[[स्तोत्राणि (प्रथमो भागः) Source: EB]]
[
<MISSING_FIG href="../books_images/U-IMG-1726823700bbbbas.png"/>
<MISSING_FIG href="../books_images/U-IMG-1722849329qqqqq.png"/>
CONTENTS.
| GANAPATI STOTRAS |
| SUBRAHMANYA STOTRAS |
| ISWARA STOTRAS |
| DEVI STOTRAS |
<MISSING_FIG href="../books_images/U-IMG-1722849618llll.png"/>
विषयाः
| गणपतिस्तोत्राणि |
| सुब्रह्मण्यस्तोत्राणि |
| ईश्वरस्तोत्राणि |
| देवीस्तोत्राणि |
<MISSING_FIG href="../books_images/U-IMG-1722849930wwww.png"/>
॥श्रीः ॥
॥ विषयानुक्रमणिका॥
<MISSING_FIG href="../books_images/U-IMG-1722849241Capturezdfgjkl;.PNG"/>
| गणेशपञ्चरत्नम् |
| गणेशभुजंगम् |
| सुब्रह्मण्यभुजंगम् |
| शिवभुजंगम् |
| शिवानन्दलहरी |
| शिवपादादिकेशान्तवर्णनस्तोत्रम् |
| शिवकेशादिपादान्तवर्णनस्तोत्रम् |
| वेदसारशिवस्तोत्रम् |
| शिवापराधक्षमापणस्तोत्रम् |
| सुवर्णमालास्तुतिः |
| दशश्लोकीस्तुतिः |
| दक्षिणामूर्तिवर्णमालास्तोत्रम् |
| श्रीदक्षिणामूर्त्यष्टकम् |
| श्रीमृत्युंजयमानसिकपूजास्तोत्रम् |
| शिवनामावल्यष्टकम् |
| शिवपञ्चाक्षरस्तोत्रम् |
| उमामहेश्वरस्तोत्रम् |
| सौन्दर्यलहरी |
| देवीभुजंगस्तोत्रम् |
| आनन्दलहरी |
| त्रिपुरसुन्दरीवेदपादस्तोत्रम् |
| त्रिपुरसुन्दरीमानसपूजास्तोत्रम् |
| देवीचतुःषष्ट्युपचारपूजास्तोत्रम् |
| त्रिपुरसुन्दर्यष्टकम् |
| ललितापञ्चरत्नम् |
| कल्याणवृष्टिस्तवः |
| नवरत्नमालिका |
| मन्त्रमातृकापुष्पमालास्तवः |
| गौरीदशकम् |
| भवानीभुजंगम् |
<MISSING_FIG href="../books_images/U-IMG-1722850148asdfghjkl.PNG"/>
॥ श्रीः॥
Gourishunker Ganeriwala
॥ गणेशपञ्चरत्नम् ॥
——————
मुदा करात्तमोदकं सदा विमुक्तिसाधकं
कलाधरावतंसकं विलासिलोकरक्षकम्।
अनायकैकनायकं विनाशितेभदैत्यकं
नताशुभाशुनाशकं नमामि तं विनायकम्॥ १ ॥
नतेतरातिभीकरं नवोदितार्कभास्वरं
नमत्सुरारिनिर्जरं नताधिकापदुद्धरम्।
सुरेश्वरं निधीश्वरं गजेश्वरं गणेश्वरं
महेश्वरं तमाश्रये परात्परं निरन्तरम्॥ २ ॥
समस्तलोकशंकरं निरस्तदैत्यकुञ्जरं
दरेतरोदरं वरं वरेभवक्त्रमक्षरम्।
कृपाकरं क्षमाकरं मुदाकरं यशस्करं
मनस्करं नमस्कृतां नमस्करोमि भास्वरम्॥ ३ ॥
अकिंचनार्तिमार्जनं चिरंतनोक्तिभाजनं
पुरारिपूर्वनन्दनं सुरारिगर्वचर्वणम्।
प्रपञ्चनाशभीषणं धनंजयादिभूषणं
कपोलदानवारणं भजे पुराणवारणम्॥ ४ ॥
नितान्तकान्तदन्तकान्तिमन्तकान्तकात्मजम्
अचिन्त्यरूपमन्तहीनमन्तरायकृन्तनम्।
हृदन्तरे निरन्तरं वसन्तमेव योगिनां
तमेकतदन्तमेव तं विचिन्तयामि संततम्॥५ ॥
महागणेशपञ्चरत्नमादरेण योऽन्वहं
प्रजल्पति प्रभातके हृदि स्मरन्गणेश्वरम्।
अरोगतामदोषतां सुसाहितीं सुपुत्रतां
समाहितायुरष्टभूतिमभ्युपैति सोऽचिरात्॥६॥
<MISSING_FIG href="../books_images/U-IMG-1722913078cvbjjn.PNG"/>
॥ श्रीः ॥
॥ गणेशभुजंगम् ॥
———
रणत्क्षुद्रघण्टानिनादाभिरामं
चलत्ताण्डवोद्दण्डवत्पद्मतालम्।
लसत्तुन्दिलाङ्गोपरिव्यालहारं
गणाधीशमीशानसूनुं तमीडे ॥ १ ॥
ध्वनिध्वंसवीणालयोल्लासिवक्त्रं
स्फुरच्छुण्डदण्डोल्लसद्बीजपूरम्।
गलद्दर्पसौगन्ध्यलोलालिमालं
गणाधीशमीशानसूनुं तमीडे ॥२॥
प्रकाशज्जपारक्तरत्नप्रसून-
प्रवालप्रभातारुणज्योतिरेकम्।
प्रलम्बोदरं वक्रतुण्डैकदन्तं
गणाधीशमीशानसूनुं तमीडे ॥ ३ ॥
विचित्रस्फुरद्रत्नमालाकिरीटं
किरीटोल्लसच्चन्द्ररेखाविभूषम्।
विभूषैकभूषं भवध्वंसहेतुं
गणाधीशमीशानसूनुं तमीडे ॥ ४ ॥
उदञ्चद्भुजावल्लरीदृश्यमूलो-
च्चलद्भ्रूलताविभ्रमभ्राजदक्षम्।
मरुत्सुन्दरीचामरैः सेव्यमानं
गणाधीशमीशानसूनुं तमीडे ॥ ५ ॥
स्फुरन्निष्ठुरालोलपिङ्गाक्षितारं
कृपाकोमलोदारलीलावतारम्।
कलाबिन्दुगं गीयते योगिवर्यै-
र्गणाधीशमीशानसूनुं तमीडे ॥ ६ ॥
यमेकाक्षरं निर्मलं निर्विकल्पं
गुणातीतमानन्दमाकारशून्यम्।
परं पारमोंकामाम्नातयगर्भं
वदन्ति प्रगल्भं पुराणं तमीडे ॥ ७ ॥
चिदानन्दसान्द्राय शान्ताय तुभ्यं
नमो विश्वकर्त्रे च हर्त्रे च तुभ्यम्।
नमोऽनन्तलीलाय कैवल्यभासे
नमो विश्वबीज प्रसीदेशसूनो॥ ८ ॥
इमं सुस्तवं प्रातरुत्थाय भक्त्या
पठेद्यस्तु मर्त्यो लभेत्सर्वकामान्।
गणेशप्रसादेन सिध्यन्ति वाचो
गणेशे विभौ दुर्लभं किं प्रसन्ने॥९॥
<MISSING_FIG href="../books_images/U-IMG-1722698786EBS_1.png"/>
॥ श्रीः ॥
॥ सुब्रह्मण्यभुजंगम् ॥
————
सदा बालरूपापि विघ्नाद्रिहन्त्री
महादन्तिवक्त्रापि पञ्चास्यमान्या।
विधीन्द्रादिमृग्या गणेशाभिधा मे
विधत्तां श्रियं कापि कल्याणमूर्तिः
॥ १॥
न जानामि शब्दं न जानामि चार्थे
न जानामि पद्यं न जानामि गद्यम्।
चिदेका षडास्या हृदि द्योतते मे
मुखान्निःसरन्ते गिरश्वापि चित्रम् ॥ २ ॥
मयूराधिरूढं महावाक्यगूढं
मनोहारिदेहं महच्चित्तगेहम्।
महीदेवदेवं महावेदभावं
महादेवबालं भजे लोकपालम् ॥ ३ ॥
<MISSING_FIG href="../books_images/U-IMG-1726823566aaas.png"/>
यदा संनिधानं गता मानवा मे
भवाम्भोधिपारं गतास्ते तदैव।
इति व्यञ्जयन्सिन्धुतीरे य आस्ते
तमीडे पवित्रं पराशक्तिपुत्रम् ॥ ४ ॥
यथाब्धेस्तरङ्गा लयं यान्ति तुङ्गा-
स्तथैवापदः संनिधौ सेवतां मे।
इतीवोर्मिपङ्कीर्नृणां दर्शयन्तं
सदा भावये हृत्सरोजे गुहं तम्॥ ५ ॥
गिरौ मन्निवासे नरा येऽधिरूढा-
स्तदा पर्वते राजते तेऽधिरूढाः।
इतीव ब्रुवन्गन्धशैलाधिरूढः
स देवो मुदे मे सदा षण्मुखोऽस्तु॥६॥
महाम्भोधितीरे महापापचोरे
मुनीन्द्रानुकूले सुगन्धाख्यशैले।
गुहायां वसन्तं स्वभासा लसन्तं
जनार्तिंहरन्तं श्रयामो गुहं तम्॥ ७ ॥
लसत्स्वर्णगेहे नृणां कामदोहे
सुमस्तोमसंछन्नमाणिक्यमञ्चे।
समुद्यत्सहस्रार्कतुल्यप्रकाशं
सदा भावये कार्तिकेयं सुरेशम् ॥ ८ ॥
रणद्धंसके मञ्जुलेऽत्यन्तशोणे
मनोहारिलावण्यपीयूषपूर्णे।
नः षट्पदो मे भवक्लेशतप्तः
सदा मोदतां स्कन्द ते पादपद्मे॥ ९॥
सुवर्णाभदिव्याम्बरैर्भासमानां
क्वणत्किङ्किणीमेखलाशोभमानाम्।
लसद्धेमपट्टेन विद्योतमानां
कटिं भावये स्कन्द ते दीप्यमानाम् ॥ १० ॥
पुलिन्देशकन्याघनाभोगतुङ्ग-
स्तनालिङ्गनासक्तकाश्मीररागम्।
नमस्याम्यहं तारकारे तवोरः
स्वभक्तावने सर्वदा सानुरागम् ॥ ११ ॥
विधौ क्लृप्तदण्डान्स्वलीलाधृताण्डा-
न्निरस्तेभशुण्डाद्विषत्कालदण्डान्।
हतेन्द्रारिषण्डाञ्जगत्त्राणशौण्डा-
न्सदा ते प्रचण्डाञ्श्रये बाहुदण्डान्॥ १२ ॥
सदा शारदाः षण्मृगाङ्का यदि स्युः
समुद्यन्त एव स्थिताश्चेत्समन्तात्।
सदा पूर्णबिम्बाः कलङ्केश्चहीना-
स्तदा त्वन्मुखानां ब्रुवे स्कन्द साम्यम् ॥ १३ ॥
स्फुरन्मन्दहासैः सहंसानि चञ्च-
त्कटाक्षावलीभृङ्गसंघोज्ज्वलानि।
सुधास्यन्दिबिम्बाधराणीशसूनो
तवालोकये षण्मुखाम्भोरुहाणि ॥ १४ ॥
विशालेषु कर्णान्तदीर्घेष्वजस्रं
दयास्यन्दिषु द्वादशस्वीक्षणेषु।
मयीषत्कटाक्षः सकृत्पातितश्चे-
द्भवेत्ते दयाशील का नाम हानिः ॥ १५ ॥
सुताङ्गोद्भवो मेऽसि जीवेति षड्धा
जपन्मन्त्रमीशो मुदा जिघ्रते यान्।
जगद्भारभृद्भयो जगन्नाथ तेभ्यः
किरीटोज्ज्वलेभ्यो नमो मस्तकेभ्यः॥ १६ ॥
स्फुरद्रत्नकेयूरहाराभिराम-
श्चलत्कुण्डलश्रीलसद्गण्डभागः।
कटौ पीतवासाः करे चारुशक्तिः
पुरस्तान्ममास्तां पुरारेस्तनूजः ॥ १७ ॥
इहायाहि वत्सेति हस्तान्प्रसार्या-
ह्वयत्यादराच्छंकरे मातुरङ्कात्।
समुत्पत्य तातं श्रयन्तं कुमारं
हराश्लिष्टगात्रं भजे बालमूर्तिम्॥ १८ ॥
कुमारेशसूनो गुह स्कन्द सेना-
पते शक्तिपाणे मयूराधिरूढ।
पुलिन्दात्मजाकान्त भक्तार्तिहारिन्
प्रभो तारकारे सदा रक्ष मां त्वम् ॥ १९ ॥
प्रशान्तेन्द्रिये नष्टसंज्ञे विचेष्टे
कफोद्गारिवक्त्रे भयोत्कम्पिगात्रे।
प्रयाणोन्मुखे मय्यनाथे तदानीं
द्रुतं मे दयालो भवाग्रे गुह त्वम्॥ २० ॥
कृतान्तस्य दूतेषु चण्डेषु कोपा-
द्दह च्छिन्द्धिभिन्द्धीति मां तर्जयत्सु।
मयूरं समारुह्य मा भैरिति त्वं
पुरः शक्तिपाणिर्ममायाहि शीघ्रम्॥ २१ ॥
प्रणम्यासकृत्पादयोस्ते पतित्वा
प्रसाद्य प्रभो प्रार्थयेऽनेकवारम्।
न वक्तुं क्षमोऽहं तदानीं कृपाब्धे
न कार्यान्तकाले मनागप्युपेक्षा॥२२॥
सहस्राण्डभोक्ता त्वया शूरनामा
हतस्तारकः सिंहवक्त्रश्च दैत्यः।
ममान्तर्हृदिस्थं मनःक्लेशमेकं
न हंसि प्रभो किं करोमि क्व यामि ॥ २३ ॥
अहं सर्वदा दुःखभारावसन्नो
भवान्दीनबन्धुस्त्वदन्यं न याचे।
भवद्भक्तिरोधं सदा क्लप्तबाधं
ममाधिं द्रुतं नाशयोमासुत त्वम्॥ २४ ॥
अपस्मारकुष्ठक्षयार्शः प्रमेह-
ज्वरोन्मादगुल्मादिरोगा महान्तः।
पिशाचाश्चसर्वे भवत्पत्रभूतिं
विलोक्य क्षणात्तारकारे द्रवन्ते ॥२५॥
दृशि स्कन्दमूर्तिः श्रुतौ स्कन्दकीर्ति-
र्मुखे मे पवित्रं सदा तच्चरित्रम्।
करे तस्य कृत्यं वपुस्तस्य भृत्यं
गुहे सन्तु लीना ममाशेषभावाः ॥ २६॥
मुनीनामुताहो नृणां भक्तिभाजा-
मभीष्टप्रदाः सन्ति सर्वत्र देवाः।
नृणामन्त्यजानामपि स्वार्थदाने
गुहाद्देवमन्यं न जाने न जाने ॥ २७ ॥
कलत्रं सुता बन्धुवर्गः पशुर्वा
नरो वाथ नारी गृहे ये मदीयाः।
यजन्तो नमन्तः स्तुवन्तो भवन्तं
स्मरन्तश्च ते सन्तु सर्वे कुमार ॥२८ ॥
मृगाः पक्षिणो दंशका ये च दुष्टा-
स्तथा व्याधयो बाधका ये मदङ्गे।
भवच्छक्तितीक्ष्णाग्रभिन्नाः सुदूरे
विनश्यन्तु ते चूर्णितक्रौञ्चशैल ॥ २९ ॥
जनित्री पिता च स्वपुत्रापराधं
सहेते न किं देवसेनाधिनाथ।
अहं चातिबालो भवान् लोकतातः
क्षमस्वापराधं समस्तं महेश ॥ ३० ॥
नमः केकिने शक्तये चापि तुभ्यं
नमश्छाग तुभ्यं नमः कुक्कुटा।
नमः सिन्धवे सिन्धुदेशाय तुभ्यं
पुनः स्कन्दमूर्ते नमस्ते नमोऽस्तु ॥ ३१ ॥
जयानन्दभूमञ्जयापारधाम-
ञ्जयामोघकीर्ते जयानन्दमूर्ते।
जयानन्दसिन्धो जयाशेषबन्धो
जय त्वं सदा मुक्तिदानेशसूनो॥ ३२॥
भुजङ्गाख्यवृत्तेन क्लृप्तंस्तवं यः
पठेद्भक्तियुक्तो गुहं संप्रणम्य।
स पुत्रान्कलत्रं धनं दीर्घमायु-
र्लभेत्स्कन्दसायुज्यमन्ते नरः सः॥ ३३॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवतः कृतौ
श्री सुब्रह्मण्यभुजंगं संपूर्णम् ॥
<MISSING_FIG href="../books_images/U-IMG-1722700393chitraaaa.PNG"/>
॥ श्रीः ॥
॥ शिवभुजंगम् ॥
————
गलद्दानगण्डं मिलद्भृङ्गषण्डं
चलच्चारुशुण्डं जगत्त्राणशौण्डम्।
कनद्दन्तकाण्डं विपद्भङ्गचण्डं
शिवप्रेमपिण्डं भजे वक्रतुण्डम् ॥ १ ॥
अनाद्यन्तमाद्यं परं तत्त्वमर्थं
चिदाकारमेकं तुरीयं त्वमेयम्।
हरिब्रह्ममृग्यं परब्रह्मरूपं
मनोवागतीतं महःशैवमीडे॥ २ ॥
स्वशक्त्यादिशक्त्यन्तसिंहासनस्थं
मनोहारिसर्वाङ्गरत्नोरुभूषम्।
जटाहीन्दुगङ्गास्थिशम्याकमौलिं
पराशक्तिमित्रं नुमः पञ्चवक्त्रम् ॥ ३ ॥
शिवेशानतत्पुरुषाघोरवामा-
दिभिः पश्चभिर्हृन्मुखैः षड्भिरङ्गैः।
अनौपम्य षट्त्रिंशतं तत्त्वविद्या-
मतीतं परं त्वां कथं वेत्ति को वा ॥ ४ ॥
प्रवालप्रवाहप्रभाशोणमर्धं
मरुत्वन्मणिश्रीमहःश्याममर्धम्।
गुणस्यूतमेतद्वपुः शैवमन्तः
स्मरामि स्मरापत्तिसंपत्तिहेतोः ॥ ५ ॥
स्वसेवासमायातदेवासुरेन्द्रा-
नमन्मौलिमन्दारमालाभिषक्तम्।
नमस्यामि शंभो पदाम्भोरुहं ते
भवाम्भोधिपोतं भवानीविभाव्यम् ॥ ६ ॥
जगन्नाथ मन्नाथ गौरीसनाथ
प्रपन्नानुकम्पिन्विपन्नार्तिहारिन्।
महः स्तोममूर्ते समस्तैकबन्धो
नमस्ते नमस्ते पुनस्ते नमोऽस्तु ॥ ७ ॥
विरूपाक्ष विश्वेश विश्वादिदेव
त्रयीमूल शंभो शिव त्र्यम्बक त्वम्।
प्रसीद स्मर त्राहि पश्यावमुक्त्यै
क्षमां प्राप्नुहि त्र्यक्ष मां रक्ष मोदात् ॥ ८ ॥
महादेव देवेश देवादिदेव
स्मरारे पुरारे यमारे हरेति।
ब्रुवाणः स्मरिष्यामि भक्त्या भवन्तं
ततो मे दयाशील देव प्रसीद॥ ९॥
त्वदन्यः शरण्यः प्रपन्नस्य नेति
प्रसीद स्मरन्नेव हन्यास्तु दैन्यम्।
न चेत्ते भवेद्भक्तवात्सल्यहानि-
स्ततो मे दयालो सदा संनिधेहि ॥ १०॥
अयं दानकालस्त्वहं दानपात्रं
भवानेव दाता त्वदन्यं न याचे।
भवद्भक्तिमेव स्थिरां देहि मह्यं
कृपाशील शंभो कृतार्थोऽस्मि तस्मात् ॥ ११ ॥
पशुं वेत्सि चेन्मां तमेवाधिरूढः
कलङ्कीति वा मूर्ध्नि धत्से तमेव।
द्विजिह्वःपुनः सोऽपि ते कण्ठभूषा
त्वदङ्गीकृताः शर्व सर्वेऽपि धन्याः ॥ १२ ॥
न शक्नोमि कर्तुं परद्रोहलेशं
कथं प्रीयसे त्वं न जाने गिरीशं।
तथाहि प्रसन्नोऽसि कस्यापि कान्ता-
सुतद्रोहिणो वा पितृद्रोहिणो वा ॥ १३ ॥
स्तुतिं ध्यानमर्चां यथावद्विधातुं
भजन्नप्यजानन्महेशावलम्बे।
सन्तं सुतं त्रातुमग्रे मृकण्डो-
र्यमप्राणनिर्वापणं त्वत्पदाब्जम् ॥ १४ ॥
शिरोदृष्टिहृद्रोगशूलप्रमेह-
ज्वरार्शोजरायक्ष्महिक्काविषार्तान्।
त्वमाद्यो भिषग्भेषजं भस्म शंभो
त्वमुल्लाघयास्मान्वपुर्लाघवाय ॥ १५ ॥
दरिद्रोऽस्म्यभद्रोऽस्मि भग्नोऽस्मि दूये
विषण्णोऽस्मि सन्नोऽस्मि खिन्नोऽस्मि चाहम्।
भवान्प्राणिनामन्तरात्मासि शंभो
ममाधिं न वेत्सि प्रभो रक्ष मां त्वम् ॥ १६॥
त्वदक्षणोः कटाक्षः पतेत्त्र्यक्ष यत्र
क्षणं क्ष्मा च लक्ष्मीः स्वयं तं वृणाते।
किरीटस्फुरच्चामरच्छन्नमाला-
कलाचीगजक्षौमभूषाविशेषैः ॥ १७ ॥
भवान्यै भवायापि मात्रे च पित्रे
मृडान्यै मृडायाप्यधघ्न्यै मखघ्ने।
शिवाङ्गयै शिवाङ्गाय कुर्मः शिवायै
शिवायाम्बिकायै नमस्त्र्यम्बकाय॥ १८॥
भवद्गौरवं मल्लघुत्वं विदित्वा
प्रभो रक्षं कारुण्यदृष्ट्यानुगं माम्।
शिवात्मानुभावस्तुतावक्षमोऽहं
स्वशक्त्या कृतं मेऽपराधं क्षमस्व॥ १९ ॥
यदा कर्णरन्ध्रंव्रजेत्कालवाह-
द्विषत्कण्ठघण्टाघणात्कारनादः।
वृषाधीशमारुह्य देवपवाह्यं
तदा वत्स मा भीरिति प्रीणय त्वम् ॥ २० ॥
यदा दारुणाभाषणा भीषणा मे
भविष्यन्त्युपान्ते कृतान्तस्य दूताः।
तदा मन्मनस्त्वत्पदाम्भोरुहस्थं
कथं निश्चलं स्यान्नमस्तेऽस्तु शंभो ॥ २१ ॥
यदा दुर्निवारव्यथोऽहं शयानो
लुठन्निःश्वसन्निःसृताव्यक्तवाणिः।
तदा जह्नुकन्याजलालंकृतं ते
जटामण्डलं मन्मनोमन्दिरं स्यात् ॥ २२॥
यदा पुत्रमित्रादयो मत्सकाशे
रुदन्त्यस्य हा कीदृशीयं दशेति।
तदा देवदेवेश गौरीश शंभो
नमस्ते शिवायेत्यजस्रं ब्रवाणि ॥ २३ ॥
यदा पश्यतां मामसौ वेत्ति नास्मा-
नयं श्वास एवेति वाचो भवेयुः।
तदा भूतिभूषं भुजंगावनद्धं
पुरारे भवन्तं स्फुटं भावयेयम् ॥ २४ ॥
यदा यातनादेहसंदेहवाही
भवेदात्मदेहे न मोहो महान्मे।
तदा काशशीतांशुसंकाशमीश
स्मरारे वपुस्ते नमस्ते स्मराणि॥ २५॥
यदापारमच्छायमस्थानमद्भि-
र्जनैर्वा विहीनं गमिष्यामि मार्गम्।
तदा तं निरुन्धन्कृतान्तस्य मार्गं
महादेव मह्यं मनोज्ञं प्रयच्छ॥ २६॥
यदा रौरवादि स्मरन्नेव भीत्या
व्रजाम्यत्र मोहं महादेव घोरम्।
तदा मामहो नाथ कस्तारयिष्य-
त्यनाथं पराधीनमर्धेन्दुमौले ॥ २७ ॥
यदा श्वेतपत्रायतायलङ्घ्यशक्तेः
कृतान्ताद्भयं भक्तवात्सल्यभावात्।
तदा पाहि मां पार्वतीवल्लभान्यं
न पश्यामि पातारमेतादृशं मे॥ २८॥
इदानीमिदानीं मृतिर्मेभवित्री-
त्यही संततं चिन्तया पीडितोऽस्मि।
कथं नाम मा भून्मृतौ भीतिरेषा
नमस्ते गतीनां गते नीलकण्ठ ॥ २९ ॥
अमर्यादमेवाहमाबालवृद्धं
हरन्तं कृतान्तं समीक्ष्यास्मि भीतः।
मृतौ तावकाङ्घ्यब्जादिव्यप्रसादा-
द्भवानीपते निर्भयोऽहं भवानि ॥ ३० ॥
जराजन्मगर्भाधिवासादिदुःखा-
न्यसह्यानि जह्यां जगन्नाथ देव।
भवन्तं विना मे गतिर्नैव शंभो
दयालो न जागर्ति किं वा दया ते ॥ ३१ ॥
शिवायेति शब्दो नमः पूर्व एष
स्मरन्मुक्तिकृन्मृत्युहा तत्त्ववाची।
महेशान मा गान्मनस्तो वचस्तः
सदा मह्यमेतत्प्रदानं प्रयच्छ ॥ ३२ ॥
त्वमप्यम्ब मां पश्य शीतांशुमौलि-
प्रिये भेषजं त्वं भवव्याधिशान्तौ।
बहुक्लेशभाजं पदाम्भोजपोते
भवाब्धौ निमग्नं नयस्वाद्य पारम् ॥ ३३ ॥
अनुद्यल्ललाटाक्षिवह्निप्ररोहै-
रवामस्फुरच्चारुवामोरुशोभैः।
अनङ्गभ्रमद्भोगिभूषाविशेषै-
रचन्द्रार्धचूडैरलं दैवतैर्नः ॥ ३४ ॥
अकण्ठेकलङ्कादनङ्गेभुजङ्गा-
दपाणौकपालादफालेनलाक्षात्।
अमौलौशशाङ्कादवामेकलत्रा-
दहं देवमन्यं न मन्ये न मन्ये ॥ ३५ ॥
महादेव शंभो गिरीश त्रिशूलिं-
स्त्वयीदं समस्तं विभातीति यस्मात्।
शिवादन्यथा दैवतं नाभिजाने
शिवोऽहं शिवोऽहं शिवोऽहं शिवोऽहम् ॥ ३६ ॥
यतोऽजायतेदं प्रपञ्चं विचित्रं
स्थितिं याति यस्मिन्यदेकान्तमन्ते।
स कर्मादिहीनः स्वयंज्योतिरात्मा
शिवोऽहं शिवोऽहं शिवोऽहं शिवोऽहम् ॥ ३७ ॥
किरीटे निशेशो ललाटे हुताशो
भुजे भोगिराजो गले कालिमा च।
तनौ कामिनी यस्य तत्तुल्यदेवं
न जाने न जाने न जाने न जाने॥ ३८ ॥
अनेन स्तवेनादरादम्बिकेशं
परां भक्तिमासाद्य यं ये नमन्ति।
मृतौ निर्भयास्ते जनास्तं भजन्ते
हृदम्भोजमध्ये सदासीनमीशम् ॥ ३९ ॥
भुजंगप्रियाकल्प शंभो मयैवं
भुजंगप्रयातेन वृत्तेन क्लृप्तम्।
नरः स्तोत्रमेतत्पठित्वोरुभक्त्या
सुपुत्रायुरारोग्यमैश्वर्यमेति॥ ४० ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्द भगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवतः कृतौ
शिवभुजंगं संपूर्णम्॥
<MISSING_FIG href="../books_images/U-IMG-1722700515c.PNG"/>
॥ श्री ॥
\।\। शिवानन्दलहरी \।\।
कलाभ्यां चूडालंकृतशशिकलाभ्यां निजतपः-
फलाभ्यां भक्तेषु प्रकटितफलाभ्यां भवतु मे।
शिवाभ्यामस्तोकत्रिभुवनशिवाभ्यां हृदि पुन-
र्भवाभ्यामानन्दस्फुरदनुभवाभ्यां नतिरियम् ॥ १ ॥
गलन्ती शंभो त्वच्चरितसरितः किल्बिषरजो
दलन्ती धीकुल्यासरणिषु पतन्ती विजयताम्।
दिशन्ती संसारभ्रमणपरितापोपशमनं
वसन्ती मच्चेतोहदभुवि शिवानन्दलहरी॥ २॥
त्रयीवेद्यं हृद्यं त्रिपुरहरमाद्यं त्रिनयनं
जटाभारोदारं चलदुरगहारं मृगधरम्।
महादेवं देवं मयि सदयभावं पशुपतिं
चिदालम्बं साम्बं शिवमतिविडम्बं हृदि भजे ॥ ३ ॥
सहस्रं वर्तन्ते जगति विबुधाः क्षुद्रफलदा
न मन्ये स्वप्ने वा तदनुसरणं तत्कृतफलम्।
हरिब्रह्मादीनामपि निकटभाजामसुलभं
चिरं याचे शंभो शिव तव पदाम्भोजभंजनम् ॥ ४ ॥
स्मृतौ शास्त्रे वैद्ये शकुनकवितागानफणितौ
पुराणे मन्त्रे वा स्तुतिनटनहास्येष्वचतुरः।
कथं राज्ञां प्रीतिर्भवति मयि कोऽहं पशुपते
पशुं मां सर्वज्ञ प्रथित कृपया पालय विभो ॥ ५ ॥
घटो वा मृत्पिण्डोऽप्यणुरपि च धूमोऽग्निरचलः
पटो वा तन्तुर्वा परिहरति किं घोरशमनम्।
वृथा कण्ठक्षोभं वहसि तरसा तर्कवचसा
पदाम्भोजं शंभोर्भज परमसौख्यं व्रज सुधीः ॥ ६ ॥
मनस्ते पादाब्जे निवसतु वचः स्तोत्रफणितौ
करौ चाभ्यर्चायांश्रुतिरपि कथाकर्णनविधौ।
तव ध्याने बुद्धिर्नयनयुगलं मूर्तिविभवे
परग्रन्थान्कैर्वा परमशिव जाने परमतः ॥ ७ ॥
यथा बुद्धिः शुक्तौ रजतमिति काचाश्मनि मणि-
र्जले पैष्टे क्षीरं भवति मृगतृष्णासु सलिलम्।
तथा देवभ्रान्त्या भजति भवदन्यं जडजनो
महादेवेशं त्वां मनसि च न मत्वा पशुपते ॥ ८ ॥
गभीरे कासारे विशति विजने घोरविपिने
विशाले शैले च भ्रमति कुसुमार्थं जडमतिः।
समर्प्यैकं चेतःसरसिजमुमानाथ भवते
सुखेनावस्थातुं जन इह न जानाति किमहो ॥ ९ ॥
नरत्वं देवत्वं नगवनमृगत्वं मशकता
पशुत्वं कीटत्वं भवतु विहगत्वादि जननम्।
सदा त्वत्पादाब्जस्मरणपरमानन्दलहरी-
विहारासक्तं चेद्धृदयमिह किं तेन वपुषा ॥ १० ॥
वटुर्वा गेही वा यतिरपि जटी वा तदितरो
नरो वा यः कश्चिद्भवतु भव किं तेन भवति।
यदीयं हृत्पद्मं यदि भवदधीनं पशुपते
तदीयस्त्वं शंभो भवसि भवभारं च वहसि॥ ११॥
गुहायां गेहे वा बहिरपि वने वाद्रिशिखरे
जले वा वह्नौ वा वस्तु वसतेः किं वद फलम्।
सदा यस्यैवान्तःकरणमपि शंभो तव पदे
स्थितं चेद्योगोऽसौ स च परमयोगी स च सुखी \।\।
असारे संसारे निजभजनदूरे जडधिया
भ्रमन्तं मामन्धं परमकृपया पातुमुचितम्।
मदन्यः को दीनस्तव कृपणरक्षातिनिपुण-
स्त्वदन्यः को वा मे त्रिजगति शरण्यः पशुपते ॥ १३ ॥
प्रभुत्वं दीनानां खलु परमबन्धुः पशुपते
प्रमुख्योऽहं तेषामपि किमुत बन्धुत्वमनयोः।
त्वयैव क्षन्तव्याःशिव मदपराधाश्च सकलाः
प्रयत्नात्कर्तव्यं मदवनमियं बन्धुसरणिः ॥ १४ ॥
उपेक्षा नो चेत्किंन हरसि भवद्ध्यानविमुखां
दुराशाभूयिष्ठां विधिलिपिमशक्तो यदि भवान्।
शिरस्तद्वैधात्रं ननखलु सुवृत्तं पशुपते
कथं वा निर्यत्नं करनखमुखेनैव लुलितम् ॥ १५ ॥
विरिञ्चिर्दीर्घायुर्भवतु भवता तत्परशिर-
श्चतुष्कं संरक्ष्यं स खलु भुवि दैन्यं लिखितवान्।
विचारः को वा मां विशद कृपया पाति शिव ते
कटाक्षव्यापारः स्वयमपि च दीनावनपरः ॥ १६ ॥
फलाद्वा पुण्यानां मयि करुणया वा त्वयि विभो
प्रसन्नेऽपि स्वामिन् भवदमलपादाब्जयुगलम्।
कथं पश्येयं मां स्थगयति नमः संभ्रमजुषां
निलिम्पानां श्रेणिर्निजकनकमाणिक्यमकुटैः ॥ १७ ॥
त्वमेको लोकानां परमफलदो दिव्यपदवीं
वहन्तस्त्वन्मूलां पुनरपि भजन्ते हरिमुखाः।
कियद्वा दाक्षिण्यं तव शिव मदाशा च कियती
कदा वा मद्रक्षां वहसि करुणापूरितदृशा॥ १८ ॥
दुराशाभूयिष्ठे दुरधिपगृहद्वारघटके
दुरन्ते संसारे दुरितनिलये दुःखजनके।
मदायासं किं न व्यपनयसि कस्योपकृतये
वदेयं प्रीतिश्चेत्तव शिव कृतार्थाः खलु वयम् ॥ १९॥
सदा मोहाटव्यां चरति युवतीनां कुचगिरौ
नटत्याशाशाखास्वटति झटिति स्वैरमभितः।
कपालिन् भिक्षो मे हृदयकपिमत्यन्तचपलं
दृढं भक्त्या बद्ध्वाशिव भवदधीनं कुरु विभो ॥ २० ॥
धृतिस्तम्भाधारां दृढगुणनिबद्धां सगमनां
विचित्रां पद्माढ्यां प्रतिदिवससन्मार्गघटिताम्।
स्मरारे मच्चेतःस्फुटपटकुटी प्राप्य विशदां
जय स्वामिन् शक्त्या सह शिव गणैः सेवित विभो॥
प्रलोभाद्यैरर्थाहरणपरतन्त्रो धनिगृहे
प्रवेशोद्युक्तः सन्भ्रमति बहुधा तस्करपते।
इमं चेतश्चोरं कथमिह सहे शंकर विभो
तवाधीनं कृत्वा मयि निरपराधे कुरु कृपाम् ॥ २२ ॥
करोमि त्वत्पूजां सपदि सुखदोमे भव विभो
विधित्वं विष्णुत्वं दिशसि खलु तस्याः फलमिति।
पुनश्च त्वां द्रष्टुं दिवि भुवि वहन्पक्षिमृगता-
मदृष्ट्वा तत्खेदं कथमिह सहे शंकर विभो ॥ २३ ॥
कदा वा कैलासे कनकमणिसौधे सह गणै-
र्वसञ्शंभोरग्रे स्फुटघटितमूर्धाञ्जलिपुटः।
विभो साम्ब स्वामिन्परमशिव पाहीति निगद-
न्विधातॄणां कल्पान्क्षणमिव विनेष्यामि सुखतः॥ २४ ॥
स्तवैर्ब्रह्मादीनां जयजयवचोभिर्नियमिनां
गणानां केलीभिर्मदकलमहोक्षस्य ककुदि।
स्थितं नीलग्रीवं त्रिनयनमुमाश्लिष्टवपुषं
कदा त्वां पश्येयं करधृतमृगं खण्डपरशुम् ॥ २५ ॥
कदा वा त्वां दृष्ट्वा गिरिश तव भव्याङ्घ्रियुगलं
गृहीत्वा हस्ताभ्यां शिरसि नयने वक्षसि वहन्।
समाश्लिष्याघ्राय स्फुटजलजगन्धान्परिमला-
नलभ्यां ब्रह्माद्यैर्मुदमनुभविष्यामि हृदये ॥२६ ॥
करस्थे हेमाद्रौ गिरिश निकटस्थे धनपतौ
गृहस्थे स्वर्भूजामरसुरभिचिन्तामणिगणे।
शिरःस्थे शीतांशौ चरणयुगलस्थेऽखिलशुभे
कमर्थंदास्येऽहं भवतु भवदर्थं मम मनः॥ २७॥
सारूप्यं तव पूजने शिव महादेवेति संकीर्तने
सामीप्यं शिवभक्तिधुर्यजनतासांगत्यसंभाषणे।
सालोक्यं च चराचरात्मकतनुध्याने भवानीपते
सायुज्यं मम सिद्धमत्र भवति स्वामिन्कृतार्थोऽस्म्यहम्॥
त्वत्पादाम्बुजमर्चयामि परमं त्वां चिन्तयाम्यन्वहं
त्वामीशं शरणं व्रजामि वचसा त्वामेव याचे विभो।
वीक्षां मे दिश चाक्षुषीं सकरुणां दिव्यैश्चिरं प्रार्थितां
शंभो लोकगुरो मदीयमनसः सौख्योपदेशं कुरु ॥ २९ ॥
वस्त्रोद्धूतविधौ सहस्रकरता पुष्पार्चने विष्णुता
गन्धे गन्धवहात्मतान्नपचने बहिर्मुखाध्यक्षता।
पात्रे काञ्चनगर्भतास्ति मयि चेद्बालेन्दुचूडामणे
शुश्रूषां करवाणि ते पशुपते स्वामिंस्त्रिलोकीगुरो॥
नालं वा परमोपकारकमिदं त्वेकं पशूनां पते
पश्यन्कुक्षिगतांश्चराचरगणान्बाह्यस्थितान्रक्षितुम्।
सर्वामर्त्यपलायनौषधमतिज्वालाकरं भीकरं
निक्षिप्तं गरलं गले न गिलितं नोद्गीर्णमेव त्वया॥
ज्वालोग्रःसकलामरातिभयदः क्ष्वेलः कथं वा त्वया
दृष्टः किं च करे धृतः करतले किं पक्वजम्बूफलम्।
जिह्वायां निहितश्च सिद्धघुटिका वा कण्ठदेशे भृतः
किं ते नीलमणिर्विभूषणमयं शंभो महात्मन्वद॥ ३२ ॥
