[[शिवयोगदीपिका Source: EB]]
[
<MISSING_FIG href="../books_images/U-IMG-1723824356sacchi.PNG"/>
Satchidanand Shivabhinav Narsinha Bharati.
सच्चिदानंद शिवाभिनव नरसिंह भारती, पीठ शृंगेरी.
** **चि. शा. पुणे.
<MISSING_FIG href="../books_images/U-IMG-1723959286दद.PNG"/>
सदाशिव ब्रम्ह.
चित्रशाला पुणे.
[TABLE]
शिवयोगदीपिका प्रस्तावना।
——————————
सन १८८४ मितसंवत्सरारम्भे शिवयोगदीपिकाख्यो ग्रन्थः ‘पुडुकोटा’ संस्थाने प्राप्तः।मद्रासइलाखा- न्तर्गतदक्षिणभागे द्राविडदेशे बहुस्थलेषु एतद्ग्रन्थस्य पुस्तकानि वर्तन्ते। अस्मिन्ग्रन्थे संक्षेपेण मन्त्रलयहठराजाख्यचतुर्विधयोगानां सौलभ्येन स्पष्टतया च वर्णनं कृत्वा व्यवस्थानिर्णयोऽस्ति।
उपरिनिर्दिष्टग्रन्थस्य कर्ता क इत्यस्मिन्विषये प्रमाणतयैतद्ग्रन्थे विनाऽन्यत्साधनं नास्ति। ग्रन्यस्य नाम्ना सदाशिवयोगीश्वरः कर्तेति अनुमीयते। ‘पुडुकोटा’ संस्थाने ये सदाशिवब्रह्मनाम्ना प्रसिद्धाअवधूत- योगीश्वरा अभवंस्त एवैत इति प्रतिभाति। किं च साग्रग्रन्थनिरीक्षणेनापि एतादृशमहात्मानं योगीश्वरं विनाऽन्यः कोऽपि एताहगनुभवप्रतिपादकग्रन्थलेखको भवेदित्यनुमातुं न शक्यते। यतोऽस्मिन्ग्रन्थे सर्वयोगभूमिकानां सूक्ष्माङ्गप्रत्यङ्गविभागेन यथा विवेचनं कृतं दृश्यते तथा सुलभतया संक्षिप्ततया च वर्णनं कर्तुं सदाशिवब्रह्मयोगीश्वरानवधूतान्विना कोऽपि अनुभवसिद्धस्तद्देशे भूतपूर्व इति न श्रुतम्। किं च ग्रन्थमहत्त्वेनैतद्ग्रन्थोपयुक्तता त्वत्यन्तं विद्यते।
ग्रन्थप्रतिपाद्यविषयविज्ञापनात्प्रागियद्वाचकेभ्योऽवश्यं निवेदनीयं यथा ब्रह्मसूत्राणि दशोपनिषत्प्रति- पाद्यसर्वविषयाणां व्यवस्थापकत्वेन निर्णायकानि, तथा पातञ्जलसूत्राण्यपि योगप्रतिपादकबहूप- निषत्प्रतिपाद्यबहुविधयोगस्य साकल्येन व्यवस्थापकत्वान्निर्णायकानीत्यत्र न संदेहः। योगप्रतिपादको- पनिषदां विद्यारण्यगुरुश्रीशंकरानन्दविरचिता दीपिका अपि आनन्दाश्रमे मुद्रिता वर्तन्ते।
इदानीं प्रकाश्यमानग्रन्थेऽष्टशतोपनिषन्मध्ये यासु योगः प्रतिपाद्यस्ता योगोपनिषदस्तत्प्रतिपाद्यविषय- संग्रहः कृतोऽस्ति। यासामुपनिषदामेतद्दीपिकायां समावेशस्तदुपनिषन्नामनिर्देशोऽग्रउचितस्थले करिष्यते।
अन्यदेकं महद्वर्तते तच्च केचन वाचका इतिहासदृष्ट्या योगोपानषत्कालनिर्णयवत्प्रामाण्य आक्षिपेयुस्तेभ्य इदमवश्यं निवेद्यते–तात्त्विकदृष्टया योगोपनिषत्प्रतिपादितविषयजातज्ञानमभ्यासिनां जिज्ञासूनां चात्यन्तोपयोगि, अतस्तासां तज्ज्ञान्प्रति अत्यन्तोपयुक्तता विद्यते।
शिवयोगदीपिकायाः पञ्च भागा विद्यन्ते। तत्र प्रथमे विषयोपक्रमः। द्वितीयतृतीययोर्हठयोगविवेचनम्। चतुर्थपञ्चमयोरष्टोत्तरशतोपनिषन्मध्यस्थमण्डलब्राह्मणोपनिषदि राजयोगाख्यतद्भाष्ये च ये विषयास्तेषां प्रतिपादनम्।राजयोगभाष्यसहिता मण्डलबाह्मणोपनिषत्पुस्तकरूपेण ‘महाराजराजश्री ए० महादेवशास्त्री बी० ए० क्युरेटर गह्वरमेन्ट ओरिएन्टललायब्ररी ह्मैसूर’ इत्येतैः संशोध्य मुद्रापिता। एतद्वेदान्तविषयेऽपि ‘सर० के० शेषाद्रिआयर’ एतेषां बुद्धिमत्ताया यावती प्रशंसा क्रियेत तावती स्वल्पा। अत्रैतावत्कथनमवश्यं मण्डलब्राह्मणोपनिषद्येव राजयोगस्य सांख्यतारकामनस्करूपत्रैविध्येन स्पष्टतया वर्णनं वर्तते।
योगतत्त्वोपनिषदि योगशिखोपनिषदि वराहोपनिषदि च चतुर्विधयोगानां ये चतुर्विधा अधिकारिण- स्तेषां वर्णनं दृश्यते।
यासूपनिषत्सु केवलं योगस्यैव विवेचनं ता उपनिषदोऽत्र प्रदर्श्यन्ते—
१. मन्त्रयोगस्य विवरणं बहूपनिषत्सु विद्यते तथाऽपि विशेषतो योगतत्त्वोपनिषदि योगशिखोपनिषदि च वर्तते।
२. लययोगस्य सविस्तरं वर्णनं हंसोपनिषदि, सौभाग्यलक्ष्म्युपनिषद्, योगचूडामण्युपनिषद्, वराहोपनिषद्, मण्डलबाह्मणोपनिषद्, इत्यादिषु प्रसङ्गतो वर्णनम्।
३. हठयोगस्य वर्णनमधोनिर्दिष्टोपनिषत्सु दृश्यते—
१ योगतत्त्वोपनिषद् २ योगचूडामणण्यु० ३ योगशिखो० ४ योगकुण्डलि० ५ अमृतनादो० ६नादबिन्दू. ७ ध्यानबिन्दू० ८ ब्रह्मविद्योपनिषद् ९ वराहो०। शाण्डिल्योपनिषदि तु सविस्तरं हठयोगस्यवर्णनम्।
४. राजयोगप्रतिपादिका उपनिषदः—
१ मण्डलबाह्मणो० २अद्वयतारको० ३ तेजोबिन्दू० (श्रीमदाचार्यविरचितापरोक्षानुभूतिग्रन्थे विषया अत्रत्या एव स्युः।) ४ त्रिशिखि० ५ दर्शनोपनिषद् (एतद्विषयाः सूतसंहिताज्ञानवैभवखण्ड आयाताः। श्रीमज्जगद्गुरु—श्रीशंकराचार्यशृङ्गेरीपीठश्रीमद्विद्यारण्यस्वामिनां सूतसंहिताव्याख्यानं वर्तते) ६ अमृतबिन्दू० (३ हठयोगवर्णने निर्दिष्टासूपनिषत्सु प्रसङ्गतो वर्णनम्।)
एतदन्यासु बहुषूपनिषत्सु वेदान्तप्रतिपाद्यज्ञानयोगापरपर्यायराजयोगस्य वर्णनमस्ति। ताश्चोपनिषदः—
१ ब्रह्मोपनिषद् २ कैयल्यो० ३ श्वेताश्वतरो० ४ मैत्रेय्यु० ५ स्कन्दोपनिषद् ६ निरालम्बोपनिषद् ७ निर्वाणो ८ तथा संन्यासविधायकोपनिषदो नव—१ नारदपरिव्राजको० २ संन्यासो० ३ परमहंसपरिव्राजको० ४ भिक्षुको० ५ तुरीयातीतो० ६ अवधूतो० ७ याज्ञवल्क्यो० ८ जाबालो० ९ परमहंसो०।
वैद्यप्यस्माभिर्योगोपनिषदां स्थूलो विभागो हठराजरूपद्वैविध्येन कृतंस्तथाऽप्येतादृशविभागकरणं वस्तुतः समीचीनं न। यतः सर्वास्वप्युपनिषत्सु हठराजयोगयोरभ्यासक्रमः कथितोऽस्ति। तस्मादयं विभागो गौण इति ज्ञेयम्। सप्राणायामध्यानं हठयोगः। केवलध्यानं राजयोग इति सर्वसंमतं सर्वश्रुतं च। अष्टस्वङ्गेषु यमनियमासनप्राणायामाख्यानि चत्वारि अङ्गानि बहिरङ्गाणि। तेषां विनियोगो हठेऽस्ति। प्रत्याहारो धारणा चान्तरङ्गे राजयोगस्येति योगिनो मन्यन्ते। राजयोगस्य श्रेष्ठान्तरङ्गध्यानजातः समाधिः फलम्। हठयोगे प्राणायामसाहाय्येन समाधिः साध्यः। एवं सर्वा अप्युपनिषदो लक्ष्यरूपेण समाधिस्थितेः प्रशंसां कुर्वन्ति। तथा च समाधिस्थितिः संपादनीयेत्यत्र न संशयः। एतद्विषये कस्यापि विवादो नास्ति। अतः प्रसङ्गतोऽष्टाङ्गनिरूपणं सर्वत्र न्यूनाधिकप्रमाणेन दृश्यते। तस्मात्सर्वासूपनिषत्सु हठराजयोगयोर्वर्णनस्य सत्त्वादविभागेनैव सर्वोपनिषत्सु हठराजयोगयोर्निरूपणमित्यपि वक्तुं प्रशस्तम्।योगतत्त्वयोगशिखोपनिषद्रीत्या हठयोगो राजयोगस्य पूर्वभूमिकेति वक्तुं युक्तम्। प्रख्यात- हठप्रदीपिकायामपीत्थमुक्तम्। हठयोगप्रदीपिकाग्रन्थे हठयोगस्याङ्गानां निरूपणं स्पष्टतया विद्यते।
योगतत्त्वोपनिषद्।
योगो हि बहुधा ब्रह्मन्भिद्यते व्यवहारतः।
मन्त्रयोगो लयश्चैव हठोऽसौ राजयोगकः॥१९॥
आरम्भश्च घटश्चैव तथा परिचयः स्मृतः।
निष्पत्तिश्चेत्यवस्था च सर्वत्र परिकीर्तिता॥२०॥
योगशिखा।
कथितं तु तव प्रीत्या ह्येतदभ्यासलक्षणम्।
मन्त्रो लयो हठो राजयोगोऽन्तर्भूमिकाः क्रमात्॥ १३०॥
एक एव चतुर्धाऽयं महायोगोऽभिधीयते।
श्रीआदिनाथाय नमोऽस्तु तस्मै येनोपदिष्टा हठयोगविद्या।
विभ्राजते प्रोन्नतराजयोगमारोढुमिच्छोरधिरोहणीव॥
प्रणम्य श्रीगुरुं नाथं स्वात्मारामेण योगिना।
केवलं राजयोगाय हठविद्योपदिश्यते॥२॥ १ उपदेशः
राजयोगमजानन्तः केवलं हठकर्मिणः।
एतानभ्यासिनो मन्ये प्रयासफलवर्जितान्॥७९॥ ४ उ०
सर्वे हठलयोपाया राजयोगस्य सिद्धये।
राजयोगसमारूढः पुरुषः कालवञ्चकः॥१०३॥ ४ उ०
राजयोगं विना पृथ्वी राजयोगं विना निशा॥ ३ उपदेशः
राजयोगं विना मुद्रा विचित्राऽपि न शोभते॥१२६॥
राजयोगाभ्यासकर्तृभ्यः सूचना—केषांचिद्वेदान्तपण्डितानां मतं कानिचिदक्षराणि वाक्यानि च संज्ञाभूतानि। यथा, ॐ प्रणवः, वेदान्तमहावाक्यानि तत्त्वमस्यादीनि। एतेषामर्थचिन्तनमेव ध्यानपदवाच्यं राजयोगाभ्यास इति। इदं न यथार्थम्। राजयोगाभ्यासेच्छुभ्य इंयत्सविनयं विज्ञाप्यते निर्गुणब्रह्मस्थिति-सिध्द्यर्थं नानाविधानि श्रुतिवाक्यानि बहुविधसरण्या क्वचित्संक्षिप्ततया क्वचिद्विस्तृततया च साधनादि- प्रतिपादनं कुर्वन्ति। सर्ववाक्याणामन्तिमो हेतुस्तु अधिकारिमात्रस्य प्रणवध्यानपूर्वकनिर्विकल्प- समाधिद्वारा ब्रह्मप्राप्तिः। अन्यथा नानार्थशब्दजालचिन्तनेनाभ्यासे विघ्नसंभवः।
प्रणव धनुः शरो ह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते।
अप्रमत्तेन वेद्धव्यं शरवत्तन्मयो भवेत्॥
मुण्डकस्य द्वितीयः खण्डः।
धारणाख्याङ्गसाहचर्यं विना ध्यानस्थितिसिद्धिरशक्या। इदमत्र तात्पर्यं ध्यानस्यैव निदिध्यासनमित्य- परपर्यायः। ध्यान एव च धारणाया अन्तर्भावो भवतीति।
योगचूडामण्युपनिषद्यपि एतत्सिद्धान्तप्रतिपादनं वर्तते—
प्राणायामद्विषट्केन प्रत्याहारः प्रकीर्तितः।
प्रत्याहारद्विषट्केन जायते धारणा शुभा॥१११॥
धारणा द्वादश प्रोक्तं ध्यानं योगविशारदैः।
ध्यानद्वाशकेनैव समाधिरभिधीयते॥११२॥
यत्समाधौ परं ज्योतिरनन्तं विश्वतोमुखम्।
तस्मिन्दृष्टे क्रिया कर्मयातायातो न विद्यते॥११३॥
