामेष नाथम्॥४६॥

कल्पांतेऽपि स्थितत्वात्सकलसुरगण स्रष्टृभावा जनानां  
रक्षाद्यापादकत्वाच्छिवविधिभरणात्सर्वदेवात्मभावात्।  
तत्तत्कर्मानुरूपं फलवितरणतो वैनतेय ध्वजत्वा-  
न्मार्कंडेयावनादेः प्रभुमथशठजित्प्राह सर्वामरोच्चम्॥४७॥  

नित्यैश्वर्यंतु तुर्ये सहज बहुलसद्भोग्यमन्योन्यसक्तं  
क्लेशापादि स्वतुल्यं स्वजनकृत कृतार्थी कृतिं स्नेहिवैद्यम्।  
संयुक्तं सद्गुणौघै स्स्वजनपरिहृतोपेक्ष्यमिष्टार्थरूपं  
श्रेष्ठं निश्शेषभोग्या दमनुत शतके देवता सार्वभौमम्॥४८॥

॥पञ्चमदशकम् ॥

चक्रस्फायत्करत्वात्स्वजनवशतया रक्षणो द्युक्तभावा-  
द्भव्यत्वात्स्वात्मदानादमलतनुतया श्रीगजेन्द्रावनाच्च।  
नानाबंधुत्वयोगा द्विपदिसखितया व्याजमात्राभिलाषा-  
त्कारुण्याधीनवृत्तिं कमलदृश मवैत्कारिसूनुः कृतार्थः॥४९॥  

पायोधिप्रौढकांतौ सरस तुलसिकालंकृतौ दातृभावे  
वैकुंठत्वेच चक्रप्रहरणवशिता देवतास्थापनादौ।  
स्वानामच्यावनादौ सकलनियमने सर्वकर्मेज्यभावे  
नित्यासक्तै स्स्वभक्तैर्जगदघशमनं प्राह कृष्णं शठारिः॥५०॥  

ज्योतीरूपांगकत्वात्सरसिजनयनानिष्टाविध्वंसकत्वा-  
न्मेघौघ श्यामलत्वाच्छ्रितसरसतयोत्कृष्टसौलभ्ययोगात्।  
रक्षायां सावधानात्सुभगतनुतयासोपकारास्त्रवत्वा-  
त्स्वानां प्रेमातिमात्रं जनयति भगवानित्यवादीच्छठारिः॥५१॥

आपद्बंधुत्वकीर्त्या यदुकुलजननाद्धीरवीरत्व कीर्त्या  
लोकानां विक्रमाच्चाश्रित दुरितहृते रद्भुतैश्चेष्टितैश्च।  
चक्राद्यस्त्रान्वितत्वात्कमलनयनतस्सम्पदावामनत्वा-  
त्क्षीराब्धौ शेषशायी जगदवन महादीक्षितोऽज्ञायि तेन॥५२॥

शङ्काद्यैर्यज्ञसूत्रादिभिरपिच तथा शार्ङ्गमुख्यै स्तुलस्या  
बिम्बोष्ठाद्यै स्सुनासाव्रतति निरवधि ज्योति रूर्जस्विमूर्त्या।  
नेत्राब्जाद्यै रशेषाभरण सुषमया स्वैश्च भक्तैर्मनोज्ञो  
देव स्स्वानामजस्रं स्मृति विषयतया भाति चेत्यभ्यधायि॥५३॥

स्रष्टृत्वाद्यैर्जगत्यास्सकल विधकलावर्तकत्वेन भूता-  
न्तर्यामित्वेन कृत्युद्धरण परतया भूभरापाकृतेश्च।  
शैलेंद्रोद्धारणाद्यै स्स्वजनहिततया ब्रह्मरुद्रेंद्रभावा-  
द्दुष्कर्मोन्मूलनाद्यैः प्रभुरनिश महं बुद्धिबोध्योऽन्वभावि॥५४॥

सर्पाधीशेशयत्वा दरिदरभरणात्सानुकम्पत्वयोगा-  
त्सत्साहाय्यादशेषांतर निलयतया भूसमुद्धृत्युदन्तैः।  
सर्वेषां तातभावा दितरजनदुराधर्षतादे श्शरण्यं  
दीनानां प्राहविष्णुं शठजनमथनो देवतासार्वभौमम्॥५५॥

निस्सौहित्यामृतत्वात्स्ववशजनितयाऽनन्यभावप्रदाना-  
न्मर्यादातीतकीर्त्या नलिननयनतो नायकत्वात्सुराणाम्।  
सर्वश्रेष्ठ्यादियोगादनितरगतिताद्यावहासन्नभावा-  
द्दास्ये स्वे स्थापयेत्स्वान्हरिरिति शठजित्स्थापयामास कृष्णम्॥५६॥

स्वामित्वात्संश्रितानामुपकरणरसात्स्वेष्टसंश्लेषकत्वा-  
त्सर्वास्वादत्वभूम्ना कपटवटुतया दारुणापत्सखत्वात्।  
दिव्यस्थानोपसत्त्या भ्रमदरिभरणाच्चापि नारायणत्वा-  
दत्यासन्नश्श्रितानां भवतिहरिरिति प्राहकारेस्तनूजः॥५७॥  

प्रादुर्भावादिवृत्तैर्वृषगणदमनात्पूतनाशातनाद्यै-  
र्मोहार्थं बौद्धकृत्यैर्गिरिवरभजनस्वीकृते स्थानभेदैः।  
तेजोध्वांतादिभावाज्जलनिधिशयनाद्भिक्षणाद्यै स्त्रिपद्याः  
पीयूषस्पर्शनाद्यै श्शिथिलयति हरि स्स्वीयहृच्चेत्यथोचे॥५८॥  

इत्थं कारुण्यनिघ्नं दुरितहरजनं प्रेम तीव्रं दुहानं  
लोकानां रक्षितारं स्मृतिविषयमहं भावनागोचरं च।  
दीनानां सच्छरण्यं स्वरसकृतनिजप्रेष्यतावाञ्छमूचे  
प्राप्तं शक्तिप्रदं श्रीपति मिहशतके श्रेयसामेकहेतुम्॥५९॥

॥ षष्ठदशकम् ॥

चक्रित्वात्स्वामिभावा द्विपदि सखितया बिम्बदृश्याधरत्वा-  
दब्धिश्यामात्मकान्त्या धृततुलसितया निर्जराधीशभावात्।  
रक्ताभास्यांघ्निभावात्पृथुमकुटतयाऽऽश्चर्यचर्याविशेषै-  
र्लङ्काध्वंसाच्च कृष्णं शठजिदकथयद्देशिकद्वारगम्यम्॥६०॥  

पूर्णत्वाद्गोपनारी जनसुलभतया लोडना दम्बुराशे-  
र्न्यग्रोधाग्रेशयत्वा दरिसुभगतया श्रीमहीवल्लभत्वात्।  
निर्दोषोत्तुंगभावान्निरवधिकयशस्सद्वशीकारिदृत्क्तत्वा-  
न्मोक्षस्पर्शेच्छयाच स्वयमभिसरतीत्याह कृष्णं शठारिः॥६१॥

सम्पद्दारिद्र्यभावा दसुखसुखकृतेः पत्तनग्रामभावा-  
त्पुण्यापुण्यादिभावात्कपट ऋजुतया सर्वलोकादिभावात्।  
दिव्यादिव्यांगवत्वा त्सुरदितिजगण स्निग्धशत्रुत्वकीर्त्या  
च्छायाच्छायादिभावादघटितघटनं प्राह कृष्णं शठारिः॥६२॥  

रासक्रीडादिकृत्यै र्विविधमुरलिकावादनै र्मल्ल भंगै-  
र्गोपीबन्धार्हभावा द्रूजजननमुखैः कंसदैत्यादिभंगैः।  
प्रादुभावैर्निहीनेष्वसुरभुजवनच्छेदमुख्यै श्चरित्त्रे  
राकर्षेत्सर्वचित्तं हरिरितिकथयामास कारेरपत्यम्॥६३॥  

शंखाश्चक्रात्ततश्च त्रिदशसुरतया सिन्धुशायित्वभूम्ना  
तद्वच्चोदारभावादरुणसरसिजाक्षत्वचिन्हेन देवः।  
देव्यासंसृष्ट (देवीभिस्सेव्य) भावानतिसुभगतया स्वेष्वतिस्निग्धभावा-  
द्वन्धुभ्यस्स्वान्मुरारि र्विघटयति हठादित्यवोचच्छठारिः॥६४॥  

पारम्याद्यैश्चपञ्चायुधविहृतिमुखै र्ब्रह्मण स्स्रष्टृभावा-  
द्देवानां स्वामिभावादभिसुभगतयाऽलंकृतेः कुन्दभंगात्।  
प्रादुर्भावैश्च सर्वांतरनिलयतयाऽहं ममत्वेतिधैर्यं  
चातुर्यादीनि नृणामपहरति हरिश्चेत्यभाणीच्छठारिः॥६५॥  

पारम्याद्भव्यभावात्स्नगभिहितमुखै श्श्रीशतैश्वर्यभूम्ना  
स्नेहित्वा दाभिरूप्या च्छ्रितपरवशतासर्वलोकेशताद्यैः।  
धृत्यादेरादिहेतुं मुरमथनमथ व्याहरत्संश्रितानां  
वेदानागस्त्यभाषावपुष उदधरच्छ्रेयसे देहिनां यः॥६६॥

लोकस्रष्टृत्वशक्त्यायुधसुभगतया जिष्णुसारथ्ययोगा-  
त्स्रग्भ्राड्देवेशभावाद्गरुडरथतया स्वाश्रितेपक्षपातात्।  
कान्त्यासाम्राज्ययोगा दवतरणदशा स्पष्टपारम्यतश्च  
स्वीयायत्तस्वभूतिद्वयमथ कथयामास देवं शठारिः॥६७॥  

सर्वात्मत्वाज्जगत्याः क्रमणत उत संरक्षणा द्विष्टपानां  
शत्रुध्वंसात्परत्वा द्यभिमतदशया पञ्चधाऽवस्थितत्वात्।  
निर्वाहादण्डकोट्या बुधदयिततया सर्वशीर्ष्ण्यंङ्घ्रिदाना-  
न्मोक्षेच्छोत्पादकत्वाद्धरिमथशठजिद्वक्त्यनर्हद्वियोगम्॥६८॥  

आपत्संरक्षणा दर्युपकरणतया मेघसाम्यादिभूम्ना  
स्वानांविश्वासदानात्सुरगणभजना द्दिव्यदेशोपसत्त्या।  
प्राप्याप्राप्यत्वयोगात्स्वजनविजनयो स्वप्रपत्तव्यभावा-  
दूचेनाथं शरण्यं श्रुतिशतविदितं वेङ्कटेशं शठारिः॥६९॥  

इत्थं सद्वारगम्यं स्वयामितमसहस्थायिनां योजनार्हं  
कर्षंतं स्वै श्चरित्रै र्विघटितविजनं स्वान्वितस्ते यदक्षम्।  
धृत्यादीनां निदानं घटकवशमहाभूति युग्मं शठारि-  
र्वैघट्यस्याप्यनर्हं प्रपदनसुलभं प्राह षष्ठे शरण्यम्॥७०॥

॥ सप्तमदशकम् ॥

निस्संख्याश्चर्ययोगा दतिमधुरतयाऽथोजगत्कारणत्वा-  
न्न्यग्रोधार्हत्वभूम्ना त्रिदशपतितया वाङ्मनस्सन्निधानात्।  
पीयूषस्पर्शनाद्यै रखिलपतितया लोकसंरक्षणाद्यै-  
श्शाठ्याशङ्कांसहेत त्रितनुरसुरहेत्याहचिञ्चांतिकस्थः॥७१॥

श्रीरंगेसन्निधानान्निखिलजगदनुस्रष्टृताद्यै श्शुचित्वा-  
द्विध्वस्तनिष्टभावा दुरगशयनतः पुंसु कर्मानुरूपम्।  
शर्माशर्मप्रदाना ज्जलदतनुतयोपक्रियातत्परत्वा-  
स्वामीस्वानांविगर्हा मुपशमयति चेत्याह धीमान् शठारिः ॥७२॥  

पद्माक्षत्वेन हृत्स्थः परमखनिलयस्स्वोपकारी विगर्ज-  
च्छङ्खोऽनिष्टप्रहर्ताऽऽदरविलसनकृद्रक्षकोऽम्भोधिदृश्यः।  
आपत्संरक्षकश्रीमकरवरलसत्कुण्डल स्वाङ्गकान्त्या  
स्वेषुस्वगोप्तृभावं प्रकटयति हरिश्चेत्यशंसच्छठारिः॥७३॥  

विक्रान्त्याविष्टपानाममृतमथनतश्चोद्धृते र्भूतधात्र्याः  
कल्पे लोकादनाच्चक्षितिभरहरणाद्दैत्यराजप्रहारात्।  
लङ्कासङ्कोचकत्वादसुरभुजवनच्छेदनाल्लोकसृष्टे -  
र्धृत्यागोवर्धनाद्रे रस्फुटजगदवनप्रक्रियं श्रीशमाह॥७४॥  

साकेते मुक्तिदानात्स्थिरचरजनुषां सर्वशोरक्षकत्वा  
चैद्येसायुज्यदाना ज्जगदुदयकृते रुद्धृतेर्भूमिदेव्याः।  
याच्ञार्थं वामनत्वा च्छिवभजक मुनेर्मोक्षदानाद्युदन्तै-  
स्स्नेहं सर्वाश्रयं स्वं प्रकटयति हरि श्वेत्यथाज्ञायितेन॥७५॥  

नाभीपद्मोज्ज्वलत्वा द्विधिशिवभजनीयांघ्रिभावाद्गवां च  
त्राणाद्यै स्सर्वभूतांतरनियमनत स्संश्रितेभव्यभावात्।  
ब्रह्माद्यापद्विमोक्षा दसुरनिरसनात्त्रातरक्षोनुजत्वा -  
त्स्वीयाक्रंदापहारी भवतिच भगवानित्यवादीच्छठारिः॥७६॥

दृग्भ्यां पद्माकृतिभ्या ममरतरुलता नासिकातोऽधरेण  
भ्रूचापेनस्मितेनाप्यथमकरलसत्कुण्डलाभ्यां विशिष्टः।  
फालेनार्धेन्दुभासाऽमलमुखशशिना नेत्रशोभादिभाजा  
श्रीमान् देवः किरीटी स्मृतिविशदतनुर्भाति चेत्यभ्यधायि॥७७॥  

भूतैश्चन्द्रार्यमाद्यै स्सकलयुगगतैर्वस्तुभिश्चेतनाद्यैः  
स्वैर्लोकानांनियत्या स्मरणतदितरोत्पादनान्माननाद्यैः।  
दुर्ज्ञेयत्वात्स्वभाजां बहुशुभकरणाद्वेदसंवेद्यभावा-  
च्छ्रीमानाश्चर्यनाना विभवइति ततश्श्रीधरः प्रत्यपादि॥७८॥  

स्वामित्वाश्चर्यभावादपिच करुणयादत्तवाग्जृम्भणत्वा-  
दुज्जीवापादकत्वादघटितघटना शक्तिवैकुण्ठयोगात्।  
शुद्धस्वांतत्वचक्रायुधजलधिसुतावल्लभत्वात्पितृत्वा-  
त्स्वेस्तोत्रे विष्णु रप्रत्युपकृति विषये स्वान्युनक्तीत्यगायत् ॥७९॥  

वैकुण्ठे नित्ययोगाच्छ्रितविवशतयाऽनंतकीर्त्युज्ज्वलत्वा-  
च्छेषेशायित्वरुक्मिण्यभिमतसुरजिद्वाणदोः खण्डनाद्यैः।  
ग्राहग्रस्तेभरक्षाभिरुचितविषये सन्निधानाच्छुचित्वा-  
त्स्तोतॄणां दुःखजातं विघटयति हरिस्तीर्थपादोऽभ्यधायि॥ ८० ॥  

शाठ्याशङ्कासहिष्णुं प्रशमितजनतागर्हणं स्पष्टरक्षं  
व्याकुर्वंतं स्वरक्षाक्रममखिलजनस्नेहितां दर्शयंतम्।  
स्वीयाक्रन्दच्छिदोत्कं स्मरणसुविशदं विस्मयार्हद्विभूतिं  
स्तोत्रेयुञ्जतमाह स्तुतिकृदघयरं सप्तमेऽनिष्टचोरम्॥८१॥

॥ अष्टमदशकम् ॥

श्र्याद्यैः पत्यादिमत्वा द्रघुयदुकुलयो रुद्भवात्स्वाश्रितेच्छा-  
धीनेहाविग्रहत्वा त्सकल चिदचिता मंतरात्मत्वभूम्ना।  
स्वामित्वात्स्वाश्रितावेद्यखिलगुणतया ज्ञानिना मप्यदुःख-  
स्थानेच्छापादनाद्यै र्हरिरकथिपरं दर्शनेच्छोस्सुदृश्यः॥८२॥  

तार्क्ष्योद्यद्वाहनत्वा च्छुभनयनतया नीलमेघाकृतित्वा-  
दाश्चर्योच्चेष्टितत्वा द्दुरवधरतया योगिभिर्निर्जरैश्च।  
स्वेषुव्यामुग्धभावात्प्रतिहतिविरहाद्दुर्जनादृश्यभावा-  
निस्सङ्गानां जननां सुलभतमइति प्राहनाथश्शठारिः॥८३॥  

श्रीभूमीनायकत्वादरि सुकरतया कल्पसिन्धौ शिशुत्वा-  
च्छीस्थाने सन्निधानात्सुरहितकरणाच्छीनिवासत्वायोगात्।  
विक्रान्त्याविष्टपानां विधिदुरधिगमात्स्वेषु सौलभ्यभूम्ना  
चैकाकी स्वाश्रितानां विहरणसमये श्रीधरः प्रत्यपादि॥८४॥  

दुर्दांतेभेंद्रभङ्गाच्छुभनिलयतया साम्यतश्चेतरेषां  
स्वायत्तत्वेनभाना च्छ्रितहृदिसततं देवतद्वेषिसङ्घे।  
मित्रामित्रत्वयोगाज्जगदुदयकृते देवतात्मत्वमुख्यै-  
श्श्रीमान्वैकुण्ठनाथश्श्रितविहितसमग्रत्वभूमाऽन्वभावि॥८५॥  

आश्चर्येहान्वितत्वाच्छुभमकुटतया स्वामिताब्धौशयित्वा -  
ज्जीमूतश्यामलत्वाच्छ्रितसुलभतया पद्मसूर्योपमाङ्गात्।  
सारथ्यात्पाण्डुसूनोरवनिभरहृते रन्तरात्मत्वयोगा-  
जीवापेक्षा प्रतीक्षो भवति तदवने श्रीपतिश्चेत्यभाणि॥८६॥

भातत्वाछ्रीतुलस्याश्रितहृदिशयनाच्छ्रीद्धवक्षस्कभावा-  
दाश्चर्योपक्रियत्वात्सुरगणभजनाद्वैरिविध्वंसकत्वात्।  
गोविन्दत्वादशेषाभिमतविषयतोऽभीष्ट सच्चित्तकत्वा-  
त्सर्वाकाराद्भुतत्वात्स्वपदवित्तरणे सज्जइत्याहकृष्णः ॥८७॥  
भव्यत्वाद्रक्षकत्वात्त्रिजगदधिककारुण्यतो गोपभावा-  
नीलाश्माद्रिप्रभत्वा त्स्वजनकृतनिजात्म प्रदान प्रभुत्वात्।  
मन्दस्मित्यास्थितत्वाद्धृदि सुकृतिषु चातर्कितानुग्रहत्वा-  
त्स्वानां चित्तानपायात्स्वजनहृदि रतो माधवश्चेत्यवोचत्॥ ८८ ॥  
प्रसाधन्येनभानाद्धृदि च विभुतयाऽलंमहिम्नापरत्वा-  
न्माधुर्याद्देहदेह्यादिषुच गततया स्वस्वरूपप्रकाशात्।  
अन्त्यस्मृत्याप्यभावात्स्वपरमपुरुषैक्यभ्रमध्वंसकत्वात्  
ज्ञानाज्ञानप्रदत्वात्प्रकटयतिहरिः पुंसिदास्यंस्वमूचे॥८९॥  
वैलक्षण्यात्स्वमूर्ते र्मकुटमुखमहाभूषणैर्भूषितत्वा-  
स्वार्हानेकायुधत्वात्प्रलयसखितयोज्जीवने कर्षकत्वात्।  
भव्यत्वाद्यैश्चसम्पन्निरवधिकतयाऽऽश्चर्यचेष्टत्वयोगा-  
निष्ठांदास्ये स्वकीये प्रकटयति हरिश्चेत्यथा ज्ञायितेन॥९०॥  
व्यामुग्धत्वात्स्वकीयेष्वमलघनरुचा वामनत्वेनचाप-  
द्बन्धुत्वाश्चर्यभावादहितनिरसनाल्लोकसृष्ट्यादिशक्तेः।  
अब्धौशायित्वयोगा च्छ्रितदुरितहृतेश्चातसीपुष्पकान्त्या  
त्वाकृष्टे स्वीयदास्यावधि विशदयतीत्याहनाथस्वदास्यम्॥९१॥

इत्थंसूरिर्दिदृक्षोर्दृशिविषयमयैर्निस्पृहेरेवलभ्यं  
स्वानां विश्लेषभोग्यं श्रितविहितसमग्रत्वभूतिं शठारिः।  
स्वापेक्षासव्यपक्षं स्ववितरणपरं हृद्गतं स्पष्टयन्तं  
दास्यं स्वं तस्य निष्ठां तदवधिमपिचाप्यष्टमेस्वेष्ववश्यम्॥९२॥

॥ नवमदशकम् ॥

आपद्वन्धुत्वकीर्त्या दृढमतिजननाद्दैत्यनाशायभूमौ  
जातत्वादुत्तरस्यां पुरिमधुरपदालंकृतायां दयाब्धेः।  
बन्धोः कृष्णस्य पादाश्रयणमिहविनानो सहायः पुमर्थो  
रक्षासामर्थ्यहानेर्भविन इतिहितङ्कारिसूनुर्बभाषे॥९३॥  

लक्ष्मीसम्बन्धभूम्नामितधरणितया पद्मनेत्रत्वयोगा-  
स्थित्याद्यै स्वैश्चरित्रैस्स्वहृदपहरणाच्छ्रीगजेन्द्रावनाच्च।  
ताक्र्क्ष्यांसौ चाधिरुह्यारिगणनिरसनाद्देवदुष्प्रापकाद्यै-  
र्दुष्कर्मोन्मूलनाद्यैस्सुचिरकृतदयो माधवश्चेत्यवोचत्॥९४॥  

नैकश्रीनामवत्त्वा ज्जगदुदयसु संस्थापनाद्यैर्हरित्वा-  
द्दानान्मोक्षस्यहेयप्रतिभटघटकश्रेणिसम्पत्तिमत्त्वात्।  
प्रह्लादाह्लादकत्वाद्वृषगिरिकटके सन्निधानाधिकृत्यै-  
श्शर्वादेस्स्वाङ्गदानादकथि यदुपतिश्शीलरत्नाकरोऽसौ॥९५॥  

लक्ष्मीवक्षस्स्वभावात्स्वजनसुलभता पर्वतोद्धारणाद्यै-  
र्दुर्ज्ञेयत्वात्सुरारेरखिलपतितया नाकिनां वृद्धभावात्।  
स्वेषां हृद्वासिताया स्वजनवशतया तत्र चासक्तिभूम्ना  
स्वस्वामित्वादिबन्धाज्जगदवतिहरिश्चेत्यभाणीच्छठारिः॥९६॥

प्राणत्वादद्भुतत्वादपिचसुविदितत्वेन भव्यत्वायोगा-  
ल्लक्ष्मीवक्षस्त्वभावाद्रघुकुलजनना न्नीलरत्नाभिमूर्त्या।  
कृष्णत्वाद्ब्जदृक्तात्परमपतितयाचेश्वरं संश्रिताना-  
मूचेधीमांश्चठादि स्वगुणगरिमसंस्कारकं सर्वदर्शी॥९७॥  

आश्चर्येहान्वितत्वादखिलपतितया चान्तरात्मत्वभूम्ना  
शक्येशक्तत्वभूम्ना जलदत्तनुतया भव्यताकर्षकत्वात्।  
औदार्यादेर्विशिष्टादपिच भवभृतां रक्षणेऽतिप्रसङ्गा-  
द्विस्मर्तुंनैवशक्यो हरिरिति शठजित्कंसजेतारमाह॥९८॥  

रम्यत्वाच्छ्रीतुलस्या श्रितजनसहितत्वेन पद्माक्षताया-  
स्स्वामित्वात्सत्परंज्योतिरिति कथनतश्श्रीधरत्वातिकीर्त्या।  
पुष्पश्यामत्वभूम्ना रथचरणमुखस्वायुधत्वाद्युदन्तै-  
श्शौरेर्धीमान् शठारिर्घटकमुखसुविस्रम्भणीयत्वमाह॥९९॥  

वल्लीमध्यत्वयोगादपिचसुविदित श्रीवचोवाच्यभावा-  
द्भूम्याद्यैश्वर्ययोगादवतरणदशा साहचर्यात्स्वभर्तुः।  
सन्धातृत्वात्सुबोधप्रददुरितहरत्वात्समासन्नभावा-  
ल्लक्ष्म्या श्श्रीशंशठारिः प्रथयतिच सुमज्जानिभावेननाथम् ॥ १०० ॥  

पद्माक्षत्वप्रसिद्ध्या जगदवनतया भव्यतादैश्चसार-  
ग्राहित्वा द्वेणुनादै र्हषितजनतया स्वाङ्गदानादजादेः।  
श्यामत्वाद्गव्यचोरत्वत उतसरसस्मेरचेष्टत्वभूम्ना  
कूटस्थो नोत्रसिद्ध्युन्मुखसमयतयाख्यापयामासकृष्णम्॥ १०१ ॥

सर्वश्रेष्ठ्यात्स्वकीयैरपि जगदवनादण्डषण्डाधिपत्या-  
नीलाया वल्लभत्वादमृतवितरणाद्भक्त सुस्निग्धभावात्।  
दासानां सत्यभावादतिसुजनतयाऽथो जगत्कारणत्वा-  
च्छ्रीमान्वेला प्रतीक्षो भवभयहरणेचेत्यभाणीच्छठारिः॥१०२॥  

इत्थं सर्वैकबन्धुं चिरकृतकरुणं शीलसिन्धुं पतित्वा-  
त्सम्बन्धाद्रक्षितारं स्वगुणगरिमसंस्मारकं प्राहकृष्णम्।  
विस्मर्तुंचाप्य शक्यं घटकमुखसुविस्रम्भणीयं सुमत्या  
लक्ष्म्याश्लिष्टं स्वसिद्ध्युन्मुखसमयमनेहः प्रतीक्षं सुमित्रम् ॥ १०३ ॥

॥ दशमदशकम् ॥

दैत्यानां नाशकत्वाद्विधृत तुलसिकामौलिभावाज्जयित्वा -  
सर्वाधीशेशयित्वा न्निरवधिक परंज्योतिरुल्लास्यभावात्।  
लोकानां स्रष्टृभावाद्दशरथसुतताश्रांति हारित्वमुख्यै-  
राकारैस्सद्गतिस्स्या ज्जलदतनुरुचिश्चेति तेनाभ्यधायि॥१०४॥  

ऊचे श्रीकेशवत्वाद्भुतचरित खगाधीश केतुत्वयोगा-  
दासन्नत्वात्पतित्वादमरपरिषदामादिभूतत्वभूम्ना।  
व्यापारै स्सृष्टिमुख्यैरपिच भुजगशायित्वमुख्यैश्चरित्रै-  
रध्वक्लेशापहर्ताभवतिचभगवानित्यनन्यश्शठारिः॥१०५॥  

अम्भोजाक्षत्वकीर्त्या यदुकुलजतया चात्मनश्श्यामलत्वा-  
गोविन्दत्वात्प्रियोद्यद्वचनपरतया चक्रराजायुधत्वात्।  
श्रीनीलाश्मप्रभत्वादतिसुभगतया गोपनिर्वाहकत्वा-  
दस्थानस्नेहशङ्कास्पदरस उदित श्रीपतिः कारिजेन॥१०६॥

श्रीमद्दामोदरत्वादमरपरिषदामप्यगम्यत्वभूम्ना  
चक्राधीशायुधत्वाद्वटदलशयना न्नागराजेशयित्वात्।  
वक्षस्पर्शोन्मुखत्वात्परमपुरुषता माधवत्वादियोगा-  
दुष्प्रापोऽयं भजद्भिस्सुगम इतिदृढं माधवं सोऽभ्यधत्त॥१०७॥  

नाम्नां सङ्कीर्तनेन स्वपरिवृढतया भावनातोऽनुवेलं  
संस्मृत्या पुष्पधाम्नाऽध्ययन सुवचनै स्तोत्रनृत्त्यादिकृत्यैः।  
धर्मैर्वर्णाश्रमोक्तै र्बहुविधभजनप्रक्रियो दीर्घबन्धु-  
श्श्रीमान्नारायणश्चेत्य कथयदखिल द्रामिडब्रह्मदर्शी॥१०८॥  

चक्रित्वात् केशवत्वादिभिरपिच तथा श्रीशनारायणत्वा-  
त्स्नेहित्वात्पाण्डवानामभिमततुलसी पूजनीयत्वभावात्।  
अम्भोजाक्षत्व गोविन्दत उतसुयशश्श्रीपतित्वादिभावै-  
श्श्रीमान् तीव्रोद्यमोऽयं स्वपदवितरणे चेतितेनाभ्यभाषि ॥ १०९ ॥  

अत्याश्चर्यभावाद्धृदयगततया स्वस्तुतौ प्रेरकत्वा-  
त्स्वामित्वात्सर्वभूतान्तर निलयतया स्वस्तुतौ कर्तृभावात्।  
आपद्बन्धुत्वयोगाद्बहुविधसविधस्थानवत्त्वेन देव-  
श्श्रीमानत्यादरस्स्यात्स्वजनपरिकरेष्वित्यथोसञ्जगाद॥ ११० ॥  

लक्ष्मीकान्तत्वयोगाद्विपदिसखितया दिव्यदेशस्थितत्वा-  
न्मोक्षोद्योगात्तदर्थं कृतशपथतया सर्वतस्सन्निधानात्।  
दृष्टयन्तस्सन्निवासादतिवितरणत स्स्वस्वभावप्रकाशा-  
स्वामित्वात्तुष्यतीत्थं स्वयमनुपतित श्श्रीपतिश्चेत्यगायि ॥ १११ ॥

स्वामित्वाच्छ्रीशनारायणइतियशसा विक्रमाद्विष्टपानां  
श्रीमत्त्वाच्चक्रवत्वा ज्जलनिधिशयनाच्चापि गोविन्दभावात्।  
वैकुण्ठस्वामिभावादपिच निजजनानर्चिराद्याख्यगत्या  
स्वं लोकं प्रापयेच्छ्रीपतिरिति कथयां श्रीशठारिर्बभूव॥ ११२ ॥  

ब्रह्मेशान्तः प्रवेशाज्जलनिधिसुतया सन्निरोद्धव्यभावा-  
द्दिव्यश्रीविग्रहत्वादखिलतनुतयाऽतृप्तपीयूषभावात्।  
पद्माबन्धुत्वभूम्युद्धरणकरणतः पुण्यपापेशितृत्वा-  
न्मुक्तेर्दातानुभाव्यो हरिरितिशठजिद्दर्शयन्मुक्तिमाप॥ ११३॥  

एवं स्वानाङ्गतिं व्यध्वजदुरितहरा स्थानशङ्कर्हरागं  
सुप्रापं भक्तिभाजां बहुविधभजनप्रक्रियं श्रीशठारिः।  
तीव्रोद्योगं स्वदाने स्वजन तनुकृतात्यादरं प्राहचान्ते  
स्वेच्छातुष्टं सुखार्चिर्मुखसरणिमुखं मोक्षदं मुक्तभोग्यम्॥ ११४ ॥  

इत्थं सेव्यं सुभोग्यं शुभसुभगतनुं सर्वभोग्यप्रकृष्टं  
श्रेयस्तद्धेतुभूतं प्रपदनसुलभं स्वाश्रितानिष्टजिष्णुम्।  
भक्तश्छन्दानुरक्तं निरुपधि सुहृदं सत्पदव्यां सहायं  
श्रीशं प्राहस्वसिद्धेस्स्वयमिहकरणं स्वप्रबन्धेशठारिः॥११५॥  

आधे स्वीयप्रबन्धे शठजिदभिदधे संसृतेर्दुस्सहत्वं  
द्वैतीयीके स्वरूपाद्यखिलमथहरे रन्वभूत्स्पष्टदृष्टम्।  
तार्तीयीके स्वकीयां भगवदनुभवे स्फोरयामास तीव्रा-  
माशां तुर्ये यथेष्टं भगवदनुभवादापमुक्तिं शठारिः॥ ११६॥

श्रीमान्सीमातिलङ्घिस्थिरतरकरुणस्सर्ववित्सर्वशक्ति-  
स्वामीसर्वस्यजन्तोस्स्वचरणयुगलस्स्त्रीकृतास्माकभारः ।  
किं नः कृत्यं स्वहेतोः किमिहनसुलभं काविपत्तिर्भवित्री  
कस्यान्यस्याद्यवर्ण्यावयमितिविदुषामाह तुङ्गत्वमन्ते॥११७॥  

शास्त्रेदेहातिरिक्तात्मनि तदधिपतौ तत्प्रसादाद्युपाये  
तस्मान्निश्श्रेयसाप्तौ तदपचरणतोऽनन्ततापाभिघाते।  
तद्भक्तानां प्रभावेतदुपसदनतस्वान्तकालुष्यशान्तौ  
सारंवेद्यं स्ववेदे सकलमकथयत्सानुकम्पश्शठारिः॥ ११८ ॥  

इत्थं सत्संप्रदायक्रमसमधिगता शेषवर्णार्हवेद-  
श्रद्धाशुद्धाशयाना मघटयदनघं कौतुकं वेङ्कटेशः।  
सम्यक्तेतस्यसाक्षाच्छठरिपुरथवा सर्वसाक्षीससाक्षी  
सावद्यत्वेऽपि सोढुं प्रभवतिभजतामप्रकंप्यानुकम्पः॥११९॥  

शोकश्लोकत्वमभ्यागत इतिवदत शुद्धबोधार्णवोद्य-  
न्नानाकल्लोलनाथानुभवरसपरीवाहतश्श्राव्यवेदात्।  
वेदान्ताचार्यकश्रीबहुमतबहुविद्वेङ्कटेशोद्धृतेयं  
रम्या तात्पर्यरत्नावलि रनघगुणारञ्जनी रङ्गभर्तुः॥१२०॥

इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य  
वेदान्ताचार्यस्य कृतिषु द्रमिडोपनिषत्तात्पर्यरत्नावलि स्संपूर्णा ॥

कवितार्किकसिंहाय कल्याणगुणशालिने ।  
श्रीमते वेङ्कटेशाय वेदान्तगुरवे नमः ॥

----------

**॥द्रमिडोपनिषत्सारः ॥**  

श्रीमान्वेङ्कटनाथार्यः+सन्निधत्तांसदाहृदि ॥

सेवायोग्योऽतिभोग्यश्शुभसुभगतनुस्सर्वभोग्यातिशायी  
श्रेयस्तद्धेतुदाता प्रपदनसुलभोऽनिष्टविद्धंसशीलः।  
भक्तच्छन्दानुवर्ती निरुपधिकसुहृत्सत्पदव्यांसहाय-  
श्श्रीमान् सर्वोचितायामुपनिषदि मिषत्येषगाधाशतैर्नः॥१॥  

आद्येपश्यन्नुपायं प्रभुमिह परमप्राप्यभूतं द्वितीये  
कल्याणोदारमूर्तेर्द्वितयमिदमिति प्रेक्षमाणस्तृतीये।  
ऐश्वर्यादेश्चतुर्थेविषमधुतुलयाऽनन्यभोग्यत्वमिच्छन्  
षड्भिस्स्वां पञ्चमाद्यैरनितरगतितामाचचक्षे मुनीन्द्रः॥२॥  

परंनिर्वैषम्यं सुलभमपराधप्रसहनं  
सुशीलं स्वाराध्यं सरसभजनं स्वार्जवगुणम्।  
सुसात्म्यस्वानन्दप्रदमनघविश्राणनपरं  
मुकुन्दं निध्यायन्मुनिरधिजगावाद्यशतके॥३॥  

द्विकाभ्यां द्व्यष्ट्याङ्घ्रिर्दुरधिगमनीतिस्थपुटिता  
यदन्त्या मीमांसा श्रुतिशिखरतत्वं व्यवृणुत।  
तदादौ गाधाभिर्मुनिरधिकविंशाभिरिहनः  
कृतीसारग्राहं व्यतरदिह संगृह्यकृपया॥४॥

परत्वाद्यैरित्थं परिचरणसक्तो गुणगणैः  
प्रभुं सेवायोग्यं प्रथमशतके वीक्ष्य वरदम्।  
तमेव स्वात्यर्थप्रियमथचभोक्तुं व्यवसितो  
वरेण्यत्वं तस्य प्रथमवरणीयं प्रथयति॥५॥  

द्वितीयेऽतिक्लेशक्षणविरहमुत्तुङ्गललितं  
मिलत्सर्वास्वादं व्यसनशमनं स्वाप्तिमुदितम्।  
स्ववैमुख्यत्रस्तं स्वजनसुहृदं मुक्तिरसदं  
स्वकैङ्कर्योद्देश्यं सुभगसविधस्थं निरविशत्॥६॥  

उपायत्वैकान्तं प्रथममिह सेव्यत्वमुदिते  
ततश्च प्राप्यत्वौपयिकमिति भोग्यत्वमवदत्।  
द्वयं तत्स्वासाधारणतनुविशिष्टस्य गणयं-  
स्तृतीये विश्वेशं शुभसुभगरूपं कथयति॥७॥  

अनीदृक्सौन्दर्यं तनुविहितसर्गादिसुभगं  
स्वसेवार्धाकारं प्रगुणवपुषं मोहनतनुम्।  
अपश्यल्लभ्यार्चाविभवमददास्यावहतनुं  
सदादृश्यं स्तुत्याकृति मद्यविरुद्धाकृतिमिह॥८॥  

श्रियःकान्तोऽनन्त श्शुभतनुविशिष्टः फलमसौ  
फलावाप्तेर्हेतु स्स्वयमितिच निर्धार्य शतकैः।  
इदानीं बुद्धिस्थ क्रमत इह युक्त्या मुनिवरः  
फलत्वं तस्यैवं दृढयति तदन्येषु विमुखः॥९॥

स्थिरैश्वर्यं तुर्ये सहजबहुभोग्यं निरविश-  
न्मिथश्लिष्टक्लेशावहसहिततुल्यं निजजनम्।  
कृतार्थी कुर्वन्तं प्रणयिभिषजं सद्बहुगुणं  
स्वहेयत्वोपेक्ष्यं स्वमतफलमुच्चैस्स्ववगतम्॥१०॥  

उपायत्वं यत्तत्प्रथमशतकेभाव्यतविभो-  
रनन्योपायस्तद्दृढयति परं पञ्चममुखैः।  
निरीहस्तत्रादौ निरवधिकनिर्हेतुकदया-  
सरित्स्रोतः पद्मं शरणयति नाथस्यचरणम्॥११॥  

दयानिघ्नं भक्तं रघविमथनं प्रेमजनकं  
जगद्रक्षादीक्षं स्मृतिजुष महंभावविषयम्।  
शरण्यं दीनानां स्वरसकृतदास्याभ्युपगमं  
प्रचख्यौ तं प्राप्तं प्रशमनकृतं पश्चमशते॥१२॥  

अनाद्यन्तानन्दस्वरसकरुणानन्द इतिनः  
प्रणेतुर्व्यापारः प्रपदनपिपासार्ह उदितः।  
तमाचार्योपज्ञं चिरविघटितस्वात्मघटन-  
रस्फुरच्छक्तिं षष्ठे मुनिरशरणोयातिशरणम्॥१३॥  

गुरुद्वारोषेयं स्वयमभिमतं वैरिघटकं  
चरित्रैः कर्षन्तं परविघटनं स्वान्वितहरम्।  
निदानं धृत्यादेर्घटकवशभूतिद्वयमगा-  
दनर्हद्वैघट्यं त्वविकलशरण्यस्थितिमिह॥१४॥

तदेवं षष्ठान्तं विहितसविशेषप्रपदनः  
फलालाभात्खिन्नस्त्वरित हृदयस्सप्तमशते।  
अनिष्टोपन्यासप्रभृतिभिरनिष्टप्रशमने  
स्वतस्सिद्ध्यच्छीलं प्रभुमभिमुखं सम्मुखयति॥१५॥  
सहन् शाठ्याशङ्कामुपशमितगर्हः प्रकटयन्  
स्वगोप्तृत्वं गुप्तक्रममखिलजन्तुप्रणयिनं।  
श्रिताक्रन्दच्छेत्तास्मरणविशदश्चित्रविभव-  
स्स्तुतौ युञ्जन् स्तोत्रव्यसनजिददर्शि प्रभुवरः॥ १६॥  
अथानिष्टान् पुंसां स्वयमुपजिहीर्षन्नपि विभु-  
स्तदिच्छां बाह्येषु प्रशमयितुकामः क्रमवशात्।  
निजेच्छासंसिद्धस्त्रिविधचिदचिद्वस्तु वितति-  
रिश्रतेच्छावैचित्रीवशइति वदत्यष्टमशते॥१७॥  
दिदृक्षायां दृश्यः प्रभुरगणि निस्सङ्गसुलभ-  
स्स्वविश्लेषैकान्तश्श्रुतविहितपौष्कल्यविभवः।  
अपेक्षासापेक्ष स्ववितरण सज्जोहृदितर-  
स्वदास्यं तन्निष्ठातदवधिमपीह प्रकटयन्॥१८॥  
अभीष्टं विश्वस्मिन्विषमफलकांक्षिण्यविषमं  
प्रयच्छन्तं दृष्ट्वा परमपुरुषार्थैकरसिकः।  
निरस्तान्याऽपेक्षो निखिलजगदीशस्य नवमे  
निदानां सिद्धीनां निरुपधिसुहृत्वं गणयति॥१९॥

अभाव्येकोबन्धु श्चिरकृतदयश्शीलजलधि-  
स्स्वसंबन्धाद्गोप्ता स्वगुणगरिमस्मारणपरः।  
अशक्यो विस्मर्तुं घटकमुखविसम्भविषया-  
न्सुमज्जानी सिद्धयुन्मुखसमय इच्छन्नवसरः॥२०॥  
उदन्तैरित्येवं निरुपधिक सौहार्दपिशुनै-  
रुदन्यामुद्वेलामुपजनितवन्तं निजपदे।  
त्रिवर्गातिक्रान्त स्थिरनगरघण्टापथगते  
स्सहायीकुर्वाणश्चरमशतके विंदतिमुनिः॥२१॥  
गतिं व्यध्वक्लेशच्छिदमपिच शङ्कास्पदरसं  
भजद्भिस्सुप्राप्तं विविधभजनप्रक्रियमिह।  
फले तीव्रोद्योगं स्वविषयकृतात्यादरमगा-  
द्यदृच्छासन्तुष्टं सरणिमपुनर्जन्म सहजम्॥२२॥  
परं प्राप्यं पश्यन्परिचरणहेतुं विगणय-  
परिष्कुर्वन्नाज्ञामनितरशरण्यश्शरणयन्।  
अनिष्टप्रध्वंसप्रहृतिषु निदानञ्च कथय-  
न्मुहुर्देवं लक्ष्म्यासहितमिहभेजे मुनिवरः॥२३॥  
पुरा शोकश्श्लोकोऽभवदिति नयादित्युपनिष-  
न्मुनेः पुण्यश्लोकादजनिवरभक्तैः परिणतिः।  
व्यपोह्य स्वंभावं हरिचरणसन्तानकलिका-  
मपीक्षद्योगीयस्तदनुमतेनु \* कारुण्यविवशः॥२४॥

सतामित्थंसारं द्रमिडनिगमस्यान्वकथय-  
द्बहूनां विद्यानां बहुमतिपदं वेङ्कटपतिः।  
दिशासौधश्रेणी दृढघटितजैत्रध्वजपटी  
परामर्शाद्भ्रश्यत्प्रतिमतनिराबाधनिगमः॥२५॥  
मनुव्यासप्राचेतसपरिषदर्हाक्वचिदियं  
सुधासिक्तासूक्तिस्स्वयमुदयमन्विच्छति जने।  
निरुंध्युः के विन्ध्याचल विकटसन्ध्यानटजटा -  
परिश्रान्ता पंगोरुपरि यदिगङ्गानिपतति॥२६॥

इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य  
वेदान्ताचार्यस्य कृतिषु द्रमिडोपनिषत्सारस्सम्पूर्णः॥  
कवितार्किकसिंहाय + वेदान्तगुरवे नमः॥