नालं वा सकृदेव देव भवतः सेवा नतिर्वा नुतिः
पूजा वा स्मरणं कथाश्रवणमप्यालोकनं मादृशाम्।
स्वामिन्नस्थिरदेवतानुसरणायासेन किं लभ्यते
का वा मुक्तिरितः कुतो भवति चेत्किं प्रार्थनीयं तदा ॥
किं ब्रूमस्तव साहसं पशुपते कस्यास्ति शंभो भव-
द्धैर्य चेदृशमात्मनः स्थितिरियं चान्यैः कथं लभ्यते।
भ्रश्यद्देवगणं त्रसन्मुनिगणं नश्यत्प्रपञ्चं लयं
पश्यनिर्भय एक एव विहरत्यानन्दसान्द्रो भवान् ॥
योगक्षेमधुरंधरस्य सकलश्रेयः प्रदोद्योगिनो
दृष्टादृष्टमतोपदेशकृतिनो बाह्यान्तरव्यापिनः।
सर्वज्ञस्य दयाकरस्य भवतः किं वेदितव्यं मया
शंभो त्वं परमान्तरङ्ग इति मे चित्ते स्मराम्यन्वहम्॥
भक्तो भक्तिगुणावृते मुदमृतापूर्णे प्रसन्ने मनः-
कुम्भे साम्ब तवाङ्घ्रिपल्लवयुगं संस्थाप्य संवित्फलम्।
सत्त्वं मन्त्रमुदीरयन्निजशरीरागारशुद्धिं वह-
न्पुण्याहं प्रकटीकरोमि रुचिरं कल्याणमापादयन् ॥
आम्नायाम्बुधिमादरेण सुमनः संघाः समुद्यन्मनो
मन्थानं दृढभक्तिरज्जुसहितं कृत्वा मथित्वा ततः।
सोमं कल्पतरुं सुपर्वसुरभिं चिन्तामणि धीमतां
नित्यानन्दसुधां निरन्तररमासौभाग्यमातन्वते ॥ ३७ ॥
प्राक्पुण्याचलमार्गदर्शितसुधामूर्तिः प्रसन्नः शिवः
सोमः सद्गणसेवितो मृगधरः पूर्णस्तमोमोचकः।
चेतः पुष्करलक्षितो भवति चेदानन्दपाथोनिधिः
प्रागल्भ्येन विजृम्भते सुमनसां वृत्तिस्तदा जायते ॥
धर्मो मे चतुरङ्घ्रिकः सुचरितः पापं विनाशं गतं
कामक्रोधमदादयो विगलिताः कालाः सुखाविष्कृतः।
ज्ञानानन्दमहौषधिः सुफलिता कैवल्यनाथे सदा
मान्ये मानसपुण्डरीकनगरे राजावतंसे स्थिते ॥ ३९ ॥
धीयन्त्रेण वचोघटेन कविताकुल्योपकुल्याक्रमै-
रानीतैश्च सदाशिवस्य चरिताम्भोराशिदिव्यामृतैः।
हृत्केदारयुताश्च भक्तिकलमाः साफल्यमातन्वते
दुर्भिक्षान्मम सेवकस्य भगवन्विश्वेश भीतिः कुतः ॥
पापोत्पातविमोचनाय रुचिरैश्वर्याय मृत्युंजय
स्तोत्रध्याननतिप्रदक्षिणसपर्यालोकनाकर्णने।
जिह्वाचित्तशिरोङ्घ्रिहस्तनयनश्रोत्रैरहं प्रार्थितो
मामाज्ञापय तन्निरूपय मुहुर्मामेव मा मेऽवचः ॥ ४१ ॥
गाम्भीर्यं परिखापदं घनधृतिः प्राकार उद्यद्गुण-
स्तोमश्चाप्तबलं घनेन्द्रियचयो द्वाराणि देहे स्थितः।
विद्या वस्तुसमृद्धिरित्यखिलसामग्रीसमेते सदा
दुर्गातिप्रियदेव मामकमनोदुर्गे निवासं कुरु ॥ ४२ ॥
मा गच्छ त्वमितस्ततो गिरिश भो मय्येव वासं कुरु
स्वामिन्नादिकिरात मामकमनःकान्तारसीमान्तरे।
वर्तन्ते बहुशो मृगा मदजुषो मात्सर्यमोहादय-
स्तान्हत्वा मृगयाविनोदरुचितालाभं च संप्राप्स्यसि ॥
करलग्नमृगः करीन्द्रभङ्गो
घनशार्दूलविखण्डनोऽस्तजन्तुः।
गिरिशो विशदाकृतिश्च चेतः-
कुहरे पञ्चमुखोऽस्ति मे कुतो भीः॥ ४४॥
छन्दः शाखिशिखान्वितैर्द्विजवरैः संसेविते शाश्वते
सौख्यापादिनि खेदभेदिनि सुधासारैः फलैर्दीपिते।
चेतः पक्षिशिखामणे त्यज वृथासंचारमन्यैरलं
नित्यं शंकरपादपद्मयुगलीनीडे विहारं कुरु ॥ ४५ ॥
आकीर्णे नखराजिकान्तिविभवैरुद्यत्सुधावैभवै-
राधौतेऽपि च पद्मरागललिते हंसव्रजैराश्रिते।
नित्यं भक्तिवधूगणैश्च रहसि स्वेच्छाविहारं कुरु
स्थित्वा मानसराजहंस गिरिजानाथाङ्घ्रिसौधान्तरे॥
शुंभुध्यानवसन्तसङ्गिनि हृदारामेऽघजीर्णच्छदाः
स्रस्ता भक्तिलताच्छटा विलसिताः पुण्यप्रवालश्रिताः।
दीप्यन्ते गुणकोरका जपवचः पुष्पाणि सद्वासना
ज्ञानानन्दसुधामरन्दलहरी संवित्फलाभ्युन्नतिः ॥ ४७ ॥
नित्यानन्दरसालयं सुरमुनिस्वान्ताम्बुजाताश्रयं
स्वच्छं सद्द्विजसेवितं कलुषहृत्सद्वासनाविष्कृतम्।
शुंभुध्यानसरोवरं व्रज मनोहंसावतंस स्थिरं
किं क्षुद्राश्रयपल्वलभ्रमणसंजातश्रमं प्राप्स्यसि॥ ४८॥
आनन्दामृतपूरिता हरपदाम्भोजालवालोद्यता
स्थैर्योपघ्नमुपेत्य भक्तिलतिका शाखोपशाखान्विता।
उच्चैर्मानसकायमानपटलीमाक्रम्य निष्कल्मषा
नित्याभीष्टफलप्रदा भवतु मे सत्कर्मसंवर्धिता ॥ ४९ ॥
संध्यारम्भविजृम्भितं श्रुतिशिरः स्थानान्तराधिष्ठितं
सप्रेमभ्रमराभिराममसकृत्सद्वासनाशोभितम्।
भोगीन्द्राभरणं समस्तसुमनःपूज्यं गुणाविष्कृतं
सेवे श्रीगिरिमल्लिकार्जुनमहालिङ्गं शिवालिङ्गितम् ॥५०॥
भृङ्गीच्छानटनोत्कटः करिमदग्राही स्फुरन्माधवा-
ह्लादो नादयुतो महासितवपुः पचेषुणा चादृतः।
सत्पक्षः सुमनोवनेषु स पुनः साक्षान्मदीये मनो-
राजीवे भ्रमराधिपो विहरतां श्रीशैलवासी विभुः ॥ ५१ ॥
कारुण्यामृतवर्षिणं घनविपद्ग्रीष्मच्छिदाकर्मठं
विद्यासख्यफलोदयाय सुमनः संसेव्यमिच्छाकृतिम्।
नृत्यद्भक्तमयूरमद्रिनिलयं चञ्चज्जटामण्डलं
शंभो वाञ्छति नीलकंधर सदा त्वां मे मनश्चातकः ॥
आकाशेन शिखी समस्तफणिनां नेत्रा कलापी नता-
नुग्राहिप्रणवोपदेशनिनदैः केकीति यो गीयते।
श्यामां शैलसमुद्भवां घनरुचिं दृष्ट्वा नटन्तं मुदा
वेदान्तोपवने विहाररसिकं तं नीलकण्ठं भजे ॥ ५३ ॥
संध्या घर्मदिनात्ययो हरिकराघातप्रभूतानक-
ध्वानो वारिदगर्जितं दिविषदां दृष्टिच्छटा चञ्चला।
भक्तानां परितोषबाष्पविततिर्वृष्टिर्मयूरी शिवा
यस्मिन्नुज्ज्वलताण्डवं विजयते तं नीलकण्ठं भजे ॥ ५४ ॥
आद्यायामिततेजसे श्रुतिपदैर्वेद्याय साध्याय ते
विद्यानन्दमयात्मने त्रिजगतः संरक्षणोद्योगिने।
ध्येयायाखिलयोगिभिः सुरगणैर्गेयाय मायाविने
सम्यक्ताण्डवसंभ्रमाय जटिने सेयं नतिः शंभवे ॥
नित्याय त्रिगुणात्मने पुरजिते कात्यायनीश्रेयसे
सत्यायादिकुटुम्बिने मुनिमनःप्रत्यक्षचिन्मूर्तये ।
मायासृष्टजगत्त्रयाय सकलाम्नायान्तसंचारिणे
सायंताण्डवसंभ्रमाय जटिने सेयं नतिः शंभवे ॥ ५६ ॥
नित्यं स्वोदरपूरणाय सकलानुद्दिश्य वित्ताशया
व्यर्थं पर्यटनं करोमि भवतः सेवां न जाने विभो ।
मज्जन्मान्तरपुण्यपाकबलतस्त्वं शर्व सर्वान्तर-
स्तिष्ठस्येव हि तेन वा पशुपते ते रक्षणीयोऽस्म्यहम् ॥
एको वारिजबान्धवः क्षितिनभोव्याप्तं तमोमण्डलं
भित्त्वा लोचनगोचरोऽपि भवति त्वं कोटिसूर्यप्रभः ।
वेद्यः किं न भवस्यहोघनतरं कीदृग्भवेन्मत्तम-
स्तत्सर्वंव्यपनीय मे पशुपते साक्षात्प्रसन्नो भव ॥ ५८ ॥
हंसः पद्मवनं समिच्छति यथा नीलाम्बुदं चातकः
कोकः कोकनदप्रियं प्रतिदिनं चन्द्रं चकोरस्तथा ।
चेतो वाञ्छति मामकं पशुपते चिन्मार्गमृग्यं विभो
गौरीनाथ भवत्पदाब्जयुगलं कैवल्यसौख्यप्रदम्॥ ५९॥
रोधस्तोयहृतः श्रमेण पथिकश्छायां तरोर्वृष्टितो
भीतः स्वस्थगृहं गृहस्थमतिथिर्दीनः प्रभुं धार्मिकम्।
दीपं संतमसाकुलश्च शिखिनं शीतावृतस्त्वं तथा
चेतः सर्वभयापहं व्रज सुखं शंभोःपदाम्भोरुहम्॥
अङ्कोलं निजबीजसंततिरयस्कान्तोपलं सूचिका
साध्वी नैजविभुं लता क्षितिरुहं सिन्धुः सरिद्वल्लभम्।
प्राप्नोतीह यथा तथा पशुपतेः पादारविन्दद्वयं
चेतोवृत्तिरुपेत्य तिष्ठति सदा सा भक्तिरित्युच्यते ॥ ६१ ॥
आनन्दाश्रुभिरातनोति पुलकं नैर्मल्यतश्छादनं
वाचाशङ्खमुखे स्थितैश्चजठरापूर्तिं चरित्रामृतैः।
रुद्राक्षैर्भसितेन देव वपुषो रश्नां भवद्भावना-
पर्यङ्के विनिवेश्य भक्तिजननी भक्तार्भकं रक्षति॥६२॥
मार्गावर्तितपादुका पशुपतेरङ्गस्य कूर्चायते
गण्डूषाम्बुनिषेचनं पुररिपोर्दिव्याभिषेकायते।
किंचिद्भक्षितमांसशेषकबलं नव्योपहारायते
भक्तिः किं न करोत्यहो वनचरो भक्तावतंसायते॥ ६३॥
वक्षस्ताडनमन्तकस्य कठिनापस्मारसंमर्दनं
भूभृत्पर्यटनं नमत्सुरशिरःकोटीरसंघर्षणम् ।
कर्मेदं मृदुलस्य तावकपदद्वन्द्वस्य किं वोचितं
मच्चेतोमणिपादुकाविहरणं शंभो सदाङ्गीकुरु ॥ ६४ ॥
वक्षस्ताडनशङ्कया विचलितो वैवस्वतो निर्जराः
कोटीरोज्ज्वलरत्नदीपकलिकानीराजनं कुर्वते ।
दृष्ट्वा मुक्तिवधूस्तनोति निभृताश्लेषं भवानीपते
यच्चेतस्तव पादपद्मभजनं तस्येह किं दुर्लभम्॥ ६५ ॥
क्रीडार्थं सृजसि प्रपञ्चमखिलं क्रीडामृगास्ते जना
यत्कर्माचरितं मया च भवतः प्रीत्यै भवत्येव तत् ।
शंभो स्वस्य कुतूहलस्य करणं मच्चेष्टितं निश्चितं
तस्मान्मामकरक्षणं पशुपते कर्तव्यमेव त्वया ॥ ६६ ॥
बहुविधपरितोषबाष्पपूर-
स्फुटपुलकाङ्कितचारुभोगभूमिम् ।
चिरपदफलकाङ्क्षिसेव्यमानां
परमसदाशिवभावनां प्रपद्ये ॥ ६७ ॥
अमितमुदमृतं मुहुर्दुहन्तीं
विमलभवत्पदगोष्ठमावसन्तीम्।
सदय पशुपते सुपुण्यपाकां
मम परिपालय भक्तिधेनुमेकाम् ॥ ६८ ॥
जडता पशुता कलङ्किता
कुटिलचरत्वं च नास्ति मयि देव।
अस्ति यदि राजमौले
भवदाभरणस्य नास्मि किं पात्रम् ॥ ६९ ॥
अरहसि रहसि स्वतन्त्रबुद्ध्या
वरिवसितुं सुलभः प्रसन्नमूर्तिः।
अगणितफलदायकः प्रभुर्मे
जगदधिको हृदि राजशेखरोऽस्ति॥ ७० ॥
आरूढभक्तिगुणकुञ्चितभावचाप-
युक्तैः शिवस्मरणबाणगणैरभोघैः।
निर्जित्य किल्बिषरिपून्विजयी सुधीन्द्रः
सानन्दमावहति सुस्थिरराजलक्ष्मीम् ॥ ७१ ॥
ध्यानाञ्जनेन समवेक्ष्य तमः प्रदेशं
भित्त्वा महाबलिभिरीश्वरनाममन्त्रैः।
दिव्याश्रितं भुजगभूषणमुद्वहन्ति
ये पादपद्ममिहते शिव ते कृतार्थाः॥ ७२॥
भूदारतामुदवहद्यदपेक्षया श्री-
भूदार एव किमतः सुमते लभस्व।
केदारमाकलितमुक्तिमहौषधीनां
पादारविन्दभजनं परमेश्वरस्य॥ ७३॥
आशापाशक्लेशदुर्वासनादि -
भेदोद्युक्तैर्दिव्यगन्धैरमन्दैः।
आशाशाटीकस्य पादारविन्दं
चेतःपेटीं वासितां मे तनोतु ॥ ७४ ॥
कल्याणिनं सरसचित्रगतिं सवेगं
सर्वेङ्गितज्ञमनघं ध्रुवलक्षणाढ्यम्।
चेतस्तुरङ्गमधिरुह्य चर स्मरारे
नेतः समस्तजगतां वृषभाधिरूढ॥ ७५ ॥
भक्तिर्महेशपदपुष्करमावसन्ती
कादम्बिनीव कुरुते परितोषवर्षम्।
संपूरितो भवति यस्य मनस्तटाक-
स्तज्जन्मसस्यमखिलं सफलं च नान्यत् ॥ ७६ ॥
बुद्धिः स्थिरा भवितुमीश्वरपादपद्म-
सक्ता वधूर्विरहिणीव सदा स्मरन्ती।
सद्भावनास्मरणदर्शनकीर्तनादि
संमोहितेव शिवमन्त्रजपेन विन्ते॥ ७७॥
सदुपचारविधिष्वनुबोधितां
सविनयां सुहृदं समुपाश्रिताम्।
मम समुद्धर बुद्धिमिमां प्रभो
वरगुणेन नवोढवधूमिव ॥ ७८ ॥
नित्यं योगिमनःसरोजदलसंचारक्षमस्त्वत्क्रमः
शंभो तेन कथं कठोरयमराड्वक्षः कवाटक्षतिः।
अत्यन्तं मृदुलं त्वदङ्घ्रियुगलं हा मे मनश्चिन्तय-
त्येतल्लोचनगोचरं कुरु विभो हस्तेन संवाहये ॥ ७९ ॥
एष्यत्येष जनिं मनोऽस्य कठिनं तस्मिन्नदानीति म-
द्रक्षायै गिरिसीम्निकोमलपदन्यासः पुराभ्यासितः।
नो चेद्दिव्यगृहान्तरेषु सुमनस्तल्पेषु वेद्यादिषु
प्रायः सत्सु शिलातलेषु नटनं शंभो किमर्थं तव॥
कंचित्कालमुमामहेश भवतः पादारविन्दार्चनैः
कंचिद्ध्यानसमाधिभिश्चनतिभिः कंचित्कथाकर्णनैः।
कंचित्कंचिदवेक्षणैश्च नुतिभिः कंचिद्दशामीदृशीं
यः प्राप्नोति मुदा त्वदर्पितमना जीवन्स मुक्तः खलु ॥
बाणत्वं वृषभत्वमर्धवपुषा भार्यात्वमार्यापते
घोणित्वं सखिता मृदङ्गवहता चेत्यादि रूपं दधौ।
त्वत्पादे नयनार्पणं च कृतवांस्त्वद्देहभागो हरिः
पूज्यात्पूज्यतरः स एव हि न चेत्को वा तदन्योऽधिकः ॥
जननमृतियुतानां सेवया देवतानां
न भवति सुखलेशः संशयो नास्ति तत्र।
अजनिममृतरूपं साम्बमीशं भजन्ते
य इह परमसौख्यं ते हि धन्या लभन्ते ॥ ८३ ॥
शिव तव परिचर्यासंनिधानाय गौर्या
भव मम गुणधुर्यांबुद्धिकन्यां प्रदास्ये।
सकलभुवनबन्धो सच्चिदानन्दसिन्धो
सदय हृदयगेहे सर्वदा संवस त्वम् ॥ ८४ ॥
जलधिमथनदक्षो नैव पातालभेदी
न च वनमृगयायां नैव लुब्धः प्रवीणः।
अशनकुसुमभूषावस्त्रमुख्यां सपर्यां
कथय कथमहं ते कल्पयानीन्दुमौले॥ ८५॥
पूजाद्रव्यसमृद्धयो विरचिताः पूजां कथं कुर्महे
पक्षित्वं न च वा किटित्वमपि न प्राप्तं मया दुर्लभम्।
जाने मस्तकमङ्घ्रिपल्लवमुमाजाने न तेऽहं विभो
न ज्ञातं हि पितामहेन हरिणा तत्त्वेन तद्रूपिणा॥ ८६॥
अशनं गरलं फणी कलापो
वसनं चर्म च वाहनं महोक्षः।
मम दास्यसि किं किमस्ति शंभो
तव पादाम्बुजभक्तिमेव देहि ॥ ८७ ॥
यदा कृताम्भोनिधिसेतुबन्धनः
करस्थलाधःकृतपर्वताधिपः।
भवानि ते लङ्घितपद्मसंभव-
स्तदा शिवार्चास्तवभावनक्षमः ॥ ८८ ॥
नतिभिर्नुतिभिस्त्वमीश पूजा-
विधिभिर्ध्यानसमाधिभिर्न तुष्टः।
धनुषा मुसलेन चाश्मभिर्वा
वद ते प्रीतिकरं तथा करोमि॥ ८९॥
वचसा चरितं वदामि शंभो-
रहमुद्योगविधासु तेऽप्रसक्तः।
मनसाकृतिमीश्वरस्य सेवे
शिरसा चैव सदाशिवं नमामि॥ ९० ॥
आद्याविद्या हृद्गता निर्गतासी-
द्विद्या हृद्या हृद्गता त्वत्प्रसादात्।
सेवे नित्यं श्रीकरं त्वत्पदाब्जं
भावे मुक्तेर्भाजनं राजमौले ॥ ९१ ॥
दूरीकृतानि दुरितानि दुरक्षराणि
दौर्भाग्यदुःखदुरहंकृतिदुर्वचांसि।
सारं त्वदीयचरितं नितरां पिबन्तं
गौरीश मामिह समुद्धर सत्कटाक्षैः॥ ९२॥
सोमकलाधरमौलौ
कोमलघनकंधरे महामहसि।
स्वामिनि गिरिजानाथे
मामकहृदयं निरन्तरं रमताम् ॥ ९३ ॥
सा रसना ते नयने
तावेव करौ स एव कृतकृत्यः।
या ये यौ यो भर्गं
वदतीक्षेते सदार्चितः स्मरति ॥ ९४ ॥
अतिमृदुलौमम चरणा-
वतिकठिनं ते मनो भवानीश।
इति विचिकित्सां संत्यज
शिव कथमासीद्गिरौ तथा वेशः ॥ ९५ ॥
धैर्याङ्कुशेन निभृतं
रभसादाकृष्य भक्तिशृङ्खलया।
पुरहर चरणालाने
हृदयमदेभं बधान चिद्यन्त्रैः ॥ ९६ ॥
प्रचरत्यभितः प्रगल्भवृत्त्या
मदवानेष मनः करी गरीयान्।
परिगृह्य नयेन भक्तिरज्ज्वा
परम स्थाणु पदं दृढं नयामुम्॥ ९७॥
सर्वालंकारयुक्तां सरलपदयुतां साधुवृत्तां सुवर्णां
सद्भिः संस्तूयमानां सरसगुणयुतां लक्षितां लक्षणाढ्याम्।
उद्यद्भूषाविशेषामुपगतविनयां द्योतमानार्थरेखां
कल्याणीं देव गौरीप्रिय मम कविताकन्यकां त्वं गृहाण॥
इदं ते युक्तं वा परमशिव कारुण्यजलधे
गतौ तिर्यग्रूपं तव पदशिरोदर्शनधिया।
हरिब्रह्माणौ तौ दिवि भुवि चरन्तौ श्रमयुतौ
कथं शंभो स्वामिन्कथय मम वेद्योऽसि पुरतः ॥ ९९ ॥
स्तोत्रेणालमहं प्रवच्मि न मृषा देवा विरिञ्चादयः
स्तुत्यानां गणनाप्रसङ्गसमये त्वामग्रगण्यं विदुः।
माहात्म्याग्रविचारणप्रकरणे धानातुषस्तोमव-
द्धूतास्त्वां विदुरुत्तमोत्तमफलं शंभो भवत्सेवकाः ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवतः कृतौ
शिवानन्दलहरी संपूर्णा ॥
<MISSING_FIG href="../books_images/U-IMG-1722700855Cccc.PNG"/>
॥ श्रीः ॥
शिवपादादिकेशान्त-
वर्णनस्तोत्रम् ॥
<MISSING_FIG href="../books_images/U-IMG-1723815277Screenshot2024-08-16190403.png"/>
कल्याणं नो विधत्तां कटकतटलसत्कल्पवाटीनिकुञ्ज-
क्रीडासंसक्तविद्याधरनिकरवधूगीतरुद्रापदानः।
तारैर्हेरम्बनादैस्तरलितनिनदत्तारकारातिकेकी
कैलासः शर्वनिर्वृत्यभिजनकपदः सर्वदा पर्वतेन्द्रः ॥ १ ॥
यस्य प्राहुः स्वरूपं सकलदिविषदां सारसर्वस्वयोगं
यस्येषुः शार्ङ्गधन्वा समजनि जगतां रक्षणे जागरूकः।
मौर्वी दर्वीकराणामपि च परिबृढः पुस्त्रयी सा च लक्ष्यं
सोऽव्यादव्याजमस्मानशिवभिदनिशं नाकिनां श्रीपिनाकः॥
आतङ्कावेगहारी सकलदिविषदामङ्घ्रिपद्माश्रयाणां
मातङ्गाद्युग्रदैत्यप्रकरतनुगलद्रक्तधाराक्तधारः।
क्रूरः सूरायुतानामपि च परिभवं स्वीयभासा वितन्व-
न्घोराकारः कुठारो दृढतरदुरिताख्याटवीं पाटयेन्नः॥
कालारातेः कराग्रेकृतवसतिरुरः शाणशातो रिपूणां
काले काले कुलाद्रिप्रवरतनयया कल्पितस्नेहलेपः।
पायान्नः पावकार्चिःप्रसरसखमुखः पापहन्ता नितान्तं
शूलःश्रीपादसेवाभजनरसजुषां पालनैकान्तशीलः ॥४॥
देवस्याङ्काश्रयायाः कुलगिरिदुहितुर्नेत्रकोणप्रचार-
प्रस्तारानत्युदारान्पिपठिषुरिव यो नित्यमत्यादरेण।
आधत्ते भङ्गितुङ्गैरनिशमवयवैरन्तरङ्गं समोदं
सोमापीडस्य सोऽयं प्रदिशतु कुशलं पाणिरङ्गः कुरङ्गः ॥
कण्ठप्रान्तावसज्जत्कनकमयमहाघण्टिकाघोरघोषैः
कण्ठारावैरकुण्ठैरपि भरितजगच्चक्रवालान्तरालः।
चण्डःप्रोद्दण्डशृङ्गःककुदकबलितोत्तुङ्गकैलासशृङ्गः
कण्ठेकालस्य वाहः शमयतु शमलं शाश्वतः शाक्वरेन्द्रः॥
निर्यद्दानाम्बुधारापरिमलतरलीभूतरोलम्बपाली-
झंकारैः शंकराद्रेः शिखरशतदरीः पूरयन्भूरिघोषैः।
शार्वः सौवर्णशैलप्रतिमपृथुवपुः सर्वविघ्नापहर्ता
शर्वाण्याः पूर्वसूनुःस भवतु भवतां स्वस्तिदो हस्तिवक्त्रः ॥
यः पुण्यैर्देवतानां समजनि शिवयोः श्लाघ्यवीर्यैकमत्या-
द्यन्नाम्निश्रूयमाणे दितिजभटघटा भीतिभारं भजन्ते।
भूयात्सोऽयं विभूत्यै निशितशरशिखापाटितक्रौञ्चशैलः
संसारागाधकूपोदरपतितसमुत्तारकस्तारकारिः ॥ ८ ॥
आरूढः प्रौढवेगप्रविजितपवनं तुङ्गतुङ्गं तुरङ्गं
चेलं नीलं वसानः करतलविलसत्काण्डकोदण्डदण्डः।
रागद्वेषादिनानाविधमृगपटलीभीतिकृद्भूतभर्ता.
कुर्वन्नाखेटलीलां परिलसतु मनःकानने मामकीने ॥ ९ ॥
अम्भोजाभ्यां च रम्भारथचरणलताद्वन्द्वकुम्भीन्द्रकुम्भै-
र्बिम्बेनेन्दोश्च कम्बोरुपरि विलसता विद्रुमेणोत्पलाभ्याम्।
अम्भोदेनापि संभावितमुपजनिताडम्बरं शम्बरारेः
शंभोः संभोगयोग्यं किमपि धनमिदं संभवेत्संपदे नः॥
वेणीसौभाग्यविस्मापिततपनसुताचारुवेणीविलासा-
न्वाणीनिर्धूतवाणीकरतलविधृतोदारवीणाविरावान्।
एणीनेत्रान्तभङ्गीनिरसननिपुणापाङ्गकोणानुपासे
शोणान्प्राणानुदूढप्रतिनवसुषमाकन्दलानिन्दुमौलेः ॥
नृत्तारम्भेषु हस्ताहतमुरजधिमिद्धिकृतैरत्युदारै-
श्चित्तानन्दं विधत्ते सदसि भगवतः संततं यः स नन्दी।
चण्डीशाद्यास्तथान्ये चतुरगुणगणप्रीणितस्वामिसत्का-
रोत्कर्षोद्यत्प्रसादाः प्रमथपरिबृढाः पान्तु संतोषिणो नः ॥
मुक्तामाणिक्यजालैः परिकलितमहासालमालोकनीयं
प्रत्युप्तानर्घरत्नैर्दिशि दिशि भवनैः कल्पितैर्दिक्पतीनाम्।
उद्यानैरद्रिकन्यापरिजनवनितामाननीयैः परीतं
हृद्यं हृद्यस्तु नित्यं मम भुवनपतेर्धाम सोमार्धमौलेः॥
स्तम्भैर्जम्भारिरत्नप्रवरविरचितैः संभृतोपान्तभागं
शुम्भत्सोपानमार्गंशुचिमणिनिचयैर्गुम्भितानल्पशिल्पम्।
कुम्भैः संपूर्णशोभं शिरसि सुघटितैः शातकुम्भैरपङ्कैः
शंभोः संभावनीयं सकलमुनिजनैः स्वस्तिदं स्यात्सदो नः॥
न्यस्तो मध्ये सभायाः परिसरविलसत्पादपीठाभिरामो
हृद्यः पादैश्चतुर्भिः कनकमणिमयैरुच्चकैरुज्ज्वलात्मा।
वासोरत्नेन केनाप्यधिकमृदुतरेणास्तृतो विस्तृतश्रीः
पीठःपीडाभरं नः शमयतु शिवयोः स्वैरसंवासयोग्यः ॥
आसीनस्याधिपीठं त्रिजगदधिपतेरङ्घ्रिपीठानुषक्तौ
पाथोजाभोगभाजौपरिमृदुलतलोल्लासिपद्मादिरेखौ।
पातां पादावुभौ तौ नमदमरकिरीटोल्लसच्चारुहीर-
श्रेणीशोणायमानोन्नतनखदशकोद्भासमानौ समानौ॥
यन्नादो वेदवाचां निगदति निखिलं लक्षणं पक्षिकेतु-
र्लक्ष्मीसंभोगसौख्यं विरचयति ययोश्चापरे रूपभेदे।
शंभोः संभावनीये पदकमलसमासङ्गतस्तुङ्गशोभे
माङ्गल्यं नः समयं सकलसुखकरे नूपुरे पूरयेताम् ॥
अङ्गेशृङ्गारयोनेः सपदि शलभतां नेत्रवह्नौ प्रयाते
शत्रोरुद्धृत्य तस्मादिषुधियुगमधो न्यस्तमग्रे किमेतत्।
शङ्कामित्थं नतानाममरपरिषदामन्तरङ्कूरयत्त-
त्संघातं चारु जङ्घायुगमखिलपतेरंहसां संहरेन्नः ॥ १८ ॥
जानुद्वन्द्वेन मीनध्वजनृवरसमुद्गोपमानेन साकं
राजन्तौ राजरम्भाकरिकरकनकस्तम्भसंभावनीयौ।
ऊरू गौरीकराम्भोरुहसरससमामर्दनानन्दभाजौ
चारू दूरीक्रियास्तां दुरितमुपचितं जन्मजन्मान्तरे नः॥
आमुक्तानर्घरत्नप्रकरकरपरिष्वक्तकल्याणकाञ्ची-
दाम्ना बद्धेन दुग्धद्युतिनिचयमुषा चीनपट्टाम्बरेण।
संवीते शैलकन्यासुचरितपरिपाकायमाणे नितम्बे
नित्यं नर्नर्तुचित्तं मम निखिलजगत्स्वामिनः सोममौलेः ॥
संध्याकालानुरज्यद्दिनकरसरुचा कालधौतेन गाढं
व्यानद्धः स्निग्धमुग्धः सरसमुदरबन्धेन वीतोपमेन।
उद्दीप्रैः स्वप्रकाशैरुपचितमहिमा मन्मथारेरुदारो
मध्यो मिथ्यार्थसध्यङ्गमदिशतु सदा संगतिं मङ्गलानाम् ॥
नाभीचक्रालवालान्नवनवसुषमादोहदश्रीपरीता-
दुद्गच्छन्ती पुरस्तादुदरपथमतिक्रम्य वक्षः प्रयान्ती।
श्यामा कामागमार्थप्रकथनलिपिवद्भासते या निकामं
सा मा सोमार्धमौलेः सुखयतु सततं रोमवल्लीमतल्ली॥
आश्लेषेष्वद्रिजायाः कठिनकुचतटीलिप्तकाश्मीरपङ्क-
व्यासङ्गादुद्यदर्कद्युतिभिरुपचितस्पर्धमुद्दामहृद्यम
दक्षारातेरुदूढप्रतिनवमणिमालावलीभासमानं
वक्षोविक्षोभिताघं सततनतिजुषां रक्षतादक्षतं नः॥
वामाङ्के विस्फुरन्त्या करतलविलसच्चारुरक्तोत्पलायाः
कान्ताया वामवक्षोरुहभरशिखरोन्मर्दनव्यग्रमेकम्।
अन्यांस्त्रीनप्युदारान्वरपरशुमृगालंकृतानिन्दुमौले-
र्बाहूनाबद्धहेमाङ्गदमणिकटकानन्तरालोकयामः ॥२४ ॥
संभ्रान्तायाःशिवायाः पतिविलयभिया सर्वलोकोपतापा-
त्संविग्नस्यापि विष्णोः सरभसमुभयोर्वारणप्रेरणाभ्याम्।
मध्ये त्रैशङ्कवीयामनुभवति दशां यत्र हालाहलोष्मा
सोऽयं सर्वापदां नः शमयतु निचयं नीलकण्ठस्य कण्ठः॥
हृद्यैरद्रीन्द्रकन्यामृदुदशनपदैर्मुद्रितो विद्रुमश्री-
रुद्द्योतन्त्या नितान्तं धवलधवलया मिश्रितो दन्तकान्त्या।
मुक्तामाणिक्यजालव्यतिकरसदृशा तेजसा भासमानः
सद्योजातस्य दद्यादधरमणिरसौ संपदां संचयं नः ॥
कर्णालंकारनानामणिनिकररुचां संचयैरञ्चितायां
वर्ण्यायांस्वर्णपद्मोदरपरिविलसत्कर्णिकासंनिभायाम्।
पद्धत्यां प्राणवायोः प्रणतजनहृदम्भोजवासस्य शंभो-
नित्यं नश्चित्तमेतद्विरचयतु सुखेनासिकां नासिकायाम्॥
अत्यन्तं भासमाने रुचिरतररुचां संगमात्सन्मणीना-
मुद्यच्चण्डांशुधामप्रसरनिरसनस्पष्टदृष्टापदाने।
भूयास्तां भूतये नः करिवरजयिनः कर्णपाशावलम्बे
भक्तालीभालसज्जज्जनिमरणलिपेः कुण्डले कुण्डले ते॥
याभ्यां कालव्यवस्था भवति तनुमतां यो मुखं देवतानां
येषामाहुः स्वरूपं जगति मुनिवरा देवतानां त्रयीं ताम्।
रुद्राणीवक्त्रपङ्केरुहसततविहारोत्सुकेन्दिन्दिरेभ्य-
स्तेभ्यस्त्रिभ्यः प्रणामाञ्जलिमुपरचये त्रीक्षणस्येक्षणेभ्यः॥
वामं वामाङ्कगायावदनसरसिजे व्यावलद्वल्लभाया
व्यानम्रेष्वन्यदन्यत्पुनरलिकभवं वीतनिःशेषरौक्ष्यम्।
भूयो भूयोऽपि मोदान्निपतदतिदयाशीतलं चूतबाणे
दक्षारेरीक्षणानां त्रयमपहरतादाशु तापत्रयं नः ॥ ३० ॥
यस्मिन्नर्धेन्दुमुग्धद्युतिनिचयतिरस्कारनिस्तन्द्रकान्तौ
काश्मीरक्षोदसंकल्पितमिव रुचिरं चित्रकं भाति नेत्रम्।
तस्मिन्नुल्लीलचिल्लीनटवरतरुणीलास्यरङ्गायमाणे
कालारेःफालदेशे विहरतु हृदयं वीतचिन्तान्तरं नः ॥
स्वामिन्गङ्गामिवाङ्गीकुरु तव शिरसा मामपीत्यर्थयन्तीं
धन्यां कन्यां खरांशोः शिरसि वहति किं न्वेष कारुण्यशाली।
इत्थं शङ्कां जनानां जनयदतिघनं कैशिकं कालमेघ-
च्छायं भूयादुदारं त्रिपुरविजयिनः श्रेयसे भूयसे नः ॥
शृङ्गाराकल्पयोग्यैः शिखरिवरसुतासत्सखीहस्तलूनैः
सूनैराबद्धमालावलिपरिविलसत्सौरभाकृष्टभृङ्गम्।
तुङ्गं माणिक्यकान्त्या परिहसितसुरावासशैलेन्द्रशृङ्गं
संघं नः संकटानां विघटयतु सदा काङ्कटीकं किरीटम् ॥
वक्राकारः कलङ्की जडतनुरहमप्यङ्घ्रिसेवानुभावा-
दुत्तंसत्वं प्रयातः सुलभतरघृणास्यन्दिनश्चन्द्रमौलेः।
तत्सेवन्तां जनौघाः शिवमिति निजयावस्थयैव ब्रुवाणं
वन्दे देवस्य शंभोर्मुकुटसुघटितं मुग्धपीयूषभानुम् ॥
कान्त्या संफुल्लमल्लीकुसुमधवलया व्याप्य विश्वं विराज-
न्वृत्ताकारो वितन्वन्मुहुरपि च परां निर्वृतिं पादभाजाम्।
सानन्दं नन्दिदोष्णा मणिकटकवता वाह्यमानः पुरारेः
श्वेतच्छत्राख्यशीतद्युतिरपहरतादापदस्तापदा नः ॥ ३५ ॥
दिव्याकल्पोज्ज्वलानां शिवगिरिसुतयोः पार्श्वयोराश्रितानां
रुद्राणीसत्सखीनां मदतरलकटाक्षाञ्चलैरञ्चितानाम्।
उद्वेल्लद्बाहुवल्लीविलसनसमये चामरान्दोलनीना-
मुद्भूतः कङ्कणालीवलयकलकलो वारयेदापदो नः ॥
स्वर्गौकः सुन्दरीणां सुललितवपुषां स्वामिसेवापराणां
वल्गद्भूषाणि वक्राम्बुजपरिविगलन्मुग्धगीतामृतानि।
नित्यं नृत्तान्युपासे भुजविधुतिपदन्यासभावावलोक-
प्रत्युद्यत्प्रीतिमाद्यत्प्रमथनटनटीदत्तसंभावनानि ॥ ३७ ॥
स्थानप्राप्त्या स्वराणां किमपि विशदतां व्यञ्जयन्मञ्जुवीणा-
स्वानावच्छिन्नतालक्रमममृतमिवास्वाद्यमानं शिवाभ्याम्।
नानारागातिहृद्यं नवरसमधुरस्तोत्रजातानुविद्धं
गानं वीणामहर्षेः कलमतिललितं कर्णपूरायतां नः ॥
चेतो जातप्रमोदं संपदि विदधती प्राणिनां वाणिनीनां
पाणिद्वन्द्वाग्रजाग्रत्सुललितरणितस्वर्णतालानुकूला।
स्वीयारावेण पाथोधररवपटुना नादयन्ती मयूरीं
मायूरी मन्दभावं मणिमुरजभवा मार्जना मार्जयेन्नः ॥
देवेभ्यो दानवेभ्यः पितृमुनिपरिषत्सिद्धविद्याधरेभ्यः
साध्येभ्यश्चारणेभ्यो मनुजपशुपतज्जातिकीटादिकेभ्यः।
श्रीकैलासप्ररूढास्तृणविटपिमुखाश्चापि ये सन्ति तेभ्यः