मण्डलबाह्मणोपनिषद्यपि–ध्यानविस्मृतिः समाधिरिति। एतद्याख्यानमपि चित्ते स्थापयितुमर्हम्। तच्च–विषयव्यावर्तनपूर्वकं चैतन्ये चेतस्थापनं धारणा भवति। सर्वशरीरेषु चैतन्यैकतानता ध्यानम्। ध्यानविस्मृतिः समाधिरिति। उपरिनिर्दिष्टधारणाध्यानसमाधिलक्षणावलोकनेनैतज्ज्ञायेत राजयोगस्येति- कर्तव्यतायाः सीमा समाधिः। स च ध्यानं विना साध्यो न।ध्यानसिद्धिस्तु धारणाबलमवलम्ब्य। इदं शास्त्रसंमतमनुभवसिद्धं च। अतो राजयोगाभ्यासिनामेतदन्तरङ्गसाधनाभ्यासोऽत्यन्तमावश्यक इतिकथनस्याप्यपेक्षा नैव विद्यते। राजयोगः, सांख्ययोगः, ज्ञानयोगः, वेदान्तविचारः, एते सर्वे शब्दा एकार्थवाचका इतिज्ञापनस्याऽऽवश्यकता दृश्यते।
हठयोगप्रदीपिका ४ उपदेशः।
राजयोगः समाधिश्च उन्मनी च मनोन्मनी।
अमरत्वं लयस्तत्त्वं शून्याशून्यं परं पदम्॥३॥
अमनस्कं तथाऽद्वैतं निरालम्बं निरञ्जनम्।
जीवन्मुक्तिश्च सहजा तुर्या चेत्येकवाचकाः॥४॥
एतद्विषये सुज्ञान्प्रार्थये तैर्वराहोपनिषदश्चतुर्थोऽध्यायो वाच्यः। तत्रैको मनोरञ्जक इतिहासो वर्णितोऽस्ति। शुकयोगीश्वराः सांख्ययोगिन आसन्। तेषां मार्गस्य विहंगममार्ग इति संज्ञा। वामदेवास्तु हठयोगाभ्यासित्वात्पिपीलिकामार्गावलम्बिनः। पिपीलिकामार्गाख्यहठयोगावलम्बनेन वामदेवानामष्ट- सिद्धिरूपान्तरायात्तस्मिन्नेव जन्मनि जीवन्मुक्तिसुखप्राप्त्यभावः। किंच विदेहकैवल्ये मुक्तिप्राप्तौ वाऽन्तरायप्राप्त्या पुनर्जन्मस्वीकार एवाऽऽवश्यकोऽभवत्। एवंरीत्या हठयोगे सिद्धयः पुनर्जन्म च विघ्ना वर्तन्ते। एवं हठराजयोगयोर्महदन्तरमित्येतस्यार्थस्य प्रकटीकरणे पूर्वोक्तेतिहासस्य तात्पर्यं विद्यते।
एतद्दीपिकायां ध्यानं धारणेति क्रमो वर्तते परं तु पाठक्रमादर्थक्रमो बलीयानिति न्यायेनोपनिषदा- दिप्रामाण्येन च धारणा ध्यानमिति क्रमो ज्ञेयः।
कै० सर मुतुस्वामी आयर इत्येतैर्बहुभ्यो वत्सरेभ्यः पूर्वं नाम सन १८९४ मितवत्सरे मह्यं योगमार्ग- प्रकाशमेच्छा प्रदर्शिता। तथा योगा–
भ्यासकरण इदानींतनमत्प्रकृतप्रयत्नेनाल्पमपि साहाय्यं स्याच्चेत्तर्हि मच्छ्रमस्य पूर्णं सार्थक्यं जातमिति मंस्ये। एतद्ग्रन्थशोधनादौ पुण्यनगरस्थैर्बहुमान्यैः’डाक्टर गणेश कृष्ण गर्दे एल एम् अँड एस’ इत्येतैर्बहू- पकृतं तथाऽऽनन्दाश्रमव्यवस्थापकैः ‘रा. रा. हरि नारायण आपटे’ इत्येतैर्मदिच्छामुररीकृत्यैतद्ग्रन्थमुद्रा- पणादिना बहूपकृतम्।
‘काशीनाथशास्त्री आगाशे’इत्येतैरियं प्रस्तावनाऽऽर्ययोगीश्वरकृष्णस्वामिप्रार्थनया संस्कृतभाषया व्यलेखीति शम्।
_________________________
ॐ तत्सद्ब्रह्मणे नमः।
श्रीदक्षिणामूर्तये नमः।
सदाशिवयोगीश्वरविरचिता
शिवयोगदीपिका।
——————
तत्र प्रथमः पटलः।
—————
परमयोगिमनोम्बुजषट्पदं त्रिविधकारणकारणमव्ययम्।
सगुणनिर्गुणतत्त्वमनामयं गुरुसदाशिवलिङ्गमहं भजे॥१॥
श्रीमद्गुरुप्रसादेन योगं ज्ञात्वा शिवात्मकम्।
वक्ष्यामि सुप्रबोधाय शिवयोगप्रदीपिकाम्॥२॥
शिवतत्त्वविदां श्रेष्ठ वक्ष्यामि शृणु तेऽधुना।
शिवयोगं परं गुह्यमपि त्वद्भक्तिगौरवात्॥ ३॥
मन्त्रो1 लयो हठो राजा चेति योगाश्चतुर्विधाः।
तानाहुः पूर्वमुनयः सिद्धाः शंभुप्रबोधितान्॥४॥
एकाक्षरं द्व्यक्षरं वा षडक्षरमथापि वा।
अष्टाक्षरं वा मोक्षाय मन्त्रयोगी सदा जपेत्॥५॥
यस्य चित्तं निजं ध्यायेन्मनसा मरुता सह।
लीनं भवति नादेन लययोगी स एव हि॥ ६॥
भवेदष्टाङ्गमार्गेण मुद्राकरणबन्धनैः।
तथा केवलकुम्भेन हठयोगी वशानिलः॥७॥
त्रिषु लक्ष्येषु यो ब्रह्मसाक्षात्कारं गमिष्यति।
ज्ञानोपायमनोवृत्तिरहितो राजयोगवित्॥८॥
उत्तरोत्तरवैशिष्ट्याद्योगाश्चत्वार एव हि।
तेष्वेक एव मुख्योऽसौ राजयोगोत्तमोत्तमः॥९॥
सोऽपि त्रिधा भवेत्सांख्यस्तारकश्चामना इति।
पञ्चविंशतितत्त्वानां ज्ञानं यत्सांख्यमुच्यते॥१०॥
बहिर्मुद्रापरिज्ञानाद्योगस्तारक उच्यते।
अन्तर्मुद्रापरिज्ञानादमनस्क इतीरितः॥११॥
श्लाघ्यः सांख्यात्तारकोऽयममनस्कोऽपि तारकात्।
राजत्वात्सर्वयोगाणां राजयोग इति स्मृतः॥१२॥
नाभेदः शिवयोगस्य राजयोगस्य तत्त्वतः।
शिवार्चिनां तथाऽप्येवमुक्तो बुद्धेः प्रवर्तते॥१३॥
प्रतिपाद्यस्तयोर्भेदस्तथा शिवरतात्मनाम्।
तस्मान्मनीषिभिर्ग्राह्यः शिवयोगस्तु केवलः॥१४॥
ज्ञानं शिवमयं भक्तिः शैवं ज्ञानं शिवात्मकम्।
शैवं व्रतं शिवार्चेति शिवयोगी हि पञ्चधा॥१५॥
शिवाचारविहीनो यः पशुरेव न संशयः।
स तु संसारचक्रेऽस्मिन्नजस्रं परिवर्तते॥१६॥
सत्यं वदामि तत्तत्त्वं निर्णीतं पूर्वसूरिभिः।
सर्वदेवमयः साक्षात्सर्वभूतमयस्तथा॥१७॥
सर्वज्ञानसमः सम्यक्सर्वतत्त्वोत्तरोत्तरः।
सर्वतेजोमयः साक्षात्सर्वानन्दस्वरूपवान्॥१८॥
मायासमेतः सकलो निष्कलः केवलः परः।
अस्तिनास्तिद्वयातीतो वाङ्मनोगोचरात्मकः॥१९॥
अवर्णो वर्णसंयुक्तो नीरूपी विश्वरूपभृत्।
परमात्मा परं ब्रह्म कश्चिद्देवोऽस्ति चिच्छिवः॥२०॥
शिवादुत्पद्यते शक्तिःशान्त्यतीता परात्मिका।
अप्रतर्क्यगुणोपेता जृम्भते सा शिवाज्ञया॥२१॥
सा शक्तिः पञ्चधा भिन्ना भवति ब्रह्मरूपिणी।
पञ्चभूतात्मिका नित्या तस्या आसीदिदं जगत्॥२२॥
आदौ व्योम्नि स्थितो भाति साक्षाद्देवः सदाशिवः।
सदाशिवादीश्वरोऽपि संभूतः पवने स्थितः॥२३॥
ईश्वरादभवद्रुद्रोवह्नौ स्थित्वा प्रतापवान्।
रुद्राद्विष्णुर्महातेजा वारितत्त्वे व्यवस्थितः॥२४॥
विष्णुतत्त्वोदितो ब्रह्मा पृथ्वीतत्त्वे व्यवस्थितः।
एवं पराशक्तिजाता विश्वपाः पञ्च मूर्तयः॥२५॥
निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिस्तथैव च।
शान्त्यतीता कला ह्येताः स्थिता ब्रह्मादिमूर्तिषु॥२६॥
तया शिवाज्ञया ह्येता वर्तन्ते सुमहोज्ज्वलाः।
ब्रह्मणो देवता दैत्या मुनयो मानवास्तथा॥२७॥
स्वेदजा अण्डजाः सर्वे प्राणिनश्च जरायुजाः।
तृणगुल्मलतावृक्षाद्यनेकोद्भिज्जकोटयः॥२८॥
गिरयः सरितश्चान्ये समुद्राश्च सरांसि च।
संभवन्ति क्रमेणैव तस्माच्छिवमयं जगत्॥२९॥
यस्तं शिवं केवलचित्स्वरूपं सूर्येन्दुवैश्वानरमण्डलस्थम्।
गुरुप्रसादात्त्रिमलं क्षयित्वा ध्यात्वा यजन्मोक्षसुखं प्रयाति॥३०॥
शिवज्ञानं द्विधा ज्ञेयं सगुणं निर्गुणं तथा।
आदौ सगुणमाश्रित्य पश्चान्निर्गुणमाचरेत्॥३१॥
सगुणं बहुधा प्रोक्तं बाह्याभ्यन्तरगोचरम्।
इन्द्रियादिभिरग्राह्यं निर्गुणं त्वन्तरिक्षवत्॥३२॥
एवं तत्त्वपरिज्ञानं गुरुष्वेव व्यवस्थितम्।
अत एव मुमुक्षूणां पूजनीयश्च सद्गुरुः॥३३॥
सदायुरारोग्यमपारभूतिं विद्यां यशः स्वर्गसुखं च मोक्षम्।
फलानि सर्वाणि नरः समाप्तुं कथं समर्थो गुरुणा विहीनः॥३४॥
उक्तलक्षणसंपन्नमाचार्यं सर्ववेदिनम्।
कर्मणा मनसा वाचा शिववत्पूजयेद्गुरुम्॥३५॥
तस्मागुरुमुखेणैव दीक्षितो यः शिवार्चकः।
चतुर्वर्गफलावाप्तिः सुखं तस्य करे स्थिता॥३६॥
त्रिकालं वा द्विकालं वा एककालमथापि वा।
भक्त्या गुरुक्तमार्गेण पूजयेच्चिन्मयं शिवम्॥३७॥
अन्तर्यागो बहिर्यागो द्विविधं तच्छिवार्चनम्।
मुख्या चाभ्यन्तरे पूजा सा च बाह्यार्चनोदिता॥३८॥
आत्मस्थमत्यन्तरुचिप्रशान्तमश्रान्तमीशं हि यजन्ति सन्तः।
तं बाह्यनानाप्रतिमासु बाह्यक्रियाभिरेवाल्पधियो यजन्ति॥३९॥
हृत्पद्मं शिवधर्मकन्दसहितं सुज्ञाननालं तथा।
नित्यैश्वर्यदलाष्टकं शशिनिभं वैराग्यसत्कर्णिकम्॥
श्रीरुद्रेश्वरकेसराञ्चितमिदं संचिन्त्य तन्मध्यमे।
सूर्येन्दुज्वलवह्निमण्डलगतं ध्यायेच्छिवं चिन्मयम्॥४०॥
प्रसन्नवदनं शान्तं ह्यष्टवर्षीयमुज्ज्वलम्।
अनेककोटिकंदर्पलावण्यसमविग्रहम्॥४१॥
चतुर्भुजं मृगीटङ्कवरदाभयधारिणम्।
चन्द्ररेखाशिरोभूषं शरच्चन्द्रनिभद्युतिम्॥४२॥
दिव्याम्बरधरं देवं दिव्यगन्धानुलेपनम्।
दिव्याभरणशोभाढ्यं दिव्यपुष्पैरलंकृतम्॥४३॥
त्रिनेत्रं त्रिगुणाधारं त्रिमलक्षयकारणम्।
सर्वमङ्गलया देव्या निजवामाङ्कशोभितम्॥४४॥
भास्वत्कल्पतरोर्मूले फलपुष्पसमन्विते।
वेदिकायां समासीनं नवरत्नमयासनम्॥४५॥
अद्वैतमच्युतं विष्णुं नित्यं निर्वाणगोचरम्।
अचिन्त्यमजमव्यक्तमादिमध्यान्तवर्जितम्॥४६॥
परं शिवं हृदि ध्यात्वा निश्चयीभूतमानसः।
यजेदाभ्यन्तरद्रव्यैरवधानेन तद्यथा॥४७॥
शमाम्बुपरिषेचनं सकलपूर्णभावाम्बरं
त्रिशक्तिगुणसंयुतं विहितयज्ञसूत्रं तथा।
स्वसंविदनुलेपनं समधिकानुकम्पाक्षतान्
शिवाय विनिवेदयेत्प्रकटभक्तिपुष्पाणि च॥४८॥
धूपमान्तरचतुष्टयेन वै दीपमिन्द्रियगुणोत्तरेण तु।
कल्पयेच्च सुखदुःखवर्जितं जीवरूपमुपहारमान्तरे॥४९॥
रजस्तमःसत्त्वगुणत्रयं च ताम्बूलकं प्राणनमस्कृतिं च।
इत्येवमाभ्यन्तरमुख्यपूजाद्रव्याणि संपादय शंकराय॥५०॥
अथवाऽऽवाहनाद्यैस्तमुपचारैश्च राजवत्।
पूजयस्व शिवं भक्त्या परमात्मानमान्तरे॥५१॥
अत एव सदा पूजामिमामाभ्यन्तरीं कुरु।
समस्तपापदलनीं सर्वदुःखविनाशिनीम्॥५२॥
शिवभक्तिप्रदां साक्षान्मनोनैर्मल्यकारिणीम्।
सर्वैश्वर्यकरीं सम्यग्योगज्ञानप्रदायिनीम्॥५३॥
इति श्रीसदाशिवयोगीश्वरविरचितायां शिवयोगदीपिकायां प्रथमः पटलः।
________________
अथ द्वितीयः पटलः।
_________
अथ ते संप्रवक्ष्यामि शिवपूजाविधिं बुधैः।
पुनःप्रकारमाख्यातं योगमार्गैकगोचरम्॥१॥