<MISSING_FIG href="../books_images/U-IMG-172387747630.png"/>  
**॥ हरिदिनतिलकम् ॥**  
श्रीमान्वेङ्कटनाथार्यः+सन्निधत्तहृदि॥

नित्ये काम्येच धर्मे नियमगुणविधिप्राप्तमार्गे निजाना-  
माज्ञानुज्ञाक्रमे तद्विहरणमुपधीकृत्य गोपायते यः।  
तस्मिन् कस्मिंश्चिदाद्ये हरिदिनतुलसी द्वादशीभिः प्रसाद्ये  
भद्राणामेकसेतौ भवतु भगवति श्रीसखे भावना नः॥१॥  
त्रेधाधिक्यादिभेदाद्भवतितु नवधातादृशी द्वादशीत-  
श्शुद्धाविद्धेति चाष्टादशतनुरुदिता सद्भिरेकादशीसा।

आद्यायामुत्तरत्र व्रतविधिरुभयोस्स्याद्वयवस्थाऽथषट्सु  
प्राच्यां द्वन्द्वे सतुर्ये परमिहनियतिस्सास्त्रिकेन्त्यत्रिके प्राक्॥२॥  
द्वादश्युक्ता सुधात्मा विषमिति दशमीद्विस्पृगेकादशीसा  
ग्राह्याधिक्ये सुधाया इतिजगदुरिमा माहुरेके सकामे।  
वृद्धद्वादश्यभावेत्वियमितिच कलाद्वन्द्वमेकापि वृद्धि  
स्संदिग्धेतूत्तरस्स्यां व्रतमुपवसनं पारणोक्ता परस्याम्॥३॥  
उक्तानाड्यश्चतस्रस्त्वरुणसमुदय स्तत्रवेधे दशम्यां  
कर्तव्योनोपवासः फलमिहहि वरं मोहिनीपर्यगृह्णात्।  
वेधः पश्चाद्यदास्यात्सवितु रुदयतस्तत्फलं दानवानां  
प्रोक्ताश्च प्रत्यवाया बहव इह तथाप्यादृता कापि विद्धाः॥४॥  
पौराणिक्यातु रुक्माङ्गदचरितमुखैः प्राप्तगत्यापदव्या  
शुद्धां सिद्धान्तयन्तः कतिचनकृतिन स्सर्वधोज्ज्ञन्तिविद्धाम्।  
युक्तं तन्मास्मभूद्वा मुनिभिरभिहिता द्वादशीच व्रताह  
रक्षेत्तेनापि मुख्यस्वदिवस विधिनाऽनन्यभक्तान् हरिस्तान् ॥५॥  
शुक्लायां तूपवासस्तदितरविषये केवलास्यादभुक्तिः  
कर्तव्येत्येवमाहुः कतिचनगृहिणां पुत्रिणां नित्यमात्रम्।  
एतद्विष्णुव्रतस्थेतरविषयमिति प्रोचुरन्ये स्फुटोक्ते-  
द्विस्पृक्चेद्वादशीस्यादनुपवसनतः क्वापि नक्तं त्विहोक्तम्॥६॥  
एकादश्यामभुक्तिस्मृतिरपि विविधैस्सन्नियम्येतवाक्यै -  
विद्धायास्त्याज्यतोक्तेः कचिदनुमतितः क्वापि विद्वापवादात्।

वैधीत्वेकादशस्यादिति जहदजहल्लक्षणातो व्रताह  
चातुर्मास्यादिभेदे पुनरपिविधयो गौरवव्यञ्चनार्थाः॥७।  
पत्त्यासिद्धेतवारप्रभृतिषु वचनैर्येषु येषूपवास-  
स्तत्राप्येकादशीचेद्व्रतमिदमनघं प्रक्रमोक्तं नशेषे।  
अष्टाङ्गेज्यावतामप्युपवसनदिने लुप्तमन्त्यं निषेधा-  
नैवं प्राणाग्निहोत्रं प्रथममुपगतेऽप्येवमन्ते प्रयोज्यम्॥८॥  
सिद्ध्यन्त्यश्नन्तएवेत्यपि यदनुवदन्त्याहिताग्न्यादिवर्गे  
तत्तुस्याद्ग्राससंख्या नियतिविहतये नव्रतत्यागहेतुः।  
भुक्तेऽपि स्यान्नदोषः क्वचिदपि विषये बालवृद्धातुरादौ  
शक्यैश्चिन्ताजपाद्यैः प्रभुरनघदयस्तैरपिप्रीणनीयः॥९॥  
सूतौ शावेचकार्यो विधिबलनियतस्नानपूर्वोपवासो  
नार्चादि स्तत्रनित्येशुचिभिरथपरैः कारयेत्काम्यरूपे।  
शावाद्यन्तेतु कुर्याच्छकनसमुचितं स्नानपूर्वं प्रदानं  
मध्येचेद्दर्शपूर्ण श्रुतिमुखविधिवत्कारयेद्वाथ कुर्यात्॥१०॥  
अप्रक्रान्ते विधेयव्रतयजनमुखस्थानसर्वप्रकारे  
स्यात्प्रक्रान्तस्यनाश प्रभृतिहि भगवान् कर्मयोगेन्यषेधीत्।  
भङ्गेचास्यव्रतस्य त्रिदिनमुपवसेत्कारयेन्मुण्डनं वा  
मौण्ड्यं चैतच्छिस्वावर्जितमिदमखिलं निष्कृतिस्तत्रतु स्यात्॥११॥  
तन्त्रं तत्रोपवासान्तरपरिपतने काम्यतो वान्यतो वा  
तद्वत्प्राणाग्निहोत्रं प्रतिदिननियतं तन्त्रितं पारणादौ।

कालाल्पत्वे तदर्चा भवति लघुतरा नित्यकर्माणि चैवं  
तत्तत्कालेविदध्यात्स्वसमयनियतं कारयेद्वायथार्हम्॥१२॥  
नानर्हैर्भाषणीयं शमयति सुकृतं मन्त्रपूर्वै स्तथाच  
प्राश्नीयात्पारणादौ मुनिदलतुलसीपत्रधात्रीफलानि।  
शक्तौ जागर्तु रात्रावपि हरिचरणध्यानसङ्कीर्तनाद्यैः  
प्रारम्भे पारणेच स्मृतमिहमुनिभिर्मन्त्रपुष्पार्पणादि॥१३॥  
कांस्यं मांसं मसूरं चणकमधुपुरी कालशाकादिवर्गा-  
नन्यान्नं कोद्रवादीन्यतिघृतमपि चात्यष्टि मुज्झेदशभ्याम् ।  
ताम्बूलं दन्तकाष्ठं निधुवनमसकृद्वारिपानादि जह्या-  
देकादश्यां दिवाच स्वपनमशकनाद्याश्रया भीमनीतिः॥१४॥  
द्वादश्यां द्वादशोज्झे द्विदन मनृतं मैथुनं मांसतैल-  
द्यूतव्यायामहिंसास्वपनमपि दिवाकांस्यभुक्तिं क्रुधंच।  
निर्माल्योल्लङ्घनंच व्रतहतिगमकं स्यान्निषेधेनिषेकं  
कालाप्राप्तौप्रवृत्ते व्रतमिदमविदुर्नित्यकाम्यप्रकारम्॥१५॥  
किञ्चोक्तं मद्यपानान्निपतति नरके तस्यपातैव शक्त-  
स्त्वेकादश्यन्नकाम स्सहनिजपितृभिर्नारकेमज्जतीति।  
वाराहश्वादिविट्प्राशनजनित मघंप्राहु रत्रान्नभोक्तु-  
र्भुक्तिस्तत्राश्नतश्च स्मृतमिहहि महापाप्मना मास्पदं तत्॥१६॥  
आतिष्ठेताभियुक्तस्स्मृतिषु विधिबलाच्छ्राद्धमन्यन्निषिद्धं  
प्राक्सामान्यापवादादृतुगतिनियति स्सन्ततिस्थापनार्था।

एकैकात्यंतलभ्या त्विहतुनृषुचतुर्भुक्तिवर्जं त्विहोक्तं  
श्रेयसिद्ध्यै स्वतश्श्रीहरिदिनतिलकं शेषभूभृत्प्रसादात्॥१७॥

इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य  
वेदान्ताचार्यस्य कृतिषु हरिदिनतिलकं संपूर्णम्॥  
कवितार्किकसिंहाय + वेदान्तगुरवे नमः ॥

<MISSING_FIG href="../books_images/U-IMG-172394539230.png"/>  

**॥ शरणागतिदीपिका ॥**  

श्रीमान्वेङ्कटनाथार्यः+सन्निधत्तां सदाहृदि॥

पद्मापते स्तुतिपदेन विपच्यमानं पश्यन्हि प्रपदनप्रवणा महान्तः।  
तद्वाक्यसंवलितमप्यजहत्स्वभावं मान्यं यतीश्वरमहानस संप्रदायम्॥  
नित्यं श्रिया वसुधयाच निषेव्यमाणं निर्व्याजनिर्भरदयाभरितं विभाति।  
वेदान्तवेद्यमिह वेगवतीसमीपे दीपप्रकाशइतिदैवतमद्वितीयम्॥  
दीपस्त्वमेव जगतां दयितारुचिस्ते  
दीर्घतमःप्रतिनिवृत्त्यमिदं युवाभ्याम्।  
स्तव्यं स्तवप्रियतमं शरणोक्तिवश्यं  
स्तोतुं भवंतमभिवाञ्छति जंतुरेषः॥३॥  
पद्माकरादुपगता परिषस्वजे त्वां वेगासरिद्विहरणा कलशाब्धिकन्या।  
आहुस्तदाप्रभृति दीपसमावभास माजानतो मरतकप्रतिमं वपुस्ते॥  
स्वामिन्गभीरसुभगं श्रमहारिपुंसां माधुर्यरम्य मनघं मणिभङ्गदृश्यम्।  
वेगान्तरेऽपि तनुते प्रतिबिंबशोभां लक्ष्मीसरस्सरसिजाश्रय मङ्गकन्तेः।

आविश्यधारयसि विश्वममुष्ययंता शेषी श्रियःपतिरशेषतनुर्निदानम्।  
इत्यादिलक्षणगणैः पुरुषोत्तमं त्वां जानाति यो जगति सर्वविदेव गीतः॥  
विश्वं शुभाश्रयवदीशवपुस्त्वदीयं सर्वागिरस्वयिपतंति ततोऽसिसर्वः।  
सर्वेच वेदविधयस्त्वदनुग्रहार्था स्सर्वाधिकस्त्वमिति तत्त्वविदस्तदाहुः॥  
ज्ञानं बलं नियमनं क्षमताऽथवीर्यं शक्तिश्च तेजइति ते गुणषट्कमाद्यम्।  
सर्वातिशायिनि हिमोपवनेश यस्मिन्नन्तर्गतो जगदिवत्वयि सद्गुणौघः॥  
दीपावभास दयया विधिपूर्वमेत-  
द्विश्वं विधाय निगमानपि दत्तवंतम्।  
शिष्यायिताश्शरणयंति मुमुक्षवस्त्वा-  
माद्यंगुरुं गुरुपरंपरयाऽभिगम्यम्॥९॥  
सत्तास्थिति प्रयतनप्रमुखैरुपात्तं स्वार्थं सदैवमवता स्वयमेव विश्वम्।  
दीपप्रकाश तदिह त्वदवाप्तये त्वा मव्याजसिद्धमनपाय मुपायमाहुः॥  
भोग्यं मुकुन्दगुणभेद मचेतनेषु भोक्तृत्वमात्मनिनिवेश्य निजेच्छयैव।  
पाञ्चालिकाशुकविभूषणभोगदायी सम्राडिवात्मसमयासहमोदसे त्वम्॥  
त्वां मातरंच पितरं सहजं निवासं संतस्समेत्य शरणं सुहृदं गतिंच।  
निस्सीमनित्यनिरवद्यसुखप्रकाशं दीपप्रकाश सविभूति गुणं विशंति॥  
जंतोरमुष्य जनने विधिशंभुदृष्टौ रागादिनेवरजसा तमसाचयोगः।  
द्वैपायनप्रभृतय स्त्वदवेक्षितानां सत्वं विमुक्तिनियतं भवतीत्युशंति॥  
कर्मस्वनादिविषमेषु समोदयालु स्स्वेनैव कॢप्तमपदेशमवेक्षमाणः।  
स्वप्राप्तये तनुभृतां त्वरसे मुकुंद स्वाभाविकं त्वसुहत्त्वमिदं गृणंति॥

निद्रायितान्निगमवर्त्मनि चारुदर्शी  
प्रस्थानशक्तिसहितान्प्रतिबोध्य जंतून्।  
जीर्णस्तनन्धय जडान्धमुखानिवास्मा-  
न्नेतुं मुकुन्द यतसे दययासह त्वम्॥ १५॥  
भक्तिप्रपत्तिरथवा भगवंस्तदुक्ति स्तन्निष्ठसंश्रय इतीव विकल्प्यमानम्।  
यंकञ्चिदेकमुपपादयता त्वयैव त्रातास्तरन्त्यवसरे भविनोभवाब्धिम्॥  
नानाविधैरकपटैरजहत्स्वभावै रप्राकृतैर्निजविहारवशेन सिद्धैः।  
आत्मीयरक्षण विपक्षविनाशनार्थे स्संस्थापयस्यनघजन्मभिराद्यधर्मम्॥  
निम्नोन्नतानि निखिलानि पदानि गाढं मज्जंतिते महिमसागरशीकरेषु।  
नीरंध्रमाश्रयसि नीचजनां स्तथापि शीलेन हत शिशिरोपवनेश्वर त्वम्॥  
काशीवृकान्धक शरासनबाणगङ्गा-  
सम्भूतिनामकृतिसंवदनाद्युदन्तैः।  
स्वोक्त्याऽम्बरीषभयशापमुखैश्च शम्भुं  
त्वन्निघ्नमीक्षितवतामिह कश्शरण्यः॥१९॥  
क्वासौविभुः क्ववयमित्युपसत्तिभीता-  
न्जन्तून्क्षणान्त्वदनुवृत्तिषु योग्ययन्ती।  
सम्प्राप्तसद्गुरुतनो स्समये दयालो -  
रात्मावधिर्भवति संस्कृतधीः क्षणंते॥२०॥  
योग्यं यमैश्च नियमैश्च विधाय चित्तं  
-सन्तो जितासनतया स्ववशासुवर्गाः।

प्रत्याहृतेन्द्रियगणा स्थिरधारणा स्त्वां  
ध्यात्वा समाधियुगलेन विलोकयन्ति॥२१॥  
पद्माभिरामवदनेक्षणपाणिपादं  
दिव्यायुधाभरणमाल्यविलेपनं त्वाम्।  
योगेननाथशुभमाश्रयमात्मवन्त-  
स्सालम्बनेन परिचिन्त्य नयान्ति तृप्तिम्॥२२॥  
मानातिलङ्घि सुखबोध महाम्बुराशौ मग्नास्त्रिसीमरहिते भवतस्त्वरूपे।  
तापत्रयेण विहतिं नभजन्तिभूय स्संसारघर्मजनितेन समाधिमन्तः॥  
धीसंस्कृतान्विदधता मिहकर्मभेदा-  
शुद्धं जितेमनसि चिन्तयतां स्वमेकम्।  
त्वत्कर्मसक्तमनसामपि चापरेषां  
सूते फलान्यभिमतानि भवान्प्रसन्नः॥२४॥  
उद्बाहुभावमपहाय यथैवखर्वः प्रांशुं फलं समभियाचति योगिचिंत्य।  
एवं सुदुष्करमुपायगणं विहाय स्थानेनिवेशयति तस्य विचक्षणस्त्वाम्॥  
नित्यालसार्हमभयं निरपेक्षमन्यैर्विश्वाधिकार मखिलाभिमतप्रसूतिम्।  
शिक्षाविशेषसुलभं व्यवसायसिद्धा स्सत्कुर्वतेत्वयि मुकुंद षडङ्गयोगम्॥  
त्वत्प्रातिकूल्यविमुखा स्फुरदानुकूल्याः  
कृत्वा पुनः कृपणतां विगतातिशङ्काः।  
स्वामिन्भव स्वयमुपाय इतीरयन्त-  
स्त्वय्यपयन्ति निजभार मपारशक्तौ॥२७॥

अर्थान्तरेषु विमुखा नधिकारहाने -  
श्श्रद्धाधिकां स्त्वदनुभूति विलम्बभीतान्।  
दीपप्रकाशलभसे सुचिरात्कृतीव  
न्यस्तात्मनस्तवपदे निभृतान्प्रपन्नान्॥२८॥  
मंत्रैरनुश्रवमुखेष्वधिगम्यमानै-  
स्स्वाधिक्रियासमुचितैर्यदिवाऽन्यवाक्यैः।  
नाथ त्वदीयचरणौ शरणं गतानां  
नैवायुतायुतकलाप्यपरैरवाप्या॥२९॥  
दत्ताः प्रजाजनकवत्तवदेशिकेंद्रैः  
पत्याभिनन्द्य भवता परिणीयमानाः।  
मध्ये सतां महितभोगविशेषसिद्ध्यै  
माङ्गल्यसूत्रमिव बिभ्रति किङ्करत्वम्॥३०॥  
दिव्ये पदे दयितकिङ्करताधिराज्यं दातुं त्वयैव दयया विहिताभिषेकाः।  
आदेहपात मनघाः परिचर्यया ते युंक्ताविचिंत्य युवराजपदं भजंति॥  
त्वां पाञ्चरात्रिकनयेन पृथग्विधेन वैघानसेनच पथा नियताधिकाराः।  
संज्ञाविशेषनियमेन समर्चयतः प्रीत्यानयंति फलवंति दिनानि धन्याः॥  
वर्णाश्रमादिनियम स्थिरसूत्रबद्धा भक्त्या यथार्ह विनिवेशित पत्रपुष्पा।  
मालेव कालविहिता हृदयङ्गमा त्वा मामोदय त्यनुपरागधियां सपर्या॥  
ब्रह्मा गिरीश इतरेऽप्यमरा यएते निर्धूयता न्निरयतुल्यफलप्रसूतीन्।  
प्राप्तुं तवैव पदपद्मयुगं प्रतीताः पातिव्रतीं त्वयिभजन्ति परावरज्ञाः॥

नाथ त्वदिष्टविनियोगविशेषसिद्धं शेषत्वसार मनपेक्ष्य निजं गुणज्ञाः।  
भक्तेषु ते वरगुणार्णवपारतंत्र्याद्दास्यं भजंति विपणिव्यवहारयोग्यम्॥  
सद्भिस्त्वदेकशरणै र्नियतं सनाथा स्सर्पादिवत्त्वदपराधिषु दूरयाताः।  
धीरा स्तृणीकृतविरिञ्चि पुरंदराद्याः कालं क्षिपंति भगवन्करणैरवध्यैः॥  
वागादिकं मनसि तत्पवने सजीवे भूतेष्वयं पुनरसौ खयितै स्समेति।  
साधारणोत्क्रमणकर्म समाश्रितानां यंत्रा मुकुंद भवतैव यथा यमादेः॥  
सव्यान्ययो रयनयोर्निशि वासरेवा  
सङ्कल्पितायुरवधीन् सपदि प्रपन्नान्।  
हार्दस्स्वयं निजपदे विनिवेशयिष्य-  
न्नाडीं प्रवेशयसि नाथ शताधिकां त्वम्॥३८॥  
अर्चिर्दिनं विशदपक्ष उदक्प्रयाणं  
संवत्सरो मरुदशीतकरश्शशाङ्कः।  
सौदामिनी जलपतिर्वलजित्प्रदेश  
इत्यातिवाहिकसखो नयसि स्वकीयान्॥३९॥  
त्वच्छेषवृत्त्यनुगुणैस्महितेगुणौघै राविर्भवत्ययुतसिद्धनिजस्वरूपे।  
त्वलक्षणेषु नियतेष्वपि भोगमात्रे साम्यं भजंति परमं भवता विमुक्ताः॥  
इत्थं त्वदेकारणै रनघैरवाप्ये  
त्वत्किङ्करत्वविभवे स्पृहयाऽपराध्यन्।  
आत्मा ममेति भगवन्भवतैव गीता  
वाचो निरीक्ष्य भरणीय इह त्वयाऽहम्॥४१॥

पद्मामहीप्रभृतिभिः परिभुक्तभूम्नः काहानिरत्र मयि भोक्तरि ते भवित्री।  
दूष्येत्किमंघ्रितटिनी तव देवसेव्या दुर्वारतर्षचपलेन शुनावलीढा॥  
सत्वानि नाथ विविधान्यभिसञ्जिघृक्षो-  
स्संसारनाट्यरसिकस्य तवास्तु तृप्त्यै।  
प्रत्यक्पराङ्मुखमते रसमीक्ष्यकर्तुः  
प्राचीन सज्जन विडम्बन भूमिका मे॥ ४३ ॥  
कर्तव्यमित्यनुकलं कलयाम्यकृत्यं स्वामिन्नकृत्यमिव कृत्यमपि त्यजामि।  
अन्यद्व्यतिक्रमणजात मनन्तमर्थं स्थानेदयाभवतु ते मयिसार्वभौमी॥  
यंपूर्वमाश्रितजनेषु भवान्यथाव-  
द्धर्मंपरं प्रणिजगौ स्वयमानृशंस्यम्।  
संस्मारित स्त्वमसि तस्य शरण्यभावा-  
न्नाथत्वदात्तसमयाननुमादृशार्थम्॥ ४५ ॥  
त्राणंभवेति सकृदुक्ति समुद्यतानां तैस्तै रसह्यवृजिनै रुदरंभरा ते।  
सत्यापिता शतमखात्मजशङ्करादौ नाथक्षमा नखलुजन्तुषु मद्विवर्जम्॥  
कर्मादिषु त्रिषुकथां कथमप्यजानन् कामादिमांसलतया कलुषप्रवृत्तिः।  
साकेतसम्भवचराचरजंतुरीत्या वीक्ष्यः प्रभो विषयवासितयाप्यहंते॥  
ब्रह्माण्डलक्ष शतकोटिगणाननन्तानेकक्षणे विपरिवत्य विलज्जमानाम्।  
मत्पापराशिमथने मधुदर्पहन्त्रीं शक्तिं नियुङ्क्ष्व शरणागतवत्सलत्वम्॥  
आस्तां प्रपत्तिरिहदेशिकसाक्षिकं मे सिद्धा तदुक्तिरनघा त्वदपेक्षितार्था।  
न्यस्तस्य पूर्व निपुणैस्त्वयि नन्विदानीं पूर्णे मुकुंद पुनरुक्त उपायएषः ॥

यद्वा मदर्थपरिचिन्तनया तवाहं संज्ञां प्रपन्नइति साहसिको बिभर्मि।  
एवं स्थिते त्वदपवादनिवृत्तये मां पात्रीकुरुष्व भगवन्भवतःकृपायाः॥  
त्यागे गुणेश शरणागत संज्ञिनो मे स्त्यानागसोपि सहसैव परिग्रहेवा।  
किं नाम कुत्रभवतीति कृपादिभिस्ते गूढं निरूपय गुणेतरतारतम्यम्॥  
स्वामी दयाजलनिधिर्मधुरः क्षमावान्  
शीलाधिकश्श्रितवशश्शुचि रत्युदारः।  
एतानि हातुमनघो नकिलर्हसि स्वं  
विख्यातधीरबिरुदानि मया सहैव॥५२॥  
वेलाधनञ्जयरथादिषु वाचिकैस्स्वै-  
राघोषितामखिललोकशरण्यतां ते।  
जानन् दशाननशतादधिकागसोऽपि  
पश्यामि दत्तमभयं स्वकृते त्वया मे॥५३॥  
रक्ष्यस्त्वया तवभरोऽस्म्यह मित्यपूर्वान्  
वर्णानिमानहृदयानपि वाचयित्वा।  
मद्दोषनिर्जितगुणो महिषीसमक्षं  
माभूस्त्वदन्यइव मोघपरिश्रमस्त्वम्॥५४॥  
मुख्यंच तत्प्रपदनं स्वयमेवसाध्यं दातव्यमीश कृपया तदपि त्वयैव।  
तन्मे भवञ्चरणसङ्गवतीमवस्थां पश्यन्नुपायफलयो रुचितं विधेयाः॥  
अल्पास्थिरै रसुकरै रसुखावसानै र्दुःखान्वितैरनुचितै रभिमानमूलैः।  
प्रत्यक्परागनुभवैः परिपूर्णितं मां त्वय्येव नाथ चरितार्थय निर्विपक्षम्॥

तत्त्वावबोधशमितप्रतिकूलवृत्तिं  
कैङ्कर्यलब्धकरणत्रयसामरस्यम्।  
कृत्वा त्वदन्यविमुखं कृपया स्वयं मां  
स्फातिं दृशोः प्रतिलभस्व जगज्जनन्याः॥५७॥  
इत्थं स्तुतिप्रभृतयोयदि सम्मतास्स्यु-  
र्यद्वाऽपराधपदवीष्वभिसंविशन्ति।  
स्तोकानुकूल्यकणिकावशवर्तिनस्ते  
प्रीतिक्षमाप्रसरयो रहमस्मिलक्ष्यम्॥५८॥  
स्नेहोपपन्नविषयस्स्वदशाविशेषा-  
द्भूयस्तमिस्रशमनीं भुवि वेङ्कटेशः।  
दिव्यां स्तुतिं निरममीत सतां नियोगा-  
द्दीपप्रकाशशरणागति दीपिकाख्याम्॥५९॥  
एतां दीपप्रकाशस्तुतिमिहरुचिरामित्थमभ्यस्यमान-  
स्सम्यग्दृष्ट्वा शरण्यप्रभृतिनिगदितं न्यासविद्याख्यतत्त्वम्।  
प्रत्यासीदद्विमुक्तानुभवफलसमुद्भेदलब्ध्या कृतार्थः  
प्राप्ते पिण्डस्य भेदे परिणमति परब्रह्मसब्रह्मचारी॥६०॥

इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य  
वेदान्ताचार्यस्य कृतिषु शरणागतिदीपिका संपूर्णा ॥

कविता किसिंहाय कल्याणगुणशालिने ।  
श्रीमते वेङ्कटेशाय वेदान्तगुरवे नमः ॥

<MISSING_FIG href="../books_images/U-IMG-172388548030.png"/>

**॥ न्यासतिलकम् ॥**  

**श्रीमान्वेङ्कटनाथार्यः + सन्निधत्तांसदा हृदि ॥**

प्रायःप्रपदनेपुंसां पौनःपुन्यं निवारयन्।  
हस्तश्श्रीरङ्गभर्तुर्मामव्यादभयमुद्रितः॥१॥  
अनादे र्निस्सीम्नो दुरितजलधेर्यन्निरुपमं  
विदुः प्रायश्चित्तं यदुरघुधुरीणाशयविदः।  
तदारम्भे तस्यागिरमवदधानेन मनसा  
प्रपद्ये तामेकां श्रियमखिलनाथस्य महिषीम्॥२॥  
महेन्द्रग्राविष्णुप्रभृतिषु महत्त्वप्रभृतिव-  
प्रपत्तव्ये तत्त्वे परिणमितवैशिष्टयविभवाम्।  
अधृष्यत्वं धूत्वा कमितु रभिगम्यत्वजननीं  
श्रियं शीतापाङ्गामहमशरणो यामि शरणम्॥३॥  
स्वतस्सिद्धश्श्रीमानमितगुणभूमा करुणया  
विधाय ब्रह्मादीन्वितरति निजावेशमपियः।  
प्रपत्या साक्षाद्वा भजनशिरसावाऽपि सुलभं  
मुमुक्षुर्देवेशं तमहमधिगच्छामि शरणम्॥४॥  
बृन्दानि यस्स्ववशयन्व्रजसुन्दरीणां  
बृन्दावनान्तरभुवां सुलभो बभूव।  
श्रीमानशेषजनसङ्ग्रहणाय शेते  
रङ्गे भुजङ्गशयने समहाभुजङ्गः॥५॥

रङ्गास्तीर्णभुजङ्गपुङ्गववपुः पर्यङ्कवर्यंगतौ  
सर्गस्थित्यवसानकेलिरसिकौ तौ दम्पती नःपती।  
नाभीपङ्कजशायिन श्श्रुतिसुखैरन्योन्यबद्धस्मितौ  
डिम्भस्याम्वुजसम्भवस्य वचनैरोंतत्सदित्यादिभिः॥६॥  
घनकरुणारसौघभरितां परितापहरां  
नयनमहश्छटां मयितरङ्गय रङ्गपते।  
दुरितहुताशनस्फुरित दुर्दमदुःखमषी-  
मलिनितविश्वसौधदुरपह्नववर्णसुधाम्॥७॥  
दुर्मोचोद्भटकर्मकोटिनिबिडोऽप्यादेशवश्यः कृतो  
बाह्यैर्नैवविमोहितोऽस्मिकुदृशांपक्षै र्नविक्षोभितः।  
यो माहानसिको महान्यतिपते र्नीतिश्च तत्पौत्रजा-  
नाचार्यानिति रङ्गधुर्यमयि ते स्वल्पावशिष्टोभरः॥८॥  
त्वय्याचार्यै विनिहितभरा स्तावका रङ्गनाथ  
त्वत्कैङ्कर्यप्रवणमनस स्त्वद्गुणास्वादमत्ताः।  
त्वय्येकस्मिन्नपिविजहतो मुक्तवत्साधनत्वं  
त्वच्छेषत्वस्वरसरसिका स्सूरयोमे स्वदन्ताम्॥९॥  
आर्तेष्वाशुफलातदन्यविषयेऽप्युच्छिन्नदेहान्तरा  
वह्न्यादेरनपेक्षणात्तनुभृतां सत्यादिवद्व्यापिनी।  
श्रीरङ्गेश्वरयावदात्मनियत त्वत्पारतन्त्र्योचिता  
स्त्वय्येव त्वदुपायधीरपिहितस्वोपायभावाऽस्तु मे॥१०॥

कल्पस्तोमेऽप्यपास्तत्वदितरगतयश्शक्तिधीशक्तिभूम्ना  
रङ्गेशप्रातिकूल्यक्षपणपरिणमन्निर्विघातानुकूल्याः।  
त्रातारं त्वामभेद्याच्छरणवरणतोनाथ निर्विघ्नयन्त-  
स्त्वन्निक्षिप्तात्मरक्षां प्रतिरभसजुषस्स्वप्रवृत्तिं त्यजन्ति॥११॥  
त्यक्तोपायानपायांस्तदुभयकरणे सत्रपान् सानुतापान्  
भूयोऽपि त्वत्प्रपत्त्या प्रशमितकलुषान् हन्त सर्वसहस्त्वम्।  
रङ्गिन्न्यासान्तरङ्गाखिल जनहिततागोचरत्वन्निदेश-  
प्रीतिप्राप्तस्ववर्णाश्रमशुभचरितान्पासि धन्याननन्यान्॥१२॥  
शोकास्पदांशभथनाश्रयतां भवाब्धौ  
रागास्पदांश सहजं नरुणत्सि दुःखम्।  
नोचेदमी जगति रङ्गधुरीणभूयः  
क्षोदिष्ठभोगरसिकास्तवनस्स्मरेयुः॥१३॥  
हेतुर्वैधेविमर्शे भजनवदितरस्किंत्वनुष्ठानकाले  
वेद्यस्त्वद्रूपभेदोविविधइह सतूपासनान्यानपेक्षः।  
रङ्गिन् प्रारब्धभङ्गात्फलमधिक मनावृत्तिरुक्तेष्टिवत्स्या-  
न्नानाशब्दादिभेदात्प्रपदनभजनेसूचिते सूत्रकारैः॥१४॥  
भक्तौ रङ्गपते यथाखलु पशुच्छागादिवद्वेदन-  
ध्यानोपासनदर्शनादिवचसामिच्छन्त्यभिन्नार्थताम्।  
व्यक्त्यैक्याच्छरणागति प्रपदनत्यागात्मनिक्षेपण-  
न्यासाद्येषु तथैव तन्त्रनिपुणैः पर्यायता स्मर्यते॥१५॥

विश्वासायासभूम्नोर्न्यसनभजनयोर्गौरवेको विशेष-  
स्तत्सद्भावेऽपि धर्मान्तरइवघटते कर्तृभेदाद्विकल्पः।  
तद्भेदो रङ्गशायिन्ननितरगतिताद्युत्थशोकातिरेका-  
त्सद्विद्यादौ विकल्पस्त्वभिमतिभिदया तेन तत्रैकराश्यम्॥१६॥  
ध्रुवमधिकृतिभेदात्कर्मवद्रङ्गवासि-  
न्फलतिफलमनेकं त्वत्पदेभक्तिरेका।  
शरणवरवाणी सर्वहेतुस्तथासौ  
कृपणभजननिष्ठा बुद्धिदौर्बल्यकाष्ठा॥१७॥  
कर्तव्यं सकृदेव हन्तकलुषं सर्वं ततो नश्यति  
ब्रह्मेशादिसुदुर्लभं पदमपि प्राप्यं मयाद्रागिति।  
विश्वासप्रतिबन्धचिन्तनमिदं पर्यस्यति न्यस्यतां  
रङ्गाधीश रमापतित्वसुभगं नारायणत्वं तव॥१८॥  
धीकर्मभक्तिरसिकस्य कदात्मशक्त्या  
रङ्गेशभावकलुषप्रणतिद्वयोक्तेः।  
मन्येबलंप्रबलदुष्कृतशालिनो मे  
त्वन्मूलदेशिककटाक्षनिपातमाद्यम्॥१९॥  
अन्धोऽनन्धग्रहणवशगोयाति रङ्गेशयद्व-  
त्पङ्गुर्नौकाकुहरनिहितोनीयते नाविकेन।  
भुंक्तेभोगानविदितनृपस्सेवकस्यार्भकादि-  
स्त्वत्सम्प्राप्तौ प्रभवति तथा देशिकोमे दयालुः॥२०॥

उक्त्या धनञ्जय विभीषणलक्ष्यया ते  
प्रत्याय्य लक्ष्मणमुनेर्भवता वितीर्णम्।  
श्रुत्वावरं तदनुबन्धमदावलिप्ते  
नित्यं प्रसीद भगवन्मयि रङ्गनाथ॥२१॥  
सकृदपि विनतानां सर्वदे सर्वदेहि-  
न्युपनिषदभिधेये भागधेये विधेये।  
विरमति सकदाचिन्मोहतोहाहतोऽहं  
विषमविषयचिन्तामेदुरा मे दुराशा॥२२॥  
यावज्जीवं जगति नियता देहयात्रा भवित्री  
त्यक्तास्सर्वे त्रिचतुरदिनग्लानभोगानभोगाः।  
दत्तेरङ्गीनिजमपिपदं देशिकादेशकांक्षी  
किं ते चिन्ते परमभिमतं खिद्यसे यत्पुनस्त्वम्॥२३॥  
अपिमुहुरपराधै रप्रकम्प्यानुकम्पे  
वहति महति योगक्षेमबृन्दं मुकुन्दे।  
मदकलुषमनीषा वज्रलेपावलेपा-  
ननुगुणयितुमीहे नप्रभूनप्रभूतान्॥२४॥  
मातर्भारति मुञ्च मानुषचटून् हेदेहलब्धैरलं  
लुब्धद्वारदुरासिकापरिभवै स्तोषंजुषेधामनः।  
वाचस्सीमनि रङ्गधामनि महानन्दोन्नमद्भूमनि  
स्वामिन्यात्मनि वेङ्कटेश्वरकवे स्स्वेनार्पितोऽयंभरः॥२५॥

दास्यंलास्यवतानुमत्यमनसा रङ्गेश्वरत्वत्पदे  
नित्यं किङ्करवाण्यहं नतुपुनः कुर्यां कदर्याश्रयम्।  
मीलच्चक्षुषिवेल्लितभ्रुणि मुहुर्दत्तावमानाक्षरे  
भीमे कस्यचिदाढ्यकस्यवदने भिक्षाविलक्षांदृशम्॥२६॥  
त्वय्येकाञ्जलिकिङ्करे तनुभृतां निर्व्याजसर्वंसहे  
कल्याणात्मनि रङ्गनाथ कमलाकान्ते मुकुन्दे स्थिते।  
स्वामिन्पाहि दयस्व देहिकुशलं जीवप्रभो भावये-  
त्यालापानवलेपिषु प्रलपितुं जिह्रेति जिह्वा मम॥२७॥  
त्वयिसतिरङ्गधुर्य शरणागतकामदुधे  
निरवधिकप्रवाहकरुणापरिणाहवति।  
परिमितदेशकालफलदान्फलदाकृतिका-  
न्कथमधिकुर्महे विधिशिवप्रमुखानमुखान्॥२८॥  
ओमित्यभ्युपगम्य रङ्गनृपतेनान्योचितां शेषतां  
स्वातन्त्र्यादिमयीं व्यपोह्यमहतीमाद्यामविद्या स्थितिम्।  
नित्यासङ्ख्यविसीमभूमगुणयोर्यायामनायासत-  
स्सेवासम्पदमिन्दिरेशयुवयो रैकान्तिकात्यन्तिकीम्॥२९॥  
आचार्याद्रङ्गधुर्य द्वयसमधिगमे लब्धसत्त्वं तदात्वे  
विश्लिष्टाश्लिष्टपूर्वोत्तर दुरितभरं यापितारब्धदेहम्।  
नीतं त्वत्कैस्त्वयावा निरवधिकदयोद्भूत भोगादिरूपं  
त्वद्भोगैकस्वभोगं दयितमनुचिरं त्वत्कृते मां कुरुष्व॥३०॥

विधानं रङ्गेशादधिगतवतो वेङ्कटकवे-  
स्फुरद्वर्णं वक्त्रोपरिकलयतां न्यासतिलकम्।  
इहामुत्राप्येष प्रणतजनचिन्तामणिगिरि-  
स्स्वपर्यङ्के सेवांदिशति फणिपर्यङ्करसिकः॥ ३१॥

इतिकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य  
वेदान्ताचार्यस्य कृतिषु न्यासतिलकं सम्पूर्णम्॥  
कवितार्किकसिंहाय+वेदान्तगुरवे नमः॥

<MISSING_FIG href="../books_images/U-IMG-172389444330.png"/>  

**॥ न्यासदशकम् ॥**  

श्रीमान्वेङ्कटनाथार्यः+सन्निधत्तां सदाहृदि॥

अहं मद्रक्षणभरो मद्रक्षणफलं तथा।  
नमम श्रीपतेरेवेत्यात्मानं निक्षिपेद्बुधः॥१॥  
न्यस्याम्यकिंचनश्श्रीमन्ननुकूलोऽन्यवर्जितः।  
विश्वासप्रार्थनापूर्वमात्मरक्षाभरं त्वयि॥२॥  
स्वामिन् स्वशेषं स्ववशं स्वभरत्वेन निर्भरम्।  
स्वदत्तस्वधिया स्वार्थं स्वस्मिन्न्यस्यति मां स्वयम्॥३॥  
श्रीमन्नभीष्टवरद त्वा मस्मि शरणंगतः।  
एतद्देहावसाने मां त्वत्पादं प्रापय स्वयम्॥४॥  
त्वच्छेषत्वे स्थिरधियं त्वत्प्राप्त्यैकप्रयोजनम्।  
निषिद्धकाम्यरहितं कुरुमां नित्यकिङ्करम्॥५॥

देवीभूषणहेत्यादिजुष्टस्य भगवं स्तव।  
नित्यं निरपराधेषु कैङ्कर्येषु नियुङ्क्ष्व माम्॥६॥  
मां मदीयंच निखिलं चेतनाचेतनात्मकम्।  
स्वकैङ्कर्योपकरणं वरद स्वीकुरु स्वयम्॥७॥  
त्वदेकरक्ष्यस्य मम त्वमेव करुणाकर।  
नप्रवर्तय पापानि प्रवृत्तानि निवर्तय॥८॥  
अकृत्यानांच करणं कृत्यानां वर्जनंच मे  
क्षमस्व निखिलं देव प्रणतार्तिहर प्रभो॥९॥  
श्रीमान्नियतपञ्चाङ्गं मद्रक्षणभरार्पणम्।  
अचीकरत्स्वयं स्वस्मिन्नतोऽह मिहनिर्भरः॥१०॥  
संसारावर्तवेगप्रशमनशुभकृद्देशिकप्रेक्षितोऽहं  
सन्त्यक्तोऽन्यै रुपायै रनुचितचरितेष्वद्य शान्ताभिसन्धिः।  
निश्शङ्कस्तत्त्वदृष्ट्या निरवधिकदयं प्राप्य संरक्षकं त्वां  
न्यस्य त्वत्पादपद्मे वरद निजभरं निर्भरो निर्भयोऽस्मि॥११॥

इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य  
वेदान्ताचार्यस्य कृतिषु न्यासदशकं संपूर्णम् ॥  
कवितार्किकसिंहाय + वेदान्तगुरवे नमः ॥

<MISSING_FIG href="../books_images/U-IMG-172389500630.png"/>

**॥ न्यासविंशतिः ॥**  

श्रीमान्वेङ्कटनाथार्यः+सन्निधत्तांहृदि॥

श्रुतिस्मृत्यादि तात्पर्य निरूढा न्यासविंशतिः।  
स्वयंव्याक्रियतेऽस्माभि र्दिङ्मात्रेणसदिच्छया॥

 अ.—प्रपत्त्यपरपर्यायां न्यासविद्यां संजिघृक्षुस्तत्वज्ञानादिमुखेन तदधिकार हेतुभूतमाचार्यसंग्रहमाह॥

सिद्धं सत्सम्प्रदाये स्थिरधियमनघं श्रोत्रियं ब्रह्मनिष्ठं  
सत्वस्थं सत्यवाचं समयनियतया साधुवृत्यासमेतम्।  
डम्भासूयादिमुक्तं जितविषयगणं दीर्घबन्धुं दयालुं  
स्खालित्येशासितारं स्वपरहितपरं देशिकं भूष्णुरीप्सेत्॥ १ ॥

 व्या.—एतेषामाचार्यगुणानां प्रमाणानि" तद्विज्ञानार्थं सगुरुमेवाभिगच्छेत्समिस्पाणि श्श्रोत्रियं ब्रह्मनिष्ठ" मित्यादीनि॥ समयनियतया। यथाकालं प्रवृत्तया। यद्वा धर्मज्ञसमयव्यवस्थितया। जितविषयगणम्- स्ववशेन्द्रियवर्गम्। सम्यक् ज्ञानार्थतया गुर्वभिगमनेऽपे स्वेच्छया प्रवृत्तमानस्य नियमांशमात्रे विधिज्ञापनार्थमप्सिदितिसन्प्रयोगः ॥  
 अ.—"आचार्यवान्पुरुषोवेद। आचार्यवत्तया मुक्ता" वित्याद्यनुसारतः आचार्य वरणेसिद्धे “देवमिवाचार्यमुपासीत” इत्यादि विहितं तत्सेवनमाह॥

अज्ञानध्वान्तरोधा दघपरिहरणा दात्मसाम्यावहत्वा-  
ज्जन्मप्रध्वंसिजन्मप्रदगरिमतया दिव्यदृष्टिप्रभावात्।  
निष्प्रत्यूहानृशंस्यान्नियतरसतयानित्यशेषित्वयोगा-  
दाचार्यस्सद्भिरप्रत्युपकरणधिया देववत्स्यादुपास्यः॥२॥

 व्या.— अत्रोक्ता हेतव आचार्ये भगवतिचान्वीयंते—जन्मप्रध्वंसि जन्म – विद्याजन्म। “ब्रह्मविद्या प्रदानस्य देवैरपि न शक्यते। प्रतिप्रदानमथवा दद्याच्छक्तित आदरा " दित्याद्यभिप्रेत्याप्रत्युपकरणधियेत्युक्तम्॥

 अ— सम्यगुपसन्ने सच्छिष्ये" तस्मैसविद्वानि"त्यादि विहितमाचार्य कृत्यमाह॥

सद्बुद्धिस्साधुसेवी समुचितचरितस्तत्त्वबोधाभिलाषी  
शुश्रूषु स्त्यक्तमानः प्रणिपतनपरः प्रश्नकालप्रतीक्षः।  
शान्तो दान्तोऽनसूय श्शरणमुपगतश्शास्त्रविश्वासशाली  
शिष्यः प्राप्तःपरीक्षां कृतविदभिमतं तत्त्वतशिक्षणीयः॥ ३॥

अ.—मुक्तिकामस्य मूलमन्त्राद्यभिप्रेततया शिक्षणीये प्रधानांशं तस्यच नित्यानुसन्धेयत्वमाह॥

स्वाधीनाशेषसत्तास्थितियतनफलं विद्धि लक्ष्मीशमेकं  
प्राप्यं नान्यत् प्रतीया नचशरणतया कंचिदन्यं वृणीयाः।  
एतस्मादेव पुंसां भयमितरदपि प्रेक्ष्यमोज्झेस्तदाज्ञा-  
मित्येकान्तोपदेशः प्रथममिह गुरो रेकचित्तेनधार्यः॥४॥