सर्वेभ्यो निर्विचारं नतिमुपरचये शर्वपादाश्रयेभ्यः॥
ध्यायन्नित्थं प्रभाते प्रतिदिवसमिदं स्तोत्ररत्नं पठेद्यः
किं वा ब्रूमस्तदीयं सुचरितमथवा कीर्तयामः समासात्।
संपज्जातं समग्रं सदसि बहुमतिं सर्वलोकप्रियत्वं
संप्राप्यायुःशतान्ते पदमयति परब्रह्मणो मन्मथारेः ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवतः कृतौ
शिवपादादिकेशान्तवर्णनस्तोत्रम्
संपूर्णम् ॥
———
॥श्रीः ॥
शिवकेशादिपादान्तवर्णनस्तोत्रम् ॥
———
देयासुर्मूर्ध्नि राजत्सरससुरसरित्पारपर्यन्तनिर्य-
त्प्रांशुस्तम्बाः पिशङ्गास्तुलितपरिणतारक्तशालीलता वः।
दुर्वारापत्तिगर्तश्रितनिखिलजनोत्तारणे रज्जुभूता
घोराघोर्वीरुहालीदहनशिखिशिखाः शर्म शार्वाः कपर्दाः ॥
कुर्वन्निर्वाणमार्गप्रगमपरिलसद्रूप्यसोपानशङ्कां
शक्रारीणां पुराणां त्रयविजयकृतस्पष्टरेखायमाणम्।
अव्यादव्याजमुच्चैरलिकहिमधराधित्यकान्तस्त्रिधोद्य-
ज्जाह्नव्याभं मृडानीकमितुरुडुपरुक्पाण्डरं वस्त्रिपुण्ड्रम्॥
क्रुध्यद्गौरीप्रसादानतिसमयपदाङ्गुष्ठसंक्रान्तलाक्षा-
बिन्दुस्पर्धि स्मरारेः स्फटिकमणिदृषन्मग्रमाणिक्यशोभम्।
मूर्ध्न्युद्यद्दिव्यसिन्धोः पतितशफरिकाकारि वो मास्तकं स्ता-
दस्तोकापत्तिकृत्त्यै हुतवहकणिकामोक्षरूक्षं सदाक्षि॥
भूत्यै दृग्भूतयोः स्याद्यदहिमहिमरुग्बिम्बयोः स्निग्धवर्णो
दैत्यौघध्वंसशंसी स्फुट इव परिवेषावशेषो विभाति।
सर्गस्थित्यन्तवृत्तिर्मयि समुपगतेतीव निर्वृत्तगर्वं
शर्वाणीभर्तुरुच्चैर्युगलमथ दधद्विभ्रमं तद्भ्रूवोर्वः ॥ ४ ॥
युग्मे रुक्माब्जपिङ्गेग्रह इव पिहिते द्राग्ययोः प्राग्दुहित्रा
शैलस्य ध्वान्तनीलाम्बररचितबृहत्कञ्चुकोऽभूत्प्रपञ्चः।
ते त्रैनेत्रे पवित्रे त्रिदशवरघटामित्रजैत्रोग्रशस्त्रे
नेत्रे नेत्रे भवेतां द्रुतमिह भवतामिन्द्रियाश्वान्नियन्तुम्॥
चण्डीवक्त्रार्पणेच्छोस्तदनु भगवतः पाण्डुरुक्पाण्डुगण्ड-
प्रोद्यत्कण्डूं विनेतुं वितनुत इव ये रत्नकोणैर्विघृष्टिम्।
चण्डार्चिर्मण्डलाभेसततनतजनध्वान्तखण्डातिशौण्डे
चण्डीशे ते श्रिये स्तामधिकमवनताखण्डले कुण्डले वः ॥
खट्वाङ्गोदग्रपाणेः स्फुटविकटपुटो वक्त्ररन्ध्रप्रवेश-
प्रेप्सूदञ्चत्फणोरुश्वसदतिधवलाहीन्द्रशङ्कां दधानः।
युष्माकं कम्रवक्त्राम्बुरुहपरिलसत्कर्णिकाकारशोभः
शश्वत्त्राणाय भूयादलमतिविमलोत्तुङ्गकोणः स घोणः॥
क्रुध्यत्यद्धा ययोः स्वां तनुमतिलसतोर्बिम्बितां लक्षयन्ती
भर्त्रे स्पर्धातिनिघ्ना मुहुरितरवधूशङ्कया शैलकन्या।
युष्मांस्तौ शश्वदुच्चैरबहुलदशमीशर्वरीशातिशुभ्रा-
वव्यास्तां दिव्यसिन्धोः कमितुरवनमल्लोकपालौ कपोलौ ॥
यो भासा भात्युपान्तस्थित इव निभृतं कौस्तुभो द्रष्टुमिच्छ-
न्सोत्थस्नेहान्नितान्तं गलगतगरलं पत्युरुच्चैः पशूनाम्।
प्रोद्यत्प्रेम्णा यमार्द्रापिबति गिरिसुता संपदः सातिरेका
लोकाः शोणीकृतान्ता यदधरमहसा सोऽधरो वो विधत्ताम् ॥
अत्यर्थं राजते या वदनशशधरादुद्गलच्चारुवाणी-
पीयूषाम्भःप्रवाहप्रसरपरिलस्त्फेनबिन्द्वावलीव।
देयात्सा दन्तपङ्क्तिश्चिरमिह दनुदायाददौवारिकस्य
द्युत्या दीप्तेन्दुकुन्दच्छविरमलतरप्रोन्नताग्रामुदं वः ॥
न्यक्कुर्वन्नुर्वराभृन्निभघनसमयोद्धुष्टमेघौघघोषं
स्फूर्जद्वार्ध्युत्थितोरुध्वनितमपि परब्रह्मभूतो गभीरः।
सुव्यक्तो व्यक्तमूर्तेः प्रकटितकरणः प्राणनाथस्य सत्याः
प्रीत्या वः संविदध्यात्फलविकलमलं जन्म नादः स नादः ॥
भासा यस्य त्रिलोकी लसति परिलसत्फेनबिन्द्वर्णवान्त-
र्व्यामग्नेवातिगौरस्तुलितसुरसरिद्वारिपूरप्रसारः।
पीनात्मा दन्तभाभिर्भृशमहहहकारातिभीमः सदेष्टां
पुष्टां तुष्टिं कृषीष्ट स्फुटमिह भवतामट्टहासोऽष्टमूर्तेः ॥
सद्योजाताख्यमाप्यं यदुविमलमुदग्वर्ति यद्वामदेवं
नाम्ना हेम्ना सदृक्षं जलदनिभमघोराह्वयं दक्षिणं यत्।
यद्वालार्कप्रभं तत्पुरुषनिगदितं पूर्वमीशानसंज्ञं
यद्दिव्यं तानि शंभोर्भवदभिलषितं पञ्च दद्युर्मुखानि ॥
आत्मप्रेम्णो भवान्या स्वयमिव रचिताः सादरं सांवनन्या
मष्या तिस्रः सुनीलाञ्जननिभगररेखाः समाभान्ति यस्याम्।
आकल्पानल्पभासा भृशरुचिरतरा कम्बुकल्पाम्बिकायाः
पत्युः सात्यन्तमन्तर्विलसतु सततं मन्थरा कंधरा वः ॥
वक्त्रेन्दोर्दन्तलक्ष्म्याश्चिरमधरमहाकौस्तुभस्याप्युपान्ते
सोत्थानां प्रार्थयन्यः स्थितिमचलभुवे वारयन्त्यै निवेशम्।
प्रायुङ्क्तेवाशिषो यः प्रतिपदममृतत्वे स्थितः कालशत्रोः
कालं कुर्वन्गलं वो हृदयमयमलं क्षालयेत्कालकूटः ॥
प्रौढप्रेमाकुलाया दृढतरपरिरम्भेषु पर्वेन्दुमुख्याः
पार्वत्याश्चारुचामीकरवलयपदैरङ्कितं कान्तिशालि।
रङ्गन्नागाङ्गदाढ्यं सततमविहितं कर्म निर्मूलयेत्त-
द्दोर्मूलं निर्मलं यद्धृदि दुरितमपास्यार्जितं धूर्जटेर्वः ॥
कण्ठाश्लेषार्थमाप्ता दिव इव कमितुः स्वर्गसिन्धोः प्रवाहाः
क्रान्त्यै संसारसिन्धोः स्फटिकमणिमहासंक्रमाकारदीर्घाः।
तिर्यग्विष्कम्भभूतास्त्रिभुवनवसतेर्भिन्नदैत्येभदेहा
बाहा वस्ता हरस्य द्रुतमिह निवहानंहसां संहरन्तु ॥
वक्षो दक्षद्विषोऽलं स्मरभरविनमद्दक्षजाक्षीणवक्षो-
जान्तर्निक्षिप्तशुम्भन्मलयजमिलितोद्भासि भस्मोक्षितं यत्।
क्षिप्रं तद्रूक्षचक्षुःश्रुतिगणफणरत्नौघभाभीक्ष्णशोभं
युष्माकं शश्वदेनः स्फटिकमणिशिलामण्डलाभं क्षिणोतु ॥
मुक्तामुक्ते विचित्राकुलवलिलहरीजालशालिन्यवाञ्च-
न्नाभ्यावर्ते विलोलद्भुजगवरयुते कालशत्रोर्विशाले।
युष्मच्चित्तत्रिधामा प्रतिनवरुचिरे मन्दिरे कान्तिलक्ष्म्याः
शेतां शीतांशुगौरे चिरतरमुदरक्षीरसिन्धौ सलीलम् ॥
वैयाघ्रीयत्र कृत्तिः स्फुरति हिमगिरेर्विस्तृतोपत्यकान्तः
सान्द्रावश्यायमिश्रा परित इव वृता नीलजीमूतमाला।
आबद्धाहीन्द्रकाञ्चीगुणमतिपृथुलं शैलजाक्रीडभूमि-
स्तद्वो निःश्रेयसे स्याज्जघनमतिघनं बालशीतांशुमौलेः ॥
पुष्टावष्टम्भभूतौ पृथुतरजघनस्यापि नित्यं त्रिलोक्याः
सम्यग्वृत्तौ सुरेन्द्रद्विरदवरकरोदारकान्तिं दधानौ।
सारावूरू पुरारेः प्रसभमरिघटाघस्मरौ भस्मशुभ्रौ
भक्तैरत्यार्द्रचित्तैरधिकमवनतौ वाञ्छितं वो विधत्ताम् ॥
आनन्दायेन्दुकान्तोपलरचितसमुद्गायिते ये मुनीनां
चित्तादर्शं निधातुं विदधति चरणे ताण्डवाकुञ्चनानि।
काञ्चीभोगीन्द्रमूर्ध्नां प्रतिमुहुरुपधानायमाने क्षणं ते
कान्ते स्तामन्तकारेर्द्युतिविजितसुधाभानुनी जानुनी वः ॥
मञ्जीरीभूतभोगिप्रवरगणफणामण्डलान्तर्नितान्त-
व्यादीर्घानर्घरत्नद्युतिकिसलयिते स्तूयमाने द्युसद्भिः।
बिभ्रत्यौ विभ्रमं वः स्फटिकमणिबृहद्दण्डवद्भासिते ये
जङ्घे शङ्खेन्दुशुभ्रे भृशमिह भवतां मानसे शूलपाणेः ॥
अस्तोकस्तोमशस्त्रैरपचितिममलां भूरिभावोपहारैः
कुर्वद्भिः सर्वदोच्चैः सततमभिवृतौ ब्रह्मविद्देवलाद्यैः।
सम्यक्संपूज्यमानाविह हृदि सरसीवानिशं युष्मदीये
शर्वस्य क्रीडतां तौ प्रपदवरबृहत्कच्छपावच्छभासौ॥
याः स्वस्यैकांशपातादतिबहलगलद्रक्तवक्त्रं प्रणुन्न-
प्राणं प्राक्रोशयन्प्राङ् निजमचलवरं चालयन्तं दशास्यम्।
पादाङ्गुल्यो दिशन्तु द्रुतमयुगदृशः कल्मषप्लोषकल्याः
कल्याणं फुल्लमाल्यप्रकरविलसिता वः प्रणद्धाहिवल्लयः ॥
प्रह्वप्राचीनबर्हिःप्रमुखसुरवरप्रस्फुरन्मौलिसक्त-
ज्यायोरत्नोत्करोस्त्रैरविरतममला भूरिनीराजिता या।
प्रोदग्राग्राप्रदेयात्ततिरिव रुचिरा तारकाणां नितान्तं
नीलग्रीवस्य पादाम्बुरुहविलसिता सा नखाली सुखं वः ॥
सत्याः सत्याननेन्दावपि सविधगते ये विकासं दधाते
स्वान्ते स्वां ते लभन्ते श्रियमिह सरसीवामरा ये दधानाः।
लोलं लोलम्बकानां कुलमिव सुधियां सेवते ये सदा स्तां
भूत्यै भूत्यैणपाणेर्विमलतररुचस्ते पदाम्भोरुहे वः॥ २७ ॥
येषां रागादिदोषाक्षतमति यतयो यान्ति मुक्तिं प्रसादा-
द्ये वा नम्रात्ममूर्तिद्युसदृषिपरिषन्मूर्ध्नि शेषायमाणाः।
श्रीकण्ठस्यारुणोद्यच्चरणसरसिजप्रोत्थितास्ते भावाख्या-
त्पारावाराच्चिरं वो दुरितहतिकृतस्तारयेयुः परागाः ॥
भूम्ना यस्यास्तसीम्ना भुवनमनुसृतं यत्परं धाम धाम्नां
साम्नामाम्नायतत्त्वं यदपि च परमं यद्गुणातीतमाद्यम्।
यचांहोहन्निरीहं गहनमिति मुहुः प्राहुरुच्चैर्महान्तो
माहेशं तन्महो मे महितमहरहर्मोहरोहं निहन्तु ॥ २९ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवतः कृतौ
शिवकेशादिपादान्तवर्णनस्तोत्रम्
संपूर्णम् ॥
———
॥ श्रीः॥
॥ वेदसारशिवस्तोत्रम् ॥
<MISSING_FIG href="../books_images/U-IMG-1722701153C…..PNG"/>
पशूनां पतिं पापनाशं परेशं
गजेन्द्रस्य कृत्तिं वसानं वरेण्यम्।
जटाजूटमध्ये स्फुरद्गाङ्गवारिं
महादेवमेकं स्मरामि स्मरारिम्॥ १ ॥
महेशं सुरेशं सुरारातिनाशं
विभुं विश्वनाथं विभूत्यङ्गभूषम्।
विरूपाक्षमिन्द्वर्कवह्नित्रिनेत्रं
सदानन्दमीडे प्रभुं पञ्चवक्त्रम्॥ २॥
गिरीशं गणेशं गले नीलवर्णं
गवेन्द्राधिरूढं गुणातीतरूपम्।
भवं भास्वरं भस्मना भूषिताङ्गं
भवानीकलत्रं भजे पञ्चवक्त्रम्॥ ३ ॥
शिवाकान्त शंभो शशाङ्कार्धमौले
महेशान शूलिञ्जटाजूटधारिन्।
त्वमेको जगद्व्यापको विश्वरूपः
प्रसीद प्रसीद प्रभो पूर्णरूप ॥ ४ ॥
परात्मानमेकं जगद्बीजमाद्यं
निरीहं निराकारमोंकारवेद्यम्।
यतो जायते पाल्यते येन विश्वं
तमीशं भजे लीयते यत्र विश्वम् ॥ ५ ॥
न भूमिर्न चापो न वह्निर्न वायु-
र्न चाकाशमास्ते न तन्द्रा न निद्रा।
न चोष्णं न शीतं न देशो न वेषो
न यस्यास्ति मूर्तिस्त्रिमूर्तिं तमीडे ॥ ६ ॥
अजं शाश्वतं कारणं कारणानां
शिवं केवलं भासकं भासकानाम्।
तुरीयं तमःपारमाद्यन्तहीनं
प्रपद्ये परं पावनं द्वैतहीनम् ॥ ७ ॥
नमस्ते नमस्ते विभो विश्वमूर्ते
नमस्ते नमस्ते चिदानन्दमूर्ते।
नमस्ते नमस्ते तपोयोगगम्य
नमस्ते नमस्ते श्रुतिज्ञानगम्य॥ ८॥
प्रभो शूलपाणे विभो विश्वनाथ
महादेव शंभो महेश त्रिनेत्र।
शिवाकान्त शान्त स्मरारे पुरारे
त्वदन्यो वरेण्यो न मान्यो न गण्यः॥ ९ ॥
शंभो महेश करुणामय शूलपाणे
गौरीपते पशुपते पशुपाशनाशिन्।
काशीपते करुणया जगदेतदेक-
स्त्वं इंसि पासि विदधासि महेश्वरोऽसि॥१० ॥
त्वत्तो जगद्भवति देव भव स्मरारे
त्वय्येव तिष्ठति जगन्मृड विश्वनाथ।
त्वय्येव गच्छति लयं जगदेतदीश
लिङ्गात्मके हर चराचरविश्वरूपिन्॥ ११ ॥
<MISSING_FIG href="../books_images/U-IMG-1722701284c..PNG"/>
॥ श्रीः ॥
शिवापराध-
क्षमापणस्तोत्रम् ॥
<MISSING_FIG href="../books_images/U-IMG-1722704386C…..PNG"/>
आदौ कर्म प्रसङ्गात्कलयति कलुषं मातृकुक्षौ स्थितं मां
विण्मूत्रामेध्यमध्ये कथयति नितरां जाठरो जातवेदाः।
यद्यद्वै तत्र दुःखं व्यथयति नितरां शक्यते केन वक्तुं
क्षन्तव्यो मेऽपराधः शिव शिव शिव भोः श्रीमहादेव शंभो ॥
बाल्ये दुःखातिरेकान्मललुलितवपुः स्तन्यपाने पिपासु-
र्नो शक्तश्चेन्द्रियेभ्यो भव मलजनिता जन्तवो मां तुदन्ति।
नानारोगातिदुःखाद्रुदितपरवशः शंकरं न स्मरामि
क्षन्तव्यो मेऽपराधः शिव शिव शिव भोः श्रीमहादेव शंभो ॥
प्रौढोऽहं यौवनस्थो विषयविषधरैः पञ्चभिर्मर्मसंधौ
दष्टो नष्टो विवेकः सुतधनयुवतिस्वादसौख्ये निषण्णः।
शैवे चिन्ताविहीनं मम हृदयमहो मानगर्वाधिरूढं
क्षन्तव्यो मेऽपराधः शिव शिव शिव भोः श्रीमहादेव शंभो ॥
वार्धक्ये चेन्द्रियाणां विकलगतिमतश्चाधिदैवादितापैः
प्राप्तै रोगैर्वियोगैर्व्यसनकृशतनोर्ज्ञप्तिहीनं च दीनम्।
मिथ्यामोहाभिलाषैर्भ्रमति मम मनो धूर्जटेर्ध्यानशून्यं
क्षन्तव्यो मेऽपराधः शिव शिव शिव भोः श्रीमहादेव शंभो ॥
स्नात्वा प्रत्यूषकाले स्नपनविधिविधौ नाहृतं गाङ्गतोयं
पूजार्थं वा कदाचिद्बहुतरगहनेऽखण्डबिल्वीदलं वा।
नानीता पद्ममाला सरसि विकसिता गन्धपुष्पैस्त्वदर्थं
क्षन्तव्यो मेऽपराधः शिव शिव शिव भोः श्रीमहादेव शंभो ॥
दुग्धैर्मध्वाज्ययुक्तैर्दधिगुडसहितैः स्नापितं नैव लिङ्गं
नो लिप्तं चन्दनाद्यैः कनकविरचितैः पूजितं न प्रसूनैः।
धूपैः कर्पूरदीपैर्विविधरसयुतैर्नैव भक्ष्योपहारैः
क्षन्तव्यो मेऽपराधः शिव शिव शिव भोः श्रीमहादेव शंभो ॥
नो शक्यं स्मार्तकर्म प्रतिपदगहने प्रत्यवायाकुलाढ्ये
श्रौते वार्ता कथं मे द्विजकुलविहिते ब्रह्ममार्गानुसारे।
तत्वेऽज्ञाते विचारे श्रवणमननयोः किं निदिध्यासितव्यं
क्षन्तव्यो मेऽपराधः शिव शिव शिव भोः श्रीमहादेव शंभो ॥
ध्यात्वा चित्ते शिवाख्यं प्रचुरतरधनं नैव दत्तं द्विजेभ्यो
हव्यं ते लक्षसंख्यैर्हुतवहवदने नार्पितं बीजमन्त्रैः।
नो तप्तं गाङ्गतीरे व्रतजपनियमै रुद्रजाप्यं न जप्तं
क्षन्तव्यो मेऽपराधः शिव शिव शिव भोः श्रीमहादेव शंभो ॥
नग्नो निःसंगशुद्धस्त्रिगुणविरहितो ध्वस्तमोहान्धकारो
नासाग्रन्यस्तदृष्टिर्विदितभवगुणो नैव दृष्टः कदाचित्।
उन्मन्यावस्थयात्वां विगतगतिमतिः शंकरं न स्मरामि
क्षन्तव्यो मेऽपराधः शिव शिव शिव भोः श्रीमहादेव शंभो ॥
स्थित्वा स्थाने सरोजे प्रणवमयमरुत्कुम्भिते सूक्ष्ममार्गे
शान्ते स्वान्ते प्रलीने प्रकटितविभवे दिव्यरूपे शिवाख्ये।
लिङ्गा ब्रह्मवाक्ये सकलतनुगतं शंकरं न स्मरामि
क्षन्तव्यो मेऽपराधः शिव शिव शिव भोः श्रीमहादेव शंभो ॥
हृद्यं वेदान्तवेद्यं हृदयसरसिजे दीप्तमुद्यत्प्रकाशं
सत्यं शान्तस्वरूपं सकलमुनिमनःपद्मषण्डैकवेद्यम् \।
जाग्रत्स्वप्ने सुषुप्तौ त्रिगुणविरहितं शंकरं न स्मरामि
क्षन्तव्यो मेऽपराधः शिव शिव शिव भोः श्रीमहादेव शंभो ॥
चन्द्रोद्भासितशेखरे स्मरहरे गङ्गाधरे शंकरे
सर्पैर्भूषितकण्ठकर्णविवरे नेत्रोत्थवैश्वानरे ।
दन्तित्वक्कृतसुन्दराम्बरधरे त्रैलोक्यसारे हरे
मोक्षार्थं कुरु चित्त वृत्तिममलामन्यैस्तु किं कर्मभिः॥
किं यानेन धनेन वाजिकरिभिः प्राप्तेन राज्येन किं
किं वा पुत्रकलत्रमित्रपशुभिर्देहेन गेहेन किम् ।
ज्ञात्वैतत्क्षणभङ्गुरं सपदि रे त्याज्यं मनो दूरतः
स्वात्मार्थं गुरुवाक्यतो भज भज श्रीपार्वतीवल्लभम् ॥ १३॥
पौरोहित्यं रजनिचरितं ग्रामणीत्वं नियोगो
माठापत्यं ह्यनृतवचनं साक्षिवादः परान्नम् ।
ब्रह्मद्वेषः खलजनरतिः प्राणिनां निर्दयत्वं
मा भूदेवं मम पशुपते जन्मजन्मान्तरेषु॥ १४॥
आयुर्नश्यति पश्यतां प्रतिदिनं याति क्षयं यौवनं
प्रत्यायान्ति गताः पुनर्न दिवसाः कालो जगद्भक्षकः।
लक्ष्मीस्तोयतरङ्गभङ्गचपला विद्युच्चलं जीवितं
तस्मान्मां शरणागतं करुणया त्वं रक्ष रक्षाधुना ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवतः कृतौ
शिवापराधक्षमापणस्तोत्रं संपूर्णम् ॥
<MISSING_FIG href="../books_images/U-IMG-1722704584c,.PNG"/>
॥श्रीः ॥
॥ सुवर्णमालास्तुतिः ॥
———
अथ कथमपि मद्रसनां त्वद्गुण-
लेशैर्विशोधयामि विभो।
सांम्ब सदाशिव शंभो शंकर
शरणं मे तव चरणयुगम् ॥ १ ॥
आखण्डलमदखण्डनपण्डित
तण्डुप्रिय चण्डीश विभो।
साम्ब सदाशिव शंभो शंकर
शरणं मे तव चरणयुगम् ॥ २ ॥
इभचर्माम्बर शम्बररिपुवपु-
रपहरणोज्ज्वलनयन विभो।
साम्ब सदाशिव शंभो शंकर
शरणं मे तव चरणयुगम् ॥ ३ ॥
ईश गिरीश नरेश परेश म-
हेश बिलेशयभूषण भो।
साम्ब सदाशिव शंभो शंकर
शरणं मे तव चरणयुगम् ॥ ४ ॥
उमया दिव्यसुमङ्गलविग्रह-
यालिङ्गितवामाङ्ग विभो।
साम्ब सदाशिव शंभो शंकर
शरणं मे तव चरणयुगम् ॥ ५ ॥
ऊरीकुरु मामज्ञमनाथं
दूरीकुरु मे दुरितं भो।
साम्ब सदाशिव शंभो शंकर
शरणं मे तव चरणयुगम् ॥ ६ ॥
ऋषिवरमानसहंस चराचर-
जननस्थितिलयकारण भो।
साम्ब सदाशिव शंभो शंकर
शरणं मे तव चरणयुगम् ॥ ७ ॥
ऋक्षाधीशकिरीट महोक्षा-
रूढ विधृतरुद्राक्ष विभो।
साम्ब सदाशिव शंभो शंकर
शरणं मे तव चरणयुगम् ॥ ८ ॥
लृवर्णद्वन्द्वमवृन्तसुकुसुममि-
वाङ्घ्रौतवार्पयामि विभो।
साम्ब सदाशिव शंभो शंकर
शरणं मे तव चरणयुगम् ॥ ९ ॥
एकं सदिति श्रुत्या त्वमेव
सदसीत्युपास्महे मृड भो।
साम्ब सदाशिव शंभो शंकर
शरणं मे तव चरणयुगम् ॥ १० ॥
ऐक्यं निजभक्तेभ्यो वितरसि
विश्वंभरोऽत्र साक्षी भो।
साम्ब सदाशिव शंभो शंकर
शरणं मे तव चरणयुगम् ॥ ११ ॥
ओमिति तव निर्देष्ट्री माया-
स्माकं मृडोपकर्त्री भो।
साम्ब सदाशिव शंभो शंकर
शरणं मे तव चरणयुगम् ॥ १२ ॥
औदास्यं स्फुटयति विषयेषु दि-
गम्बरता च तवैव विभो।
साम्ब सदाशिव शंभो शंकर
शरणं मे तव चरणयुगम् ॥ १३ ॥
अन्तःकरणविशुद्धिं भक्तिं
च त्वयि सतींप्रदेहि विभो।
साम्ब सदाशिव शंभो शंकर
शरणं मे तव चरणयुगम् ॥ १४ ॥
अस्तोपाधिसमस्तव्यस्तै
रूपैर्जगन्मयोऽसि विभो।
साम्ब सदाशिव शंभो शंकर
शरणं मे तव चरणयुगम् ॥ १५ ॥
करुणावरुणालय मयि दास उ-
दासस्तवोचितो न हि भो।
साम्ब सदाशिव शंभो शंकर
शरणं मे तव चरणयुगम् ॥ १६ ॥
खलसहवासं विघटय घटय स-
तामेव सङ्गमनिशं भो।
साम्ब सदाशिव शंभो शंकर
शरणं मे तव चरणयुगम् ॥ १७ ॥
गरलं जगदुपकृतये गिलितं
भवता समोऽस्ति कोऽत्र विभो
साम्ब सदाशिव शंभो शंकर
शरणं मे तव चरणयुगम् ॥ १८ ॥
घनसारगौरगात्र प्रचुरज-
टाजूटबद्धगङ्ग विभो।
साम्ब सदाशिव शंभो शंकर
शरणं मे तव चरणयुगम् ॥ १९ ॥
ज्ञप्तिः सर्वशरीरेष्वखण्डि-
ता या विभाति सा त्वं भो।
साम्ब सदाशिव शंभो शंकर
शरणं मे तव चरणयुगम् ॥ २० ॥
चपलं मम हृदयकपिं विषय-
द्रुचरं दृढं बधान विभो।
साम्ब सदाशिव शंभो शंकर
शरणं मे तव चरणयुगम् ॥ २१ ॥
छाया स्थाणोरपि तव तापं
नमतां हरत्यहो शिव भो।
साम्ब सदाशिव शंभो शंकर
शरणं मे तव चरणयुगम् ॥ २२ ॥
जय कैलासनिवास प्रमथग-
णाधीश भूसुरार्चित भो।
साम्ब सदाशिव शंभो शंकर
शरणं मे तव चरणयुगम् ॥ २३ ॥
झणुतकझङ्किणुझणुतत्किंटतक-
शब्दैर्नटसि महानट भो।
साम्ब सदाशिव शंभो शंकर
शरणं मे तव चरणयुगम् ॥ २४ ॥
ज्ञानं विक्षेपावृतिरहितं
कुरु मे गुरुत्वमेव विभो।
साम्ब सदाशिव शंभो शंकर
शरणं मे तव चरणयुगम् ॥ २५ ॥
टङ्कारस्तव धनुषो दलयति
हृदयं द्विषामशनिरिव भो।
साम्ब सदाशिव शंभो शंकर
शरणं मे तव चरणयुगम् ॥ २६ ॥
ठाकृतिरिव तव माया बहिर-
न्तः शून्यरूपिणी खलु भो।
साम्ब सदाशिव शंभो शंकर
शरणं मे तव चरणयुगम् ॥ २७ ॥
डम्बरमम्बुरुहामपि दलय-
त्यनघं त्वदयुगलं भो।
साम्ब सदाशिव शंभो शंकर
शरणं मे तव चरणयुगम् ॥ २८ ॥
ढक्काक्षसूत्रशूलद्रुहिणक-
रोटीसमुल्लसत्कर भो।
साम्ब सदाशिव शंभो शंकर
शरणं मे तव चरणयुगम् ॥ २९ ॥
णाकारगर्भिणी चेच्छुभदा
ते शरगतिर्नृणामिह भो
साम्ब सदाशिव शंभो शंकर
शरणं मे तव चरणयुगम् ॥ ३० ॥
तव मन्वतिसंजपतः सद्य-
स्तरति नरो हि भवाब्धिं भो।
साम्ब सदाशिव शंभो शंकर
शरणं मे तव चरणयुगम् ॥ ३१ ॥
थूत्कारस्तस्य मुखे भूया-
त्ते नाम नास्ति यस्य विभो।
साम्ब सदाशिव शंभो शंकर
शरणं मे तव चरणयुगम् ॥ ३२ ॥
दयनीयश्च दयालुः कोऽस्ति म-
दन्यस्त्वदन्य इह वद भो।
साम्ब सदाशिव शंभो शंकर
शरणं मे तव चरणयुगम् ॥ ३३ ॥
धर्मस्थापनदक्ष त्र्यक्ष गु-
रो दक्षयज्ञशिक्षक भो।
साम्ब सदाशिव शंभो शंकर
शरणं मे तव चरणयुगम् ॥ ३४ ॥
ननु ताडितोऽसि धनुषा लुब्धधि-
या त्वं पुरा नरेण विभो।
साम्ब सदाशिव शंभो शंकर
शरणं मे तव चरणयुगम् ॥ ३५ ॥
परिमातुं तव मूर्तिं नालम-
जस्तत्परात्परोऽसि विभो।
साम्ब सदाशिव शंभो शंकर
शरणं मे तव चरणयुगम् ॥ ३६ ॥
फलमिह नृतया जनुषस्त्वत्पद-
सेवा सनातनेश विभो।
साम्ब सदाशिव शंभो शंकर
शरणं मे तव चरणयुगम् ॥ ३७ ॥
बलमारोग्यं चायुस्त्वद्गुण-
रुचितां चिरं प्रदेहि विभो।
साम्ब सदाशिव शंभो शंकर
शरणं मे तव चरणयुगम् ॥ ३८ ॥
भगवन्भर्ग भयापह भूतप-
ते भूतिभूषिताङ्ग विभो।
साम्ब सदाशिव शंभो शंकर
शरणं मे तव चरणयुगम् ॥ ३९ ॥
महिमा तव न हि माति श्रुतिषु हि-
मानीधरात्मजाधव भो।
साम्ब सदाशिव शंभो शंकर
शरणं मे तव चरणयुगम् ॥ ४० ॥
यमनियमादिभिरङ्गैर्यमिनो
हृदये भजन्ति स त्वं भो।
साम्ब सदाशिव शंभो शंकर
शरणं मे तव चरणयुगम् ॥ ४१ ॥
रज्जावहिरिव शुक्तौ रजतमि-
व त्वयि जगन्ति भान्ति विभो।
साम्ब सदाशिव शंभो शंकर
शरणं मे तव चरणयुगम् ॥ ४२ ॥
लब्ध्वा भवत्प्रसादाच्चक्रं
विधुरवति लोकमखिलं भो।
साम्ब सदाशिव शंभो शंकर
शरणं मे तव चरणयुगम् ॥ ४३ ॥
वसुधातद्धरतच्छयरथमौ-
र्वीशर पराकृतासुर भो।
साम्ब सदाशिव शंभो शंकर
शरणं मे तव चरणयुगम्॥ ४४ ॥
शर्व देव सर्वोत्तम सर्वद
दुर्वृत्तगर्वहरण विभो।
साम्ब सदाशिव शंभो शंकर
शरणं मे तव चरणयुगम्॥ ४५ ॥
षड्रिपुषडूर्मिषड्विकारहर
सन्मुख षण्मुखजनक विभो।
साम्ब सदाशिव शंभो शंकर
शरणं मे तव चरणयुगम्॥ ४६ ॥
सत्यं ज्ञानमनन्तं ब्रह्मे-
त्येतल्लक्षणलक्षित भो।
साम्ब सदाशिव शंभो शंकर
शरणं मे तव चरणयुगम्॥ ४७ ॥
हाहाहूहूमुखसुरगायक-
गीतापदानपद्य विभो।
साम्ब सदाशिव शंभो शंकर
शरणं मे तव चरणयुगम्॥ ४८ ॥
लादिर्न हि प्रयोगस्तदन्त-
मिह मङ्गलं सदास्तु विभो।
साम्ब सदाशिव शंभो शंकर
शरणं मे तव चरणयुगम्॥ ४९ ॥
क्षणमिव दिवसान्नेष्यति त्वत्पद-
सेवाक्षणोत्सुकः शिव भो।
साम्ब सदाशिव शंभो शंकर
शरणं मे तव चरणयुगम्॥ ५० ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवतः कृतौ
सुवर्णमालास्तुतिः संपूर्णा ॥
॥ श्रीः॥
॥ दशश्लोकीस्तुतिः ॥
<MISSING_FIG href="../books_images/U-IMG-1722704703C…..PNG"/>
साम्बो नः कुलदैवतं पशुपते साम्ब त्वदीया वयं
साम्बं स्तौमि सुरासुरोरगगणाः साम्बेन संतारिताः।
साम्बायास्तु नमो मया विरचितं साम्बात्परं नो भजे
साम्बस्यानुचरोऽस्म्यहं मम रतिः साम्बे परब्रह्मणि॥
विष्ण्वाद्याश्च पुरत्रयं सुरगणा जेतुं न शक्ताः स्वयं
यं शंभुं भगवन्वयं तु पशवोऽस्माकं त्वमेवेश्वरः।
स्वस्वस्थाननियोजिताः सुमनसः स्वस्था बभूवुस्तत-
स्तस्मिन्मे हृदयं सुखेन रमतां साम्बे परब्रह्मणि॥ २ ॥
क्षोणी यस्य रथो रथाङ्गयुगलं चन्द्रार्कबिम्बद्वयं
कोदण्डः कनकाचलो हरिरभूद्बाणो विधिःसारथिः।
तूणीरो जलधिर्हयाः श्रुतिचयो मौर्वी भुजंगाधिप-
स्तस्मिन्मे हृदयं सुखेन रमतां साम्बे परब्रह्मणि॥ ३ ॥
येनापादितमङ्गजाङ्गभसितं दिव्याङ्गरागैः समं
येन स्वीकृतमब्जसंभवशिरः सौवर्णपात्रैः समम्।
येनाङ्गीकृतमच्युतस्य नयनं पूजारविन्दैः समं
तस्मिन्मे हृदयं सुखेन रमतां साम्बे परब्रह्मणि॥ ४ ॥
गोविन्दादधिकं न दैवतमिति प्रोच्चार्य हस्तावुभा -
वुद्धृत्याथ शिवस्य संनिधिगतो व्यासो मुनीनां वरः।
यस्य स्तम्भितपाणिरानतिकृता नन्दीश्वरेणाभव-
त्तस्मिन्मे हृदयं सुखेन रमतां साम्बे परब्रह्मणि॥ ५ ॥
आकाशश्चिकुरायते दशदिशाभोगो दुकूलायते
शीतांशुः प्रसवायते स्थिरतरानन्दः स्वरूपायते।
वेदान्तो निलयायते सुविनयो यस्य स्वभावायते
तस्मिन्मे हृदयं सुखेन रमतां साम्बे परब्रह्मणि॥ ६ ॥
विष्णुर्यस्य सहस्रनामनियमादम्भोरुहाण्यर्चय-
न्नेकोनोपचितेषु नेत्रकमलं नैजं पदाब्जद्वये।
संपूज्यासुरसंहतिं विदलयंस्त्रैलोक्यपालोऽभव-
त्तस्मिन्मे हृदयं सुखेन रमतां साम्बे परब्रह्मणि॥ ७ ॥
शौरिं सत्यगिरं वराहवपुषं पादाम्बुजादर्शने
चक्रे यो दयया समस्तजगतां नाथं शिरोदर्शने।
मिथ्यावाचमपूज्यमेव सततं हंसस्वरूपं विधिं
तस्मिन्मे हृदयं सुखेन रमतां साम्बे परब्रह्मणि॥ ८ ॥
यस्यासन्धरणीजलाग्निपवनव्योमार्कचन्द्रादयो
विख्यातास्तनवोऽष्टधा परिणता नान्यत्ततो वर्तते।
ओंकारार्थविवेचनी श्रुतिरियं चाचष्ट तुर्यं शिवं
तस्मिन्मे हृदयं सुखेन रमतां साम्बे परब्रह्मणि॥९॥
विष्णुब्रह्मसुराधिपप्रभृतयः सर्वेऽपि देवा यदा
संभूताज्जलधेर्विषात्परिभवं प्राप्तास्तदा सत्वरम्।
तानार्ताञ्शशरणागतानिति सुरान्योऽरक्षदर्धक्षणा-
त्तस्मिन्मे हृदयं सुखेन रमतां साम्बे परब्रह्मणि॥ १० ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवतः कृतौ
दशश्लोकीस्तुतिः संपूर्णा॥
———
॥ श्रीः॥
दक्षिणामूर्ति-
वर्णमालास्तोत्रम् ॥
ॐ मित्येतद्यस्य बुधैर्नाम गृहीतं
यद्भासेदं भाति समस्तं वियदादि।
यस्याज्ञातः स्वस्वपदस्था विधिमुख्या-
स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि॥ १ ॥
नम्राङ्गाणां भक्तिमतां यःपुरुषार्था-
न्दत्वा क्षिप्रं हन्ति च तत्सर्वविपत्तीः।
पादाम्भोजाधस्तनितापस्मृतिमीशं
तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि॥ २ ॥
मोहध्वस्त्यै वैणिकवैयासिकमुख्याः
संविन्मुद्रापुस्तकवीणाक्षगुणान्यम्।
हस्ताम्भोजैर्बिभ्रतमाराधितवन्त-
स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि॥ ३ ॥
भद्रारूढं भद्रदमाराधयितॄणां
भक्तिश्रद्धापूर्वकमीशं प्रणमन्ति।
आदित्या यं वाञ्छितसिद्धयैकरुणाब्धिं
तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि॥ ४ ॥
गर्भान्तःस्थाः प्राणिन एते भवपाश-
च्छेदे दक्षं निश्चितवन्तः शरणं यम्।
आराध्याङ्घ्रिप्रस्फुरदम्भोरुहयुग्मं
तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि॥ ५ ॥
वक्त्रंधन्याः संसृतिवार्धेरतिमात्रा-
द्भीताः सन्तः पूर्णशशाङ्कद्युति यस्य।
सेवन्तेऽध्यासीनमनन्तं वटमूलं
तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि॥६ ॥
तेजःस्तोमैरङ्गदसंघट्टितभास्व-
न्माणिक्योत्थैर्भासितविश्वो रुचिरैर्यः।
तेजोमूर्तिं खानिलतेजःप्रमुखाब्धिं
तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि॥ ७ ॥
दध्याज्यादिद्रव्यककर्माण्यखिलानि
त्यक्त्वा काङ्क्षां कर्मफलेष्वत्रकरोति।
यज्जिज्ञासां रूपफलार्थी क्षितिदेव-
स्तं प्रत्यञ्चं दक्षिणवक्त्रंकलयामि॥ ८ ॥
क्षिप्रं लोके यं भजमानः पृथुपुण्यः
प्रध्वस्ताधिः प्रोज्झितसंसृत्यखिलार्तिः
प्रत्यग्भूतं ब्रह्म परं सन्रमते य-
स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि॥ ९ ॥
णानेत्येवं यन्मनुमध्यस्थितवर्णा-
न्भक्ताः काले वर्णगृहीत्यै प्रजपन्तः।
मोदन्ते संप्राप्तसमस्तश्रुतितत्त्रा-
स्तं प्रत्यञ्चं दक्षिणवक्त्रंकलयामि॥ १० ॥
मूर्तिश्छायानिर्जितमन्दाकिनिकुन्द-
प्रालेयाम्भोराशिसुधाभूतिसुरेभा।
यस्याभ्राभा हासविधौ दक्षशिरोधि-
स्तं प्रत्यञ्चं दक्षिणवक्त्रंकलयामि॥ ११ ॥
तप्तस्वर्णच्छायजटाजूटकटाह-
प्रोद्यद्वीचीवल्लिविराजत्सुरसिन्धुम्।
नित्यं सूक्ष्मं नित्यनिरस्ताखिलदोषं
तं प्रत्यञ्चं दक्षिणवक्त्रंकलयामि॥ १२ ॥
येन ज्ञातेनैव समस्तं विदितं स्या-
द्यस्मादन्यद्वस्तु जगत्यां शशशृङ्गम्।
यं प्राप्तानां नास्ति परं प्राप्यमनादिं
तं प्रत्यञ्चंदक्षिणवक्त्रं कलयामि॥ १३ ॥
मत्तो मारो यस्य ललाटाक्षिभवाग्नि-
स्फूर्जत्कीलप्रोषितभस्मीकृतदेहः।
तद्भस्मासीद्यस्य सुजातःपटवास-
स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि॥ १४ ॥
ह्यम्भोराशौ संसृतिरूपे लुठतां त-
त्पारं गन्तुं यत्पदभक्तिर्दृढनौका।
सर्वाराध्यं सर्वगमानन्दपयोधिं
तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि॥ १५ ॥
मेधावी स्यादिन्दुवतंसं धृतवीणं
कर्पूराभं पुस्तकहस्तं कमलाक्षम्।
चित्ते ध्यायन्यस्य वपुर्द्राङ्निमिषार्धं
तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि॥ १६ ॥
धाम्नां धाम प्रौढरुचीनां परमं य-
त्सूर्यादीनां यस्य स हेतुर्जगदादेः।
एतावान्यो यस्य न सर्वेश्वरमीड्यं
तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि॥ १७ ॥
प्रत्याहारप्राणनिरोधादिसमर्थै-
र्भक्तैर्दान्तैः संयतचित्तैर्यतमानैः।
स्वात्मत्वेन ज्ञायत एव त्वरया य-
स्तं प्रत्यञ्चं दक्षिणवक्त्रंकलयामि॥ १८ ॥
ज्ञांशीभूतान्प्राणिन एतान्फलदाता
चित्तान्तःस्थः प्रेरयति स्वे सकलेऽपि।
कृत्ये देवः प्राक्तनकर्मानुसरः सं-
स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि॥ १९ ॥
प्रज्ञामात्रं प्रापितसंबिन्निजभक्तं
प्राणाक्षादेः प्रेरयितारं प्रणवार्थम्।
प्राहुः प्राज्ञा यं विदितानुश्रवतत्त्वा-
स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि॥ २० ॥
यस्याज्ञानादेव नृणां संसृतिबोधो
यस्य ज्ञानादेव विमोक्षो भवतीति।
स्पष्टं ब्रूते वेदशिरो देशिकमाद्यं
तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि॥ २१ ॥
छन्नेऽविद्यारूपपटेनैव च विश्वं
यत्राध्यस्तं जीवपरेशत्वमपीदम्।
भानोर्भानुष्वम्बुवदस्ताखिलभेदं
तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि॥ २२ ॥
स्वापस्वप्नौ जाग्रदवस्थापि न यत्र
प्राणश्चेतः सर्वगतो यः सकलात्मा।
कूटस्थो यः केवलसच्चित्सुखरूप-
स्तं प्रत्यञ्चंदक्षिणवक्त्रं कलयामि॥ २३ ॥
हा हेत्येवं विस्मयमीयुर्मुनिमुख्या
ज्ञाते यस्मिन्स्वात्मतयानात्मविमोहः।
प्रत्यग्भूते ब्रह्मणि यातः कथमित्थं
तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि॥ २४ ॥
यैषा रम्यैर्मत्तमयूराभिधवृत्तै-
रादौ क्लृप्ता यन्मनुवर्णैर्मुनिभङ्गी।
तामेवैतां दक्षिणवक्त्रःकृपयासा-
वूरीकुर्याद्देशिकसम्राट् परमात्मा॥२५॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवतः कृतौ
श्रीदक्षिणामूर्तिवर्णमालास्तोत्रं
संपूर्णम् ॥
<MISSING_FIG href="../books_images/U-IMG-1722704948vc.PNG"/>
॥ श्रीः ॥
॥ श्रीदक्षिणामूर्त्यष्टकम्॥
विश्वं दर्पणदृश्यमाननगरीतुल्यं निजान्तर्गतं
पश्यन्नात्मनि मायया बहिरिवोद्भूतं यथा निद्रया।
यः साक्षात्कुरुते प्रबोधसमये स्वात्मानमेवाद्वयं
तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये॥ १ ॥
बीजस्यान्तरिवाङ्कुरो जगदिदं प्राङ्निर्विकल्पं पुन-
र्मायाकल्पितदेशकालकलनावैचित्र्यचित्रीकृतम्।
मायावीव विजृम्भयत्यपि महायोगीव यः स्वेच्छया
तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये॥ २ ॥
यस्यैव स्फुरणं सदात्मकमसत्कल्पार्थगं भासते
साक्षात्तत्त्वमसीति वेदवचसा यो बोधयत्याश्रितान्।
यत्साक्षात्करणाद्भवेन्न पुनरावृत्तिर्भवाम्भोनिधौ
तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये॥३॥
नानाच्छिद्रघटोदरस्थितमहादीपप्रभाभास्वरं
ज्ञानं यस्य तु चक्षुरादिकरणद्वारा बहिः स्पन्दते।
जानामीति तमेव भान्तमनुभात्येतत्समस्तं जग-
त्तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये॥ ४॥
देहं प्राणमपीन्द्रियाण्यपि चलां बुद्धिं च शून्यं विदुः
स्त्रीबालान्धजडोपमास्त्वहमिति भ्रान्ता भृशं वादिनः।
मायाशक्तिविलासकल्पितमहाव्यामोहसंहारिणे
तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये॥ ५ ॥
राहुग्रस्तदिवाकरेन्दुसदृशो मायासमाच्छादना-
त्सन्मात्रः करणोपसंहरणतो योऽभूत्सुषुप्तः पुमान्।
प्रागस्वाप्समिति प्रबोधसमये यः प्रत्यभिज्ञायते
तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये॥६॥
बाल्यादिष्वपि जाग्रदादिषु तथा सर्वास्ववस्थास्वपि
व्यावृत्तास्वनुवर्तमानमहमित्यन्तः स्फुरन्तं सदा।
स्वात्मानं प्रकटीकरोति भजतां यो मुद्रया भद्रया
तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये॥ ७ ॥
विश्वं पश्यति कार्यकारणतया स्वस्वामिसंबन्धतः
शिष्याचार्यतया तथैव पितृपुत्राद्यात्मना भेदतः।
स्वप्ने जाग्रति वा य एष पुरुषो मायापरिभ्रामित-
स्तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये॥ ८ ॥
भूरम्भांस्यनलोऽनिलोऽम्बरमहर्नाथो हिमांशुः पुमा-
नित्याभाति चराचरात्मकमिदं यस्यैव मूर्त्यष्टकम्।
नान्यत्किंचन विद्यते विमृशतां यस्मात्परस्माद्विभो-
स्तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये॥ ९ ॥
सर्वात्मत्वमिति स्फुटीकृतमिदं यस्मादमुष्मिंस्तवे
तेनास्य श्रवणात्तदर्थमननाद्ध्यानाच्च संकीर्तनात्।
सर्वात्मत्वमहाविभूतिसहितं स्यादीश्वरत्वं स्वतः
सिध्येत्तत्पुनरष्टधा परिणतं चैश्वर्यमव्याहतम्॥। १० ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवतः कृतौ
श्रीदक्षिणामूर्त्यष्टकम् संपूर्णम्॥
॥ श्रीः॥
श्रीमृत्युंजयमानसिक-
पूजास्तोत्रम् ॥
कैलासे कमनीयरत्नखचिते कल्पद्रुमूले स्थितं
कर्पूरस्फटिकेन्दुसुन्दरतनुं कात्यायनीसेवितम्।
गङ्गातुङ्गतरङ्गरञ्जितजटाभारं कृपासागरं
कण्ठालंकृतशेषभूषणममुं मृत्युंजयं भावये॥ १ ॥
आगत्य मृत्युंजय चन्द्रमौले
व्याघ्राजिनालंकृत शूलपाणे।
स्वभक्तसंरक्षणकामधेनो
प्रसीद विश्वेश्वर पार्वतीश॥२॥
भास्वन्मौक्तिकतोरणे मरकतस्तम्भायुतालंकृते
सौधे धूपसुवासिते मणिमये माणिक्यदीपाञ्चिते।
ब्रह्मेन्द्रामरयोगिपुंगवगणैर्युक्ते च कल्पद्रुमैः
श्रीमृत्युंजय सुस्थिरो भव विभो माणिक्यसिंहासने॥
मन्दारमल्लीकरवीरमाधवी-
पुंनागनीलोत्पलचम्पकान्वितैः।
कर्पूरपाटीरसुवासितैर्जलै-
राधत्स्व मृत्युंजय पाद्यमुत्तमम्॥ ४ ॥
सुगन्धपुष्पप्रकरैः सुवासितै-
र्वियन्नदीशीतलवारिभिः शुभैः।
त्रिलोकनाथार्तिहरार्घ्यमादरा-
द्गृहाण मृत्युंजय सर्ववन्दित॥ ५ ॥
हिमाम्बुवासितैस्तोयैःशीतलैरतिपावनैः।
मृत्युंजय महादेव शुद्धाचमनमाचर॥६॥
गुडदधिसहितं मधुप्रकीर्णं
सुघृतसमन्वितधेनुदुग्धयुक्तम्।
शुभकर मधुपर्कमाहर त्वं
त्रिनयन मृत्युहर त्रिलोकवन्द्य॥ ७ ॥
पञ्चास्त्र शान्त पञ्चास्य पञ्चपातकसंहर।
पञ्चामृतस्नानमिदं कुरु मृत्युंजय प्रभो॥ ८ ॥
जगत्त्रयख्यात समस्ततीर्थ-
समाहृतैः कल्मषहारिभिश्च।
स्नानं सुतोयैः समुदाचर त्वं
मृत्युंजयानन्तगुणाभिराम॥ ९ ॥
आनीतेनातिशुभ्रेण कौशेयेनामरद्रुमात्।
मार्जयामि जटाभारं शिव मृत्युंजय प्रभो॥ १० ॥
नानाहेमविचित्राणि चीरचीनाम्बराणि च।
विविधानि च दिव्यानि मृत्युंजय सुधारय॥ ११॥
विशुद्धमुक्ताफलजालरम्यं
मनोहरं काञ्चनहेमसूत्रम्।
यज्ञोपवीतं परमं पवित्र-
माधत्स्व मृत्युंजय भक्तिगम्य॥ १२ ॥
श्रीगन्धं घनसारकुङ्कुमयुतं कस्तूरिकापूरितं
कालेयेन हिमाम्बुना विरचितं मन्दारसंवासितम्।
दिव्यं देवमनोहरं मणिमये पात्रे समारोपितं
सर्वाङ्गेषु विलेपयामि सततं मृत्युंजय श्रीविभो॥
अक्षतैर्धवलैर्दिव्यैः सम्यक्तिलसमन्वितैः।
मृत्युंजय महादेव पूजयामि वृषध्वज॥ १४ ॥
चम्पकपङ्कजकुरवक-
कुन्दैः करवीरमल्लिकाकुसुमैः।
विस्तारय निजमकुटं
मृत्युंजय पुण्डरीकनयनाप्त॥ १५ ॥
माणिक्यपादुकाद्वन्द्वे मौनिहृत्पद्ममन्दिरे।
पादौ सत्पद्मसदृशौ मृत्युंजय निवेशय॥ १६ ॥
माणिक्यकेयूरकिरीटहारैः
काञ्चीमणिस्थापितकुण्डलैश्च।
मञ्जीरमुख्याभरणैर्मनोज्ञै-
रङ्गानि मृत्युंजय भूषयामि॥ १७ ॥
गजवदनस्कन्दधृते-
नातिस्वच्छेन चामरयुगेन।
गलदलकाननपद्मं
मृत्युंजय भावयामि हृत्पद्मे॥ १८ ॥
मुक्तातपत्रं शशिकोटिशुभ्रं
शुभप्रदं काञ्चनदण्डयुक्तम्।
माणिक्यसंस्थापितहेमकुम्भं
सुरेश मृत्युंजय तेऽर्पयामि॥ १९ ॥
मणिमुकुरे निष्पटले
त्रिजगद्गाढान्धकारसप्ताश्वे।
कंदर्पकोटिसदृशं
मृत्युंजय पश्य वदनमात्मीयम्॥ २० ॥
**कर्पूरचूर्णं कपिलाज्यपूतं
दास्यामि कालेयसमन्वितैश्च।
समुद्भवं पावनगन्धधूपितं
मृत्युंजयाङ्गं परिकल्पयामि॥ २१॥ **
वर्तित्रयोपेतमखण्डदीप्त्या
तमोहरं बाह्यमथान्तरं च।
साज्यं समस्तामरवर्गहृद्यं
सुरेश मृत्युंजय वंशदीपम्॥ २२ ॥
राजान्नं मधुरान्वितं च मृदुलं माणिक्यपात्रे स्थितं
हिङ्गूजीरकसन्मरीचिमिलितैः शाकैरनेकैः शुभैः।
शाकं सम्यगपूपसूपसहितं सद्योघृतेनाप्लुतं
श्रीमृत्युंजय पार्वतीप्रिय विभो सापोशनं भुज्यताम्॥
कूश्माण्डवार्ताकपटोलिकानां
फलानि रम्याणि च कारवल्ल्या।
सुपाकयुक्तानि ससौरभाणि
श्रीकण्ठ मृत्युंजय भक्षयेश॥ २४ ॥
शीतलं मधुरं स्वच्छं पावनं वासितं लघु
मध्ये स्वीकुरु पानीयं शिव मृत्युंजय प्रभो॥ २५ ॥
शर्करामिलितं स्निग्धं दुग्धान्नं गोघृतान्वितम्।
कदलीफलसंमिश्रं भुज्यतां मृत्युसंहर॥२६॥
केवलमतिमाधुर्यंं
दुग्धैः स्निग्धैश्च शर्करामिलितैः।
एलामरीचिमिलितं
मृत्युंजय देव भुङ्क्ष्व परमान्नम्॥ २७ ॥
रम्भाचूतकपित्थकण्टकफलैर्द्राक्षारसस्वादुम-
त्खर्जूरैर्मधुरेक्षुखण्डशकलैः सन्नारिकेलाम्बुभिः।
कर्पूरेण सुवासितैर्गुडजलैर्माधुर्ययुक्तैर्विभो
श्रीमृत्युंजय पूरय त्रिभुवनाधारं विशालोदरम्॥
मनोज्ञरम्भावनखण्डखण्डिता-
न्रुचिप्रदान्सर्षपजीरकांश्च।
ससौरभान्सैन्धवसेवितांश्च
गृहाण मृत्युंजय लोकवन्द्य॥ २९ ॥
हिङ्गूजीरकसहितं
विमलामलकं कपित्थमतिमधुरम्।
बिसखण्डाल्ँलवणयुता-
न्मृत्युंजय तेऽर्पयामि जगदीश॥ ३० ॥
एलाशुण्ठीसहीतं
दध्यन्नं चारुहेमपात्रस्थम्।
अमृतप्रतिनिधिमाढ्यं
मृत्युंजय भुज्यतां त्रिलोकेश॥ ३१ ॥
जम्बीरनीराञ्चितशृङ्गबेरं
मनोहरानम्लशलादुखण्डान्।
मृदूपदंशान्सहसोपभुङ्क्ष्व
मृत्युंजय श्रीकरुणासमुद्र॥ ३२ ॥
नागररामठयुक्तं
सुललितजम्बीरनीरसंपूर्णम्।
मथितं सैन्धवसहितं
पिब हर मृत्युंजय ऋतुध्वंसिन्॥ ३३ ॥
मन्दारहेमाम्बुजगन्धयुक्तै-
र्मन्दाकिनीनिर्मलपुण्यतोयैः।
गृहाण मृत्युंजय पूर्णकाम
श्रीमत्परापोशनमभ्रकेश॥ ३४ ॥
गगनधुनीविमलजलै-
र्मृत्युंजय पद्मरागपात्रगतैः।
मृगमदचन्दनपूर्णं
प्रक्षालय चारु हस्तपदयुग्मम्॥ ३५ ॥
पुंनागमल्लिकाकुन्दवासितैर्जाह्नवीजलैः।
मृत्युंजय महादेव पुनराचमनं कुरु॥३६॥
मौक्तिकचूर्णसमेतै-
र्मृगमदघनसारवासितैः पूगैः।
पर्णैः स्वर्णसमानै-
र्मृत्युंजय तेऽर्पयामि ताम्बूलम्॥ ३७ ॥
नीराजनं निर्मलदीप्तिमद्भि-
र्दीपाङ्कुरैरुज्ज्वलमुच्छ्रितैश्च।
घण्टानिनादेन समर्पयामि
मृत्युंजयाय त्रिपुरान्तकाय॥३८ ॥
विरिञ्चिमुख्यामरबृन्दवन्दिते
सरोजमत्स्याङ्कितचक्रचिह्निते।
ददामि मृत्युंजय पादपङ्कजे
फणीन्द्रभूषे पुनरर्घ्यमीश्वर॥ ३९॥
पुंनागनीलोत्पलकुन्दजाजी-
मन्दारमल्लीकरवीरपङ्कजैः।
पुष्पाञ्जलिं बिल्वदलैस्तुलस्या
मृत्युंजयाङ्घ्रौविनिवेशयामि॥ ४० ॥
पदे पदे सर्वतमोनिकृन्तनं
पदे पदे सर्वशुभप्रदायकम्।
प्रदक्षिणं भक्तियुतेन चेतसा
करोमि मृत्युंजय रक्ष रक्ष माम्॥ ४१ ॥
नमो गौरीशाय स्फटिकधवलाङ्गाय च नमो
नमो लोकेशाय स्तुतविबुधलोकाय च नमः।
नमः श्रीकण्ठाय क्षपितपुरदैत्याय च नमो
नमः फालाक्षाय स्मरमदविनाशाय च नमः॥ ४२ ॥
संसारे जनितापरोगसहिते तापत्रयाक्रन्दिते
नित्यं पुत्रकलत्रवित्तविलसत्पाशैर्निबद्धं दृढम्।
गर्वान्धं बहुपापवर्गसहितं कारुण्यदृष्ट्या विभो
श्रीमृत्युंजय पार्वतीप्रिय सदा मां पाहि सर्वेश्वर॥
सौधे रत्नमये नवोत्पलदलाकीर्णे च तल्पान्तरे
कौशेयेन मनोहरेण धवलेनाच्छादिते सर्वशः।
कर्पूराञ्चितदीपदीप्तिमिलिते रम्योपधानद्वये
पार्वत्याःकरपद्मलालितपदं मृत्युंजयं भावये॥ ४४ ॥
चतुश्चत्वारिंशद्विलसदुपचारैरभिमतै-
र्मनःपद्मे भक्त्या बहिरपि च पूजां शुभकरीम्।
करोति प्रत्यूषे निशि दिवसमध्येऽपि च पुमा-
न्प्रयाति श्रीमृत्युंजयपदमनेकाद्भुतपदम्॥ ४५ ॥
प्रातर्लिङ्गमुमापतेरहरहः संदर्शनात्स्वर्गदं
मध्याह्ने हयमेधतुल्यफलदं सायंतने मोक्षदम्।
भानोरस्तमये प्रदोषसमये पञ्चाक्षराराधनं
तत्कालत्रयतुल्यमिष्टफलदं सद्योऽनवद्यं दृढम्॥४६॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवतः कृतौ
श्रीमृत्युंजयमानसिकपूजास्तोत्रं संपूर्णम् ॥
॥ श्रीः॥
॥ शिवनामावल्यष्टकम् ॥
<MISSING_FIG href="../books_images/U-IMG-1722700150chitraaa.PNG"/>
हे चन्द्रचूड मदनान्तक शूलपाणे
स्थाणो गिरीश गिरिजेश महेश शंभो।
भूतेश भीतभयसूदन मामनाथं
संसारदुःखगहनाज्जगदीश रक्ष॥ १ ॥
हे पार्वतीहृदयवल्लभ चन्द्रमौले
भूताधिप प्रमथनाथ गिरीशचाप।
हे वामदेव भव रुद्र पिनाकपाणे
संसारदुःखगहनाज्जगदीश रक्ष॥२॥
हे नीलकण्ठ वृषभध्वज पञ्चवक्त्र
लोकेश शेषवलय प्रमथेश शर्व।
हे धूर्जटे पशुपते गिरिजापते मां
संसारदुःखगहनाज्जगदीश रक्ष॥३॥
हे विश्वनाथ शिव शंकर देवदेव
गङ्गाधर प्रमथनायक नन्दिकेश।
बाणेश्वरान्धकरिपो हर लोकनाथ .
संसारदुःखगहनाज्जगदीश रक्ष॥ ४ ॥
वाराणसीपुरपते मणिकर्णिकेश
वीरेश दक्षमखकाल विभो गणेश।
सर्वज्ञ सर्वहृदयैकनिवास नाथ
संसारदुःखगहनाज्जगदीश रक्ष॥५॥
श्रीमन्महेश्वर कृपामय हे दयालो
हे व्योमकेश शितिकण्ठ गणाधिनाथ।
भस्माङ्गरागः नृकपालकलापमाल
संसारदुःखगहनाज्जगदीश रक्षः॥ ६ ॥
कैलासशैलविनिवास वृषाकपे हे
मृत्युंजय त्रिनयन त्रिजगन्निवास।
नारायणप्रिय मदापह शक्तिनाथ
संसारदुःखगहनाज्जगदीश रक्ष॥ ७ ॥
विश्वेश विश्वभवनाशक विश्वरूप
विश्वात्मक त्रिभुवनैकगुणाधिकेश।
हे विश्वनाथ करुणामय दीनबन्धो
संसारदुःखगहनाज्जगदीश रक्ष॥ ८ ॥
गौरीविलासभवनाय महेश्वराय
पञ्चाननाय शरणागतकल्पकाय।
शर्वाय सर्वजगतामधिपाय तस्मै
दारिद्र्यदुःखदहनाय नमः शिवाय॥९॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवतः कृतौ
शिवनामावल्यष्टकं संपूर्णम्॥
॥ श्रीः ॥
॥ शिवपञ्चाक्षरस्तोत्रम् ॥
<MISSING_FIG href="../books_images/U-IMG-1722705178Capture12.PNG"/>
नागेन्द्रहाराय विलोचनाय
भस्माङ्गरागाय महेश्वराय।
नित्याय शुद्धाय दिगम्बराय
तस्मै नकाराय नमः शिवाय॥ १ ॥
मन्दाकिनीसलिलचन्दनचर्चिताय
नन्दीश्वरप्रमथनाथमहेश्वराय।
मन्दारमुख्यबहुपुष्पसुपूजिताय
तस्मै मकारमहिताय नमः शिवाय॥२॥
शिवाय गौरीवदनाब्जबृन्द-
सूर्याय दक्षाध्वरनाशकाय।
श्रीनीलकण्ठाय वृषध्वजाय
तस्मै शिकाराय नमः शिवाय॥ ३ ॥
वसिष्ठकुम्भोद्भवगौतमार्य-
मुनीन्द्रदेवार्चितशेखराय।
चन्द्रार्कवैश्वानरलोचनाय
तस्मै वकाराय नमः शिवाय॥ ४॥
यक्षस्वरूपाय जटाधराय
पिनाकहस्ताय सनातनाय।
दिव्याय देवाय दिगम्बराय
तस्मै यकाराय नमः शिवाय॥ ५ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवतः कृतौ
शिवपञ्चाक्षरस्तोत्रं संपूर्णम्॥
** <MISSING_FIG href="../books_images/U-IMG-1722705350Capture123.PNG"/> **
॥ श्रीः ॥
॥ उमामहेश्वरस्तोत्रम् ॥
<MISSING_FIG href="../books_images/U-IMG-1722705493Capture234.PNG"/>
नमः शिवाभ्यां नवयौवनाभ्यां
परस्पराश्लिष्टवपुर्धराभ्यां।
नगेन्द्रकन्यावृषकेतनाभ्यां
नमो नमः शंकरपार्वतीभ्याम्॥ १ ॥
नमः शिवाभ्यां सरसोत्सवाभ्यां
नमस्कृताभीष्टवरप्रदाभ्याम्।
नारायणेनार्चितपादुकाभ्यां
नमो नमः शंकरपार्वतीभ्याम्॥ २ ॥
नमः शिवाभ्यां वृषवाहनाभ्यां
विरिञ्चिविष्णिवन्द्रसुपूजिताभ्याम्।
विभूतिपाटीरविलेपनाभ्यां
नमो नमः शंकरपार्वतीभ्याम्॥ ३ ॥
नमः शिवाभ्यां जगदीश्वराभ्यां
जगत्पतिभ्यां जयविग्रहाभ्याम्
जम्भारिमुख्यैरभिवन्दिताभ्यां
नमो नमः शंकरपार्वतीभ्याम्॥ ४ ॥
नमः शिवाभ्यां परमौषधाभ्यां
पञ्चाक्षरीपञ्जररञ्जिताभ्याम्।
प्रपञ्चसृष्टिस्थितिसंहृताभ्यां
नमो नमः शंकरपार्वतीभ्याम्॥ ५ ॥
नमः शिवाभ्यामतिसुन्दराभ्या-
मत्यन्तमासक्तहृदम्बुजाभ्याम्।
अशेषलोकैकहितंकराभ्यां
नमो नमः शंकरपार्वतीभ्याम्॥६॥
नमः शिवाभ्यां कलिनाशनाभ्यां
कङ्कालकल्याणवपुर्धराभ्याम्।
कैलासशैलस्थितदेवताभ्यां
नमो नमः शंकरपार्वतीभ्याम्॥ ७ ॥
नमः शिवाभ्यामशुभापहाभ्या-
मशेषलोकैकविशेषिताभ्याम्।
अकुण्ठिताभ्यां स्मृतिसंभृताभ्यां
नमो नमः शंकरपार्वतीभ्याम्॥ ८ ॥
नमः शिवाभ्यां रथवाहनाभ्यां
रवीन्दुवैश्वानरलोचनाभ्याम्।
राकाशशाङ्काभमुखाम्बुजाभ्यां
नमो नमः शंकरपार्वतीभ्याम्॥ ९ ॥
नमः शिवाभ्यां जटिलंधराभ्यां
जरामृतिभ्यां च विवर्जिताभ्याम्।
जनार्दनाब्जोद्भवपूजिताभ्यां
नमो नमः शंकरपार्वतीभ्याम्॥ १०॥
नमः शिवाभ्यां विषमेक्षणाभ्यां
बिल्वच्छदामल्लिकदामभृद्भ्याम्।
शोभावतीशान्तवतीश्वराभ्यां
नमो नमः शंकरपार्वतीभ्याम्॥ ११ ॥
नमः शिवाभ्यां पशुपालकाभ्यां
जगत्त्रयीरक्षणबद्धहृद्भ्याम्।
समस्तदेवासुरपूजिताभ्यां
नमो नमः शंकरपार्वतीभ्याम्॥ १२ ॥
स्तोत्रं त्रिसंध्यं शिवपार्वतीभ्यां
भक्त्या पठेद्द्वादशकं नरो यः।
स सर्वसौभाग्यफलानि भुङ्क्ते
शतायुरन्ते शिवलोकमेति॥ १३ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवतः कृतौ
उमामहेश्वरस्तोत्रं संपूर्णम्॥
<MISSING_FIG href="../books_images/U-IMG-1722705704chitraaaa.PNG"/>
॥ श्रीः॥
॥ सौन्दर्यलहरी ॥
———
शिवः शक्त्या युक्तो यदि भवति शक्तः प्रभवितुं
न चेदेवं देवो न खलु कुशलःस्पन्दितुमपि।
अतस्त्वामाराध्यां हरिहरविरिञ्चादिभिरपि
प्रणन्तुं स्तोतुं वा कथमकृतपुण्यः प्रभवति॥ १ ॥
तनीयांसं पांसुं तव चरणपङ्केरुहभवं
विरिञ्चिः संचिन्वन्विरचयति लोकानविकलम्।
वहत्येनं शौरिः कथमपि सहस्रेण शिरसां
हरः संक्षुद्यैनं भजति भसितोद्धूलनविधिम्॥ २ ॥
अविद्यानामन्तस्तिमिरमिहिरद्वीपनगरी
जडानां चैतन्यस्तबकमकरन्दस्रुतिझरी।
दरिद्राणां चिन्तामणिगुणनिका जन्मजलधौ
निमग्नानां दंष्ट्रा मुररिपुवराहस्य भवति॥३॥
त्वदन्यः पाणिभ्यामभयवरदो दैवतगण-
स्त्वमेका नैवासि प्रकटितवराभीत्यभिनया।
भयात्त्रातुं दातुं फलमपि च वाञ्छासमधिकं
शरण्ये लोकानां तव हि चरणावेव निपुणौ॥ ४ ॥
हरिस्त्वामाराध्य प्रणतजनसौभाग्यजननीं
पुरा नारी भूत्वा पुररिपुमपि क्षोभमनयत्।
स्मरोऽपि त्वां नत्वा रतिनयनलेह्येन वपुषा
मुनीनामप्यन्तः प्रभवति हि मोहाय महताम्॥ ५ ॥
धनुः पौष्पं मौर्वी मधुकरमयी पञ्च विशिखा
वसन्तः सामन्तो मलयमरुदायोधनरथः।
तथाप्येकः सर्वं हिमगिरिसुते कामपि कृपा-
मपाङ्गात्ते लब्ध्वा जगदिदमनङ्गो विजयते॥ ६ ॥
क्वणत्काञ्चीदामा करिकलभकुम्भस्तननता
परिक्षीणा मध्ये परिणतशरच्चन्द्रवदना।
धनुर्बाणान्पाशं सृणिमपि दधाना करतलैः
पुरस्तादास्तां नः पुरमथितुराहोपुरुषिका॥ ७ ॥
सुधासिन्धोर्मध्ये सुरविटपिवाटीपरिवृते
मणिद्वीपे नीपोपवनवति चिन्तामणिगृहे।
शिवाकारे मध्ये परमशिवपर्यङ्कनिलयां
भजन्ति त्वां धन्याः कतिचन चिदानन्दलहरीम्॥ ८ ॥
महीं मूलाधारे कमपि मणिपूरे हुतवहं
स्थितं स्वाधिष्ठाने हृदि मरुतमाकाशमुपरि।
मनोऽपि भ्रूमध्ये सकलमपि भित्त्वा कुलपथं
सहस्रारे पद्मे सह रहसि पत्या विहरसे॥ ९ ॥
सुधाधारासारैश्चरणयुगलान्तर्विगलितैः
प्रपञ्चं सिञ्चन्ती पुनरपि रसाम्नायमहसः।
अवाप्य स्वां भूमिं भुजगनिभमध्युष्टवलयं
स्वमात्मानं कृत्वा स्वपिषि कुलकुण्डे कुहरिणि॥ १० ॥
चतुर्भिः श्रीकण्ठैः शिवयुवतिभिः पञ्चभिरपि
प्रभिन्नाभिः शंभोर्नवभिरपि मूलप्रकृतिभिः।
चतुश्चत्वारिंशद्वसुदलकलाश्रत्रिवलय-
त्रिरेखाभिः सार्धं तव शरणकोणाः परिणताः॥ ११ ॥
त्वदीयं सौन्दर्यं तुहिनगिरिकन्ये तुलयितुं
कवीन्द्राः कल्पन्ते कथमपि विरिञ्चिप्रभृतयः।
यदालोकौत्सुक्यादमरललना यान्ति मनसा
तपोभिर्दुष्प्रापामपि गिरिशसायुज्यपदवीम्॥१२॥
नरं वर्षीयांसं नयनविरसं नर्मसु जडं
तवापाङ्गालोके पतितमनुधावन्ति शतशः।
गलद्वेणीबन्धाः कुचकलशविस्रस्तसिचया
हठात्त्रुट्यत्काञ्च्यो विगलितदुकूला युवतयः॥१३॥
क्षितौ षट्पञ्चाशद्द्विसमधिकपञ्चाशदुदके
हुताशे द्वाषष्टिश्चतुरधिकपञ्चाशदनिले।
दिवि द्विःषट्त्रिंशन्मनसि च चतुःषष्टिरिति ये
मयूखास्तेषामप्युपरि तव पादाम्बुजयुगम्॥ १४ ॥
शरज्ज्योत्स्नाशुद्धां शशियुतजटाजूटमकुटां
वरत्रासत्राणस्फटिकघटिकापुस्तककराम्।
सकृन्न त्वा नत्वा कथमिव सतां संनिदधते
मधुक्षीरद्राक्षामधुरिमधुरीणाः फणितयः॥ १५ ॥
कवीन्द्राणां चेतः कमलवनबालातपरुचिं
भजन्ते ये सन्तः कतिचिदरुणामेव भवतीम्।
विरिञ्चिप्रेयस्यास्तरुणतरशृङ्गारलहरी-
गभीराभिर्वाग्भिर्विदधति सतां रञ्जनममी॥ १६ ॥
सवित्रीभिर्वाचां शशिमणिशिलाभङ्गरुचिभि-
र्वशिन्याद्याभिस्त्वां सह जननि संचिन्तयति यः।
स कर्ता काव्यानां भवति महतां भङ्गिरुचिभि-
र्वचोभिर्वाग्देवीवदनकमलामोदमधुरैः॥१७॥
तनुच्छायाभिस्ते तरुणतरणिश्रीसरणिभि-
र्दिवं सर्वामुर्वीमरुणिमनि मग्नां स्मरति यः।
भवन्त्यस्य त्रस्यद्वनहरिणशालीननयनाः
सहोर्वश्या वश्याः कति कति न गीर्वाणगणिकाः॥१८॥
मुखं बिन्दुं कृत्वा कुचयुगमधस्तस्य तदधो
हरार्धंध्यायेद्यो हरमहिषि ते मन्मथकलाम्।
स सद्यः संक्षोभं नयति वनिता इत्यतिलघु
त्रिलोकीमप्याशु भ्रमयति रवीन्दुस्तनयुगाम्॥ १९ ॥
किरन्तीमङ्गेभ्यः किरणनिकुरुम्बामृतरसं
हृदि त्वामाधत्ते हिमकरशिलामूर्तिमिव यः।
स सर्पाणां दर्पं शमयति शकुन्ताधिप इव
ज्वरप्लुष्टान्दृष्ट्या सुखयति सुधाधारसिरया॥ २० ॥
तटिल्लेखातन्वीं तपनशशिवैश्वानरमयीं
निषण्णां षण्णामप्युपरि कमलानां तव कलाम्।
महापद्माटव्यां मृदितमलमायेन मनसा
महान्तः पश्यन्तो दधति परमाह्लादलहरीम्॥ २१ ॥
भवानि त्वं दासे मयि वितर दृष्टिं सकरुणा-
मिति स्तोतुं वाञ्छन्कथयति भवानि त्वमिति यः।
तदैव त्वं तस्मै दिशसि निजसायुज्यपदवीं