योगात्संजायते ज्ञानं ज्ञानाद्योगः प्रवर्तते।
द्वयोः संसिद्धये भूमौ शरीरं रक्षयेद्बुधः॥२॥
शरीरं कफनाशेन सुस्थैर्यं याति निश्चितम्।
स कफो हठयोगेन विनश्यति शरीरिणाम्॥३॥
शिवयोगःसाधकानां साध्यस्तत्साधनं हठः।
यमादिभिरथाष्टाङ्गैर्देवपूजां समाचरेत्॥४॥
यमनियमगुणैश्च स्वात्मसिद्धिं विधाय
स्ववशविविधपीठैरेव भूत्वा स्थितात्मा।
असुनियमजलेन स्नापयेद्दिव्यलिङ्गं
प्रकटितचतुरङ्गं बाह्यमेतद्विधानम्॥५॥
शंभोरपीन्द्रियनिवर्तनमेव गन्धो
ध्यानं प्रसूननिचयो दृढधारणा सा।
धूपः समाधिरिति शुद्धमहोपहार-
माभ्यन्तराख्यचतुरङ्गविधानमेतत्॥६॥
एवमष्टाङ्गयोगेन सदाऽन्तःपद्मसद्मनि।
पूजयेत्परमं देवं किं बाह्यैर्देवपूजनैः॥७॥
स्वात्मन्येव सदाऽष्टाङ्गैः पूजयेच्छिवमव्ययम्।
शैवः स एव विद्वांश्च स च योगविदां वरः॥८॥
सुब्रह्मचर्यं नियताशनं च धृतिर्दया सूनृतमार्जवं च।
शौचं क्षमाऽस्तेयमथो अहिंसा यमा दशैते मुनिभिः प्रणीताः॥९॥
संतोष आस्तिक्यगुणो मतिश्व तपो व्रतं शंकरपूजनं च।
ह्रीर्योगशास्त्रश्रवणं जपश्च प्रदानमेते नियमा दश स्मृताः॥१०॥
यमैश्च नियमैः सम्यगेवं विंशतिसंख्यया।
स्थिरश्च नियतो भूत्वा स्वात्मशुद्धिं समाचरेत्॥११॥
सिद्धाम्बुजं स्वस्तिकमुक्तवीरभद्राहिभुक्केसरिगोमुखानि।
सुखासनं चैव समङ्कितानि तथा दशैतानि वरासनानि॥१२॥
गृहिणामम्बुजं नित्यं सिद्धं त्वितरवर्त्मनाम्।
सुखासनं च सर्वेषामित्येतत्रिविधं वरम्॥१३॥
यानि कानि प्रशस्तानि ह्यासनानि वशानि च।
तेष्वभीष्टासनासीनो विविक्तस्थानमाश्रयेत्॥१४॥
तत्र रम्यं मठं कुर्यात्सूक्ष्मद्वारं च निर्व्रणम्।
प्राकारवेष्टितं शुद्धं बहिःशालासमन्वितम्॥१५॥
सुगन्धकुसुमाकीर्णं वितानपरिशोभितम्।
मृदूपधानशय्याद्यैरासनाद्यैः समाकुलम्॥१६॥
सुधूपवासितं नित्यं गोमयेन सुलेपितम्।
समित्पुष्पफलोपेतं कन्दमूलफलान्वितम्॥१७॥
समग्रभस्मरुद्राक्षकुशाजिनविभूषितम्।
शुद्धान्नपानसंपन्नं सर्वौषधसमाश्रितम्॥१८॥
सदा मनोहरास्पन्दं मठे वासमुपेत्य च।
सदाशिवं प्रपूजयेद्हृदि स्थिरसमाहितः॥१९॥
तद्यथा शृणु हे विद्वन्नादौ केवलकुम्भके।
प्राणायामजलेनैव स्नापयेच्चिन्मयं शिवम्॥२०॥
प्राणायामस्तथा प्रोक्तः प्राकृतो वैकृतस्तथा।
ताभ्यां विना जृम्भतेऽसौ केवलः कुम्भकः स्वयम्॥२१॥
निश्वासोच्छ्वासरूपेण रेचपूरस्वभावतः।
प्राणानिले वर्तमाने प्राकृतः स उदाहृतः॥२२॥
आगमोक्तविधानेन रेचपूरककुम्भकैः।
यदि प्राणनिरोधः स्याद्वैकृतः स उदाहृतः॥२३॥
प्राकृतं वैकृतं चेति द्वयमेतन्महात्मनः।
क्षणात्संस्तम्भयेद्यस्तु स हि केवलकुम्भकः॥२४॥
प्राकृतो मन्त्रयोगः स्याद्वैकृतो लय एव हि।
हठः केवलकुम्भाख्यो राजयोगोऽमनाः स्मृतः॥२५॥
प्रथमस्त्वजपायोगो नादो वायोर्लयस्तथा।
मनोनिलस्थिरं पश्चाद्वृत्तिशून्यं चतुर्थकम्॥२६॥
प्राणवायुनिरोधेन लभते च चतुष्टयम्।
तस्मादभ्यासशूरस्त्वं प्राणायामपरो भव॥२७॥
सकारान्तमिदं बीजं बहिर्याति सबिन्दुकम्।
सविसर्गंसकारान्तं तद्बीजं प्रविशत्यधः॥२८॥
प्राणानिलश्च सर्वेषां प्रवर्तकनिवर्तकः।
एवं जीवोऽजपानामगायत्रीं जपतेऽन्वहम्॥२९॥
एकविंशतिसहस्रसंख्यया षट्शताधिकमहर्निशं नरः।
श्रीगुरुक्तविधिनाऽरुणोदये संस्मरन्वहति सोऽजपाफलम्॥३०॥
अजपां नाम संकल्प्य नरः पापैः प्रमुच्यते।
शिवयोगमवाप्नोति शीघ्रमेव न संशयः॥३१॥
अजपानामगायत्रीमन्त्रं वर्णद्वयं यदा।
त्रिवेणीसंगमे लीनं स शब्दः प्रणवो भवेत्॥३२॥
सोऽहं कृत्वाऽऽत्ममन्त्रं स्वपदपरतरं व्यक्तवर्णद्वयं त-
द्व्यालुम्पेद्व्यञ्जने द्वेपुनरपि रचयेद्दिव्यमोंकारमन्त्रम्।
कृत्वाऽनुस्वारयुक्तं सकलमनुपरं ब्रह्मनाडीं नयेद्यः
पूर्णानन्दः स कुण्डल्यनुभवविकलः कर्मणे सूतिमेति॥३४॥
इला स्मृतेन्दुरिति सूर्यसुतेति योगात्
सा पिङ्गलाऽर्क इति विष्णुपदीति तासाम्।
सा मध्यमाऽग्निरिति गीरिति या त्रिवेणी
योगस्थलं तदिदमेव हि यत्त्रिकूटम्॥३५॥
तस्मात्त्रिकूटनामापि त्रिवेणी संगमस्थलम्।
शृङ्गाटकचतुष्पीठनामान्येकस्थलस्य हि॥३६॥
शब्दद्वारे गते यत्र गन्धद्वारे तथैव च।
समायोगैश्चतुष्पीठशृङ्गाटकसुसंज्ञिकम्॥३७॥
उच्छ्वासनिश्वासकृतासुवायुना त्रिकूटदेशे मनसा सहाङ्ग।
स्थित्वा सुषुम्नाख्यतदूर्ध्वनाडिकात्रिकोणमार्गे गमनं कुरुष्व॥३८॥
प्राणानिलस्योद्गमने निरोधे निपातिता चोर्ध्वसुसूक्ष्मशक्तिः।
प्रत्याहते मध्यगता प्रबोधिता सा योगतो मूलनिकुञ्चनी स्यात्॥३९॥
तस्मात्त्रिविधशक्तीनां पातेन प्रविबोधनात्।
आकुञ्चनेन योगीन्द्रा यान्त्यमी परमं पदम्॥४०॥
अत एव महाश्चर्यं चन्द्रसूर्याग्निसद्मनि।
संधानं कुरु तद्भक्त्या प्रणवध्वनिना सह॥४१॥
त्रयो वेदास्त्रयो देवास्त्रयो लोकास्त्रयो गुणाः।
ओमित्येकाक्षरे मन्त्रे परे ब्रह्मणि सन्ति वै॥४२॥
इति सर्वे च संसिद्धा विदुः केवलकुम्भकम्।
हठे ह्येकमिदं श्रेष्ठं गोपितं परमाद्भुतम्॥४३॥
गमागमौ प्राणवायोर्विधानेन हि गच्छतः।
यथा तस्य शरीरस्य गमागमविधिस्तथा॥४४॥
सिद्धसंमतशास्त्रेषु स्थितः केवलकुम्भकः।
तथाऽप्यतिरहस्यत्वान्न विजानाति मूढधीः॥४५॥
गुरोर्यस्य प्रसादाच्च सिध्येत्केवलकुम्भकः।
यदि किं करणैर्मुद्राबन्धनैर्वा समाधिभिः॥४६॥
निःशब्दे केवले कुम्भे प्राप्ते विष्णोः पदं महत्।
तथा खलु तयोरैक्यं जीवात्मपरमात्मनोः॥४७॥
निःशब्दं तत्त्वमित्याहुरनिर्वाच्यं परं पदम्।
भूतेन्द्रियादिप्रकृतेस्तत्त्वानां च लयात्मकम्॥४८॥
मूलोड्याणजलन्द्रबन्धनविधामभ्यास्यतो योगिनो
वायोरुद्गमने निरङ्कुशविधेस्तद्योमसंरोधनात्॥
भूतानीन्द्रियवर्गतद्गुणमनोहंचित्तबुद्ध्यादयः
सर्वं लीनमुपैति वृत्तिरहितं सौख्यं तदा किंचन॥४९॥
योऽपानसूर्यमथ वायुनिरोधनेन
प्राणेन्दुना सह तदूर्ध्वगतं प्रकृत्या।
योगैकसिद्धिमनिशं कुरुते समस्तां
प्रज्ञावतामपि स एव हि मूलबन्धः॥५०॥
अधश्चोर्ध्वं च नाभेर्यो बन्धनं कुरुते बलात्।
उड्डियानमसौ बन्धो रुग्जरामृत्युनाशनः॥५१॥
कण्ठमाकुञ्च्य हृदये स्थापयेच्चिबुकं दृढम्।
एष जालंधरो बन्ध ऊर्ध्वामृतनिबन्धकः॥५२॥
अथोर्ध्वमध्यस्थिरबन्धनाभ्यामाकुञ्चनादूर्ध्वमपानवायोः।
घ्राणैकरन्ध्रे मरुतां प्रवेशाच्छीघ्रंभवेत्केवलकुम्भसिद्धिः॥५३॥
अयं केवलकुम्भाख्यो यस्याजस्रं वशो भवेत्।
सदा भवति विख्यातः स एव प्राणसंयमी॥५४॥
प्राणायामविधानं यो मासत्रयमपि समाचरेन्नियतः।
तनुलघुता दीपनता नाडीशुद्भिर्ध्वनि श्रतस्य भवेत्॥५५॥
गगनं पवने प्राप्ते तत्क्षणादुन्मनी भवेत्।
केवलं कुम्भकं प्राप्तो तावदेव समभ्यसेत्॥५६॥
नवा गुरुं ब्रह्मविदां वरेण्यं जित्वाऽन्तरस्थं षडमित्रवर्गम्।
स्थित्वा सदैकान्तविशुद्धदेशे ध्यात्वा शिवं भ्रूयुगमध्यपद्मे॥५७॥
श्रुत्वा सदाऽनाहतदिव्यनादं धृत्वा विभिन्नामलबिन्दुरत्नम्।
पीत्वा सुधां चन्द्रमसः पतन्तीं छित्त्वाऽथ संकल्पविकल्पजालम्॥५८॥
कृत्वा त्रिकूटे दृढबन्धनं ततो गत्वा त्रिकोणे मनसाऽनिलैः सह।
भित्त्वा तथैवोपरि सूक्ष्मकुण्डलीं नीत्वा सखे विष्णुपदं सुखी भव॥५९॥
इत्थं शिवं विष्णुपदस्वरूपं विष्णुं सदा भावितविष्णुमूर्तिम्।
विष्णोः पदं केवलकुम्भशुद्धं प्राणाम्बुना स्नानविधौ भजस्व॥६०॥
इति श्रीसदाशिवयोगीश्वरविरचितायां शिवयोगदीपिकायां द्वितीयः पटलः।
________________
अथ तृतीयः पटलः।
——————
इतियमादिचतुरङ्गविधानं बाह्यमुक्तमभिरञ्जितवाक्यैः।
अथ शिवार्पितमनाः शृणु वक्ष्ये अन्तरङ्गचतुरङ्गविधानम्॥१॥
सन्मनोमहितशोणतलेऽस्मिञ्श्रोत्रमुख्यविजितेन्द्रियवर्गात्।
जातघृष्टविमलामलगन्धैर्लेपनं गुरुसदाशिवलिङ्गे॥२॥
संकोचमाचरति कूर्म इहाङ्गकाना-
मङ्गे यथा भुवि तथा निखिलेन्द्रियाणि।
प्रत्याहरस्वनियतात्मनि संयतात्मा
मन्यामहे परमतत्त्वमिदं तदेव॥३॥
आधारमुख्यनलिनैर्विविधैः सुवर्णे-
स्तन्मध्यभासुरतरैः सुमनोभिरङ्ग।
नानाविधैः सगुणनिर्गुणभावपुष्पैः
श्रीलिङ्गमूर्तिमनिशं हृदि पूजयस्व॥४॥
आधार लिङ्गमणिपूरकहृद्विशुद्धि-
भ्रूमध्यमस्तकनभोबिलसंज्ञकानि।
एतानि तानि यमिनां सुखदायकानि
ध्यानस्थलानि सुविचित्रतराणि नूनम्॥५॥
अन्तश्चेतोनियमितबहिश्चक्षुरिष्टासनं च
कायावक्रत्वमनिशमहो ध्यानमुद्रेयमस्याम्।
स्वात्मानन्दं समरसगतं शान्तमद्वैतरूपं
शैवध्यानं कुरु हृदि सखे ह्यद्यमुक्तस्त्वमेव॥६॥
ध्यामस्थलेषु सर्वेषु नव चक्राणि योगिभिः।
श्रेष्ठानि तानि कथ्यन्ते वक्ष्यामि शृणु तेऽधुना॥७॥
मूलाधारे त्रिधा वृत्तं ब्रह्मचक्रं भगोपमम्।
तत्कन्देऽग्निनिभां ध्यायेदथ शक्तिमभीष्टदाम्॥८॥
स्वाधिष्ठानं ततश्चक्रं तत्र चातुर्दलाम्बुजम्।
तदेवोड्यायनं ध्यायेत्पश्चिमाभिमुखं शिवम्॥९॥
पञ्चावर्तं नाभिचक्रं सर्पाकारं तडिन्निभम्।
तत्र कुण्डलिनी मध्ये शक्तिं सिद्धिप्रदां स्मरेत्॥१०॥
अधोमुखाष्टपत्राब्जयुतं हृच्चक्रमिष्टदम्।
तन्मध्ये कर्णिकां ज्योतिर्लिङ्गाकारमिमं स्मरेत्॥११॥
पञ्चमं कण्ठचक्रं च तत्राङ्गुलिचतुष्टये।
इडापिङ्गलयोर्मध्ये सुषुम्नां सुस्थितां स्मरेत्॥१२॥