अ.—ईदृशोपदेशलब्धसम्यक्ज्ञानस्य पुरुषस्य "अनित्यमसुखं लोकमिमंप्राप्यभजस्वमाम्—मामेकं शरणंव्रज" इत्यादिभिरपवर्गोंपायतया विहित्तयोर्भक्तिप्रपत्योरधिकारिव्यवस्थामाह॥

मोक्षोपायार्हतैवं भवति भवभृतां कस्यचित्कापिकाले  
तद्वद्भक्तिप्रपत्त्योरधिकृतिनियमस्तादृशा स्या न्नियत्या।  
शक्ताऽशक्तादितत्तत्पुरुषविषयतस्स्थाप्यते तद्व्यवस्था  
यच्चाहुस्तद्विकल्प स्समइतिकतिचित्तत्फलस्याविशेषात्॥५॥

 अ.—इत्थमधिकारिभेदाद्गुरुलघुविकल्पसम्भवेऽपि प्रपत्तिप्रभावे दुर्बलबुद्धीन्प्रत्याययन्ति॥

सानुक्रोशे समर्थे प्रपदनमृषिभिस्स्मर्यतेऽभीष्टसिद्ध्यै  
लोकेऽप्येतत्प्रसिद्धं नच विमतिरिह प्रेक्ष्यते क्वापितन्त्रे।

तस्मात्कैमुत्यसिद्धं भगवति तु भरन्यासविद्यानुभावं  
धर्मस्थेयाश्च पूर्वेस्वकृतिषु बहुधास्थापयांचक्रुरेवम्॥६॥

 व्या.—वानर वायस राक्षस द्रौपदी गजेन्द्र सुमुख त्रिशंकुशुनश्शेफाद्युपाख्यानैरिति शेषः—धर्मस्थेयाः— विवादगोचरधर्मनिर्णेतारः। पूर्वे— भगवद्यामुनादयः॥  
 अ.—अस्त्वेव मशक्तिपरिहारेण सर्वशास्त्रसाधारणो विश्वासः तस्य प्रपत्तिलक्षणवाक्ये महत्वेन विशेषणं किमर्थमित्यनुभाव्य परिहरति ॥

शास्त्रप्रामाण्यवादी ननुविधिविषये निर्विशङ्कोऽधिकारी  
विश्वासस्याङ्गभावे पुनरिहविदुषा किं महत्वं प्रसाध्यम्।  
मैवं घोरापराधैस्सपदि गुरुफले न्यासमात्रेण लभ्ये  
शङ्कापार्ष्णिग्रहार्हा शमयितुमुचिताहेतुभिस्तत्तदर्हैः॥७॥

 व्या.—अत्र अर्थस्वभावेन शङ्काप्रकर्षसम्भवात्तन्निवृत्त्यै“ विदितस्सहिधर्मज्ञः—मित्रभावेन सम्प्राप्तम्—सकृदेव प्रपन्नाये"त्यादि शरण्यगुणविशेषादिविमर्शभूतमहाविश्वासादि प्रकर्षसम्पाद्य इतिभावः ॥  
 अ.—किमीदृशविश्वाससापेक्षया गुरूत्तरया प्रपत्त्या ? “सकृज्जप्तेन मन्त्रेण कृतकृत्यस्सुखीभवेत्- प्रपत्तिवाचैवनिरीक्षितुं वृणे" इत्यादि प्रमाणसम्प्रदायै शरणागतिमन्त्रोच्चारणमात्रेणैव मुक्तिस्सिध्येदित्याह॥

नेहाभिक्रान्तिनाशो नच विहतिरिह प्रत्यवायोभवेदि-  
त्युक्तं कैमुत्यनीत्या प्रपदनविषये योजितंशास्त्रविद्भिः।  
तस्मात्क्षेत्रे तदर्हे सुविदितसमयैर्देशिकैस्सम्यगुप्तं  
मन्त्राख्यं मुक्तिबीजं परिणतिवशतः कल्पते सत्फलाय॥८॥

 व्या.—उक्तं—कर्मयोगाधिकार इतिशेषः—“सकृदुच्चरितंयेन हरिरित्यक्षरद्वय" मित्यादिन्यायेनात्र मन्त्रोच्चारणादिकं यथावस्थितप्रपत्त्यनुष्ठानमुत्पाद्य तन्मुखेनैव मुक्तिं

साधयति॥ यथोक्तं सात्त्वततन्वे—"अनेनैवतु मन्त्रेण स्वात्मानं मयि निक्षिपेत्। मयि निश्चिप्तकर्तव्यः कृतकृत्यो भविष्यती 'ति॥  
 अ.—नन्वेवं प्रपत्तिरपि भक्तियोगद्वारैव मुत्तिहेतुरस्स्यादित्याशङ्कायाम् मुमुक्षुर्वै शरणमहं प्रपद्ये” इति श्रुतिस्वारस्याविरुद्धमव्यवहितमोक्षसाधनत्वंत्र्यज्जकान्तररैपि दृढयति ॥

न्यासः प्रोक्तोऽतिरिक्तं तपइति कथितस्त्वध्वरश्चास्य कर्ता  
ऽहिर्बुघ्न्योऽप्यन्ववादीदगणि दिविषदामुत्तमं गुह्यमेतत्।  
साक्षान्मोक्षायचासौ श्रुतइहतु मुधाबाधशङ्कागुणाढ्ये  
तन्निष्ठोह्यन्यनिष्ठान्प्रभु रतिशयितुं कोटिकोट्यंशतोऽपि॥९॥

 व्या.—प्रोक्तः–“तस्मान्न्यासमेषां तपसामतिरिक्तमाहु"रिति वाक्येनकथितः। “यस्समिधे" त्यारभ्य “योनमसासस्वध्ववर" इत्यगं शेनान्ववादीत्—ऋगर्थमनुभाषते— "समित्साधनकादीनां यज्ञानां न्यासमात्मनः। नमसायोऽकरोद्देवे सस्वध्वरइतीरित" इति॥ अगणिदिविषदामुत्तमं गुह्यमेतदित्यादिश्रुत्या। तन्निष्ठइत्यादिना “सत्कर्मनिरताश्शुद्धा" इत्याद्युक्तप्रपन्नप्रभावोविवृतः॥ यद्य" प्योमित्यात्मानंयुंजीत" इति प्रणवकरणकोन्यासश्रुतः। तदनर्हणान्तद्विरहेऽपि तन्त्रोक्तप्रकारस्तत्रयुज्यत इत्यभिप्रायेण तन्निष्ठइति सामान्योक्तिः- श्रुतिसिद्धेऽपि प्रपदने सामान्यधर्मभूतसत्यवदनादिनयात्सर्वाधिकारत्वंच न विरुद्धम्। “ सर्वस्य शरणं सुहृ" दित्याद्यभिप्रेतम् ॥  
  अ.—सन्तुभाष्योक्तभक्तयङ्गभूतप्रपत्तिप्रशंसापराण्येतानि वाक्यानि। गुणोपसंहारपादे प्रपत्तेरस्वतन्त्रविद्या-त्वस्थापनाभावात्; अनन्यथासिद्धसमान न्यायाभावाच्चेति शङ्कायां प्रपदनस्य मोक्षंप्रति पृथगुपायत्वोपपादनं तत्रैव सुस्पष्टमित्याह॥

नानाशब्दादिभेदादितितुकथयता सूत्रकारेणसम्यङ्-  
न्यासोपासे विभक्ते यजनहवनवच्छब्दभेदादभाक्तात्।  
आख्यारूपादिभेदश्श्रुत इतरसमः किञ्चभिन्नोऽधिकार-  
श्शीघ्रप्राप्तयादिभिस्स्याज्जगुरितिच मधूपासनादौ व्यवस्थाम्॥१०॥

 व्या—अभाक्तात् - अनौपचारिकादित्यर्थः ॥ सद्विद्यादहरविद्यादिषु शब्द भेदोहि तत्तगुणविशिष्ठ ब्रह्मविषय प्रत्यय वृत्त्यभिधायित्वरूपेणापाद्यः - इहतु यागदान होमादिवत् अपर्यायतयैव उत्पत्तेस्सिद्धिरितिभावः॥ न्यासविद्येत्याख्या। अर्थस्वभावादत्राभय प्रदान सामर्थ्यविशिष्ट परमकारुणिकतया निरपेक्षरश्चकत्वरूपं। आदिशब्देन परिकरप्रक- रणयोर्ग्रहणम्। इतरसमः-विद्यान्तरसमः। किंचेत्यादि प्राग्दर्शिताधिकारिभेदस्मरणम्। भाष्येतु प्रपत्तेर्भक्त्यङ्गत्वोक्तिः नस्वातन्त्र्यत्राधिका। विषयभेदादुभयाधिकार-योगिषु क्वचिदन्यतरोक्तरविरोधात्॥  
 अ.—अङ्गत्वमेव प्रपत्तेरितिपक्षः परिहृतः। अथ स्वातन्त्र्येऽपि निरङ्गत्वपक्षं परिहरति॥

यत्किंचिद्रक्षणीयं तदवननिपुणे न्यस्यतोऽकिंचनस्य  
प्रस्पष्टं लोकदृष्ट्याप्यवगमितइह प्रार्थनाद्यङ्गयोगः।  
तस्मात्कर्माङ्गकत्वं व्यपनयतिपरापेक्षणाभाववाद-  
स्साङ्गेत्वष्टाङ्गयोगव्यवहृतिनयतष्षड्विधत्वोपचारः॥११॥

 व्या.—अवगमितः - “तदेकोपायतायाच्या। अप्रार्थितो नगोपायेत्। शरणं च प्रपन्नाना" मित्यादिभिरितिशेषः। तस्मादित्यादिना प्रपत्तेः परापेक्षानविद्यत इत्यस्य निर्विषयत्व शङ्काव्युदासः। तथा षड्विधेति वचनादाग्नेयादि षट्कवदानुकूल्य सङ्कल्पादि षट्कं संभूयैकं कारणं स्यादित्यत्रोत्तरम्। साङ्गेत्वित्वादि। “न्यासःपञ्चाङ्ग संयुत" इति। व्यवस्थापक वचनानुगुणमङ्गाङ्गिभावसमुच्चयेन षडूविधित्व वचनं नेयमितिभावः ॥  
 अ.—एवमङ्गाङ्गिभावस्सिद्धः। तत्रावान्तरवैयाकुलीं शमयति ॥

पञ्चाप्यङ्गान्यभिज्ञाः प्रणिजगुरविनाभावमांजि प्रपत्तेः  
कैश्चित्सम्भावितत्वं यदिहनिगदितं तत्प्रपत्त्युत्तरं स्यात्।  
अङ्गेष्वङ्गित्ववादः फलकथनमिह द्वित्रिमात्रोक्तयश्च  
प्राशस्त्यं तत्रतत्र प्रणिदधति ततस्सर्ववाक्यैककण्ठ्यम्॥१२॥

 व्या.—प्रपत्त्युत्तरदशायां प्रातिकूल्यवर्जनाद्यभावेऽपि कृतस्योपायस्य न वैकल्यम्। किन्तु प्रत्यवाय परिहारार्थं यथार्हं प्रतिविधानमेवकार्यम्। “ तथा पुंसामविस्रम्भात्प्रपत्तिः प्रच्युताभवे" दित्येतदपि तात्कालिक विस्रम्भवैकल्याभिप्रायम्॥ उत्तरकाले सतोऽपि विश्वासस्य पूर्वकृतप्रपत्त्यङ्गत्वावेन तद्विरहे प्रपत्तिप्रच्यवनायोगात्। एवंच ब्रह्मास्त्रन्यायदृष्टान्तोऽप्यत्रयोग्यांशे स्थाप्यः। अन्यथाऽतिप्रसङ्गात्। एतेन। “उपायापायसंयोगे निष्ठया हीयतेनये" त्येतदपिगतार्थम्॥ तात्कालिको पायापायसंयोगस्य प्रपत्तिविरोधित्वेतात्पर्यात्। नचानुकूल्यसङ्कल्पस्याङ्गत्वेन श्रवणात्सङ्कल्पितकरणमप्यङ्गम्। तथा श्रुत्यभावात्। यथा श्रुति सङ्कल्पमात्रस्याङ्गत्वे सङ्कल्पिताचरणस्याङ्गत्वकल्पनानुपपत्तेश्च। “आनुकूल्येतराभ्यांतु विनिवृत्तिरपायत" इत्यनेनापि अपायनिवृत्तौ सङ्कल्पविशेषस्य तात्कालिकोपयोगः प्रदृश्यत इत्यत्रानुकूल्य शब्दोहि तत्सङ्कल्परूपप्रतिपादनपरः। "आनुकूल्यस्य सङ्कल्प" इत्यादि सिद्धानुवादात्। नचौपायापायेत्यादौ प्रपत्तिनिष्ठाहानिर्विवक्षिता॥ किंतुपायत्यागविशिष्ट मध्यमवृत्तिहानिः॥ विशेषणाभावेऽपि हि विशिष्टाभावस्सिध्यति। अतएवहि तत्र " अपायसंप्लवेसद्यः प्रायश्चित्तं समाचरेत् " इत्यादिना तावन्मात्रनिमित्तं प्रायश्चित्तमेव विधीयते नतु पूर्वकृतां प्रपत्तिं प्रच्युतामभिप्रेत्य तत्फलार्थं पुनः प्रपत्तिः ॥  
 अ.—प्रस्तुत मुख्योपचार प्रयोगव्यवस्थापनाय प्रपत्तिलक्षणं शोधयति —

रक्षापेक्षा स्वसाह्यप्रणयवति भरन्यास आज्ञादिदक्षे  
दृष्टा नात्र प्रपत्तिव्यवहृतिरिह तन्मेलने लक्षणं स्यात्।  
गेहागत्यादिमात्रे निपततु शरणागत्यभिख्योपचारा-  
द्यद्वानैकार्थभावाद्भवतिहि विविधः पालनीयत्वहेतुः॥१३॥

व्या.—प्रणयोऽतयाच्ञा। आदिशब्देनभृतिदानादि संग्रहः॥ अनेकार्थभावाच्छरण शब्दस्यानेकार्थरूढ-त्वादित्यर्थः॥ प्रपदनरूपत्वाभावेऽपि केषांचित् महागमनादीनां रक्ष्यता हेतुत्वं प्रसिद्धमित्यभिप्रेत्य भवतिचेत्यादिकमुक्तम्॥  
 अ.—एवं लौकिक वैदिकसर्व प्रपत्तीनां साधारणरूपमुक्तम्। अथ मोक्ष्यैकप्रयोजनायां प्रपत्तौ सर्वनिवृत्तिर्धर्मसाधारणं स्वाभाविक परशेषत्वानुसन्धानादिरूपं विशेषमाह—

आत्मात्मीयस्वरूपं न्यसनमनुगतं यावदर्थं मुमुक्षो-  
स्तत्वज्ञानात्मकं तत्प्रथममथविधेस्यादुपाये समेतम्।  
कैङ्कर्याख्ये पुमर्थेऽप्यनुषजति तदप्यर्थनाहेतुभावा-  

स्वाभीष्टाऽनन्यसाध्यावधिरिहतु भरन्यास भागोऽङ्गिभूतः॥१४॥

 व्या.—आत्मीयमुपायफलादि॥ आत्माचात्मीयाचेति यावन्तोऽर्थास्सन्ति प्रमाणसिद्धास्तावतां सर्वेषां भगवच्छेषत्वानुसन्धानं कार्यम्। तच्चानुसन्धान मुपायदशायामपि निवृत्तिधर्म स्वभावादनुवर्तते। इहामुत्रच स्वयं प्रयोजने कैङ्कर्ये स्वतएवभवति। अङ्गिभूतभरन्यासांशस्तु न यावदर्थम्। किन्तु यथालोकं यावदनन्यसाध्यं स्वाभीष्टं तावत्येव भवतीत्यर्थः ॥  

अ.—सर्वशक्तौभरन्यस्यतस्सर्वधर्मत्यागवचनाद्वर्णाश्रमादिधर्मरूपमाज्ञाकैङ्कर्यं तदनुसिद्ध- मनुज्ञा-कैङ्कर्यं च नस्यातामित्यत्राह—

न्यासादेशेषु धर्मत्यजनवचनतोऽकिंचनाधिक्रियोक्ता  
कार्पण्यंवांगमुक्तं भजनवदितरापेक्षणं वाप्यपोढम्।  
दुस्साधेच्छोद्यमौ वा क्वचिदुपशमितावन्यसम्मेलनेवा  
ब्रह्मास्त्रन्याय उक्तस्तदिहनवितो धर्मआज्ञादिसिद्धः ॥१५॥

व्या.—क्वचि च्चापलादशक्यप्रवृत्ते कस्मिंश्चिदधिकारिणि। अन्यसम्मेलने प्रपत्त्यङ्गव्यतिरिक्तानां तदर्थतया स्वीकृतौ। त त्तस्माद्दत्तः। सर्वधर्माणां स्वरूपत्यागस्य प्रपत्त्यङ्गत्वाभावात्तेषां प्रपत्त्यर्थत्वेनानुपादानाच्चेत्यर्थः। सर्वधर्मत्यागवचनस्यात्र सर्वाविरुद्धेष्वर्थान्तरेषु सम्भवत्सु तद्विपरीतार्थकल्पनं नयुक्तमिति भावः। एतेनालेपकादिपक्षाश्च प्रतिक्षिप्ताः॥  
 अ.—ननुयदि प्रपत्तिरुपायस्स्यात्तदाहितस्याङ्गित्वं केषां चिदङ्गत्वञ्च वक्तव्यम्। सातुतत्तद्वाक्येषुपायत-योक्तस्य शरण्यस्य विशेषणतया प्रयुक्तै रेवशब्दरुपाययुध्यनर्हत्वेन व्यवच्छिद्यते। तस्मात्पूर्वोक्तं सर्वमयुक्तमित्यताह-

आदेष्टुं स्वप्रपत्तिं तदनुगुणगणाद्यन्वितं स्वं मुकुन्दो  
मामित्युक्वैकशब्दं वदति तदुचितं तत्रतात्पर्यमूह्यम्।  
तत्प्राप्यप्रापकैक्यं सकलफलदतां न्यासतोऽन्यानपेक्षां  
प्राधान्याद्यंच किंचित्प्रथयति सपरं श्रीसखे मुक्त्युपाये॥१६॥

 व्या.—तद्विध्यनुरोधेन नेतव्यत्वादितिभावः। अन्यथाप्युपपन्नं सिद्धोपायस्यैक्यं प्रपत्तेस्तत्प्रसादोपायत्वं नविरुन्ध्यादितिभावः। एवं निर्विशेषाद्वैत बुद्धिविधानादि पक्षाश्चाश्र निरस्तावेदितव्याः॥  
 अ.—उक्तार्थस्थिरीकरणाय सामान्यत उपायशब्दार्थं सिद्धसाध्योपायविशेषौ तत्प्रयोजनश्च विभजते—

स्वाभीष्टप्राप्तिहेतुस्स्वयमिह पुरुषै स्स्वीकृतस्यादुपाय-  
श्शास्त्रेलोकेच सिद्धस्सपुनरुभयथा सिद्धसाध्यप्रभेदात्।  
सिद्धोपायस्तु मुक्तौ निरवधिकदय श्रीसखस्सर्वशक्ति-  
स्साध्योपायस्तु भक्तिन्यसनमिति पृथक्तद्वशीकासिद्ध्यै॥१७॥

 अ.—समर्थितमेव साङ्गभरन्यासं यथावदनुष्ठानाय मुखभेदेन शिक्षयन् तद्विषयं कर्तव्यशेषं नास्तीत्याह॥

अत्यन्ताकिञ्चिनोऽहं त्वदपचरणतस्सन्निवृत्तोऽद्यनाथ  
त्वत्सेवैकान्तधीस्स्यां त्वमसि शरणमित्यध्यवस्यामि गाढम्।  
त्वं मे गोपयितास्यास्त्वयि निहितभरोऽस्म्येवमित्यर्पितात्मा  
यस्मैसन्यस्तभारस्सकृदितितु सदानप्रयस्येत्तदर्थम्॥ १८॥

व्या.—यस्मैप्रयोजनायेति शेषः॥ सकृदित्यनेन उपासनवदावृत्तिसापेक्षत्वं नास्तीत्युच्यते॥ सकृत्कृतश्शास्त्रार्थ इत्यस्यात्रापवादोनास्ति॥ प्रत्युत“ सकृदेवे"त्यादिभि रनुग्रहएव॥ सदा - यावत्फलप्राप्तिरित्यर्थः॥ ननु न्यासनिष्ठमेव “ तस्यैवं विदुष "

इति परामृश्य तत्कर्तव्यत्वेन पुरुषविद्यानता॥ साच "यन्मरणं तदवभृथ" इत्यन्ता यज्ञादृष्टिरूपाच। अतोयावज्जीवन्तदर्थं कर्तव्यस्य विधीयमानत्वान्नप्रयस्येदित्युनुपपन्नम्॥ मैवम्। तत्रापि हि न्यस्तभरस्य कर्तव्यान्तरनैरपेक्ष्यमेव विवक्षितम्। यदितु प्रस्तुतविद्याङ्गयाऽत्र यज्ञक्लृप्तिर्विधीयते तर्हि दर्शपूर्णमासादीनां क्लृप्तिर्नवाच्या। तेषां यज्ञोपयोगित्वाभावात्। अश्रुतपूर्वतदन्वितयज्ञान्तरकल्पनमनेकशास्त्रार्थदृष्टिविधिं च कल्पनाच्चात्यन्त गौरवोपहितम्। एकस्यावभृथात्पूर्वमन्येषां क्लृप्तिश्चानुपपन्ना। सस्मात् “एवंशरणमभ्येत्य भगवन्तं सुदर्शनम्। अनुष्ठितक्रतुशतो भवत्येवनसंशयः " इतिवद्यज्ञादिकं सर्वमस्यस्वतस्सम्पन्नं भवतीति स्तुतिमात्रे तात्पर्य प्राह्मम् । शारीरकभाष्यमपि एतदविरोधेन भाव्यम्॥  
 अ.— कृतकृत्यस्योत्तरदशायां स्वाधिकारानुगुणं त्याज्यं स्वतन्त्रविधिप्राप्तं कर्तव्यमनुसन्धेयं प्रार्थनीयंच संगृह्णाति—

त्यक्तोपायानपायानपिपरमजहन्मध्यमां स्वार्हवृत्तिं  
प्रायश्चित्तंचयोग्यं विगतऋणततिर्द्वन्द्ववात्यान्तितिक्षुः।  
भक्तिज्ञानादिवृद्धिं परिचरणगुणा न्सत्समृद्धिंचयुक्त्या  
नित्यं याचेदनस्यस्तदपि भगवतस्तस्य यद्वाऽप्तवर्गात्॥१९॥

 व्या.—उपायान् काम्यधर्मान्। अपायान् प्रत्यवाय हेतून्। परम्- प्रपत्त्युत्तर- कालम्। मध्यमाम् - अपायोपायवर्गानन्विताम्। स्वार्हवृत्तिम् नित्यरूपां तत्समाननैमित्तिकरूपांच वृत्तिम्। “अपायसम्प्लवे सद्यः प्रायश्चित्तं समाचरेत्। प्रायश्चित्तिरियंसात्र यत्पुनश्शरणं व्रजे" दित्युक्तमाह प्रायश्चित्तंच योग्यमिति - अजहदित्यनुषज्यते॥ 'देवर्षिभूतात्मनृणां पितॄणां नकिङ्केनाय मृणीचराज” न्नित्याद्युक्तं सूचयति - विगतऋणततिरितिब्रह्मचर्यादिभिरपाकर्तव्यं भगवत्प्रपन्नस्य प्रपत्यैवकृतं देवयज्ञादि कर्तव्यमस्य मध्यमवृत्त्यनुप्रविष्टं कैङ्कर्यमितिभावः॥ द्वन्द्वतितिक्षावचनं प्रारब्धकर्मक्षयदर्शन प्रीतिसूचकमव्याकुलकैङ्कयोपादानार्थंच। परिचरणगुणान् कैङ्कर्योपकरण भूतान्गन्धपुष्पादीन्। यद्वा फलसङ्गत्यागादीन्॥ सत्समृद्धिमपि। कैङ्कर्यानुपयुक्तां नैवयाचेदित्यभिप्रायेण युक्त्येत्युक्तम्। भगवत इत्यादिना देवतान्तरेभ्यस्तदीयेभ्यश्च भक्त्यादिकमपि नयाच्यमिति सूच्यते ॥

 अ.—उक्तप्रकारस्याधिकारिण रस्वाभिमतकाले परमफलप्राप्तिमाह॥

आज्ञाकैङ्कर्यवृत्तिष्वनघ गुरुजनप्रक्रियानेभिवृत्ति-  
स्स्वार्हानुज्ञातसेवाविधिषुच शकनेयावदिष्टं प्रवृत्तः।  
कर्मप्रारब्धकार्यं प्रपदनमहिमध्वस्तशेषं द्विरूपं  
भुक्ता स्वाभीष्टकाले विशति भगवतः पादमूलं प्रपन्नः॥२०॥

 व्या.—प्रपत्त्यङ्गत्त्वाभावेऽपि “विहितत्वाच्चाश्रमकर्मापि" इति न्यायेन स्वतन्त्राधिकारसिद्धे श्शक्तःस्यास्य कर्तव्यमाज्ञाकैङ्कर्यमकरणे प्रत्यवायरहितमनुज्ञाकैंकर्यं ॥ द्विरूपमिति पुण्यपापरूपमित्यर्थः ॥  
 अ.—परमपुरुषार्थसाधिनीं भगवत्पत्ति प्रमाणतःप्रभवतः प्रवक्तृतश्च विशिंषन् तद्विषयग्रन्थनिर्माण प्रयोजनंच प्रतिपादयति ॥

श्रुत्यास्मृत्यादिभिश्च स्वयमिहभगवद्वाक्यवर्गैश्चसिद्धां  
स्वातन्त्र्ये पारतन्त्र्येऽप्यनितरगतिभिस्सद्भिरास्थीयमानाम्।  
वेदान्ताचार्य इत्थं विविधगुरुजन ग्रन्थसंवादवत्या  
विंशत्या न्यासविद्यां व्यवृणुत सुधियां श्रेयसे वेङ्कटेशः ॥२१॥

 व्या.—" यो ब्रह्माणं विदधातिपूर्व " मित्यादिकया श्रुत्या “ देवानां दानावानां चं - शरण्यं शरणंच वाम् ' शरणं त्वां प्रपन्नाये ध्यानयोगविवर्जिताः' इति स्मृत्यादिभिः। “ स्थितेमनसिसुस्वस्थे - सकृदेव प्रपन्नाय - सर्वधर्मान्परित्यज्य ” इत्यादिभि र्भगवद्वाक्यैश्च सिद्धाम् प्रमितामित्यर्यः । आप्ततमत्वसूचनायात्र भगवच्छन्दः। स्वातन्त्र्ये पारतन्त्र्येऽपि अव्यवधानेन व्यवधानेनवा मुक्तिसाधनत्वे यद्वा स्वतन्त्राङ्गत्व विवादेऽपीत्यर्थः। गुरुजनग्रन्थाः स्तोत्र गद्यादयः॥  

 अ.—उक्तमुपायं सुग्रहणाय स्वानुष्ठानमुखेन निगमयति॥

संसारावर्तवेग प्रशमनशुभकृद्देशिकप्रेक्षितोऽहं  
सन्त्यक्तोऽन्यैरुपायैरनुचितचरितेष्वद्यशान्ताभिसन्धिः।  
निश्ङ्कस्तत्व दृष्ट्यानिरवधिकदयं प्राप्यसंरक्षकं त्वां  
न्यस्यत्वत्पादपद्मे वरदनिजभरं निर्भरो निर्भयोऽस्मि॥२२॥

 व्या.—अत्र सर्वशक्तौ परमकारुणिके सर्वाभिमतवरपदे न्यस्त भरत्वान्निर्भरत्वनिर्भयत्वासिद्धिः। अयमत्रमुमुक्षो रनुशासनीयसंग्रहः। सदाचार्योपसत्तिपूर्वकं सम्यक्ज्ञानं सम्पाद्य गुरुतरोपायान्तरनिष्पादनाद्यनुगुण ज्ञानशक्तिविरहान्निर्विण्णस्स्वाशक्त्या सकृत्कर्तव्य लघुपाय परामर्शेन प्रत्यवस्थापितः फलसङ्ग कर्तृत्वादित्यागयुक्त, साङ्गभरन्यासेन कृतकृत्य स्वीकृतभरं शरण्यं श्रियःपतिमवलोक्य निर्भरोनिर्भयश्च स्वयंप्रयोजन कैङ्कर्येण सुखंवर्तत। इति ॥

इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य  
वेदान्ताचार्यस्य कृतिषु न्यासविंशतिः संपूर्णा ॥

कवितार्किकसिंहाय कल्याणगुणशालिने।  
श्रीमते वेङ्कटेशाय वेदान्तगुरवे नमः॥

<MISSING_FIG href="../books_images/U-IMG-172397908330.png"/>

**॥ यथोक्तकारिस्तोत्रम् ॥**  

श्रीमान्वेङ्कटनाथार्यः+सन्निधत्तांसदा हृदि॥

एकं वेगवती मध्ये हस्तिशैलेच दृश्यते।  
उपायफलभावेन स्वयं व्यक्तं परंमहः॥१॥  
ईष्टे गमयितुंपार मेषसेतुरभंगुरः।  
यत्र सारस्वतं स्रोतो विश्राम्यति विशृङ्खलम्॥२॥  
जयति जगदेकसेतु र्वेगवती मध्यलक्षितोदेवः।  
प्रशमयति यः प्रजानां प्रथितास्संसारजलधिकल्लोलान्॥३॥  
विभातु मे चेतसि विष्णुसेतु र्वेगापगावेगविघातहेतुः।  
अम्भोजयोनेर्यदुपज्ञमासीदभङ्गरक्षाहयमेधदक्षा॥४॥

चतुरानन सप्ततन्तुगोप्ता समये तत्परिपंथिनोनिरुन्धन्।  
परिपुष्यति मङ्गलानि पुंसां भगवान्भक्तिमतां यथोक्तकारी॥५॥  
श्रीमान्पितामहवधूपरिचर्यमाणश्शेते भुजङ्गशयने समहाभुजङ्गः।  
प्रत्यादिशन्ति भवसञ्चरणं प्रजानां भक्तानुगन्तुरिह तस्य गतागतानि॥  
प्रशमित हयमेधव्यापदं पद्मयोने-  
शिश्रतजनपरतन्त्रं शेषभोगेशयानम्।  
शरणमुपगतास्स्म श्शान्तनिश्शेषदोषं  
शतमखमणिसेतुं शाश्वतं वेगवत्याः॥७॥  
शरणमुपगतानां सोऽयमादेशकारी  
शमयति परितापं सम्मुखस्सर्वजन्तोः।  
शतगुणपरिणामस्सन्निधौ यस्य नित्यं  
वरवितरणभूमा वारणाद्रीश्वरस्य॥८॥  
काञ्चीभाग्यं कमलनिलया चेतसोऽभीष्टसिद्धिः  
कल्याणानां निधिरविकलः कोऽपि कारुण्यराशिः।  
पुण्यानां नः परिणति रसो भूषयन् भोगिशय्यां  
वेगासेतुर्जयति विपुलो विश्वरक्षैकहेतुः॥९॥  
वेगासेतोरिदंस्तोत्रं वेङ्कटेशेन निर्मितम्।  
येपठन्ति जनास्तेषां यथोक्तं कुरुतेहरिः॥१०॥

इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य  
वेदान्ताचार्यस्य कृतिषु यथोक्तकारिस्तोत्रं संपूर्णम् ॥  
कवितार्किकसिंहाय+वेदान्तगुरवे नमः ॥

<MISSING_FIG href="../books_images/U-IMG-172386488930.png"/>

**॥ दिव्यसूरिस्तोत्रम् ॥**

श्रीमान्वेङ्कटनाथार्यः कवितार्किककेसरी।  
वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि॥  
श्रीमल्लक्ष्मणयोगीन्द्रसिद्धन्तविजयध्वजम्।  
विश्वामित्रकुलोद्भूतं वरदार्थमहं भजे॥

पर्यायभाष्यकाराय प्रणतार्तिं विधून्वते।  
ब्रह्मतन्त्रस्वतन्त्राय द्वितीयब्रह्मणे नमः॥  
श्रीमद्वेदान्तसिद्धान्तस्थापनानित्यदीक्षितम्।  
श्रीमन्नारायणं वन्दे भान्तं सूरिगुरूत्तमैः॥१॥  
तुलायां श्रवणेजातं कांच्यां काञ्चनवारिजात्।  
द्वापरे पाञ्चजन्यांशं सरोयोगिनमाश्रये॥२॥  
तुलाश्रविष्ठासंभूतं भूतं कल्लोलमालिनः।  
तीरेफुल्लोत्पलान्मल्लापुर्यामीडे गदांशकम्॥३॥  
तुलाशतभिषग्जातं मयूरपुरकैरवात्।  
महान्तं महदाख्यातं वन्दे श्रीनन्दकांशकम्॥४॥  
मखायां मकरेमासे चक्रांशं भार्गवोद्भवम्।  
महीसारपुराधीशं भक्तिसारमहं भजे॥५॥  
वैशाखेतु विशाखायां कुरुकापुरिकारिजम्।  
पाण्ड्यदेशेकलेरादौ शठारिं सैन्यपं भजे॥६॥  
चैत्रेचित्रासमुद्भूतं पाण्ड्यदेशेगणांशकम्।  
श्री परांकुशसद्भक्तं मधुरं कविमाश्रये॥७॥

कुम्भेपुनर्वसुभवं केरले चोलपट्टणे।  
कौस्तुभांशं धराधीशं कुलशेखरमाश्रये॥८॥  
ज्येष्ठे स्वातीभवं विष्णुरथांशं धन्विनःपुरे।  
प्रपद्ये श्वशुरं विष्णो र्विष्णुचित्तं पुरश्शिखम्॥९॥  
आषाढे पूर्वफल्गुन्यां तुलसीकाननोद्भवाम्।  
पाण्ड्ये विश्वम्भरां गोदां वन्दे श्रीरङ्गनायकीम्॥१०॥  
कोदण्डे ज्येष्ठनक्षत्रे मण्डङ्गुडिपुरोद्भवम्।  
चोलोर्व्यां वनमालांशं भक्ताङ्घ्रिरणुमाश्रये॥ ११ ॥  
कार्तिके रोहिणीजातं श्रीपाणं निचुलापुरे।  
श्रीवत्सांशं गायकेन्द्रं मुनिवाहनमाश्रये॥१२॥  
कार्तिके कृत्तिकाजातं चतुष्कविशिखामणिम्।  
षट्प्रबन्धकृतं शार्ङ्गमूर्तिं कलियमाश्रये॥ १३ ॥  
ज्येष्ठेऽनुराधासंभूतं वीरनारायणेपुरे।  
गजवक्त्रांशमाचार्यमाद्यं नाथमुनिं भजे॥ १४ ॥  
आषाढेचोत्तराषाढासंभूतं तत्र वैपुरे।  
सिंहाननांशं विख्यातं श्रीयामुनमुनिं भजे॥१५॥  
चैत्रार्द्रासंभवं विष्णोर्दर्शनस्थापनोत्सुकम्।  
तुण्डीरमण्डले शेषमूर्तिं रामानुजं भजे॥१६॥  
तुलायां वेङ्कटाद्रौ तु पूर्वाषाढासमुद्भवम्।  
कुरुकेशं प्रचण्डांशं वन्दे श्रीशैलपूर्णजम्॥१७॥

चैत्रे चित्रोद्भवं कांच्यां देवराजगुरोस्सुतम्।  
सुभद्रांशं महोदारं वरदं गुरुमाश्रये॥१८॥  
चैत्रार्द्रासंभवं कांच्यां सुप्रतिष्ठांशमद्भुतम्।  
वन्दे रामानुजार्यं श्रीनिगमान्तगुरोर्गुरुम्॥ १९ ॥  
नभस्यमासिश्रोणायामनन्तार्यगुरुद्भवम्।  
श्रीवेङ्कटेशघण्टांशं वेदान्तगुरुमाश्रये॥२०॥  
श्रावणेमासिरोहिण्यां जातं वेङ्कटदेशिकात्।  
विश्वामित्रान्याब्धीन्दुं वरदार्यमहं भजे॥२१॥  
ब्रह्मतन्त्रस्वतन्त्रोक्तां दिव्यसूरिवरस्तुतिं।  
यःपठेत्प्रातरुत्थाय सभवेद्वैष्णवोत्तमः॥२२॥  
आचार्यानुग्रहात्सद्य स्सर्वपापैः प्रमुच्यते।  
दृष्टे मनोरथान्प्राप्यत्वदृष्टे मोक्षमाप्नुयात्॥२३॥

इतिकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य  
वेदान्ताचार्यस्य कृतिषु दिव्यसूरिस्तोत्रं सम्पूर्णम्॥

कवितार्किकसिंहाय कल्याणगुणशालिने।  
श्रीमते वेङ्कटेशाय वेदान्तगुरवे नमः॥  

<MISSING_FIG href="../books_images/U-IMG-1724779251Capture1.JPG"/>  

**॥श्रीमद्वेदान्तदेशिकमङ्गलाशासनम्॥**

श्रीमान्वेंकटनाथार्यः कवितार्किककेसरी।  
वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि॥  
श्रीमल्लक्ष्मणयोगीन्द्र सिद्धान्तविजयध्वजम्।  
विश्वामित्रकुलोद्भूतं वरदार्यमहं भजे॥

सर्वतन्त्रस्वतन्त्राय सिंहाय कविवादिनाम्।  
वेदान्ताचार्यवर्याय वेङ्कटेशाय मङ्गल्म्॥१॥  
नभस्यमासिश्रोणायाभवतीर्णायसूरये।  
विश्वामित्रान्वयायास्तु वेङ्कटेशायमङ्गलम्॥२॥  
पितायस्यानन्तसूरिः पुण्डरीकाक्षयज्वनः।  
पौत्रोयस्तनयस्तोतारांबायास्तस्य मङ्गलम्॥३॥  
वेङ्कटेशावतारोऽयं तद्बण्टांशोऽथवाभवेत्।  
यतींद्रांशोऽथवेत्येवं वितर्क्यायास्तु मङ्गलम्॥४॥  
श्रीभाष्यकारः पंथानमात्मनादर्शितं पुनः।  
उद्धर्तुमागतोनून मित्युक्तायास्तु मङ्गलम्॥५॥  
यो बाल्येवरदार्यस्य प्राचार्यस्यपरां दयाम्।  
अवाप्यवृद्धिंगमितस्तस्मै योग्याय मङ्गलम्॥६॥  
रामानुजार्यादात्रेयान्मातुलात्सकलाः कलाः।  
अवापविंशत्यब्देयस्तस्मै प्राज्ञाय मङ्गलम्॥७॥  
श्रुतप्रकाशिकाभूमौ येनादौ परिरक्षिता।  
प्रवर्तिताच पात्रेषु तस्मै श्रेष्ठाय मङ्गलम्॥८॥

सांस्कृतीभिर्द्रामिडीभिर्वह्नीभिः कृतिभिर्जनान्।  
यस्समुज्जीवयामास तस्मै सेव्याय मङ्गलम्॥९॥  
यःख्यातिलाभपूजासुविमुखो वैष्णवेजने।  
क्रयणीयदशांप्राप्तस्तस्मै भव्याय मङ्गलम्॥१०॥  
यस्मादेव मया सर्वं शास्त्रमग्राहिनान्यतः।  
तस्मै वेङ्कटनाथाय मम नाथाय मङ्गलम्॥११॥  
पित्रे ब्रह्मोपदेष्ट्रे मे गुरवे दैवतायच।  
प्राप्याय प्रापकायास्तु वेङ्कटेशाय मङ्गलम्॥१२॥  
यःकृतं वरदार्येण वेदान्ताचार्य मङ्गलम्।  
आशास्तेऽनुदिनं सोऽपि भवेन्मङ्गलभाजनम्॥१३॥  
भाद्रपदमासगत विष्णुविमलर्क्षे वेङ्कटमहीध्रपतितीर्थदिनभूते।  
प्रादुरभवज्जगतिदैत्यरिपुघण्टाहंतकवितार्किकमृगेन्द्रगुरूमूर्त्या॥१४॥  
सशङ्खचक्रलांछनस्सदूर्ध्वपुंड्रमंडित-  
स्सकण्ठलग्नसत्तुलस्यनर्घपद्ममालिकः।  
सितान्तरीयसूत्तरीय यज्ञसूत्रशोभितो  
ममा विरस्तुमानसे गुरु स्सवेङ्कटेश्वरः॥१५॥  
अनन्तसूरिसूनवेऽभिनन्द्यमानवैभवा-  
दिगन्तवादिहंसजैत्रकालमेघदेशिकात्।  
उपात्तसर्वशासनायहंतवर्षिविंशतौ  
पुनःपुनर्नमस्क्रियास्तु वेङ्कटेशसूरये॥१६॥

गुरौवादिहंसाम्बुदाचार्यशिष्ये जना भक्तिहीनायतीन्द्राप्रियास्स्युः।  
यतीन्द्राप्रियाविष्णुकारुण्यदूराः कुतोमुक्तिवार्ताहितादृग्विधानाम्॥

इति नयिनाचार्य कृतिषु श्रीमद्वेदान्तदेशिकमङ्गलाशासनं संपूर्णम्॥

<MISSING_FIG href="../books_images/U-IMG-172386022130.png"/>  

**॥ श्रीमद्वेदान्तदेशिकप्रार्थनाष्टकम् ॥**

श्रीमल्लक्ष्मणयोगीन्द्रसिद्धान्तविजयध्वजम्।  
विश्वामित्रकुलोद्भूतं वरदार्यमहं भजे॥

त्रयीचूडागुरोस्वामिन् कृपाम्भोराशिनात्वया।  
विज्ञापनं मामकीनं श्रोतव्यं श्रितवत्सल॥१॥  
त्रय्यंतार्यभवत्पादपङ्केरुहजुषां सतां।  
स्वयंमयिसदा भूयादनुग्रहपरंपरा॥२॥  
श्रीसंयमीद्रसिद्धान्तनिधिरक्षैकदीक्षित।  
नियतं कुरुदासं मां सर्वतन्त्रस्वतन्त्रते॥३॥  
ज्ञानभक्त्यादि सत्सम्प्रदायिन्यानुकम्पया।  
स्यादसावितिवीक्षस्ववेदान्ताचार्यवर्यमाम्॥४॥  
श्रीवेङ्कटेशघण्टात्मन् यतींद्रशठजित्प्रिय।  
रहस्यत्रयसारोक्तां निष्ठां श्रेष्ठां प्रयच्छमे॥५॥  
त्वत्कृतिष्वागमान्तार्य सम्यक्कृतपरिश्रमैः।  
नित्ययोगा महाभागैस्त्वदेकान्तिभिरस्तुनः॥६॥  
कदाचिक्वापिकेनापि कवितार्किकसिंहमां।  
श्रीकान्ततत्पराचार्येष्वप्रसक्तागसंकुरु॥७॥

श्रीमद्वेङ्कटनाथार्य त्वदीय चरणद्वयम्।  
भवत्वत्रपरत्रापि मदीयं शरणं सदा॥८॥  
सादरं व्याहरेदेतत्प्रत्यहं प्रार्थनाष्टकम्।  
वेदान्ताचार्यपादाब्ज भक्तिरत्नाकरोभवेत्॥९॥  
जयतिश्रुतिचूडार्यश्श्रीमानद्भुतचन्द्रमाः।  
सकलायत्र हि कला निर्मला नित्यपुष्कलाः॥१०॥

इति श्रीनयिनाचार्यकृतिषु श्रीमद्वेदान्तदेशिकप्रार्थनाष्टकं संपूर्णम् ॥

<MISSING_FIG href="../books_images/U-IMG-172386453230.png"/>  

**॥श्रीमद्वेदान्तदेशिकदिनचर्या॥**

श्रीमल्लक्ष्मणयोगींद्रसिद्धान्तविजयध्वजम्।  
विश्वामित्रकुलोद्भूतं वरदार्यमहं भजे॥

काञ्चीपुरीयस्य हि जन्मभूमिर्विहारभूर्वेङ्कटभूधरेन्द्रः।  
वासस्थली रङ्गपुरीतमीड्यं श्रीवेङ्कटेशं गुरुमाश्रयामः॥१॥  
संभावनायस्य हि कालकूटस्सभा भुजङ्गीकुणपं तरुण्यः।  
स्याद्रौरवंराजगृहं सजीयाच्चिरं गुरुर्वेङ्कटनाथनामा॥२॥  
यः प्रातरभ्येत्यहरिंशुचीनि द्रव्याण्युपादाय शुचिःकृतेज्यः।  
स्वाध्याययुक्तो निशि योगरूपां निद्रां समारोहति तं नतास्स्मः ॥३॥  
यामेतुरीयेयतवाग्रजन्या विहायशय्यां विहितांङ्घ्रिशुद्धिः।  
योऽत्यादरेणास्थितयोगशेषस्तं वेङ्कटेशं गुरुमानमामः॥४॥