मुकुन्दब्रह्मेन्द्रस्फुटमकुटनीराजितपदाम्॥२२॥
त्वया हृत्वा वामं वपुरपरितृप्तेन मनसा
शरीरार्धं शंभोरपरमपि शङ्के हृतमभूत्।
यदेतत्त्वद्रूपं सकलमरुणाभं त्रिनयनं
कुचाभ्यामानम्रं कुटिलशशिचूडालमकुटम्॥ २३ ॥
जगत्सूते धाता हरिरवति रुद्रः क्षपयते
तिरस्कुर्वन्नेतत्स्वमपि वपुरीशस्तिरयति।
सदापूर्वः सर्वं तदिदमनुगृह्णाति च शिव-
स्तवाज्ञामालम्ब्य क्षणचलितयोर्भ्रूलतिकयोः॥ २४ ॥
त्रयाणां देवानां त्रिगुणजनितानां तव शिवे
भवेत्पूजा पूजा तव चरणयोर्या विरचिता।
तथाहि त्वत्पादोद्वहनमणिपीठस्य निकटे
स्थिता ह्येते शश्वन्मुकुलितकरोत्तंसमकुटाः॥ २५ ॥
विरिञ्चिः पञ्चत्वं व्रजति हरिराप्नोति विरतिं
विनाशं कीनाशो भजति धनदो याति निधनम्।
वितन्द्री माहेन्द्री विततिरपि संमीलितदृशा
महासंहारेऽस्मिन्विहरति सति त्वत्पतिरसौ॥ २६ ॥
जपो जल्पःशिल्पं सकलमपि मुद्राविरचना
गतिः प्रादक्षिण्यक्रमणमशनाद्याहुतिविधिः।
प्रणामः संवेशः सुखमखिलमात्मार्पणदृशा
सपर्यापर्यायस्तव भवतु यन्मे विलसितम्॥ २७ ॥
सुधामप्यास्वाद्य प्रतिभयजरामृत्युहरिणीं
विपद्यन्ते विश्वे विधिशतमखाद्या दिविषदः।
करालं यत्क्ष्वेलं कबलितवतः कालकलना
न शंभोस्तन्मूलं तव जननि ताटङ्कमहिमा॥२८॥
किरीटं वैरिञ्चंपरिहर पुरः कैटभभिदः
कठोरे कोटीरे स्खलसि जहि जम्भारिमकुटम्।
प्रणम्रेष्वेतेषु प्रसभमुपयातस्य भवनं
भवस्याभ्युत्थाने तव परिजनोक्तिर्विजयते॥ २९ ॥
स्वदेहोद्भूताभिर्घृणिभिरणिमाद्याभिरभितो
निषेव्ये नित्ये त्वामहमिति सदा भावयति यः।
किमाश्चर्यं तस्य त्रिनयनसमृद्धिं तृणयतो
महासंवर्ताग्निर्विरचयति नीराजनविधिम्॥ ३० ॥
चतुःषष्ट्या तन्त्रैः सकलमतिसन्धाय भुवनं
स्थितस्तत्तत्सिद्धिप्रसवपरतन्त्रैः पशुपतिः।
पुनस्त्वन्निर्बन्धादखिलपुरुषार्थैकघटना-
स्वतन्त्रं ते तन्त्रं क्षितितलमवातीतरदिदम्॥ ३१ ॥
शिवः शक्तिः कामः क्षितिरथ रविः शीतकिरणः
स्मरो हंसः शक्रस्तदनु च परामारहरयः।
अमी हृल्लेखाभिस्तिसृभिरवसानेषु घटिता
भजन्ते वर्णास्ते तव जननि नामावयवताम्॥ ३२ ॥
स्मरं योनिं लक्ष्मी त्रितयमिदमादौ तव मनो-
र्निधायैके नित्ये निरवधिमहाभोगरसिकाः।
भजन्ति त्वां चिन्तामणिगुणनिबद्धाक्षवलयाः
शिवाग्नौ जुह्वन्तः सुरभिघृतधाराहुतिशतैः॥ ३३ ॥
शरीरं त्वं शंभोः शशिमिहिरवक्षोरुहयुगं
तवात्मानं मन्ये भगवति नवात्मानमनघम्।
अतः शेषः शेषीत्ययमुभयसाधारणतया
स्थितः संबन्धो वां समरसपरानन्दपरयोः॥ ३४ ॥
मनस्त्वं व्योम त्वं मरुदसि मरुत्सारथिरसि
त्वमापस्त्वं भूमिस्त्वयि परिणतायां न हि परम्।
त्वमेव स्वात्मानं परिणमयितुं विश्ववपुषा
चिदानन्दाकारं शिवयुवति भावेन विभृषे॥ ३५ ॥
तवाज्ञाचक्रस्थं तपनशशिकोटिद्युतिधरं
परं शंभुं वन्दे परिमिलितपार्श्वं परचिता।
यमाराध्यन्भक्त्या रविशशिशुचीनामविषये
निरालोकेऽलोके निवसति हि भालोकभुवने॥ ३६ ॥
विशुद्धौ ते शुद्धस्फटिकविशदं व्योमजनकं
शिवं सेवे देवीमपि शिवसमानव्यवसिताम्।
ययोः कान्त्या यान्त्याः शशिकिरणसारूप्यसरणे-
र्विधूतान्तर्ध्वान्ता विलसति चकोरीव जगती॥ ३७ ॥
समुन्मीलत्संवित्कमलमकरन्दैकरसिकं
भजे हंसद्वन्द्वं किमपि महतां मानसचरम्।
यदालापादष्टादशगुणितविद्यापरिणति-
र्यदादत्ते दोषाद्गुणमखिलमद्भ्यः पय इव॥ ३८ ॥
तव स्वाधिष्ठाने हुतवहमधिष्ठाय निरतं
तमीडेसंवर्तं जननि महतीं तां च समयाम्।
यदालोके लोकान्दहति महति क्रोधकलिते
दयार्द्रा या दृष्टिः शिशिरमुपचारं रचयति॥ ३९ ॥
तटित्त्वन्तं शक्त्या तिमिरपरिपन्थिस्फुरणया
स्फुरन्नानारत्नाभरणपरिणद्धेन्द्रधनुषम्।
तव श्यामं मेघं कमपि मणिपूरैकशरणं
निषेवे वर्षन्तं हरमिहिरतप्तं त्रिभुवनम्॥ ४० ॥
तवाधारे मूले सह समयया लास्यपरया
नवात्मानं मन्ये नवरसमहाताण्डवनटम्।
उभाभ्यामेताभ्यामुदयविधिमुद्दिश्य दयया
सनाथाभ्यां जज्ञे जनकजननीमज्जगदिदम्॥ ४१ ॥
गतैर्माणिक्यत्वं गगनमणिभिः सान्द्रघटितं
किरीटं ते हैमं हिमगिरिसुते कीर्तयति यः।
स नीडेयच्छायाच्छुरणशबलं चन्द्रशकलं
धनुः शौनासीरं किमिति न निबध्नाति धिषणाम्॥ ४२ ॥
धुनोतु ध्वान्तं नस्तुलितदलितेन्दीवरवनं
घनस्निग्धश्लक्ष्णंचिकुरनिकुरुम्बं तव शिवे।
यदीयं सौरभ्यं सहजमुपलब्धुं सुमनसो
वसन्त्यस्मिन्मन्ये वलमथनवाटीविटपिनाम् ॥ ४३ ॥
तनोतु क्षेमं नस्तव वदनसौन्दर्यलहरी-
परीवाहःस्रोतः सरणिरिव सीमन्तसरणिः।
वहन्ती सिन्दूरं प्रबलकबरीभारतिमिर-
द्विषां बृन्दैर्बन्दीकृतमिव नवीनार्ककिरणम्॥ ४४ ॥
अरालैः स्वाभाव्यादलिकलभसश्रीभिरलकैः
परीतं ते वक्त्रंपरिहसति पङ्केरुहरुचिम्।
दरस्मेरे यस्मिन्दशनरुचिकिञ्जल्करुचिरे
सुगन्धौ माद्यन्ति स्मरदहनचक्षुर्मधुलिहः॥४५॥
ललाटं लावण्यद्युतिविमलमाभाति तव य-
द्द्वितीयं तन्मन्ये मकुटघटितं चन्द्रशकलम्।
विपर्यासन्यासादुभयमपि संभूय च मिथः
सुधालेपस्यूतिः परिणमति राकाहिमकरः॥४६॥
भ्रुवौ भुग्ने किंचिद्भुवनभयभङ्गव्यसनिनि
त्वदीये नेत्राभ्यां मधुकररुचिभ्यां धृतगुणम्।
धनुर्मन्ये सव्येतरकरगृहीतं रतिपतेः
प्रकोष्ठे मुष्टौ च स्थगयति निगूढान्तरमुमे॥ ४७ ॥
अहः सूते सव्यं तव नयनमर्कात्मकतया
त्रियामां वामं ते सृजति रजनीनायकतया।
तृतीया ते दृष्टिर्दरदलितहेमाम्बुजरुचिः
समाधत्ते सन्ध्यां दिवसनिशयोरन्तरचरीम्॥ ४८ ॥
विशाला कल्याणी स्फुटरुचिरयोध्या कुवलयैः
कृपाधाराधारा किमपि मधुराभोगवतिका।
अवन्ती दृष्टिस्ते बहुनगरविस्तारविजया
ध्रुवं तत्तन्नामव्यवहरणयोग्या विजयते॥ ४९ ॥
कवीनां संदर्भस्तबकमकरन्दैकरसिकं
कटाक्षव्याक्षेपभ्रमरकलभौ कर्णयुगलम्।
अमुञ्चन्तौ दृष्ट्वा तव नवरसास्वादतरला-
वसूयासंसर्गादलिकनयनं किंचिदरुणम्॥ ५० ॥
शिवे शृङ्गारार्द्रा तदितरजने कुत्सनपरा
सरोषा गङ्गायां गिरिशचरिते विस्मयवती।
हराहिभ्यो भीता सरसिरुहसौभाग्यजननी
सखीषु स्मेरा ते मयि जननि दृष्टिः सकरुणा॥ ५१ ॥
गते कर्णाभ्यर्णंगरुत इव पक्ष्माणि दधती
पुरां भेत्तुश्चित्तप्रशमरसविद्रावणफले।
इमे नेत्रे गोत्राधरपतिकुलोत्तंसकलिके
तवाकर्णाकृष्टस्मरशरविलासं कलयतः॥५२॥
विभक्तत्रैवर्ण्यं व्यतिकरितलीलाञ्जनतया
विभाति त्वन्नेत्रत्रितयमिदमीशानदयिते।
पुनः स्रष्टुं देवान्द्रुहिणहरिरुद्रानुपरता-
न्रजः सत्त्वं बिभ्रत्तम इति गुणानां त्रयमिव॥५३॥
पवित्रीकर्तुं नः पशुपतिपराधीनहृदये
दयामित्रैर्नेत्रैररुणधवलश्यामरुचिभिः।
नदः शोणो गङ्गा तपनतनयेति ध्रुवममुं
त्रयाणां तीर्थानामुपनयसि संभेदमनघम्॥ ५४ ॥
निमेषोन्मेषाभ्यां प्रलयमुदयं याति जगती
तवेत्याहुः सन्तो धरणिधरराजन्यतनये।
त्वदुन्मेषाज्जातं जगदिदमशेषं प्रलयतः
परित्रातुं शङ्के परिहृतनिमेषास्तव दृशः॥५५॥
तवापर्णे कर्णेजपनयनपैशुन्यचकिता
निलीयन्ते तोये नियतमनिमेषाः शफरिकाः।
इयं च श्रीर्बद्धच्छदपुटकवाटं कुवलयं
जहाति प्रत्यूषे निशि च विघटय्य प्रविशति॥ ५६ ॥
दृशा द्राघीयस्या दरदलितनीलोत्पलरुचा
दवीयांसं दीनं स्नपय कृपया मामपि शिवे।
अनेनायं धन्यो भवति न च ते हानिरियता
वने वा हर्म्ये वा समकरनिपातो हिमकरः॥ ५७ ॥
अरालं ते पालीयुगलमगराजन्यतनये
न केषामाधत्ते कुसुमशरकोदण्डकुतुकम्।
तिरश्चीनो यत्र श्रवणपथमुल्लङ्घ्य विलस-
न्नपाङ्गव्यासङ्गो दिशति शरसंधानधिषणाम्॥ ५८ ॥
स्फुरद्गण्डाभोगप्रतिफलितताटङ्कयुगलं
चतुश्चक्रं मन्ये तव सुखमिदं मन्मथरथम्।
यमारुह्य द्रुह्यत्यवनिरथमर्केन्दुचरणं
महावीरो मारः प्रमथपतये सज्जितवते॥ ५९ ॥
सरस्वत्याः सूक्तीरमृतलहरीकौशलहरीः
पिबन्त्याः शर्वाणि श्रवणचुलुकाभ्यामविरलम्।
चमत्कारश्लाघाचलितशिरसः कुण्डलगणो
झणत्कारैस्तारैः प्रतिवचनमाचष्ट इव ते॥ ६० ॥
असौ नासावंशस्तुहिनगिरिवंशध्वजपटि
त्वदीयो नेदीयः फलतु फलमस्माकमुचितम्।
वहत्यन्तर्मुक्ताः शिशिरकनिश्वासगलितं
समृद्ध्या यत्तासां बहिरपि च मुक्तामणिधरः॥ ६१ ॥
प्रकृत्या रक्तायास्तव सुदति दन्तच्छदरुचेः
प्रवक्ष्ये सादृश्यं जनयतु फलं विद्रुमलता।
न बिम्बं तद्बिम्बप्रतिफलनरागादरुणितं
तुलामध्यारोढुं कथमिव विलज्जेत कलया॥६२ ॥
स्मितज्योत्स्नाजालं तव वदनचन्द्रस्य पिबतां
चकोराणामासीदतिरसतया चञ्चुजडिमा।
अतस्ते शीतांशोरमृतलहरीमाम्लरुचयः
पिबन्ति स्वच्छन्दं निशिनिशि भृशं काञ्जिकधिया॥
अविश्रान्तं पत्युर्गुणगणकथाम्रेडनजपा
जपापुष्पच्छाया तव जननि जिह्वा जयति सा।
यदग्रासीनायाः स्फटिकदृषदच्छच्छविमयी
सरस्वत्या मूर्तिः परिणमति माणिक्यवपुषा॥६४ ॥
रणे जित्वा दैत्यानपहृतशिरस्त्रैः कवचिभि-
र्निवृत्तैश्चण्डांशत्रिपुरहरनिर्माल्यविमुखैः।
विशाखेन्द्रोपेन्द्रैः शशिविशदकर्पूरशकला
विलीयन्ते मातस्तव वदनताम्बूलकबलाः॥ ६५ ॥
विपञ्च्या गायन्ती विविधमपदानं पशुपते-
स्त्वयारब्धे वक्तुं चलितशिरसा साधुवचने।
तदीयैर्माधुर्यैरपलपिततन्त्रीकलरवां
निजां वीणां वाणी निचुलयति चोलेन निभृतम्॥६६॥
कराग्रेण स्पृष्टं तुहिनगिरिणा वत्सलतया
गिरीशेनोदस्तं मुहुरधरपानाकुलतया।
करग्राह्यं शंभोर्मुखमुकुरवृन्तं गिरिसुते
कथंकारं ब्रूमस्तव चुबुकमौपम्यरहितम्॥ ६७॥
भुजाश्लेषान्नित्यं पुरदमयितुः कण्टकवती
तव ग्रीवा धत्ते मुखकमलनालश्रियमियम्।
स्वतःश्वेता कालागुरुबहुलजम्बालमलिना
मृणालीलालित्यं वहति यदधो हारलतिका॥ ६८ ॥
गले रेखास्तिस्रो गतिगमकगीतैकनिपुणे
विवाहव्यानद्धप्रगुणगुणसंख्याप्रतिभुवः।
विराजन्ते नानाविधमधुररागाकरभुवां
त्रयाणां ग्रामाणां स्थितिनियमसीमान इव ते॥ ६९ ॥
मृणालीमृद्वीनां तव भुजलतानां चतसृणां
चतुर्भिः सौन्दर्यं सरसिजभवः स्तौति वदनैः।
नखेभ्यः संत्रस्यन्प्रथममथनादन्धकरिपो-
श्चतुर्णांशीर्षाणां सममभयहस्तार्पणधिया॥७०॥
नखानामुद्योतैर्नवनलिनरागं विहसतां
कराणां ते कान्तिं कथय कथयामः कथमुमे।
कयाचिद्वा साम्यं भजतु कलया हन्त कमलं
यदि क्रीडलक्ष्मीचरणतललाक्षारसचणम्॥ ७१ ॥
समं देवि स्कन्दद्विपवदनपीतं स्तनयुगं
तवेदं नः खेदं हरतु सततं प्रस्नुतमुखम्।
यदालोक्याशङ्काकुलितहृदयो हासजनकः
स्वकुम्भौ हेरम्बःपरिभृशति हस्तेन झडिति॥७२॥
अमू ते वक्षोजावमृतरसमाणिक्यकुतुपौ
न संदेहस्पन्दो नगपतिपताके मनसि नः।
पिबन्तौ तौ यस्मादविदितवधूसङ्गरसिकौ
कुमारावद्यापि द्विरदवदनक्रौञ्चदलनौ॥७३॥
वहत्यम्ब स्तम्बेरमदनुजकुम्भप्रकृतिभिः
समारब्धां मुक्तामणिभिरमलां हारलतिकाम्।
कुचाभोगो बिम्बाधररुचिभिरन्तः शबलितां
प्रतापव्यामिश्रां पुरदमयितुः कीर्तिमिव ते॥७४ ॥
तव स्तन्यं मन्ये धरणिधरकन्ये हृदयतः
पयः पारावारःपरिवहति सारस्वतमिव।
दयावत्या दत्तं द्रविडशिशुरास्वाद्य तव य-
त्कवीनांप्रौढानामजनि कमनीयः कवयिता॥ ७५ ॥
हरक्रोधज्वालावलिभिरवलीढेन वपुषा
गभीरे ते नाभीसरसि कृतसङ्गो मनसिजः।
समुत्तस्थौ तस्मादचलतनये धूमलतिका
जनस्तां जानीते तव जननि रोमावलिरिति॥ ७६ ॥
यदेतत्कालिन्दीतनुतरतरङ्गाकृति शिवे
कृशे मध्ये किंचिज्जननि तव यद्भाति सुधियाम्।
विमर्दादन्योन्यं कुचकलशयोरन्तरगतं
तनूभूतं व्योम प्रविशदिव नाभिं कुहरिणीम्॥ ७७ ॥
स्थिरो गङ्गावर्तः स्तनमुकुलरोमावलिलता-
कलावालं कुण्डं कुसुमशरतेजोहुतभुजः।
रतेर्लीलागारं किमपि तव नाभिर्गिरिसुते
बिलद्वारं सिद्धेर्गिरिशनयनानां विजयते॥ ७८ ॥
निसर्गक्षीणस्य स्तनतटभरेण क्लमजुषो
नमन्मूर्तेर्नारीतिलक शनकैस्त्रुट्यत इव।
चिरं ते मध्यस्यत्रुटिततटिनीतीरतरुणां
समावस्थास्थेम्नो भवतु कुशलं शैलतनये॥ ७९ ॥
कुचौ सद्यः स्विद्यत्तटघटितकूर्पासभिदुरौ
कषन्तौ दोर्मूले कनककलशाभौ कलयता।
तव त्रातुं भङ्गादलमिति वलग्नं तनुभुवा
त्रिधा नद्धं देवि त्रिवलि लवलीवल्लिभिरिव॥ ८० ॥
गुरुत्वं विस्तारं क्षितिधरपतिः पार्वति निजा-
न्नितम्बादाच्छिद्य त्वयि हरणरूपेण निदधे।
अतस्ते विस्तीर्णो गुरुरयमशेषां वसुमतीं
नितम्बप्राग्भारः स्थगयति लघुत्वं नयति च॥ ८१ ॥
करीन्द्राणां शुण्डान्कनककदलीकाण्डपटली-
मुभाभ्यामूरुभ्यामुभयमपि निर्जित्य भवति।
सुवृत्ताभ्यां पत्युः प्रणतिकठिनाभ्यां गिरिसुते
विधिज्ञे जानुभ्यां विबुधकरिकुम्भद्वयमसि॥ ८२ ॥
पराजेतुं रुद्रं द्विगुणशरगर्भौ गिरिसुते
निषङ्गौ जङ्घे ते विषमविशिखो बाढमकृत।
यदग्रे दृश्यन्ते दशशरफलाःपादयुगली-
नखाग्रच्छद्मानः सुरमकुटशाणैकनिशिताः॥ ८३ ॥
श्रुतीनां मूर्धानो दधति तव यौ शेखरतया
ममाप्येतौ मातः शिरसि दयया धेहि चरणौ।
ययोः पाद्यं पाथः पशुपतिजटाजूटतटिनी
ययोर्लाक्षालक्ष्मीररुणहरिचूडामणिरुचिः॥ ८४ ॥
नमोवाकं ब्रूमो नयनरमणीयाय पदयो-
स्तवास्मै द्वन्द्वाय स्फुटरुचिरसालक्तकवते।
असूयत्यत्यन्तं यदभिहननाय स्पृहयते
पशूनामीशानः प्रमदवनङ्केलितरवे॥ ८५ ॥
मृषा कृत्वा गोत्रस्खलनमथ वैलक्ष्यनमितं
ललाटे भर्तारं चरणकमले ताडयति ते।
चिरादन्तःशल्यं दहनकृतमुन्मूलितवता
तुलाकोटिक्वाणैः किलिकिलितमीशानरिपुणा॥ ८६ ॥
हिमानीहन्तव्यं हिमगिरिनिवासैकचतुरौ
निशायां निद्राणं निशि चरमभागे च विशदौ।
वरं लक्ष्मीपात्रं श्रियमतिसृजन्तौ समयिनां
सरोजं त्वत्पादौ जननि जयतश्चित्रमिह किम्॥ ८७ ॥
पदं ते कीर्तीनां प्रपदमपदं देवि विपदां
कथं नीतं सद्भिः कठिनकमठीकर्परतुलाम्।
कथं वा बाहुभ्यामुपयमनकाले पुरभिदा
यदादाय न्यस्तं दृषदि दयमानेन मनसा॥ ८८ ॥
नखैर्नाकस्त्रीणां करकमलसंकोचशशिभि-
स्तरूणां दिव्यानां हसत इव ते चण्डि चरणौ।
फलानि स्वःस्थेभ्यःकिसलयकराग्रेण ददतां
दरिद्रेभ्यो भद्रां श्रियमनिशमह्नाय ददतौ॥८९ ॥
ददाने दीनेभ्यः श्रियमनिशमाशानुसदृशी-
ममन्दं सौन्दर्यप्रकरमकरन्दं विकिरति।
तवास्मिन्मन्दारस्तबकसुभगे यातु चरणे
निमज्जन्मज्जीवः करणचरणः षट्चरणताम्॥ ९० ॥
पदन्यासक्रीडापरिचयमिवारब्धुमनसः
स्खलन्तस्ते खेलं भवनकलहंसा न जहति।
अतस्तेषां शिक्षां सुभगमणिमञ्जीररणित-
च्छलादाचक्षाणं चरणकमलं चारुचरिते॥ ९१ ॥
गतास्ते मञ्चत्वं द्रुहिणहरिरुद्रेश्वरभृतः
शिवः स्वच्छच्छायाघटितकपटप्रच्छदपटः।
त्वदीयानां भासां प्रतिफलनरागारुणतया
शरीरी शृङ्गारो रस इव दृशां दोग्धि कुतुकम्॥ ९२ ॥
अराला केशेषु प्रकृतिसरला मन्दहसिते
शिरीषाभा चित्ते दृषदुपलशोभा कुचतटे।
भृशं तन्वी मध्ये पृथुरुरसिजारोहविषये
जगत्रातुं शंभोर्जयति करुणा काचिदरुणा॥ ९३ ॥
कलङ्कः कस्तूरी रजनिकरबिम्बं जलमयं
कलाभिः कर्पूरैर्मरकतकरण्डं निबिडितम्।
अतस्त्वद्भोगेन प्रतिदिनमिदं रिक्तकुहरं
विधिर्भूयो भूयो निबिडयति नूनं तव कृते॥ ९४ ॥
पुरारातेरन्तःपुरमसि ततस्त्वच्चरणयोः
सपर्यामर्यादा तरलकरणानामसुलभा।
तथा ह्येते नीताः शतमखमुखाः सिद्धिमतुलां
तव द्वारोपान्तस्थितिभिरणिमाद्याभिरमराः॥ ९५ ॥
कलत्रं वैधात्रं कतिकति भजन्ते न कवयः
श्रियो देव्याः को वा न भवति पतिः कैरपि धनैः
महादेवं हित्वा तव सति सतीनामचरमे
कुचाभ्यामासङ्गः कुरवकतरोरप्यसुलभः॥ ९६ ॥
गिरामाहुर्देवीं द्रुहिणगृहिणीमागमविदो
हरेःपत्नीं पद्मां हरसहचरीमद्रितनयाम्।
तुरीया कापि त्वं दुरधिगमनिःसीममहिमा
महामाया विश्वं भ्रमयसि परब्रह्ममहिषि॥ ९७ ॥
कदा काले मातः कथय कलितालक्तकरसं
पिबेयं विद्यार्थी तव चरणनिर्णेजनजलम्।
प्रकृत्या मूकानामपि च कविताकारणतया
कदा धत्ते वाणीमुखकमलताम्बूलरसताम्॥ ९८ ॥
सरस्वत्या लक्ष्म्या विधिहरिसपत्नो विहरते
रतेः पातिव्रत्यं शिथिलयति रम्येण वपुषा।
चिरं जीवन्नेव क्षपितपशुपाशव्यतिकरः
परानन्दाभिख्यं रसयति रसं त्वद्भजनवान्॥ ९९ ॥
प्रदीपज्वालाभिर्दिवसकरनीराजनविधिः
सुधासूतेश्चन्द्रोपलजललवैरर्घ्यरचना।
स्वकीयैरम्भोभिः सलिलनिधिसौहित्यकरणं
त्वदीयाभिर्वाग्भिस्तव जननि वाचां स्तुतिरियम्॥ १०० ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवतः कृतौ
सौन्दर्यलहरी संपूर्णा॥
<MISSING_FIG href="../books_images/U-IMG-1722705815Captureasdfghjkl.PNG"/>
॥ श्रीः॥
॥ देवीभुजंगस्तोत्रम् ॥
<MISSING_FIG href="../books_images/U-IMG-1722699136EBS_2.png"/>
विरिञ्च्यादिभिः पञ्चभिर्लोकपालैः
समूढे महानन्दपीठे निषण्णम्।
धनुर्बाणपाशाङ्कुशप्रोतहस्तं
महस्त्रैपुरं शंकराद्वैतमव्यात्॥ १ ॥
यदन्नादिभिः पञ्चभिः कोशजालैः
शिरःपक्षपुच्छात्मकैरन्तरन्तः।
निगूढे महायोगपीठे निषण्णं
पुरारेरथान्तःपुरं नौमि नित्यम्॥ २ ॥
विरिञ्चादिरूपैः प्रपञ्चे विहृत्य
स्वतन्त्रा यदा स्वात्मविश्रान्तिरेषा।
तदा मानमातृप्रमेयातिरिक्तं
परानन्दमीडे भवानि त्वदीयम्॥३॥
विनोदाय चैतन्यमेकं विभज्य
द्विधा देवि जीवः शिवश्चेति नाम्ना।
शिवस्यापि जीवत्वमापादयन्ती
पुनर्जीवमेनं शिवं वा करोषि॥ ४ ॥
समाकुञ्च्यमूलं हृदि न्यस्य वायुं
मनो भ्रूबिलं प्रापयित्वा निवृत्ताः।
ततः सच्चिदानन्दरूपे पदे ते
भवन्त्यम्ब जीवाः शिवत्वेन केचित्॥ ५॥
शरीरेऽतिकष्टे रिपौ पुत्रवर्गे
सदाभीतिमूले कलत्रे धने वा।
न कश्चिद्विरज्यत्यहो देवि चित्रं
कथं त्वत्कटाक्षंविना तत्त्वबोधः॥६॥
शरीरे धनेऽपत्यवर्गे कलत्रे
विरक्तस्य सद्देशिकादिष्टबुद्धेः।
यदाकस्मिकं ज्योतिरानन्दरूपं
समाधौ भवेत्तत्त्वमस्यम्ब सत्यम्॥ ७ ॥
मृषान्यो मृषान्यः परो मिश्रमेनं
परः प्राकृतं चापरो बुद्धिमात्रम्।
प्रपञ्चं मिमीते मुनीनां गणोऽयं
तदेतत्त्वमेवेति न त्वां जहीमः॥ ८ ॥
निवृत्तिः प्रतिष्ठा च विद्या च शान्ति-
स्तथा शान्त्यतीतेति पञ्चीकृताभिः।
कलाभिः परे पञ्चविंशात्मिकाभि-
स्त्वमेकैव सेव्या शिवाभिन्नरूपा॥९॥
अगाधेऽत्र संसारपङ्के निमग्नं
कलत्रादिभारेण खिन्नं नितान्तम्।
महामोहपाशौघबद्धं चिरान्मां
समुद्धर्तुमम्बत्वमेकैव शक्ता॥ १० ॥
समारभ्य मूलं गतो ब्रह्मचक्रं
भवद्दिव्यचक्रेश्वरीधामभाजः।
महासिद्धिसंघातकल्पद्रुमाभा-
नवाप्याम्ब नादानुपास्ते च योगी॥ ११ ॥
गणेशैर्ग्रहैरम्ब नक्षत्रपङ्क्त्या
तथा योगिनीराशिपीठैरभिन्नम्।
महाकालमात्मानमामृश्य लोकं
विधत्से कृतिं वा स्थितिं वा महेशि॥१२ ॥
लसत्तारहारामतिस्वच्छचेलां
वहन्तीं करे पुस्तकं चाक्षमालाम्।
शरच्चन्द्रकोटिप्रभाभासुरां त्वां
सकृद्भावयन्भारतीवल्लभः स्यात्॥ १३ ॥
समुद्यत्सहस्रार्कबिम्बाभवक्त्रां
स्वभासैव सिन्दूरिताजाण्डकोटिम्।
धनुर्बाणपाशाङ्कुशान्धारयन्तीं
स्मरन्तः स्मरं वापि संमोहयेयुः॥ १४ ॥
मणिस्यूतताटङ्कशोणास्यबिम्बां
हरित्पट्टवस्त्रां त्वगुल्लासिभूषाम्।
हृदा भावयंस्तप्तहेमप्रभां त्वां
श्रियो नाशयत्यम्ब चाञ्चल्यभावम्॥ १५ ॥
महामन्त्रराजान्तबीजं पराख्यं
स्वतो न्यस्तबिन्दु स्वयं न्यस्तहार्दम्।
भवद्वक्त्रक्षोजगुह्याभिधानं
स्वरूपं सकृद्भावयेत्स त्वमेव॥ १६ ॥
तथान्ये विकल्पेषु निर्विण्णचित्ता-
स्तदेकं समाधाय बिन्दुत्रयं ते।
परानन्दसंधानसिन्धौ निमग्नाः
पुनर्गर्भरन्ध्रं न पश्यन्ति धीराः॥ १७ ॥
त्वदुन्मेषलीलानुबन्धाधिकारा-
न्विरिञ्च्यादिकांस्त्वद्गुणाम्भोधिबिन्दून्।
भजन्तस्तितीर्षन्ति संसारसिन्धुं
शिवे तावकीना सुसंभावनेयम्॥ १८ ॥
कदा वा भवत्पादपोतेन तूर्णं
भवाम्भोधिमुत्तीर्य पूर्णान्तरङ्गः।
निमज्जन्तमेनं दुराशाविषाब्धौ
समालोक्य लोकं कथं पर्युदास्से॥ १९ ॥
कदा वा हृषीकाणि साम्यं भजेयुः
कदा वा न शत्रुर्न मित्रं भवानि।
कदा वा दुराशाविषूचीविलोपः
कदा वा मनो मे समूलं विनश्येत्॥ २० ॥
नमोवाकमाशास्महे देवि युष्म-
त्पदाम्भोजयुग्माय तिग्माय गौरि।
विरिञ्च्यादिभास्वत्किरीटप्रतोली-
प्रदीपायमानप्रभाभास्वराय॥२१॥
कचे चन्द्ररेखं कुचे तारहारं
करे स्वादुचापं शरे षट्पदौघम्।
स्मरामि स्मरारेरभिप्रायमेकं
मदाघूर्णनेत्रं मदीयं निधानम्॥ २२ ॥
शरेष्वेव नासा धनुष्वेव जिह्वा
जपापाटले लोचने ते स्वरूपे।
त्वगेषा भवच्चन्द्रखण्डे श्रवो मे
गुणे ते मनोवृत्तिरम्ब त्वयि स्यात्॥ २३ ॥
जगत्कर्मधीरान्वचोधूतकीरान्
कुचन्यस्तहारान्कृपासिन्धुपूरान्।
भवाम्भोधिपारान्महापापदूरान्
भजे वेदसाराञ्शिवप्रेमदारान्॥ २४ ॥
सुधासिन्धुसारे चिदानन्दनीरे
समुत्फुल्लनीपे सुरत्नान्तरीपे।
मणिव्यूहसाले स्थिते हैमशाले
मनोजारिवामे निषण्णं मनो मे॥ २५ ॥
दृगन्ते विलोला सुगन्धीषुमाला
प्रपञ्चेन्द्रजाला विपत्सिन्धुकूला।
मुनिस्वान्तशाला नमल्लोकपाला
हृदि प्रेमलीलामृतस्वादुलीला॥ २६ ॥
जगज्जालमेतत्त्वयैवाम्ब सृष्टं
त्वमेवाद्य यासीन्द्रियैरर्थजालम्।
त्वमेकैव कर्त्री त्वमेकैव भोक्त्री
न मे पुण्यपापे न मे बन्धमोक्षौ॥ २७ ॥
इति प्रेमभारेण किञ्चिन्मयोक्तं
न बुध्वैव तत्त्वं मदीयं त्वदीयम।
विनोदाय बालस्य मौर्ख्यंहि मात-
स्तदेतत्प्रलापस्तुतिं मे गृहाण॥२८ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्द भगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवतः कृतौ
देवी भुजंगस्तोत्रम् संपूर्णम् ॥
<MISSING_FIG href="../books_images/U-IMG-1722728035flow.PNG"/>
॥ श्रीः॥
॥ आनन्दलहरी
॥
<MISSING_FIG href="../books_images/U-IMG-1722728262line.PNG"/>
भवानि स्तोतुं त्वां प्रभवति चतुर्भिर्न वदनैः
प्रजानामीशानस्त्रिपुरमथनः पञ्चभिरपि।
न षड्भिः सेनानीर्दशशतमुखैरप्यहिपति-
स्तदान्येषां केषां कथय कथमस्मिन्नवसरः ॥ १ ॥
घृतक्षीरद्राक्षामधुमधुरिमा कैरपि पदै-
र्विशिष्यानाख्येयो भवति रसनामात्रविषयः।
तथा ते सौन्दर्यं परमशिवदृङ्मात्रविषयः
कथंकारं ब्रूमः सकलनिगमागोचरगुणे ॥ २ ॥
मुखे ते ताम्बूलं नयनयुगले कज्जलकला
ललाटे काश्मीरं विलसति गले मौक्तिकलता।
स्फुरत्काञ्ची शाटी पृथुकटितटे हाटकमयी
भजामि त्वां गौरीं नगपतिकिशोरीमविरतम् ॥ ३ ॥
विराजन्मन्दारद्रुमकुसुमहारस्तनतटी-
नदद्वीणानादश्रवणविलसत्कुण्डलगुणा।
नताङ्गी मातङ्गी रुचिरगतिभङ्गी भगवती
सती शंभोरम्भोरुहचटुलचक्षुर्विजयते॥४॥
नवीनार्कभ्राजन्मणिकनकभूषापरिकरै-
र्वृताङ्गी सारङ्गीरुचिरनयनाङ्गीकृतशिवा।
तटित्पीता पीताम्बरललितमञ्जीरसुभगा
ममापर्णा पूर्णा निरवधिसुखैरस्तु सुमुखी॥५॥
हिमाद्रेः संभूता सुललितकरैः पल्लवयुता
सुपुष्पा मुक्ताभिर्भ्रमरकलिता चालकभरैः।
कृतस्थाणुस्थाना कुचफलनता सूक्तिसरसा
रुजां हन्त्री गन्त्रीविलसति चिदानन्दलतिका॥६॥
सपर्णामाकीर्णांकतिपयगुणैः सादरमिह
श्रयन्त्यन्ये वल्लीं मम तु मतिरेवं विलसति।
अपर्णैका सेव्या जगति सकलैर्यत्परिवृतः
पुराणोऽपि स्थाणुः फलति किल कैवल्यपदवीम्॥ ७ ॥
विधात्री धर्माणां त्वमसि सकलाम्नायजननी
त्वमर्थानां मूलं धनदनमनीयाङ्घ्रिकमले।
त्वमादिः कामानां जननि कृतकन्दर्पविजये
सतां मुक्तेर्बीजं त्वमसि परमब्रह्ममहिषी॥ ८ ॥
प्रभूता भक्तिस्ते यदपि न ममालोलमनस-
स्त्वया तु श्रीमत्या सदयमवलोक्योऽहमधुना।
पयोदः पानीयं दिशति मधुरं चातकमुखे
भृशं शङ्के कैर्वा विधिभिरनुनीता मम मतिः॥ ९ ॥
कृपापाङ्गालोकं वितर तरसा साधुचरिते
न ते युक्तोपेक्षा मयि शरणदीक्षामुपगते।
न चेदिष्टं दद्यादनुपदमहो कल्पलतिका
विशेषः सामान्यैः कथमितरवल्लीपरिकरैः॥ १० ॥
महान्तं विश्वासं तव चरणपङ्केरुहयुगे
निधायान्यन्नैवाश्रितमिह मया दैवतमुमे।
तथापि त्वच्चेतो यदि मयि न जायेत सदयं
निरालम्बो लम्बोदरजननि कं यामि शरणम्॥ ११ ॥
अयः स्पर्शे लग्नं सपदि लभते हेमपदवीं
यथा रथ्यापाथः शुचि भवति गङ्गौघमिलितम्।
तथा तत्तत्पापैरतिमलिनमन्तर्मम यदि
त्वयि प्रेम्णा सक्तं कथमिव न जायेत विमलम्॥ १२ ॥
त्वदन्यस्मादिच्छाविषयफललाभे न नियम-
स्त्वमज्ञानामिच्छाधिकमपि समर्था वितरणे।
इति प्राहुः प्राञ्चः कमलभवनाद्यास्त्वयि मन-
स्त्वदासक्तं नक्तंदिवमुचितमीशानि कुरु तत्॥ १३ ॥
स्फुरन्नानारत्नस्फटिकमयभित्तिप्रतिफल-
त्त्वदाकारं चञ्चच्छशधरकलासौधशिखरम्।
मुकुन्दब्रह्मेन्द्रप्रभृतिपरिवारं विजयते
तवागारं रम्यं त्रिभुवनमहाराजगृहिणि॥ १४ ॥
निवासः कैलासे विधिशतमखाद्याः स्तुतिकराः
कुटुम्बं त्रैलोक्यं कृतकरपुटः सिद्धिनिकरः।
महेशः प्राणेशस्तदवनिधराधीशतनये
न ते सौभाग्यस्य क्वचिदपि मनागस्ति तुलना॥ १५ ॥
वृषो वृद्धो यानं विषमशनमाशा निवसनं
श्मशानं क्रीडाभूर्भुजगनिवहो भूषणविधिः।
समग्रा सामग्री जगति विदितैव स्मररिपो-