षष्ठं च घण्टिकालिङ्गमूलं तद्राजदन्तकम्।
ध्यायेत्तदूर्ध्वं तद्द्वारं तत्र शून्यं सुसिद्धये॥१३॥
भूचक्रं सप्तमं त्वेकं नालं कन्दं सुवाक्प्रदम्।
ध्यायेद्दीपशिखाकारं तन्मध्ये ज्ञानलाञ्छनम्॥१४॥
ब्रह्मरन्धेऽष्टमं चक्रं निर्वाणाख्यं सुसूक्ष्मकम्।
तत्र जालंधरं धूमशिखाभं मोक्षदं स्मरेत्॥१५॥
आकाशचक्रं नवमं प्रशस्तं त्रिकूटकं पूर्णगिरीशपीठम्।
तत्रोर्ध्वशक्तिं शुभदां सुशून्यां ध्यायेद्द्वयाष्टारसरोजमध्ये॥१६॥
अथ ते षोडशाधारान्कथयामि विशेषतः।
तेजोध्यानं पदाङ्गुष्ठेकुर्याद्दृष्टिःस्थिरा भवेत्॥१७॥
पादस्य पार्ष्णिकामूलं द्वितीयाधारसंज्ञिकम्।
संपीड्य स्थापयेदग्निदीपनं भवति क्षणात्॥१८॥
आकुञ्चयेत्तथाऽऽधारं सदा संकोचनेन तु।
अपानमरुतस्थैर्यं जायते तद्वितीयकम्॥१९॥
मेढ्रागारे दण्डसंकोचनेन ब्रह्मग्रन्थींस्त्रीन्समुत्पाट्य पश्चात्।
चेतोवायूपस्थनाड्यां प्रवेशादिन्दुस्तम्भःसंभवत्येव सिद्धम्॥२०॥
पञ्चमाधारमोड्यानं ध्यानं कृत्वा मुहुर्मुहुः।
मलमूत्रकृमीणां च मारणं भवति ध्रुवम्॥२१॥
नाभ्याधारं ततः षष्ठे प्रणवं यो वदेद्बुधः।
समाधिनैकचित्तेन तस्य नादे लयो भवेत्॥२२॥
सप्तमं तु हृदाधारं तत्र प्राणान्निरोधयेत्।
तदा तन्मध्यकमलं विकासं भजति क्षणात्॥२३॥
कण्ठाधारं कण्ठमूलं पीडयेच्चिबुकेन तु।
इडापिङ्गलयोर्वायुप्रवाहः सुस्थिरो भवेत्॥२४॥
नवमं घण्टिकाधारं जिह्वाग्रं तत्र दापयेत्।
सुधासारं स्रवत्येव सदा संतृप्तिकारणम्॥२५॥
या लम्बिका चालनदोहनाभ्यां दीर्घीकृता तां विपरीतमार्गात्।
यस्तालुमूलान्तरगर्भदेशे प्रवेशयेत्सोन्मनितां प्रयाति॥२६॥
जिह्वादौरसनाधारं कुर्याद्यो मथनं यदि।
सिध्येत्तस्यामृतास्वादः कविता च स्फुटा भवेत्॥२७॥
द्वादशं दशनाधारमूर्ध्वं तद्राजदन्तकम्।
षण्मासाद्दृश्यते ज्योतिरन्तर्जिह्वाग्रघट्टनात्॥२८॥
त्रयोदशं प्राणमूलं तत्र दृष्टिः स्थिरीकृता।
यदि चेन्मनसा नित्यं वायुस्तत्र स्थिरो भवेत्॥२९॥
चतुर्दशं ललाटाख्यमाधारं तत्र योगवित्।
मनसा वायुमारोप्य सर्वसिद्धिमवाप्नुयात्॥२०॥
भ्रुवाधारं पञ्चदशं तदूर्ध्वं चक्षुषा बुधः।
पश्येत्संकिरणाकारं शीघ्रमेव हि पश्यति॥३१॥
नेत्राधारं षोडशं तु तदूर्ध्वं चालयेद्बुधः।
ज्योतिष्पुञ्जमपाङ्गे तत्पश्यति क्षिप्रमेव हि॥३२॥
बन्धत्रयेणाऽऽसनबन्धनेन मन्त्रेण नादश्रवणेन योगी।
भवेत्तदा केवलकुम्भकेन ध्यानेन चित्ताष्टविधावधानी॥३३॥
देहपात्रे ज्वलज्ज्ञानवह्नौ भूतगुणाधिकम्।
क्षिप्त्वा दशाङ्गवल्लिङ्गं धूपयेद्धारणाद्बुधः॥३४॥
ध्यानैकगोचरमतिस्थिरता भवेद्या
सा धारणेति शिवयोगविदो वदन्ति।
शैवक्रमेण रचितेह पुनः प्रकाराद्भू-
म्यादिभूतधरणेन पृथक्पृथक्॥३५॥
धारिणी वारुणी चैव आग्नेया मारुती तथा।
नभोमयीति कथ्यन्ते सूरिभिः पञ्च धारणाः॥३६॥
अत एव तथा प्रोक्ता धारणा योगवित्तमैः।
सर्वसिद्धिप्रदास्ताश्च सदाभ्यासरतात्मनाम्॥३७॥
पादादिजान्वन्तमहीतलेऽस्मिन्वायुं लकारेण समाधिरोप्य।
स्मरंश्चतुर्बाहुधरं चतुर्मुखं संधारयेद्भूमिजयं समाप्नुयात्॥३८॥
वकारेणोपेतं सलिलनिलये जानुनाभ्यन्तदेशे
स्थिरं कृत्वा वायुं मधुरिपुममुं संस्मरेत्पीतचेलम्।
प्रसन्नास्यं शुद्धस्फटिकमणिनिभं शङ्खचक्राङ्कबाहुं
जलादुत्पन्नोद्यद्वयजयमिदं त्वं भजे वारुणीयम्॥३९॥
नाभेः कण्ठान्तदेशे वरशिखिनिलये वायुमारोप्य रेफा-
त्र्यक्षं रुद्रस्वरूपं तरुणरधिनिभं भस्मनोद्धूलिताङ्गम्।
शान्तं शीघ्रप्रसन्नं वरदमभयदं संस्मरन्भावयेत्तं
यस्तस्याभ्यासिनोऽग्नेर्भयहरणमिहासंभवेद्धारणायाः॥४०॥
गलादिभ्रुवोर्मध्यदेशे समीरस्थले मान्तवर्णेन देदीप्यमानम्।
प्रकाशस्वरूपं स्मरेदीश्वरं यः सखे वायुवत्क्रीडतीशप्रभावात्॥४१॥
अभ्रूमध्यादिकान्ते पवनमतिदृढं व्योमदेशे प्रकुर्व-
न्सोमं सोमार्धमौलिं दशकरकमलं पञ्चवक्त्रं त्रिनेत्रम्।
श्रीकण्ठं सायुधं तं समधिकवरदं सर्वतत्त्वादितत्त्वं
बिन्दुं व्योमस्वरूपं शिवमभययुतं चिन्तयेद्यः स मुक्तः॥४२॥
इत्येवं धारणाः पञ्च घटिकापञ्चकान्विताः।
एकैकांधारयेत्ताभिर्देहसिद्धिं भजेन्नरः॥४३॥
एतासु भूम्यादिकधारणासु नृणां सदा प्राणनिरोधनेन।
ये दोषजाः सर्वपुराणरोगा नश्यन्ति शीघ्रं न हि संशयोऽत्र॥४४॥
ज्ञानेन कर्मणा पञ्च धारणा योगिभिर्धृताः।
समभ्यासरता यत्र तरन्ति भवसागरम्॥४५॥
** इयं धारणा।अथ समाधिः—**
सुज्ञानदीपं सुधियाऽवलम्ब्य हृदालये त्वं मनसाऽवलोक्य।
स्वात्मोपहारं परमात्मलिङ्गेसमाधिनाऽस्मिन्विनिवेदयस्व॥४६॥
जलसैन्धवयोर्यथैक्ययोगो भवतीहापि तथैव सामरस्यम्।
मनसश्च सदाऽऽत्मनश्च योगात्स समाधिरिति कथ्यते मुनीन्द्रैः॥४७॥
यदा भवति चैकत्वं जीवात्मपरमात्मनोः।
तदा समाध्यवस्थायां गमिष्यन्ति यमीश्वराः॥४८॥
श्रोत्रादीनि न चेन्द्रियाणि विषयाः शब्दादयोऽहं मनो-
वृत्तिर्नैव सुखासुखानि च तथा मानावमानावपि।
शीतोष्णामितपुण्यपापसुमहासंकल्पजालान्यहो
नैवानेन समाधिना सह मनोलीने परब्रह्मणि॥४९॥
युक्ताहारी मुनीन्द्रो निरशनपर एवाथवा युक्तनिद्रो
निद्रात्यक्तो गुहायां वसति विचरति क्ष्मातले निस्पृहात्मा।
नानाकर्मक्रियासु प्रथितकुशलयुक्तोऽपि वा निष्क्रियो वा
नानाचेष्टास्वजस्रं विहरति च समाधौ समासक्तचेताः॥५०॥
एवमष्टाद्गयोगेन हठेनानेन नीष्ठकैः।
अनालस्यकृताभ्यासात्सिद्धयः शृणु तस्य ताः॥५१॥
प्रथमे हतरुग्वर्षे सर्वलोकप्रियो भव।
वत्सरे च द्वितीयेऽथ कवितां कुरुते सुवाक्॥
भुजगाद्यैस्तथा दुष्टैस्तृतीये न प्रबाध्यते॥५२॥
चतुर्थकेऽनातुरता पिपासा निद्रादिशीतातपवर्जितः स्यात्।
दूरश्रवाः पञ्चमवत्सरे वाक्सिद्धिं परेषां तनुषु प्रवेशः॥५३॥
षष्ठेन वज्रैरपि नैव भिद्यते ततोऽतिवेगी च स दूरदर्शनः।
त्यजेद्भुवं सप्तमवत्सरेऽथ विभूतयस्तस्य भवेयुरष्टमे॥५४॥
गगनचरो दिग्विचरो नवमेऽब्दे यस्तु वज्रकायः स्यात्।
स मनोवेगी दशमे यत्रेच्छा तत्र गच्छति प्रमनाः॥५५॥
एकादशके वर्षे सर्वज्ञः सिद्धिमान्भवेद्योगी।
द्वादशके शिवतुल्यो कर्ता हर्ता स्वयं भवति॥५६॥
द्वादशवर्षैरेवं सद्गुरुनाथस्य पादयोर्भक्त्या।
निर्विघ्नेन धृतात्मा सिद्धो भवतीति संसिद्धम्॥५७॥
अत एव महाश्चर्यं योगमष्टाङ्गमादरात्।
शिवपूजाङ्गमेतद्धि त्वमेवाभ्यसनं कुरु॥५८॥
निरन्तरकृताभ्यासाज्जरामरणवर्जितः।
स जीवेदिच्छया लोके ततो मुक्तिमवाप्नुयात्॥५९॥
यमेन नियमेनैव मन्ये भक्तिरिव स्वयम्।
स्थिरासनसमायुक्तो महेश्वरपरान्वितः॥६०॥
चराचरलयस्थानं लिङ्गमाकाशसंज्ञिकम्।
प्राणेत व्योम्नि संलीने प्राणलिङ्गी भवेन्नरः॥६१॥
प्रत्याहारेण संयुक्तः प्रसीदति न संशयः।
ध्यानधारणसंयुक्तो चरणस्थलवान्सुधीः॥६२॥
लिङ्गैक्याद्वैतभावात्मा निश्चलैक्यसमाधिना।
एवमष्टाङ्गयोगेन वीरशैवो भवेन्नरः॥६३॥
तस्मात्सर्वप्रयत्नेन कर्मणा ज्ञानतोऽपि वा।
त्वमप्यष्टाङ्गयोगेन शिवयोगी भवानघ॥६४॥
इति श्रीसदाशिवयोगीश्वरविरचितायां शिवयोगदीपिकायां तृतीयः पटलः।
______________
अथ चतुर्थःपटलः।
____________
यत्सर्वगं श्रुतिशिरःपरमैकमाद्यं
ज्योतिर्मयं दृढविरक्तजनाभिगम्यम्।
गोसंस्थितं गुरुसदाशिवयोगिनाथं
लिङ्गस्वरूपमहमन्वहमाश्रयामि॥१॥
राजयोगः परिग्राह्यो विद्वद्भिस्तेन हेतुना।
यस्य साधनमष्टाङ्गहठयोग इहोच्यते॥२॥
पूर्वोक्तविधाङ्गानि हठे तानि स्थितानि च।
एकैकश्लोकरूपेण कृतानि च मया शृणु॥३॥
आहारनिद्रेन्द्रियदेहसर्वव्यापारशीतातपसंज्ञितानाम्।
जयश्च शान्तिश्च भवेद्यमाङ्गः शनैः शनैः साधयितुं स योग्यः॥४॥
भक्तिर्गुरौ परमतत्त्वपदेऽनुरक्ति-
र्निःसङ्गता स्वयमुपागतलाभतुष्टिः।
एकान्तवासपरता च मनोनिवृत्ति-
र्वैराग्यभाव इति ये नियमास्त एव॥५॥
स्वस्वरूपे सर्वकालमासनत्वं सुखासनम्।
सर्ववस्तुन्युदासीनभावश्चाऽऽसनमीरितम्॥६॥
विदुर्बुधा रेचकपूरकुम्भसंघट्टनश्वासतया प्रयत्नात्।
प्राणस्थिरत्वं जगतां च मिथ्या चित्तं स्थिरं प्राणनिरोधभावः॥७॥
चित्तस्यान्तर्मुखेन प्रतिहतबहुचैतन्यकल्लोलजाल-
स्वोत्पन्नस्यास्य नानाविपुलमतिविकारस्य संसक्तिरेव।
तत्तन्नानाविकारग्रसनमिति तथा कथ्यते योगविद्भिः
प्रत्याहारः स एवाविचलितसुमनास्तं कदाऽहं भजामि॥८॥
सोऽहंभावात्प्रकटितपद्मद्वैतमुख्यस्वभावं
यद्यल्लोके स्फुरति खलु तदात्मस्वरूपस्वभावम्।
सम्यग्दृष्टिर्गुरुकरुणया सर्वभूतेषु याति
स्वात्वारामः स भवति सखे ध्यानमार्गैकनिष्ठः॥९॥
स्फुरति परमतत्त्वं तस्य बाह्यान्तरे यत्
सततममलमत्या धारणं निश्चलेन।
पुनरपि च वदामस्ते प्रकाशोऽयमास्ते
चलनरहितचित्तं केवलं धारणा सा॥१०॥
निजानुभवशीलता निखिलतत्त्वसाम्यश्रुतेः
स्मृतेरपि चलस्थितिस्थिरतया निदिध्यासता।
सदैकपरिभावनासहजता ह्यनायासनात्
समाधिरिति कीर्तिता सततनिर्विकल्पात्मतां॥११॥
बाह्ये चाभ्यन्तरे ब्रह्म सर्वजन्तुषु भासते।
तथाऽपि गुरुमज्ञात्वाते न पश्यन्ति तत्पदम्॥१२॥
अथ शुणु महाश्वर्यं राजयोगाभिधानकम्।
इमं सद्गुरुणा याति सज्जनो नान्यकर्मभिः॥१३॥
दुष्कराभ्यासयोगेन महायासेन किं फलम्।