ततोऽनुसन्धायततिंगुरूणां तं चापि देवं रमणं रमायाः।  
तत्कालयोग्यानि तथा विधानि हृद्यानि पद्यानि पठन्तमीडे॥५॥  
उत्थायगेहादुपगम्यरम्यां कवेरकन्यां कलितांंङ्घ्रिशुद्धिः।  
ततोविशोद्ध्याप्सुनिमज्यशुभ्रं वस्त्रं वसानन्तमहं स्मरामि॥६॥  
धृत्वोर्ध्वपुण्ड्राणि सरोज बीजमालामवन्ध्यां समुपास्यसन्ध्याम्।  
सावित्रमीशं सवितुः पुरस्तात् स्तुवन्तमेकाग्रधियास्तुवेतम्॥७॥  
ततस्तुपूर्वाह्निक नित्यकर्मनिर्वत्यनित्येष्ट निवृत्तिमार्गः।  
श्रीरङ्गधामोपसमेत्यसेवाक्रमेण रङ्गेश्वरपादमूलम्॥८॥  
प्राबोधिकीभिः प्रतिबोध्य गीर्भिः प्रसाद्य तद्वद्यमुखैः प्रबन्धैः।  
आशास्यतन्मङ्गलमाप्तवाक्यैरापादचूडं कलयन्तमीडे॥९॥  
तीर्थप्रसादादिकमत्रलब्ध्वा विज्ञाप्यदेवाय ततोविसृष्टः।  
शनैरुपेत्याश्रमकल्पमात्मगृहं सुखासीनमहं स्मरामि॥१०॥  
व्याख्यानशालामुपगम्यचाथो शिष्याननन्यान् श्रवणाभिमुख्यान्।  
संग्राहयन्तं सकलानि तन्त्राण्यतंद्रितं तं गुरुनाश्रयेऽहम्॥११॥  
तास्संस्कृतद्रामिडदिव्यसूक्तीः प्रसन्नगंभीरतयाप्रसिद्धाः।  
तत्तद्रुचिभ्यस्तनयाविशेषं प्रणौमिदान्तं प्रतिपादयन्तम्॥१२॥  
शिष्यैरुपादानपरैरनन्यैस्समर्पितं भक्तिपुरस्सरं यत्।  
तेनैवशुद्धेनयथोदितेनतुष्यंतमीडे तुषतुल्यरुक्मम्॥१३॥  
इत्थं ह्युपादायच शास्त्रशिक्षां तां चाप्युपादानपदेनिवेश्य।  
माध्याह्निकं कर्मसमाप्य पश्चाद्वन्दे यजन्तं वरदं सदारम्॥१४॥

अतस्करग्राह्यपवित्रपात्रैरनिंद्रियोन्मादकरैर्हविर्भिः।  
आराध्य देवं कमलासहायमाराधये तं विहितानुयागम्॥१५॥  
यामे चतुर्थे निहतारिवर्गं प्रबन्धनिर्माणविलोकनाद्यैः।  
तथा पुराणाद्यवलोकनैश्च कालं क्षिपन्तं कलये गुरु तम्॥१६॥  
सायन्तनं कर्म समाप्य पश्चात्समेत्यच श्रीवरदाह्वयस्य।  
सहान्तरङ्गैः कुलदैवतस्य समीपमारात्प्रणतं स्मरामि॥१७॥  
आशास्यचास्मै बहुमङ्गलानि तैस्तैः प्रबन्धैश्च तदीयपंक्तीः।  
स्तुत्वैकतानं प्रतिगृह्यतीर्थ प्रसादमेनं कृतकृत्यमीडे॥१८॥  
अथान्तरङ्गैरुपदेवगेह मध्यास्य पीठं सरसैर्वचोभिः।  
तेषां सुसूक्ष्मार्थविशेषशिक्षां कुर्वाणमीडेमहि वेङ्कटेशम्॥१९॥  
शिष्याननुज्ञाप्य सुसूक्ष्मबुद्धीन्कृतप्रणामान्कृपयागृहेभ्यः।  
अध्यास्य शुद्धं शयनीयमत्रयोगाय सन्नद्धमहं स्मरामि॥२०॥  
हृत्पुण्डरीके वरदं सदारं निवेश्य तत्पादसरोजयुग्मे।  
आबद्ध्य चित्तं सुसुखं शयानमाराधये देशिकमस्मदीयम्॥२१॥  
योगस्वरूपामनुभूय निद्रां यामे तुरीये प्रतिबुध्यभूयः।  
स्वस्वामिभावाकलनात्मयोगं भजे भजन्तं गुरुवेङ्कटेशम्॥२२॥  
इत्येवमेतामिह सर्वतन्त्रस्वतन्त्रवेदान्तगुरुत्तमस्य।  
नित्याभिजप्यां शुभनित्यचर्यां जयंति येते दुरितं तरंति॥२३॥

इति नयिनाराचार्य कृतिषु श्रीमद्वेदान्तदेशिकदिनचर्या संपूर्णा ॥

<MISSING_FIG href="../books_images/U-IMG-172396062930.png"/>

**॥ श्रीमद्वेदान्तदेशिकप्रपत्तिः ॥**

श्रीमल्लक्ष्मणयोगीन्द्रसिद्धान्तविजयध्वजम्।  
विश्वामित्रकुलोद्भूतं वरदार्यमहं भजे॥

विद्वन्मतं गजशिखाभरणायमानौ विश्वातिशायि महिमांबुनिदानभूतौ।  
विद्वेषिवादिमकुटीकृतकुट्टनोतौ वेदान्तसूरिचरणौ शरणं प्रपद्ये ॥ १॥  
विश्वंभरामतितरामपिभासयन्तौ विन्यासतो विविधसज्जनतानुभाव्यौ।  
विस्तारसंसृतिमहार्णवकर्णधारौ वेदांत ०॥२॥  
विश्वांतरांधतमसक्षपणप्रवीणौ विद्योतमान नखरेंदुमयूखजालैः।  
विख्याततामरसशङ्खरथांगचिन्हौ वेदांत ०॥३॥  
विद्वेषमानमदमत्सरविद्विषौयौ विष्ण्वालयानुगमनोत्तमनित्यकृत्यौ।  
वेदांतवृद्धविहिताञ्जलिगोचरौतौ वेदान्त ०॥४॥  
विष्ण्वर्पितात्मजनभाग्यविपाकभूतौ विभ्राजमाननवकोकनदानुकल्पौ।  
वेषांतरोपगतपल्लवतल्लजौतो वेदान्त ०॥५॥  
वेधोमुखैरपि सुरैर्विहितप्रणामौ वेलातिलङ्घिसुषुमासुकुमारभावौ।  
विस्मेरकेसरलसन्मृदुलांगुलीकौ वेदान्त०॥६॥  
विद्रावितोद्भटविकाररजोगुणौतौ विख्यातभूरिविभवेन रजःकणेन।  
विश्वोपकारकरणायकृतावतारौ वेदान्त०॥७॥  
विष्ण्वङ्घ्रिनिर्गतसरित्प्रवरानुभाव्यौ विद्याविनीतजनितैर्विमलैरस्वतीर्थेः।  
व्यानम्रशिष्यजनरक्षणजागरूकौ वेदान्त ०॥८॥  
वीथीषुरंगनगरेकृतचंक्रमौतौ विष्णूत्सवेषु विधिवासवसेवितेषु।  
विद्याविनीतजनताविहितानुसारौ वेदान्त०॥९॥

विश्वासविष्णुपदभक्तिविरक्तिशून्यं विभ्रष्टकृत्यमपिमां विषयेषुसक्तम्।  
विद्वत्सभानुगतियोग्यमिहादधानौ वेदांत ०॥१०॥

इति श्रीनयनांराचार्यकृतिषु श्रीमद्वेदान्तदेशिकप्रपत्तिः संपूर्णा ॥

<MISSING_FIG href="../books_images/U-IMG-172387225530.png"/>  

**॥ आदिवण् शठवैरिमङ्गलम् ॥**

श्री श्रीनिवासयतिराण्नारायणमुनीश्वरौ।  
वीरराघववेदान्त यतीन्द्रमपि संश्रये॥१॥  
कन्याज्येष्ठावतीर्णाय कारुण्यात्कमलापतेः।  
आदिवण्शठकोपाख्ययतीन्द्रायास्तु मङ्गलम्॥२॥  
साक्षाच्छठारिर्योगीन्द्रः समाहूय स्वनामतः।  
पाञ्चजन्यादिकं यस्मै दत्तवांस्तस्य मङ्गलम्॥३॥  
अहोबिले श्रीनृसिंहः प्रैषमन्त्रं स्वयं ददौ।  
योगिरूपेण यस्यास्मै शठकोपाय मङ्गलम्॥४॥  
भाष्यकारः पुनर्भूमौ भाष्यप्रवचनादरात्।  
यद्रूपेणाभवत्तस्मै शठकोपाय मङ्गलम्॥५॥  
रहस्यत्रयसाराख्य राकाचन्द्रस्य वारिधिः।  
वेदान्तदेशिकः सोऽयमेवं तर्क्याय मङ्गलम्॥६॥  
श्रीनृसिंहदयादत्त श्रीमदास्थान वारिधेः।  
अकलङ्कः कलानाथो यस्तस्मै नित्यमङ्गलम्॥७॥  
श्रीवैष्णवसमाजस्य श्रीसमाख्यात संपदः।  
कारणं योऽभवत्तस्मै शठकोपाय मङ्गलम्॥८॥

लक्ष्मीनृसिंहकरुणालक्ष्मीविहरणोचितः।  
य आदिशठकोपाख्यस्तस्मै भवतु मङ्गलम्॥९॥  
यन्मङ्गलाशासनेन यच्छन्मङ्गलमन्वहम्।  
श्रीनृसिंहः संचरति तस्मै भवतु मङ्गलम्॥१०॥  
यत्कटाक्षेण सर्वेऽपि यत्स्थानागतयोगिनः।  
श्रीनृसिंहदयापूर्णा स्तन्मुनेर्मङ्गलं सदा॥११॥  
यच्छिष्याग्र्यो वैदिकानां सार्वभौमत्वमेत्य च।  
रत्नाकारादीन्कृतवांस्तन्मुनेर्मङ्गलं सदा॥१२॥  
नारायणमुनीन्द्राख्यो यच्छात्रो यत्कृपावशात्।  
षष्ठिप्रबन्धनिर्माता खल्वस्मै मङ्गलं सदा॥१३॥  
श्रीशठारियतीन्द्रादियोगिहृत्पद्मभानवे।  
सर्वत्र परिपूर्णायाहोबिलेशाय मङ्गलम्॥१४॥  
पराङ्कुशमुनीन्द्रेण भक्त्यास्मै मङ्गलं कृतम्।  
यःपठेत्सभवेद्धन्यः श्रीनृसिंहकृपावशात्॥१५॥  
श्रीरामानुजसिद्धान्त निर्धारणधुरन्धरः।  
आदिवण्शठकोपाख्य यतीन्द्रो जयतात् भुवि॥१६॥

इति श्रीमदहोबिललक्ष्मीनृसिंहमहामठदिव्यस्थानैकविंशपट्टमूर्धाभिषिक्तानां  
श्रीमद्वेदमार्गप्रतिष्ठापनाचार्यपरमहंस परिव्राजकाचार्यसर्वतन्त्रस्वतन्त्रोभयवेदान्ताचार्य  
श्रीभगवद्रामानुजसिद्धान्तनिर्धारण सार्वभौमश्रीवण्शठकोपश्री परांकुशयतीन्द्रमहादेशिकानां  
कृतिषु आदिवण्शठकोपयतीन्द्रमहादोशिकमङ्गलम्॥

<MISSING_FIG href="../books_images/U-IMG-172387287230.png"/>

**॥ श्रीमदादिशठवैरिगद्यम् ॥**

श्रीश्रीनिवासयतिशेखरलब्धबोधं श्रीरङ्गनाथयतिवर्यपदाब्जभृङ्गम्।  
श्रीवीरराघवमुनिश्रुतिमौलिसूरि श्रीनाथभक्तिभरिताशयमाश्रयामः॥  
नमो वण्शठकोपाख्यगुरवे यतिभूभृते।  
रामानुजार्यसिद्धान्तनिर्धारणपटीयसे॥

 जयजयदेशिक! महादेशिक! महायोगिधौरेय! स्वामिन्! निखिलहरिदन्तरविख्यात-श्रीमदादिवण्शठवैरिनामधेय! परमपुरुषचरणनलिनैकान्त-जनसुविधेय! निखिलविबुधहृदय-कमलसतताधेय! दुर्विनीतकदर्थविषयवृत्ति-कथकपरिषद समाधेय! अधिजिगमिषितमुक्तिपथ विबुधजनभागधेय! अखिलजगदुदयविभवनिलयनटनपटि- मघटितनिखिलनिगमनिचयशिखर-परिषदनवरतनिरत सततविधुतदुरितविततिवितत सुकृतनिकर सनकमुखनिखिलमुनिजन-हृदयकमल कुहरविहरदमरवरहरमुख सुरविनुतनर-हरिचरणकमलयुगल परिचरणनिरत! अप्रतिमनिजमहिमगरिमसमवलोकन समयसमुदयदनवधिकभक्तिविवश मुनिजनपद नलिन विनतिचटुलनरपरिवृढ-विकटमकुटतटघ- टितमणिगणकिरणनिकरनीराजित! अनुपमशमद-ममुख प्रगुणगुणभू- षणसमलंकृत! अविरतनिजसंराधनसमृद्धिसमुत्कण्ठित हृदय सदकुण्ठ- महिमवैकुण्ठनृकण्ठीरवकण्ठोच्चारितप्रेषमनूच्चारणमहिमसमधिगतस कलसंयमि सार्वभौम-भावसमुद्भासित! अपरिमितप्रमोदभरभरितहृदयसायंसमयनटनप्रकटपाटव-घटितमृडम कुट-तटविलुण्ठदुडुपारवृढनिः सरदमृतसरपरिष्वङ्ग-विलसदतिबहुलहरि-चरणतरङ्गिणीपयःपूरतरङ्ग -

संघडम्बरविडम्बकनिजफणितिविराजित! अनवरतदूरीकृतदुरितसुरीभवदनघशारीरक-निपुण-सूरीडितचरणगौरीपतिविभवदूरीकृतिनिपु णभेरीनिनदकरनारीजनविजय कारीक्षुचरम दहारीरितमहितहारीतक शुकवचोरीति सरणि सुपारीणच टुलचकोरीशशिकर समूरीकृतवचन! शीतोदक प्रसृमरवाताद्दलच्चरजलजातोद्गलन्मधुर सजातोपमप्रतिकवि चेतोदरप्रदरस-भूतोलसन्निजकविता तोषिताखिलनत भूतोर्जितावनपरि भूतोन्मदासुरगुण-जातोत्कनज्जलनिधि-जातोत्सुकाशय सुविनीतोपक्लृप्तिरचन! चिरकलितनानाविधदुरितपीनात्मक दुरभिमानालय-विमलमानाद्यखिलधनलूनानघबुधवितानाभिमतनयहीनार्थरुचिगुणहीनानवर- तविदूनागमशिख-विमानाखिलमुनिविगानाकलनपर जैनावलिकलित नानाविधकलहजिष्णो! श्रीकामुकविमुखधी-काटव कलुषलोकायतिक- मतकोकावलिसततशोकाकलनविधिराकाशशि सदृगने कार्जितविधिना- काधिपविनुतिमूकायितविधुतनाकानुभव रुचि भीकानिशविनतलोकाशुभ भिदवलोकान्वितभगवदेकान्तिसुकृतविपाकायितजनन! अनितरनृसामान्य महिमासी माग मनिपुणधीमानितनिगम सामान्यपरिनुत नामाभिलपनसुभूमाभियुतचित-धामावलिसदृश-धामान्वितजलधिजा मातृगुणनुतिकामाभिविघटक कौमारिलमतवचोमानक कुमतिभीमात्ममति-कृतवैमानिकमहितधीमानशमनदसोमाननसुभग! भगवद्भा ष्यकारसंप्रदायपदवीधुरन्धर चतुःसप्ततिपीठाधिपश्रीमद्वैष्णव भूभृन्मण्डलसमभ्यार्चितनिजांघ्रिपङ्केरुह! अखण्डभूमण्डल-कण्टकसमुद्दण्डपाषण्डद्रुमषण्डखण्डन प्रचण्डत्रिदण्ड काण्डप्रकाण्डकृतमण्डनार्नजभुजदण्ड! निजनिगरनिबिडदेवतान्तरनिलय संबाधसंकट-प्रशमनपरितो-

षित हृदयशठमथनमुनिपुङ्गवदत्तश्रीमंनृसिंहमठाधिपत्यनिर्वहणचिह्नहंसमुद्रापरिशोभितकरकमल ! श्रीरङ्गयदुगिरिकुरुकापुरीप्रमुख दिव्यस्थलप्रतिष्ठापित निगमान्त गुरुसन्निधिसमवलोकन संजातहर्षनिखिल श्रीवैष्णव भूभृन्मण्डलवितीर्णभगवद्रामानुज संप्रदाय प्रतिष्ठापकाचार्य बिरुदावलीसमुद्भासित! निजचरणनलिनसंश्रितवैदिकसार्वभौमविद्वदग्रेसरविरचितस्मृतिरत्नाकर सुधीविलोचनदशनिर्णय प्रमुखधर्मशास्त्रविषयग्रन्थजातमूलकनित्यनैमित्तिक काम्यकर्मानुष्ठेयत्व-प्रकारविवेकलाभजनितसन्तोषजलधिसमज्जन सज्जन कलितनुतिवचनमुखरितदशादि शावकाश! निगममकुट परिषदतिनिगूढार्थ प्रकाशन समुद्युत्क सन्ध्यावन्दनभाष्यसत्संप्रदाय-सारभाष्यो-ल्लासप्रमुख षष्ठिप्रबन्धनिर्माणचतुर समुदग्रतपोमहिमसमधिगतनिस्तुल प्रभावदुष्प्रेक्षनिजरूप-समुल्लसित श्रीमन्नारायणसंयमि सार्वभौमपरिचरित पदकमल! कमलनयनचरणनलिन-प्रपदनमहिमप्रकटनप्रकटपाटव निखिलनिगम संकट प्रशमनपटु विशंकट धिषणवेङ्कटनाथ सार्वभौमप्रभृत्यनुमोदित भगवद्भाष्यकारपरि गृहीतभगवच्छास्त्रचोदितविष्णुधर्मार्थ माठाधिपत्य साम्राज्यलक्ष्मीसंलक्षित! अनवरत कलितनिरतिशयश्रद्धा विशेष प्रष्ठक संराधनप्रीतभगवन्नरहरि-करुणापरिवाहलम्भितनिःसीमोद्दामवैभव! अतिकुहकबाह्यकथककुलरंभावननिर्मथन गन्धसिन्धुर भगवद्रामानुजसंयमिसार्वभौमवि जयस्थानभूतयदुगिरिशिखरशेखर भगवन्नारायण दिव्यमन्दिर परिष्कारभावविलसद भ्रंकषविविधविचित्रदर्शनीयस्फाटिकप्रतिमोदभासित गोपुरप्राकारनिकर-निर्माणप्रयास प्रहर्षित परमैकान्तिपरिषद सकृदुपगीयमाननिरुपमयशोविततिमुक्तासरभूषित दिक्सुन्दरीमणिगण! प्रभात -

समयवद्भुवनजातोल्लासक! प्रसूननिकरवद्भ्रमरहित! प्रमाणस्वरूपवदसदर्थसाधनविधुर! प्रकाशवत् परमतमोहनिवर्तन! प्रयाजवच्छेव्युपकारभावलसित! प्राणवत्स्वाधीन सर्वकरणक! प्राणपादवदिंद्रियग्रामवैभवनिरासक! प्रकरणवत्स्वसान्निध्यव्यक्तश्रुतिप्राबल्यक! व्याकरणाधि-करणवत्साधुशब्द प्रामाण्यप्रसाधनपर! व्याकरणवन्नानादेश पुरुषप्रत्ययकारकाख्यातनाम गुणक! ठकाराद्यनुबन्धवदागमभावव्यञ्जक! अनेकाल्वत्सर्वादेश भावावह! न्यायशास्त्रवत् भूयोदर्शनव्याप्युपाधिवादशोभित! व्याप्तिवादवत् साकल्यलक्षणविराजित! मीमांसाशास्त्रवद-पूर्वार्थसाधननिपुण! प्रोक्षण्यधिकरणवत् प्रकटितयोगोत्कर्ष! शारीरकशास्त्रवदुपपनिषद-भिमतार्थप्रतिपादनधूर्वह! जन्मा- द्यधिकरणवत्ब्रह्मलक्षणविचारतत्पर! महाभारतवत्प्रथितधर्मजात-वैभव! रामायणवत्प्रपञ्चित-भूतनयाशय! भागवतवत्अक्रूरवचनोत्कर्षशोभित! विष्णुपुराणवत्त्विनत-प्रह्लादजनकदानप्रकाशक! उत्तमपुरुषलोचनवच्छ्रुत्यन्तविश्रान्त! चतुर्मुखवदनवरत सत्यासक्त! यक्षा- ध्यक्षवत्प्रकटितसर्वज्ञभाव! महेन्द्रवत् विपुलामरहितप्रवृत्त! कुहनामत्स्यवन्निखिल-निगमनानायासशोभित! कूर्मवन्मन्दरागधर! महावराहवत्संश्रितविपुलानन्दकारक! मायामृगेन्द्रवत्संश्रितप्रह्लादक! वञ्चनावटुवत्प्रथितरसाभिलाष! भार्गववत्विपुलाधिपापहतिदक्ष! दाशरथिवत्प्रबलभूतनयानुकम्प! हलधरवद्धलपराजित पर महिमक! मायागोपवत् विहित धर्मजातादर! कल्किवत् कलिगतिभङ्गकारक! वकुलभूषणमुनिपुङ्गववत्गरमहितकारि-भावोल्लासित! भगवद्भाष्यकारवत्लक्ष्मणार्यभावावह! त्रय्यन्तगुरुवत् अनन्तसूरिप्रमोदजनक!

द्विजराजभावोल्लासितत्वेऽपिभुवनजातोल्लासक! लोक बंधुत्वेऽपिसदनुकूलस्वभाव! अनलाभिख्यत्वेऽपि सदाश्रयसंवर्धक! कवित्वेऽपि गुर्वादरणान्वित! विनतानंदनत्वेऽपि-समुल्लासिताहीनकुल! क्षमाभृत्त्वेऽपि विपुलाशारहित! अचलस्वभावत्वेऽपि सदागतिकुतूहल! बहुशाखाधिगमशोभितत्वेऽपिपल्लवाश्लेषविधुर! सुमनस्त्वेऽपिविधुतमधुपसंग! सर्वज्ञत्वेऽपि-भवप्रत्यर्थिभूत! विबुधाध्यक्षत्वेऽपि सपक्षीकृतक्षमाभृद्वर्ग! उदयगिरिशिखरशेखर-तरणिकिरणपरिष्वङ्गविकसदतिमृदुलनलिनसदृशनिजचरणयुगलललित! विनतजनसंघाल-द्युदुरितसंघात धुतिसृतिज- ङ्घालसुललितजङ्घायुगलसित! किंशुककुसुमरुचिजालरुचिरकषायचे- लवरविराजितकटितट! अनघमुनिजनप्रशंसनीय दर्शनीय महनीयतुलसीनलिनाक्षमाला-परिशोभितवक्षःस्थल! भगवत्पराशरपाराशर्यप्रमुख महर्षि कुल संप्रदायपथबाधावह निखिलकुमति-गणबन्धनसूत्रत्रा यितयज्ञोपवीत परिशोभित! त्रयीधर्मविलोपककाणादशाक्यपाषण्डदण्डनोचित काण्डायितत्रिदण्डमण्डितश्रुतिविततिवल्युपघ्नायिनिज भुजदण्ड! कुन्दको कबृन्दसदृशमन्दहास संगरुचिरदर्शनीयदन्तविततिसुन्दर! शारदतुहिनकर सदृशनिजवदनविल-सदूर्ध्वपुण्ड्रमण्डित-निजनिटालक! अनवरतकलितकोमलचारुशिखाबन्धसमुद्भासित! निजजनुरुडुवरवास-भूसुरवरभारूपनिजनिकट समुपगतशठमथन मुनिप्रवरविमलतरहृदय-विवशवशीकरण-चणनिखिलजगन्मोहनचतुरनिर तिशयनिजविग्रह सौदर्यसमुङ्गसित भगवदपर्याप्त मृत निरवधिककटाक्ष समुज्जृम्भितनिष्प्रतिममहिममहाश्रव! अतिसरल सरलवकुलमुकुल- परिमलमिलदनिलतरलनलिनकुवलय वलय गलदधिकमधुरमधुरसम

दहरणनिपुणराघवसुमनोवरकलितनुतिवचनचातुरिरञ्जितहृदय! निजविरचितग्रन्थजातप्रवर्तन-सन्तोषित निगमान्तदेशिक! अनवरतशिश्रूषितकेशवदेशिक! अखिलहेयगुणवैदेशिक! श्रीमदादिवण्शठारिमहादेशिक ! नमस्ते नमस्ते ! नमस्ते ॥

हृद्यं गुणाढ्यमिह वण्शठवैरिंगद्यं  
स्वाद्यं सदा सुमनसां कुहकैरभेद्यम्।  
वात्स्येन राघवसुधीमणिना प्रक्लृप्तं  
सन्तो निशम्य हृदये सदये दधीरन्॥  
श्रीवासयोगिवरदेशिकसत्कटाक्षात्  
श्रीरङ्गनाथयतिवर्यगुरोः कटाक्षात्।  
प्रोक्तं मया विमलवण्शठवैरिगद्यं  
क्षेमं वहत्वनुदिनं पठतां जनानाम् ॥

इति श्रीवण्शठकोप श्रीवीरराघववेदान्तयतीन्द्रमहादेशिकानां कृतिषु  
श्रीमदादिवण्शठवैरिगद्यं संपूर्णम् ॥

<MISSING_FIG href="../books_images/U-IMG-172403023730.png"/>  

**॥ श्रीदेशिकगद्यम् ॥**

जयत्यखिलदुर्वादितिमिरौघदिवाकरः।  
श्रिततापप्रशमनस्त्रय्यान्तर्य सुधाकरः॥

 जयजयमहादेशिकनिगमान्तदेशिक! विश्वालङ्कारविश्वामित्रपवित्रगोत्रकलशोदाधिकौस्तुभ! विबुधवैरिवरुधिनी वित्रासिवेङ्कटेशविमलघण्टावतार! अनन्तसदृशानन्तगुणाकर! अनंतगुरुनंदन!

शोभनचरित! सुलोचनोत्तमतोतारं बालोचनचंद्र! बहुमुखतोषितपुंडरीकाक्षसूरि (विरचित) पुण्यफलभूत! वत्सकुलतिलकवर दाचार्यवीक्षित ! ब्रह्मवित्प्रवरानंतार्यविहितब्रह्मोपदेश ! वादिहंस- वलाहकमातुलरामानुजार्य सकाशलब्ध सकलवेदवेदाङ्गतर्कमीमांसा शब्दवेदान्तशास्त्रजात! विंशत्यब्दे विश्रुतनानाविधविद्य! स्वपदां बुजध्यानसुप्रसन्नतरयमुख मुखविनिःसृतलालासुधापान-लब्धसार्वज्ञ! ज्ञानभक्तिवैराग्यवात्सल्यसौशील्यौदार्य चातुर्य माधुर्यधैर्यकारुण्यक्षमाद्यनेककल्याण-गुणगणभूषण। शुभकुलप्रसूततुल्य गुणलक्षणप्रेयसीसहचरितसकलसद्धर्म! हयवदनदेव-नायकाच्युतगोपालरघुवीर-रणपुंगववरदनरहरियथोक्तकारिदीपप्रकाशदेहलीश वेङ्कटेशरंगेश-किंग्रहेशपक्षीशहेतीशयतीशरमाक्षमागोदाविषय स्तोत्र सुधारंजितसहृदयविबुधजनहृदय! परदेवतापारमार्थ्यवेदि वसिष्ठपराशरव्यासप्राचेतसवैशंपायनबोधायन शुकशौनकभारद्वाज-शाण्डिल्य हारीतप्रभृतिपरमर्षिसमधिकवैभव! सांख्यसौगतचार्वाकशाङ्कर यादव भास्कर काणादकौमारिलमततमोनिवारणदिवाकर! पाषण्डमद्द्रुमषण्डखण्डनचण्डपवन! श्रीवेङ्कटाचल-वारणाचल सिंहाचलगोपनगराहींद्रनगर श्रीमुष्णचित्रकूट श्रीरंगश्रीवनाद्रिकुरुकापुरीप्रभृत्यष्टोत्तरशत दिव्यस्थान सेवा संतोषराचे तपदविन्यासपवित्रीकृत- पृथिवीमण्डल! यतिपतियामुनार्यनाथमुनि- फणितिपरिष्कारपांचरात्ररक्षा रहस्य रक्षानिक्षेप रक्षासच्चरित्ररक्षागीता र्थसंग्रहरक्षाशतदूषणी सर्वार्थसिद्धितत्वमुक्ताकलापतत्वटीकातात्पर्य चंद्रिकान्यायपरिशुद्धिन्याय-सिद्धाञ्जनाधिकरण-दर्पणाधिकरणसाराव लीसङ्कल्पसूर्योदय-यादवाभ्युदयाद्यनेकदिव्यप्रबंधनिर्माणसामर्थ्यसंद -

र्शन संतुष्टश्ररिङ्गनाथदिव्याज्ञालब्ध वेदान्ताचार्यपद! तद्वल्लभाकृपासंप्राप्तसर्वतन्त्रस्वतन्त्रताबिरुद! संदर्शनमात्रनिरस्तसमस्तदुर्वादिसङ्घ! त्रिंशद्वारं श्रावितशारीरकमीमांसाभाष्य! छात्रजननिबद्धजै त्रध्वजप्रसाधितदशदिशासौध! एकयामिनीयामनिर्मितपादुका सहस्रश्रवणसञ्जातविस्मय-रंगेशयविश्राणित कवितार्किकसिंहसमाख्याविख्यातवैदग्ध्य! संसारदावानलसंतप्तजन संजीवन-सरसामृतपरीवाहानुरूपसारसाररहस्यत्रयसाराभयप्रदानसारगुरुपरंपरा सारसारसंक्षेपसा- रसग्रहोपकारसंग्रहावेरोधपरिहारप्रधानशतकपरमपदसोपान तत्वपदवीरहस्य पदवीतत्व नवनीतरहस्यनवनीततत्वमातृकारहस्य मातृका तत्व- संदेश रहस्य संदेशहंससंदेश रहस्य संदेश विवरणरहस्य शिखामणितत्व त्रयचुलकरहस्यत्रयचुलकमुनिवाहनभोगाञ्जलि वैभवसंप्रदायपरिशु द्धिहस्तिगिरिमाहात्म्य पर मतभंगतत्व रत्नावली तत्व रावलत्रितिपाद्य सङ्ग्रहरहस्यरत्नावलीहृदय-रंजितरमासहाय नित्यमहुमत! पाञ्चरात्रप्रतिपादिताभिगमनोपादानेज्यास्वाध्याय योगरूप-पञ्चकालपरायण! सम्यक्प्रदर्शितषडंगाष्टांगयोग! परांकुशपरकालभक्तिसारकुलशे खरविष्णुचित्तमुनिवाहनादि मुनिवररचितदिव्य प्रबन्धतात्पर्यरञ्जित परितोषित बुधजन ! त्रिरत्नगाधा श्रीवैष्णवदिनचर्यर्थ पञ्चकसंग्रहश्रीचिह्नमालागीतार्थ संग्रहगाधाशरणागतिगाधाद्वादशनामगाधा-मूलमंत्रगाधाद्वयगाधाचरमश्लोक संग्रहगाधाऽऽहारनिय मगाधाघुटिकागाध! कुबेराक्षिगाधा-कंतुक्रगाधापरिहासगाधा डोला गाधानवरत्नमालाप्रबंध साराद्यनेकदिव्यप्रबंधनिर्माणसामर्थ्य संतुष्ट वरदप्रसादलब्धवरगुण-

भूषितवरदाचार्यसत्पुत्र! सापराधलक्ष्मणार्य दुर्वर्णसुवर्णकरणसंतान प्रकटिताघटित घटनासामर्थ्य! ब्रह्मतंत्रस्वतंत्र योगिप्रभाकरयोगिवरदाचार्य रामानुजार्यप्रभृतिसच्छिष्योपदिष्टत्रय्यंत युगल सारासारादिसद्र हस्यजात! सुदर्शनसूरिविरचितश्रुत-प्रकाशिकापरिरक्षणपरिशोधनप्रतिपादन-परिवृढयतिपतिपरिचित-यादवाचलवासिनारायण-चरणांबुजसेवासमयसंतुष्टमानस! स्वनिर्मिताति-शयितानंत दिव्य प्रबंधप्रवर्तनसरभसनीतशतसंवत्सर! सरसिजसदृशचरणयुगल! सितांतरीय-शोभमानकटितट! दिव्यांगुलीयकव्याख्यामुद्रा मुद्रितदिव्यपुस्तकभूषणभूषितकरद्वय! विमलोप-त्रीत सोत्तरीय तुलसीनलिनाक्षमालाविरा- जितविशालवक्षस्स्थल। लसदूर्ध्वपुंड्रमंडितपूर्णेंदु-समवदन! दिनकर- सन्निभदिव्यमंगलविग्रहोज्ज्वल! सितांतरीयसूत्तरीयदिव्य मकुटचूडा- वतंसमकर कुण्डलग्रैवेयकहारकेयूरकटकमुक्तादामोदर बंधनकांचीगुणनूपुराद्यपरिमेयभूषण-भूषितश्रीरंगनाथपदकमलनिरंतरानुभव निरति शयानंद परिपूर्णमनोरथ! विशुद्धविद्याविभूषण-विबुधजननाथ ! वेङ्कटनाथ ! ममनाथ ! नमस्ते नमस्ते नमस्ते॥

नमःपद्माक्षपौत्राय नमोऽनंतार्यसूनवे।  
नमोवरदनाथार्यपित्रे वेदान्तसूरये॥  
निर्मितं वेङ्कटेशेन वेदान्ताचार्यवैभवम्।  
संकीर्तयेत्प्रतिदिनं वेदान्ताचार्यभक्तिमान्॥

श्रीवेङ्कटाचार्यविरचितं देशिकगद्यं संपूर्णम्॥

<MISSING_FIG href="../books_images/U-IMG-172403062830.png"/>

**॥ श्रीलक्ष्मीनृसिंहप्रपत्तिः ॥**

श्रीश्रीनिवासाह्वययोगिवर्यं नारायणं योगियरं तथैव।  
श्री योगिवर्यं रघुवीरवेद कोटीरसंज्ञं गुरुमाश्रयामि॥१॥  
अहोबिले गारुडशैलमध्ये कृपावशात्कल्पितसन्निधानम्।  
लक्ष्म्यासमालिंगितवामभागं लक्ष्मीनृसिंहं शरणं प्रपद्ये॥२॥  
श्रीवण्शठाराति यतीन्द्रमाद्यं प्रेम्णास्वयं प्रेषमनुं प्रदाय।  
स्वाराधने प्रेरयतिस्मयस्तं लक्ष्मीनृसिंहं शरणं प्रपद्ये॥३॥  
सर्वस्यलोकस्य समीहितानां प्रदानदीक्षावशतस्सदैव।  
श्रियासमेतं श्रितदोषहन्त्र्या लक्ष्मीनृसिंहं शरणं प्रपद्ये॥४॥  
यस्याभवद्भक्तजनार्तिहन्तुः पितृत्वमन्येष्वविचार्यतूर्णम्।  
स्तम्भेऽवतारस्तमनन्यलभ्यं लक्ष्मीनृसिंहं शरणं प्रपद्ये॥५॥  
यमीक्षितुं देवगणोऽतिरुष्टं शत्रौनशक्नोति चतुर्मुखादिः।  
प्रसादितो भक्तजनेन यस्तं लक्ष्मीनृसिंहं शरणं प्रपद्ये॥६॥  
वामत्वमद्यत्यजसंश्रितेषु नास्तीहकश्चित्किलनापराधी।  
लक्ष्म्येतिवामांकगयोच्यमानं लक्ष्मीनृसिंहं शरणं प्रपद्ये॥७॥  
श्रीवीरवद्राघववेदमौलि योगींद्रक्लृप्तैश्शुभतापपुंड्रैः।  
नामादिभिर्मायुतमातनोद्यस्तं लक्ष्मीनृसिंहं शरणं प्रपद्ये॥८॥  
श्रीमद्रहस्यत्रयसारपाठप्रारम्भकाले तव सर्वसिद्धिः।  
स्यादित्युपश्रुत्यभिधायकं मे लक्ष्मीनृसिंहं शरणं प्रपद्ये॥९॥  
भाष्यप्रदानावसरेतुवीररघूद्वहाम्नायशिखार्यरूपी।  
स्वप्नागतोभाष्यमदत्त यो मे तं श्रीलक्ष्मीनृसिंहं शरणं प्रपद्ये ॥ १० ॥

यश्श्रीनिवासाख्यमुनींद्रतो मां सम्प्राप्तवेदान्तयुगंव्यतानीत्।  
तदर्पितस्वीकृतमद्भरन्तं लक्ष्मीनृसिंहं शरणं प्रपद्ये॥११॥  
स्वप्नेरमावासमुनींद्ररूपी स्वयं समागत्य ममापिदेवः।  
त्रिदण्डकाषायमदान्मुदा यस्तं लक्ष्मीनृसिंहं शरणं प्रपद्ये॥१२॥  
आराधनं स्वस्य कथं मयेति भीतं सदा पद्मलतामुखेन।  
आश्वास्यमामप्यकरोत्कृतार्थं लक्ष्मीनृसिंहं शरणं प्रपद्ये॥१३॥  
शठारि नारायणयोगिवर्य परांकुशस्वाभिपरांकुशाद्यैः  
यः पूजितः श्रीनिधियोगिमुख्यैस्तं लक्ष्मीनृसिंहं शरणं प्रपद्ये ॥१४॥  
नारायणश्रीरघुवीरवेद कोटीरनारायणमानिवासैः।  
योगीश्वरैरन्वहमर्चितोयस्तं लक्ष्मीनृसिंहं शरणं प्रपद्ये॥१५॥  
त्वद्दत्तवाचा तव किङ्करेण त्वत्प्रीतिकामेन मयाकृतेन।  
स्तोत्रेण लक्ष्मीनृहरेसविष्णुः प्रीतोभवत्वं करुणार्द्रदृष्टिः॥१६॥  
परांकुशाख्येन तपोधनेन भक्त्या नृसिंहस्य कृता प्रपत्तिः।  
पापठ्यते येन भवेत्सतस्य पूर्णं कृपापूर्णकटाक्षपात्रम्॥१७॥

इति श्रीवण्शठकोप श्रीपरांकुशयतींद्र महादेशिकविरचिता  
श्रीलक्ष्मीनृसिंहप्रपत्ति स्सम्पूर्णा ॥

<MISSING_FIG href="../books_images/U-IMG-172397984730.png"/>  

**॥ श्रीलक्ष्मीनृसिंहादिसुप्रभातम् ॥**

कौसल्या सुप्रजाराम पूर्वसन्ध्या प्रवर्तते ।  
उत्तिष्ठनरशार्दूल कर्तव्यं दैवमाह्निकम् ॥

श्रीमान् रामानुजार्यो यतिपतिरखिलान् त्रातुकामस्स्वशिष्या-  
भाष्यं शारीकार्थप्रकटनमकरोद्वाह्यसिद्धान्तभेत्ता।  
यस्तस्मिन् क्षुभ्यमाणेकथककुलवचो वज्रपातैस्सभूया-  
त्साक्षादुत्प्रेक्षमाणोभवदिति जयतां श्रीनिवासोयतींद्रः ॥ १ ॥  
तव सुप्रभातमरुणाब्जलोचने तरुणेन्दुबिम्बवदनेऽघमोचने।  
शरणागतार्तिहरणाय दीक्षिते करुणारसौघवरुणालयेक्षिते॥२॥  
तवसुप्रभातममरेन्द्रसुन्दरी करपल्लवान्तकलितोरुमालिनि।  
क्षरणत्सहस्रतुलिताङ्गसौभगे कनकांचितोरुमणिकुण्डलांचिते ॥३॥  
तवसुप्रभातमसुरारिवल्लभे निजवल्लभाङ्कसरसीसरोरुहे।  
करपल्लवात्तजलजातकुट्मले रविकोटिभासिकुरुविंदमालिके॥४॥  
तव सुप्रभातमखिलार्तिभञ्जनि प्रणतार्ति भक्तजनचित्तरञ्जनि।  
वरतापनीय विदितात्मवैभव प्रियवक्त्रचंद्रसुचकोरलोचने ॥५॥  
देवाश्चतुर्मुखपुरन्दरशङ्कराद्या स्सिद्धास्सनातनसनन्दननारदाद्याः।  
त्वामर्चितुं विविधपुष्पकरराश्चरंति लक्ष्मीनृकेसरि विभो तव सुप्रभातम्॥  
देवो दिवाकर इह प्रथितप्रकाशो दिव्यैःकरैस्त्वदनघांघ्रियुगं सहस्रैः।  
संवाहितुं भृशमुदेति हरेर्दिशायां लक्ष्मीनृकेसरि विभो तव सुप्रभातम्॥  
वेदाश्च सामयजुरादय आविभांति शब्दैरलक्षितगुणैस्स्वगुणं स्तुवंतः।  
त्वल्लिङ्गनामगुणकीर्तनलब्धभावा लक्ष्मीनृकेसरिविभो तवसुप्रभातम् ॥  
विप्रास्स्वनुष्ठितगरिष्ठगुणक्रियाद्यास्स्त्राताविशुद्धमनसो विमलैर्वचोभिः  
त्वांस्तोतुमद्यविविधैः प्रणताश्चरंति लक्ष्मीनृकेसरिविभोतवसुप्रभातम्॥

उच्चैश्श्रवस्तुलितएष विभातितेऽश्व स्तम्बेरमामदजलाप्लुतगण्डदेशाः।  
भृत्याश्चते करयुगोद्धृतचामराद्या लक्ष्मीनृकेसरिविभो तव सुप्रभातम्॥  
धेनुः पुरंदरपुरांतरभूषणं सात्वत्किङ्करत्व करणाय धरामवाप्य।  
त्वदृष्टिभावितसुधामसुधासुधारा माकांक्षते नरहरे तव सुप्रभातम्॥  
भृत्योऽहमद्य यतिरूपमुपेयिवांस्तं पादांबुजद्वयपरीचरणाययत्तः।  
जागर्मिविश्वगणनिर्मितिनर्मशील लक्ष्मीनृकेसरिविभो तव सुप्रभातम्॥  
वाराशिराजतनयावदनाम्बुजात माध्वीरसज्ञनयनाख्यमिलिंदयुग्मम्।  
सञ्चारयाद्यविनतेषुतदीयभक्तिसारग्रहाय नृहरे तव सुप्रभातम्॥  
सह्यापगोत्तरतरङ्गविभङ्गसङ्ग तुङ्गाङ्गशीतिममरुज्जडिमोत्तरङ्गे।  
रङ्गे विहाय रुचिमत्र विराजसे त्वं श्रीरङ्गनायक विभो तव सुप्रभातम्॥  
नारायणाद्रिविसरद्विपुलस्रवंती निष्क्रांतनिर्झरझलझलगाढशब्दैः।  
अस्पृष्टमानस इवात्रविहारकांक्षी त्वंभासि वेंङ्कटपते तव सुप्रभातम्॥  
गोपीगृहान्तरूपकल्पित मंथनात्त हय्यंगवीनहृतिकल्पितनृत्तजातम्।  
अद्यापितथ्यमिहकर्तुमिवासितादृग्रूपोयदूत्तम विभो तव सुप्रभातम्॥  
इत्थं रमानृहरि रंगधुरीण शेषशैलेश यादवकुलाधिप सुप्रभातम् ।  
भक्त्यापरंव्यतनुताखिलसाधुभाव्यं श्रीश्रीनिवासनिगमांतयतिर्विशुद्धः॥

श्रीश्रीनिवास वेदान्तयतींद्र महादेशिकविरचितं  
श्रीलक्ष्मीनृसिंहादि सुप्रभातं सम्पूर्णम्॥