र्यदेतस्यैश्वर्यं तव जननि सौभाग्यमहिमा॥१६ ॥
अशेषब्रह्माण्डप्रलयविधिनैसर्गिकमतिः
श्मशानेष्वासीनः कृतभसितलेपः पशुपतिः।
दधौ कण्ठे हालाहलमखिलभूगोलकृपया
भवत्याः संगत्याः फलमिति च कल्याणि कलये॥ १७ ॥
त्वदीयं सौन्दर्यं निरतिशयमालोक्य परया
भियैवासीद्गङ्गा जलमयतनुः शैलतनये।
तदेतस्यास्तस्माद्वदनकमलं वीक्ष्य कृपया
प्रतिष्ठामातन्वन्निजशिरसि वासेन गिरिशः॥ १८ ॥
विशालश्रीखण्डद्रवमृगमदाकीर्णघुसृण-
प्रसूनव्यामिश्रं भगवति तवाभ्यङ्गसलिलम्।
समादाय स्रष्टा चलितपदपांसून्निजकरैः
समाधत्ते सृष्टिं विबुधपुरपङ्केरुहदृशाम्॥ १९ ॥
वसन्ते सानन्दे कुसुमितलताभिः परिवृते
स्फुरन्नानापद्मे सरसि कलहंसालिसुभगे।
सखीभिःखेलन्तीं मलयपवनान्दोलितजले
स्मरेद्यस्त्वां तस्य ज्वरजनितपीडापसरति॥ २० ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवतः कृतौ
आनन्दलहरी संपूर्णा॥
** <MISSING_FIG href="../books_images/U-IMG-1722827945Capt1.PNG"/>**
॥ श्रीः॥
॥ त्रिपुरसुन्दरीवेदपादस्तोत्रम् ॥
<MISSING_FIG href="../books_images/U-IMG-1722828095Capture12.PNG"/>
वेदपादस्तवं वक्ष्ये देव्याः प्रियचिकीर्षया।
यथामति मतिं देवस्तन्नो दन्तिः प्रचोदयात्॥ १ ॥
अकिंचित्करकर्मभ्यः प्रत्याहृत्य कृपावशात्।
सुब्रह्मण्यः स्तुतावस्यां तन्नः षण्मुखः प्रचोदयात्॥ २ ॥
अकारादिक्षकारान्तवर्णावयवशालिनी।
वीणापुस्तकहस्ताव्यात्प्रणो देवी सरस्वती॥ ३ ॥
या वर्णपदवाक्यार्थगद्यपद्यस्वरूपिणी।
वाचि नर्तयतु क्षिप्रं मेधां देवी सरस्वती॥४ ॥
उपास्यमाना विप्रेन्द्रैः सन्ध्यासु च तिसृष्वपि।
सद्यः प्रसीद मे मातः सन्ध्याविद्ये सरस्वती॥ ५ ॥
मन्दा निन्दालोलुपाहं स्वभावा-
देतत्स्तोत्रं पूर्यते किं मयेति।
मा ते भीतिर्हे मते त्वादृशाना-
मेषा नेत्री राधसा सूनृतानाम्॥ ६ ॥
तरङ्गभ्रुकुटीकोटिभङ्ग्या तर्जयते जराम्।
सुधामयाय शुभ्राय सिन्धूनां पतये नमः॥ ७ ॥
तस्य मध्ये मणिद्वीपः कल्पकारामभूषितः।
अस्तु मे ललितावासः स्वस्तिदा अभयंकरः॥ ८ ॥
कदम्बमञ्जरीनिर्यद्वारुणीपारणोन्मदैः।
द्विरेफैर्वर्णनीयाय वनानां पतये नमः॥ ९ ॥
तत्र वप्रावली लीला गगनोल्लङ्घिगोपुरम्।
मातः कौतूहलं दद्यात्सँहार्यं नगरं तव॥ १० ॥
मकरन्दझरीमज्जन्मिलिन्दकुलसंकुलाम्।
महापद्माटवीं वन्दे यशसा संपरीवृताम्॥ ११ ॥
तत्रैव चिन्तामणिधोरणार्चिभि-
र्विनिर्मितं रोपितरत्नशृङ्गम्।
भजे भवानीभवनावतंस -
मादित्यवर्णं तमसः परस्तात्॥ १२ ॥
मुनिभिः स्वात्मलाभाय यच्चक्रं हृदि सेव्यते।
तत्र पश्यामि बुद्ध्या तदक्षरे परमे व्योमन्॥ १३॥
पञ्चब्रह्ममयो मञ्चस्तत्र यो बिन्दुमध्यगः।
तव कामेशि वासोऽयमायुष्मन्तं करोतु माम्॥ १४ ॥
नानारत्नगुलुच्छालीकान्तिकिम्मीलितोदरम्।
विमृशामि वितानं तेऽतिश्लक्ष्णमतिलोमशम्॥१५॥
पर्यङ्कतल्पोपरि दर्शनीयं
सबाणचापाङ्कुशपाशपाणिम्।
अशेषभूषारमणीयमीडे
त्रिलोचनं नीलकण्ठं प्रशान्तम्॥ १६ ॥
जटारुणं चन्द्रकलाललामं
उद्वेललावण्यकलाभिरामम्।
कामेश्वरं कामशरासनाङ्कं
समस्तसाक्षिं तमसः परस्तात्॥१७॥
तत्र कामेशवामाङ्के खेलन्तीमलिकुन्तलाम्।
सच्चिदानन्दलहरीं महालक्ष्मीमुपास्महे॥ १८ ॥
चारुगोरोचनापङ्कजम्बालितघनस्तनीम्।
नमामि त्वामहं लोकमातरं पद्ममालिनीम्॥ १९ ॥
शिवे नमन्निर्जरकुञ्जरासुर-
प्रतोलिकामौलिमरीचिवीचिभिः।
इदं तव क्षालनजातसौभगं
चरणं नो लोके सुधितां दधातु॥ २० ॥
कल्पस्यादौ कारणेशानपि त्री-
न्स्रष्टुं देवि त्रीन्गुणानादधानाम्।
सेवे नित्यं श्रेयसे भूयसे त्वा-
मजामेकां लोहितशुक्लकृष्णाम्॥२१॥
केशोद्भूतैरद्भुतामोदपूरै-
राशाबृन्दं सान्द्रमापूरयन्तीम्।
त्वामानम्य त्वत्प्रसादात्स्वयंभू-
रस्मान्मायी सृजते विश्वमेतत्॥२२॥
अर्धोन्मीलद्यौवनोद्दामदर्पां
दिव्याकल्पैरर्पयन्तीं मयूखान्।
देवि ध्यात्वा त्वां पुरा कैटभारि-
र्विश्वं बिभर्ति भुवनस्य नाभिः॥ २३ ॥
कल्हारश्रीमञ्जरीपुञ्जरीतिं
धिक्कुर्वन्तीमम्ब ते पाटलिम्ना।
मूर्तिं ध्यात्वा शाश्वतीं भूतिमाय-
न्निन्द्रो राजा जगतो य ईशे॥ २४ ॥
देवतान्तरमन्त्रौघजपश्रीफलभूतया।
जापकस्तव देव्यन्ते विद्यया विन्दतेऽमृतम्॥ २५ ॥
पुंस्कोकिलकलक्वाणकोमलालापशालिनि।
भद्राणि कुरु मे मातर्दुरितानि परासुव॥ २६ ॥
अन्तेवासिन्नस्ति चेत्ते मुमुक्षा
वक्ष्ये युक्तिं मुक्तसर्वैषणः सन्।
सद्भ्यः साक्षात्सुन्दरीं ज्ञप्तिरूपां
श्रद्धाभक्तिध्यानयोगादवेहि॥ २७ ॥
षोढान्यासादिदेवैश्च सेविता चक्रमध्यगा।
कामेशमहिषी भूयः षोडशी शर्म यच्छतु॥ २८ ॥
शान्तो दान्तो देशिकेन्द्रं प्रणम्य
तस्यादेशात्तारकं मन्त्रतत्त्वम्।
जानीते चेदम्ब धन्यः समानं
नातः परं वेदितव्यं हि किंचित्॥ २९ ॥
त्वमेव कारणं कार्यं क्रिया ज्ञानं त्वमेव च।
त्वामम्ब न विना किंचित्त्वयि सर्वंप्रतिष्ठितम्॥ ३० ॥
परागमद्रीन्द्रसुते तवाङ्घ्रि-
सरोजयोरम्ब दधामि मूर्ध्ना।
अलंकृतं वेदवधूशिरोभि-
र्यतो जातो भुवनानि विश्वा॥ ३१ ॥
दुष्टान्दैत्यान्हन्तुकामां महर्षी-
न्शिष्टानन्यान्पातुकामां कराब्जैः।
अष्टाभिस्त्वां सायुधैर्भासमानां
दुर्गां देवीँ शरणमहं प्रपद्ये॥ ३२ ॥
देवि सर्वानवद्याङ्गि त्वामनादृत्य ये क्रियाः।
कुर्वन्ति निष्फलास्तेषामदुग्धा इव धेनवः॥३३॥
नाहं मन्ये दैवतं मान्यमन्य-
त्त्वत्पादाब्जादम्बिके कुम्भजाद्याः।
ये ध्यातारो भक्तिसंशुद्धचित्ताः
परामृतात्परिमुच्यन्ति सर्वे॥ ३४ ॥
कुर्वाणोऽपि दुरारम्भांस्तव नामानि शांभवि।
प्रजपन्नेति मायान्तमति मृत्युं तराम्यहम्॥३५ ॥
कल्याणि त्वं कुन्दहासप्रकाशै-
रन्तर्ध्वान्तं नाशयन्ती क्षणेन।
हन्तास्माकं ध्यायतां त्वत्पदाब्ज-
मुच्चतिष्ठ महते सौभगाय॥ ३६ ॥
तितीर्षया भवाम्भोधेर्हयग्रीवादयः पुरा।
अप्रमत्ता भवत्पूजां सुविद्वाँसो वितेनिरे॥ ३७ ॥
मद्वश्या ये दुराचारा ये च सन्मार्गगामिनः।
भवत्याः कृपया सर्वे सुवर्यन्तु यजमानाः॥३८॥
श्रीचक्रस्थां शाश्वतैश्वर्यदात्रीं
पौण्ड्रं चापं पुष्पबाणान्दधानाम्।
बन्धूकाभां भावयामि त्रिनेत्रां
तामग्निवर्णांतपसा ज्वलन्तीम्॥ ३९ ॥
भवानि तव पादाब्जनिर्णेजनपवित्रताः।
भवामयप्रशान्त्यै त्वामपो याचामि भेषजम्॥ ४० ॥
चिदानन्दसुधाम्भोधेस्तवानन्दलवोऽस्ति यः।
कारणेशैस्त्रिभिः साकं तद्विश्वमुपजीवति॥ ४१ ॥
नो वा यागैर्नैव पूर्तादिकृत्यै-
र्नो वा जप्यैर्नो महद्भिस्तपोभिः।
नो वा योगैः क्लेशकृद्भिः सुमेधा
निचाय्येमां शान्तिमत्यन्तमेति॥ ४२ ॥
प्रातः पाहि महाविद्ये मध्याह्ने तु मृडप्रिये।
सायं पाहि जगद्वन्द्ये पुनर्नः पाहि विश्वतः॥ ४३ ॥
बन्धूकाभैर्भानुभिर्भासयन्ती
विश्वं शश्वत्तुङ्गपीनस्तनार्धा।
लावण्याब्धेः सुन्दरि त्वं प्रसादा-
दायुः प्रजाँरयिमस्मासु धेहि॥ ४४ ॥
कर्णाकर्णय मे तत्त्वं या चिच्छक्तिरितीर्यते।
त्रिर्वदामि मुमुक्षूणां सा काष्ठा सा परा गतिः॥ ४५ ॥
वाग्देवीति त्वां वदन्त्यम्ब केचि-
ल्लक्ष्मीर्गौरीत्येवमन्येऽप्युशन्ति।
शश्वन्मातः प्रत्यगद्वैतरूपां
शंसन्ति केचिन्निविदो जनाः॥४६ ॥
ललितेति सुधापूरमाधुरीचोरमम्बिके।
तव नामास्ति यत्तेन जिह्वा मेमधुमत्तमा॥४७ ॥
ये संपन्नाः साधनैस्तैश्चतुर्भिः
शुश्रूषाभिर्देशिकं प्रीणयन्ति।
सम्यग्विद्वाञ्शुद्धसत्त्वान्तराणां
तेषामेवैतां ब्रह्मविद्यां वदेत॥ ४८ ॥
अभिचारादिभिः कृत्यां यः प्रेरयति मय्युमे।
तव हुंकारसंत्रस्ता प्रत्यक्कर्तारमृच्छतु॥४९॥
जगत्पवित्रि मामिकामपाहराशु दुर्जराम्।
प्रसीद मे दयाधुने प्रशस्तिमम्ब नः स्कृधि॥५० ॥
कदम्बारुणमम्बाया रूपं चिन्तय चित्त मे।
मुञ्च पापीयसीं निष्ठां मा गृधः कस्य स्विद्धनम्॥ ५१ ॥
भण्डभण्डनलीलायां रक्तचन्दनपङ्किलः।
अङ्कुशस्तव तं हन्याद्यश्च नो द्वेषते जनः॥ ५२ ॥
रे रे चित्त त्वं वृधाशोकसिन्धौ
मज्जस्यन्तर्वच्म्युपायं विमुक्त्यै।
देव्याः पादौ पूजयैकाक्षरेण
तत्तेपदं संग्रहेण ब्रवीम्योम्॥ ५३ ॥
चञ्चद्बालातपज्योत्स्नाकलामण्डलशालिने।
ऐक्षवाय नमो मातर्बाहुभ्यां तव धन्वने॥ ५४ ॥
तामेवाद्यां ब्रह्मविद्यामुपासे
मूर्तैर्वेदैः स्तूयमानां भवानीम्।
हन्त स्वात्मत्वेन यां मुक्तिकामो
मत्वा धीरो हर्षशोकौ जहाति॥ ५५ ॥
शरणं करवाण्यम्ब चरणं तव सुन्दरि।
शपे त्वत्पादुकाभ्यां मे नान्यः पन्था अयनाय॥ ५६ ॥
रत्नच्छत्रैश्चामरैर्दर्पणाद्यै-
श्चक्रेशानीं सर्वदोपाचरन्त्यः।
योगिन्योऽन्याः शक्तयश्चाणिमाद्या
यूयं पातः स्वस्तिभिः सदा नः॥ ५७ ॥
दरिद्रं मां विजानीहि सर्वज्ञासि यतः शिवे।
दूरीकृत्याशु दुरितमथा नो वर्धया रयिम्॥ ५८ ॥
महेश्वरि महामन्त्रकूटत्रयकलेबरे।
कादिविद्याक्षरश्रेणिमुशन्तस्त्वा हवामहे॥ ५९ ॥
मूलाधारादूर्ध्वमन्तश्चरन्तीं
भित्त्वा ग्रन्थीन्मूर्ध्नि निर्यत्सुधार्द्राम्।
पश्यन्तस्त्वां ये च तृप्तिं लभन्ते
तेषां शान्तिः शाश्वती नेतरेषाम्॥ ६० ॥
मह्यं द्रुह्यन्ति ये मातस्त्वद्ध्यानासक्तचेतसे।
तानम्ब सायकैरेभिरव ब्रह्मद्विषो जहि॥ ६१ ॥
त्वद्भक्तानामम्ब शान्तैषणानां
ब्रह्मिष्ठानां दृष्टिपातेन पूतः।
पापीयानप्यावृतः स्वर्वधूभिः
शोकातिगो मोदते स्वर्गलोके॥ ६२ ॥
सन्तु विद्या जगत्यस्मिन्संसारभ्रमहेतवः।
भजेऽहं त्वां यया विद्वान्विद्ययामृतमश्नुते॥ ६३ ॥
विद्वन्मुख्यैर्विद्रुमाभं विशाल-
श्रोणीशिञ्जन्मेखलाकिङ्किणीकम्।
चन्द्रोत्तंसं चिन्मयं वस्तु किंचि-
द्विद्धि त्वमेतन्निहितं गुहायाम्॥ ६४ ॥
न विस्मरामि चिन्मूर्तिभिक्षुकोदण्डशालिनीम्।
मुनयः सनकप्रेष्ठास्तामाहुः परमां गतिम्॥ ६५॥
चक्षुः प्रेङ्खत्प्रेमकारुण्यधारां
हंसज्योत्स्नापूरहृष्यच्चकोराम्।
यामाश्लिष्यन्मोदते देवदेवः
सा नो देवी सुहवा शर्म यच्छतु॥६६॥
मुञ्च वञ्चकतां चित्त पामरं चापि दैवतम्।
गृहाण पदमम्बाया एतदालम्बनं परम्॥ ६७ ॥
का मे भीतिः का क्षतिः किं दुरापं
कामेशाङ्कोत्तुङ्गपर्यङ्कसंस्थाम्।
तत्त्वातीतामच्युतानन्ददात्रीं
देवीमहं निर्ऋतिं वन्दमानः॥ ६८ ॥
चिन्तामणिमयोत्तंसकान्तिकञ्चुकितानने।
ललिते त्वां सकृन्नत्वा न बिभेति कुतश्चन॥ ६९ ॥
तारुण्योत्तुङ्गितकुचे लावण्योल्लासितेक्षणे।
तवाज्ञयैव कामाद्या मास्मान्प्रापन्नरातयः॥ ७० ॥
आकर्णाकृष्टकामास्त्रसंजातं तापमम्ब मे।
आचामतु कटाक्षस्ते पर्जन्यो वृष्टिमानिव॥ ७१ ॥
कुर्वे गर्वेणापचारानपारा-
न्यद्यप्यम्ब त्वत्पदाब्जं तथापि।
मन्ये धन्ये देवि विद्यावलम्बं
मातेव पुत्रं बिभृतास्वेनम्॥ ७२ ॥
यथोपास्तिक्षतिर्न स्यात्तव चक्रस्य सुन्दरि।
कृपया कुरु कल्याणि तथा मे स्वस्तिरायुषी॥ ७३ ॥
चक्रं सेवे तारकं सर्वसिध्यै
श्रीमन्मातः सिद्धयश्चाणिमाद्याः।
नित्या मुद्रा शक्तयश्चाङ्गदेव्यो
यस्मिन्देवा अधि विश्वे निषेदुः॥ ७४ ॥
सुकुमारे सुखाकारे सुनेत्रे सूक्ष्ममध्यमे।
सुप्रसन्ना भव शिवे सुमृडीका सरस्वती॥ ७५ ॥
विद्युद्वल्लीकन्दलीं कल्पयन्तीं
मूर्तिं स्फूर्त्या पङ्कजं धारयन्तीम्।
ध्यायन्हि त्वां जायते सार्वभौमो
विश्वा आशाः पृतनाःसंजयञ्जयन्॥ ७६ ॥
अविज्ञाय परां शक्तिमात्मभूतां महेश्वरीम्।
अहो पतन्ति निरयेष्वेके चात्महनो जनाः॥ ७७ ॥
सिन्दूराभैः सुन्दरैरंशुबृन्दै -
र्लाक्षालक्ष्म्यां मज्जयन्तीं जगन्ति।
हेरम्बाम्ब त्वां हृदा लम्बते य-
स्तस्मै विशःस्वयमेवानमन्ते॥ ७८ ॥
तव तत्त्वंविमृशतां प्रत्यगद्वैतलक्षणम्।
चिदानन्दघनादन्यन्नेह नानास्ति किंचन॥ ७९ ॥
कण्ठात्कुण्डलिनीं नीत्वा सहस्रारं शिवे तव।
न पुनर्जायते गर्भे सुमेधा अमृतोक्षितः॥८० ॥
त्वत्पादुकानुसंधानप्राप्तसर्वात्मतादृशि।
पूर्णाहंकृतिमत्यस्मिन्न कर्म लिप्यते नरे॥ ८१ ॥
तवानुग्रहनिर्भिन्नहृदयग्रन्थिरद्रिजे।
स्वात्मत्वेन जगन्मत्वा ततो न विजुगुप्सते॥ ८२ ॥
कदा वसुदलोपेते त्रिकोणनवकान्विते।
आवाहयामि चक्रे त्वां सूर्याभां श्रियमैश्वरीम्॥ ८३ ॥
ह्रीमित्येकं तावकं वाचकार्णं
यज्जिह्वाग्रे देवि जागर्ति किंचित्।
को वायं स्यात्कामकामस्त्रिलोक्यां
सर्वेऽस्मै देवा बलिमावहन्ति॥ ८४ ॥
नाकस्त्रीणां किन्नरीणां नृपाणा-
मप्याकर्षी चेतसा चिन्तनीयम्।
त्वत्पाणिस्थं कुङ्कुमाभं शिवे यं
द्विष्मस्तस्मिन्प्रति मुञ्चामि पाशम्॥८५ ॥
नूनं सिंहासनेश्वर्यास्तवाज्ञां शिरसा वहन्।
भयेन पवमानोऽयं सर्वा दिशोऽनुविधावति॥ ८६ ॥
त्रिकलाढ्यां त्रिहृल्लेखां द्विहंसस्वरभूषिताम्।
यो जपत्यम्ब ते विद्यां सोऽक्षरः परमः स्वराट्॥ ८७ ॥
दारिद्र्याब्धौ देवि मग्नोऽपि शश्व-
द्वाचा याचे नाहमम्ब त्वदन्यम्।
तस्मादस्मद्वाञ्छितं पूरयैत-
दुषा सा नक्ता सुदुघेव धेनुः॥ ८८ ॥
यो वा यद्यत्कामनाकृष्टचित्तः
स्तुत्वोपास्ते देवि ते चक्रविद्याम्।
कल्याणानामालयः कालयोगा-
त्तंतं लोकं जयते तांश्च कामान्॥ ८९ ॥
साधकः सततं कुर्यादैक्यं श्रीचक्रदेहयोः।
तथा देव्यात्मनोरैक्यमेतावदनुशासनम्॥ ९० ॥
हस्ताम्भोजप्रोल्लसच्चामराभ्यां
श्रीवाणीभ्यां पार्श्वयोर्वीज्यमानाम्।
श्रीसंम्राज्ञि त्वां सदालोकयेयं
सदा सद्भिः सेव्यमानां निगूढाम्॥९१॥
इष्टानिष्टप्राप्तिविच्छित्तिहेतुः
स्तोतुं वाचां क्लृप्तिरित्येव मन्ये।
त्वद्रूपं हि स्वानुभूत्यैकवेद्यं
न चक्षुषा गृह्यते नापि वाचा॥९२॥
हरस्वरैश्चतुर्वर्गपदं मन्त्रं सबिन्दुकम्।
देव्या जपत विप्रेन्द्रा अन्या वाचो विमुञ्चथ॥९३॥
यस्तेराकाचन्द्रबिम्बासनस्थां
पीयूषाब्धिं कल्पयन्तीं मयूखैः।
मूर्तिं भक्त्या ध्यायते हृत्सरोजे
न तस्य रोगो न जरा न मृत्युः॥ ९४ ॥
तुभ्यं मातर्योऽञ्जलिं मूर्ध्नि धत्ते
मौलिश्रेण्या भूभुजस्तं नमन्ति।
यः स्तौति त्वामम्ब चिद्वल्लिवाचा
तं धीरासः कवय उन्नयन्ति॥९५॥
वैरिञ्चोघैर्विष्णुरुद्रेन्द्रबृन्दै-
र्दुर्गाकालीभैरवीशक्तिसंघैः।
यन्त्रोशि त्वं वर्तसे स्तूयमाना
न तत्र सूर्यो भाति न चन्द्रतारकम्॥ ९६ ॥
भूत्यै भवानि त्वां वन्दे सुराः शतमखादयः।
त्वामानम्य समृद्धाः स्युरायो धामानि दिव्यानि॥ ९७॥
पुष्पवत्पुल्लताटङ्कां प्रातरादित्यपाटलाम्।
यस्त्वामन्तः स्मरत्यम्ब तस्य देवा असन्वशे॥ ९८ ॥
वश्ये विद्रुमसंकाशां विद्यायां विशदप्रभाम्।
त्वामम्ब भावयेद्भूत्यै सुवर्णांहेममालिनीम्॥ ९९ ॥
वामाङ्कस्थामीशितुर्दीप्यमानां
भूषाबृन्दैरिन्दुरेखावतंसाम्।
यस्त्वां पश्यन्संततं नैव तृप्तः
तस्मै च देवि वषडस्तु तुभ्यम्॥ १०० ॥
नवनीपवनीवासलालसोत्तरमानसे।
शृङ्गारदेवते मातः श्रियं वासय मे कुले॥ १०१ ॥
भक्त्याभक्त्या वापि पद्यावसान-
श्रुत्या स्तुत्या चैतया स्तौति यस्त्वाम्।
तस्य क्षिप्रं त्वत्प्रसादेन मातः
सत्याः सन्तु यजमानस्य कामाः॥ १०२ ॥
बालिशेन मया प्रोक्तमपि वात्सल्यशालिनोः।
आनन्दमादिदपत्योरिमा वर्धन्तु वाङ्गिरः॥ १०३ ॥
माधुरीसौरभावासचापसायकधारिणीम्।
देवीं ध्यायन्पठेदेतत्सर्वकामार्थसिद्धये॥ १०४ ॥
स्तोत्रमेतत्प्रजपतस्तव त्रिपुरसुन्दरि।
अनुद्वीक्ष्य भयाद्दूरं मृत्युर्धावति पञ्चमः॥ १०५ ॥
यः पठति स्तुतिमेतां
विद्यावन्तं तमम्ब धनवन्तम्।
कुरु देवि यशस्वन्तं
वर्चस्वन्तं मनुष्येषु॥ १०६ ॥
ये शृण्वन्ति स्तुतिमिमां तव देव्यनसूयकाः।
तेभ्यो देहि श्रियं विद्यामुद्वर्च उत्तनूबलम्॥ १०७ ॥
त्वामेवाहं स्तौमि नित्यं प्रणौमि
श्रीविद्येशां वच्मि संचिन्तयामि।
अध्यास्ते या विश्वमाता विराजो
हृत्पुण्डरीकं विरजं विशुद्धम्॥ १०८ ॥
शंकरेण रचितं स्तवोत्तमं
यः पठेज्जगति भक्तिमान्नरः।
तस्य सिद्धिरतुला भवेद्ध्रुवा
सुन्दरी च सततं प्रसीदति॥ १०९ ॥
यत्रैव यत्रैव मनो मदीयं
तत्रैव तत्रैव तव स्वरूपम्।
यत्रैव यत्रैव शिरो मदीयं
तत्रैव तत्रैव पदद्वयं ते॥ ११० ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवतः कृतौ
त्रिपुरसुन्दरीवेदपादस्तोत्रं
संपूर्णम्॥
** <MISSING_FIG href="../books_images/U-IMG-1722833265Captur5.PNG"/>**
॥ श्रीः॥
॥ त्रिपुरसुन्दरीमानसपूजास्तोत्रम् ॥
<MISSING_FIG href="../books_images/U-IMG-1722833368Capture12.PNG"/>
मम न भजनशक्तिः पादयोस्ते न भक्ति-
र्न च विषयविरक्तिर्ध्यानयोगे न सक्तिः।
इति मनसि सदाहं चिन्तयन्नाद्यशक्ते
रुचिरवचनपुष्पैरर्चनं संचिनोमि॥ १ ॥
व्याप्तं हाटकविग्रहैर्जलचरैरारूढदेवव्रजैः
पोतैराकुलितान्तरं मणिधरैर्भूमीधरैर्भूषितम्।
आरक्तामृतसिन्धुमुद्धुरचलद्वीचीचयव्याकुल-
व्योमानं परिचिन्त्य संततमहो चेतः कृतार्थीभव॥२॥
तस्मिन्नुज्ज्वलरत्नजालविलसत्कान्तिच्छटाभिः स्फुटं
कुर्वाणं वियदिन्द्रचापनिचयैराच्छादितं सर्वतः।
उच्चैः शृङ्गनिषण्णदिव्यवनिताबृन्दाननप्रोल्लस-
द्गीताकर्णननिश्चलाखिलमृगं द्वीपं नमस्कुर्महे॥ ३ ॥
जातीचम्पकपाटलादिसुमनःसौरभ्यसंभावितं
ह्रींकारध्वनिकण्ठकोकिलकुहूप्रोल्लासिचूतद्रुमम्।
आविर्भूतसुगन्धिचन्दनवनं दृष्टिप्रियं नन्दनं
चञ्चच्चञ्चलचञ्चरीकचटुलं चेतश्चिरं चिन्तय॥ ४ ॥
परिपतितपरागैः पाटलक्षोणिभागो
विकसितकुसुमोच्चैः पीतचन्द्रार्करश्मिः।
अलिशुकपिकराजीकूजितैः श्रोत्रहारी
स्फुरतु हृदि मदीये नूनमुद्यानराजः॥५॥
रम्यद्वारपुरप्रचारतमसां संहारकारिप्रभ
स्फूर्जत्तोरणभारहारकमहाविस्तारहारद्युते।
क्षोणीमण्डलहेमहारविलसत्संसारपारप्रद
प्रोद्यद्भक्तमनोविहार कनकप्राकार तुभ्यं नमः॥ ६ ॥
उद्यत्कान्तिकलापकल्पितनभःस्फूर्जद्वितानप्रभः
सत्कृष्णागरुधूपवासितवियत्काष्ठान्तरे विश्रुतः।
सेवायातसमस्तदैवतगणैरासेव्यमानोऽनिशं
सोऽयं श्रीमणिमण्डपोऽनवरतं मच्चेतसि द्योतताम्॥ ७ ॥
क्वापि प्रोद्भटपद्मरागकिरणव्रातेन संध्यायितं
कुत्रापि स्फुटविस्फुरन्मरकतद्युत्या तमिस्रायितम्।
मध्यालम्बिविशालमौक्तिकरुचा ज्योत्स्नायितं कुत्रचि-
न्मातः श्रीमणिमन्दिरं तव सदा वन्दामहे सुन्दरम्॥
उत्तुङ्गालयविस्फुरन्मरकतप्रोद्यत्प्रभामण्डला-
न्यालोक्याङ्कुरितोत्सवैर्नवतृणाकीर्णस्थलीशङ्कया।
नीतो वाजिभिरुत्पथं बत रथः सूतेन तिग्मद्युते-
र्वल्गावल्गितहस्तमस्तशिखरं कष्टैरितः प्राप्यते॥९॥
मणिसदनसमुद्यत्कान्तिधारानुरक्ते
वियति चरमसंध्याशङ्किनो भानुरथ्याः।
शिथिलितगतकुप्यत्सूतहुंकारनादैः
कथमपि मणिगेहादुच्चकैरुच्चलन्ति॥ १० ॥
भक्त्या किं नु समर्पितानि बहुधा रत्नानि पाथोधिना
किं वा रोहणपर्वतेन सदनं यैर्विश्वकर्माकरोत्।
आ ज्ञातं गिरिजे कटाक्षकलया नूनं त्वया तोषिते
शंभौ नृत्यति नागराजफणिना कीर्णा मणिश्रेणयः॥
विदूरमुक्तवाहनैर्विनम्रमौलिमण्डलै-
र्निबद्धहस्तसंपुटैः प्रयत्नसंयतेन्द्रियैः।
विरिञ्चिविष्णुशंकरादिभिर्मुदा तवाम्बिके
प्रतीक्ष्यमाणनिर्गमो विभाति रत्नमण्डपः॥ १२ ॥
ध्वनन्मृदङ्गकाहलः प्रगीतकिंनरीगणः
प्रनृत्तदिव्यकन्यकः प्रवृत्तमङ्गलक्रमः।
प्रकृष्टसेवकव्रजः प्रहृष्टभक्तमण्डलो
मुदे ममास्तु संततं त्वदीयरत्नमण्डपः॥ १३ ॥
प्रवेशनिर्गमाकुलैः स्वकृत्यरक्तमानसै-
र्बहिःस्थितामरावलीविधीयमानभक्तिभिः।
विचित्रवस्त्रभूषणैरुपेतमङ्गनाजनैः
सदा करोतु मङ्गलं ममेह रत्नमण्डपः॥१४॥
सुवर्णरत्नभूषितैर्विचित्रवस्त्रधारिभि-
र्गृहीतहेमयष्टिभिर्निरुद्धसर्वदैवतैः।
असंख्यसुन्दरीजनैः पुरस्थितैरधिष्ठितो
मदीयमेतु मानसं त्वदीयतुङ्गतोरणः॥ १५ ॥
इन्द्रादींश्च दिगीश्वरान्सहपरीवारानथो सायुधा-
न्योषिद्रूपधरान्स्वदिक्षु निहितान्संचिन्त्य हृत्पङ्कजे।
शङ्खे श्रीवसुधारया वसुमतीयुक्तं च पद्मं स्मर-
न्कामं नौमि रतिप्रियं सहचरं प्रीत्या वसन्तं भजे॥
गायन्तीः कलवीणयातिमधुरं हुंकारमातन्वती-
र्द्वाराभ्यासकृतस्थितीरिह सरस्वत्यादिकाः पूजयन्।
द्वारे नौमि मदोन्मदं सुरगणाधीशं मदेनोन्मदां
मातङ्गीमसिताम्बरां परिलसन्मुक्ताविभूषां भजे॥ १७ ॥
कस्तूरिकाश्यामलकोमलाङ्गीं
कादम्बरीपानमदालसाङ्गीम्।
वामस्तनालिङ्गितरत्नवीणां
मातङ्गकन्यां मनसा स्मरामि॥१८॥
विकीर्णचिकुरोत्करेविगलिताम्बराडम्बरे
मदाकुलितलोचने विमलभूषणोद्भासिनि।
तिरस्करिणि तावकं चरणपङ्कजं चिन्तय-
न्करोमि पशुमण्डलीमलिकमोहदुग्धाशयाम्॥ १९ ॥
प्रमत्तवारुणीरसैर्विघूर्णमानलोचनाः
प्रचण्डदैत्यसूदनाः प्रविष्टभक्तमानसाः।
उपोढकज्जलच्छविच्छटाविराजिविग्रहाः
कपालशूलधारिणीःस्तुवे त्वदीयदूतिकाः॥२०॥
स्फूर्जन्नव्ययवाङ्कुरोपलसिताभोगैः पुरःस्थापितै-
र्दीपोद्भासिशरावशोभितमुखैः कुम्भैर्नवैः शोभिना।
स्वर्णाबद्धविचित्ररत्नपटलीचञ्चत्कपाटश्रिया
युक्तं द्वारचतुष्टयेन गिरिजे वन्दे मणीमन्दिरम्॥ २१ ॥
आस्तीर्णारुणकम्बलासनयुतं पुष्पोपहारान्वितं
दीप्तानेकमणिप्रदीपसुभगं राजद्वितानोत्तमम्।
धूपोद्गारिसुगन्धिसंभ्रममिलद्भृङ्गावलीगुञ्जितं
कल्याणं वितनोतु मेऽनवरतं श्रीमण्डपाभ्यन्तरम्॥ २२॥
कनकरचिते पञ्चप्रेतासनेन विराजिते
मणिगणचिते रक्तश्वेताम्बरास्तरणोत्तमे।
कुसुमसुरभौ तल्पे दिव्योपधानसुखावहे
हृदयकमले प्रादुर्भूतां भजे परदेवताम्॥ २३ ॥
सर्वाङ्गस्थितिरम्यरूपरुचिरां प्रातः समभ्युत्थितां
जृम्भामञ्जुमुखाम्बुजां मधुमदव्याघूर्णदक्षित्रयाम्।
सेवायातसमस्तसंनिधिसखीः संमानयन्तीं दृशा
संपश्यन्परदेवतां परमहो मन्ये कृतार्थं जनुः॥ २४ ॥
उच्चैस्तोरणवर्तिवाद्यनिवहध्वाने समुज्जृम्भिते
भक्तैर्भूमिविलग्नमौलिभिरलं दण्डप्रणामे कृते।
नानारत्नसमूहनद्धकथनस्थालीसमुद्भासितां
प्रातस्ते परिकल्पयामि गिरिजे नीराजनामुज्ज्वलाम्॥
पाद्यं ते परिकल्पयामि पदयोरर्घ्यं तथा हस्तयोः
सौधीभिर्मधुपर्कमम्ब मधुरं धाराभिरास्वादय।
तोयेनाचमनं विधेहि शुचिना गाङ्गेन मत्कल्पितं
साष्टाङ्गं प्रणिपातमीशदयिते दृष्ट्या कृतार्थी कुरु॥
मातः पश्य मुखाम्बुजं सुविमले दत्ते मया दर्पणे
देवि स्वीकुरु दन्तधावनमिदं गङ्गाजलेनान्वितम्।
सुप्रक्षालितमाननं विरचयन्स्निग्धाम्बरप्रोञ्छनं
द्रागङ्गीकुरु तत्त्वमम्ब मधुरं ताम्बूलमास्वादय॥ २७ ॥
निधेहि मणिपादुकोपरि पदाम्बुजं मज्जना-
लयं व्रज शनैः सखीकृतकराम्बुजालम्बनम्।
महेश करुणानिधे तव दृगन्तपातोत्सुका-
न्विलोकय मनागमूनुभयसंस्थितान्दैवतान्॥ २८ ॥
हेमरत्नवरणेनवेष्टितं
विस्तृतारुणवितानशोभितम्।
सज्जसर्वपरिचारिकाजनं
पश्य मज्जनगृहं मनो मम॥ २९ ॥
कनककलशजालस्फाटिकस्नानपीठा-
द्युपकरणविशालं गन्धमत्तालिमालम्।
स्फुरदरुणवितानं मञ्जुगन्धर्वगानं
परमशिवमहेले मज्जनागारमेहि॥ ३० ॥
पीनोत्तुङ्गपयोधराः परिलसत्संपूर्णचन्द्रानना
रत्नस्वर्णविनिर्मिताः परिलसत्सूक्ष्माम्बरप्रावृताः।
हेमस्नानघटीस्तथा मृदुपटीरुद्वर्तनं कौसुमं
तैलं कङ्कतिकां करेषु दधतीर्वन्देऽम्ब ते दासिकाः॥
तत्र स्फाटिकपीठमेत्य शनकैरुत्तारितालंकृति-
र्नीचैरुज्झितकञ्चुकोपरिहितारक्तोत्तरीयाम्बरा।
वेणीबन्धमपास्य कङ्कतिकया केशप्रसादं मना-
क्कुर्वाणा परदेवता भगवती चित्ते मम द्योतताम्॥
अभ्यङ्गं गिरिजे गृहाण मृदुना तैलेन संपादितं
काश्मीरैरगरुद्रवैर्मलयजैरुद्वर्तनं कारय।
गीते किंनरकामिनीभिरभितो वाद्ये मुदा वादिते
नृत्यन्तीमिह पश्य देवि पुरतो दिव्याङ्गनामण्डलीम्॥
कृतपरिकरबन्धास्तुङ्गपीनस्तनाढ्या
मणिनिवहनिबद्धा हेमकुम्भीर्दधानाः।
सुरभिसलिलनिर्यद्गन्धलुब्धालिमालाः
सविनयमुपतस्थुः सर्वतः स्नानदास्यः॥३४ ॥
उद्गन्धैरगरुद्रवैः सुरभिणा कस्तूरिकावारिणा
स्फूर्जरत्सौरभयक्षकर्दमजलैः काश्मीरनीरैरपि।
पुष्पाम्भोभिरशेषतीर्थसलिलैः कर्पूरपाथोभरैः
स्नानं ते परिकल्पयामि गिरिजे भक्त्या तदङ्गीकुरु॥
प्रत्यङ्गं परिमार्जयामि शुचिना वस्त्रेण संप्रोञ्छनं
कुर्वे केशकलापमायततरं धूपोत्तमैर्धूपितम्।
आलीबृन्दविनिर्मितां यवनिकामास्थाप्य रत्नप्रभं
भक्तत्राणपरे महेशगृहिणि स्नानाम्बरं मुच्यताम्॥ ३६ ॥
पीतं ते परिकल्पयामि निबिडं चण्डातकं चण्डिके
सूक्ष्मं स्निग्धमुरीकुरुष्व वसनं सिन्दूरपूरप्रभम्।
मुक्तारत्नविचित्रहेमरचनाचारुप्रभाभास्वरं
नीलं कञ्चुकमर्पयामि गिरिशप्राणप्रिये सुन्दरि॥
विलुलितचिकुरेण च्छादितांसप्रदेशे
मणिनिकरविराजत्पादुकान्यस्तपादे।
सुललितमवलम्ब्य द्राक्सखीमंसदेशे