क्षणेन लभ्यते ब्रह्म सद्गुरोरवलोकनात्॥१४॥
खण्डज्ञानवतां च षट्समयसंमोहान्धकारात्मनां
नानावेदपुराणशास्त्रकवितावाग्वैस्वरीशालिनाम्।
मूढानां चतुराश्रमैकनियमाद्गर्वात्मकानां कथं
योगज्ञानमिदं भवेद्गुरुमुखाभावेऽपरोक्षात्मकम्॥१५॥
क्षेत्रार्थरम्यगृहपुत्रकलत्रमित्रै—
र्वादैर्महारसरसायनधातुवादैः।
तैः काममन्त्रलययोगहठादिभेदै-
र्बद्धात्मनां कथमिहास्ति गुरुप्रसादः॥१६॥
आदौ वर्णाश्रमाचारगुरौ ब्रह्मज्ञताऽस्ति चेत्।
भजेत्त्वमेव यत्नेन नोचेदन्यं गुरुं भजेत्॥१७॥
आत्मानमद्वंद्वमनन्तमाद्यं निरञ्जनं निश्चलनित्यदीप्तम्।
सच्चिन्मयानन्दपरामृतं यो वेत्ति स्वभावेन गुरुः स एव॥१८॥
ज्ञानवैराग्यलाभेन तृणीकृत्य जगत्त्रयम्।
आदौ सद्गुरुमाश्रित्य तत्त्वज्ञानं समभ्यसेत्॥१९॥
ज्ञातृत्वमन्तरिक्षं च समानो वायुरेव च।
श्रोत्रमग्निर्ध्वनिर्वारिवाग्भूः खे तत्त्वपञ्चकम्॥२०॥
मनश्चैव वियद्व्यानो वायुश्चर्म धनंजयः।
स्पर्शोऽम्भश्च क्षमा पाणिर्भरुतस्तत्त्वपञ्चकम्॥२१॥
नभो बुद्धिरुदानं च मरुदूर्वाग्निरेव च।
पायूरूपं धरा पादो वह्नेर्यत्तत्त्वपञ्चकम्॥२२॥
चित्तं विष्णुपदं वायुरपानो रसनानलः।
रसो जलमुपस्थं भूरपां तत्त्वानि पञ्चकम्॥२३॥
अहंकारस्तथा प्राणो घ्राणो गन्धो गुदं च हि।
भूमितत्त्वानि कीर्त्यते पञ्चधा तत्त्ववेदिभिः॥२४॥
पञ्चविंशतितत्त्वानि पञ्चभूतस्थितानि च।
तानि यो वेत्ति तत्त्वज्ञः स शिवः स च मुक्तिभाक्॥२५॥
आध्यात्मिकाधिभूताधिदैवतानि यथाक्रमम्।
दशेन्द्रियेषु विभजञ्जीवान्तःकरणेषु च॥२६॥
नाहं भूतगुणेन्द्रियाणि च मनोऽहंचित्तबुद्धिर्वपुः
प्राणाश्चाऽऽश्रमधर्मकर्मनिरतो नैव प्रपञ्चोऽखिलम्।
नित्यं निश्चलमेकमच्युतमजं शान्तं शिवं निर्गुणं
शुद्धं बुद्धपदं तु यत्तदहमस्मीति स्मरञ्जीवति॥२७॥
देहत्रये प्रथितषोडशधाविकारान्
लिङ्गानि सप्तदशधा नवधा पदार्थान्।
आत्मानमष्टविधया प्रकृतेः स्वभावान्
ज्ञात्वा तदन्य इति जीवति यो महात्मा॥२८॥
सत्यं ज्ञानमनन्तं यद्ब्रह्मेति वदति श्रुतिः।
मुक्तानन्दस्वरूपं च ननु तत्त्वमिति स्थितः॥२९॥
नैतदहं नैतदहं चेति च यदन्यद्विभावयाऽऽत्मानम्।
सोऽहमिति सोऽहमिति ननु भावय सर्वं त्वमात्मानम्॥३०॥
हृदि ज्ञानादेव मोक्ष इत्येतद्वाक्यमादरात्।
गृहीत्वा ज्ञानयोगेऽस्मिन्समाहितमना भव॥३१॥
अतः परं तारकं गुह्यं दृष्टप्रत्ययसंयुतम्।
ममानुभवसंसिद्धं योगं प्राणसखे शृणु॥३२॥
मन्त्रेण लययोगेन हठयोगेन सर्वदा।
याबद्ब्रह्म न जानन्ति तावत्क्लिश्यन्ति पण्डिताः॥३३॥
नेत्रे निमीलिते नित्यं किंचिदुन्मीलिते तदा।
यो मनश्चक्षुषा ब्रह्म पश्यतीति स योगिराट्॥३४॥
शशिभास्करयोर्मध्ये तारयोः स्थिरतेजसः।
बिन्दुद्वयं च संयोज्य ब्रह्मतारकमभ्यसेत्॥३५॥
बाह्यान्तर्मध्यलक्ष्येषु ब्रह्मदर्शनतत्परः।
दृष्टादृष्टस्वरूपाणि ननु तानि विलोकय॥३६॥
मूलकन्दादण्डलग्नाद्ब्रह्मनाडी शशिप्रभा।
तस्य मध्ये तडित्कोटिनिभा तामूर्ध्वगामिनीम्॥३७॥
मनसा लक्षयेन्मूर्तिं सदृशीं बिसतन्तुना।
आब्रह्मरन्ध्रपर्यन्तगतां सिद्धिप्रदां स्मरेत्॥३८॥
ललाटोर्ध्वे तथा लक्ष्ये योगी गोल्लाटमण्डपे।
विस्फुरत्तारकाकारं मनसा लक्षयेत्सदा॥३९॥
अथवा कर्णयोद्वारे तर्जनीभ्यां निरोधयेत्।
श्रीहट्टमस्तके नादं घुंघुंकारं शृणोति च॥४०॥
चक्षुर्मध्ये तथा नीलज्योतीरूपं विलोकयेत्।
अन्तर्लक्ष्यमिति ज्ञेयं बहिर्लक्ष्यमथ शृणु॥४१॥
नासाग्रदेशाच्चतुरः षडष्ट तथा दश द्वादश संख्ययाऽङ्गुलिः।
बहिस्थनीलं च सुधूम्ररक्ततरङ्गपीताद्धुततत्त्वपञ्चकम्॥४२॥
अथवा सन्मुखाकाशं स्थिरदृष्ट्या विलोकयेत्।
ज्योतिर्मयूखा दृश्यन्ते योगिभिर्धीरमानसैः॥४३॥
दृष्ट्यग्रे वाऽप्यपाङ्गेवा तप्तकाञ्चनसंनिभाम्।
भूमिं संलक्षयेद्दृष्टिः स्थिरा भवति योगिनः॥४४॥
अथवा शिरसश्चोर्ध्वं द्वादशाङ्गुलसंमिते।
ज्योतिष्पुञ्जंनिराकारं लक्षयेन्मुक्तिदं भवेत्॥४५॥
यत्र यत्रार्थवान्योगी तत्र तत्र विलक्षयेत्।
आकाशमेव यत्तस्य चित्तं भवति तादृशम्॥४६॥
इत्येवं विविधाकारं बहिर्लक्ष्यमुदीरितम्।
शृणुष्व मध्यलक्ष्यं च कथितं पूर्वसूरिभिः॥४७॥
श्वेतादिवर्णनवखण्डसुचन्द्रसूर्य-
सौदामिनीवह्निशिखेन बिम्बात्।
ज्वलन्नभो वा स्थलहीनमेकं
विलक्षयेत्तत्खलु मध्यलक्ष्यम्॥४८॥
निराकारं पश्येद्गुणरहितमाकाशमथवा
तमोरूपं गाढं स्फुरदुरुपराकाशमथवा।
महाकाशं कालानलनिभमथात्यन्तरुचिरं
परं तत्त्वाकाशं रविशतनिभं सूर्यखमिति॥४९॥
व्योमपञ्चकमेतद्धि तद्बाह्याभ्यन्तरस्थितम्।
यः पश्यति नरो लक्ष्ये स व्योमसदृशो भवेत्॥५०॥
तारणाच्च गुरुशिष्ययोर्द्वयोस्तारकोऽयमिति योगसंज्ञिकः।
तारकं भवमहाब्धितारकं तत्त्वमेव परिशीलनं कुरु॥५१॥
फलमेकं द्विधाऽऽचार्या यथार्थं सांख्यतारयोः।
उपाधिरहितः सांख्य योगःसोपाधिकः स्वयम्॥५२॥
इति श्रीसदाशिवयोगीश्वरविरचितायां शिवयोगदीपिकायां चतुर्थः पटलः।
_________________
अथ पञ्चमः पटलः।
——————
पुनश्चातिरहस्यं यज्ज्योतिषां निलयं महत्।
दिव्यलिङ्गस्थलं दृष्टमन्तर्लक्ष्यात्मकं शृणु॥१॥
नान्तस्थलं बहिर्व्याप्तमपरोक्षस्वरूपकम्।
आकाशाभ्यन्तराकाशमन्तर्लक्ष्यं तदेव हि॥२॥
लक्ष्यलीनमनसाऽनिलेन यो वर्तते चलिततारको भवेत्।
खेचरीयमथ सैव शांभवी मुद्रयाऽस्तु कृतया जगद्गुरुः॥३॥
लोकेऽन्तःखेचरी मुद्रा अज्ञात्वा बाह्यखेचरीम्।
अवलम्ब्य रता केचिज्जिह्वाछेदनकर्मणा॥४॥
तालुमूलद्वादशान्तमध्यं प्रत्यक्कलात्मकम्।
यत्तस्मिञ्ज्योतिषि मनो दत्त्वा निजहृदि क्रमात्॥५॥
दृष्टिस्तु पूर्णिमा ज्ञेयं दृश्यमादौ तमोमयम्।
तन्मध्ये मनसा पश्येज्ज्योतिर्लिङ्गं सुनिश्चलम्॥६॥
नासाग्रदत्तनिमिषोन्मिषबाह्यदृष्ट्या
लक्ष्ये सदाशिवविमर्शकगूढदृष्टया।
ज्योतिःस्वरूपमचलं परिणामहीनं
पश्यन्ति ये त इह संयमिनः कृतार्थाः॥७॥
पश्चिमाभिमुखं लिङ्गमभिन्नवलयाकृतिम्।
त्वं पूर्वाभिमुखो भूत्वा पश्य पश्य महाद्भुतम्॥८॥
यदा तज्ज्योतिरोंकारं ब्रह्माच्युतशिवात्मकम्।
पश्यन्ति सूरयः शान्तं तद्विष्णोः परमं पदम्॥९॥
पूर्णेन्दुबिम्ब इव सन्मणिदीपिकेव
मध्याह्नसूर्य इव वह्निशिखेव नित्यम्॥
विद्युत्प्रभेव शिवलिङ्गमहो विचित्रं
लक्ष्यान्तरे ज्वलति पश्यति चक्षुरग्रे॥१०॥
आत्मलिङ्गमिदं पश्य किमन्यैः कर्मविभ्रमैः।
अहिंसाद्यष्टपुष्पैस्तु मानसैरङ्ग पूजय॥११॥
पुष्पाण्यहिंसेन्द्रियनिग्रहश्च दयाक्षमाज्ञानसमाह्वयानि।
ध्यानं तपः सत्यममीभिरेवं प्रपूजयेदात्मनि सिद्धलिङ्गम्॥१२॥
यो निमीलनिमीलदम्बको रेचपूरपरिवर्जितानिलः।
सर्वसंशयविभिन्नमानसो राजयोगपदभाक्स एव हि॥१३॥
शृङ्गाटके यस्तु मनो नियम्य त्रिकोणगामी शशिभास्कराभ्याम्।
बाह्यान्तरङ्गप्रवणैकगोभिरष्टावधानीं हठराजयोगी॥१४॥
दृग्दृश्यमानसंबन्धादुन्मन्यन्तं विचिन्तयेत्।
शिवयोगमिदं गुह्यं जीवन्मुक्तिकरं मुने॥१५॥
रोचिस्तडिद्धूम्रकबिन्दुनादं कलाभखद्योतरवीन्दुदीप्ताः।
तत्प्रत्ययानेकसुवर्णवर्णा किञ्जल्कदण्डा नवरत्नमुख्याः॥१६॥
वक्त्रेणाऽऽपूर्य वायुं हुतवहनिलयेऽपानमाकृष्य धृत्वा
स्वाङ्गुष्ठाद्यङ्गुलीभिः स्वकरतलयोः षड्भिरेवं निरुध्य॥
श्रोत्रे नेत्रे च नासापुटयुगलमथानेन मार्गेण धीराः
पश्यन्ति प्रत्ययांस्तान्प्रणवबहुविधध्यानसंलीनचित्ताः॥१७॥
दृटिर्वा रविसोमपावकयुतां चन्द्रार्कयोरागमे
दीप्तानिश्चलगेहदीपनिकटे वानिर्मतीनामपि॥
दृश्यन्ते स्फुरिता स्फुटा नयनयोरग्रे च तत्प्रत्यया-
स्तेषां तत्परचेतसां विगलिता तद्व्यावृतीनां मुने॥१८॥
प्रमाणप्रत्ययातीतं शान्तं तेजोमयात्मकम्।
तदतीतं परब्रह्म चेति विद्वद्भिरीरितम्॥१९॥
भावयोगमसंकल्पविकल्पास्पदमद्भुतम्।
संप्राप्तो यस्तस्य भवेदवस्थाचोन्मनी हि सा॥२०॥
आधारमध्यहृद्व्याप्तं नादबिन्दुकलात्मकम्।
तदतीतं स्वरूपं यत्तदेव परमं पदम्॥२१॥
यः समेति मनसा निराश्रयं निरवलम्बपदतत्त्वमव्ययम्॥
भावनाविरहितं निरामयं परशिवो हृदि स तन्मयो भवेत्॥२२
अणुमात्रं यदि भवेदस्तित्वं विदुषां भुवि।
तदेव बन्धहेतुः स्याद्भावाभावावुभौ त्यजेत्॥२३॥
ज्ञानज्ञेयौ ध्यानध्येयौ लक्ष्यालक्ष्ये भवाभवौ।
ऊहापोहौ यो दृग्दृश्ये सर्वं त्यक्त्वा जीवन्मुक्तः॥२४॥
सर्वास्ववस्थास्वकृतप्रयत्नो निश्चिन्तभावो मृतवत्स तिष्ठन्।
कल्लोलहीनाम्बुधिवन्निवातप्रदीपवत्तत्त्वमयः सुखी स्यात्॥२५॥
शृणु चिच्छिवपूजायाः प्रकारं कथयाम्यहम्।
रहस्यं सर्वशास्त्रार्थसारं सद्यो विमुक्तिदम्॥२६॥
निश्चिन्तैव शिवध्यानं निष्क्रिया तस्य पूजनम्।
प्रदक्षिणं निश्चलत्वं सोऽहंभावो नमस्क्रिया॥२७॥
मौनं संकीर्तनं तस्य जपस्तु परिपूर्णता।
कृत्याकृत्यज्ञता शीलं निर्वाणं समदर्शनम्॥२८॥
सर्वेन्द्रियगुणरहिता रुपातीता निरञ्जना शान्ता।
भावाभावविदूरा सहजावस्थेति सा कथिता॥२९॥
जाग्रत्स्वप्नसुषुप्तिश्च तुरीयं च तथैव च।
तुर्यातीतं च सहजं न किंचिञ्चिन्तयेत्ततः॥३०॥
विहाय कर्माण्यघसंयुतानि गृह्णाति कर्माणि शुभान्वितानि।
स्वर्गोन्मुखो यः पुरुषः प्रवृत्तो नैवाधिकारी स तु जागरेऽपि॥३१॥