<MISSING_FIG href="../books_images/U-IMG-172399245730.png"/>

**॥ श्रीशठकोपसूरिमङ्गलम् ॥**

श्रीमन्नारायणमुनिगुरुवर्यकृपाबलात्।  
मङ्गलाशासनं कुर्वे शठकोपमुनेरहम्॥१॥  
इतिहासपुराणाभ्यामपि वेदार्थवित्तये।  
अपेक्ष्यतेयदीयोक्तिस्तस्मै भवतु मङ्गलम्॥२॥  
अपरां प्रकृतिं प्रत्नवचसां सहितां शुभाम्।  
योऽद्राक्षीन्मुनये तस्मै शठकोपाय मङ्गलम्॥३॥  
श्रीमन्नाथमुनिध्यानसाक्षात्कृतं निजात्मने।  
प्रत्यक्षीकृततत्त्वाय शठकोपाय मङ्गलम्॥४॥  
श्रीमद्वैष्णवसिद्धान्तस्थापकाय महात्मने।  
श्रीमद्वकुलभूषाय तस्मै भवतु मङ्गलम्॥५॥  
आदिनाथसमर्चायामत्यन्तोद्युत्कचेतसे।  
ज्ञानवैराग्यशीलाय तस्मै भवतु मङ्गलम्॥६॥  
दत्तद्रविडवेदाय कवये मधुरादये।  
दयाघनाय शान्ताय तस्मै भवतु मङ्गलम्॥७॥  
स्वीयपादसरोजातदृष्टलक्ष्मणयोगिने।  
श्रीशभक्तिनिवासाय तस्मै भवतु मङ्गलम्॥८॥  
अत्यादरात्सदाचिच्वातरुमूलनिवासिने।  
दयितज्ञानमुद्राय तस्मै भवतु मङ्गलम्॥९॥

आरभ्यात्मावतरणं भगवद्भावनामृतैः।  
पोषिताय मुनीन्द्राय तस्मै भवतु मङ्गलम्॥१०॥  
कारिवंशसुधाम्भोधिराकातुहिनभानवे।  
शठकोपमुनीन्द्राय शश्वद्भवतु मङ्गलम्॥ ११ ॥

श्रीवण्शठकोप श्रीपरांकुशयतीन्द्रमहादेशिकानां कृतिषु  
श्रीशठकोपसूरिमङ्गलं समाप्तम् ॥

<MISSING_FIG href="../books_images/U-IMG-172385577730.png"/>  

**॥ श्रीभाष्यकारमङ्गलम् ॥**

श्रीमतेऽनन्तभावैकभव्यायाहीनमूर्तये।  
विश्वम्भरस्वभोगाय यतीशायास्तु मङ्गलम्॥१॥  
निरस्तमेघनादाय स्वनालीकप्रसङ्गतः।  
रामानुजाय सहजशत्रुघ्नायास्तु मङ्गलम्॥२॥  
हरिभावप्रतीताय यामुनोत्कर्षकारिणे।  
सत्यासक्ताय सततं पूर्णप्राप्याय मङ्गलम्॥३॥  
सारस्वतौघानुद्वेलान् सर्वतोमुखसंपदः।  
कुर्वते स्वोदयेनास्तु यतिचन्द्राय मङ्गलम्॥४॥  
कौतस्कुतकथासिन्धौ निगमानां निमज्जताम्।  
आकस्मिकोड्डुपायास्तु यतिराजाय मङ्गलम्॥५॥  
चतुःसप्ततिसद्रत्न पीठीप्रथमशिल्पिने।  
त्रयीतनुपुषेभूयात् भाष्यकाराय मङ्गलम्॥६॥

जीवाय निगमान्तानां गुरवे भूसुपर्वणाम्।  
विबुधेड्याय विख्यातधिषणायास्तु मङ्गलम्॥७॥  
पादे दृष्टाय योगीन्द्रैः शठागतिक्षमाभृतः।  
कलिप्रमथनायास्तु यतिसिंहाय मङ्गलम्॥८॥  
दधते लक्ष्मणाभिख्यामुडुपाय भवोदधेः।  
विबुधामृतसन्दायि कलोल्लासाय मङ्गलम्॥९॥  
यतीन्द्रोरिदमाशास्ते मङ्गलं यः कलानिधेः।  
भुवनैकनिधिस्थस्य मङ्गलायाभिवर्धते॥१०॥

श्री भाष्यकारमङ्गलं समाप्तम् ॥

<MISSING_FIG href="../books_images/U-IMG-172385689230.png"/>  

**॥ पञ्चायुधस्तोत्रम् ॥**

स्फुरत्सहस्रारशिखातितीव्रं सुदर्शनं भास्करकोटितुल्यम्।  
सुरद्विषां प्राणविनाशि विष्णोश्चक्रं सदाहं शरणं प्रपद्ये॥१॥  
विष्णोर्मुखोत्थानिलपूरितस्य यस्य ध्वनिर्दानवदर्पहन्ता।  
तं पाञ्चजन्यं शशिकोटिशुभ्रं शङ्खं सदाहं शरणं प्रपद्ये॥२॥  
हिरण्मयीं मेरुसमानसारां कौमोदकीं दैत्यकुलैकहन्त्रीम्।  
वैकुण्ठवामाग्रकराभिमृष्टां गदां सदाहं शरणं प्रपद्ये॥३॥  
रक्षोसुराणां कठिनोग्रकण्ठच्छेदक्षरच्छोणितदिग्धसारम्।  
तं नन्दकं नाम हरेः प्रदीप्तं खड्गं सदाहं शरणं प्रपद्ये॥४॥  
यज्ज्यानिनादश्रवणात्सुराणां चेतांसि निर्मुक्तभयानि सद्यः।  
भवन्ति दैत्याशनिबाणवर्षि शार्ङ्गं सदाहं शरणं प्रपद्ये॥५॥

इमं हरेः पञ्चमहायुधानां स्तवं पठेद्योऽनुदिनं प्रभाते।  
समस्तदुःखानि भयानि सद्यः पापानि नश्यन्ति सुखानि सन्ति॥  
वने रणे शत्रुजलाग्निमध्ये यदृच्छयापत्सु महाभयेषु।  
इदंपठन् स्तोत्रमनाकुलात्मा सुखी भवेत्तत्कृतसर्वरक्षः॥७॥  
भोगेरोगभयं सुखे क्षयभयं वित्ते च राज्ञोभयं  
विद्यायांकलिभीस्तपेकरणभी रूपाद्भयं योषिति।  
इष्टे शोकभयं रणे रिपुभयं काये कृतान्ताद्भयं  
चेत्थं जन्म निरर्थकं क्षितितले विष्णोः पदं निर्भयम्॥८॥

इति पञ्चायुधत्तात्रं सम्पूर्णम् ॥

<MISSING_FIG href="../books_images/U-IMG-172385726630.png"/>  

**॥ हनुमत्पञ्चरत्नम् ॥**

वीताखिलविषयेच्छं जातानन्दाश्रुपुलकमत्यच्छम्।  
सीतापतिदूताद्यं वातात्मजमद्य भावये हृद्यम्॥१॥  

तरुणारुणमुखकमलं करुणारसपरिपूरितापाङ्गम्।  
संजीवनमाशासे मञ्जुलमहिमानमञ्जनाभाग्यम्॥२॥  

शम्बरवैरिशरातिगमम्बुजदलविपुललोचनोदारम्।  
कम्बुगलमनिलदिष्टं बिम्बज्वलितोष्ठमेकमवलम्बे॥३॥  

दूरीकृतसीतार्तिः प्रकटीकृतरामवैभवस्फूर्तिः।  
दारितदशमुखकीर्तिः पुरतो मम भातु हनुमतो मूर्तिः॥४॥  

वानरनिकराध्यक्षं दानवकुलकुमुदरविकरसदृक्षम् ।  
दीनजनावनदक्षं पवनतपःपाकपुञ्जमद्राक्षम्॥५॥

एतत्पवनसुतस्य स्तोत्रं यः पठति पञ्चरत्नाख्यम्।  
चिरमिहनिखिलान्भोगान्भुङ्क्क्ता श्रीरामभक्तिभाग्भवति॥६॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य  
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ  
हनुमत्पञ्चरत्नं सम्पूर्णम् ॥

<MISSING_FIG href="../books_images/U-IMG-172385772430.png"/>  

**॥ श्रीदक्षिणामूर्तिस्तोत्रम् ॥**

मौनव्याख्याप्रकटितपरब्रह्मतत्त्वं युवानं  
वर्षिष्ठान्तेवसदृषिगणैरावृतं ब्रह्मनिष्ठैः।  
आचार्येन्द्र ङ्करकलितचिन्मुद्रमानन्दमूर्तिं  
स्वात्मारामं मुदितवदनं दक्षिणामूर्ति मीडे॥  
विश्वं दर्पणदृश्यमाननगरी तुल्यं निजान्तर्गतं  
पश्यन्नात्मविमाययाबहिरिवोद्भूतं यथानिद्रया।  
यस्साक्षात्कुरुते प्रबोधसमये स्वात्मानमेवाद्वयं  
तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये॥१॥  
बीजस्यान्तरिवाङ्कुरो जगदिदं प्राङ्निर्विकल्पं पुनः  
मायाकल्पितदेशकालकलनावैचित्र्यचित्रीकृतम्।  
मायावीवविजृम्मयत्यपिमहायोगीवयस्स्वेच्छया  
तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये॥२॥  
यस्यैव स्फुरणं सदात्मक मसत्कल्पार्थगं भासते  
साक्षात्तत्त्वमसीतिवेदवचसायोबोधयत्याश्रितान्।  
यत्साक्षात्करणाद्भवे न्नपुनरावृत्तिर्भवाम्भोनिधौ तस्मै ०॥३॥

नानाच्छिद्रघटोदरस्थितमहादीपप्रभाभास्वरं  
ज्ञानं यस्य तु चक्षुरादिकरणद्वारा बहिस्स्पन्दते।  
जानामीति यमेव भान्त मनुभात्येतत्समस्तं जगत् तस्मै ०॥४॥  

देहं प्राणमपीन्द्रियाण्यपिचलांबुद्धिंचशून्यंविदुः  
स्त्रीबालान्धजडोपमास्त्वह मिति भ्रान्ताभृशंवादिनः।  
मायाशक्तिविलासकल्पितमहाव्यामोहसंहारिणे तस्मै ०॥५॥  

राहुग्रस्तदिवाकरेन्दुसदृशोमायासमाच्छादनात्  
सन्मात्त्रःकरणोपसंहरणतोयोऽभूत्सुषुप्तः पुमान्।  
प्रागस्वाप्स मिति प्रबोधसमये यः प्रत्यभिज्ञायते तस्मै०॥६॥  

बाल्यादिष्वपि जाग्रदादिषु तथा सर्वास्ववस्थास्वपि  
व्यावृत्तास्वनुवर्तमान महमित्यन्तःस्फुरन्तस्सदा।  
स्वात्मानं प्रकटीकरोति भजतां योभद्रयामुद्रया तस्मै०॥७॥  

विश्वं पश्यति कार्यकारणतया स्वस्वामिसम्बन्धतः  
शिष्याचार्यतयातथैव पितृपुत्र्याद्यात्मनाभेदतः।  
स्वप्ने जाग्रति वा य एष पुरुषो मायापरिभ्रामितः तस्मै०॥ ८॥  

भूरम्भांस्यनलोऽनिलोंऽबरमहर्नाथोहिमांशुः पुमान्  
इत्याभाति चराचरात्मक मिदं यस्यैव मूर्त्यष्टकम्।  
नान्यत्किंचन विद्यते विमृशतां यस्मात्परस्मा द्विभोः तस्मै ० ॥ ९ ॥  

सर्वात्मत्त्वमिति स्फुटीकृत मिदं यस्मा दमुष्मिन्स्तवे  
तेनास्यश्रवणात्तदर्थमनना ध्यानाच्च सङ्कीर्तनात्।

सर्वात्मत्वमहाविभूतिसहितं स्यादीश्वरत्वं स्वतः  
सिद्ध्येत्तत्पुनरष्टधापरिणतं चैश्वर्यमव्याहतम्॥१०॥

इति श्रीमच्छङ्कराचार्य कृतिषु दक्षिणामूर्तिस्तोत्रं संपूर्णम् ॥

<MISSING_FIG href="../books_images/U-IMG-172389658230.png"/>  

**॥ यमुनाष्टकम् ॥**

मुरारिकायकालिमाललामवारिधारिणी  
तृणीकृतत्रिविष्टपा नृलोकशोकहारिणी।  
मनोनुकूलकूलकुञ्जपुञ्जधूतदुर्मदा  
धुनोतु नो मनोमलं कलिंदनन्दिनी सदा॥१॥  

मलापहारिवारिपूरभूरिमण्डिता वृता-  
भृशं प्रपातकप्रपंचनातिपण्डितानिशा।  
सुनन्दनन्दिनांगसंगरागरंजिता हिता  
धुनोतु नो मनोमलं कलिन्दनन्दिनी सदा॥२॥  

लसत्तरंगसंगधूतभूतजातपातका  
नवीनमाधुरीधुरीणभक्तिजातपातका।  
तटान्तवासदासहंससंहृताह्नि कामदा  
धुनोतु नो मनोमलं कालिन्दनन्दिनी सदा॥३॥  

विहाररासभेदभेदधीरतीरमारुता  
गता गिरामगोचरे यदीयनीरचारुता।  
प्रवाहसाहचर्यपूतमेदिनीनदीनदा धुनोतु०॥४॥

तरंगसंगसैकतान्तरातितं सदासिता  
शरन्निशाकरांशुमंजुमञ्जरीसभाजिता।  
भवार्चनाप्रचारुणाम्बुनाऽधुना विशारदा धुनोतु०॥५॥  
जलान्तकेलिकारिचारुराधिकांगरागिणी  
स्वभर्तुरन्यदुर्लभां गतां गतांशभागिनी।  
स्वदत्तसुप्तसिन्धुभेदिनातिकोविदा धुनोतु ०॥६॥  
जलच्युताच्युतांगरागलंपटालिशालिनी  
विलोलराधिकाकचान्तचंपकालिमालिनी।  
सदावगाहनावतीर्णभर्तृभृत्यनारदा धुनोतु०॥७॥  
सदैव नन्दिनन्दकेलिशालिकुञ्जमंजुला  
तटोत्थफुल्लमल्लिकाकदम्बरेणुसूज्ज्वला।  
जलावगाहिनां नृणां भवाब्धिसिन्धुपारदा धुनोतु ०॥८॥

इति श्रीमच्छङ्कराचार्यविरचितं यमुनाष्टकं संपूर्णम् ॥

<MISSING_FIG href="../books_images/U-IMG-172389757230.png"/>  

**॥ यमुनाष्टकम् ॥**

कृपापारावारां तपनतनयां तापशमनीं  
मुरारिप्रेयस्यां भवभयदवां भक्तिवरदाम्।  
वियज्ज्वालोन्मुक्तां श्रियमपि सुखाप्तेः परिदिनं  
सदा धीरो नूनं भजति यमुनां नित्यफलदाम्॥१॥  
मधुवनचारिणि भास्करवाहिनि जाह्रविसङ्गिनि सिन्धुसुते  
मधुरिपुभूषणि माधवतोषिणि गोकुलभीतिविनाशकृते।

जगदघमोचिनि मानसदायिनि केशवकेलिनिदानगते  
जय यमुने जयभीतिनिवारिणि शङ्कटनाशिनि पावयमाम्॥२॥  
अयि मधुरे मधुमोदविलासिनि शैलविदारिणि वेगपरे  
परिजनपालिनिदुष्टनिषूदिनि वाञ्छितकामविलासधरे।  
व्रजपुरवासिजनार्जितपातकहारिणि विश्वजनोद्धरिके जय ०॥३॥  
अतिविपदाम्बुधिमग्नजनं भवतापशताकुलमानसकं  
गतिमतिहीनमशेषभयाकुलमागतपादसरोजयुगम्।  
ऋणभयभीतिमनिष्कृतिपातककोटिशतायुतपुञ्जतरं जय०॥४॥  
नवजलद्युतिकोटिलसत्तनुहेमभयामररञ्जितके  
तडिदवहेलिपदाञ्चलचञ्चलशोभितपीतसुचेलधरे।  
मणिमयभूषणचित्रपटासनरञ्जितगञ्जितभानुकरे जय०॥५॥  
शुभपुलिने मधुमत्तयदूद्भवरासमहोत्सवकेलिभरे  
उच्चकुलाचलराजितमौक्तिकहारमयाभररोदसिके।  
नवमणिकोटिकभास्करकञ्चुकिशोभिततारकहारयुते जय०॥६॥  
करिवरमौक्तिकनासिकभूषणवातचमत्कृतचञ्चलके  
मुखकमलामलसौरभचञ्चलमत्तमधुव्रतलोचनिके।  
मणिगणकुण्डललोलपरिस्फुरदाकुलगण्डयुगामलके जय०॥७॥  
कलरवनूपुरहेममयाचितपादसरोरुहसारुणिके  
धिमि धिमि धिमि धिमितालविनोदितमानसमञ्जुलपादगते।  
तव पदपङ्कजमाश्रितमानवचित्तसदाखिलतापहरे जय०॥८॥

भवात्तापाम्भोधौ निपतितजनो दुर्गतियुतो  
यदि स्तौति प्रातः प्रतिदिनमनन्याश्रयतया।  
हयाहेषैः कामं करकुसुमपुञ्जैरविसुतां  
सदा भोक्ता भोगान्मरणसमये याति हरिताम्॥९॥

इति श्रीमच्छङ्कराचार्यविरचितं यमुनाष्टकं संपूर्णम्॥

<MISSING_FIG href="../books_images/U-IMG-172389584899.png"/>  

**॥ नर्मदाष्टकम् ॥**

सबिन्दुसिन्धुसुस्खलत्तरंगभंगरंजितं  
द्विषत्सु पापजातजातकादिवारिसंयुतम्।  
कृतान्तदूतकालभूतभीतिवारिवर्मदे  
त्वदीयपादपङ्कजं नमामि देवि नर्मदे॥१॥  

त्वदम्बुलीनदीनमीनदिव्यसंप्रदायकं  
कलौमलौघभारहारसर्वतीर्थनायकम्।  
सुमत्स्यकच्छनक्रचक्रवाकचक्रशर्मदे त्वदीयपादपङ्कजं ०॥२॥  

महागभीरनीरपूरपापधूतभूतलं  
ध्वनत्समस्तपातकारिदारितापदाचलम्।  
जगल्लये महाभये मृकण्डुसूनुहर्म्यदे त्वदीयपादपङ्कजं ०॥३॥  

गतं तदैव मे भयं त्वदम्बुवीक्षितं यदा  
मृकण्डुसूनुशौनकासुरारिसेवितं सदा।  
पुनर्मयाब्धिजन्मजं भवाब्धिदुःखवर्मदे त्वदीयपादपङ्कजं ०॥४॥

अलक्ष्यलक्षकिन्नरानरामुरारिपूजितं  
सुलक्षनीरतीरधीरपक्षिलक्षकूजितम्।  
विशिष्टशिष्टपिप्पलादकर्दमादिशर्मदे त्वदीयपादपङ्कजं ०॥५॥  
सनत्कुमारनाचिकेतकश्यपत्रिषट्पदैर्धृतं  
स्वकीयमानसेषु नारदादिषट्पदैः।  
रवीन्दुरन्तिरन्तिदेवदेवराजशर्मदे त्वदीयपादपङ्कजं ०॥६॥  
लक्षलक्षलक्षपापलक्षसारसायुधं  
ततस्तुजीवजन्तुतन्तुभुक्तिमुक्तिदायकम्।  
विरिंचिविष्णुशङ्करस्वकीयधामवर्मदे त्वदीयपादपङ्कजं ०॥७॥  
अहोद्रुतं स्वनं श्रुतं महेशकेशजातटे  
किरातसूतबाडवेषु पंण्डिते शठे नट।  
दुरन्तपापतापहारि सर्वजन्तुशर्मदे त्वदीयपादपङ्कजं ०॥८॥  
इदं तु नर्मदाष्टकं त्रिकालमेव ये सदा।  
पठन्ति ते निरन्तरं नयन्ति दुर्गतिं कदा॥ ९ ॥

इति श्रीमच्छङ्कराचार्यविरचितं नर्मदाष्टकं संपूर्णम् ॥

<MISSING_FIG href="../books_images/U-IMG-172430912530.png"/>  

**॥ मणिकर्णिकाष्टम् ॥**

त्वत्तीरे मणिकर्णिके ! हरिहरौ सायुज्यमुक्तिप्रदौ  
वादन्तौ कुरुतः परस्परमुभौ जन्तोः प्रयाणोत्सवे।  
मद्रूपो मनुजोऽयमस्तु हरिणा प्रोक्तशिवस्तत्क्षणा-  
यन्मध्याद्भूगुलाञ्छनो गरुडगः पीताम्बरो निर्गतः॥१॥

इन्द्राद्यास्त्रिदशाः पतन्ति नियतं भोगक्षये ये पुन-  
र्जीयन्ते मनुजास्ततोऽपि पशवः कीटाः पतंगादयः।  
ये मातर्मणिकर्णिके तव जले मज्जन्ति निष्कल्मषा-  
सायुज्येऽपि किरीटकौस्तुभधरा नारायणास्स्युर्नराः॥२॥  
काशी धन्यतमा विमुक्तनगरी सालंकृता गङ्गया  
तत्रेयं मणिकर्णिका सुखकरी मुक्तिर्हि तत्किङ्करी।  
स्वर्लोकस्तुलितस्सहैव विबुधैः काश्या समं ब्रह्मणा  
काशी क्षोणितलेक्षिता गुरुतरा स्वर्गो लघुः खे गतः॥३॥  
गङ्गातीरमनुत्तमं हि सकलं तत्रापि काश्युत्तमा  
तस्यां सा मणिकर्णिकोत्तमतमा यत्नेश्वरो मुक्तिदः।  
देवानामपि दुर्लभं स्थलमिदं पापौघनाशक्षमं  
पूर्वोपार्जितपुण्यपुंजगमकं पुण्यैर्जनैः प्राप्यते॥४॥  
दुःखाम्भोनिधिमग्नजन्तुनिवहस्तेषां कथं निष्कृति  
र्ज्ञत्वा तद्धि विरिंचिना विरचिता वाराणसी शर्मदा।  
लोकास्स्वर्गमुखास्ततोऽपि लघवो भोगांतपातप्रदाः  
काशी मुक्तिकरी सदा शिवकरी धर्मार्थकामोत्तरा॥५॥  
एको वेणुधरो धराधरधरः श्रीवत्सभूषाधरो  
योऽप्येकः किल शङ्करो विषधरो गङ्गाधरो माधवः।  
ये मातर्मणिकर्णिके ! तव जले मज्जन्ति ते मानवा  
रुद्रा वा हरयो भवन्ति बहवस्तेषां बहुत्वं कथम्॥६॥

त्वत्तीरे मरणं तु मङ्गलकरं देवैरपि श्लाघ्यते  
शक्रस्तं मनुजं सहस्रनयनैर्द्रष्टुं सदा तत्परः।  
आयांतं सवितासहस्रकिरणैः प्रत्युद्रतोऽभूत्सदा  
पुण्योऽसौ वृषगोऽथवा गरुडगः किं मन्दिरं यास्यति॥७॥  
मध्याह्ने मणिकर्णिकास्नपनजं पुण्यं न वक्तुं क्षमं  
स्वीयैरब्दशतैश्चतुर्मुखसुरो वेदार्थदीक्षागुरुः।  
योगाभ्यासबलेन चन्द्रशिखरस्तत्पुण्यपारंगत-  
स्त्वत्तीरे प्रकरोति सुप्तपुरुषं नारायणं वा शिवम्॥८॥  
कृत्स्नः कोटिशतैरस्वपापनिधनं यच्चाश्वमेधैः फलं  
तत्सर्वं मणिकर्णिकास्नपनजे पुण्ये प्रविष्टं भवेत्।  
स्नात्वा स्तोत्रमिदं नरः पठति चेत्संसारपाथोनिधिं  
तीर्त्वा पल्वलवत्प्रयाति सदनं तेजोमयं ब्रह्मणः॥९॥

इति श्रीमच्छङ्कराचार्यविरचितं मणिकर्णिकाष्टकं संपूर्णम् ॥

**॥ निर्गुणमानसपूजा ॥**

**शिष्य उवाच—**  
अखण्डे सच्चिदानन्दे निर्विकल्पैकरूपिणि।  
स्थितेऽद्वितीयभावेऽपि कथं पूजाविधीयते॥१॥  
पूर्णस्यावाहनं कुत्र सर्वाधारस्य चासनम्।  
स्वच्छस्य पाद्यमर्घ्यं च शुद्धस्याचमनं कुतः॥२॥

निर्मलस्य कुतः स्नानं वासो विश्वोदरस्य च।  
अगोत्रस्यत्ववर्णस्य कुतस्तस्योपवीतकम्॥३॥  
निर्लेपस्य कुतो गन्धः पुष्पं निर्वासनस्य च।  
निर्विशेषस्य का भूषा कोऽलङ्कारो निराकृतेः॥४॥  
निरञ्जनस्य किं धूपैर्दीपैर्वा सर्वसाक्षिणः।  
निजानन्दैकतृप्तस्य नैवेद्यं किं भवेदिह॥५॥  
विश्वानन्दयितुस्तस्य किं ताम्बूलं प्रकल्पते।  
स्वयं प्रकाशचिद्रूपो योऽसावर्कादिसम्भवः॥६॥  
गीयते श्रुतिभिस्तस्य नीराजनविधिः कुतः।  
प्रदक्षिणमनन्तस्य प्रमाणोऽद्वयवस्तुनः॥७॥  
वेदवाचामवेद्यस्य किंवा स्तोत्रं विधीयते।  
अन्तर्बहिः संस्थितस्योद्वासनविधिः कुतः॥८॥  
**श्रीगुरुरुवाच-**  
आराधयामि मणिसंनिभमात्मलिङ्गं मायापुरीहृदयपङ्कजसंनिविष्टम्।  
श्रद्धानदीविमलचित्तजलाभिषेकैर्नित्यं समाधिकुसुमैरपुनर्भवाय॥९॥  
अयमेकोऽवशिष्टोऽस्मीत्येवमावाहयेच्छिवम्।  
आसनं कल्पयेत्पश्चात्स्वप्रतिष्ठात्मचिन्तनम्॥१०॥  
पुण्यपापरजः सङ्गो मम नास्तीति वेदनम्।  
पाद्यं समर्पयेद्विद्वान्सर्वकल्मषनाशनम्॥११॥  
अनादिकल्पविधृतमूलाज्ञानजलाञ्जलिम्।  
विसृजेदात्मलिङ्गस्य तदेवार्घ्यसमर्पणम्॥१२॥

ब्रह्मानन्दाब्धिकल्लोलकणकोट्यंशलेशकम्।  
पिबन्तीन्द्रादय इति ध्यानमाचमनं मतम्॥१३॥  
ब्रह्मानन्दजलेनैव लोकाः सर्वे परिप्लुताः।  
अच्छेद्योऽयमिति ध्यानमभिषेचनमात्मनः॥१४॥  
निरावरणचैतन्यं प्रकाशोऽस्मीति चिन्तनम्।  
आत्मलिङ्गस्य मद्वस्त्रमित्येवं चिन्तयेन्मुनिः॥१५॥  
त्रिगुणात्माशेषलोकमालिकासूत्रमस्म्यहम्।  
इति निश्चयमेवात्र ह्युपवीतं परं मतम्॥१६॥  
अनेकवासनामिश्रप्रपञ्चोऽयं धृतो मया।  
नान्येनेत्यनुसन्धानमात्मनश्चन्दनं भवेत्॥१७॥  
रजःसत्वतमोवृत्तित्यागरूपैस्तिलाक्षतैः।  
आत्मलिङ्गं यजेन्नित्यं जीवन्मुक्तिप्रसिद्धये॥१८॥  
ईश्वरो गुरुरात्मेति भेदत्रयविवर्जितैः।  
बिल्वपत्रैरद्वितीयैरात्मलिङ्गं यजेच्छिवम्॥१९॥  
समस्तवासनात्यागं धूपं तस्य विचिन्तयेत्।  
ज्योतिर्मयात्मविज्ञानं दीपं सन्दर्शयेद्बुधः॥२०॥  
नैवेद्यमात्मलिङ्गस्य ब्रह्माण्डाख्यं महोदरम्।  
पिबानन्दरसं स्वादु मृत्युरस्योपसेचनम्॥२१॥  
अज्ञानोच्छिष्टकरस्य क्षालनं ज्ञानवारिणा।  
विशुद्धस्यात्मलिङ्गस्य हस्तप्रक्षालनं स्मरेत्॥२२॥

रागादिगुणशून्यस्य शिवस्य परमात्मनः।  
सरागविषयाभ्यासत्यागस्ताम्बूलचर्वणम्॥२३॥  
अज्ञानध्वान्तविध्वंसप्रचण्डमतिभास्करम्।  
आत्मनो ब्रह्मताज्ञानं नीराजनमिहात्मनः॥२४॥  
विविधब्रह्मसन्दृष्टिर्मालिकाभिरलंकृतम्।  
पूर्णानन्दात्मतादृष्टिं पुष्पाञ्जलिमनुस्मरेत्॥२५॥  
परिभ्रमन्ति ब्रह्माण्डसहस्राणि मयीश्वरे।  
कूटस्थाचलरूपोऽहमिति ध्यानं प्रदक्षिणम्॥२६॥  
विश्ववन्द्योऽहमेवास्मि नास्ति वन्द्यो मदन्यतः।  
इत्यालोचनमेवात्र स्वात्मलिङ्गस्य वन्दनम्॥२७॥  
आत्मनः सत्क्रिया प्रोक्ता कर्तव्याभावभावना।  
नामरूपव्यतीतात्मचिन्तनं नामकीर्तनम्॥२८॥  
श्रवणं तस्य देवस्य श्रोतव्याभावचिन्तनम्।  
मननं त्वात्मलिङ्गस्य मन्तव्या भावचिन्तनम्॥२९॥  
ध्यातव्याभावविज्ञानं निदिध्यासनमात्मनः।  
समस्तभ्रान्तिविक्षेपराहित्येनात्मनिष्ठता॥३०॥  
समाधिरात्मनो नाम नान्यच्चित्तस्य विभ्रमः।  
तत्रैव ब्रह्मणि सदा चित्तविश्रान्तिरिष्यते॥३१॥  
एवं वेदान्तकल्पोक्तस्वात्मलिङ्गप्रनूजनम्।  
कुर्वन्ना मरणं वापि क्षणं वा सुसमाहितः॥३२॥

सर्वदुर्वासनाजालं पदपांसुमिव त्यजेत्।  
विधूयाज्ञानदुःखौघं मोक्षानन्दं समश्नुते॥३३॥

इति श्रीमच्छङ्करभगवत्पादपूज्यकृता निर्गुणमानसपूजा संपूर्णा ॥

<MISSING_FIG href="../books_images/U-IMG-172430265630.png"/>  

**॥ भ्रमराम्बाष्टकम् ॥**

चाञ्चल्यारुणलोचनाञ्चितकृपाचन्द्रार्कचूडामणिं  
चारुस्मेरमुखां चराचरजगत्संरक्षणीं तत्पदाम्।  
चञ्चच्चम्पकनासिकाग्रविलसन्मुक्तामणीरञ्जितां  
श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये॥१॥  
कस्तूरीतिलकाञ्चितेन्दुविलसत्प्रोद्भासिफालस्थलीं  
कर्पूरद्रवमिश्रचूर्णखदिरामोदोल्लसद्वीटिकाम्।  
लोलापाङ्गतरङ्गितैरधिकृपासारैर्नतानन्दिनीं श्रीशैल ०॥२॥  
राजन्मत्तमरालमन्दगमनां राजीवपत्रेक्षणां  
राजीवप्रभवादिदेवमकुटैराजत्पदाम्भोरुहाम्।  
राधीवायतमन्दमण्डितकुचां राजाधिराजेश्वरीं श्रीशैल०॥३॥  
षट्तारां गणदीपिकां शिवसतीं षड्वैरिवर्गापहां  
षट्चक्रान्तरसंस्थितां वरसुधां षड्योगिनीवेष्टिताम्।  
षट्चक्राञ्चितपादुकाञ्चितपदां षड्भावगां षोडशीं श्रीशैल ०॥४॥  
श्रीनाथादृतपालितत्रिभुवनां श्रीचक्रसंचारिणीं  
ज्ञानासक्तमनोजयौवनलसद्गन्धर्वकन्यादृताम्।  
दीनानामतिवेलभाग्यजननीं दिव्याम्बरालंकृतां श्रीशैल०॥५॥

लावण्याधिकभूषिताङ्गलतिकां लाक्षालसद्रागिणीं  
सेवायातसमस्तदेववनितां सीमन्तभूषान्विताम्।  
भावोल्लासवशीकृतप्रियतमां भण्डासुरच्छेदिनीं श्रीशैल ०॥६॥  
धान्यां सोमविभावनीयचरितां धाराधरश्यामलां  
मुन्याराधनमेधिनीं सुमवतां मुक्तिप्रदानव्रताम्।  
कन्यापूजनसुप्रसन्नहृदयां काञ्चीलसन्मध्यमां श्रीशैल०॥७॥  
कर्पूरागरुकुङ्कुमाङ्कितकुचां कर्पूरवर्णस्थितां  
कृष्टोत्कृष्टसुकृष्टकर्मदहनां कामेश्वरीं कामिनीम्।  
कामाक्षीं करुणारसार्द्रहृदयां कल्पान्तरस्थायिनीं श्रीशैल ०॥८॥  
गायत्रीं गरुडध्वजां गगनगां गान्धर्वगानप्रियां  
गम्भीरां गजगामिनीं गिरिसुतां गन्धाक्षतालंकृताम्।  
गङ्गागौतमगर्गसंनुतपदां गां गौतमीं गोमतीं श्रीशैल ०॥९॥

इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीमच्छङ्कराचार्यविरचितं  
भ्रमराम्बाष्टकं संपूर्णम् ॥

<MISSING_FIG href="../books_images/U-IMG-172430716330.png"/>  

**॥ शिवपञ्चाक्षरनक्षत्रमालास्तोत्रम् ॥**

श्रीमदात्मने गुणैकसिन्धवे नमः शिवाय  
धामलेशधूतकोकबन्धवे नमः शिवाय।  
नामशेषितानमद्भवान्धवे नमः शिवाय  
पामरेतरप्रधानबन्धवे नमः शिवाय॥१॥

कालभीतविप्रबालपाल ते नमः शिवाय  
शूलभिन्नदुष्टदक्षपाल ते नमः शिवाय।  
मूलकारणाय कालकाल ते नमः शिवाय  
पालयाधुना दयालवाल ते नमः शिवाय॥२॥  
इष्टवस्तुमुरव्यदानहेतवे नमः शिवाय  
दुष्टदैत्यवंशधूमकेतवे नमः शिवाय।  
सृष्टिरक्षणाय धर्मसेतवे नमः शिवाय  
अष्टमूर्तये वृषेन्द्रकेतवे नमः शिवाय॥३॥  
आपदद्रिभेदटङ्कहस्त ते नमः शिवाय  
पापहारिदिव्यसिन्धुमस्त ते नमः शिवाय।  
पापदारिणे लसन्नभस्त ते नमः शिवाय  
शापदोषखण्डनप्रशस्त ते नमः शिवाय॥४॥  
व्योमकेश दिव्यभव्यरूप ते नमः शिवाय  
हेममेदिनी घरेन्द्रचाप ते नमः शिवाय।  
नाममात्रदग्धसर्वपाप ते नमः शिवाय  
कामनैकतानहद्दुराप ते नमः शिवाय॥५॥  
ब्रह्ममस्तकावलीनिबद्ध ते नमः शिवाय  
जिह्मगेन्द्रकुण्डलप्रसिद्ध ते नमः शिवाय।  
ब्रह्मणे प्रणीत वेदपद्धते नमः शिवाय  
जिंहकालदेहदत्तपद्धते नमः शिवाय॥ ६॥

कामनाशनाय शुद्धकर्मणे नमः शिवाय  
सामगानजायमानशर्मणे नमः शिवाय।  
हेमकान्ति चाकचक्यवर्मणे नमः शिवाय  
सामजासुराङ्गलब्धचर्मणे नमः शिवाय॥७॥  
जन्ममृत्युघोरदुःखहारिणे नमः शिवाय  
चिन्मयैकरूपदेहधारिणे नमः शिवाय।  
मन्मनोरथावपूर्तिकारिणे नमः शिवाय  
सन्मनोगताय कामवैरिणे नमः शिवा॥८॥  
यक्षराजबन्धवे दयालवे नमः शिवाय  
दक्षपाणिशोभिकाश्चनालवे नमः शिवाय।  
पक्षिराजवाहहृच्छयालवे नमः शिवाय  
अक्षिफालवेदपूततालवे नमः शिवाय॥९॥  
दक्षहस्तनिष्ठजातवेदसे नमः शिवाय  
अक्षरात्मने नमद्विडौजसे नमः शिवाय।  
दीक्षितप्रकाशितात्मतेजसे नमः शिवाय  
उक्षराजवाह ते सतां गते नमः शिवाय॥१०॥  
राजताचलेन्द्रसानुवासिने नमः शिवाय  
राजमाननित्यमन्दहासिने नमः शिवाय।  
राजकोरकावतंसभासिने नमः शिवाय  
राजराजमित्रताप्रकाशिने नमः शिवाय॥११॥

दोनमानवालिकामधेनवे नमः शिवाय  
सूनबाणदाहकृत्कुशानवे नमः शिवाय।  
स्वानुरागभक्तरत्नसानवे नमः शिवाय  
दानवान्धकारचण्डभानवे नमः शिवाय  
सर्वमङ्गलाकुचाग्रशायिने नमः शिवाय  
सर्वदेवतागणातिशायिने नमः शिवाय।  
पूर्वदेवनाशसंविधायिने नमः शिवाय  
सर्वमन्मनोजभङ्गदायिने नमः शिवाय  
स्तोकभक्तितोऽपि भक्तपोषिणे नमः शिवाय  
माकरन्दसारवर्षिभाषिणे नमः शिवाय।  
एकबिल्वदानतोऽपितोषिणे नमः शिवाय  
नैकजन्मपापजालशोषिणे नमः शिवाय  
सर्वरक्षणैकशीलिने नमः शिवाय  
पार्वतीप्रियाय भक्तपालिने नमः शिवाय।  
दुर्विदग्धदैत्यसैन्यदारिणे नमः शिवाय  
शर्वरीशधारिणे कपालिने नमः शिवाय  
पाहि मामुमामनोज्ञदेह ते नमः शिवाय  
देहि मे वरं सिताद्रिगेह ते नमः शिवाय।  
मोहितर्षिकामिनीसमूह ते नमः शिवाय  
स्वेडितप्रसन्नकामदोह ते नमः शिवाय

मङ्गलप्रदाय गोतुरंग ते नमः शिवाय  
गङ्गया तरङ्गितोत्तमाङ्ग ते नमः शिवाय।  
सङ्गरप्रवृत्तवैरिभङ्ग ते नमः शिवाय  
अङ्गजारये करे कुरङ्ग ते नमः शिवाय॥१७॥  
ईहितक्षणप्रदानहेतवे नमः शिवाय  
आहिताग्निपालकोक्षकेतवे नमः शिवाय।  
देहकान्तिधूतरौप्यधातवे नमः शिवाय  
गेहदुःखपुञ्जधूमकेतवे नमः शिवाय॥१८॥  
त्र्यक्षदीनसत्कृपाकटाक्ष ते नमः शिवाय  
दक्षसप्ततन्तुनाशदक्ष ते नमः शिवाय।  
ऋक्षराजभानुपावकाक्ष ते नमः शिवाय  
रक्ष मां प्रपन्नमात्ररक्ष ते नमः शिवाय॥१९॥  
न्यङ्कुपाणये शिवं कराय ते नमः शिवाय  
सङ्कटाब्धितीर्णकिंकराय ते नमः शिवाय।  
पङ्कभीषिताभयंकराय ते नमः शिवाय  
पङ्कजाननाय शङ्कराय ते नमः शिवा॥२०॥  
कर्मपाशनाश नीलकण्ठ ते नमः शिवाय  
शर्मदायनर्यभस्मकण्ठ ते नमः शिवाय।  
निर्ममर्षिसेवितोपकण्ठ ते नमः शिवाय  
कुर्महेनतीर्नमद्विकुण्ठ ते नमः शिवाय॥२१॥

विष्टपाधिपाय नम्रविष्णवे नमः शिवाय  
शिष्टविप्रहृद्गुहाचरिष्णवे नमः शिवाय।  
इष्टवस्तुनित्यतुष्टजिष्णवे नमः शिवाय  
कष्टनाशनाय लोकजिष्णवे नमः शिवाय॥२२॥  
अप्रमेयदिव्यसुप्रभाव ते नमः शिवाय  
सत्प्रपन्नरक्षणस्वभाव ते नमः शिवाय।  
स्वप्रकाश निस्तुलानुभाव ते नमः शिवाय  
विप्रडिम्भादर्शितार्द्रभाव ते नमः शिवाय॥२३॥  
सेवकाय मे मृडप्रसीद ते नमः शिवाय  
भावलभ्य तावकप्रसाद ते नमः शिवाय।  
पावकाक्षदेवपूज्यपाद ते नमः शिवाय  
तावकाङ्घ्रिभक्तदत्तमोद ते नमः शिवाय॥२४॥  
भुक्तिमुक्तिदिव्यभोगदायिने नमः शिवाय  
शक्तिकल्पितप्रपञ्चभागिने नमः शिवाय।  
भक्तसंकटापहारयोगिने नमः शिवाय  
युक्तसन्मनः सरोजयोगिने नमः शिवाय॥२५॥  
अन्तकान्तकाय पापहारिणे नमः शिवाय  
शान्तमायदन्तिचर्मधारिणे नमः शिवाय।  
संतताश्रितव्यथाविदारिणे नमः शिवाय  
जन्तुजातनित्यसौख्यकारिणे नमः शिवाय॥२६॥

शूलिने नमो नमः कपालिने नमः शिवाय  
पालिने विरिञ्चितुण्डमालिने नमः शिवाय।  
लीलिने विशेषरुण्डमालिने नमः शिवाय  
शीलिने नमः प्रपुण्यशालिने नमः शिवाय॥२७॥  
शिवपञ्चाक्षरमुद्रां चतुष्पदोल्लासपद्यमणिघटिताम्।  
नक्षत्रमालिकामिह दधदुपकण्ठं नरो भवेत्सोमः॥२८॥

इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीमच्छङ्कराचार्यविरचितं  
शिवपञ्चाक्षरनक्षत्रमालास्तोत्रं संपूर्णम् ॥

<MISSING_FIG href="../books_images/U-IMG-172422991430.png"/>  

**॥ काशीपञ्चकम् ॥**

मनोनिवृत्तिः परमोपशान्तिः सा तीर्थवर्या मणिकर्णिका च।  
दानप्रवाहा विमलादिगङ्गा सा काशिकाहं निजबाधरूपा॥।१॥  
यस्यामिदं कल्पितमिन्द्रजालं चराचरं भाति मनोविलासम्।  
सच्चित्सुखैका परमात्मरूपा सा०॥२॥  
कोशेषु पञ्चस्वधि राजमाना बुद्धिर्भवानी प्रतिदेहगेहम्।  
साक्षी शिवः सर्वगतोऽन्तरात्मा सा०॥३॥  
काश्यां हि काशते काशी काशी सर्वप्रकाशिका।  
सा काशी विदिता येन तेन प्राप्ताहि काशिका॥४॥  
काशीक्षेत्रं शरीरं त्रिभुवनजननी व्यापिनी ज्ञान गङ्गां  
भक्तिः श्रद्धा गयेयं निजगुरुचरण ध्यानयोगः प्रयागः।

विश्वेशोऽयं तुरीयं सकलजनमनः साक्षिभूतोऽन्तरात्मा  
देहे सर्वं मदीये यदि वसति पुनस्तीर्थमन्यत्किमस्ति॥५॥

इति श्रीमच्छङ्कराचार्यविरचितं मणिकर्णिकाष्टकं संपूर्णम् ॥

<MISSING_FIG href="../books_images/U-IMG-172423011130.png"/>  

**॥ गुर्वष्टकम् ॥**

शरीरं सुरूपं तथा वा कलत्रं यशश्चारु चित्रं धनं मेरुतुल्यम्।  
मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे ततः किं ततः किं ततः किं ततः किम् ॥  
कलत्रं धनं पुत्रपौत्रादि सर्वं गृहं बान्धवाः सर्वमेतद्धि जातम्।  
मनश्चेन्नलग्नं०
॥२॥  
षडङ्गादिवेदा मुखे शास्त्रविद्या कवित्वादि गद्यं सुपद्यं करोति।  
मनश्चेन्नलग्नं ०
॥३॥  
विदेशेषु मान्यः स्वदेशेषु धन्यः सदाचारवृत्तेषु मत्तो न चान्यः।  
मनश्चेन्नलग्नं ०
॥४॥  
क्षमामण्डले भूपभूपालवृन्दैः सदासेवितं यस्य पादारविन्दम्।  
मनश्चेन्नलग्नं ०
॥५॥  
यशो मे गतं दिक्षुदानप्रतापा ज्जगद्वस्तु सर्वं करे यत्प्रसादात्।  
मनश्चेन्नलग्नं ०
॥६॥  
न भोगे न यागे नवा वाजिराजौ न कान्तामुखे नैव वित्तेषु चित्तम्।  
मनश्चेन्नलग्नं ०
॥७॥