गिरिशगृहिणि भूषामण्टपाय प्रयाहि॥३८॥
लसत्कनककुट्टिमस्फुरदमन्दमुक्तावली-
समुल्लसितकान्तिभिः कलितशक्रचापव्रजे।
महाभरणमण्डपे निहितहेमसिंहासनं
सखीजनसमावृतं समधितिष्ठ कात्यायनि॥ ३९॥
स्निग्धं कङ्कतिकामुखेन शनकैः संशोध्य केशोत्करं
सीमन्तं विरचय्य चारु विमलं सिन्दूररेखान्वितम्।
मुक्ताभिर्ग्रथितालकां मणिचितैः सौवर्णसूत्रैः स्फुटं
प्रान्ते मौक्तिकगुच्छकोपलतिकां प्रथ्नामि वेणीमिमाम्॥
विलम्बिवेणीभुजगोत्तमाङ्ग-
स्फुरन्मणिभ्रान्तिमुपानयन्तम्।
स्वरोचिषोल्लासितकेशपाशं
महेशि चूडामणिमर्पयामि॥ ४१ ॥
त्वामाश्रयद्भिः कबरीतमिस्त्रै-
र्बन्दीकृतं द्रागिव भानुबिम्बम्।
मृडानि चूडामणिमादधानं
वन्दामहे तावकमुत्तमाङ्गम्॥ ४२ ॥
स्वमध्यनद्धहाटकस्फुरन्मणिप्रभाकुलं
विलम्बिमौक्तिकच्छटाविराजितं समन्ततः।
निबद्धलक्षचक्षुषा भवेन भूरि भावितं
समर्पयामि भास्वरं भवानि फालभूषणम्॥ ४३ ॥
मीनाम्भोरुहखञ्जरीटसुषमाविस्तारविस्मारके
कुर्वाणे किल कामवैरिमनसः कंदर्पबाणप्रभाम्।
माध्वीपानमदारुणेऽतिचपले दीर्घे दृगम्भोरुहे
देवि स्वर्णशलाकयोर्जितमिदं दिव्याञ्जनं दीयताम्॥
मध्यस्थारुणरत्नकान्तिरुचिरां मुक्तामुगोद्भासितां
दैवाद्भार्गवजीवमध्यगरवेर्लक्ष्मीमधः कुर्वतीम्।
उत्सिक्ताधरबिम्बकान्तिविसरैर्भौमीभवन्मौक्तिकां
मद्दत्तामुररीकुरुष्व गिरिजे नासाविभूषामिमाम्॥ ४५ ॥
उडुकृतपरिवेषस्पर्धया शीतभानो-
रिव विरचितदेहद्वन्द्वमादित्यबिम्बम्।
अरुणमणिसमुद्यत्प्रान्तविभ्राजिमुक्तं
श्रवसि परिनिधेहि स्वर्णताटङ्कयुग्मम्॥ ४६ ॥
मरकतवरपद्मरागहीरो-
त्थितगुलिकात्रितयावनद्धमध्यम्।
विततविमलमौक्तिकं च
कण्ठाभरणमिदं गिरिजे समर्पयामि॥ ४७॥
नानादेशसमुत्थितैर्मणिगणप्रोद्यत्प्रभामण्डल-
व्याप्तैराभरणैर्विराजितगलां मुक्ताच्छटालंकृताम्।
मध्यस्थारुणरत्नकान्तिरुचिरां प्रान्तस्थमुक्ताफल-
व्रातामम्ब चतुष्किकां परशिवे वक्षःस्थले स्थापय॥
अन्योन्यं प्लावयन्ती सततपरिचलत्कान्तिकल्लोलजालैः
कुर्वाणा मज्जदन्तःकरणविमलतां शोभितेव त्रिवेणी।
मुक्ताभिः पद्मरागैर्मरकतमणिभिर्निर्मिता दीप्यमानै-
र्नित्यं हारत्रयी ते परशिवरसिके चेतसि द्योततां नः॥
करसरसिजनाले विस्फुरत्कान्तिजाले
विलसदमलशोभे चञ्चदीशाक्षिलोभे।
विविधमणिमयूखोद्भासितं देवि दुर्गे
कनककटकयुग्मं बाहुयुग्मे निधेहि॥ ५० ॥
व्यालम्बमानसितपट्टकगुच्छशोभि
स्फूर्जन्मणीघटितहारविरोचमानम्।
मातर्महेशमहिले तव बाहुमूले
केयूरकद्वयमिदं विनिवेशयामि॥ ५१ ॥
विततनिजमयूखैर्निर्मितामिन्द्रनीलै-
र्विजितकमलनालालीनमत्तालिमालाम्।
मणिगणखचिताभ्यां कङ्कणाभ्यामुपेतां
कलय वलयराजीं हस्तमूले महेश॥५२॥
नीलपट्टमृदुगुच्छशोभिता-
बद्धनैकमणिजालमञ्जुलाम्।
अर्पयामि वलयात्पुरःसरे
विस्फुरत्कनकतैतृपालिकाम्॥ ५३ ॥
आलवालमिव पुष्पधन्वना
बालविद्रुमलतासु निर्मितम्।
अङ्गुलीषु विनिधीयतां शनै-
रङ्गुलीयकमिदं मदर्पितम्॥ ५४ ॥
विजितहरमनोभूमत्तमातङ्गकुम्भ-
स्थलविलुलितकूजत्किङ्किणीजालतुल्याम्।
अविरतकलनादैरीशचेतो हरन्तीं
विविधमणिनिबद्धां मेखलामर्पयामि॥५५ ॥
व्यालम्बमानवरमौक्तिकगुच्छशोभि
विभ्राजिहाटकपुटद्वयरोचमानम्।
हेम्ना विनिर्मितमनेकमणिप्रबन्धं
नीवीनिबन्धनगुणं विनिवेदयामि॥५६ ॥
विनिहतनवलाक्षापङ्कबालातपौधे
मरकतमणिराजीमञ्जुमञ्जीरघोषे
अरुणमणिसमुद्यत्कान्तिधाराविचित्र-
स्तव चरणसरोजे हंसकः प्रीतिमेतु॥ ५७ ॥
निबद्धशितिपट्टकप्रवरगुच्छसंशोभितां
कलक्वणितमञ्जुलां गिरिशचित्तसंमोहनीम्।
अमन्दमणिमण्डलीविमलकान्तिकिम्मीरितां
निधेहि पदपङ्कजे कनकघुङ्घुरूमम्बिके॥५८ ॥
विस्फुरत्सहजरागरञ्जिते
शिञ्जितेन कलितां सखीजनैः।
पद्मरागमणिनूपुरद्वयी-
मर्पयामि तव पादपङ्कजे॥ ५९ ॥
पदाम्बुजमुपासितुं परिगतेन शीतांशुना
कृतां तनुपरम्परामिव दिनान्तरागारुणाम्।
महेशि नवयावकद्रवभरेण शोणीकृतां
नमामि नखमण्डलीं चरणपङ्कजस्थां तव॥ ६० ॥
आरक्तश्वेतपीतस्फुरदुरुकुसुमैश्चित्रितां पट्टसूत्रै-
र्देवस्त्रीभिः प्रयत्नादगरुसमुदितैर्धूपितां दिव्यधूपैः।
उद्यद्गन्धान्धपुष्पंधयनिवहसमारब्धझांकारगीतां
चञ्चत्कह्लारमालां परशिवरसिके कण्ठपीठेऽर्पयामि॥
गृहाण परमामृतं कनकपात्रसंस्थापितं
समर्पय मुखाम्बुजे विमलवीटिकामम्बिके।
विलोकय मुखाम्बुजं मुकुरमण्डले निर्मले
निधेहि मणिपादुकोपरि पदाम्बुजं सुन्दरि॥६२॥
आलम्ब्य स्वसखीं करेण शनकैः सिंहासनादुत्थिता
कूजन्मन्दमरालमञ्जुलगतिप्रोल्लासिभूषाम्बरा।
आनन्दप्रतिपादकैरुपनिषद्वाक्यैः स्तुता वेधसा
मच्चित्ते स्थिरतामुपैतु गिरिजा यान्ती सभामण्डपम्॥
चलन्त्यामम्बायां प्रचलति समस्ते परिजने
सवेगं संयाते कनकलतिकालंकृतिभरे।
समन्तादुत्तालस्फुरितपदसंपातजनितै-
र्झणत्कारैस्तारैर्झणझणितमासीन्मणिगृहम्॥ ६४ ॥
चञ्चद्वेत्रकराभिरङ्गविलसद्भूषाम्बराभिः पुरो-
यान्तीभिः परिचारिकाभिरमरव्राते समुत्सारिते।
रुद्धे निर्जरसुन्दरीभिरभितः कक्षान्तरे निर्गतं
वन्दे नन्दितशंभु निर्मलचिदानन्दैकरूपं महः॥ ६५ ॥
वेधाः पादतले पतत्ययमसौ विष्णुर्नमत्यग्रतः
शंभुर्देहि दृगञ्चलं सुरपतिं दूरस्थमालोकय।
इत्येवं परिचारिकाभिरुदिते संमाननां कुर्वती
दृग्द्वन्द्वेन यथोचितं भगवती भूयाद्विभूत्यै मम॥ ६६ ॥
मन्दं चारणसुन्दरीभिरभितो यान्तीभिरुत्कण्ठया
नामोच्चारणपूर्वकं प्रतिदिशं प्रत्येकमावेदितान्।
वेगादक्षिपथं गतान्सुरगणानालोकयन्ती शनै-
र्दित्सन्ती चरणाम्बुजं पथि जगत्पायान्महेशप्रिया॥
अग्रे केचन पार्श्वयोः कतिपये पृष्ठे परे प्रस्थिता
आकाशे समवस्थिताः कतिपये दिक्षु स्थिताश्चापरे।
संमर्दं शनकैरपास्य पुरतो दण्डप्रणामान्मुहुः
कुर्वाणाः कतिचित्सुरा गिरिसुते दृक्पातमिच्छन्ति ते॥
अग्रे गायति किंनरी कलपदं गन्धर्वकान्ताः शनै-
रातोद्यानि च वादयन्ति मधुरं सव्यापसव्यस्थिताः।
कूजन्नूपुरनादमञ्जु पुरतो नृत्यन्ति दिव्याङ्गना
गच्छन्तः परितः स्तुवन्ति निगमस्तुत्या विरिञ्च्यादयः॥
कस्मैचित्सुचिरादुपासितमहामन्त्रौघसिद्धिं क्रमा-
देकस्मै भवनिःस्पृहाय परमानन्दस्वरूपां गतिम्।
अन्यस्मै विषयानुरक्तमनसे दीनाय दुःखापहं
द्रव्यं द्वारसमाश्रिताय ददतीं वन्दामहे सुन्दरीम्॥ ७० ॥
नम्रीभूय कृताञ्जलिप्रकटितप्रेमप्रसन्नानने
मन्दं गच्छति संनिधौ सविनयात्सोत्कण्ठमोघत्रये।
नानामन्त्रगणं तदर्थमखिलं तत्साधनं तत्फलं
व्याचक्षाणमुदग्रकान्ति कलये यत्किंचिदाद्यं महः॥७१॥
तव दहनसदृक्षैरीक्षणैरेव चक्षु-
र्निखिलपशुजनानां भीषयद्भीषणास्यम्।
कृतवसति परेशप्रेयसि द्वारि नित्यं
शरभमिथुनमुच्चैर्भक्तियुक्तो नतोऽस्मि॥७२॥
कल्पान्ते सरसैकदासमुदितानेकार्कतुल्यप्रभां
रत्नस्तम्भनिबद्धकाञ्चनगुणस्फूर्जद्वितानोत्तमाम्।
कर्पूरागरुगर्भवर्तिकलिकाप्राप्तप्रदीपावलीं
श्रीचक्राकृतिमुल्लसन्मणिगणां वन्दामहे वेदिकाम्॥
स्वस्थानस्थितदेवतागणवृते बिन्दौ मुदा स्थापितं
नानारत्नविराजिहेमविलसत्कान्तिच्छटादुर्दिनम्।
चञ्चत्कौसुमतूलिकासनयुतं कामेश्वराधिष्ठितं
नित्यानन्दनिदानमम्ब सततं वन्दे च सिंहासनम्॥
वदद्भिरभितो मुदा जय जयेति बृन्दारकैः
कृताञ्जलिपरम्परा विदधती कृतार्थी दृशा।
अमन्दमणिमण्डलीखचितहेमसिंहासनं
सखीजनसमावृतं समधितिष्ठ दाक्षायणि॥ ७५ ॥
कर्पूरादिकवस्तुजातमखिलं सौवर्णभृङ्गारकं
ताम्बूलस्य करण्डकं मणिमयं चैलाञ्चलं दर्पणम्।
विस्फूर्जन्मणिपादुके व दधतीः सिंहासनस्याभित-
स्तिष्ठन्तीः परिचारिकास्तव सदा वन्दामहे सुन्दरि॥
त्वदमलवपुरुद्यत्कान्तिकल्लोलजालैः
स्फुटमिव दधतीभिर्बाहुविक्षेपलीलाम्।
मुहुरपि च विधूते चामरग्राहिणीभिः
सितकरकरशुभ्रे चामरे चालयामि॥७७॥
प्रान्तस्फुरद्विमलमौक्तिकगुच्छजालं
चञ्चन्महामणिविचित्रितहेमदण्डम्।
उद्यत्सहस्रकरमण्डलचारु हेम-
च्छत्रं महेशमहिले विनिवेशयामि॥ ७८ ॥
उद्यत्तावकदेहकान्तिपटलीसिन्दूरपूरप्रभा-
शोणीभूतमुदग्रलोहितमणिच्छेदानुकारिच्छवि।
दूरादादरनिर्मिताञ्जलिपुटैरालोक्यमानं सुर-
व्यूहैः काञ्चनमातपत्रमतुलं वन्दामहे सुन्दरम्॥
संतुष्टां परमामृतेन विलसत्कामेश्वराङ्कस्थितां
पुष्पौघैरभिपूजितां भगवतीं त्वां वन्दमाना मुदा।
स्फूर्जत्तावकदेहरश्मिकलनाप्राप्तस्वरूपाभिदाः
श्रीचक्रावरणस्थिताः सविनयं वन्दामहे देवताः॥
आधारशक्त्यादिकमाकलय्य
मध्ये समस्ताधिकयोगिनीं च।
मित्रेशनाथादिकमत्र नाथ-
चतुष्टयं शैलसुते नतोऽस्मि॥ ८१ ॥
त्रिपुरासुधार्णवासन-
मारभ्य त्रिपुरमालिनी यावत्।
आवरणाष्टकसंस्थित-
मासनषट्कं नमामि परमेशि॥ ८२ ॥
ईशाने गणपं स्मरामि विचरद्विघ्नान्धकारच्छिदं
वायव्ये वटुकं च कज्जलरुचिं व्यालोपवीतान्वितम्।
नैर्ऋत्ये महिषासुरप्रमथिनीं दुर्गा च संपूजय-
न्नाग्नेयेऽखिलभक्तरक्षणपरं क्षेत्राधिनाथं भजे॥८३॥
उड्यानजालंधरकामरूप-
पीठानिमान्पूर्णगिरिप्रसक्तान्।
त्रिकोणदक्षाग्रिमसव्यभाग-
मध्यस्थितान्सिद्धिकरान्नमामि॥ ८४ ॥
लोकेशः पृथिवीपतिर्निगदितो विष्णुर्जलानां प्रभु-
स्तेजोनाथ उमापतिश्च मरुतामीशस्तथा चेश्वरः।
आकाशाधिपतिः सदाशिव इति प्रेताभिधामागता-
नेतांश्चक्रबहिःस्थितान्सुरगणान्वन्दामहे सादरम्॥
तारानाथकलाप्रवेशनिगमव्याजाद्गतासुप्रथं
त्रैलोक्ये तिथिषु प्रवर्तितकलाकाष्ठादिकालक्रमम्।
रत्नालंकृतिचित्रवस्त्रललितं कामेश्वरीपूर्वकं
नित्याषोडशकं नमामि लसितं चक्रात्मनोरन्तरे॥
हृदि भावितदैवतं प्रयत्ना-
भ्युपदेशानुगृहीतभक्तसंघम्।
स्वगुरुक्रमसंज्ञचक्रराज-
स्थितमोघत्रयमानतोऽस्मि मूर्ध्ना॥ ८७ ॥
हृदयमथ शिरः शिखाखिलाद्ये
कवचमथो नयनत्रयं च देवि।
मुनिजनपरिचिन्तितं तथास्त्रं
स्फुरतु सदा हृदये षडङ्गमेतत्॥ ८८ ॥
त्रैलोक्यमोहनमिति प्रथिते तु चक्रे
चञ्चद्विभूषणगणत्रिपुराधिवासे।
रेखात्रये स्थितवतीरणिमादिसिद्धी-
र्मुद्रा नमामि सततं प्रकटाभिधास्ताः॥ ८९ ॥
सर्वाशापरिपूरके वसुदलद्वन्द्वेन विभ्राजिते
विस्फूर्जत्त्रिपुरेश्वरीनिवसतौ चक्रे स्थिता नित्यशः।
कामाकर्षणिकादयो मणिगणभ्राजिष्णुदिव्याम्बरा
योगिन्यः प्रदिशन्तु काङ्क्षितफलं विख्यातगुप्ताभिधाः॥
महेशि वसुभिर्दलैर्लसति सर्वसंक्षोभणे
विभूषणगणस्फुरत्त्रिपुरसुन्दरीसद्मनि।
अनङ्गकुसुमादयो विविधभूषणोद्भासिता
दिशन्तु मम काङ्क्षितं तनुतराश्च गुप्ताभिधाः॥ ९१ ॥
लसद्युगदृशारके स्फुरति सर्वसौभाग्यदे
शुभाभरणभूषितत्रिपुरवासिनीमन्दिरे।
स्थिता दधतु मङ्गलं सुभगसर्वसंक्षोभिणी-
मुखाः सकलसिद्धयो विदितसंप्रदायाभिधाः॥ ९२ ॥
बहिर्दशारे सर्वार्थसाधके त्रिपुराश्रयाः।
कुलकौलाभिधाः पान्तु सर्वसिद्धिप्रदायिकाः॥ ९३ ॥
अन्तःशोभिदशारकेऽतिललिते सर्वादिरक्षाकरे
मालिन्या त्रिपुराद्यया विरचितावासे स्थितं नित्यशः।
नानारत्नविभूषणं मणिगणभ्राजिष्णु दिव्याम्बरं
सर्वज्ञादिकशक्तिबृन्दमनिशं वन्दे निगर्भाभिधम्॥९४॥
सर्वरोगहरेऽष्टारे त्रिपुरासिद्धयान्विते।
रहस्ययोगिनीर्नित्यं वशिन्याद्या नमाम्यहम्॥ ९५ ॥
चूताशोकविकासिकेतकरजःप्रोद्भासिनीलाम्बुज-
प्रस्फूर्जन्नवमल्लिकासमुदितैः पुष्पैः शरान्निर्मितान्।
रम्यं पुष्पशरासनं सुललितं पाशं तथा चाङ्कुशं
वन्दे तावकमायुधं परशिवे चक्रान्तराले स्थितम्॥ ९६॥
त्रिकोण उदितप्रभे जगति सर्वसिद्धिप्रदे
युते त्रिपुरयाम्बया स्थितवती च कामेश्वरी।
तनोतु मम मङ्गलं सकलशर्म वज्रेश्वरी
करोतु भगमालिनी स्फुरतु मामके चेतसि॥ ९७ ॥
सर्वानन्दमये समस्तजगतामाकाङ्क्षिते बैन्दवे
भैरव्या त्रिपुराद्ययाविरचितावासे स्थिता सुन्दरी।
आनन्दोल्लसितेक्षणा मणिगणभ्राजिष्णुभूषाम्बरा
विस्फूर्जद्वदना परापररहः सा पातु मां योगिनी॥ ९८ ॥
उल्लसत्कनककान्तिभासुरं
सौरभस्फुरणवासिताम्बरम्।
दूरतः परिहृतं मधुव्रतै-
रर्पयामि तव देवि चम्पकम्॥ ९९ ॥
वैरमुद्धतमपास्य शंभुना
मस्तके विनिहितं कलाच्छलात्।
गन्धलुब्धमधुपाश्रितं सदा
केतकीकुसुममर्पयामि ते॥ १०० ॥
चूर्णीकृतं द्रागिव पद्मजेन
त्वदाननस्पर्धिसुधांशुबिम्बम्।
समर्पयामि स्फुटमञ्जलिस्थं
विकासिजातीकुसुमोत्करं ते॥१०१॥
अगरुबहलधूपाजस्रसौरभ्यरम्यां
मरकतमणिराजीराजिहारिस्रगाभाम्।
दिशि विदिशि विसर्पद्गन्धलुब्धालिमालां
वकुलकुसुममालां कण्ठपीठेऽर्पयामि॥१०२॥
ईंकारोर्ध्वगबिन्दुराननमधोबिन्दुद्वयं च स्तनौ
त्रैलोक्ये गुरुगम्यमेतदखिलं हार्दं च रेखात्मकम्।
इत्थं कामकलात्मिकां भगवतीमन्तः समाराधय-
न्नानन्दाम्बुधिमज्जने प्रलभतामानन्दथुं सज्जनः॥ १०३ ॥
धूपं तेऽगरुसंभवं भगवति प्रोल्लासिगन्धोद्धुरं
दीपं चैव निवेदयामि महसा हार्दान्धकारच्छिदम्।
रत्नस्वर्णविनिर्मितेषु परितः पात्रेषु संस्थापितं
नैवेद्यं विनिवेदयामि परमानन्दात्मिके सुन्दरि॥ १०४ ॥
जातीकोरकतुल्यमोदनमिदं सौवर्णपात्रे स्थितं
शुद्धान्नं शुचि मुद्गमाषचणकोद्भूतास्तथा सूपकाः।
प्राज्यं माहिषमाज्यमुत्तममिदं हैयंगवीनं पृथ-
क्पात्रेषु प्रतिपादितं परशिवे तत्सर्वमङ्गीकुरु॥ १०५ ॥
शिम्बीसूरणशाकबिम्बबृहतीकूश्माण्डकोशातकी-
वृन्ताकानि पटोलकानि मृदुना संसाधितान्यग्निना।
संपन्नानि च वेसवारविसरैर्दिव्यानि भक्त्या कृता-
न्यग्रे ते विनिवेदयामि गिरिजे सौवर्णपात्रव्रजे॥ १०६ ॥
निम्बूकार्द्रकचूतकन्दकदलीकौशातकीकर्कटी-
धात्रीबिल्वकरीरकैर्विरचितान्यानन्दचिद्विग्रहे।
राजीभिः कटुतैलसैन्धवहरिद्राभिः स्थितान्पातये
संधानानि निवेदयामि गिरिजे भूरिप्रकाराणि ते।
सितयाञ्चितलड्डुकव्रजा-
न्मृदुपूपान्मृदुलाश्च पूरिकाः।
परमान्नमिदं च पार्वति
प्रणयेन प्रतिपादयामि ते॥१०८॥
दुग्धमेतदनले सुसाधितं
चन्द्रमण्डलनिभं तथा दधि।
फाणितं शिखरिणीं सितासितां
सर्वमम्ब विनिवेदयामि ते॥ १०९ ॥
अग्रे ते विनिवेद्य सर्वममितं नैवेद्यमङ्गीकृतं
ज्ञात्वा तत्त्वचतुष्टयं प्रथमतो मन्ये सुतृप्तां ततः।
देवीं त्वां परिशिष्टमम्ब कनकामत्रेषु संस्थापितं
शक्तिभ्यः समुपाहारामि सकलं देवेशि शंभुप्रिये॥
वामेन स्वर्णपात्रीमनुपमपरमान्नेन पूर्णां दधाना-
मन्येन स्वर्णदर्वीं निजजनहृदयाभीष्टदां धारयन्तीम्।
सिन्दूरारक्तवस्त्रां विविधमणिलसद्भूषणां मेचकाङ्गी
तिष्ठन्तीमग्रतस्ते मधुमदमुदितामन्नपूर्णांनमामि॥
पङ्क्त्योपविष्टान्परितस्तु चक्रं
शक्त्या स्वयालिङ्गितवामभागान्।
सर्वोपचारैः परिपूज्य भक्त्या
तवाम्बिके पारिषदान्नमामि॥ ११२ ॥
परमामृतमत्तसुन्दरी-
गणमध्यस्थितमर्कभासुरम्।
परमामृतघूर्णितेक्षणं
किमपि ज्योतिरुपास्महे परम्॥ ११३ ॥
दृश्यते तव मुखाम्बुजं शिवे
श्रूयते स्फुटमनाहतध्वनिः।
अर्चने तव गिरामगोचरे
न प्रयाति विषयान्तरं मनः॥ ११४ ॥
त्वन्मुखाम्बुजविलोकनोल्लस-
त्प्रेमनिश्चलविलोचनद्वयीम्।
उन्मनीमुपगतां सभामिमां
भावयामि परमेशि तावकीम्॥ ११५ ॥
चक्षुः पश्यतु नेह किंचन परं घ्राणं न वा जिघ्रतु
श्रोत्रं हन्त शृणोतु न त्वगपि न स्पर्शं समालम्बताम्।
जिह्वा वेत्तु न वा रसं मम परं युष्मत्स्वरूपामृते
नित्यानन्दविघूर्णमाननयने नित्यं मनो मज्जतु॥ ११६॥
यस्त्वां पश्यति पार्वति प्रतिदिनं ध्यानेन तेजोमयीं
मन्ये सुन्दरि तत्त्वमेतदखिलं वेदेषु निष्ठां गतम्।
यस्तस्मिन्समये तवार्चनविधावानन्दसान्द्राशयो
यातोऽहं तदभिन्नतां परशिवे सोऽयं प्रसादस्तव॥
गणाधिनाथं वटुकं च योगिनीः
क्षेत्राधिनाथं च विदिक्चतुष्टये।
सर्वोपचारैःपरिपूज्य भक्तितो
निवेदयामो बलिमुक्तयुक्तिभिः॥ ११८ ॥
वीणामुपान्ते खलु वादयन्त्यै
निवेद्य शेषं खलु शेषिकायै।
सौवर्णभृङ्गारविनिर्गतेन
जलेन शुद्धाचमनं विधेहि॥ ११९ ॥
ताम्बूलं विनिवेदयामि विलसत्कर्पूरकस्तूरिका-
जातीपूगलवङ्गचूर्णखदिरैर्भक्त्या समुल्लासितम्।
स्फूर्जद्रत्नसमुद्गकप्रणिहितं सौवर्णपात्रे स्थितै-
र्दीपैरुज्ज्वलमन्नचूर्णरचितैरारार्तिकं गृह्यताम्॥ १२० ॥
काचिद्गायति किंनरी कलपदं वाद्यं दधानोर्वशी
रम्भा नृत्यति केलिमञ्जुलपदं मातः पुरस्तात्तव।
कृत्यं प्रोज्झ्य सुरस्त्रियो मधुमदव्याघूर्णमानेक्षणं
नित्यानन्दसुधाम्बुधिं तव मुखं पश्यन्ति हृष्यन्ति च॥
ताम्बूलोद्भासिवक्त्रैस्त्वदमलवदनालोकनोल्लासिनेत्रै-
श्चक्रस्थैः शक्तिसंघैः परिहृतविषयासङ्गमाकर्ण्यमानम्।
गीतज्ञाभिः प्रकामं मधुरसमधुरं वादितं किंनरीभि-
र्वीणाझंकारनादं कलय परशिवानन्दसंधानहेतोः॥
अर्चाविधौ ज्ञानलवोऽपि दूरे
दूरे तदापादकवस्तुजातम्।
प्रदक्षिणीकृत्य ततोऽर्चनं ते
पञ्चोपचारात्मकमर्पयामि॥ १२३ ॥
यथेप्सितमनोगतप्रकटितोपचारार्चितां
निजावरणदेवतागणवृतां सुरेशस्थिताम्।
कृताञ्जलिपुटो मुहुः कलितभूमिरष्टाङ्गकै-
र्नमामि भगवत्यहं त्रिपुरसुन्दरि त्राहि माम्॥ १२४ ॥
विज्ञप्तीरवधेहि मे सुमहता यत्नेन ते संनिधिं
प्राप्तं मामिह कांदिशीकमधुना मातर्न दूरीकुरु।
चित्तं त्वत्पदभावने व्यभिचरेदृृग्वाक्च मे जातु चे-
त्तत्सौम्ये स्वगुणैर्बधान न यथा भूयो विनिर्गच्छति॥
क्वाहं मन्दमतिः क्व चेदमखिलैरेकान्तभक्तैः स्तुतं
ध्यातं देवि तथापि ते स्वमनसा श्रीपादुकापूजनम्।
कादाचित्कमदीयचिन्तनविधौ संतुष्टया शर्मदं
स्तोत्रं देवतया तया प्रकटितं मन्ये मदीयानने॥
नित्यार्चनमिदं चित्ते भाव्यमानं सदा मया।
निबद्धं विविधैः पद्यैरनुगृह्णातु सुन्दरी॥१२७ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्री गोविन्द भगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवतः कृतौ
त्रिपुरसुन्दरीमानसपूजास्तोत्रं
संपूर्णम्॥
<MISSING_FIG href="../books_images/U-IMG-1722848772Captureasdfghjk.PNG"/>
॥ श्रीः ॥
॥ देवीचतुःषष्ट्युपचारपूजास्तोत्रम् ॥
<MISSING_FIG href="../books_images/U-IMG-1722861593Capturedfhjkl;.PNG"/>
उषसि मागधमङ्गलगायनै-
र्झटिति जागृहि जागृहि जागृहि।
अतिकृपार्द्रकटाक्षनिरीक्षणै-
र्जगदिदं जगदम्ब सुखीकुरु॥ १ ॥
कनकमयवितर्दिशोभमानं
दिशि दिशि पूर्णसुवर्णकुम्भयुक्तम्।
मणिमयमण्टपमध्यमेहि मात-
र्मयि कृपयाशु समर्चनं ग्रहीतुम्॥ २ ॥
कनककलशशोभमानशीर्षं
जलधरलम्बि समुल्लसत्पताकम्।
भगवति तव संनिवासहेतो-
र्मणिमयमन्दिरमेतदर्पयामि॥ ३ ॥
तपनीयमयी सुतूलिका
कमनीया मृदुलोत्तरच्छदा।
नवरत्नविभूषिता मया
शिबिकेयं जगदम्ब तेऽर्पिता॥ ४ ॥
कनकमयवितर्दिस्थापिते तूलिकाढ्ये
विविधकुसुमकीर्णे कोटिबालार्कवर्णे।
भगवति रमणीये रत्नसिंहासनेऽस्मि-
न्नुपविश पदयुग्मं हेमपीठे निधाय॥ ५ ॥
मणिमौक्तिकनिर्मितं महान्तं
कनकस्तम्भचतुष्टयेन युक्तम्।
कमनीयतमं भवानि तुभ्यं
नवमुल्लोचमहं समर्पयामि॥ ६ ॥
दुर्वया सरसिजान्वितविष्णु-
क्रान्तया च सहितं कुसुमाढ्यम्।
पद्मयुग्मसदृशे पदयुग्मे
पाद्यमेतदुररीकुरु मातः॥ ७ ॥
गन्धपुष्पयवसर्षपदूर्वा-
संयुतं तिलकुशाक्षतमिश्रम्।
हेमपात्रनिहितं सह रत्नै-
रर्घ्यमेतदुररीकुरु मातः॥८॥
जलजद्युतिना करेण जाती-
फलतक्कोललवङ्गगन्धयुक्तैः।
अमृतैरमृतैरिवातिशीतै-
र्भगवत्याचमनं विधीयताम्॥ ९ ॥
निहितं कनकस्य संपुटे
पिहितं रत्नपिधानकेन यत्।
तदिदं जगदम्ब तेऽर्पितं
मधुपर्कं जननि प्रगृह्यताम्॥ १० ॥
एतच्चम्पकतैलमम्ब विविधैः पुष्पैर्मुहुर्वासितं
न्यस्तं रत्नमये सुवर्णचषकेभृङ्गैर्भ्रमद्भिर्वृतम्।
सानन्दं सुरसुन्दरीभिरभितो हस्तैर्धृतं ते मया
केशेषु भ्रमरभ्रमेषु सकलेष्वङ्गेषु चालिप्यते॥ ११ ॥
मातः कुङ्कुमपङ्कनिर्मितमिदं देहे तवोद्वर्तनं
भक्त्याहं कलयामि हेमरजसा संमिश्रितं केसरैः।
केशानामलकैर्विशोध्य विशदान्कस्तूरिकादञ्चितैः
स्नानं ते नवरत्नकुम्भसहितैः संवासितोष्णोदकैः॥१२॥
दधिदुग्धघृतैः समाक्षिकैः
सितया शर्करयासमन्वितैः।
स्नपयामि तवाहमादरा-
ज्जननि त्वां पुनरुष्णवारिभिः॥ १३ ॥
एलोशीरसुवासितैः सकुसुमैर्गङ्गादितीर्थोदकै-
र्माणिक्यामलमौक्तिकामृतरसैः स्वच्छैः सुवर्णोदकैः।
मन्त्रान्वैदिकतान्त्रिकान्परिपठन्सानन्दमत्यादरा-
त्स्नानं ते परिकल्पयामि जननि स्नेहात्त्वमङ्गीकुरु॥
बालार्कद्युति दाडिमीयकुसुमप्रस्पर्धि सर्वोत्तमं
मातस्त्वं परिधेहि दिव्यवसनं भक्त्या मया कल्पितम्।
मुक्ताभिर्ग्रथितं सुकञ्चुकमिदं स्वीकृत्य पीतप्रभं
तप्तस्वर्णसमानवर्णमतुलं प्रावर्णमङ्गीकुरु॥ १५ ॥
नवरत्नमये मयार्पिते
कमनीये तपनीयपादुके।
सविलासमिदं पदद्वयं
कृपया देवि तयोर्निधीयताम्॥ १६ ॥
बहुभिरगरुधूपैः सादरं धूपयित्वा
भगवति तव केशान्कङ्कतैर्मार्जयित्वा।
सुरभिभिररविन्दैश्चम्पकैश्चार्चयित्वा
झटिति कनकसूत्रैर्जूटयन्वेष्टयामि॥ १७ ॥
सौवीराञ्जनमिदमम्ब चक्षुषोस्ते
विन्यस्तं कनकशलाकया मया यत्।
तन्न्यूनं मलिनमपि त्वदक्षिसङ्गात्
ब्रह्मेन्द्राद्यभिलषणीयतामियाय॥ १८ ॥
मञ्जीरे पदयोर्निधाय रुचिरां विन्यस्य काञ्चीं कटौ
मुक्ताहारमुरोजयोरनुपमां नक्षत्रमालां गले।
केयूराणि भुजेषु रत्नवलयश्रेणीं करेषु क्रमा-
त्ताटङ्के तव कर्णयोर्विनिदधे शीर्षे च चूडामणिम्॥ १९ ॥
धम्मिल्ले तव देवि हेमकुसुमान्याधाय फालस्थले
मुक्ताराजिविराजमानतिलकं नासापुटे मौक्तिकम्।
मातर्मौक्तिकजालिकां च कुचयोः सर्वाङ्गुलीषूर्मिकाः
कट्यां काञ्चनकिङ्किणीर्विनिदधे रत्नावतंसं श्रुतौ॥२०॥
मातः फालतले तवातिविमले काश्मीरकस्तूरिका-
कर्पूरागरुभिः करोमि तिलकं देहेऽङ्गरागं ततः।
वक्षोजादिषु यक्षकर्दमरसं सिक्त्वा च पुष्पद्रवं
पादौ चन्दनलेपनादिभिरहं संपूजयामि क्रमात्॥ २१ ॥
रत्नाक्षतैस्त्वां परिपूजयामि
मुक्ताफलैर्वा रुचिरैरविद्धैः।
अखण्डितैर्देवि यवादिभिर्वा
काश्मीरपङ्काङ्किततण्डुलैर्वा॥ २२ ॥
जननि चम्पकतैलमिदं पुरो
मृगमदोपयुतं पटवासकम्।
सुरभिगन्धमिदं च चतुः समं
सपदि सर्वमिदं परिगृह्यताम्॥ २३ ॥
सीमन्ते ते भगवति मया सादरं न्यस्तमेत-
त्सिन्दूरं मे हृदयकमले हर्षवर्षं तनोति।
बालादित्यद्युतिरिव सदा लोहिता यस्य कान्ती-
रन्तर्ध्वान्तं हरति सकलं चेतसा चिन्तयैव॥ २४ ॥
मन्दारकुन्दकरवीरलवङ्गपुष्पै-
स्त्वां देवि संततमहं परिपूजयामि।
जातीजपावकुलचम्पककेतकादि-
नानाविधानि कुसुमानि च तेऽर्पयामि॥२५ ॥
मालतीवकुलहेमपुष्पिका-
काञ्चनारकरवीरकैतकैः।
कर्णिकारगिरिकर्णिकादिभिः
पूजयामि जगदम्ब ते वपुः॥२६॥
पारिजातशत पत्रपाटलै-
र्मल्लिकाकुलचम्पकादिभिः।
अम्बुजैः सुकुसुमैश्च सादरं
पूजयामि जगदम्ब ते वपुः॥ २७ ॥
लाक्षासंमिलितैः सिताभ्रसहितैः श्रीवाससंमिश्रितैः
कर्पूराकलितैः शिरैर्मधुयुतैर्गोसर्पिषा लोडितैः।
श्रीखण्डागरुगुग्गुलुप्रभृतिभिर्नानाविधैर्वस्तुभि-
र्धूपं ते परिकल्पयामि जननि स्नेहात्त्वमङ्गीकुरु॥ २८॥
रत्नालंकृतहेमपात्रनिहितैर्गोसर्पिषा लोडितै-
र्दीपैर्दीर्घतरान्धकारभिदुरैर्बालार्ककोटिप्रभैः।
आताम्रज्वलदुज्ज्वलप्रविलसद्रत्नप्रदीपैस्तथा
मातस्त्वामहमादरादनुदिनं नीराजयाम्युच्चकैः॥
मातस्त्वां दधिदुग्धपायसमहाशाल्यन्नसंतानिकाः
सूपापूपसिताघृतैः सवटकैः सक्षौद्ररम्भाफलैः।
एलाजीरकहिङ्गुनागरनिशाकुस्तुम्भरीसंस्कृतैः
शाकैः साकमहं सुधाधिकरसैः संतर्पयाम्यर्चयन्॥
सापूपसूपदधिदुग्धसिताघृतानि
सुखादुभक्तपरमान्नपुरःसराणि।
शाकोल्लसन्मरिचिजीरकबाह्लिकानि
भक्ष्याणि भुङ्क्ष्व जगदम्ब मयार्पितानि॥ ३१ ॥
क्षीरमेतदिदमुत्तमोत्तमं
प्राज्यमाज्यमिदमुज्ज्वलं मधु।
मातरेतदमृतोपमं पयः
संभ्रमेण परिपीयतां मुहुः॥३२॥
उष्णोदकैः पाणियुगं मुखं च
प्रक्षाल्य मातःकलधौतपात्रे।
कर्पूरमिश्रेण सकुङ्कुमेन
हस्तौ समुद्वर्तय चन्दनेन॥ ३३ ॥
अतिशीतमुशीरवासितं
तपनीये कलशे निवेशितम्।
पटपूतमिदं जितामृतं
शुचि गङ्गाजलमम्ब पीयताम्॥३४ ॥
जम्ब्वाम्ररम्भाफलसंयुतानि
द्राक्षाफलक्षौद्रसमन्वितानि।
सनारिकेलानि सदाडिमानि
फलानि ते देवि समर्पयामि॥३५॥
कूश्माण्डकोशातकिसंयुतानि
जम्बीरनारङ्गसमन्वितानि।
सबीजपूराणि सबादराणि
फलानि ते देवि समर्पयामि॥ ३६॥
कर्पूरेण युतैर्लवङ्गसहितैस्तक्कोलचूर्णान्वितैः
सुस्वादुक्रमुकैः सगौरखदिरैः सुस्निग्धजातीफलैः।
मातःकैतकपत्रपाण्डुरुचिभिस्ताम्बूलवल्लीदलैः
