रामाष्टकम्

[[रामाष्टकम् Source: EB]]

[

रामाष्टकं

      ॥ अथ रामाष्टकम् ॥  

सुग्रीवमित्रं परमं पवित्रं सीताकलत्रं नवमेघगात्रम् ।
कारुण्य पात्रं शतपत्रनेत्रं श्रीरामचन्द्रं सततं नमामि ॥ १॥
संसारसारं निगमं प्रचारं धर्मावतारं हत भूमि भारम् ।
सदा निर्विकारं सुख सिन्धुसारं श्रीरामचन्द्रं सततं नमामि ॥ २॥
लक्ष्मी विलासं जगतां निवासं भूदेव वासं सुख सिन्धु हासम् ।
लङ्का विनाशं भवनं प्रकाशं श्रीरामचन्द्रं सततं नमामि ॥ ३॥
मंदारमालं वचने रसालं गुणयं विशलं हत सप्ततालम् ।
क्रव्यादकालं सुरलोकपालं श्रीरामचन्द्रं सततं नमामि ॥ ४॥
वेदांत ज्ञानं सकल सतानं हंतारमानं त्रिदशं प्रधानम् ।
गजेन्द्रपालं विगता विशालं श्रीरामचन्द्रं सततं नमामि ॥ ५॥
खेलाऽतिभीतं स्वजने पुनीतं स्यामो प्रगीतं वचने अहीतम् ।
रागेनगीतं वचने अहीतं श्रीरामचन्द्रं सततं नमामि ॥ ६॥
लीलाशरीरं रणरङ्ग धीरं विश्वै कवीरं रघुवंशधारम् ।
गम्भीरनादं जितसर्ववादं श्रीरामचन्द्रं सततं नमामि ॥ ७॥
श्यामाभिरामं नयनाभिरामं गुणाभिरामं वचनाभिरामं ।
विश्वप्रणामं कतभक्तिकामं श्रीरामचन्द्रं सततं नमामि ॥ ८॥
॥ इति रामाष्टकं सम्पूर्णम् ॥

        एक श्लोकी रामायणम्  

आदौ राम तपोवनादि गमनं हत्वा मृगं काञ्चनम् ।
वैदेही हरणं जटायु मरणं सुग्रीव सम्भाषणम् ॥
वाली निर्दलनं समुद्र तरणं लङ्कापुरी दाहनम् ।
पश्चाद् रावण कुंभकर्ण हननं चेतद्धि रामायणम् ॥

]