अलमलमखिलसुखैकपदश्चेति कदाचिन्निवृत्तमनो यः।
स तु जाग्रदवस्थायां तिष्ठन्मोक्षोन्मुखो भवति॥३२॥
संसारोत्तरणं ममास्ति कथमित्याचार्यसंसेवनं
विद्वत्संगमकामविस्मृतिसदाचारैः समं मौनताम्।
वैराग्यश्रुतिशास्त्रनिश्चयधिया कामाद्यरिध्वंसनं
योगाभ्यासमुपैति दम्भरहितं जाग्रत्स्वभावान्वितः॥३३॥
मृतो जाग्रदवस्थासु यदि चेदन्यजन्मनि।
स्वप्नावस्थां गतो याति पूर्वाभ्यासवशाद्भुवि॥३४॥
स्वप्नेयदखिलं लोकं पश्यञ्शरदभ्ररूप इव चित्ते।
तिष्ठन्सत्तामात्रः स्वप्नावस्थान्वितश्चरति॥३५॥
गते द्वैतभावे स्थिते शान्तिशेषे प्रकाशस्वभावे चिदानन्दभानौ।
बहिर्वृत्तियुक्तोऽप्यहो हृत्प्रवृत्तः सुषुप्तिस्थितश्चित्रवद्भाति योगी॥३६॥
अनमृतोऽप्यमृतक्षयमानसो विदितशान्ततनुनिरहंकृतिः।
गलितगन्धगुणः स तुर्यभाग्वहति जीवति मुक्तिमभावनः॥३७॥
संपूर्णकुम्भ इव वारिनिधानमध्ये
संशून्यकुम्भ इव विष्णुपदान्तराले।
अन्तर्बहिः प्रथितपूर्णसुशून्यभावः
सच्चित्रदीप इव भाति तुरीययुक्तः॥३८॥
कैश्चिद्ब्रह्मेति कैश्चिद्धरिरिति शिव इत्यादि कैश्चित्स नाना-
भेदैः प्रोक्तं सशून्यप्रकृतिपुरुषकालार्थरूपीति कैश्चित्।
कैश्चिल्लोकैर्विकल्पात्मकबहुवचनैर्देहयुक्तोऽपि नित्यं
मुक्तः स्याद्यस्तुरीयातीतसमाख्यामवस्थां समेत्यं॥३९॥
तस्मात्सर्वप्रयत्नेन क्रमादभ्यासयोगतः।
तुर्यातीतां तामवस्थां समासाद्य सुखी भव॥४०॥
सर्वावस्थां गतो वाऽपि सर्वावस्थां न संस्मर।
त्यज सङ्गमशेषं च मनोऽन्तर्बहिरन्वितम्॥४१॥
निवर्तयान्यकर्माणि शिवयोगं प्रवर्तय।
सहजाममनस्कान्तां मुद्रां सच्चिन्मयीं भज॥४२॥
आत्मानं गगनं कृत्वा बिन्दुं कृत्वा तथैव च।
द्वयं समरसं कुर्यादमनस्ककला हि सा॥४३॥
स्वप्नजागरणातीतं मृतजीवनवर्जितम्।
स्वामिञ्शिवामनस्काख्यं गमिष्यामः कदा वयम्॥४४॥
सचराचरजगदखिलं यत्किंचिदिदं भवेन्मनोदृश्यम्।
मनसोऽप्युन्मनितां याति स तत्त्वं कथं न भवेत्॥४५॥
अथवा यत्र मनः संयाति हि तत्रैव तन्मनः स्थाप्य।
तत्कारणाल्लयः स्याद्वृद्धिः स्याद्वार्यमाणं तु॥४६॥
यथेच्छया मनो गच्छेत्स्वयमेव निवर्तते।
निरङ्कुशेन विधिना करटीव मदोत्कटः॥४७॥
नाद एव लयश्रेष्ठो मुद्राणां खेचरी वरा।
योगश्रेष्ठो निरालम्बो ह्यवस्थासु मनोन्मनी॥४८॥
राजयोगस्य मुद्रां तामेत्य योगी मनोन्मनीम्।
विचरत्यखिलाल्लोँकान्बालोन्मत्तपिशाचवत्॥४९॥
जीवन्मुक्तिप्रकारस्य योग एव न चान्यथा।
स एव सिद्धिदः सम्यक्सर्वदर्शनसंमतः॥५०॥
मन्त्रलयावारम्भकघटसंज्ञौ परिचयो हठः स्यात्।
समनिष्पत्तिस्मृत एव महान्राजयोगस्तु॥५१॥
तस्मात्संसेव्य एवंविध इह यमिना श्रेयसे योगमार्गो
ह्यालस्यं धूर्तसङ्गं स्वजनकुपितशास्त्रान्धकारोरुरोगान्।
जित्वा मन्वन्तरायान्पुनरपि च महायोगजैश्वर्यसिद्धि-
स्त्यक्त्वा स्थित्वा सुदेशे सुजनपरिवृतेऽबाधिते धर्मराज्ये॥५२॥
तापत्रयं नवविधं व्यवहारभावाः
षट्कौशिकानि षडमित्रकपञ्चकोशा।
षड्भावजा विकृतयश्च षडूर्मयश्च
निष्पन्नयोगमहतां भुवि न स्युरेव॥५३॥
महादीप्तवह्निर्दहेच्छुष्कमात्रं यथा पुण्यपापात्मकं सर्वकर्म।
तथा निर्दहेत्क्षणाज्ज्ञानवह्निस्ततो मुक्तिमायाति निष्पन्नयोगी॥५४॥
अत्यल्पदीपः सुमहत्तमस्तु विनाशयेद्यो निबिडं हठाद्यथा।
अल्पोऽप्यहो योगसमाधिरेष विनाशयेत्कर्म शुभाशुभं तथा॥५५॥
यो यो योगसमुद्यतोऽवनितले यात्यन्तिकामापदं
स्वर्लोकान्समुपेत्य शाश्वतसुखं तत्रानुभूय स्वयम्।
संजायेत ततः सतां श्रुतिमतां यस्मिन्कुले योगिनां
तुष्टिं प्राप्य निवर्तयेदविभवं योगी शिवाख्यं परम्॥५६॥
ब्रह्मणि परे हृदयमपि यस्य लीनं
तस्य मातापितराविह परत्र चरितार्थो।
तस्य कुलजाः स्युरनघा जयन्ति सर्वे
तस्य पदसंघटितभूरतिपवित्रा॥५७॥
योगशास्त्रे रहस्यानि सिद्धसिद्धान्तपद्धतिः।
संक्षेपेण कृता बोध्या शिवयोगप्रदीपिका॥५८॥
अभ्यासशूराय जितेन्द्रियाय शिवे गुरौ भक्तिसुनिश्चलाय।
देयं रहस्यं शिवयोगशास्त्रं यो मूढदाता गुरुपातकी स्यात्॥५९॥
पुरबाणानजसायकान्समुद्रॠतून्करेणूंस्तथा
निधिबाणांश्च पञ्च पञ्चधा पटलिकास्ववं शिवाङ्कं मया॥
परमित्यादिकशब्दजालविविधच्छन्दोभिरेतत्कृतं
गिरिनागाम्बकसंख्ययाऽपि सकलं वन्यैश्च योगान्बहून्॥६०॥
| पुरबाणान् ५३ | अजसायकान् ५९ |
| समुद्रऋतून् ६४ | करेषून् ५२ |
| निधिबाणान् ५३ | गिरिनागाम्बक २८७ |
इति श्रीसदाशिवयोगीश्वरविरचितायां शिवयोगदीपिकायां योगशास्त्रे राजयोगप्रकारेऽमनस्कविधानो नाम पञ्चमः पटलः।
समाप्तश्चायं ग्रन्थः।
सदाशिवब्रह्मेन्द्रपञ्चरत्नम्।
——————————
यत्संदर्शनमात्राद्भक्तिर्जाताऽप्यकर्णविद्धस्य।
तत्संदर्शनमधुना कृत्वा नूनं कृतार्थोऽस्मि॥१॥
योऽनिशमात्मन्येव ह्यात्मानं संदधन्वीथ्याम्।
भस्मच्छन्नानल इव जडाकृतिश्चरति तं नौमि॥२॥
यस्य विलोकनमात्राच्चेतसि संजायते शीघ्रम्।
वैराग्यमचलमखिलेष्वपि विषयेषु प्रणौमि तं यमिनम्॥३॥
पुरतो भवतु कृपाब्धिः पुरवैरिनिविष्टमानसः सोऽयम्।
परमशिवेन्द्रकराम्बुजसंजातो यः सदाशिवेन्द्रो मे॥४॥
उन्मत्तवत्संचरतीह शिष्यस्तवेति लोकस्य वचांसि शृण्वन्।
खिद्यन्नुवाचास्य गुरुः पुराऽहो ह्युन्मत्तता मे न हि तादृशीति॥५॥
पञ्चकमेतद्भक्त्या श्लोकानां विरचितं लोके।
यः पठति सोऽपि गच्छेत्करुणां शीघ्रं सदाशिवेन्द्रस्य॥६॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यवर्यश्रीसच्चिदानन्दशिवाभिनवनृसिंहभारतीस्वामिविरचितं श्रीसदाशिवव्रह्मेन्द्रपञ्चरत्नं संपूर्णम्।
_____________
आत्मविद्याविलासः।
————
वटतरुनिकटनिवासं पटुतरविज्ञानमुद्रितकराब्जम्।
कंचन देशिकमाद्यं कैवल्यानन्दकन्दलं वन्दे॥१॥
निरवधिसंसृतिनीरधिनिपतितजनतारणस्फुरन्नौकाम्।
परमतभेदनघुटिकां परमशिवेन्द्रार्यपादुकां नौमि॥२॥
देशिकपरमशिवेन्द्रादेशवशोद्बुद्धदिव्यमहिमाऽहम्2।
स्वात्मनि विश्रान्तिकृते सरसं प्रस्तौमि किंचिदिदम्॥३॥
निरुपमंनित्यनिरीहो निष्कलनिर्मायनिर्गुणाकारः।
विगलितसर्वविकल्पः शुद्धो बुद्धश्चकास्ति परमात्मा॥४॥
स्वाविद्यैकनिबद्धः कुर्वन्कर्माणि मुह्यमानः सन्।
दैवाद्विधूतबन्धः स्वात्मज्ञानान्मुनिर्जयति॥५॥
मायावशेन सुप्तो मध्ये पश्यन्सहस्रशः स्वप्नान्।
देशिकवचःप्रबुद्धो दीव्यत्यानन्दवारिधौ कोऽपि॥६॥
प्राकृतभावमपास्य स्वीकृतनिजरूपसच्चिदानन्दः।
गुरुवरकरुणापाङ्गाद्गौरवमासाद्य माद्यति प्राज्ञः॥७॥
श्रीगुरुकृपया सच्चित्सुखनिजरूपे निमग्नधीर्मौनी।
विहरति कश्चन चिबुधःशान्ताहन्तो नितान्तमुदितान्तः॥८॥
गुरुवरकरुणालहरीव्यतिकरभरशीतलस्वान्तः।
रमते यतिवर एको निरुपमसुखसीमनि स्वैरम्॥९॥
श्रीदेशिकवरकरुणारविकरसमपोहितान्तरध्वान्तः।
विहरन्मस्करिवर्यो निरवधिकानन्दनीरधावास्ते॥१०॥
जनविपरीतक्रमतो बुद्ध्या प्रविलाप्य पञ्च भूतानि।
परिशिष्टमात्मतत्त्वं ध्यायन्नास्ते3 मुनिः शान्तः॥११॥
जगदखिलमिदमसारं मायिकमेवेति मनसि मन्वानः।
पर्यटति पाटिताशः प्रगलितमदमानमत्सरः कोऽपि॥१२॥
नाऽऽत्मनि किंचिन्माया तत्कार्यं वाऽस्ति वस्तुतो विमले।
इति निश्चयवानन्तर्हृष्यत्यानन्दनिर्भरो योगी॥१३॥
त्वमहमभिमानहीनो मोदितनानाजनाचारः।
विहरति बालवदेको विमलसुखाम्भोनिधौ मग्नः॥१४॥
अवधूतकर्मजालोजडबधिरान्धोपमः कोऽपि।
आत्मारामो यमि4राडटवीकोणेष्वटन्नास्ते॥१५॥
शान्त्या दृढोपगूढः शान्तसमस्तान्यवेदनोदारः।
रमते रसज्ञ एको रम्ये स्वानन्दपर्यङ्के॥२६॥
उन्मूलितविषयारिः स्वीकृतवैराग्यसर्वस्वः।
स्वात्मानन्दमहिम्नि स्वाराज्येऽस्मिन्विराजते यमि5राट्॥१७॥
सवितर्यपि शीतरुचौ चन्द्रे तीक्ष्णेऽप्यधोवहत्यग्नौ।
मायिकमिदमिति जानञ्जीवन्मुक्तो न विस्मयी भवति॥१८॥
अज्ञानवैरिविजयी प्रज्ञामातङ्गमस्तकारूढः।
विहरति संयमिराजःसमरससुखधाम्नि सर्वतो रम्ये॥१९॥
शान्ताहंकृतिदोषः सुसमाहितमानसः कोऽपि।
पूर्णेन्दुशिशिरभावो राजत्यानन्दसत्यचिद्रसिकः॥२०॥
तिष्ठन्परत्र धाम्नि स्वीयसुखास्वादपरवशः कोऽपि6।
क्वापि ध्यायति कुहचिद्गायति कुत्रापि नृत्यति स्वैरम्॥२१॥
अगृहीताङ्ककलङ्कः प्रशमितसंकल्पविभ्रमः प्राज्ञः।
न्यक्कृतकार्यकलापस्तिष्ठत्यापूर्णसीमनि क्वापि॥२२॥
चपलं मनःकुरङ्गं चारु गृहीत्वा विमर्शवागुरया।
निगमारण्यविहारः श्रान्तः शेते स्वधाम्नि कोऽप्येकः॥२३॥
दारुणचित्तव्याघ्रं धीरमनःखड्गधारया हत्वा।
अभयारण्ये कोऽपि स्वैरविहारी जयत्येकः॥२४॥
सज्जनहृदयसरोजोन्मीलनकरधीकरप्रसरः।
कोऽयं7 यमिवरपूषा निर्दोषश्चरति चिद्गगने॥२५॥
कुवलयविकासकारणमज्ञानध्वान्तकौमुदीप्रज्ञः।
शुद्धो मुनीन्द्रचन्द्रः सुरसेव्यो8 लसति विष्णुपदे॥२६॥
स्वानन्दामृतसेकैरान्तरसंतापसंततिं शमयन्।
चित्रमचञ्चलवृत्तिश्चिद्व्योमनि भाति योगिवर्यघनः॥२७॥
सुमनःसौरभमञ्जुलसंचारनिवारिताखिलश्रान्तिः।
संयमिचारुसमीरो विहरत्यानन्दसंपदारामे9॥२८॥
निःश्रेयससरसफले निर्मलविज्ञानपल्लवमनोज्ञे।
विततेऽभय10 विपिनतले यतिशितिकण्ठो विभाति कोऽप्येकः॥२९॥
निःसारभुवन11मरुतलमुत्सार्यानन्दसारसंपूर्णे।