अरण्ये नवा स्वस्य गेहे न कार्ये न देहे मनो वर्तते मे त्वनघ्य्ये  
यमश्चेन्नलग्नं ० ॥८॥  
गुरोरष्टकं यः पठेत्पुण्यदेही यति र्भूपतिर्ब्रह्मचारी च गेही।  
लभेद्वाञ्छितार्थं पदं ब्रह्मसंज्ञं गुरोरुक्तवाक्ये मनो यस्य लग्नम् ॥

इति श्रीमच्छङ्कराचार्यविरचितं यमुनाष्टकं संपूर्णम् ॥

<MISSING_FIG href="../books_images/U-IMG-172425750430.png"/>  
**॥ उमामहेश्वरस्तोत्रम् ॥**

नमः शिवाभ्यां नवयौवनाभ्यां परस्पराश्लिष्ठवपुर्धराभ्याम्।  
नगेन्द्रकन्यावृषकेतनाभ्यां नमो नमः शङ्करपार्वतीभ्याम्॥१॥  
नमः शिवाभ्यां सरसोत्सवाभ्यां नमस्कृताभीष्टवरप्रदाभ्याम्।  
नारायणेनार्चितपादुकाभ्यां नमो नमः ० ॥२॥  
नमः शिवाभ्यां वृषवाहनाभ्यां विरिञ्विविष्विन्द्रसुपूजिताभ्याम्।  
विभूतिपाटीरविलेपनाभ्यां नमो नमः ० ॥३॥  
नमः शिवाभ्यां जगदीश्वराभ्यां जगत्पतिभ्यां जयविग्रहाभ्याम्।  
जम्भारिमुख्यैरभिवन्दिताभ्यां नमो नमः ० ॥४॥  
नमः शिवाभ्यां परमौषधाभ्यां पञ्चाक्षरीपश्ञ्जररञ्जिताभ्याम्।  
प्रपञ्चसृष्टिस्थितिसंहृताभ्यां नमो नमः ० ॥५॥  
नमः शिवाभ्यामतिसुन्दराभ्यामत्यन्तमासक्तहृदम्बुजाभ्याम्।  
अशेषलोकैकहितं कराभ्यां नमो नमः ० ॥६॥

नमः शिवाभ्यां कलिनाशनाभ्यां कङ्कालकल्याणवपुर्धराभ्याम्।  
कैलासशैलास्थितदेवताभ्यां नमो नमः ०॥७॥  
नमः शिवाभ्यामशुभापहाभ्यामशेषलोकैकविशेषिताभ्याम्।  
अकुण्टिताभ्यां स्मृतिसम्भृताभ्यां नमो नमः ०॥८॥  
नमः शिवाभ्यां रथवाहनाभ्यां रवीन्दुवैश्वानरलोचनाभ्याम्।  
राकाशशाङ्काभमुखाम्बुजाभ्यां नमो नमः ०॥९॥  
नमः शिवाभ्यां जटिलं घराभ्यां जरामृतिभ्यां च विवर्जिताभ्याम् \।  
जनार्दनोद्भवपूजिताभ्यां नमो नमः ०॥१०॥  
नमः शिवाभ्यां विषमेक्षणाभ्यां विल्वच्छदामल्लिकदामभृद्भयाम् ।  
शोभावतीशान्तवतीश्वराभ्यां नमो नमः ०॥११॥  
नमः शिवाभ्यां पशुपालकाभ्यां जगत्त्रयीरक्षणबद्धहृद्भ्याम्।  
समस्तदेवासुरपूजिताभ्यां नमो नमः ०॥१२॥  
स्तोत्रं त्रिसन्ध्यं शिवपार्वतीभ्यां भक्त्या पठेद्द्द्वादशकं नरो यः ।  
स सर्वसौभाग्यफलानि भुंक्ते शतायुरन्ते शिवलोकमेति॥१३॥

इति श्रीमच्छङ्कराचार्यविरचितं नर्मदाष्टकं संपूर्णम् ॥  
<MISSING_FIG href="../books_images/U-IMG-172431479430.png"/>  

**॥ रामहृदयम् ॥**

**श्रीमहादेव उवाच—**  
ततो रामः स्वयं प्राह हनूमन्तमुपस्थितम्।  
शृणु तत्त्वं प्रवक्ष्यामि ह्यात्मानात्मपरात्मनाम्॥१॥

आकाशस्य यथा भेदस्त्रिविधो दृश्यते महान्।  
जलाशये महाकाशस्तदवच्छिन्न एव हि॥२॥  
प्रतिबिंबाख्यमपरं दृश्यते त्रिविधं नमः।  
बुद्ध्यवच्छिन्नचैतन्यमेकं पूर्णमथापरम्॥३॥  
आभासस्त्वपरं बिंबभूतमेवं त्रिधा चितिः।  
साभासबुद्धेः कर्तृत्वमविच्छिन्नेऽविकारिणि॥४॥  
साक्षिण्यारोप्यते भ्रांत्या जीवत्वं च तथाऽबुधैः।  
आभासस्तु मृषाबुद्धिरविद्याकार्यमुच्यते॥५॥  
अविच्छिन्नं तु तद्ब्रह्म विच्छेदस्तु विकल्पितः।  
अविच्छिन्नस्य पूर्णेन एकत्वं प्रतिपाद्यते॥६॥  
तत्त्वमस्यादिवाक्यैश्च साभासस्याहमस्तथा।  
ऐक्यज्ञानं यदोत्पन्नं महावाक्येन चात्मनोः॥७॥  
तदाऽविद्या स्वकार्यैश्च नश्यत्येव न संशयः।  
एतद्विज्ञाय मद्भक्तो मद्भावायोपपद्यते॥ ८ ॥  
मद्भक्तिविमुखानां हि शास्त्रगर्तेषु मुह्यताम्।  
न ज्ञानं न च मोक्षः स्यात्तेषां जन्मशतैरपि॥९॥  
इदं रहस्यं हृदयं ममात्मनो मयैव साक्षात्कथितं तवानघ।  
मद्भक्तिहीनाय शठाय न त्वया दातव्यमैंद्रादपि राज्यतोऽधिकम्॥

इति श्रीमदध्यात्मरामायणे बालकाण्डे श्रीरामहृदयं संपूर्णम् ॥

<MISSING_FIG href="../books_images/U-IMG-172423061930.png"/>

**॥ रामस्तवराजः ॥**

 अस्य श्रीरामचन्द्रस्तवराजस्तोत्रमन्त्रस्य। सनत्कुमार ऋषिः। श्रीरामो देवता। अनुष्टुप्छंदः। सीता बीजम्। हनुमान् शक्तिः। श्रीरामप्रीत्यर्थे जपे विनियोगः॥

**सूत उवाच —**  
सर्वशास्त्रार्थतत्वज्ञं व्यासं सत्यवतीसुतम्।  
धर्मपुत्रः प्रहृष्टात्मा प्रत्युवाच मुनीश्वरम्॥१॥  
**युधिष्ठिर उवाच।—**  
भगवन्योगिनां श्रेष्ठ सर्वशास्त्रविशारद।  
किं तत्त्वं किं परं जाप्यं किं ध्यानं मुक्तिसाधनम्॥२॥  
श्रोतुमिच्छामि तत्सर्वं ब्रूहि मे मुनिसत्तम।  
**वेदव्यास उवाच—**  
धर्मराज महाभाग शृणु वक्ष्यामि तत्वतः॥३॥  
यत्परं यद्गुणातीतं यज्ज्योतिरमलं शिवम्।  
तदेव परमं तत्वं कैवल्यपदकारणम्॥४॥  
श्रीरामेति परं जाप्यं तारकं ब्रह्मसंज्ञकम्।  
ब्रह्महत्यादिपापघ्नमिति वेदविदो विदुः॥५॥  
श्रीराम रामेति जना ये जपंति च सर्वदा।  
तेषां भुक्तिश्च मुक्तिश्च भविष्यति न संशयः॥६॥  
स्तवराजं पुरा प्रोक्तं नारदेन च धीमता  
तत्सर्वं संप्रवक्ष्यामि हरिध्यानपुरस्तरम्॥७॥

तापत्रयग्निशमनं सर्वाघौघनिकृन्तनम्।  
दारिद्र्यदुःखशमनं सर्वसंपत्करं शिवम्॥८॥  
विज्ञानफलदं दिव्यं मोक्षैकफलसाधनम्।  
नमस्कृत्य प्रवक्ष्यामि रामं कृष्णं जगन्मयम्॥९॥  
अयोध्यानगरे रम्ये रत्नमंडपमध्यगे।  
स्मरेत्कल्पतरोर्मूले रत्नसिंहासनं शुभम्॥१०॥  
तन्मध्येऽदलं पद्मं नानारत्नैश्चवेष्टितम्।  
स्मरेन्मध्ये दाशरथिं सहस्रादित्यतेजसम्॥११॥  
पितुरंकगतं राममिंद्रनीलमणिप्रभम्।  
कोमलांगं विशालाक्षं विद्युद्वर्णांबरावृतम्॥१२॥  
भानुकोटिप्रतीकाशं किरीटेन विराजितम्।  
रत्नप्रैवेयकेयूररत्नकुण्डलमंडितम्॥१३॥  
रत्नकङ्कणमंजीरकटिसूत्रैरलंकृतम्।  
श्रीवत्सकौस्तुभोरस्कं मुक्ताहारोपशोभितम्॥१४॥  
दिव्यरत्नसमायुक्तमुद्रिकाभिरलंकृतम्।  
राघवं द्विभुजं बालं राममीषस्मिताननम्॥१५॥  
तुलसीकुंदमंदारपुष्पमाल्यैरलंकृतम्।  
कर्पूरागुरुकस्तूरीदिव्यगंधानुलेपनम्॥१६॥  
योगशास्त्रेष्वभिरतं योगेशं योगदायकम्।  
सदा भरतसौमित्रिशत्रुघ्नैरुपशोभितम्॥१७॥

विद्याधरसुराधीशसिद्धगंधर्वकिन्नरैः।  
योगींद्रर्नारदाद्यैश्च स्तूयमानमहर्निशम्॥१८॥  
विश्वामित्रवसिष्ठादिमुनिभिः परिसेवितम्।  
सनकादिमुनिश्रेष्ठैर्योगिबुंदैश्व सेवितम्॥१९॥  
रामं रघुवरं वीरं धनुर्वेदविशारदम्।  
मंगलायतनं देवं रामं राजीवलोचनम्॥२०॥  
सर्वशास्त्रार्थतत्त्वज्ञमानंदकरसुन्दरम्।  
कौसल्यानंदनं रामं धनुर्बाणधरं हरिम्॥२१॥  
एवं संचिंतयन्विष्णुं यज्ज्योतिरमलं विभुम्।  
प्रहृष्टमनसो भूत्वा मुनिवर्यः स नारदः॥२२॥  
सर्वलोकहितार्थाय तुष्टाव रघुनन्दनम्।  
कृतांजलिपुटो भूत्वा चिंतयन्नद्भुतं हरिम्॥२३॥  
यदेकं यत्परं नित्यं यदनंतं चिदात्मकम्।  
यदेकं व्यापकं लोके तद्रूपं चिंतयाम्यहम्॥२४॥  
विज्ञानहेतुं विमलायताक्षं प्रज्ञानरूपं स्वसुखैकहेतुम्।  
श्रीरामचन्द्रं हरिमादिदेवं परात्परं राममहं भजामि॥२५॥  
कविं पुराणं पुरुषं पुरस्तात्सनातनं योगिनमीशितारम्।  
अणोरणीयांसमनंतवीर्यं प्राणेश्वरं राममसौ ददर्श॥२६॥  
**नारद उवाच—**  
नारायणं जगन्नाथमभिरामं जगत्पतिम्।  
कविं पुराणं वागीशं रामं दशरथात्मजम्॥२७॥

राजराजं रघुवरं कौसल्यानंदवर्धनम्।  
भर्गं वरेण्यं विश्वेशं रघुनाथं जगद्गुरुम्॥२८॥  
सत्यं सत्यप्रियं श्रेष्ठं जानकीवल्लभं विभुम्।  
सौमित्रिपूर्वजं शांतं कामदं कमलेक्षणम्॥२९॥  
आदित्यं रविमीशानं घृणिं सूर्यमनामयम्।  
आनंदरूपिणं सौम्यं राघवं करुणामयम्॥३०॥  
जामदग्न्यं तपोमूर्तिं रामं परशुधारिणम्।  
वाक्पतिं वरदं वाच्यं श्रीपतिं पक्षिवाहनम्॥३१॥  
श्रीशार्ङ्गधारिणं रामं चिन्मयानंदविग्रहम् ।  
हलधृग्विष्णुमीशानं बलरामं कृपानिधिम्॥३२॥  
श्रीवल्लभं कृपानाथं जगन्मोहनमच्युतम् ।  
मत्स्यकूर्मवराहादिरूपधारिणमव्ययम्॥३३॥  
वासुदेवं जगद्योनिमनादिनिधनं हरिम्।  
गोविंदं गोपतिं विष्णुं गोपीजनमनोहरम्॥३४॥  
गोगोपालपरीवारं गोपकन्यासमावृतम्।  
विद्युत्पुंजप्रतीकाशं रामं कृष्णं जगन्मयम्॥३५॥  
गोगोपिकासमाकीर्णं वेणुवादनतत्परम्।  
कामरूपं कलावन्तं कामिनीकामदं विभुम्॥३६॥  
मन्मथं मधुरानाथं माधवं मकरध्वजम्।  
श्रीधरं श्रीकरं श्रीशं श्रीनिवासं परात्परम्॥३७॥

भूतेशं भूपतिं भद्रं विभूतिं भूतिभूषणम्।  
सर्वदुःखहरं वीरं दुष्टदानववैरिणम्॥ ३८ ॥  
श्रीनृसिंहं महाबाहुं महान्तं दीप्ततेजसम्।  
चिदानंदमयं नित्यं प्रणवं ज्योतिरूपिणम्॥३९॥  
आदित्यमंडलगतं निश्चितार्थस्वरूपिणम्।  
भक्तप्रियं पद्मनेत्रं भक्तानामीप्सितप्रदम्॥४०॥  
कौसलेयं कलामूर्तिं काकुत्स्थं कमलाप्रियम्  
सिंहासने समासीनं नित्यव्रतमकल्मषम्॥ ४१ ॥  
विश्वामित्रप्रियं दांतं स्वदारनियतव्रतम्।  
यज्ञेशं यज्ञपुरुषं यज्ञपालनतत्परम्॥४२॥  
सत्यसंधं जितक्रोधं शरणागतवत्सलम्।  
सर्वक्लेशापहरणं विभीषणवरप्रदम्॥४३॥  
दशग्रीवहरं रौद्रं केशवं केशिमर्दनम्।  
वालिप्रमथनं वीरं सुग्रीवेप्सितराज्यदम्॥४४॥  
नरवानरदेवैश्च सेवितं हनुमत्प्रियम्।  
शुद्धं सूक्ष्मं परं शांतं तारकब्रह्मरूपिणम्॥।४५॥  
सर्वभूतात्मभूतस्थं सर्वाधारं सनातनम्।  
सर्वकारणकर्तारं निदानं प्रकृतेः परम्॥४६॥  
निरामयं निराभासं निरवद्यं निरञ्जनम्।  
नित्यानंदं निराकारमद्वैतं तमसः परम्॥४७॥

परात्परतरं तत्त्वं सत्यानंदं चिदात्मकम्।  
मनसा शिरसा नित्यं प्रणमामि रघूत्तमम्॥४८॥  
सूर्यमंडलमध्यस्थं रामं सीतासमन्वितम्।  
नमामि पुंडरीकाक्षममेयं गुरुतत्वरम्॥४९॥  
नमोऽस्तु वासुदेवाय ज्योतिषां पतये नमः।  
नमोऽस्तु रामदेवाय जगदानंदरूपिणे॥५०॥  
नमो वेदांतनिष्ठाय योगिने ब्रह्मवादिने।  
मायामयनिरासाय प्रपन्नजनसेविने॥५१॥  
वंदामहे महेशानचंडकोदंडखंडनम्।  
जानकीहृदयानंदवर्धनं रघुनंदनम्॥५२॥  
उत्फुल्लामलकोमलोत्पलदलश्यामाय रामाय ते  
कामाय प्रमदाननोहरगुणग्रामाय रामात्मने।  
योगारूढमुनींद्रमानससरोहंसाय संसारवि-  
धंसाय स्फुरदोजसे रघुकुलोत्तंसाय पुंसे नमः॥५३॥  
भवोद्भवं वेदविदां वरिष्टमादित्यचंद्रानलसुप्रभावम्।  
सर्वात्मकं सर्वगतस्वरूपं नमामि रामं तमसः परस्तात्॥५४॥  
निरंजनं निष्प्रतिमं निरीहं निराश्रयं निष्कलमप्रपंचम्।  
नित्यं ध्रुवं निर्विषयस्वरूपं निरन्तरं राममहं भजामि॥५५॥  
भवाब्धिपोतं भरताग्रजं तं भक्तप्रियं भानुकुलप्रदीपम्।  
भूतत्रिनाथं भुवनाधिपं तं भजामि रामं भवरोगवैद्यम्॥५६॥

सर्वाधिपत्यंसमरांगधीरं सत्यं चिदानंदमयस्वरूपम्।  
सत्यं शिवं शांतिमयं शरण्यं सनातनं राममहं भजामि॥५७॥  
कार्यक्रियाकारणमप्रमेयं कविं पुराणं कमलायताक्षम्।  
कुमारवेद्यं करुणामयं तं कल्पद्रुमं राममहं भजामि॥५८॥  
त्रैलोक्यनाथं सरसीरुहाक्षं दयानिधिं द्वंद्वविनाशहेतुम्।  
महाबलं वेदविधिं सुरेशं सनातनं राममहं भजामि॥५९॥  
वेदांतवेद्यं कविमीशितारमनादिमध्यांतमचिंत्यमाद्यम्।  
अगोचरं निर्मलमेकरूपं नमामि रामं तमसः परस्तात्॥६०॥  
अशेषवेदात्मकमादिसंज्ञमजं हरिं विष्णुमनंतमाद्यम्।  
अपारसंवित्सुखमेकरूपं परात्परं राममहं भजामि॥६१॥  
तत्त्वस्वरूपं पुरुषं पुराणं स्वतेजसा पूरितविश्वमेकम्।  
राजाधिराजं रविमण्डलस्थं विश्वेश्वरं राममहं भजामि॥६२॥  
लोकाभिरामं रघुवंशनाथं हरिं चिदानंदमयं मुकुंदम्।  
अशेषविद्याधिपतिं कवींद्रं नमामि रामं तमसः परस्तात्॥६३॥  
योगींद्रसंघैश्च सुसेव्यमानं नारायणं निर्मलमादिदेवम्।  
नतोऽस्मि नित्यं जगदेकनाथमादित्यवर्णं तमसः परस्तात्॥६४॥  
विभूतिदं विश्वसृजं विरामं राजेंद्रमीशंरघुवंशनाथम्।  
अचिंत्यमव्यक्तमनंतमूर्तिं ज्योतिर्मयं राममहं भजामि॥६५॥  
अशेषसंसारविहारहीनमादित्यगं पूर्णसुखाभिरामम्।  
समस्तसाक्षिं तमसः परस्तान्नारायणं विष्णुमहं भजामि॥६६॥

मुनींद्रगुह्यं परिपूर्णकामं कलानिधिं कल्मषनाशहेतुम्।  
परात्परं यत्परमं पवित्रं नमामि रामं महतो महांतम्॥६७॥  
ब्रह्मा विष्णुश्च रुद्रश्च देवेंद्रो देवतास्तथा।  
आदित्यादिप्रहाश्चैव त्वमेव रघुनंदन॥६८॥  
तापसा ऋषयः सिद्धाः साध्याश्च मरुतस्तथा।  
विप्रा वेदास्तथा यज्ञाः पुराणधर्मसंहिताः॥६९॥  
वर्णाश्रमास्तथा धर्मा वर्णधर्मास्तथैव च।  
यक्षराक्षसगंधर्वा दिक्पाला दिग्गजादयः॥७०॥  
सनकादिमुनिश्रेष्ठास्त्वमेव रघुपुङ्गव।  
वसवोऽष्टौ त्रयः काला रुद्रा एकादश स्मृताः॥७१॥  
तारकादश दिक्चैव त्वमेव रघुनंदन।  
सप्तद्वीपाः समुद्राश्च नगा नद्यस्तथा द्रुमाः॥७२॥  
स्थावरा जंगमाश्चैव त्वमेव रघुनायक।  
देवतिर्यङ्मनुष्याणां दानवानां तथैव च॥७३॥  
माता पिता तथा भ्राता त्वमेव रघुवल्लभ।  
सर्वेषां त्वं परं ब्रह्म त्वन्मयं सर्वमेव हि॥७४॥  
स्वमक्षरं परं ज्योतिस्त्वमेव पुरुषोत्तम।  
त्वमेव तारकं ब्रह्म त्वत्तोऽन्यन्नैव किंचन॥७५॥  
शांतं सर्वगतं सूक्ष्मं परं ब्रह्म सनातनम्।  
राजीवलोचनं रामं प्रणमामि जगत्पतिम्॥७६॥

**व्यास उवाच—**  
ततः प्रसन्नः श्रीरामः प्रोवाच मुनिपुङ्गवम्।  
तुष्टोऽस्मि मुनिशार्दूल वृणीष्व वरमुत्तमम्॥७७॥  
**नारद उवाच—**  
यदि तुष्टोऽसि सर्वज्ञ श्रीराम करुणानिधे।  
त्वमूर्तिदर्शनेनैव कृतार्थोऽहं च सर्वदा॥७८॥  
धन्योऽहं कृतकृत्योऽहं पुण्योऽहं पुरुषोत्तम ।  
अद्य मे सफलं जन्म जीवितं सफलं च मे॥७९॥  
अद्य मे सफलं ज्ञानमद्य मे सफलं तपः।  
अद्य मे सफलं कर्म त्वत्पादांभोजदर्शनात् ।  
अद्य मे सफलं सर्वं त्वन्नामस्मरणं तथा॥८०॥  
त्वत्पादांभोरुहद्वन्द्वसद्भक्तिं देहि राघव।  
ततः परमसंप्रीतः स रामः प्राह नारदम्॥ ८१ ॥  
**श्रीराम उवाच—**  
मुनिवर्य महाभाग मुने त्विष्टं ददामि ते ।  
यत्त्वया चेप्सितं सर्वं मनसा तद्भविष्यति॥८२॥  
**नारद उवाच —**  
वरं न याचे रघुनाथ युष्मत्पादाब्जभक्तिः सततं ममास्तु ।  
इदं प्रियं नाथ वरं प्रयाचे पुनः पुनस्त्वामिदमेव याचे॥ ८३ ॥  
**व्यास उवाच—**  
इत्येवमीडितो रामः प्रादात्तस्मै वरांतरम्।  
वीरो रामो महातेजाः सच्चिदानन्दविग्रहः॥८४॥

अद्वैतममलं ज्ञानं स्वनामस्मरणं तथा।  
अन्तर्दधौ जगन्नाथः पुरतस्तस्य राघवः॥८५॥  
इति श्रीरघुनाथस्य स्तवराजमनुत्तमम्।  
सर्वसौभाग्यसंपत्तिदायकं मुक्तिदं शुभम्॥८६॥  
कथितं ब्रह्मपुत्रेण वेदानां सारमुत्तमम्।  
गुह्याद्गुह्यतमं दिव्यं तव स्नेहात्प्रकीर्तितम्॥ ८७॥  
यः पठेच्छृणुयाद्वाऽपि त्रिसंध्यं श्रद्धयान्वितः।  
ब्रह्महत्यादिपापानि तत्समानि बहूनि च॥८८॥  
स्वर्णस्तेयं सुरापानं गुरुतल्पगतिस्तथा।  
गोवधाद्युपपापानि अनृतात्संभवानि च॥८९॥  
सर्वैः प्रमुच्यते पापैः कल्पायुतशतोद्भवैः।  
मानसं वाचिकं पापं कर्मणा समुपार्जितम्॥९०॥  
श्रीरामस्मरणेनैव तत्क्षणान्नश्यति ध्रुवम्।  
इदं सत्यमिदं सत्यं सत्यमेतदिहोच्यते॥९१॥  
रामं सत्यं परं ब्रह्म रामात्किंचिन्न विद्यते।  
तस्माद्रामस्वरूपं हि सत्यं सत्यमिदं जगत्॥९२॥  
श्रीरामचंद्र रघुपुंगव राजवर्य  
राजेंद्र राम रघुनायक राघवेश।  
राजाधिराज रघुनन्दन रामचन्द्र  
दासोऽहमद्य भवतः शरणागतोऽस्मि॥।९३॥

वैदेहीसहितं सुरद्रुमतले हैमे महामंडपे  
मध्ये पुष्पकृतासने मणिमये वीरासने संस्थितम्।  
अग्रे वाचयति प्रभंजनसुते तत्त्वं मुनींद्रेः परं  
व्याख्यातं भरतादिभिः परिवृतं रामं भजे श्यामलम्॥९४॥  
रामं रत्नकिरीटकुंडलयुतं केयूरहारान्वितं  
सीतालंकृतवामभागममलं सिंहासनस्थं विभुम्।  
सुग्रीवादिहरीश्वरैः सुरगणैः संसेव्यमानं सदा  
विश्वामित्रपराशरादिमुनिभिः संस्तूयमानं प्रभुम्॥९५॥  
सकलगुणनिधानं योगिभिः स्तूयमानं  
भुजविजितसमानं राक्षसेंद्रादिमानम्।  
महितनृपभयानं सीतया शोभमानं  
स्मर हृदय विमानं ब्रह्म रामाभिधानम्॥९६॥  
रघुवर तव मूर्तिर्मामके मानसाब्जे  
नरकगतिहरं ते नामधेयं मुखे मे।  
अनिशमतुलभक्त्या मस्तकं त्वत्पदाब्जे  
भवजलनिधिमग्नं रक्ष मामार्तबंधो॥९७॥  
रामरत्नमहं वंदे चित्रकूटपतिं हरिम्।  
कौसल्याभक्तिसंभूतं जानकीकंठभूषणम्॥९८ ॥

इति श्रीसनत्कुमारसंहितायां नारदोक्तं श्रीरामचंद्रस्तवराजस्तोत्रं संपूर्णम् !

<MISSING_FIG href="../books_images/U-IMG-172429226430.png"/>

**॥ रामगीता ॥**

**श्रीमहादेव उवाच—**  
ततो जगन्मंगलमंगलात्मना विधाय रामायणकीर्तिमुत्तमाम्।  
चचार पूर्वाचरितं रघूत्तमो राजर्षिवर्यैरभिसेवितं यथा॥ १ ॥  
सौमित्रिणा पृष्ठ उदारबुद्धिना रामः कथाः प्राह पुरातनीः शुभाः।  
राज्ञः प्रमत्तस्य नृगस्य शापतो द्विजस्य तिर्यक्त्वमथाह राघवः॥  
कदाचिदेकांत उपस्थितं प्रभुं रामं रमालालितपादपंकजम्।  
सौमित्रिरासादितशुद्धभावनः प्रणम्य भक्त्या विनयान्वितोऽब्रवीत्॥  
**सौमित्रिरुवाच—**  
त्वं शुद्धबोधोऽसि हि सर्वदेहिनामात्मास्यधीशोऽसि निराकृतिः स्वयम्।  
प्रतीयसे ज्ञानदृशां महामते पादाब्जभृंगाहितसंगसंगिनाम्॥४॥  
अहं प्रपन्नोऽस्मि पदांबुजं प्रभो भवापवर्गं तव योगिभावितम्।  
यथांजसाज्ञानमपारवारिधिं सुखं तरिष्यामि तथानुशाधि माम् ॥  
श्रुत्वाथ सौमित्रिवचोऽखिलं तदा प्राह प्रपन्नार्तिहरः प्रसन्नधीः।  
विज्ञानमज्ञानतमोपशांतये श्रुतिप्रपन्नं क्षितिपालभूषणः॥६॥  
**श्रीराम उवाच—**  
आदौ स्ववर्णाश्रमवर्णिताः क्रियाः कृत्वा समासादितशुद्धमानसः।  
समाप्य तत्पूर्वमुपात्तसाधनः समाश्रयेत्सद्गुरुमात्मलब्धये॥७॥  
क्रिया शरीरोद्भवहेतुरादृता प्रियाप्रियौ तौ भवतः सुरागिणः।  
धर्मेतरौ तत्र पुनः शरीरकं पुनः क्रिया चक्रवदीर्यते भवः॥८ ॥

अज्ञानमेवास्य हिमूलकारणं तद्ध्यानमेवात्र विधौ विधीयते।  
विद्यैव तन्नाशविधौ पटीयसी न कर्म तज्जं सविरोधमीरितम्॥  
नाज्ञानहानिर्न च रागसंक्षयो भवेत्ततः कर्म सदोषमुद्भवेत्।  
ततः पुनः संसृतिरप्यवारिता तस्माद्द्बुधो ज्ञानविचारवान्भवेत् ॥  
ननु क्रिया वेदमुखेन चोदिता यथैव विद्या पुरुषार्थसाधनम्।  
कर्तव्यता प्राणभृतः प्रचोदिता विद्यासहायत्वमुपैति सा पुनः ॥  
कर्माकृतौ दोषमपि श्रुतिर्जगौ तस्मात्सदा कार्यमिदं मुमुक्षुणा।  
ननु स्वतंत्रा ध्रुवकार्यकारिणी विद्या न किंचिन्मनसाप्यपेक्षते॥  
न सत्यकार्योऽपि हि यद्वदध्वरः प्रकांक्षतेऽन्यानपि कारकादिकान्।  
तथैव विद्या विधितः प्रकाशितैर्विशिष्यते कर्मभिरेव मुक्तये ॥ १३ ॥  
केचिद्वदंतीति वितर्कवादिनस्तदप्यसदृष्टविरोधकारणात्।  
देहाभिमानादभिवर्धते क्रिया विद्यागताहंकृतितः प्रसिध्यति ॥ १४ ॥  
विशुद्धविज्ञानविरोचनांचिता विद्यात्मवृत्तिश्चरमेति भण्यते।  
उदेति कर्माखिलकारकादिभिर्निहंति विद्याऽखिलकारकादिकम् ॥  
तस्मात्त्यजेत्कार्यमशेषतः सुधीर्विद्याविरोधान्न समुच्चयो भवेत्।  
आत्मानुसंधानपरायणः सदा निवृत्तसर्वेद्रियवृत्तिगोचरः ॥१६॥  
यावच्छरीरादिषु माययात्मधीस्तावद्विधेयो विधिवादकर्मणाम्।  
नेतीति वाक्यैरखिलं निषिध्य तज्ज्ञात्वा परात्मानमथ त्यजेत्क्रियाः ॥  
या परात्मात्मविभेदभेदकं विज्ञानमात्मन्यवभाति भास्वरम्।  
तवैव माया प्रविलीयतेंऽजसा सकारका कारणमात्मसंसृतेः ॥ १८ ॥

श्रुतिप्रमाणाभिविनाशिता च सा कथं भविष्यत्यपि कार्यकारिणी।  
विज्ञानमात्रादमलाद्वितीयतस्तस्मादविद्या न पुनर्भविष्यति॥ १९॥  
यदि स्म नष्टा न पुनः प्रसूयते कर्ताहमस्येति मतिः कथं भवेत्।  
तस्मात्स्वतंत्रा न किमप्यपेक्षते विद्या विमोक्षाय विभाति केवला॥  
सा तैत्तिरीयश्रुतिराह सादरं न्यासं प्रशस्ताखिलकर्मणां स्फुटम्।  
एतावदित्याह च वाजिनां श्रुतिर्ज्ञानं विमोक्षाय न कर्मसाधनम्॥  
विद्यासमत्वेन तु दर्शितस्त्वया क्रतुर्न दृष्टान्त उदाहृतः समः।  
फलैः पृथक्त्वाद्बहुकारकैः क्रतुः संसाध्यते ज्ञानमतो विपर्ययम् ॥  
सप्रत्यवायो ह्महमित्यनात्मधीरज्ञप्रसिद्धा न तु तत्त्वदर्शिनः।  
तस्माद्बुधस्त्याज्यमपि क्रियात्मभिर्विधानतः कर्म विधिप्रकाशितम् ॥  
श्रद्धान्वितस्तत्त्वमसीति वाक्यतो गुरोः प्रसादादपि शुद्धमानसः।  
विज्ञाय चैकात्म्यमथात्मजीवयोः सुखी भवेन्मेरुरिवाप्रकंपनः ॥ २४ ॥  
आदौ पदार्थावगतिर्हि कारणं वाक्यार्थविज्ञानविधौ विधानतः।  
तत्त्वं पदार्थौ परमात्मजीवकावसीति चैकात्म्यमथानयोर्भवेत् ॥ २५॥  
प्रत्यक्परोक्षादि विरोधमात्मनोर्विहाय संगृह्य तयोश्चिदात्मताम्।  
संशोधितां लक्षणया च लक्षितां ज्ञात्वा स्वमात्मानमथाद्वयो भवेत् ॥  
एकात्मकत्वाज्जहती न संभवेत्तथाजहल्लक्षणता विरोधतः ।  
सोऽयंपदार्थाविव भागलक्षणा युज्येत तत्वं पदयोरदोषतः ॥२७॥  
रसादिपंचीकृतभूतसंभवं भोगालयं दुःखसुखादिकर्मणाम्।  
शरीरमाद्यंतवदादिकर्मजं मायामयं स्थूलमुपाधिमात्मनः॥२८॥

सूक्ष्मं मनोबुद्धिदशेंद्रियैर्युतं प्राणैरपंचीकृतसंभवम्।  
भोक्तुः सुखादेरनुसाधनं भवेच्छरीरमन्यद्विदुरात्मनो बुधाः॥२९॥  
अनाद्यनिर्वाच्यमपीह कारणं मायाप्रधानं तु परं शरीरकम्।  
उपाधिभेदात्तु यतः पृथक्स्थितं स्वात्मानमात्मन्यवधारयेत्क्रमात् ॥  
कोशेषु पंचस्वपि तत्तदाकृतिर्विभाति संगात्स्फटिकोपलो यथा।  
असंगरूपोऽयमजो यतोऽद्वयो विज्ञायतेऽस्मिन्परितो विचारिते ॥  
बुद्धेस्त्रिधा वृत्तिरपीह दृश्यते स्वप्नादिभेदेन गुणत्रयात्मनः।  
अन्योन्यतोऽस्मिन्ब्यभिचारतो मृषा नित्ये परे ब्रह्मणि केवले शिवे।  
देहेंद्रियप्राणमनश्विदात्मनां संघादजस्रं परिवर्तते धियः।  
वृत्तिस्तमोमूलतयाऽज्ञलक्षणा यावद्भवेत्तावदसौ भवोद्भवः॥३३॥  
नेति प्रमाणेन निराकृताऽखिलो हृदा समास्वादितचिद्धनामृतः।  
त्यजेदशेषं जगदात्तसद्रसं पीत्वा यथांऽभः प्रजहाति तत्फलम् ॥  
कदाचिदात्मा न मृतो न जायते न क्षीयते नापि विवर्धते नवः।  
निरस्तसर्वातिशयः सुखात्मकः स्वयंप्रभः सर्वगतोऽयमद्वयः ॥३५॥  
एवंविधे ज्ञानमये सुखात्मके कथं भवो दुःखमयः प्रतीयतेI  
अज्ञानतोऽध्यासवशात्प्रकाशते ज्ञाने विलीयेत विरोधतः क्षणात् ॥  
यदन्यदन्यत्र विभाव्यते भ्रमादध्यासमित्याहुरमुं विपश्चितः।  
असर्पभूतेहिविभावनं यथा रज्ज्वादिके तद्वदपीश्वरे जगत् ॥३७॥  
विकल्पमायारहिते चिदात्मकेऽहंकार एष प्रथमः प्रकल्पितः ।  
अध्यास एवात्मनि सर्वकारणे निरामये ब्रह्मणि केवले परे ॥ ३८ ॥

इच्छादिरागादिसुखादिधार्मिकाः सदा धियः संसृतिहेतवः परे।  
यस्मात्प्रसुप्तौ तदभावतः परः सुखस्वरूपेण विभाव्यते हि नः॥  
अनाद्यविद्योद्भवबुद्धिबिंबितो जीवः प्रकाशोयमितीर्यते चितः।  
आत्मा धियः साक्षितया पृथक्स्थितो बुद्ध्या परिच्छिन्नपरः स एव हि॥  
चिद्बिंबसाक्षात्मधियां प्रसङ्गतस्त्वेकत्र वातादनलाक्तलोहवत्।  
अन्योन्यमध्यासवशात्प्रतीयते जडाजडत्वं च चिदात्मचेतसोः ॥  
गुरोः सकाशादपि वेदवाक्यतः संजातविद्यानुभवो निरीक्ष्यतम्।  
स्वात्मानमात्मस्थमुपाधिवर्जितं त्यजेदशेषं जडमात्मगोचरम् ॥४२॥  
प्रकाशरूपोऽहमजोऽहमद्वयोऽसकृद्विभातोऽहमतीव निर्मलः।  
विशुद्धविज्ञानघनो निरामयः संपूर्ण आनंदमयोऽहमक्रियः ॥ ४३ ॥  
सदैव मुक्तोऽहमचिंत्यशक्तिमानतींद्रियज्ञानमविक्रियात्मकः।  
अनन्तपारोऽहमहर्निशं बुधैर्विभावितोऽहं हृदिवेदवादिभिः ॥ ४४ ॥  
एवं सदात्मानमखंडितात्मना विचार्यमाणस्य विशुद्धभावना।  
हन्यादविद्यामचिरेण कारकै रसायनं यद्वदुपासितं रुजः॥४५॥  
विविक्त आसीन उपारतेंद्रियो विनिर्जितात्मा विमलांतराशयः।  
विभावयेदेकमनन्यसाधनो विज्ञानदृक्केवल आत्मसंस्थितः॥४६॥  
विश्वं यदेतत्परमात्मदर्शनं विलापयेदात्मनि सर्वकारणे।  
पूर्णश्चिदानंदमयोऽवतिष्ठते न वेदबाह्यं न च किंचिदांतरम्॥४७॥  
पूर्वं समाधेरखिलं विचिंतयेदोंकारमात्रं सचराचरं जगत्।  
तदेव वाच्यं प्रणवो हि वाचको विभाव्यते ज्ञानवशान्न बोधतः॥

अकारसंज्ञः पुरुषो हि विश्वको ह्युकारकस्तैजस ईर्यते क्रमात्।  
प्राज्ञो मकारः परिपठ्यतेऽखिलैः समाधिपूर्वं न तु ततो भवेत्॥  
विश्वं त्वकारं पुरुषं विलापयेदुकारमध्ये बहुधा व्यवस्थितम्।  
ततो मकारे प्रविलाप्य तैजसं द्वितीयवर्णं प्रणवस्य चांतिमम्॥  
मकारमप्यात्मनि चिद्घने परे विलापयेत्प्राज्ञमपीह कारणम्।  
सोहं परं ब्रह्म सदा विमुक्ति मद्विज्ञानदृङ्मुक्त उपाधितोऽमलः॥  
एवं सदा जातपरात्मभावनः स्वानंदतुष्टः परिविस्मृताखिलः।  
आस्ते स नित्यात्मसुस्वप्रकाशकः साक्षाद्विमुक्तोऽचलवारिसिंधुवत् ॥  
एवं सदाऽभ्यस्तसमाधियोगिनो निवृत्तसर्वेन्द्रियगोचरस्य हि।  
विनिर्जिताशेषरिपोरहं सदा दृश्यो भवेयं जितषड्गुणात्मनः ॥५३॥  
ध्यात्वैवमात्मानमहर्निशं मुनिस्तिष्ठेत्सदा मुक्तसमस्तबंधनः।  
प्रारब्धमश्नन्नभिमानवर्जितो मय्येव साक्षात्प्रविलीयते ततः ॥ ५४॥  
आदौ च मध्ये च तथैव चांततो भवं विदित्वा भयशोककारणम्।  
हित्वा समस्तं विधिवादचोदितं भजेत्स्वमात्मानमथाखिलात्मनाम् ॥  
आत्मन्यभेदेन विभावयन्निदं भवत्यभेदेन मयात्मना तदा।  
यथा जलं वारिनिधौ यथा पयः क्षीरे वियद्व्योम्ननिले यथानिलः।  
इत्थं यदीक्षेत हि लोकसंस्थितो जगन्मृषैवेति विभावयन्मुनिः।  
निराकृतत्वाच्छ्रतियुक्तिमानतो यथेंदुभेदो दिशिदिग्भ्रमादयः ॥ ५७ ॥  
यावन्न पश्येदखिलं मदात्मकं तावन्मदाराधनतत्परो भवेत्।  
श्रद्धालुरत्यूर्जितभक्तिलक्षणो यस्तस्य दृश्योऽहमहर्निशं हृदि ॥ ५८ ॥

रहस्यमेतच्छ्रुतिसारसंग्रहं मया विनिश्चित्य तवोदितं प्रिय।  
यस्त्वेतदालोचयतीह बुद्धिमान्समुच्यते पातकराशिभिः क्षणात् ॥  
भ्रातर्यदीदं परिदृश्यते जगन्मायैव सर्वं परिहृत्यचेतसा।  
मद्भावनाभावितशुद्धमानसः सुखी भवानंदमयो निरामयः ॥ ६० ॥  
यः सेवते मामगुणं गुणात्परं हृदा कदा वा यदि वा गुणात्मकम्।  
सोऽहं स्वपादांचितरेणुभिः स्पृशन्पुनाति लोकत्रितयं यथा रविः॥  
विज्ञानमेतदखिलं श्रुतिसारमेकं वेदांतवेद्यचरणेन मयैव गीतम्।  
यः श्रद्धया परिपठेद्गुरुभक्तियुक्तो मद्रूपमेति यदि मद्वचनेषु भक्तिः॥

इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे उत्तरकाण्डे  
रामगीता समाप्ता ॥

<MISSING_FIG href="../books_images/U-IMG-172431624330.png"/>  

**॥ रामरक्षास्तोत्रम् ॥**

 अस्य श्रीरामरक्षास्तोत्रमंत्रस्य बुधकौशिक ऋषिः। श्रीसीतारामचंद्रो देवता। अनुष्टुप् छन्दः। सीता शक्तिः। श्रीमद्धनुमान् कीलकम्। श्रीरामचंद्र प्रीत्यर्थे रामरक्षास्तोत्रजपे विनियोगः॥

**अथ ध्यानम्—**  
ध्यायेदाजानुबाहुं धृतशरधनुषं बद्धपद्मासनस्थं  
पीतं वासो वसानं नवकमलदलस्पर्धिनेत्रं प्रसन्नम्।  
वामांकारूढसीतामुखकमलमिलल्लोचनं नीरदाभं  
नानाऽलंकारदीप्तं दधतमुरुजटामंडलं रामचंद्रम्॥

**इति ध्यानम् —**  
चरितं रघुनाथस्य शतकोटिप्रविस्तरम्।  
एकैकमक्षरं पुंसां महापातकनाशनम्॥१॥  
ध्यात्वा नीलोत्पलश्यामं रामं राजीवलोचनम्।  
जानकीलक्ष्मणोपेतं जटामुकुटमंडितम्॥२॥  
सासितूणधनुर्बाणपाणिं नक्तंचरांतकम्।  
स्वलीलया जगत्त्रातुमाविर्भूतमजं विभुम्॥३॥  
रामरक्षां पठेत्प्राज्ञः पापघ्नीं सर्वकामदाम्।  
शिरो मे राघवः पातु फालं दशरथात्मजः॥४॥  
कौसलेयो दृशौ पातु विश्वामित्रप्रियः श्रुती।  
घ्राणं पातु मखत्राता मुखं सौमित्रिवत्सलः॥५॥  
जिह्वां विद्यानिधिः पातु कण्ठं भरतवंदितः।  
स्कन्धौ दिव्यायुधः पातु भुजौ भग्नेशकार्मुकः॥६॥  
करौ सीतापतिः पातु हृदयं जामदग्न्यजित्।  
मध्यं पातु खरध्वंसी नाभिं जांबवदाश्रयः॥७॥  
सुग्रीवेशः कटी पातु सक्थिनी हनुमत्प्रभुः।  
ऊरू रघूत्तमः पातु रक्षः कुलविनाशकृत्॥ ८॥  
जानुनी सेतुकृत्पातु जंघे दशमुखांतकः।  
पादौ विभीषणश्रीदः पातु रामोऽखिलं वपुः॥९॥  
एतां रामबलोपेतां रक्षां यः सुकृती पठते।  
स चिरायुः सुखी पुत्री विजयी विनयी भवेत्॥१०॥