सानन्दं मुखमण्डनार्थमतुलं ताम्बूलमङ्गीकुरु॥ ३७ ॥
एलालवङ्गादिसमन्वितानि
तक्कोलकर्पूरविमिश्रितानि।
ताम्बूलवल्लीदलसंयुतानि
पूगानि ते देवि समर्पयामि॥ ३८ ॥
ताम्बूलनिर्जितसुतप्तसुवर्णवर्णं
स्वर्णाक्तपूगफलमौक्तिकचूर्णयुक्तम्।
सौवर्णपात्रनिहितं खदिरेण सार्धं
ताम्बूलमम्ब वदनाम्बुरुहे गृहाण॥३९॥
महति कनकपाले स्थापयित्वा विशालान्
डमरुसदृशरूपान्बद्धगोधूमदीपान्।
बहुघृतमथ तेषु न्यस्य दीपान्प्रकृष्टा-
न्भुवनजननि कुर्वे नित्यमारार्तिकं ते॥४०॥
सविनयमथ दत्वा जानुयुग्मं धरण्यां
सपदि शिरसि धृत्वा पात्रमारार्तिकस्य।
मुखकमलसमीपे तेऽम्ब सार्थं त्रिवारं
भ्रमयति मयि भूयात्ते कृपार्द्रः कटाक्षः॥ ४१ ॥
अथ बहुमणिमिश्रैर्मौक्तिकैस्त्वां विकीर्य
त्रिभुवनकमनीयैः पूजयित्वा च वस्त्रैः।
मिलितविविधमुक्तां दिव्यमाणिक्ययुक्तां
जननि कनकवृष्टिं दक्षिणां तेऽर्पयामि॥ ४२ ॥
मातः काञ्चनदण्डमण्डितमिदं पूर्णेन्दुबिम्बप्रभं
नानारत्नविशोभिहेमकलशं लोकत्रयाह्लादकम्।
भास्वन्मौक्तिकजालिकापरिवृतं प्रीत्यात्महस्ते धृतं
छत्रं ते परिकल्पयामि शिरसि त्वष्ट्रा स्वयं निर्मितम्॥
शरदिन्दुमरीचिगौरवर्णै-
र्मणिमुक्ताविलसत्सुवर्णदण्डैः।
जगदम्ब विचित्रचामरैस्त्वा-
महमानन्दभरेण वीजयामि॥ ४४ ॥
मार्ताण्डमण्डलनिभो जगदम्ब योऽयं
भक्त्या मया मणिमयो मुकुरोऽर्पितस्ते।
पूर्णेन्दुबिम्बरुचिरं वदनं स्वकीय-
मस्मिन्विलोकय विलोलविलोचने त्वम्॥ ४५ ॥
इन्द्रादयो नतिनतैर्मकुटप्रदीपै-
र्नीराजयन्ति सततं तव पादपीठम्।
तस्मादहं तव समस्तशरीरमेत-
न्नीराजयामि जगदम्ब सहस्रदीपैः॥ ४६ ॥
प्रियगतिरतितुङ्गो रत्नपल्याणयुक्तः
कनकमयविभूषः स्निग्धगम्भीरघोषः।
भगवति कलितोऽयं वाहनार्थं मया ते
तुरगशतसमेतो वायुवेगस्तुरंगः॥ ४७ ॥
मधुकरवृतकुम्भन्यस्तसिन्दूररेणुः
कनककलितघण्टाकिङ्किणीशोभिकण्ठः।
श्रवणयुगलचञ्चच्चामरो मेघतुल्यो
जननि तव मुदे स्यान्मत्तमातङ्ग एषः॥ ४८ ॥
द्रुततरतुरगैर्विराजमानं
मणिमयचक्रचतुष्टयेन युक्तम्।
कनकमयममुं वितानवन्तं
भगवति ते हि रथं समर्पयामि॥ ४९ ॥
हयगजरथपत्तिशोभमानं
दिशि दिशि दुन्दुभिमेघनादयुक्तम्।
अतिबहु चतुरङ्गसैन्यमेत-
द्भगवति भक्तिभरेण तेऽर्पयामि॥ ५० ॥
परिघीकृतसप्तसागरं
बहुसंपत्सहितं मयाम्ब ते विपुलम्।
प्रबलं धरणीतलाभिधं
दृढदुर्गं निखिलं समर्पयामि॥ ५१ ॥
शतपत्रयुतैः स्वभावशीतै-
रतिसौरभ्ययुतैः परागपीतैः।
भ्रमरीमुखरीकृतैरनन्तै-
र्व्यजनैस्त्वां जगदम्ब वीजयामि॥ ५२ ॥
भ्रमरलुलितलोलकुन्तलाली-
विगलितमाल्यविकीर्णरङ्गभूमिः।
इयमतिरुचिरा नटी नटन्ती
तव हृदये मुदमातनोतु मातः॥ ५३ ॥
मुखनयनविलासलोलवेणी-
विलसितनिर्जितलोलभृङ्गमालाः।
युवजनसुखकारिचारुलीला
भगवति ते पुरतो नटन्ति बालाः॥ ५४ ॥
भ्रमदलिकुलतुल्यालोलधम्मिल्लभाराः
स्मितमुखकमलोद्यद्दिव्यलावण्यपूराः।
अनुपमितसुवेषा वारयोषा नटन्ति
परभृतकलकण्ठ्यो देवि दैन्यं धुनोतु॥ ५५ ॥
डमरुडिण्डिमजर्झरझल्लरी-
मृदुरवद्रगडद्द्रगडादयः।
झटिति झाङ्कृतझाङ्कृतझाङ्कृतै-
र्बहुदयं हृदयं सुखयन्तु ते॥ ५६ ॥
विपञ्चीषु सप्तस्वरान्वादयन्त्य-
स्तव द्वारि गायन्ति गन्धर्वकन्याः।
क्षणं सावधानेन चित्तेन मातः
समाकर्णय त्वं मया प्रार्थितासि॥५७ ॥
अभिनयकमनीयैर्नर्तनैर्नर्तकीनां
क्षणमपि रमयित्वा चेत एतत्त्वदीयम्।
स्वयमहमतिचित्रैर्नृत्तवादित्रगीतै-
र्भगवति भवदीयं मानसं रञ्जयामि॥ ५८ ॥
तव देवि गुणानुवर्णने
चतुरा नो चतुराननादयः।
तदिहैकमुखेषु जन्तुषु
स्तवनं कस्तव कर्तुमीश्वरः॥ ५९ ॥
पदे पदे यत्परिपूजकेभ्यः सद्योऽश्वमेधादिफलं ददाति।
तत्सर्वपापक्षयहेतुभूतं प्रदक्षिणं ते परितः करोमि॥ ६० ॥
रक्तोत्पलारक्तलताप्रभाभ्यां ध्वजोर्ध्वरेखाकुलिशाङ्किताभ्याम् ।
अशेषबृन्दारकवन्दिताभ्यां नमो भवानीपदपङ्कजाभ्याम्॥
चरणनलिनयुग्मं पङ्कजैः पूजयित्वा
कनककमलमालां कण्ठदेशेऽर्पयित्वा।
शिरसि विनिहितोऽयं रत्नपुष्पाञ्जलिस्ते
हृदयकमलमध्ये देवि हर्षं तनोतु॥६२॥
अथ मणिमयमञ्चकाभिरामे
कनकमयवितानराजमाने।
प्रसरदगरुधूपधूपितेऽस्मि-
न्भगवति भवनेऽस्तु ते निवासः॥६३ ॥
एतस्मिन्मणिखचिते सुवर्णपीठे
त्रैलोक्याभयवरदौ निधाय हस्तौ।
विस्तीर्णे मृदुलतरोत्तरच्छदेऽस्मि-
न्पर्यङ्के कनकमये निषीद मातः॥६४॥
तव देवि सरोजचिह्नयोः पदयोर्निर्जितपद्मरागयोः।
अतिरक्ततरैरलक्तकैःपुनरुक्तां रचयामि रक्तताम्॥ ६५ ॥
अथ मातरुशीरवासितं निजताम्बूलरसेन रञ्जितम्।
तपनीयमये हि पट्टके मुखगण्डूषजलं विधीयताम्॥ ६६ ॥
क्षणमथ जगदम्ब मञ्चकेऽस्मि -
न्मृदुतलतूलिकया विराजमाने।
अतिरहसि मुदा शिवेन सार्धं
सुखशयनं कुरु तत्र मां स्मरन्ती॥ ६७ ॥
मुक्ताकुन्देन्दुगौरां मणिमयमकुटां रत्नताटङ्कयुक्ता-
मक्षस्रक्पुष्पहस्तामभयवरकरां चन्द्रचूडां त्रिनेत्राम्।
नानालंकारयुक्तां सुरमकुटमणिद्योतितस्वर्णपीठां
सानन्दां सुप्रसन्नां त्रिभुवनजननीं चेतसा चिन्तयामि॥
एषा भक्त्या तव विरचिता या मया देवि पूजा
स्वीकृत्यैनां सपदि सकलान्मेऽपराधान्क्षमस्व।
न्यूनं यत्तत्तव करुणया पूर्णतामेतु सद्यः
सानन्दं मे हृदयकमले तेऽस्तु नित्यं निवासः॥ ६९ ॥
पूजामिमां यः पठति प्रभाते
मध्याह्नकाले यदि वा प्रदोषे।
धर्मार्थकामान्पुरुषोऽभ्युपैति
देहावसाने शिवभावमेति॥ ७० ॥
पूजामिमां पठेन्नित्यं पूजां कर्तुमनीश्वरः।
पूजाफलमवाप्नोति वाञ्छितार्थंच विन्दति॥ ७१ ॥
प्रत्यहं भक्तिसंयुक्तो यः पूजनमिदं पठेत्।
वाग्वादिन्याः प्रसादेन वत्सरात्स कविर्भवेत्॥ ७२ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवतः कृतौ
देवीचतुःषष्ट्युपचारपूजास्तोत्रं
संपूर्णम्॥
<MISSING_FIG href="../books_images/U-IMG-1722912164yu.PNG"/>
॥ श्रीः ॥
॥ त्रिपुरसुन्दर्यष्टकम् ॥
<MISSING_FIG href="../books_images/U-IMG-1722880825Capture12.PNG"/>
कदम्बवनचारिणीं मुनिकदम्बकादम्बिनीं
नितम्बजितभूधरां सुरनितम्बिनीसेविताम्।
नवाम्बुरुहलोचनामभिनवाम्बुदश्यामलां
त्रिलोचनकुटुम्बिनीं त्रिपुरसुन्दरीमाश्रये॥ १ ॥
कदम्बवनवासिनीं कनकवल्लकीधारिणीं
महार्हमणिहारिणीं मुखसमुल्लसद्वारुणीम्।
दयाविभवकारिणीं विशदरोचनाचारिणीं
त्रिलोचकुटुम्बिनीं त्रिपुरसुन्दरीमाश्रये॥२॥
कदम्बवनशालया कुचभरोल्लसन्मालया
कुचोपमितशैलया गुरुकृपालसद्वेलया।
मदारुणकपोलया मधुरगीतवाचालया
कयापि घननीलया कवचिता वयं लीलया॥ ३ ॥
कदम्बवनमध्यगां कनकमण्डलोपस्थितां
षडम्बुरुहवासिनींसततसिद्धसौदामिनीम्।
विडम्बितजपारुचिं विकचचन्द्रचूडामणिं
त्रिलोचनकुटुम्बिनीं त्रिपुरसुन्दरीमाश्रये॥ ४ ॥
कुचाञ्चितविपञ्चिकां कुटिलकुन्तलालंकृतां
कुशेशयनिवासिनीं कुटिलचित्तविद्वेषिणीम्।
मदारुणविलोचनां मनसिजारिसंमोहिनीं
मतङ्गमुनिकन्यकां मधुरभाषिणीमाश्रये॥ ५ ॥
स्मरेत्प्रथमपुष्पिणीं रुधिर बिन्दुनीलाम्बरां
गृहीतमधुपात्रिकां मदविघूर्णनेत्राञ्चलाम्।
घनस्तनभरोन्नतां गलितचूलिकां श्यामलां
त्रिलोचनकुटुम्बिनीं त्रिपुरसुन्दरीमाश्रये॥६॥
सकुङ्कुमविलेपनामलकचुम्बिकस्तूरिकां
समन्दहसितेक्षणां सशरचापपाशाङ्कुशाम्।
अशेषजनमोहिनीमरुणमाल्यभूषाम्बरां
जपाकुसुमभासुरां जपविधौ स्मराम्यम्बिकाम्॥ ७ ॥
पुरंदरपुरन्ध्रिकाचिकुरबन्धसैरन्ध्रिकां
पितामहपतिव्रतापटुपटीरचर्चारताम्।
मुकुन्दरमणीमणीलसदलंक्रियाकारिणीं
भजामि भुवनाम्बिकां सुरवधूटिकाचेटिकाम्॥ ८ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवतः कृतौ
त्रिपुरसुन्दर्यष्टकं संपूर्णम्॥
<MISSING_FIG href="../books_images/U-IMG-1722910123fula.PNG"/>
॥ श्रीः ॥
॥ ललितापञ्चरत्नम् ॥
<MISSING_FIG href="../books_images/U-IMG-1722908972adsfghjkm,lkmbn;.kmnjknm.PNG"/>
प्रातः स्मरामि ललितावदनारविन्दं
बिम्बाधरं पृथुलमौक्तिकशोभिनासम्।
आकर्णदीर्घनयनं मणिकुण्डलाढ्यं
मन्दस्मितं मृगमदोज्ज्वलफालदेशम्॥ १ ॥
प्रातर्भजामि ललिताभुजकल्पवल्लीं
रक्ताङ्गुलीयलसदङ्गुलिपल्लवाढ्याम्।
माणिक्यहेमवलयाङ्गदशोभमानां
पुण्ड्रेक्षुचापकुसुमेषुसृणीर्दधानाम्॥ २ ॥
प्रातर्नमामि ललिताचरणारविन्दं
भक्तेष्टदाननिरतं भवसिन्धुपोतम्।
पद्मासनादिसुरनायकपूजनीयं
पद्माङ्कुशध्वजसुदर्शनलान्छनाढ्यम्॥ ३ ॥
प्रातः स्तुवे परशिवां ललितां भवानीं
त्रय्यन्तवेद्यविभवां करुणानवद्याम्।
विश्वस्य सृष्टिविलयस्थितिहेतुभूतां
विद्येश्वरीं निगमवाङ्मनसातिदूराम्॥४॥
प्रातर्वदामि ललिते तव पुण्यनाम
कामेश्वरीति कमलेति महेश्वरीति।
श्रीशाम्भवीति जगतां जननी परेति
वाग्देवतेति वचसा त्रिपुरेश्वरीति॥ ५ ॥
यः श्लोकपञ्चकमिदं ललिताम्बिकायाः
सौभाग्यदं सुललितं पठति प्रभाते।
तस्मै ददाति ललिता झटिति प्रसन्ना
विद्यां श्रियं विमलसौख्यमनन्तकीर्तिम्॥ ६ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवतः कृतौ
ललितापञ्चरत्नं संपूर्णम्॥
<MISSING_FIG href="../books_images/U-IMG-1722908794Capturetyj5tgjkl;opi8y7tyrdfxvbm,.PNG"/>
॥ श्रीः॥
॥ कल्याणवृष्टिस्तवः ॥
<MISSING_FIG href="../books_images/U-IMG-1722908443sdftfygjhvbnm,.kljiyjthdvcxbn.PNG"/>
कल्याणवृष्टिभिरिवामृतपूरिताभि-
र्लक्ष्मीस्वयंवरणमङ्गलदीपिकाभिः।
सेवाभिरम्ब तव पादसरोजमूले
नाकारि किं मनसि भाग्यवतां जनानाम्॥ १ ॥
एतावदेव जननि स्पृहणीयमास्ते
त्वद्वन्दनेषु सलिलस्थगिते च नेत्रे।
सांनिध्यमुद्यदरुणायुतसोदरस्य
त्वद्विग्रहस्य परया सुधयाप्लुतस्य॥२॥
ईशत्वनामकलुषाः कति वा न सन्ति
ब्रह्मादयः प्रतिभवं प्रलयाभिभूताः।
एकःस एवजननि स्थिरसिद्धिरास्ते
यः पादयोस्तव सकृत्प्रणतिं करोति॥३॥
लब्ध्वा सकृत्त्रिपुरसुन्दरि तावकीनं
कारुण्यकन्दलितकान्तिभरं कटाक्षम्।
कंदर्पकोटिसुभगास्त्वयि भक्तिभाजः
संमोहयन्ति तरुणीर्भुवनत्रयेऽपि॥ ४ ॥
ह्रींकारमेव तव नाम गृणन्ति वेदा
मातस्त्रिकोणनिलये त्रिपुरे त्रिनेत्रे।
त्वत्संस्मृतौ यमभटाभिभवं विहाय
दीव्यन्ति नन्दनवने सह लोकपालैः॥
हन्तुः पुरामधिगलं परिपीयमानः
क्रूरः कथं न भविता गरलस्य वेगः।
नाश्वासनाय यदि मातरिदं तवार्धं
देहस्य शश्वदमृताप्लुतशीतलस्य॥६॥
सर्वज्ञतां सदसि वाक्पटुतां प्रसूते
देवि त्वदङ्घ्रिसरसीरुहयोः प्रणामः।
किं च स्फुरन्मकुटमुज्ज्वलमातपत्रं
द्वे चामरे च महतीं वसुधां ददाति॥७॥
कल्पद्रुमैरभिमतप्रतिपादनेषु
कारुण्यवारिधिभिरम्ब भवत्कटाक्षैः।
आलोकय त्रिपुरसुन्दरि मामनाथं
त्वय्येव भक्तिभरितं त्वयि बद्धतृष्णम्॥ ८ ॥
हन्तेतरेष्वपि मनांसि निधाय चान्ये
भक्तिं वहन्ति किल पामरदैवतेषु।
त्वामेव देवि मनसा समनुस्मरामि
त्वामेव नौमि शरणं जननि त्वमेव॥ ९ ॥
लक्ष्येषु सत्स्वपि कटाक्षनिरीक्षणाना-
मालोकय त्रिपुरसुन्दरि मां कदाचित्।
नूनं मया तु सदृशः करुणैकपात्रं
जातो जनिष्यति जनो न च जायते वा॥ १० ॥
ह्रींह्रीमिति प्रतिदिनं जपतां तवाख्यां
किं नाम दुर्लभमिह त्रिपुराधिवासे।
मालाकिरीटमदवारणमाननीया
तान्सेवते वसुमती स्वयमेव लक्ष्मीः॥ ११ ॥
संपत्कराणि सकलेन्द्रियनन्दनानि
साम्राज्यदाननिरतानि सरोरुहाक्षि।
त्वद्वन्दनानि दुरिताहरणोद्यतानि
मामेव मातरनिशं कलयन्तु नान्यम्॥ १२ ॥
कल्पोपसंहृतिषु कल्पितताण्डवस्य
देवस्य खण्डपरशोःपरभैरवस्य।
पाशाङ्कुशैक्षवशरासनपुष्पबाणा
सा साक्षिणी विजयते तव मूर्तिरेका॥१३॥
लग्नं सदा भवतु मातरिदं तवार्धं
तेजः परं बहुलकुङ्कुमपङ्कशोणम्।
भास्वत्किरीटममृतांशुकलावतंसं
मध्ये त्रिकोणनिलयं परमामृतार्द्रम्॥१४॥
ह्रींकारमेव तव नाम तदेव रूपं
त्वन्नाम दुर्लभमिह त्रिपुरे गृणन्ति।
त्वत्तेजसा परिणतं वियदादिभूतं
सौख्यं तनोति सरसीरुहसंभवादेः॥१५॥
ह्रींकारत्रयसंपुटेन महता मन्त्रेण संदीपितं
स्तोत्रं यः प्रतिवासरं तव पुरो मातर्जपेन्मन्त्रवित्।
तस्य क्षोणिभुजो भवन्ति वशगा लक्ष्मीश्चिरस्थायिनी
वाणी निर्मलसूक्तिभारभरिता जागर्ति दीर्घं वयः॥ १६ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवतः कृतौ
कल्याणवृष्टिस्तवः संपूर्णः॥
<MISSING_FIG href="../books_images/U-IMG-1722907561fool.PNG"/>
॥ श्रीः ॥
॥ नवरत्नमालिका ॥
————————
हारनूपुरकिरीटकुण्डलविभूषितावयवशोभिनीं
कारणेशवरमौलिकोटिपरिकल्प्यमानपदपीठिकाम्।
कालकालफणिपाशबाणधनुरङ्कुशामरुणमेखलां
फालभूतिलकलोचनां मनसि भावयामि परदेवताम्॥ १॥
गन्धसारघनसारचारुनवनागवल्लिरसवासिनीं
सान्ध्यरागमधुराधराभरणसुन्दराननशुचिस्मिताम्।
मन्धरायतविलोचनाममलबालचन्द्रकृतशेखरीं
इन्दिरारमणसोदरीं मनसि सावयामि परदेवताम्॥ २ ॥
स्मेरचारुमुखमण्डलां विमलगण्डलम्बिमणिमण्डलां
हारदामपरिशोभमानकुचभारभीरुतनुमध्यमाम्।
वीरगर्वहरनूपुरां विविधकारणेशवरपीठिकां
मारवैरिसहचारिणीं मनसि भावयामि परदेवताम्॥३॥
भूरिभारधरकुण्डलीन्द्रमणिबद्धभूवलयपीठिकां
वारिराशिमणिमेखलावलयवह्निमण्डलशरीरिणीम्।
वारिसारवहकुण्डलां गगनशेखरीं च परमात्मिकां
चारुचन्द्ररविलोचनां मनसि भावयामि परदेवताम्॥४॥
कुण्डलत्रिविधकोणमण्डलविहारषड्दलसमुल्लस-
त्पुण्डरीकमुखभेदिनीं च प्रचण्डभानुभासमुज्ज्वलाम्।
मण्डलेन्दुपरिवाहितामृततरङ्गिणीमरुणरूपिणीं
मण्डलान्तमणिदीपिकां मनसि भावयामि परदेवताम्॥
वारणाननमयूरवाहमुखदाहवारणपयोधरां
चारणादिसुरसुन्दरीचिकुरशेखरीकृतपदाम्बुजाम्।
कारणाधिपतिपञ्चकप्रकृतिकारणप्रथममातृकां
वारणान्तमुखपारणां मनसि भावयामि परदेवताम्॥
पद्मकान्तिपदपाणिपल्लवपयोधराननसरोरुहां
पद्मरागमणिमेखलावलयनीविशोभितनितम्बिनीम्।
पद्मसंभवसदाशिवान्तमयपञ्चरत्नपदपीठिकां
पद्मिनीं प्रणवरूपिणीं मनसि भावयामि परदेवताम्॥
आगमप्रणवपीठिकाममलवर्णमङ्गलशरीरिणीं
आगमावयवशोभिनीमखिलवेदसारकृतशेखरीम्।
मूलमन्त्रमुखमण्डलां मुदितनादबिन्दुनवयौवनां
मातृकां त्रिपुरसुन्दरीं मनसि भावयामि परदेवताम् ॥
कालिकातिमिरकुन्तलान्तघनभृङ्गमङ्गलविराजिनीं
चूलिकाशिखरमालिकावलयमल्लिकासुरभिसौरभाम्।
वालिकामधुरगण्डमण्डलमनोहराननसरोरुहां
कालिकामखिलनायिकां मनसि भावयामि परदेवताम् ॥
नित्यमेव नियमेन जल्पतां
भुक्तिमुक्तिफलदामभीष्टदाम्।
शंकरेण रचितां सदा जपे-
न्नामरत्ननवरत्नमालिकाम् ॥ १० ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवतः कृतौ
नवरत्नमालिका संपूर्णा ॥
<MISSING_FIG href="../books_images/U-IMG-1722857687EBS_5.png"/>
॥ श्रीः ॥
॥ मन्त्रमातृकापुष्पमालास्तवः ॥
<MISSING_FIG href="../books_images/U-IMG-1722855950EBS_2.png"/>
कल्लोलोल्लसितामृताब्धिलहरीमध्ये विराजन्मणि-
द्वीपे कल्पकवाटिकापरिवृते कादम्बवाट्युज्ज्वले।
रत्नस्तम्भसहस्रनिर्मितसभामध्ये विमानोत्तमे
चिन्तारत्नविनिर्मितं जननि ते सिंहासनं भावये ॥ १ ॥
एणाङ्कानलभानुमण्डललसच्छ्रीचक्रमध्ये स्थितां
बालार्कद्युतिभासुरां करतलैः पाशाङ्कुशौ बिभ्रतीम्।
चापं बाणमपि प्रसन्नवदनां कौसुम्भवस्त्रान्वितां
तां त्वां चन्द्रकलावतंसमकुटां चारुस्मितां भावये ॥ २ ॥
ईशानादिपदं शिवैकफलदं रत्नासनं ते शुभं
पाद्यं कुङ्कुमचन्दनादिभरितैरर्घ्यं सरत्नाक्षतैः।
शुद्धैराचमनीयकं तव जलैर्भक्त्या मया कल्पितं
कारुण्यामृतवारिधे तदखिलं संतुष्टये कल्पताम् ॥ ३ ॥
लक्ष्ये योगिजनस्य रक्षितजगज्जाले विशालेक्षणे
प्रालेयाम्बुपटीरकुङ्कुमलसत्कर्पूरमिश्रोदकैः।
गोक्षीरैरपि नारिकेलसलिलैः शुद्धोदकैर्मन्त्रितैः
स्नानं देवि धिया मयैतदखिलं संतुष्टये कल्पताम् ॥ ४ ॥
ह्रींकाराङ्कितमन्त्रलक्षिततनो हेमाचलात्संचितै
रत्नैरुज्ज्वलमुत्तरीयसहितं कौसुम्भवर्णांशुकम्।
मुक्तासंततियज्ञसूत्रममलं सौवर्णतन्तूद्भवं
दत्तं देवि धिया मयैतदखिलं संतुष्टये कल्पताम् ॥ ५ ॥
हंसैरप्यतिलोभनीयगमने हारावलीमुज्ज्वलां
हिन्दोलद्युतिहीरपूरिततरे हेमाङ्गदे कङ्कणे।
मञ्जीरौमणिकुण्डले मकुटमप्यर्धेन्दुचूडामणिं
नासामौक्तिकमङ्गुलीयकटकौकाञ्चीमपि स्वीकुरु ॥ ६ ॥
सर्वाङ्गे घनसारकुङ्कुमघनश्रीगन्धपङ्काङ्कितं
कस्तूरीतिलकं च फालफलके गोरोचनापत्रकम्।
गण्डादर्शनमण्डले नयनयोर्दिव्याञ्जनं तेऽञ्चितं
कण्ठाब्जे मृगनाभिपङ्कममलं त्वत्प्रीतये कल्पताम् ॥ ७ ॥
कह्लारोत्पलमल्लिकामरुवकैः सौवर्णपङ्केरुहै-
र्जातीचम्पकमालतीवकुलकैर्मन्दारकुन्दादिभिः।
केतक्या करवीरकैर्बहुविधैः क्लृप्ताः स्रजो मालिकाः
संकल्पेन समर्पयामि वरदे संतुष्टये गृह्यताम् ॥ ८ ॥
हन्तारं मदनस्य नन्दयसि यैरङ्गैरनङ्गोज्ज्वलै-
र्यैर्भृङ्गावलिनीलकुन्तलभरैर्बध्नासि तस्याशयम्।
तानीमानि तवाम्ब कोमलतराण्यामोदलीलागृहा-
ण्यामोदाय दशाङ्गगुग्गुलुघृतैर्धूपैरहं धूपये ॥ ९ ॥
लक्ष्मीमुज्ज्वलयामि रत्ननिवहोद्भास्वत्तरे मन्दिरे
मालारूपविलम्बितैर्मणिमयस्तम्भेषु संभावितैः।
चित्रैर्हाटकपुत्रिकाकरधृतैर्गव्यैर्घृतैर्वर्धितै-
र्दिव्यैर्दीपगणैर्धिया गिरिसुते संतुष्टये कल्पताम् ॥
ह्रींकारेश्वरि तप्तहाटककृतैः स्थालीसहस्रैर्भृतं
दिव्यान्नं घृतसूपशाकभरितं चित्रान्नभेदं तथा।
दुग्धान्नं मधुशर्करादधियुतं माणिक्यपात्रे स्थितं
माषापूपसहस्रमम्ब सफलं नैवेद्यमावेदये ॥ ११ ॥
सच्छायैर्वरकेतकीदलरुचा ताम्बूलवल्लीदलैः
पूगैर्भूरिगुणैः सुगन्धिमधुरैः कर्पूरखण्डोज्ज्वलैः।
मुक्ताचूर्णविराजितैर्बहुविधैर्वक्त्राम्बुजामोदनैः
पूर्णा रत्नकलाचिका तव मुदे न्यस्ता पुरस्तादुमे ॥१२॥
कन्याभिः कमनीयकान्तिभिरलंकारामलारार्तिका
पात्रे मौक्तिकचित्रपङ्क्तिविलसत्कर्पूरदीपालिभिः।
तत्तत्तालमृदङ्गगीतसहितं नृत्यत्पदाम्भोरुहं
मन्त्राराधनपूर्वकं सुविहितं नीराजनं गृह्यताम् ॥
लक्ष्मीर्मौक्तिकलक्षकल्पितसितच्छत्रं तु धत्ते रसा-
दिन्द्राणी च रतिश्च चामरवरे धत्ते स्वयं भारती।
वीणामेणविलोचनाः सुमनसां नृत्यन्ति तद्रागव-
द्भावैराङ्गिकसात्त्विकैः स्फुटरसं मातस्तदाकर्ण्यताम् ॥
ह्रीं
कारत्रयसंपुटेन मनुनोपास्ये त्रयीमौलिभि-
र्वाक्यैर्लक्ष्यतनो तव स्तुतिविधौ को वा क्षमेताम्बिके।
सल्लापाः स्तुतयः प्रदक्षिणशतं संचार एवास्तु ते
संवेशो नमसः सहस्रमखिलं त्वत्प्रीतये कल्पताम् ॥
श्रीमन्त्राक्षरमालया गिरिसुतां यः पूजयेच्चेतसा
संध्यासु प्रतिवासरं सुनियतस्तस्यामलं स्यान्मनः।
चित्ताम्भोरुहमण्टपे गिरिसुता नृत्तं विधत्ते रसा-
द्वाणी वक्रसरोरुहे जलधिजा गेहे जगन्मङ्गला ॥ १६ ॥
इति गिरिवरपुत्रीपादराजीवभूषा
भुवनममलयन्ती सूक्तिसौरभ्यसारैः।
शिवपदमकरन्दस्यन्दिनीयं निबद्धा
मदयतु कविभृङ्गान्मातृकापुष्पमाला ॥ १७ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवतः कृतौ
मन्त्रमातृकापुष्पमालास्तवः संपूर्णः॥
<MISSING_FIG href="../books_images/U-IMG-1722854519EBS_4.png"/>
॥ श्रीः ॥
॥ गौरीदशकम् ॥
<MISSING_FIG href="../books_images/U-IMG-1722854147EBS_2.png"/>
लीलालब्धस्थापितलुप्ताखिललोकां
लोकातीतैर्योगिभिरन्तश्चिरमृग्याम्।
बालादित्यश्रेणिसमानद्युतिपुञ्जां
गौरीमम्बामम्बुरुहाक्षीमहमीडे॥ १ ॥
प्रत्याहारध्यानसमाधिस्थितिभाजां
नित्यं चित्ते निर्वृतिकाष्ठां कलयन्तीम्।
सत्यज्ञानानन्दमयीं तां तनुरूपां
गौरीमम्बामम्बुरुहाक्षीमहमीडे॥ २ ॥
चन्द्रापीडानन्दितमन्दस्मितवक्त्रां
चन्द्रापीडालंकृतनीलालकभाराम्।
इन्द्रोपेन्द्राद्यर्चितपादाम्बुजयुग्मां
गौरीमम्बामम्बुरुहाक्षीमहमीडे॥३॥
आदिक्षान्तामक्षरमूर्त्या विलसन्तीं
भूते भूते भूतकदम्बप्रसवित्रीम्।
शब्दब्रह्मानन्दमयीं तां तटिदाभां
गौरीमम्बामम्बुरुहाक्षीमहमीडे ॥ ४ ॥
मूलाधारादुत्थितवीथ्या विधिरन्ध्रं
सौरं चान्द्रं व्याप्य विहारज्वलिताङ्गीम्।
येयं सूक्ष्मात्सूक्ष्मतनुस्तां सुखरूपां
गौरीमम्बामम्बुरुहाक्षीमहमीडे ॥ ५ ॥
नित्यः शुद्धो निष्कल एको जगदीशः
साक्षी यस्याः सर्गविधौ संहरणे च।
विश्वत्राणक्रीडनलोलां शिवपत्नीं
गौरीमम्बामम्बुरुहाक्षीमहमीडे ॥ ६ ॥
यस्याःकुक्षौ लीनमखण्डं जगदण्डं
भूयो भूयः प्रादुरभूदुत्थितमेव।
पत्या सार्धं तां रजताद्रौ विहरन्तीं
गौरीमम्बामम्बुरुहाक्षीमहमीडे ॥ ७ ॥
यस्यामोतं प्रोतमशेषं मणिमाला-
सूत्रे यद्वत्क्वापि चरं चाप्यचरं च।
तामध्यात्मज्ञानपदव्या गमनीयां
गौरीमम्बामम्बुरुहाक्षीमहमीडे ॥ ८ ॥
नानाकारैः शक्तिकदम्बैर्भुवनानि
व्याप्य स्वैरं क्रीडति येयं स्वयमेका।
कल्याणीं तां कल्पलतामानतिभाजां
गौरीमम्बामम्बुरुहाक्षीमहमीडे ॥ ९ ॥
आशापाशक्लेशविनाशं विदधानां
पादाम्भोजध्यानपराणां पुरुषाणाम्।
ईशामीशार्धाङ्गहरां तामभिरामां
गौरीमम्बामम्बुरुहाक्षीमहमीडे ॥ १० ॥
प्रातःकाले भावविशुद्धः प्रणिधाना-
द्भक्त्या नित्यं जल्पति गौरीदशकं यः।
वाचां सिद्धिं संपदमग्र्यां शिवभक्तिं
तस्यावश्यं पर्वतपुत्री विदधाति ॥ ११ ॥
<MISSING_FIG href="../books_images/U-IMG-1722851386EBS_3.png"/>
॥ श्रीः ॥
॥ भवानीभुजंगम् ॥
<MISSING_FIG href="../books_images/U-IMG-1722848831EBS_2.png"/>
षडाधारपङ्केरुहान्तर्विराज-
त्सुषुम्नान्तरालेऽतितेजोल्लसन्तीम्।
सुधामण्डलं द्रावयन्तीं पिबन्तीं
सुधामूर्तिमीडे चिदानन्दरूपाम्॥ १ ॥
ज्वलत्कोटिबालार्कभासारुणाङ्गीं
सुलावण्यशृङ्गारशोभाभिरामाम्।
महापद्मकिञ्जल्कमध्ये विराज-
त्त्रिकोणे निषण्णां भजे श्रीभवानीम्॥ २ ॥
क्वणत्किङ्किणीनूपुरोद्भासिरत्न-
प्रभालीढलाक्षार्द्रपादाब्जयुग्मम्।
अजेशाच्युताद्यैः सुरैः सेव्यमानं
महादेवि मन्मूर्ध्नि ते भावयामि॥३॥
सुशोणाम्बराबद्धनीवीविराज-
न्महारत्नकाञ्चीकलापं नितम्बम्।
स्फुरद्दक्षिणावर्तनाभिं च तिस्रो
वलीरम्ब ते रोमराजिं भजेऽहम् ॥ ४ ॥
लसद्वृत्तमुत्तुङ्गमाणिक्यकुम्भो-
पमश्रि स्तनद्वन्द्वमम्बाम्बुजाक्षि।
भजे दुग्धपूर्णाभिरामं तवेदं
महाहारदीप्तं सदा प्रस्नुतास्यम्॥ ५॥
शिरीषप्रसूनोल्लसद्बाहुदण्डै-
र्ज्वलद्बाणकोदण्डपाशाङ्कुशैश्च।
चलत्कङ्कणोदारकेयूरभूषो-
ज्ज्वलद्भिर्लसन्तीं भजे श्रीभवानीम्॥६॥
शरत्पूर्णचन्द्रप्रभापूर्णबिम्बा-
धरस्मेरवक्त्रारविन्दां सुशान्ताम्।
सुरत्नावलीहारताटङ्कशोभां
महासुप्रसन्नां भजे श्रीभवानीम् ॥ ७ ॥
सुनासापुटं सुन्दरभ्रूललाटं
तवौष्ठश्रियं दानदक्षं कटाक्षम्।
ललाटे लसद्गन्धकस्तूरिभूषं
स्फुरच्छ्रीमुखाम्भोजमीडेऽहमम्ब॥ ८ ॥
चलत्कुन्तलान्तर्भ्रमद्भृङ्गबृन्दं
घनस्निग्धधम्मिल्लभूषोज्ज्वलं ते।
स्फुरन्मौलिमाणिक्यबद्धेन्दुरेखा-
विलासोल्लसद्दिव्यमूर्धानमीडे॥ ९ ॥
इति श्रीभवानि स्वरूपं तवेदं
प्रपञ्चात्परं चातिसूक्ष्मं प्रसन्नम्।
स्फुरत्वम्ब डिम्भस्य मे हृत्सरोजे
सदा वाङ्मयं सर्वतेजोमयं च॥ १० ॥
गणेशाभिमुख्याखिलैः शक्तिबृन्दै-
र्वृतां वै स्फुरच्चक्रराजोल्लसन्तीम्।
परां राजराजेश्वरि त्रैपुरि त्वां
शिवाङ्कोपरिस्थां शिवां भावयामि॥ ११ ॥
त्वमर्कस्त्वमिन्दुस्त्वमग्निस्त्वमाप-
स्त्वमाकाशभूवायवस्त्वं महत्त्वम्।
त्वदन्यो न कश्चित्प्रपञ्चोऽस्ति सर्वं
त्वमानन्दसंवित्स्वरूपां भजेऽहम्॥१२॥
श्रुतीनामागम्ये सुवेदागमज्ञा
महिम्नो न जानन्ति पारं तवाम्ब।
स्तुतिं कर्तुमिच्छामि ते त्वं भवानि
क्षमस्वेदमत्र प्रमुग्धः किलाहम्॥१३॥
गुरुस्त्वं शिवस्त्वं च शक्तिस्त्वमेव
त्वमेवासि माता पिता च त्वमेव।
त्वमेवासि विद्या त्वमेवासि बन्धु-
र्गतिर्मे मतिर्देवि सर्वंत्वमेव॥ १४ ॥
शरण्ये वरेण्ये सुकारुण्यमूर्ते
हिरण्योदराद्यैरगण्ये सुपुण्ये।
भवारण्यभीतेश्च मां पाहि भद्रे
नमस्ते नमस्ते नमस्ते भवानि॥ १५ ॥
इतीमां महच्छ्रीभवानीभुजंगं
स्तुतिं यः पठेद्भक्तियुक्तश्च तस्मै।
स्वकीयं पदं शाश्वतं वेदसारं
श्रियं चाष्टसिद्धिं भवानी ददाति॥ १६ ॥
भवानी भवानी भवानी त्रिवार-
मुदारं मुदा सर्वदा ये जपन्ति।
न शोकं न मोहं न पापं न भीतिः
कदाचित्कथंचित्कुतश्चिज्जनानाम्॥ १७ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवतः कृतौ
भवानीभुजंगं संपूर्णम्॥
♦⇔♦≈♦⇔♦
♦⇔♦
♦
<MISSING_FIG href="../books_images/U-IMG-1722848637ddddd.png"/>
]