वरसरसि चिन्मयेऽस्मिन्परहंसः कोऽपि दीव्यति स्वैरम्॥३०॥
निखिलागमपल्लविते निगमशिरस्तन्त्रशीतलोद्याने।
मधुतरमञ्जुलवाचः कूजन्नास्ते यतीन्द्रकलकण्ठः॥३१॥
दारितमोहमदेभो दूरीकृतसकलदुरितशार्दूलः।
विबुधोत्तमसिंहवरो विहरत्यानन्दविततकान्तारे॥३२॥
अज्ञानमृगवरोज्झितविज्ञानोत्तुङ्गशृङ्गशिखरितले।
मतिसलिलशीतलाङ्गो यतिमदकलभो विराजते विहरन्॥३३॥
नासाञ्चलनिहिताक्षो नामादिभ्यो निवर्तितस्वान्तः।
तटिनीतटेषु तत्त्वं ध्यायन्नास्ते यतिः कोऽपि॥३४॥
आशावसनो मौनी नैराश्यालंकृतः शान्तः।
करतलभिक्षापात्रस्तरुतलनिलयो मुनिर्जयति॥३५॥
विजनावनि12कुञ्जगृहे मञ्जुलपुलिनैकमञ्जुतरतल्पे।
शेते कोऽपि यतीन्द्रः शमसममुखबोधवस्तुनिस्तन्द्रः॥३६॥
भूतलमृदुतरशय्यः शीतलवातैकचामरः शान्तः।
राकाहिमकरदीपो राजति यतिराजशेखरः कोऽपि॥३७॥
विपुलशिलातलफलके विमलसरिद्वारिपरिवृतोदारे।
मन्दं मलयजपक्ने वाति प्रस्वपिति कोऽपि यतिराजः॥३८॥
आन्तरमेकं किंचित्संततमनुसंदधन्महामौनी।
करपुटभिक्षामश्नन्नटति हि वीथ्यां जडाकृतिः कोऽपि॥३९॥
प्रविलाप्य जगदशेषं परिशिष्टाखण्डवस्तुपरतन्त्रः।
प्राश्नाति कवलमास्ये प्राप्तं13 प्रारब्धकर्मणा कोऽपि॥४०॥
निन्दति किमपि न योगी नन्दति नैवापरं किमप्यन्तः।
चन्दनशीतलहृदयः कन्दलितानन्दमन्थरः स्वान्ते14॥४१॥
संत्यज्य शास्त्रजालं सद्व्यवहारं च सर्वत15स्त्यक्त्वा।
आश्रित्य पूर्णपदवीमास्ते निष्कम्पदीपवद्योगी॥४२॥
तृणपङ्कचर्चिताङ्गस्तृणमिव विश्वं विलोकयन्योगी।
विहरति रहसि वनान्ते विजरामरभूम्नि विश्रान्तः॥४३॥
पश्यति किमपि न रूपं न वदति न शृणोति किंचिदपि वचनम्।
तिष्ठति निरुपमभूमनि निष्ठामवलम्ब्य काष्ठवद्योगी॥४४॥
जात्यभिमानविहीनो जन्तुषु सर्वत्र पूर्णतां पश्यन्।
गूढ16श्चरति यतीन्द्रो मूढवदखिलार्थतत्त्वज्ञः॥४५॥
उपधाय बाहुमूलं परिधायाऽऽकाशमवनिमास्तीर्य।
प्रस्वपिति विरतिवनितां परिरभ्याऽऽनन्दपरवशः कोऽपि॥४६॥
गतभेदवासनाभिः सप्रज्ञोदारवारनारीभिः।
रमते सह यतिराजस्त्रय्यन्तान्तःपुरे कोऽपि॥४७॥
वैराग्यविपुलमार्गं विज्ञानोद्दामदीपिकोद्दीप्तम्।
आरुह्य तत्त्वहर्म्यं मुक्त्या सह मोदते यतिराट्॥४८॥
विजनतलोत्पलमालां वनितावैतृष्ण्यकल्पवल्लीं च।
अपमानामृतघुटिकामात्मज्ञः कोऽपि गृह्णाति॥४९॥
न निषेधति दोषधिया गुणबुद्ध्या वा न किंचिदादत्ते।
आविद्यकमखिलमिति ज्ञात्वोदास्ते मुनिः कोऽपि॥५०॥
भूतं किमपि न मनुते भावि च किंचिन्न चिन्तयत्यन्तः।
पश्यति न पुरोवर्त्यपि वस्तु17 समस्तार्थसमरसः कोऽपि॥५१॥
निगृहीताखिलकरणो निर्मृष्टाशेषविषयेहः।
तृप्तिमनुत्तमसीमां प्राप्तः पर्यटति कोऽपि यतिवर्यः॥५२॥
संत्यजति नोपपन्नं नासंपन्नं च वाञ्छति क्वापि।
स्वस्थः शेते यतिराजान्तरमानन्दमनुभवन्नेकः॥५३॥
कामपि विमलां पदवीमासाद्याऽऽनन्दसंविदुन्निद्राम्।
आस्ते भिक्षुक एको विहरन्निर्मुक्तबन्धनः स्वैरम्॥५४॥
वस्तुन्यस्तमिताखिलविश्वविहारे विलीनमनाः।
राजति परानपेक्षो राजाऽखिलवीतरागाणाम्॥५५॥
आचार्यापाङ्गदृशा समवाप्तापारसंविदाकारः।
प्रशमितसकलविभेदः परहंसः कश्चिदाभाति॥५६॥
वर्णाश्रमव्यवस्थामुत्तीर्य विधूय विद्यादीन्।
परिशिष्यते यतीन्द्रः परिपूर्णानन्दबोधमात्रेण॥५७॥
क्षयमुपनीय समस्तं कर्म प्रारब्धमुपभुज्य18।
प्रविगलितदेहबन्धः प्राज्ञो ब्रह्मैव केवलं भवति॥५८॥
स्तिमितमनन्तमनाख्यं संततमानन्द19बोधधनम्।
अविकल्पमाद्यमेकं परतत्त्वं वस्तु वर्तते किमपि20॥५९॥
अक्षरमजरमजातं सूक्ष्मतरापूर्वशुद्धविज्ञानम्।
प्रगलितसर्वक्लेशं परतत्त्वं वस्तु वर्तते किमपि॥६०॥
सुखतरममरमदूरं सारं संसारवारिधेस्तरणे21।
समरसमभयमपारं तत्किंचन विद्यते तत्त्वम्॥६१॥
अरसमगन्धमरूपं विरजस्कमसत्त्वमतमस्कम्।
निरुपमनिर्भयतत्त्वं तत्किमपि द्योतते नित्यम्॥६२॥
___________
गुरुवरकरुणापाङ्गादार्याभिर्द्व्यधिकषष्टिसंख्याभिः।
निरवद्याभिरवोचं निगमशिरस्तन्त्रसारभूतार्थम्॥
गदितमिदमात्मविद्याविलासमनुवासरं स्मरन्विबुधः।
परिणतपरात्मविद्यः प्रपद्यते सपदि परमार्थम्॥
परमशिवेन्द्रश्रीगुरुशिष्येणेत्थं सदाशिवेन्द्रेण।
रचितेयमात्मविद्याविलासनाम्नी कृतिः पूर्णा॥
————
ध्यानम्॥
सोऽहं चिन्मात्रमेवेति चिन्तनं ध्यानमुच्यते।
पत्रं–४३३। त्रिशिखि-
सोऽहमित्यादरेणैव ध्यायेद्योगीश्वरेश्वरम्।
पत्रं–७८०। दर्शनं
ब्रह्मैवास्मीति सद्वृत्त्या निरालम्बनया स्थितिः।
ध्यानशब्देन विख्यातः परमानन्ददायकः॥
पत्र–३३९।तेजोर्बिन्दु-
सर्वशरीरेषु चैतन्यैकतानता ध्यानम्।
पत्र–४५६।मण्डलं
** तद्द्विविधम्—सगुणं निर्गुणं चेति। सगुणं मूर्तिध्यानम्। निर्गुणमात्मयाथात्म्यम्।**
पत्रं– ५५५। शाण्डिल्यं
सगुणं ध्यानमेतत्स्यादणिमादिगुणप्रदम्।
निर्गुणध्यानयुक्तस्य समाधिश्च ततो भवेत्॥
दिनद्वादशकेनैव समाधिं समवाप्नुयात्।
वायुं निरुध्य मेधावी जीवन्मुक्तो भवत्ययम्॥
योगतत्त्वोपनिषत्।
मन्दाधिकारिणो दृष्ट्वा स्वबोध्यान्बुद्धिमाश्रिताः।
नानोपायैरिदं ब्रह्म नृणामावेदयन्ति ताः॥
आत्मपुराणे अ० ११ शंकरानन्दः।
—————
मानसपूजा।
देहो देवालयः प्रोक्तः स जीवः केवलः शिवः।
त्यजेदज्ञाननिर्माल्यं सोऽहंभावेन पूजयेत्॥
अभेददर्शनं ज्ञानं ध्यानं निर्विषयं मनः।
स्नानं मनोमलत्यागः शौचमिन्द्रियनिग्रहः॥
ब्रह्मामृतं पिबेद्भैक्ष्यमाचरेद्देहरक्षणे।
वसेदैकान्तिको भूत्वा चैकान्ते द्वैतवर्जिते॥
इत्येवमाचरेद्धीमान्स एवं मुक्तिमाप्नुयात्॥
पत्रं - ३०६। मैत्रेयोपनिषद्द्वितीयोध्यायः।
देहो देवालयः प्रोक्तो जीवो देवः सदाशिवः।
तथैव।
पत्रं - ४६९। स्कन्दोपनिषत् \।
उन्मन्या अमनस्कं भवति। तस्य निश्चिन्तता ध्यानम्।
पत्रं - ४५९। मण्डलब्राह्मणोपनिषत्।
** सर्वकर्मनिराकरणमावाहनम्। निश्चयज्ञानमासनम्। उन्मनीभावः पाद्यम्। सदाऽमनस्कमर्घ्यम्। सदा दीप्तिरपारामृतवृत्तिः स्नानम्। सर्वात्मभावना गन्धः। दृक्स्वरूपावस्थानमक्षताः। चिदाप्तिः पुष्पम्। चिदग्निस्वरूपं धूपः। चिदादित्यस्वरूपं दीपः। परिपूर्णचन्द्रामृतरसैकीकरणं नैवेद्यम्। निश्चलत्वं प्रदक्षिणम्। सोऽहंभावो नमस्कारः। मौनं स्तुतिः। सर्वसंतोषो विसर्जनमिति।**
पत्रं - ४५९ - ४६९। मण्डलब्राह्मणोपनिषत् ।
—————
अजपा।
हकारेण बहिर्याति सकारेण विशेत्पुनः।
हंसहंसेत्यमुं मन्त्रं जिवो जपति सर्वदा॥
शतानि षड्दिवारात्रसहस्राण्येकविंशतिः।
एतत्संख्यान्वितं मन्त्रं जीवो जपति सर्वदा॥
अजपा नाम गायत्री योगिनां मोक्षदा सदा।
अस्याः संकल्पमात्रेण नरः पापैः प्रमुच्यते॥
अनया सदृशी विद्या अनया सदृशो जपः।
अनया सदृशं पुण्यं न भूतं न भविष्यति॥
येन मार्गेण गन्तव्यं ब्रह्मद्वारं निरामयम्।
पत्रं - ३७५ध्यानबिन्दु
तथैव।
योगचूडामण्युपनिषत्।
हंसहंस वदेद्वाक्यं प्राणिनां देहमाश्रितः।
स प्राणापानयोर्ग्रन्थिरजपेत्यभिधीयते॥
सहस्रमेकं द्व्ययुतं षट्शतं चैव सर्वदा।
पत्रं - ३८४ ब्रह्मविद्योपनिषत्।
षट्शतान्यधिकान्यत्र सहस्राण्येकविंशतिः।
अहोरात्रवहैःश्वासैर्वायुमण्डलघाततः॥
पत्रं – ८२२।
—————
वराह।
हकारेण बहिर्याति सकारेण विशेत्पुनः।
हंसहंसेत्ययं मन्त्रः सर्वजीवैश्व जप्यते॥
गुरुवाक्यात्सुषुम्नायां विपरीतो भवेज्जपः।
सोऽहं सोहमिति प्रोक्तो मन्त्रयोग उदाहृतः॥
प्रतीतिर्मन्त्रयोगाच्च जायते पश्चिमे पथि।
हकारेण तु सूर्यः स्यात्सकारेणेन्दुरुच्यते॥
सूर्याचन्द्रमसोरैक्यं हठ इत्यभिधीयते॥
पत्रं - ६१४। योगशिखोपनिषत्।
सोऽहं चिन्मात्रमेवेति चिन्तनं ध्यानमुच्यते।
पत्रं - ४३३। त्रिशिखिब्राह्मणोपनिषत्।
सोऽहं भावो नमस्कारः।
पत्रं - ४६०। मण्डलब्राह्मणोपनिषत्।
सोऽहमिति यावदास्थितिः सा निष्ठा भवति।
पत्रं - ४६४ दक्षिणामूर्त्युपनिषत्।
देहो देवालयः प्रोक्तः स जीवः केवलः शिवः।
त्यजेदज्ञाननिर्माल्यं सोऽहंभावेन पूजयेत्॥
पत्रं - ३०६। मैत्रेयोपनिषत्।
तथैव।
पत्रं - ४६९। स्कन्दोषनिषत्।
सोहमिति स ब्रह्मविद्भवति।
पत्रं - ५५७।शाण्डिल्य।
सोहमस्मीति निश्चित्य यः सदा वर्तते पुमान्।
शब्दैरुच्चावचैर्नीचैर्भाषितोऽपि न लिप्यते॥
पत्रं - ७५०। योगकुण्डल्युपनिषत्।
सोऽहमित्यादरेणैव ध्यायेद्योगीश्वरेश्वरम्।
पत्रं- ७८०।
प्रणवः।
सोऽहं ब्रह्म न संसारी न मत्तोऽन्यः कदाचन।
पत्र–७८१। दर्शनोपनिषत्।
____________
प्रणवः।
प्रणवो धनुः शरो ह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते।
अप्रमत्तेन वेद्धव्यं शरवत्तन्मयो भवेत्॥
पत्रं–२३ द्वितीयमुण्डके द्वितीयः खण्डः ४
तथैव ध्यानबिन्दौ पत्र– ३७२।
धनुस्तारं शरो ह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते।
अप्रमत्तेन वेद्धव्यं शरवत्तन्मयो भवेत्॥
पत्रं– ७३९ रुद्रहृदयोपनिषत्
आत्मानमरणिं कृत्वा प्रणवं चोत्तरारणिम्।
ध्याननिर्मथनाभ्यासाद्देवं पश्येन्निगूढवत्॥
पत्रं– २२६। ब्रह्मोपनिषत्।
आत्मानमरणिं कृत्वा प्रणवं चोत्तरारणिम्।