पातालभूतलव्योमचारिणश्छद्मचारिणः।  
न द्रष्टुमपि शक्तास्ते रक्षितं रामनामभिः॥११॥  
रामेति रामभद्रेति रामचंद्रेति वा स्मरन्।  
नरो न लिप्यते पापैर्भुक्तिं मुक्तिं च विंदति॥१२॥  
जगज्जैत्रैकमंत्रेण रामनाम्नाऽभिरक्षितम्।  
यः कंठे धारयेत्तस्य करस्थाः सर्वसिद्धयः॥१३॥  
वज्रपंजरनामेदं यो रामकवचं स्मरेत्।  
अव्याहताज्ञः सर्वत्र लभते जयमंगलम्॥१४॥  
आदिष्टवान्यथा स्वप्ने रामरक्षामिमां हरः।  
तथा लिखितवान्प्रातः प्रबुद्धो बुधकौशिकः॥१५॥  
आरामः कल्पवृक्षाणां विरामः सकलापदाम्।  
अभिरामस्त्रिलोकानां रामः श्रीमान्स नः प्रभुः॥१६॥  
तरुणौ रूपसंपन्नौ सुकुमारौ महाबलौ।  
पुंडरीकविशालाक्षौ चीरकृष्णाजिनांबरौ॥१७॥  
फलमूलाशिनौ दांतौ तापसौ ब्रह्मचारिणौ।  
पुत्रौ दशरथस्यैतौ भ्रातरौ रामलक्ष्मणौ॥१८॥  
शरण्यौ सर्वसत्वानां श्रेष्ठौ सर्वधनुष्मताम्।  
रक्षः कुलनिहंतारौ त्रायेतां नो रघूत्तमौ॥१९॥  
आत्तसज्जधनुषाविषुस्पृशावक्षयाशुगनिषंगसंगिनौ।  
रक्षणाय मम रामलक्ष्मणावग्रतः पथि सदैव गच्छताम्॥२०॥

सन्नद्धः कवची खड्गी चापबाणधरो युवा।  
गच्छन्मनोरथोऽस्माकं रामः पातु सलक्ष्मणः॥२१॥  
रामो दाशरथिः शूरो लक्ष्मणानुचरो बली।  
काकुत्स्थः पुरुषः पूर्णः कौसलेयो रघूत्तमः॥२२॥  
वेदांतवेद्यो यज्ञेशः पुराणपुरुषोत्तमः।  
जानकीवल्लभः श्रीमानप्रमेयपराक्रमः॥२३॥  
इत्येतानि जपन्नित्यं मद्भक्तः श्रद्धयान्वितः।  
अश्वमेधाधिकं पुण्यं संप्राप्नोति न संशयः॥२४॥  
रामं दूर्वादलश्यामं पद्माक्षं पीतवाससम्।  
स्तुवंति नामभिर्दिव्यैर्न ते संसारिणो नरः॥२५॥  
रामं लक्ष्मणपूर्वजं रघुवरं सीतापतिं सुंदरं  
काकुत्स्थं करुणार्णवं गुणनिधिं विप्रप्रियं धार्मिकम्।  
राजेंद्रं सत्यसंधं दशरथतनयं श्यामलं शांतमूर्तिं  
वंदे लोकाभिरामं रघुकुलतिलकं राघवं रावणारिम्॥२६॥  
रामाय रामभद्राय रामचंद्राय वेधसे।  
रघुनाथाय नाथाय सीतायाः पतये नमः॥२७॥  
श्रीराम राम रघुनंदन राम राम श्रीराम राम भरताग्रज राम राम।  
श्रीराम राम रणकर्कश राम राम श्रीराम राम शरणं भव राम राम॥  
श्रीरामचंद्रचरणौ मनसा स्मरामि श्रीरामचंद्रचरणौ वचसा गृणामि।  
श्री रामचंद्रचरणौ शिरसा नमामि श्रीरामचंद्रचरणौ शरणं प्रपद्ये॥

माता रामो मत्पिता रामचंद्रः स्वामी रामो मत्सखा रामचंद्रः।  
सर्वस्वं मे रामचंद्रो दयालुर्नान्यं जाने नैव जाने न जाने॥३०॥  
दक्षिणे लक्ष्मणो यस्य वामे च जनकात्मजा।  
पुरतो मारुतिर्यस्य तं वंदे रघुनंदनम्॥३१॥  
लोकाभिरामं रणरंगधीरं राजीवनेत्रं रघुवंशनाथम्।  
कारुण्यरूपं करुणाकरं तं श्रीरामचंद्रं शरणं प्रपद्ये ॥३२॥  
मनोजवं मारुततुल्यवेगं जितेंद्रियं बुद्धिमतां वरिष्ठम्।  
वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शरणं प्रपद्ये॥३३॥  
कूजतं रामरामेति मधुरं मधुराक्षरम्।  
आरुह्य कविताशाखां वंदे वाल्मीकिकोकिलम्॥३४॥  
आपदामपहर्तारं दातारं सर्वसंपदाम्।  
लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम्॥३५॥  
भर्जनं भवबीजानामर्जनं सुखसंपदाम्।  
तर्जनं यमदूतानां रामरामेति गर्जनम्॥३६॥  
रामो राजमणिः सदा विजयते रामं रमेशं भजे  
रामेणाभिहता निशाचरचमूरामाय तस्मै नमः \।  
रामान्नास्ति परायणं परतरं रामस्य दासोऽस्म्यहं  
रामे चित्तलयः सदा भवतु मे भो राम मामुद्धर॥३७॥  
राम रामेति रामेति रमे रामे मनोरमे।  
सहस्रनामतत्तुल्यं रामनाम वरानने॥३८॥

इति श्रीबुधकौशिकविरचितं रामरक्षास्त्रोत्रं संपूर्णम् ॥

<MISSING_FIG href="../books_images/U-IMG-172429860830.png"/>

**॥ ब्रह्मदेवकृतरामस्तुतिः ॥**

**ब्रह्मोवाच—**  
वंदे देवं विष्णुमशेषस्थितिहेतुं त्वामध्यात्मज्ञानिभिरंतर्हृदि भाव्यम्।  
हेयाहेयद्वंद्वविहीनं परमेकं सत्तामात्रं सर्वहृदिस्थं दृशिरूपम्॥१॥  
प्राणापानौ निश्चयबुद्ध्या हृदि रुद्धा छित्त्वा सर्वं संशयबंधं विषयौघान्।  
पश्यंतीश यं गतमोहा यतयस्तं वंदे रामं रत्नकिरीटं रविभासम् ॥  
मायातीतं माधवमाद्यं जगदादिं मानातीतं मोहविनाशं मुनिवंद्यम्।  
योगिध्येयं योगविधानं परिपूर्णं वंदे रामं रंजितलोलं रमणीयम् ॥  
भावाभावप्रत्ययहीनं भवमुख्यैर्भोगासक्तैरर्चितपादांबुजयुग्मम्।  
नित्यं शुद्धं बुद्धमनंतं प्रणवाख्यं वंदे रामं वीरमशेषासुरदावम् ॥  
त्वं मे नाथो नाथितकार्याखिलकारी मानातीतो माघवरूपोऽखिलधारी।  
भक्त्या गम्यो भावितरूपो भवहारी योगाभ्यासैर्भावितचेतः सहचारी ॥  
त्वामाद्यंतं लोकततीनां परमीशं लोकानां नो लौकिकमानैरधिगम्यम्।  
भक्तिश्रद्धाभावसमेतैर्भजनीयं वंदे रामं सुंदरमिंदीवरनीलम्॥६॥  
को वा ज्ञातुं त्वामतिमानं गतमानं  
मानासक्तो माधव शक्तो मुनिमान्यम्।  
बृदारण्ये र्वदितबृंदारकबृंदं  
वंदे रामं भवमुखवंद्यं सुखकंदम्॥७॥  
नानाशास्त्रैर्वेदकदंबैः प्रतिपाद्यं नित्यानंदं निर्विषयज्ञानमनादिम्।  
मत्सेवार्थं मानुषभावं प्रतिपन्नं वंदे रामं मरकतवर्णं मथुरेशम्॥

श्रद्धायुक्तो यः पठतीमं स्तवमाद्यं  
ब्राह्मं ब्रह्मज्ञानविधानं भुवि मर्त्यः।  
रामं श्यामं कामितकामप्रदमीशं  
ध्यात्वा ध्याता पातकजालैर्विगतः स्यात्॥९॥

इति श्रीमदध्यात्मरामायणे युद्धकाण्डे ब्रह्मदेवकृतं रामस्तोत्रं संपूर्णम् ॥

<MISSING_FIG href="../books_images/U-IMG-172429905530.png"/>  

**॥ जटायुकृतरामस्तोत्रम् ॥**

**जटायुरुवाच—**  
अगणितगुणमप्रमेयमाद्यं सकलजगत्स्थितिसंयमादिहेतुम्।  
उपरमपरमं परात्मभूतं सततमहं प्रणतोऽस्मि रामचंद्रम्॥१॥  
निरवधिसुखमिंदिराकटाक्षं क्षपितसुरेंद्रचतुर्मुखादिदुःखम्।  
नरवरमनिशं नतोऽस्मि रामं वरदमहं वरचापबाणहस्तम्॥२॥  
त्रिभुवनकमनीयरूपमीड्यं रविशतभासुरमीहितप्रदानम्।  
शरणदमनिशं सुरागमूले कृतनिलयं रघुनंदनं प्रपद्ये॥३॥  
भवविपिनदवाग्निनामधेयं भवमुखदैवतदैवतं दयालुम्।  
दनुजपतिसहस्रकोटिनाशं रवितनयासदृशं हरिं प्रपद्ये॥४॥  
अविरतभवभावनातिदूरं भवविमुखैर्मुनिभिः सदैव दृश्यम्।  
भवजलधिसुतारणांघ्रिपोतं शरणमहं रघुनन्दनं प्रपद्ये॥५॥  
गिरिशगिरिसुतामनोनिवासं गिरिवरधारिणमीहिताभिरामम्।  
सुरवरदनुजेंद्रसेवितांघ्रिं सुरवरदं रघुनायकं प्रपद्ये॥६॥

परधनपरदारवर्जितानां परगुणभूतिषु तुष्टमानसानाम्।  
परहितनिरतात्मनां सुसेव्यं रघुवरमंबुजलोचनं प्रपद्ये॥७॥  
सितरुचिरविकासिताननाब्जमतिसुलभं सुरराजनीलनीलम्।  
सितजलरुहचारुनेत्रशोभं रघुपतिमीशगुरोर्गुरुं प्रपद्ये॥८॥  
हरिकमलजशंभुरूपभेदात्त्वमिह विभासि गुणत्रयानुवृत्तः।  
रविरिव जलपूरितोदपात्रेष्वमरपतिस्तुतिपात्रमीशमीडे॥।९॥  
रतिपतिशतकोटिसुंदरांगं शतपथगोचरभावनाविदूरम्।  
यतिपतिहृदये सदा विभातं रघुपतिमार्तिहरं प्रभुं प्रपद्ये॥१०॥  
इत्येवं स्तुवतस्तस्य प्रसन्नोऽभूद्रघूत्तमः।  
उवाच गच्छ भद्रं ते मम विष्णोः परं पदम्॥११॥  
शृणोति य इदं स्तोत्रं लिखेद्वा नियतः पठेत्।  
स याति मम सारूप्यं मरणे मत्स्मृतिं लभेत्॥१२॥  
इति राघवभाषितं तदा श्रुतवान् हर्षसमाकुलो द्विजः।  
रघुनंदनसाम्यमास्थितः प्रययौ ब्रह्मसुपूजितं पदम्॥ १३ ॥

इति श्रीमदध्यात्मरामायणे आरण्यकाण्डे जटायुकृतरामस्तोत्रं संपूर्णम् ॥

<MISSING_FIG href="../books_images/U-IMG-172430817330.png"/>  

**॥ रामाष्टकम् ॥**

भजे विशेषसुंदरं समस्तपापखंडनम्।  
स्वभक्तचित्तरंजनं सदैव राममद्वयम्॥१॥  
जटाकलापशोभितं समस्तपापनाशकम्।  
स्वभक्तभीतिभंजनं भजेह राममद्वयम्॥२॥

निजस्वरूपबोधकं कृपाकरं भवापहम्।  
समं शिवं निरंजनं भजे ह राममद्वयम्॥३॥  
सहप्रपंचकल्पितं ह्यनामरूपवास्तवम्।  
निराकृतिं निरामयं भजे ह राममद्वयम्॥४॥  
निष्प्रपंचनिर्विकल्पनिर्मलं निरामयम्।  
चिदेकरूपसंततं भजे ह राममद्वयम्॥५॥  
भवाब्धिपोतरूपकं ह्यशेषदेहकल्पितम्।  
गुणाकरं कृपाकरं भजे ह राममद्वयम्॥६॥  
महावाक्यबोधकैर्विराजमानवाक्पदैः।  
परब्रह्म व्यापकं भजे ह राममद्वयम्॥७॥  
शिवप्रदं सुखप्रदं भवच्छिदं भ्रमापहम्।  
विराजमान दैशिकं भजे ह राममद्वयम्॥८॥  
रामाष्टकं पठति यः सुकरं सुपुण्यं  
व्यासेन भाषितमिदं शृणुते मनुष्यः।  
विद्यां श्रियं विपुलसौख्यमनंतकीर्तिं  
संप्राप्य देहविलये लभते च मोक्षम्॥९॥

इत्ति श्रीव्यासविरचितं रामाष्टकं संपूर्णम् ॥

<MISSING_FIG href="../books_images/U-IMG-172430107530.png"/>  

**॥ रामाष्टकम् ॥**

कृतार्तदेववंदनं दिनेशवंशनन्दनम्।  
सुशोभिभालचंदनं नमामि राममीश्वरम्॥१॥

मुनींद्रयज्ञकारकं शिलाविपत्तिहारकम्।  
महाधनुर्विदारकं नमामि राममीश्वरम्॥२॥  
स्वतातवाक्यकारिणं तपोवने विहारिणम्।  
करेषु चापधारिणं नमामि राममीश्वरम्॥३॥  
कुरंगमुक्तसायकं जटायुमोक्षदायकम्।  
प्रविद्धकीशनायकं नमामि राममीश्वरम्॥४॥  
प्लवंगसंगसंमतिं निबद्धनिम्नगापतिम्।  
दशास्यवंशसंक्षतिं नमामि राममीश्वरम्॥५॥  
विदीनदेवहर्षणं कपीप्सितार्थवर्षणम्।  
स्वबंधुशोककर्षणं नमामि राममीश्वरम्॥६॥  
गतारिराज्यरक्षणं प्रजाजनार्तिभक्षणम्।  
कृतास्तमोहलक्षणं नमामि राममीश्वरम्॥७॥  
हृताखिलाचलाभरं स्वधामनीतनागरम्।  
जगत्तमोदिवाकरं नमामि राममीश्वरम्॥८॥  
इदं समाहितात्मना नरो रघूत्तमाष्टकम्।  
पठन्निरंतरं भयं भवोद्भवं न विंदते॥९॥

इति श्रीपरमहंसस्वामिब्रह्मानंदविरचितं श्रीरामाष्टकं संपूर्णम् ॥

<MISSING_FIG href="../books_images/U-IMG-172430135030.png"/>  

**॥ श्री महादेवकृतरामस्तुतिः ॥**

**श्रीमहादेव उवाच —**  
नमोऽस्तु रामाय सशक्तिकाय नीलोत्पलश्यामलकोमलाय।  
किरीटहारांगदभूषणाय सिंहासनस्थाय महाप्रभाय॥१॥

त्वमादिमध्यांतविहीन एकः सृजस्यवस्यत्सि च लोकजातम्।  
स्वमायया तेन न लिप्यसे त्वं यत्स्वे मुखेऽजस्ररतोऽनवद्यः ॥२॥  
लीलां विधत्से गुणसंवृतस्त्वं प्रसन्नभक्तानुविधानहेतोः।  
नानाऽवतारैः सुरमानुषाद्यैः प्रतीयसे ज्ञानिभिरेव नित्यम् ॥३॥  
स्वांशेन लोकं सकलं विधाय तं विभर्षि च त्वं तदधः फणीश्वरः।  
उपर्यधो भान्वनिलोडुपौषधीप्रवर्षरूपोऽवसि नैकधा जगत्॥४॥  
त्वमिह देहभृतां शिखिरूपः पचसि भक्तमशेषमजस्रम्।  
पवनपंचकरूपसहायो जगदखंडमनेन बिभर्षि॥५॥  
चंद्रसूर्यशिखिमध्यगतं यत्तेज ईश चिदशेषतनूनाम्।  
प्राभवत्तनुभृतामिह धैर्यं शौर्यमात्रमखिलं तव सत्त्वम्॥६॥  
त्वं विरिंचिशिवविष्णुविभेदात्कालकर्मशशिसूर्यविभागात्।  
वादिनां पृथगिवेश विभासि ब्रह्म निश्चितमनन्यदिहैकम्॥७॥  
मत्स्यादिरूपेण यथा त्वमेकः श्रुतौ पुराणेषु च लोकसिद्धः।  
तथैव सर्वं सदसद्विभागस्त्वमेव नान्यद्भवतो विभाति॥८॥  
यद्यत्समुत्पन्नमनंतसृष्टावुत्पत्स्यते यच्च भवच्च यच्च।  
न दृश्यते स्थावरजंगमादौ त्वया विनाऽतः परतः परस्त्वम् ॥९॥  
तत्त्वं न जानंति परात्मनस्ते जनाः समस्तास्तव माययातः।  
त्वद्भक्तसेवामलमानसानां विभाति तत्त्वं परमेकमैशम्॥१०॥  
ब्रह्मादयस्ते न विदुः स्वरूपं चिदात्मतत्त्वं बहिरर्थभावाः।  
ततो बुधस्त्वामिदमेवरूपं भक्त्या भजन्मुक्तिमुपैत्यदुःखः॥ ११ ॥

अहं भवन्नामगुणैः कृतार्थो वसामि काश्यामनिशं भवान्या।  
मुमूर्षमाणस्य विमुक्तयेऽहं दिशामि मंत्रं तत्र राम नाम॥१२॥  
इमं स्तवं नित्यमनन्यभक्त्या शृण्वंति गायंति लिखंति ये वै।  
ते सर्वसौख्यं परमं च लब्ध्वा भवत्पदं यांतु भवत्प्रसादात् ॥ १३॥

इति श्रीमहादेवकृतरामस्तोत्रं संपूर्णम्॥

<MISSING_FIG href="../books_images/U-IMG-172430759330.png"/>  

**॥ अहल्याकृतरामस्तोत्रम् ॥**

**अहल्योवाच—**  
अहो कृतार्थाऽस्मि जगन्निवास ते पादाब्जसंलग्नरजःकणादहम्।  
स्पृशामि यत्पद्मजशंकरादिभिर्विमृग्यते रंधितमानसैः सदा॥१॥  
अहो विचित्रं तव राम चेष्टितं मनुष्यभावेन विमोहितं जगत्।  
चलस्यजस्रं चरणादिवर्जितः संपूर्ण आनंदमयोऽतिमायिकः॥२॥  
यत्पादपंकजपरागपवित्रगात्रा भागीरथी भवविरंचिमुखान्पुनाति।  
साक्षात्स एव मम दृग्विषयोयदास्ते किं वर्ण्यते मम पुराकृतभागधेयम् ॥  
मर्त्यावतारे मनुजाकृतिं हरिं रामाभिधेयं रमणीयदेहिनम्।  
धनुर्धरं पद्मविशाललोचनं भजामि नित्यं न परान्भजिष्ये ॥४॥  
यत्पादपङ्कजरजः श्रुतिभिर्विमृग्यं यन्नाभिपङ्कजभवः कमलासनश्च।  
यन्नामसाररसिको भगवान्पुरारिस्तं रामचंद्रमनिशं हृदि भावयामि॥  
यस्यावतारचरितानि विरिंचिलोके गायंति नारदमुखा भवपद्मजाद्याः।  
आनंदजाश्रुपरिषिक्तकुचाग्रसीमा वागीश्वरी च तमहं शरणं प्रपद्ये॥

सोऽयं परात्मा पुरुषः पुराण एषः स्वयंज्योतिरनंत आद्यः।  
मायातनुं लोकविमोहनीयां धत्ते परानुग्रह एष रामः॥७॥  
अयं हि विश्वोद्भवसंयमानामेकः स्वमायागुणबिंबितो यः।  
विरिंचिविष्ण्वीश्वरनामभेदान् धत्ते स्वतंत्रः परिपूर्ण आत्मा॥ ८॥  
नमोऽस्तु ते राम तवांघ्रिपंकजं श्रिया धृतं वक्षसि लालितं प्रियात् ।  
आक्रांतमेकेन जगत्रयं पुरा ध्येयं मुनींद्रैरभिमानवर्जितैः॥९॥  
जगतामादिभूतस्त्वं जगत्त्वं जगदाश्रय।  
सर्वभूतेष्वसंबद्ध एको भाति भवान्परः॥१०॥  
ओंकारवाच्यस्त्वं रामवाचामविषयः पुमान्।  
वाच्यवाचकभेदेन भवानेव जगन्मयः॥ ११ ॥  
कार्यकारणकर्तृत्वफलसाधनभेदतः।  
एको विभासि राम वं मायया बहुरूपया॥ १२॥  
त्वन्मायामोहितधियस्त्वां न जानंति तत्त्वतः।  
मानुषं त्वाभिमन्यंते मायिनं परमेश्वरम्॥१३॥  
आकाशवत्त्वं सर्वत्र बहिरंतर्गतोऽमलः।  
असंगो ह्यचलो नित्यः शुद्धो बुद्धः सदव्ययः॥१४॥  
योषिन्मूढाहमज्ञा ते तत्त्वं जाने कथं विभो।  
तस्मात्ते शतशो राम नमस्कुर्यामनन्यधीः॥ १५॥  
देव मे यत्र कुत्रापि स्थिताया अपि सर्वदा।  
त्वत्पादकमले सक्ता भक्तिरेव सदाऽस्तु मे॥१६॥

नमस्ते पुरुषाध्यक्ष नमस्ते भक्तवत्सल।  
नमस्तेऽस्तु हृषीकेश नारायण नमोऽस्तु ते॥१७॥  
भवभयहरमेकं भानुकोटिप्रकाशं करधृतशरचापं कालमेघावभासम्।  
कनकरुचिरवस्त्रं रत्नवत्कुंडलाढ्यं कमलविशदनेत्रं सानुजं राममीडे ॥  
स्तुत्वैवं पुरुषं साक्षाद्राघवं पुरतः स्थितम्।  
परिक्रम्य प्रणम्याशु सानुज्ञाता ययौ पतिम्॥१९॥  
अहल्यया कृतं स्तोत्रं यः पठेद्भक्तिसंयुतः।  
स मुच्यतेऽखिलैः पापैः परं ब्रह्माधिगच्छति॥२०॥  
पुत्राद्यर्थे पठेद्भक्त्या रामं हृदि निधाय च।  
संवत्सरेण लभते वंध्या अपि सुपुत्रकम्॥२१॥  
सर्वान्कामानवाप्नोति रामचंद्रप्रसादतः।  
ब्रह्मघ्नो गुरुतल्पगोऽपि पुरुषः स्तेयी सुरापोऽपि वा॥२२॥  
मातृभ्रातृविहिंसकोऽपि सततं भोगैकबद्धादरः।  
नित्यं स्तोत्रमिदं जपन्रघुपतिं भक्त्या हृदिस्थं स्मरन्  
ध्यायन्मुक्तिमुपैति किं पुनरसौ स्वाचारयुक्तो नरः॥२३॥

इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे बालकाण्डांतर्गतमहल्या विरचितं रामचंद्रस्तोत्रं संपूर्णम् ॥

<MISSING_FIG href="../books_images/U-IMG-172430178130.png"/>  

**॥ इंद्रकृतरामस्तोत्रम् ॥**

**इन्द्र उवाच—**  
भजेऽहं सदा राममिंदीवराभं भवारण्यदावानलाभाभिधानम्।  
भवानीहृदा भावितानंदरूपं भवाभावहेतुं भवादिप्रपन्नम्॥१॥

सुरानीकदुःखौघनाशैकहेतुं नराकारदेहं निराकारमीड्यम्।  
परेशं परानंदरूपं वरेण्यं हरिं राममीशं भजे भारनाशम्॥२॥  
प्रपन्नाखिलानंददोहं प्रपन्नं प्रपन्नार्तिनिःशेषनाशाभिधानम्।  
तपोयोगयोगीशभावाभिभाव्यं कपीशादिमित्रं भजे राममित्रम् ॥ ३॥  
सदा भोगभाजां सुदूरे विभातं सदा योगभाजामदूरे विभातम्।  
चिदानन्दकन्दं सदा राघवेशं विदेहात्मजानंदरूपं प्रपद्ये॥४॥  
महायोगमायाविशेषानुयुक्तो विभासीश लीलानराकारवृत्तिः।  
त्वदानंदलीलाकथापूर्णकर्णाः सदानंदरूपा भवंतीह लोके॥५॥  
अहं मानपानाभिमत्तप्रमत्तो न वेदाखिलेशाभिमानाभिमानः।  
इदानीं भवत्पादपद्मप्रसादात्त्रिलोकाधिपत्याभिमानो विनष्टः॥६॥  
स्फुरद्रत्नकेयूरहाराभिरामं धराभारभूतासुरानीकदावम्।  
शरच्चंद्रवक्त्रं लसत्पद्मनेत्रं दुरावारपारं भजे राघवेशम्॥७॥  
सुराधीशनीलाभ्रनीलांगकांतिं विराधादिरक्षोवधाल्लोकशांतिम्।  
किरीटादिशोभं पुरारातिलाभं भजे रामचंद्रं रघूणामधीशम्॥८॥  
लसच्चंद्रकोटिप्रकाशादिपीठे समासीनमेकं समाधाय सीताम् ।  
स्फुरद्धेमवर्णां तडित्पुंजभासां भजे रामचंद्रं निवृत्तार्तितंद्रम् ॥९॥

इति श्रीमदध्यात्मरामायणे युद्धकाण्डे इंद्रकृतं रामस्तोत्रं संपूर्णम् ॥

<MISSING_FIG href="../books_images/U-IMG-172430077530.png"/>  

**॥ रामचंद्राष्टकम् ॥**

ओं चिदाकारो धाता परमसुखदः पावनतनु-  
र्मुनींद्रैर्योगीन्द्रैर्यतिपतिसुरेंद्रैर्हनुमता।

सदा सेव्यः पूर्णो जनकतनयाङ्गः सुरगुरू-  
रमानाथो रामो रमतु मम चित्ते तु सततम् ॥१॥  
मुकुंदो गोविंदो जनकतनयालालितपदः  
पदं प्राप्ता यस्याधमकुलभवा चापि शबरी।  
गिरातीतोऽगम्यो विमलधिषणैर्वेदवचसा रमानाथो ०॥२॥  
धराधीशोऽधीशः सुरनरवराणां रघुपतिः  
किरीटी केयूरी कनककपिशः शोभितवपुः।  
समासीनः पीठे रविशतनिभे शांतमनसो रमानाथो ॥३॥  
वरेण्यः शारण्यः कपिपतिसखा चांतविधुरो  
ललाटे काश्मीरो रुचिरगतिभङ्गः शशिमुखः।  
नराकारो रामो यतिपतिनुतः संस्मृतिहरो रमानाथो ०॥४॥  
विरूपक्षः काश्यामुपदिशति यन्नाम शिवदं  
सहस्रं यन्नाम्नां पठति गिरिजा प्रत्युषसि वै।  
कलौ के गायंतीश्वरविधिमुखा यस्य चरितं रमानाथो ॥५॥  
परो धीरोऽधीरोऽसुरकुलभवश्चासुरहरः  
परात्मा सर्वज्ञो नरसुरगणैर्गीतसुयशाः।  
अहल्याशापघ्नः शरकर अजः कौशिकसखा रमानाथो ०॥६॥  
हृषीकेशः शौरिर्धरणिधरशायी मधुरिपु-  
रुपेंद्रो वैकुंठो गजरिपुहरस्तुष्टमनसः।  
बलिध्वंसी वीरो दशरथसुतो नीतिनिपुणो रमानाथो ० ॥७॥

कविः सौमित्रीड्यः कपटमृगघाती वनचरो  
रणश्लाघी दांतो धरणिभरहर्ता सुरनुतः।  
अमानी मानज्ञो निखिलजनपूज्यो हृदिशयो रमानाथो ०॥८॥  
इदं रामस्तोत्रं वरममरदासेन रचित-  
मुषःकाले भक्त्या यदि पठति यो भावसहितम्।  
मनुष्यः स क्षिप्रं जनिमृतिभयं तापजनकं  
परित्यज्य श्रेष्ठं रघुपतिपदं याति शिवदम्॥९॥

 इति श्रीमद्रामदासपूज्यपादशिष्यश्रीमद्धंसदासशिष्येणामरदासाख्यकविना विरचितं श्रीमद्रामचंद्राष्टकं समाप्तम्॥

<MISSING_FIG href="../books_images/U-IMG-172433377630.png"/>

**॥श्रीसीतारामाष्टकम्॥**

ब्रह्ममहेंद्रसुरेंद्रमरुद्गणरुद्रमुनींद्रगणैरतिरम्यं  
क्षीरसरित्पतितीरमुपेत्य नुतं हि सतामवितारमुदारम्।  
भूमिभरप्रशमार्थमथ प्रथितप्रकटीकृतचिद्धनमूर्तिं  
त्वां भजतो रघुनंदन देहि दयाघन मे स्वपदांबुजदास्यम् ॥१॥  
पद्मदलायतलोचन हे रघुवंशविभूषण देव दयालो  
निर्मलनीरदनीलतनोऽखिललोकहृदंबुजभासक भानो।  
कोमलगात्रपवित्रपदाब्जरजःकणपावितगौतमकांत त्वां भजतो०॥  
पूर्ण परात्पर पालय मामतिदीनमनाथमनंत सुखाब्धे  
प्रावृडदभ्रतडित्सुमनोहरपतिवरांबर राम नमस्ते।  
कामविभंजन कांततरानन कांचनभूषण रत्नकिरीटं त्वां भजतो० ॥

दिव्यशरच्छशिकांतिहरोज्ज्वलमौक्तिकमाल विशालसुमौले  
कोटिरविप्रभ चारुचरित्र पवित्रविचित्रधनुः शरपाणे।  
चंडमहाभुजदंडविखंडितराक्षसराजमहागजदंडं त्वां भजतो०॥४॥  
दोषविहिंस्रभुजंगसहस्रसुरोपमहानलकीलकलापे  
जन्मजरामरणोर्मिमनोमदमन्मथनक्रविचक्रभवाब्धौ !  
दुःखनिधौ च चिरं पतितं कृपयाऽद्य समुद्धर राम ततो मां त्वां॥  
संसृतिघोरमदोत्कटकुंजरतृट्क्षुदनीरद्पंडिततुंडं  
दंडकरोन्मथितं च रजस्तम उन्मदमोहदोज्झितवार्तम्।  
दीनमनन्यगतिं कृपणं शरणागतमाशु विमोचय मूढं त्वां भजतो० ॥  
जन्मशतार्जितपापसमन्वितहृत्कमले पतिते पशुकल्पे  
हे रघुवीर महारणधीर दयां कुरु मय्यतिमंदमनीषे।  
त्वं जननी भगिनी च पिता मम तावदसि त्वविताऽपि कृपालो त्वां० ॥  
त्वां तु दयालुमकिंचनवत्सलमुत्पलहारमपारमुदारं  
राम विहाय कमन्यमनामयमीश जनं चरणं ननु यायाम्।  
त्वत्पदपद्ममतः श्रितमेव मुदा खलु देव सदाऽव ससीतं त्वां भजतो ० ॥  
यः करुणामृतसिंधुरनाथजनोत्तमबंधुरजोत्तमकारी  
भक्तभयोर्मिभवाब्धितरी सरयूतटिनीतटचारुविहारी।  
तस्य रघुप्रवरस्य निरंतरमष्टकमेतदनिष्टहरं वै  
यस्तु पठेदमरः स नरो लभतेऽच्युतरामपदांबुजदास्यम् ॥९॥

इति श्रीमन्मधुसूदनाश्रमाशिष्याऽच्युतयतिविरचितं श्रीमत्सीतारामाष्टकं संपूर्णम्॥

<MISSING_FIG href="../books_images/U-IMG-172433397630.png"/>

**॥परापूजा॥**

पूर्णस्यावाहनं कुत्र सर्वाधारस्य चासनम्।  
स्वच्छस्य पाद्यमर्घ्यं च शुद्धस्याचमनं कुतः॥१॥  
निर्मलस्य कुतः स्नानं वस्त्रं विश्वोदरस्य च।  
निरालंबस्योपवीतं पुष्पं निर्वासनस्य च ॥२॥  
निर्लेपस्य कुतो गंधो रम्यस्याभरणं कुतः।  
नित्यतृप्तस्य नैवेद्यस्तांबूलं च कुतो विभोः॥३॥  
प्रदक्षिणा ह्यनंतस्य ह्यद्वयस्य कुतो नतिः।  
वेदवाक्यरवेद्यस्य कुतः स्तोत्रं विधीयते॥४॥  
स्वयं प्रकाशमानस्य कुतो नीराजनं विभोः।  
अंतर्बहिश्च पूर्णस्य कथमुद्वासनं भवेत्॥५॥  
एवमेव परा पूजा सर्वावस्थासु सर्वदा।  
एकबुद्ध्या तु देवेशे विधेया ब्रह्मवित्तमैः॥६॥

इति परापूजा समाप्ता॥

-------------------------------

॥ भगवत्प्रातःस्मरणम्॥

प्रातः स्मरामि फणिराजतनौशयानं नागामरासुरनरादिजगन्निदानम्।  
वेदैः सहागमगणैरुपगीयमानं कांतारकेतनवतां परमं निधानम्॥१॥  
प्रातर्भजामि भवसागरवारिपूरं देवर्षिसिद्धनिवहैर्विहितोपहारम्।  
संदृप्तदानवकदंबमदापहारं सौंदर्यराशिजलराशिसुताविहारम् \।\।२\।\।

प्रातर्नमामि शरदंबरकांतिकांतं पादारविंदमकरंदजुषां भवांतम्।  
नानावतारहृतभूमिभरं कृतांतं पाथोजकंबुरथपादकरं प्रशांतम्॥३॥ श्लोकत्रयमिदं पुण्यं ब्रह्मानंदेन कीर्तितम्।  
यः पठेत्प्रातरुत्थाय सर्वपापैः प्रमुच्यते॥४॥

इति श्री परमहंसस्वामिब्रह्मानंदविरचितं श्रीभगवत्प्रातःस्मरणं संपूर्णम्॥

<MISSING_FIG href="../books_images/U-IMG-172438661330.png"/>

॥प्रातःस्मरणस्तोत्रम्॥

प्रातः स्मरामि हृदि संस्फुरदात्मतत्त्वं सच्चित्सुखं परमहंसगतिं तुरीयम्।  
यत्स्वप्नजागरसुषुप्तमवैति नित्यं तद्ब्रह्म निष्कलमहं न च भूतसंघः॥  
प्रातर्भजामि च मनोवचसामगम्यं वाचो विभांति निखिल यदनुग्रहेण ।  
यं नेति नेति वचनैर्निगमा अवोचुस्तं देवदेवमजमच्युतमाहुरग्र्यम्।  
प्रातर्नमामि तमसः परमर्कवर्णं पूर्णं सनातनपदं पुरुषोत्तमाख्यम्। यस्मिन्निदं जगदशेषमशेषभूतौ रज्ज्वां भुजंगम इव प्रतिभासितं वै॥ श्लोकत्रयमिदं पुण्यं लोकत्रयविभूषणम्।  
प्रातःकाले पठेद्यस्तु स गच्छेत्परमं पदम्॥४॥

इति श्रीभगवत्पादाचार्यविरचितं प्रातःस्मरणस्तोत्रं संपूर्णम्॥

<MISSING_FIG href="../books_images/U-IMG-172438665130.png"/>

**॥अश्वत्थस्तोत्रम्॥**

नारद उवाच—

अनायासेन लोकोऽयं सर्वान्कामानवाप्नुयात्।  
सर्वदेवात्मकं चैकं तन्मे ब्रूहि पितामह॥१॥

ब्रह्मोवाच—

शृणु देवमुनेऽश्वत्थं शुद्धं सर्वात्मकं तरुम्।  
यत्प्रदक्षिणतो लोकः सर्वान्कामान्समश्नुते॥२॥  
अश्वत्थाद्दक्षिणे रुद्रः पश्चिमे विष्णुरास्थितः।  
ब्रह्मा चोत्तरदेशस्थः पूर्वे त्विंद्रादिदेवताः॥३॥  
स्कंधोपस्कंधपत्रेषु गोविप्रमुनयस्तथा।  
मूलं वेदाः पयो यज्ञाः संस्थिता मुनिपुंगव।॥४॥  
पूर्वादिदिक्षु संयाता नदीनदसरोब्धयः।  
तस्मात्सर्वप्रयत्नेन ह्यश्वत्थं संश्रयेद्बुधः॥५॥  
त्वं क्षीर्यफलकश्चैव शीतलश्च वनस्पते  
त्वामाराध्य नरो विंद्यादैहिकामुष्मिकं फलम्॥६॥  
चलद्दलाय वृक्षाय सर्वदाश्रितविष्णवे।  
बोधितत्वाय देवाय ह्यश्वत्थाय नमो नमः॥७॥  
अश्वत्थ यस्मात्त्वयि वृक्षराज नारायणस्तिष्ठति सर्वकाले।  
अतः श्रुतस्त्वं सततं तरूणां धन्योऽसि चारिष्टविनाशकोऽसि॥८॥  
क्षीरदस्त्वं च येनेह येन श्रीस्त्वां निषेवते।  
सत्येन तेन वृक्षेंद्र मामपि श्रीर्निषेवताम्॥९॥  
एकादशात्मरुद्रोऽसि वसुनाथशिरोमणिः।  
नारायणोऽसि देवानां वृक्षराजोऽसि पिप्पल॥१०॥  
अग्निगर्भः शमीगर्भो देवगर्भः प्रजापतिः।  
हिरण्यगर्भो भूगर्भो यज्ञगर्भो नमोऽस्तु ते ॥११॥

आयुर्बलं यशो वर्चः प्रजाः पशुवसूनि च।  
ब्रह्म प्रज्ञां च मेधां च त्वं नो देहि वनस्पते॥१२॥  
सततं वरुणो रक्षेत्त्वामारादृष्टिराश्रयेत्।  
परितस्त्वां निषेवंतां तृणानि सुखमस्तु ते॥१३॥  
अक्षिस्पंदं भुजस्पंदं दुःस्वप्नं दुर्विचिंतनम्।  
शत्रूणां च समुत्थानं ह्यश्वत्थ शमय प्रभो॥१४॥  
अश्वत्थाय वरेण्याय सर्वैश्वर्यप्रदायिने।  
नमो दुःखप्रनाशाय सुस्वप्नफलदायिने॥॥१५॥  
मूलतो ब्रह्मरूपाय मध्यतो विष्णुरूपिणे।  
अंततः शिवरूपाय वृक्षराजाय ते नमः॥१६॥  
यं दृष्ट्वा मुच्यते रोगैः स्पृष्ट्वा पापैः प्रमुच्यते ।  
यदाश्रयाश्चिरंजीवी तमश्वत्थं नमाम्यहम् ॥१७॥  
अश्वत्थ सुमहाभाग सुभगप्रियदर्शन।  
इष्टकामांश्च मे देहि शत्रुभ्यस्तु पराभवम्॥१८॥  
आयुः प्रजां धनं धान्यं सौभाग्यं सर्वसंपदम् ।  
देहि देव महावृक्ष त्वामहं शरणं गतः॥ १९ ॥  
ऋग्यजुःसाममंत्रात्मा सर्वरूपी परात्परः ।  
अश्वत्थो वेदमूलोऽसावृषिभिः प्रोच्यते सदा॥२०॥  
ब्रह्महा गुरुहा चैव दरिद्रो व्याधिपीडितः।  
आवृत्य लक्षसंख्यं तत्स्तोत्रमेतत्सुखी भवेत् ॥२१॥

ब्रह्मचारी हविष्याशी त्वधःशायी जितेंद्रियः।  
पापोपहतचित्तोऽपि व्रतमेतत्समाचरेत्॥२२॥  
एकहस्तं द्विहस्तं वा कुर्याद्गोमयलेपनम्।  
अर्चेत्पुरुषसूक्तेन प्रणवेन विशेषतः॥२३॥  
मौनी प्रदक्षिणं कुर्यात्प्रागुक्तफलभाग्भवेत्।  
विष्णोर्नामसहस्रेण ह्यच्युतस्यापि कीर्तनात् ॥२४॥  
पदे पदांतरं गत्वा करचेष्टाविवर्जितः।  
वाचा स्तोत्रं मनो ध्याने चतुरंगं प्रदक्षिणम् ॥२५॥  
अश्वत्थः स्थापितो येन तत्कुलं स्थापितं ततः।  
धनायुषां समृद्धिस्तु नरकात्तारयेत्पितॄन् ॥२६॥  
अश्वत्थमूलमाश्रित्य शाकान्नोदकदानतः।  
एकस्मिन्भोजिते विप्रे कोटिब्राह्मणभोजनम् ॥२७॥  
अश्वत्थमूलमाश्रित्य जपहोमसुरार्चनात्।  
अक्षयं फलमाप्नोति ब्रह्मणो वचनं तथा॥२८॥  
एवमाश्वासितोऽश्वत्थः सदाश्वासाय कल्पते।  
यज्ञार्थं छेदितेऽश्वत्थे ह्यक्षयं स्वर्गमाप्नुयात्॥२९॥  
छिन्नो येन वृथाश्वत्थश्छेदिताः पितृदेवताः।  
अश्वत्थः पूजितो यत्र पूजिताः सर्वदेवताः॥३०॥

 इति ब्रह्मनारदसंवादे अश्वत्थस्तोत्रं संपूर्णम्॥

 --------------------------------

॥नवग्रहस्तोत्रम्॥

जपाकुसुमसंकाशं काश्यपेयं महाद्युतिम्।  
तमोरिं सर्वपापघ्नं प्रणतोऽस्मि दिवाकरम्॥१॥  
दधिशंखतुषाराभं क्षीरोदार्णवसंभवम्।  
नमामि शशिनं सोमं शंभोर्मुकुटभूषणम्॥२॥  
धरणीगर्भसंभूतं विद्युत्क्रांतिसमप्रभम्।  
कुमारं शक्तिहस्तं तं मंगलं प्रणमाम्यहम्॥३॥  
प्रियंगुकलिकाश्यामं रूपेणाप्रतिमं बुधम्  
सौम्यं सौम्यगुणोपेतं तं बुधं प्रणमाम्यहम्॥४॥  
देवानां च ऋषीणां च गुरुं कांचनसन्निभम्।  
बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिम्॥५॥  
हिमकुंदमृणालाभं दैत्यानां परमं गुरुम्।  
सर्वशास्त्रप्रवक्तारं भार्गवं प्रणमाम्यहम्॥६॥  
नीलांजनसमाभासं रविपुत्रं यमाग्रजम्।  
छायामार्तंडसंभूतं तं नमामि शनैश्चरम्॥७॥  
अर्धकायं महावीर्यं चंद्रादित्यविमर्दनम्।  
सिंहिकागर्भसंभूतं तं राहुं प्रणमाम्यहम्॥८॥  
पलाशपुष्पसंकाशं तारकाग्रहमस्तकम्।  
रौद्रं रौद्रात्मकं घोरं तं केतुं प्रणमाम्यहम्॥९॥  
इति व्यासमुखोद्गीतं यः पठेत्सुसमाहितः।  
दिवा वा यदि वा रात्रौ विघ्नशांतिर्भविष्यति॥१०॥

नरनारीनृपाणां च भवेद्दुःस्वप्रनाशनम्।  
ऐश्वर्यमतुं तेषामारोग्यं पुष्टिवर्धनम्॥११॥  
ग्रहनक्षत्रजाः पीडास्तस्कराग्निसमुद्भवाः।  
ताः सर्वाः प्रशमं यांति व्यासो ब्रूते न संशयः॥१२॥

इति श्रीव्यासविरचितं नवग्रहस्तोत्रं संपूर्णम्॥

-----------------------

॥नवनागस्तोत्नम्॥

अनंतं वासुकिं शेषं पद्मनाभं च कंबलम्।  
शंखपालं धृतराष्ट्रं तक्षकं कालियं तथा॥१॥  
एतानि नव नामानि नागानां च महात्मनाम्।  
सायंकाले पठेन्नित्यं प्रातःकाले विशेषतः।  
तस्य विषभयं नास्ति सर्वत्र विजयी भवेत्॥२॥

