अच्युताष्टकम्

[[अच्युताष्टकम् Source: EB]]

[

अच्युताष्टकम्

अच्युतं केशवं रामनारायणं

कृष्णदामोदरं वासुदेवं हरिम् ॥

श्रीधरं माधवं गोपिकावल्लभं

जानकीनायकं रामचन्द्रं भजे ॥ १॥

अच्युतं केशवं सत्यभामाधवं

माधवं श्रीधरं राधिकाराधितम् ॥

इन्दिरामन्दिरं चेतसा सुन्दरं

देवकीनन्दनं नन्दनं संदधे ॥ २॥

विष्णवे जिष्णवे शङ्खिने चक्रिणे

रुक्मिनीरागिणे जानकीजानये ॥

वल्लवीवल्लभायाऽर्चितायात्मने

कंसविध्वंसिने वंशिने ते नमः ॥ ३॥

कृष्ण गोविन्द हे राम नारायण

श्रीपते वासुदेवाजित श्रीनिधे ॥

अच्युतानन्त हे माधवाधोक्षज

द्वारकानायक द्रौपदीरक्षक ॥ ४॥

राक्षसक्षोभितः सीतया शोभितो

दण्डकारण्यभूपुण्यताकारणः ॥

लक्ष्मणेनान्वितो वानरैः सेवितोऽ

गस्त्यसंपूजितो राघवः पातु माम् ॥ ५॥

धेनुकारिष्टकोऽनिष्टकृद्द्वेषिणां

केशिहा कंसहृद्वंशिकावादकः ॥

पूतनाकोपकः सूरजाखेलनो

बालगोपालकः पातु माम् सर्वदा ॥ ६॥

विद्युदुद्धयोतवानप्रस्फुरद्वाससं

प्रावृडम्भोदवत्प्रोल्लसद्विग्रहम् ॥

वन्यया मालया शोभितोरःस्थलं

लोहितांघ्रिद्वयं वारिजाक्षं भजे ॥ ७॥

कुञ्चितैः कुन्तलैर्भ्राजमानाननं

रत्नमौलिं लसत् कुण्डलं गण्डयोः ॥

हारकेयूरकं कङ्कणप्रोज्ज्वलं

किङ्किणीमञ्जुलं श्यामलं तं भजे ॥ ८॥

अच्युतस्याष्टकं यः पठेदिष्टदं
प्रेमतः प्रत्यहं पूरुषः सस्पृहम् ।

वृत्ततः सुंदरं कर्तृ विश्वंभरं
तस्य वश्यो हरिर्जायते सत्वरम् ॥ ९॥


इति श्रीशंकराचार्यविरचितमच्युताष्टकं संपूर्णम् ॥

]