ज्ञाननिर्मथनाभ्यासात्पाशं दहति पण्डितः॥
पत्र – १९०।कैवल्योपनिषत्।
स्वदेहमरणिं कृत्वा प्रणवं चोत्तरारणिम्।
ध्याननिर्मथनाभ्यासाद्देवं पश्येन्निगूढवत्॥
पत्र – १८०। श्वेताश्वतरोपनिषत्।
आत्मानमरणिं कृत्वा प्रणवं चोत्तराणिम्।
ध्याननिर्मथनाभ्यासाद्देवं पश्येन्निगूढवत्॥
पत्र – ३७२। ध्यानबिन्दुपनिषत्।
वैराग्यमराणिंकृत्वा ज्ञानं कृत्वोत्तरारणिम्।
गाढतामिस्रसंशान्तं गूढमर्थं निवेदयेत्॥
पत्र – ४६५। दक्षिणामूर्त्यपनिषत्।
** अकारः प्रथमः। उकारो द्वितीयः। मकारस्तृतीयः। अर्धमात्रश्चतुर्थो नादः पञ्चमी बिन्दुः षष्ठी कला। सप्तमी कलातीत्ताऽष्टमी शान्तिः। नवमी शान्त्यतीता दशम्युन्मन्येकादशी मनोन्मनी। द्वादशी पुरीतती।**
** त्रयोदशी तनुमध्यमा चतुर्दशी पश्यन्ती। पञ्चदशी परा। षोडशी पुनश्चतुष्षष्टिमात्रा। प्रकृतिपुरुषद्वैविध्यमासाद्याष्टाविंशत्युत्तरशतभेदमात्रा। स्वरूपमासाद्य सगुणनिर्गुणत्वमुपैति। एकोऽपि ब्रह्म प्रणवः।**
पत्रं - ४२६। नारदपरिव्राजकम्।
तथैव
** तुरीयमात्राचतुष्टयमर्धमात्रांशम्। अयमेव ब्रह्म प्रणवः। स परमहंसतुरीयातीतावधूतैरुपास्यः। तेनैव ब्रह्म प्रकाशते। तेन विदेहमुक्तिः।**
पत्रं - ६४७। परमहंसपरिव्राजकं।
चैतन्यमात्रमोंकारं ब्रह्मैव सकलं स्वयम्।
पत्रं - ३६३। तेजोबिन्दु।
ब्रह्मप्रणवसंलग्ननादो ज्योतिर्मयात्मकः।
मनस्तत्र लयं याति तद्विष्णोः परमं पदम्॥
तावदाकाशसंकल्पो यावच्छब्दः प्रवर्तते।
निःशब्दं तत्परं ब्रह्म परमात्मा समीयते॥
नादो यावन्मनस्तावन्नादान्तेऽनुमनोन्मनी।
स शब्दश्चाक्षरे लीनो निःशब्दं परमं पदम्॥
सदा नादानुसंधानात्संक्षीणा वासना तु या।
निरञ्जने विलीयते मनोवायू न संशयः॥
नादकोटिसहस्राणि बिन्दुकोटिशतानि च।
सर्वे तत्र लयं यान्ति ब्रह्मप्रणवनादके॥
सर्वावस्थाविनिर्मुक्तः सर्वचिन्ताविवर्जितः।
मृतवत्तिष्ठते योगी स मुक्तो नात्र संशयः॥
शङ्खदुंदुभिनादं तु न शृणोति कदाचन।
काष्ठवज्ज्ञायते देह उन्मन्याऽवस्थया ध्रुवम्॥
न जानाति स शीतोष्णं न दुःखं न सुखं तथा।
न मानं नावमानं तु संत्यक्त्वाऽथ समाधिना॥
पत्रं - ३७०। नादबिन्दु।
अष्टाङ्गं च चतुष्पादं त्रिस्थानं पञ्चदैवतम्।
ओंकारं यो न जानाति ब्राह्मणो न भवेत्तु सः॥
पत्रं - ३७२।
ओंकारध्वनिनादेन वायोः संहरणादिकम्।
यावद्बलं समादद्यात्सम्यग्नादलयावधि॥
गमागमस्थं गमनादिशून्यमोंकारमेरुं रविकोटिदीप्तम्।
पश्यन्ति ये सर्वजनान्तरस्थं हंसात्मकं ते विरजा भवन्ति॥
यन्मनस्त्रिजगत्सृष्टिस्थितिव्यसनकर्मकृत्।
तन्मनो विलयं याति तद्विष्णोः परमं पदम्॥
पत्रं–३७२।ध्यानबिन्दु।
त्रिशङ्खं वज्रमोंकारमूर्ध्वनालं भ्रुवोर्मुखम्।
कुण्डलिं चालयन्प्राणान्भेदयञ्शशिमण्डलम्॥
पत्रं– ३८४ ब्रह्मविद्योपनिषत्।
**सर्वविघ्नहरो मन्त्रः प्रणवः सर्वदोषहा।
एवमभ्यासयोगेन सिद्धिरारम्भसंभवा॥ **
पत्रं– ३९०
हृदि स्थाने स्थितं पद्मं तस्य वक्त्रमधोमुखम्।
ऊर्ध्वनालमधोबिन्दु तस्य मध्ये स्थितं मनः॥
अकारे रेचितं पद्ममुकारेणैव भिद्यते।
मकारे लभते नादमर्धमात्रा तु निश्चला।
पत्रं–३९५।योगतत्त्वम्।
शुचिर्वाऽप्यशुचिर्वाऽपि यो जपेत्प्रणवं सदा।
न स लिप्यति पापेन पद्मपत्रमिवाम्भसा॥
पत्रं–४६३।योगचूडामण्युपनिषत्।
** परस्वरूपध्यानेन निरालम्बमवलम्ब्य स्वात्मनिष्ठानुकूलेन सर्वं विस्मृत्य तुरीयातीताऽवधूतवेषेणाद्वैतनिष्ठापरः प्रणवात्मकत्वेन देहत्यागं करोति यः सोऽवधूतः स कृतकृत्यो भवतीत्युपनिषत्।**
पत्रं– ६३३। तुरीयातीतावधूतोपनिषत्।
तारं द्वादशसाहस्रमभ्यसेच्छेदनं हि तत्।
यस्तु द्वादशसाहस्रं प्रणवं जपतेऽन्वहम्॥
तस्य द्वादशभिर्मासैः परं ब्रह्म प्रकाशते॥
पत्रं–६४३। संन्यासोपनिषत्।
तारं जपतु वाक्तद्वत्पठत्वाम्नायमस्तकम्।
पत्रं–७१०। अवधूतोपनिषत्।
हकारेण बहिर्याति सकारेण विशेत्पुनः।
हंसहंसेत्यमुं मन्त्रं जीवो जपति सर्वदा॥
पत्रं - ३७५। ध्यानबिन्दु ।
शतानि षड्दिवारात्रं सहस्राण्येकविंशतिः।
एतत्संख्यान्वितं मन्त्रं जीवो जपति सर्वदा॥
अजपानाम गायत्री योगिनां मोक्षदा सदा।
अस्याः संकल्पमात्रेण नरः पापैः प्रमुच्यते॥
अनया सदृशी विद्या अनया सदृशो जपः।
अनया सदृशं पुण्यं न भूतं न भविष्यति॥
येन मार्गेण गन्तव्यं ब्रह्मद्वारं निर्मयम्।
पत्रं - ३७५। ध्यानबिन्दु ।
——————
समाधिः।
समाधिलक्षणम्— ध्यानविस्मृतिः समाधिः।
पत्रं - ४५७। मण्डलोपनिषत्।
ध्यानस्य विस्मृतिः सम्यक्समाधिरभिधीयते।
त्रिशिखिब्राह्मणोपनिषत् - ४३३
निर्विकारतया वृत्त्या ब्रह्माकारतया पुनः।
वृत्तिविस्मरणं सम्यक्समाधिरभिधीयते।
पत्रं - ३३९। तेजोबिन्दूपनिषत्।
प्राणायामद्विषट्केन प्रत्याहारः प्रकीर्तितः।
प्रत्याहारद्विषट्केन जायते धारणा शुभा॥
धारणाद्वादशं प्रोक्तं ध्यानं योगविशारदैः।
ध्यानद्वादशकेनैव समाधिरभिधीयते॥
यत्समाधौ परं जोतिरनन्तं विश्वतोमुखम्
तस्मिन्दृष्टे क्रिया कर्म यातायातो न विद्यते॥
पत्रं - ४५३। योगचूडामण्युपनिषत्।
सगुणध्यानमेतत्स्यादणिमादिगुणप्रदम्।
निर्गुणध्यानयुक्तस्य समाधिश्च ततो भवेत्॥
दिनद्वादशकेनैव समाधिं समवाप्नुयात्।
समाधिः समतावस्था जीवात्मपरमात्मनोः॥
योगतत्त्वं ३९३
** जीवात्मपरमात्मैक्यावस्था त्रिपुटीरहिता परमानन्दस्वरूपा। शुद्धचैतन्यात्मिका भवति॥**
शाण्डिल्यं ५५५
समाधिः संविदुत्पत्तिः परजीवैकतां प्रति।
दर्शनं ७८०
** ध्यातृध्याने विहाय निवातस्थितदीपवद्ध्येयैकगोचरं चित्तं समाधिर्भवति॥**
पैङ्गल ५६२ पत्रं ६८९। तथैव।अध्यात्मं
** मनःप्रचारशून्यं परमात्मनि लीनं भवति। पयःस्रावानन्तरं धेनुस्तनक्षीरमिव सर्वेन्द्रियवर्गे परिनष्टे मनोनाशं भवति॥**
मण्डलं- द्वि० ब्राह्मणं ४६१-२
प्राणापानयोरैक्यं कृत्वा धृतकुम्भको नासाग्रदर्शनधृढभावनया द्विकसङ्गुलिभिः षण्मुखीकरणेन (प्रणव) ध्वनिं निशम्य मनस्तत्र लीनं भवति।
मण्डलं – द्वि० ब्राह्मणं ४५९
सलिले सैन्धवं यद्वत्साम्यं भवति योगतः।
तथाऽऽत्ममनसोरैक्यं समाधिरभिधीयते॥
वराह - ८१५सौभाग्य - ८४७
यत्समत्वं तयोरत्र जीवात्मपरमात्मनोः।
समस्तनष्टसंकल्पः समाधिरभिधीयते॥
प्रथाशून्यं मनःशून्यं बुद्धिशून्यं निरामयम्।
सर्वशून्यं निराभासं समाधिरभिधीयते॥
सौभाग्यलक्ष्मी - ४८७
वराह—प्तौभाग्यलक्ष्मी—महावाक्यरत्नावलिः
ब्रह्माकारमनोवृत्तिप्रभावोऽहंकृतिं विना।
संप्रज्ञातसमाधिः स्याद्ध्यानाभ्यासप्रकर्षतः॥
प्रशान्तवृत्तिकं चित्तं परमानन्ददीपकम्।
असंप्रज्ञातनामाऽयं समाधिर्योगिनां प्रियः॥
पत्रं - ८६३ ।मुक्तिकोपनिषत्।
ब्रह्मोपनिपादे नारदपरिव्राजकोपनिषदि च।
नेत्रस्थं जागरितं विद्यात्कण्ठे स्वप्नं समादिशेत्।
सुषुप्तं हृदयस्थं तु तुरीयं मूर्ध्नि संस्थितम्॥
त्रिशिखि ब्राह्मणोपनिषदि
जाग्रद्वृत्तिं विजानीयात्कण्ठस्थं स्वप्रवर्तनम्।
सुषुप्तं तालुमध्यस्थं तुर्यं भ्रूमध्यसंस्थितम्॥
दर्शनोपनिषदि
पर्वताग्रे नदीतीरे बिल्वमूले वनेऽथवा।
मनोरमे शुचौ देशे मठं कृत्वा समाहितः॥
नारदपरिव्राजकोपनिषदि
शून्यागारवृक्षमूलदेवगृहतृणकूटकुलालशालाग्निहोत्रशालाग्निदिगन्तरनदीतटपुलिनभूगृहकंदरनिर्झरस्थण्डिलेषु वने वा।
श्वेताश्वतरोपनिषदि
समे शुचौ शर्करवह्निवालुका-
विवर्जिते शब्दजलाशयादिभिः।
मनोनुकूले न तु चक्षुपीडने
गुहानिवाताश्रयणे प्रयोजयेत्॥
अद्वयतारकोपनिषदि
गुशब्दस्त्वन्धकारः स्याद्रुशब्दस्तन्निरोधकः।
अंधकारनिरोधित्वाद्गुरुरित्यभिधीयते॥
योगतत्त्वोपनिषदि
गोधूममुद्गशाल्यन्नं योगवृद्धिकरं विदुः।
ततः परं यथेष्टं तु शक्तः स्याद्वायुधारणे॥
योगचूडामण्युपनिषदि
अङ्गानां मर्दनं कृत्वा श्रमसंजातवारिणा।
कट्वम्ललवणत्यागी क्षीरभोजनमाचरेत्॥
ब्रह्मचारी मिताहारी योगी योगपरायणः।
अब्दादूर्ध्वं भवेत्सिद्धो नात्र कार्या विचारणा॥
सुस्निग्धमधुराहारश्चतुर्थांशविवर्जितः।
भुञ्जते शिवसंप्रीत्या मिताहारी स उच्यते॥
संन्यासोपनिषदि
आत्मसंमितमाहारमाहरेदात्मवान्यतिः।
आहारस्य च भागौ द्वौ तृतीयमुदकस्य च॥
वायोः संचरणार्थाय चतुर्थमवशेषयेत्॥ १॥
हठयोगप्रदीपिकायाम्
गोधूमशालियवषष्टिकशोभनान्न-
क्षीराज्यखण्डनवनीतसितामधूनि।
शुण्ठीपटोलकफलादिकपञ्चशाखा
मुङ्गादिदिव्यमुदकं च यमीन्द्रपथ्यम्॥
पैङ्गलोपनिषदि
अमृतेन तृप्तस्य पयसा किं प्रयोजनमेवं स्वात्मानं ज्ञात्वा वेदैः प्रयोजनं किं भवति। ज्ञानामृततृप्तयोगिनो न किंचित्कर्तव्यमस्ति तदस्तिचेन्न स तत्त्वविद्भवति ॥
_______________
]
-
“एतद्योगचतुष्टयम्।” ↩︎
-
“शिवेन्द्रोपदेशवशात्।” ↩︎
-
“पश्यन्नास्ते।” ↩︎
-
“यति” ↩︎
-
“यति।” ↩︎
-
“कश्चित्।” ↩︎
-
“एको यती।” ↩︎
-
“सुरसव्ये।” ↩︎
-
“संविदारामे।” ↩︎
-
“बीतभये।” ↩︎
-
“भवन” ↩︎
-
“विजननदी।” ↩︎
-
“प्राप्यं।” ↩︎
-
“स्वान्तः।” ↩︎
-
“सुव्यवहारं।” ↩︎
-
“गुंढं।” ↩︎
-
“वर्तमानं।” ↩︎
-
“प्रारम्भकं भुक्त्या।” ↩︎
-
“अनाद्यं।” ↩︎
-
“सन्मात्रंविद्यते किमपि।” ↩︎
-
“स्तीरं।” ↩︎