इति श्रीनवनागस्तोत्रं संपूर्णम्॥

------------------------

॥शनिस्तोत्रम्॥

 अस्य श्रीशनैश्चरस्तोत्रस्य। दशरथ ऋषिः। शनैश्चरो देवता। त्रिष्टुपछंदः। शनैश्चरप्रीत्यर्थं जपे विनियोगः॥

**दशरथ उवाच—**

कोणोंऽतको रौद्र्यमोऽथ बभ्रुः कृष्णः शनिः पिंगलमंदसौरिः।  
नित्यं स्मृतो यो हरते च पीडां तस्मै नमः श्रीरविनंदनाय॥१॥

सुरासुराः किंपुरुषोरगेंद्रा गंधर्वविद्याधरपन्नगाश्च।  
पीड्यंति सर्वे विषमस्थितेन तस्मै नमः श्रीरविनंदनाय॥२॥  
नरा नरेंद्राः पशवो मृगेंद्रा वन्याश्च ये कीटपतंगभृंगाः।  
पीड्यन्ति सर्वे विषमस्थितेन तस्मै नमः श्रीरविनंदनाय॥३॥  
देशाश्च दुर्गाणि वनानि यत्र सेनानिवेशाः पुरपत्तनानि।  
पीड्यंति सर्वे विषमस्थितेन तस्मै नमः श्रीरविनंदनाय॥४॥  
तिलैर्यवैर्माषगुडान्नदानैर्लोहेन नीलांबरदानतो वा॥  
प्रीणाति मंत्रैर्निजवासरे च तस्मै नमः श्रीरविनंदनाय॥५॥  
प्रयागकूले यमुनातटे च सरस्वती पुण्यजले गुहायाम्।  
यो योगिनां ध्यानगतोऽपि सूक्ष्मस्तस्मै नमः श्री रविनंदनाय॥६॥  
अन्यप्रदेशात्स्वगृहं प्रविष्टस्तदीयवारे स नरः सुखी स्यात्॥  
गृहाद्गतो यो न पुनः प्रयाति यस्मै नमः श्रीरविनंदनाय॥७॥  
स्रष्टा स्वयं भूर्भुवनत्रयस्य त्राता हरीशो हरते पिनाकी।  
एकस्त्रिधा ऋग्यजुःसाममूर्तिस्तस्मै नमः श्रीरविनंदनाय॥८॥  
शन्यष्टकं यः प्रयतः प्रभाते नित्यं सुपुत्रैः पशुबांधवैश्च॥  
पठेत्तु सौख्यं भुवि भोगयुक्तः प्राप्नोति निर्वाणपदं तदंते॥९॥  
कोणस्थः पिंगलो बभ्रुः कृष्णो रौद्रोंऽतको यमः।  
सौरिः शनैश्चरो मंदः पिप्पलादेन संस्तुतः॥१०॥  
एतानि दशनामानि प्रातरुत्थाय यः पठेत्।  
शनैश्चरकृता पीडा न कदाचिद्भविष्यति ॥११॥

 इति श्रीशनैश्चरस्तोत्रं संपूर्णम्॥

<MISSING_FIG href="../books_images/U-IMG-172437450130.png"/>

**॥ऋणमोचकमङ्गलस्तोत्रम्॥**

मंगलो भूमिपुत्रश्च ऋणहर्ता धनप्रदः।  
स्थिरासनो महाकायः सर्वकर्मविरोधकः ॥१॥  
लोहितो लोहिताक्षश्च सामगानां कृपाकरः।  
धारात्मजः कुजो भौमो भूतिदो भूमिनंदनः॥२॥  
अंगारको यमश्चैव सर्वरोगापहारकः।  
वृष्टेः कर्ताऽपहर्ता च सर्वकामफलप्रदः॥३॥  
एतानि कुजनामानि नित्यं यः श्रद्धया पठेत्।  
ऋणं न जायते तस्य धनं शीघ्रमवाप्नुयात्॥४॥  
धरणीगर्भसम्भूतं विद्युत्कान्ति समप्रभम्।  
कुमारं शक्तिहस्तं च मंगलं प्रणमाम्यहम् ॥५॥  
स्तोत्रमंगारकस्यैतत्पठनीयं सदा नृभिः।  
न तेषां भौमजा पीडा स्वल्पापि भवति क्वचित् ॥६॥  
अंगारक महाभाग भगवन्भक्तवत्सल।  
त्वां नमामि ममाशेषमृणमाशु विनाशय॥७॥  
ऋणरोगादि दारिद्र्यं ये चान्ये ह्यपमृत्यवः।  
भयक्लेशमनस्तापा नश्यंतु मम सर्वदा॥८॥  
अतिवक्त्र दुराराध्य भोगमुक्तजितात्मनः।  
तुष्टो ददासि साम्राज्यं रुष्टो हरसि तत्क्षणात्॥९॥  
विरिंचिशक्रविष्णूनां मनुष्याणां तु का कथा।  
तेन त्वं सर्वसत्त्येन प्रहराजो महाबलः॥१०॥

पुत्रान्देहि धनं देहि त्वामस्मि शरणं गतः।  
ऋणदारिद्र्य दुःखेन शत्रूणां च भयात्ततः॥११॥  
एभिर्द्वादशभिः श्लोकैर्यः स्तौति च धरासुतम्।  
महतीं श्रियमाप्नोति ह्यपरो धनदो युवा॥१२॥

इति श्रीस्कंदपुराणे भार्गवप्रोक्तं ऋणमोचनमङ्गलस्तोत्रं संपूर्णम्॥

--------------------------

**॥तुलसीकवचम्॥**

 अस्य श्रीतुलसीकवचस्तोत्रमंत्रस्य। श्रीमहादेव ऋषिः। अनुष्टुप्छंदः। श्रीतुलसी देवता। मनईप्सितकामनासिद्ध्यर्थं जपे विनियोगः॥

तुलसि श्रीमहादेवि नमः पंकजधारिणि।  
शिरो मे तुलसी पातु भालं पातु यशस्विनी॥१॥  
दृशौ मे पद्मनयना श्रीसखी श्रवणे मम।  
घ्राणं पातु सुगन्धा मे मुखं च सुमुखी मम॥२॥  
जिह्वां मे पातु शुभदा कंठं विद्यामयी मम।  
स्कंधौ कल्हारिणी पातु हृदयं विष्णुवल्लभा॥३॥  
पुण्यदा मे पातु मध्यं नाभिं सौभाग्यदायिनी।  
कटिं कुंडलिनी पातु ऊरू नारदवंदिता॥४॥  
जननी जानुनी पातु जंघे सकलवंदिता।  
नारायणप्रिया पादौ सर्वांगं सर्वरक्षिणी ॥५॥

संकटे विषमे दुर्गे भये वादे महाहवे।  
नित्यं हि संध्ययोः पातु तुलसी सर्वतः सदा॥६॥  
इतीदं परमं गुह्यं तुलस्याः कवचामृतम्।  
मर्त्यानाममृतार्थाय भीतानामभयाय च॥७॥  
मोक्षाय च मुमुक्षूणां ध्यायिनां ध्यानयोगकृत्।  
वशाय वश्यकामानां विद्यायै वेदवादिनाम् ॥८॥  
द्रविणाय दरिद्राणां पापिनां पापशांतये।  
अन्नाय क्षुधितानां च स्वर्गाय स्वर्गमिच्छताम्॥९॥  
पशव्यं पशुकामानां पुत्रदं पुत्रकांक्षिणाम्।  
राज्याय भ्रष्टराज्यानामशांनानां च शांतये॥१०॥  
भक्त्यर्थं विष्णुभक्तानां विष्णौ सर्वांतरात्मनि।  
जाप्यं त्रिवर्गसिद्ध्यर्थं गृहस्थेन विशेषतः॥११॥  
उद्यतं चंडकिरणमुपस्थाय कृतांजलिः।  
तुलसीकानने तिष्ठन्नासीनो वा जपेदिदम्॥१२॥  
सर्वान्कामानवाप्नोति तथैव मम सन्निधिम्।  
मम प्रियकरं नित्यं हरिभक्तिविवर्धनम् ॥१३॥  
या स्यान्मृतप्रजा नारी तस्या अंगं प्रमार्जयेत्।  
सा पुत्रं लभते दीर्घजीविनं चाप्यरोगिणम्॥१४॥  
वंध्याया मार्जयेदंगं कुशैर्मंत्रेण साधकः।  
साऽपि संवत्सरादेव गर्भं धत्ते मनोहरम् ॥१५॥

अश्वत्थे राजवश्यार्थी जपेदग्नेः सुरूपभाक्।  
पलाशमूले विद्यार्थी तेजोर्थ्यभिमुखोरवेः ॥१६॥  
कन्यार्थी चंडिकागेहे शत्रुहत्यै गृहे मम।  
श्रीकामो विष्णुगेहे च उद्याने स्त्री वशा भवेत्॥१७॥  
किमत्र बहुनोक्तेन शृणु सैन्येश तत्वतः।  
यं यं काममभिध्यायेत्तं तं प्राप्नोत्यसंशयम्॥१८॥  
मम गेहगतस्त्वं तु तारकस्य वधेच्छया।  
जपन् स्तोत्रं च कवचं तुलसीगतमानसः।  
मंडलात्तारकं हंता भविष्यसि न संशयः॥१९॥

 इति श्रीब्रह्माण्डपुराणे तुलसीमाहात्म्ये तुलसीकवचं संपूर्णम्॥

<MISSING_FIG href="../books_images/U-IMG-172433429230.png"/>

॥देवकृतगर्भस्तुतिः॥

देवा ऊचुः—  

जगद्योनिरयोनिस्त्वमनंतोऽव्यय एवच।  
ज्योतिः स्वरूपो ह्यनिशः सगुणो निर्गुणो महान्॥१॥  
भक्तानुरोधात्साकारो निराकारो निरंकुशः।  
निर्व्यूहो निखिलाधारो निःशंको निरुपद्रवः॥२॥  
निरुपाधिश्च निर्लिप्तो निरीहो निधनांतकः।  
स्वात्मारामः पूर्णकामोऽनिमिषो नित्य एव च॥३॥  
स्वेच्छामयः सर्वहेतुः सर्वः सर्वगुणाश्रयः।  
सर्वदो दुःखदो दुर्गा दुर्जनांतक एवच॥४॥

सुभगो दुर्भगो वाग्मी दुराराध्यो दुरत्ययः।  
वेदहेतुश्च वेदश्च वेदांगो वेदविद्विभुः॥५॥  
इत्येवमुक्त्वा देवाश्च प्रणेमुश्च मुहुर्मुहुः।  
हर्षाश्रुलोचनाः सर्वे ववृषुः कुसुमानि च॥६॥  
द्विचत्वारिंशन्नामानि प्रातरुत्थाय यः पठेत्।  
दृढां भक्तिं हरेर्दास्यं लभते वांछितं फलम्॥७॥  
इत्येवं स्तवनं कृत्वा देवास्ते स्वालयं ययुः।  
बभूव जलवृष्टिश्च निश्चेष्टा मथुरा पुरी॥८॥

 इति देवकृतगर्भस्तुतिः संपूर्णा॥

<MISSING_FIG href="../books_images/U-IMG-172433449930.png"/>

॥वसुदेवकृतश्रीकृष्णस्तोत्रम्॥

**वसुदेव उवाच—**  

त्वामतींद्रियमव्यक्तमक्षरं निर्गुणं विभुम्।  
ध्यानासाध्यं च सर्वेषां परमात्मानमीश्वरम्॥१॥  
स्वेच्छामयं सर्वरूपं स्वेच्छारूपधरं परम्।  
निर्लिप्तं परमं ब्रह्म बीजरूपं सनातनम्॥२॥  
स्थूलात्स्थूलतरं प्राप्तमतिसूक्ष्मनिदर्शनम्।  
स्थितं सर्वशरीरेषु साक्षिरूपमदृश्यकम्॥३॥  
शरीरवंतं स गुणमशरीरं गुणोत्करम्।  
प्रकृतिं प्रकृतीशं च प्राकृतं प्रकृतेः परम् ॥४॥

सर्वेशं सर्वरूपं च सर्वांतकरमव्ययम्।  
सर्वाधारं निराधारं निर्व्यूहं स्तौमि किं विभुम्॥५॥  
अनंतः स्तवनेऽशक्तोऽशक्ता देवी सरस्वती।  
यं वा स्तोतुमशक्तश्च पंचवक्त्रः षडाननः॥६॥  
चतुर्मुखो वेदकर्ता यं स्तोतुमक्षमः सदा।  
गणेशो न समर्थश्च योगींद्राणां गुरोर्गुरुः॥७॥  
ऋषयो देवताश्चैव मुनींद्रमनुमानवाः।  
स्वप्ने तेषामदृश्यं च त्वामेवं किं स्तुवंति ते॥८॥  
श्रुतयः स्तवने शक्ताः किं स्तुवंति विपश्चितः।  
विहायैवं शरीरं च बालो भवितुमर्हसि॥९॥  
वसुदेवकृतं स्तोत्रं त्रिसंध्यं यः पठेन्नरः।  
भक्तिं दास्यमवाप्नोति श्रीकृष्णचरणांबुजे॥१०॥  
विशिष्टं पुत्रं लभते हरिदासं गुणान्वितम्।  
संकटं निस्तरेत्तूर्णं शत्रुभीतेः प्रमुच्यते॥११॥

इति श्रीब्रह्मवैवर्ते महापुराणे वसुदेवकृतं कृष्णस्तोत्रं संपूर्णम्॥

<MISSING_FIG href="../books_images/U-IMG-172437651030.png"/>

॥श्रीवेंंकटेश्वरमंगलस्तोत्रम्॥

श्रियः कांताय देवाय कल्याणनिधयेऽर्थिनाम्  
श्रीवेंंकटनिवासाय श्रीनिवासाय मंगलम्॥१॥  
लक्ष्मीसविभ्रमालोकसद्मविभ्रमचक्षुषे।  
चक्षुषे सर्वलोकानां वेंकटेशाय मंगलम्॥२॥

श्री वेंकटाद्रिशृङ्गाय मंगलाभरणांघ्रये।  
मंगलानां निवासाय श्रीनिवासाय मंगलम्॥३॥  
सर्वावयवसौंदर्यसंपदा सर्वचेतसाम्।  
सदा संमोहनायास्तु वेंकटेशाय मंगलम्॥४॥  
नित्याय निरवद्याय सत्यानंतचिदात्मने।  
सर्वांतरात्मने श्रीमद्वेंकटेशाय मंगलम्॥।५॥  
स्वतः सर्वविदे सर्वशक्तये सर्वशेषिणे।  
सुलभाय सुशीलाय वेंकटेशाय मंगलम्॥६॥  
परस्मै ब्रह्मणे पूर्णकामाय परमात्मने।  
प्रपन्नपरतत्त्वाय वेंकटेशाय मंगलम्॥७॥  
अकालतत्व विश्रांतावात्मानमनुपश्यताम्।  
अतृप्तामृतरूपाय वेंकटेशाय मंगलम्॥८॥  
प्रायः त्वच्चरणौ पुंसां शरणत्वेन पाणिना।  
कृपया दृश्यते श्रीमद्वेङ्कटेशाय मंगलम्॥९॥  
दयामृततरंगिण्यस्तरंगैरपि शीतलैः।  
अपांगैः सिंचते विश्वं वेंकटेशाय मंगलम्॥१०॥  
स्रग्भूषांबरहेतीनां सुषमावहमूर्तये।  
सर्वार्तिशमनायास्तु वेंकटेशाय मंगलम्॥११॥  
श्रीवैकुंठविरक्ताय स्वामिपुष्करिणी तटे।  
रमया रममाणाय वेंकटेशाय मंगलम् ॥१२॥

श्रीमत्सुंदरजामातृमुनिमानसवासिने।  
सर्वलोकनिवासाय श्रीनिवासाय मंगलम्॥१३॥  
नमः श्रीवेंकटेशाय शुद्धज्ञानस्वरूपिणे।  
वासुदेवाय शांताय श्रीनिवासाय मंगलम्॥१४॥  
मंगलाशासनपरैर्मदाचार्यपुरोगमैः।  
सर्वैश्च पूर्वैराचार्यैः सत्कृतायास्तु मंगलम्॥१५॥

इति श्रीवेङ्कटेशमंगलस्तोत्रं संपूर्णम् ॥

--------------------------

॥बालकृतकृष्णस्तोत्रम्॥

**बाला ऊचुः—**  
यथा संरक्षितं ब्रह्मन्सर्वापत्स्वेव नः कुलम्।  
तथा रक्षां कुरु पुनर्दावाग्नेर्मधुसूदन॥१॥  
त्वमिष्टदेवताऽस्माकं त्वमेव कुलदेवता।  
स्रष्टा पाता च संहर्ता जगतां च जगत्पते॥२॥  
वह्निर्वा वरुणो वापि चंद्रो वा सूर्य एव च।  
यमः कुबेरः पवन ईशानाद्याश्च देवताः॥३॥  
ब्रह्मेशशेषधर्मेन्द्रा मुनींद्रा मनवः स्मृताः।  
मानवाश्च तथा दैत्या यक्षराक्षसकिंनराः॥४॥  
ये ये चराचराश्चैव सर्वे तव विभूतयः।  
आविर्भावस्तिरोभावः सर्वेषां च तवेच्छया॥५॥

अभयं देहि गोविंद वह्निसंहरणं कुरु।  
वयं त्वां शरणं यामो रक्ष नः शरणागतान्॥६॥  
इत्येवमुक्त्वा ते सर्वे तस्थुर्ध्यत्वा पदांबुजम्।  
दूरीभूतस्तु दावाग्निः श्रीकृष्णामृतदृष्टितः॥७॥  
दूरीभूते च दावाग्नौ ननृतुस्ते मुदान्विताः।  
सर्वापदः प्रणश्यंति हरिस्मरणमात्रतः॥८॥  
इदं स्तोत्रं महापुण्यं प्रातरुत्थाय यः पठेत्।  
वह्नितो न भवेत्तस्य भयं जन्मनि जन्मनि॥९॥  
शत्रुग्रस्ते च दावाग्नौ विपत्तौ प्राणसंकटे।  
स्तोत्रमेतत्पठित्वा तु मुच्यते नात्र संशयः॥१०॥  
शत्रुसैन्यं क्षयं याति सर्वत्र विजयी भवेत्।  
इह लोके हरेर्भक्तिमंते दास्यं लभेद्ध्रुवम्॥११॥

इति बालकृतं श्रीकृष्णस्तोत्रं समाप्तम्॥

<MISSING_FIG href="../books_images/U-IMG-172437726230.png"/>

**॥गोपालस्तोत्रम्॥**

नारद उवाच—

नवीननीरदश्यामं नीलेंदीवरलोचनम्।  
वल्लवीनंदनं वंदे कृष्णं गोपालरूपिणम्॥१॥  
स्फुरद्वर्हिदलोद्वद्धनीलकुंचितमूर्धजम्।  
कदंबकुसुमोद्वद्धवनमालाविभूषितम्॥२॥

गंडमंडलसंसर्गिचलत्कांचनकुंडलम्।  
स्थूलमुक्ताफलोदारहारधतितवक्षसम्॥३॥  
हेमांगदतुलाकोटिकिरीटेज्ज्वलविग्रहम्।  
मन्दमारुतसंक्षोभवल्गिरांबरसंचयम्॥४॥  
रुचिरौष्ठपुटन्यस्तवंशीम्धुरनिःस्वनैः।  
लसद्गोपालिकाचेतो मोहयंतं मुहुर्मुहुः॥५॥  
वल्लवीवदनांभोजमधुपामधुव्रतम्।  
क्षोभयंतं मनस्तासां समेरापांगवीक्षणैः॥६॥  
यौवनोद्भिन्नदेहाभिः संरक्ताभिः परस्परम्।  
विचित्रांबरभूषाभिर्गोपपरीभिरावृतम्॥७॥  
प्रभिन्नांजनकालिंदीजलालिकलोत्सुकम्।  
योधयंतं क्वचिद्गोपान् व्याहरंतं गवांगणम्॥८॥  
कालिंदीजलसंसर्गिशीततानिलसेविते।  
कदंबपादपच्छाये स्थितं वृंदावने क्वचित् ॥९॥  
रत्नभूधरसंलग्नरत्नासनपरिग्रहम्।  
कल्पपादपमध्यस्थहेममण्डपिकागतम्॥१०॥  
वसंतकुसुमामोदसुरभीक्तदिङ्मुखे।  
गोवर्धनगिरौ रम्ये स्थितरासरसोत्सुकम्॥११॥  
सव्यहस्ततलन्यस्तगिरिथितपत्रकम्।  
खंडिताखंडलोन्मुक्तमुक्तासारघनाघनम्॥१२॥

वेणुवाद्यमहोल्लासकृतहुंकारनिःस्वनैः।  
सवत्सैरुन्मुखैः शश्वद्गोकुलैरभिवीक्षितम्॥१३॥  
कृष्णमेवानुगायद्भिस्तश्चेष्टावशवर्तिभिः।  
दंडपाशोद्यतकरैर्गोपालैरुपशोभितम्॥१४॥  
नारदाद्यैर्मुनिश्रेष्ठैर्वेदवेदांगपारगैः।  
प्रीतिसुस्निग्धया वाचा स्तूयमानं परात्परम्॥१५॥  
य एनं चिंतयेदेवं भक्त्या संस्तौति मानवः।  
त्रिसंध्यं तस्य तुष्टोऽसौ ददाति वरमीप्सितम्॥१६॥  
राजवल्लभतामेति भवेत्सर्वजनप्रियः।  
अचलां श्रियमाप्नोति स वाग्मी जायते ध्रुवम्॥१७॥

इति श्रीनारदपंचरात्रे ज्ञानामृतसारे गोपालस्तोत्रं समाप्तम्॥

------------------------------

॥मोहिनीकृतकृष्णस्तोत्रम्॥

सर्वेन्द्रियाणां प्रवरं विष्णोरंशं च मानसम्।  
तदेव कर्मणां बीजं तदुद्भव नमोऽस्तु ते॥१॥  
स्वयमात्मा हि भगवान् ज्ञानरूपो महेश्वरः।  
नमो ब्रह्मन् जगत्स्वष्टस्तदुद्भव नमोऽस्तु ते॥२॥  
सर्वाजित जगज्जेतर्जीवजीव मनोहर।  
रतिबीज रतिस्वामिन् रतिप्रिय नमोऽस्तु ते॥३॥  
शश्वद्योषिदधिष्ठान योषित्प्राणाधिकप्रिय।  
योषिद्वाहन योषास्त्र योषिद्बंधो नमोऽस्तु ते ॥४॥

पतिसाध्यकराशेषरूपाधार गुणाश्रय!  
सुगंधिवातसचिव मधुमित्र नमोऽस्तु ते॥५॥  
शश्वद्योनिकृताधार स्त्रीसंदर्शनवर्धन।  
विदग्धानां विरहिणां प्राणांतक नमोऽस्तु ते॥६॥  
अकृपा येषु तेऽनर्थं तेषां ज्ञान विनाशनम्।  
अनूहरूपभक्तेषु कृपासिंधो नमोऽस्तु ते॥७॥  
तपस्विनां च तपसां विनघ्नवीजाय लीलया।  
मनः सकामं मुक्तानां कर्तुं शक्त नमोऽस्तु ते॥८॥  
तपःसाध्यस्तथाराध्यः सदैवं पांचभौतिकः।  
पंचेंद्रियकृताधार पंचबाण नमोऽस्तु ते॥९॥  
मोहिनीत्येवमुक्त्वा तु मनसा सा विधेः पुरः।  
विरराम नम्रवक्त्रा बभूव ध्यानतत्परा॥१०॥  
उक्तं माध्यं दिने कांते स्तोत्रमेतन्मनोहरम्।  
पुरा दुर्वाससा दत्तं मोहिन्यै गन्धमादने॥११॥  
स्तोत्रमेतन्महापुण्यं कामी भक्त्या यदा पठेत्!  
अभीष्टं लभते नूनं निष्कलंको भवेद्ध्रुवम्॥१२॥  
चेष्टां न कुरुते कामः कदाचिदपि तं प्रियम्।  
भवेदरोगी श्रीयुक्तः कामदेवसमप्रभः।  
वनितां लभते साध्वीं पत्नीं त्रैलोक्यमोहिनीम्॥१३॥

इति श्रीमोहिनीकृतकृष्णस्तोत्रं समाप्तम् ॥

-------------------------------

॥ब्रह्मदेवकृतकृष्णस्तोत्रम्॥

**ब्रह्मोवाच—**

रक्ष रक्ष हरे मां च निमग्नं कामसागरे।  
दुष्कीर्तिजलपूर्णे च दुष्पारे बहुसंकटे॥१॥  
भक्तिविस्मृतिबीजे च विपत्सोपानदुस्तरे।  
अतीव निर्मलज्ञानचक्षुःप्रच्छन्नकारणे॥२॥  
जन्मोर्मिसंगसहिते योषिन्नकौघसंकुले।  
रतिस्रोतसमायुक्ते गंभीरे घोर एव च॥३॥  
प्रथमामृतरूपे च परिणामविषालये।  
यमालयप्रवेशाय मुक्तिद्वारातिविस्मृतौ॥४॥  
बुद्ध्यातरण्या विज्ञानैरुद्धरास्मानतः स्वयम्।  
स्वयं च त्वं कर्णधार प्रसीद मधुसूदन॥५॥  
मद्विधा कतिचिन्नाथ नियोज्या भवकर्मणि।  
संति विश्वेश विधयो हे विश्वेश्वर माधव॥६॥  
न कर्मक्षेत्रमेवेदं ब्रह्मलोकोऽयमीप्सितः।  
तथापि न स्पृहा कामे त्वद्भक्तिव्यवधायके॥७॥  
हे नाथ करुणासिंधो दीनबंधों कृपां कुरु।  
त्वं महेश महाज्ञाता दुःस्वप्नं मां न दर्शय॥८॥  
इत्युक्त्वा जगतां धाता विरराम सनातनः।  
ध्यायं ध्यायं मत्पदाब्जं शश्वत्सस्मर मामिति॥९॥

ब्रह्मणा च कृतं स्तोत्रं भक्तियुक्तश्च यः पठेत्।  
स चैवाकर्मविषये न निमग्नो भवेद्ध्रुवम्॥१०॥  
मम मायां विनिर्जित्य स ज्ञानं लभते ध्रुवम्।  
इह लोके भक्तियुक्तो मद्भक्त प्रवरो भवेत्॥११॥

 इति ब्रह्मदेवकृतकृष्णस्तोत्रं समाप्तम् ॥

-------------------------------

॥इंद्रकृतकृष्णस्तोत्रम्॥

इन्द्र उवाच—

अक्षरं परमं ब्रह्म ज्योतीरूपं सनातनम्।  
गुणातीतं निराकारं स्वेच्छामयमनंतकम्॥१॥  

भक्तध्यानाय सेवायै नानारूपधरं वरम्।  
शुक्लरक्तपीतश्यामं युगानुक्रमणेन च॥२॥  
शुक्लतेजःस्वरूपं च सत्ये सत्यस्वरूपिणम् ।  
त्रेतायां कुंकुमाकारं ज्वलंतं ब्रह्मतेजसा॥३॥  
द्वापरे पीतवर्णं च शोभितं पीतवाससा।  
कृष्णवर्णं कलौ कृष्णं परिपूर्णतमं प्रभुम्॥४॥  
नवधाराधरोत्कृष्टश्यामसुंदरविग्रहम्।  
नंदैकनंदनं वंदे यशोदानंदनं प्रभुम्॥५॥  
गोपिकाचेतनहरं राधाप्राणाधिकं परम्।  
विनोदमुरलीशब्दं कुर्वंतं कौतुकेन च॥६॥

रूपेणाप्रतिमेनैव रत्नभूषणभूषितम्।  
कंदर्पकोटिसौंदर्यं बिभ्रतं शांतमीश्वरम्॥७॥  
क्रीडंतं राधया सार्धं बृंदारण्ये च कुत्रचित्।  
कुत्रचिन्निर्जनेऽरण्ये राधावक्षःस्थलस्थितम्॥८॥  
जलक्रीडां प्रकुर्वंतं राधया सह कुत्रचित्।  
राधिकाकबरीभारं कुर्वतं कुत्रचिद्वने॥९॥  
कुत्रचिद्राधिकापादे दत्तवंतमलक्तकम्।  
राधाचर्विततांबूलं गृह्णंतं कुत्रचिन्मुदा॥१०॥  
पश्यंतं कुत्रचिद्राधां पश्यतीं वक्रचक्षुषा।  
दत्तवंतं च राधायै कृत्वा मालां च कुत्रचित्॥११॥  
कुत्रचिद्राधया सार्धं गच्छंतं रासमंडलम्।  
राधादत्तां गले मालां धृतवंतं च कुत्रचित्॥१२॥  
सार्धं गोपालिकाभिश्च विहरंतं च कुत्रचित्।  
राधां गृहीत्वा गच्छंतं तां विहाय च कुत्रचित् ॥१३॥  
विप्रपत्नीदत्तमन्नं भुक्तवंतं च कुत्रचित्।  
भुक्तवंतं तालफलं बालकैः सह कुत्रचित्॥१४॥  
वस्त्रं गोपालिकानां च हरंतं कुत्रचिन्मुदा।  
गवां गणं व्याहरंतं कुत्रचिद्वालकैः सह॥१५॥  
कालीयमूर्ध्नि पादाब्जं दत्तवंतं च कुत्रचित्।  
विनोदमुरलीशब्दं कुर्वंतं कुत्रचिन्मुदा ॥१६॥

गायंतं रम्यसंगीतं कुत्रचिद्बालकैः सह।  
स्तुत्वा शक्रः स्तवेंद्रेण प्रणनाम हरिं भिया॥१७॥  
पुरा दत्तेन गुरुणा रणे वृत्रासुरेण च।  
कृष्णेन दत्तं कृपया ब्रह्मणे च तपस्वते॥१८॥  
एकादशाक्षरो मंत्रः कवचं सर्वलक्षणम्।  
दत्तमेतत्कुमाराय पुष्करे ब्रह्मणा पुरा॥१९॥  
तेन चांगिरसे दत्तं गुरवेंऽगिरसां मुने।  
इदमिंद्रकृतं स्तोत्रं नित्यं भक्त्या च यः पठेत्॥२०॥  
इह प्राप्य दृढां भक्तिमंते दास्यं लभेद्ध्रुवम्।  
जन्ममृत्युजराव्याधिशोकेभ्यो मुच्यते नरः।  
न हि पश्यति स्वप्नेऽपि यमदूतं यमालयम्॥२१॥

 इति श्रीब्रह्मवैवर्ते महापुराणे कृष्णजन्मखंडे इंद्रकृतं कृष्णस्तोत्रं समाप्तम्॥

-----------------------------------

॥विप्रपत्नीकृतकृष्णस्तोत्रम्॥

विप्रपत्न्य ऊचुः—

त्वं ब्रह्म परमं धाम निरीहो निरहंकृतिः।  
निर्गुणश्च निराकारः साकारः सगुणः स्वयम्॥१॥  
साक्षिरूपश्च निर्लिप्तः परमात्मा निराकृतिः।  
प्रकृतिः पुरुषस्त्वं च कारणं च तयोः परम्॥२॥  
सृष्टिस्थित्यंतविषये ये च देवास्त्रयः स्मृताः।  
ते त्वदंशाः सर्वबीजा ब्रह्मविष्णुमहेश्वराः॥३॥

यस्य लोम्नां च विवरे चाखिलं विश्वमीश्वर।  
महाविराण्महाविष्णुस्त्वं तस्य जनको विभो॥४॥  
तेजस्त्वं चापि तेजस्वी ज्ञानं ज्ञानी च तत्परः।  
वेदेऽनिर्वचनीयस्त्वं कस्त्वां स्तोतुमहेश्वरः॥५॥  
महदादिसृष्टिसूत्रं पंचतन्मात्र मेव च।  
बीजं त्वं सर्वशक्तीनां सर्वशक्तिस्वरूपकः॥६॥  
सर्वशक्तीश्वरः सर्वः सर्वशक्त्याश्रयः सदा।  
त्वमनीहः स्वयंज्योतिः सर्वानंदः सनातनः॥७॥  
अहो आकारहीनस्त्वं सर्वविग्रहवानपि।  
सर्वेन्द्रियाणां विषयं जानासि नेंद्रियी भवान्॥८॥  
सरस्वती जडीभूता यत्स्तोत्रे यन्निरूपणे।  
जडीभूतो महेशश्च शेषो धर्मो विधिः स्वयम्॥९॥  
पार्वती कमला राधा सावित्री वेदसूरपि।  
वेदश्च जडतां याति के वा शक्ता विपश्चितः॥१०॥  
वयं किं स्तवनं कुर्मः स्त्रियः प्राणेश्वरेश्वर।  
प्रसन्नो भव नो देव दीनबंधों कृपां कुरु॥११॥  
इति पेतुश्च ता विप्रपत्न्यस्तच्चरणांबुजे।  
अभयं प्रददौ ताभ्यः प्रसन्नवदनेक्षणः॥१२॥  
विप्रपत्नीकृतं स्तोत्रं पूजाकाले च यः पठेत्।  
स गतिं विप्रपत्नीनां लभते नात्र संशयः॥१३॥  

इति श्रीब्रह्मवैवर्ते महापुराणे कृष्णजन्मखंडे विप्रपत्नीकृत कृष्णस्तोत्रं समाप्तम्।

<MISSING_FIG href="../books_images/U-IMG-172438303130.png"/>

॥श्रीकृष्णाष्टकम्॥

चतुर्मुखादि संस्तुतं समस्तसात्वतानुतम्।  
हलायुधादिसंयुतं नमामि राधिकाधिपम्॥१॥  
बकादिदैत्यकालकं सगोपगोपिपालकम्।  
मनोहरासितालकं नमामि राधिकाधिपम्॥२॥  
सुरेंद्रगर्वभंजनं विरिंचिमोहभंजनम्।  
व्रजांगनानुरंजनं नमामि राधिकाधिपम्॥३॥  
मयूरपिच्छमंडनं गजेन्द्रदंतखंडनम्।  
नृशंसकंसदंडनं नमामि राधिकाधिपम्॥४॥  
प्रदत्तविप्रदारकं सुधामधामकारकम्।  
सुरद्रुमापहारकं नमामि राधिकाधिपम्॥५॥  
धनंजयाजयावहं महाचमूक्षयावहम्।  
पितामहव्यथापहं नमामि राधिकाधिपम्॥६॥  
मुनींद्रशापकारणं यदुप्रजापहारणम्।  
धराभरावतारणं नमामि राधिकाधिपम्॥७॥  
सुवृक्षमूलशायिनं मृगारिमोक्षदायिनम्।  
स्वकीयधाममायिनं नमामि राधिकाधिपम्॥८॥  
इदं समाहितो हितं वराष्टकं सदा मुदा।  
जपञ्जनो जनुर्जरादितो द्रुतं प्रमुच्युते॥९॥

 इति श्रीपरमहंसस्वामिब्रह्मानंदविरचितं श्रीकृष्णाष्टकं संपूर्णम् ॥

------------------------------------

॥ सत्यव्रतोक्तदामोदरस्तोत्रम्॥

सिंधुदेशोद्भवो विप्रो नाना सत्यत्रतः सुधीः।  
विरक्तो इंद्रियार्थेभ्यस्त्यक्त्वा पुत्रगृहादिकम्॥१॥  
वृंदावने स्थितः कृष्णमारिराध दिवानिशम्।  
निःस्वः सत्यव्रतो विप्रो निर्जनेऽव्यग्रमानसः॥२॥  
कार्तिके पूजयामास प्रीत्या दामोदरं नृप।  
तृतीयेऽह्नि सकृद्भुंक्ते पत्रं मूलं फलं तथा ॥३॥  
पूजयित्वा हरिं स्तौति प्रीत्या दामोदराभिधम्।

**सत्यव्रत उवाच—**

नमामीश्वरं सच्चिदानंदरूपं लसत्कुंडलं गोकुले भ्राजमानम्।  
यशोदाभियोलूखले धावमानं परामृष्टमत्यंततोदूतगोप्या ॥४॥  
रुदंतं मुहुर्नेत्रयुग्मं मृजंतं कराम्भोजयुग्मेन सातंकनेत्रम्।  
मुहुः श्वासकं पत्रिरेखांककंठं स्थितं नौमि दामोदरं भक्तवंद्यम्॥५॥  
वरं देव देहीश मोक्षावधिं वा न चान्यं वृणेऽहं वरेशादपीह।  
इदं ते वपुर्नाथ गोपालबालं सदा मे मनस्या विरास्तां किमन्यैः॥६॥  
इदं ते मुखांभोजमत्यंतनीलैर्वृतं कुंतलैः स्निग्धवक्त्रैश्च गोप्या।  
मुहुश्रुंबितं बिंबरक्ताधरं मे मनस्या विरास्तामलं लक्षलाभैः॥७॥  
नमो देव दामोदरानंत विष्णो प्रसीद प्रभो दुःखजालाब्धिमग्नम्।  
कृपादृष्टिवृष्ट्याऽतिदीनं च रक्ष गृहाणेश मामज्ञमेवाक्षिदृश्यम् ॥८॥  
कुबेरात्मजौ वृक्षमूर्ती च यद्वत्त्वया मोचितौ भक्तिभाजौ कृतौ च।  
तथा प्रेमभक्तिं स्विकां मे प्रयच्छ न मोक्षे ग्रहो मेऽस्ति दामोदरेह॥९॥

नमस्ते सुदाम्ने स्फुरद्दीप्तधाम्ने तथोरःस्थविश्वस्यघाम्ने नमस्ते।  
नमो राधिकायै त्वदीयप्रियायै नमोऽनंतलीलाय देवाय तुभ्यम्॥

नारद उवाच—

सत्यव्रतद्विजस्तोत्रं श्रुत्वा दामोदरो हरिः।  
विद्युल्लीलाचमत्कारो हृदये शनकैरभूत्॥११॥

इति श्रीसत्यव्रतकृतदामोदरस्तोत्रं संपूर्णम्॥

------------------------------

**॥क्रय्यसंस्कृतपुस्तकानि॥**

संस्कृतबालशिक्षा आन्ध्रलिप्या समलंकृता श्रीरामायणसंग्रहसहिता च संस्कृतान्ध्राक्षर जिज्ञासूनामत्युपयोगिनी

|                                                |
|------------------------------------------------|
| हिन्दी तेलुगु बालशिक्षा                        |
| हिन्दी तेलुगु प्रथमवाचकम्                      |
| संस्कृतान्धवर्णबोधिनी पत्रफलका                 |
| सरस्वतीप्रार्थना, श्यामलादण्डकम्, नवरत्नमाला च |
| शब्दमञ्जरी, (दृढपत्त्रात्मिका)                 |
| अमरकोशः                                        |
| हितोपदेशः                                      |
| रघुवंशमहाकाव्यम् सव्याख्यानम्                  |
| मेघसन्देशः सव्याख्यानम्                        |
| भोजचरित्रम् सव्याख्यानम्                       |
| विक्रमार्कचरित्रम्                             |
| व्रतरत्नाकरः                                   |
| महाकविबोधायनकृत भगवदज्जुकनाटकम्                |
| अभिज्ञानशाकुन्तलनाटकम्                         |
| भर्तृहरिशतकत्रयम्, मूलम्                       |
| बालरामायणम्                                    |
| विवेकचूडामणिः                                  |
| रामकर्णामृतम्                                  |
| श्रीकृष्णकर्णामृतम्                            |
|  " आङ्ग्लानुवादसहितम्    |

|                                                        |
|--------------------------------------------------------|
| शिवकवचम्                                               |
| शिवानन्दलहरी                                           |
| आदित्यहृदयम्                                           |
| श्रीगोविन्दद्वादश(चतुर्दश)मञ्जरिकास्तोत्रम्            |
| श्रीलक्ष्मीनारायणहृदयम्                                |
| पञ्चसूक्तानि                                           |
| रुद्रनमकचमकम्                                          |
| यजुर्वेदसन्ध्यावन्दनम्                                 |
| यजुर्वेदाह्निकम्                                       |
| श्रीवैष्णवाह्निकम्                                     |
| सूर्यनमस्कारमन्त्राः त्र्युचब्रह्मयज्ञसहितास्सस्वराश्च |
| श्रीदक्षिणामूर्तिस्तोत्रम्                             |
| आलवन्दारस्तोत्रम्                                      |
| सौन्दर्यलहरीस्तोत्रम्                                  |
| लक्ष्मीनृसिंहस्तोत्रम्                                 |
| देवीस्तोत्रकदम्बः                                      |
| मुकुन्दमाला                                            |
| बृहत्स्तोत्ररत्नाकरे प्रथमभागः                         |
| बृहत्स्तोत्ररत्नाकरः(द्वितीयभागः)                      |
| श्रीमद्रामायणे बालकाण्डः                               |
| श्रीमद्रामायणे अयोध्याकाण्डः                           |
| श्रीमद्रामायणे आरण्यकाण्डः                             |
| श्रीमद्रामायणे किष्किन्धाकाण्डः                        |
| श्रीमद्रामायणे सुन्दरकाण्डः                            |
| श्रीमद्रामायणे युद्धकाण्डः                             |

|                                         |
|-----------------------------------------|
| गद्यत्रयम्                              |
| ब्रह्मसूत्राणि, मूलमात्रम्              |
| भगवद्गीता मूलमात्रम्                    |
| विष्णुसहस्रनामस्तोत्रम् (नामावलीसहितम्) |
| ललितासहस्रनामस्तोत्रम्                  |
| लक्ष्मीसहस्रनामस्तोत्रम्                |
| सुब्रह्मण्यसहस्रनामस्तोत्रम्            |
| शिवसहस्रनामस्तोत्रम्                    |
| वेङ्कटेशसहस्रनामस्तोत्रम्               |
| अन्नपूर्णासहस्रनामस्तोत्रम्             |
| आंजनेयसहस्रनामस्तोत्रम्                 |
| गणपतिसहस्रनामस्तोत्रम्                  |
| श्रीरामसहस्रनामस्तोत्रम्                |
| श्रीकृष्णसहस्रनामस्तोत्रम्              |
| श्रीगोपालसहस्रनामस्तोत्रम्              |
| श्रीलक्ष्मीनृसिंहसहस्रनामस्तोत्रम्      |
| श्रीवटुकभैरवसहस्रनामस्तोत्रम्           |
| श्रीभवानीसहस्रनामस्तोत्रम्              |
| श्रीकालिकासहस्रनामस्तोत्रम्             |

वाविल रामस्वामिशास्त्रुलु अण्ड् सन्स्  
२९२, एस्प्लनेड्, मद्रास् .

॥विक्रमार्कचरित्रम्॥

 भो महाशयाः, अस्मन्मुद्रणशालायामिदानीं देवनागरलिप्यामपि ग्रन्थाः मुद्राप्यन्ते इति विदितचरमेव तत्रभवतां भवताम्॥  

 सुप्रसिद्धेषु गद्यग्रन्थेषु संस्कृतभाषाप्रविविक्षूणां विक्रमार्कचरित्रम्, भोजचरित्रमित्युभावेव सुगमौ॥ दाक्षिणात्यपाठानुसारेण मुम्बापुर्यादिपत्तनेषु मुद्रितयोरनयोः पुस्तकयो रभावादिदानर्विक्रमार्कचरित्रं दाक्षिणात्यपाठानुसारेणान्ध्रलिप्यां ग्रन्थलिप्यां च मुद्रितकोशैः समीकृत्य स्फुटैरयसाक्षरैः दृढचिक्कणपत्रेषु संमुद्र्य विक्रेयमस्ति। आंग्लपाठशालापठितॄणां माणवकानामुपकाराय, आंगानुवादसहिता, अकाराद्यनुक्रमणिका (Glossary) संयोजितास्ति। पाठशालाध्यापकाः सर्वेऽपि माणवकानेतत्पुस्तकक्रयणाय प्रोत्साह्य एतादृशग्रन्थमुद्रणाय प्रोत्साहयेयुरस्मानिति प्रार्थयामहे॥

क्रय रू. ०-१०-०.॥

<MISSING_FIG href="../books_images/U-IMG-172438598330.png"/>

॥अभिज्ञानशाकुन्तलं नाम नाटकम्॥

 भोभोस्सचेतसः आधुनिकीकिल काचन विज्ञापना,  
 इदंकिल राघवभट्टकृतव्याख्यया, श्रीनिवासाचार्यरचितव्याख्यया च सहितं दाक्षिणात्यौत्तरिक पाठभेदादिसङ्कलितं सहृदय हृदयाह्लादनघातुरीधुरीणरसालङ्कारादिपरिष्कृतं च नाटकं स्फुटतरदेवनागरलिप्या मुद्राप्यमाणं सदचिरादेवास्मन्मुद्रणालये प्रचाराय भविष्यतीति॥

इत्थं भवद्विधेयः

वाविल्ल रामस्वामिशास्त्रुलु अण्ड् सन्स्.

\]