[[पार्थिवेश्वरपूजा Source: EB]]
[
Please dont Edit this page (Blank Page)
[TABLE]
अथ पार्थिवेश्वरपूजाविधिः।
<MISSING_FIG href="../books_images/U-IMG-1725260214U.jpg"/>
तत्रादौ कलशस्थापनम्॥ (पत्थरके चूर्णसे ईशानी कोणपर अष्टदल ब्रह्मकलश लिखके, अष्टदलपर अक्षोट और विष्टर युक्त पानी का घडा कलश रखके, उससे नैर्ऋतकोणपर प्रणीतपात्रभी रखके कलश को भी मंत्र फूल व अक्षत छोडना)॥॥ ॐकारो यस्य मूलं क्रमपदजठरच्छन्दविस्तीर्णशाखा ऋक्पत्रं सामपुष्पं यजुरुचितफलः स्यादथर्वः प्रतिष्ठा। यज्ञच्छायासुशीतो द्विजगणमधुपैर्गीयते यस्य नित्यं शक्तिः सन्ध्यात्रिकालं दुरितभयहरः पातु नो वेदवृक्षः॥ मुक्ताविद्रुमहेमनीलधवलच्छायैर्मुखैस्त्रीक्षणैर्युक्तामिन्दुनिबद्धरत्नमुकुटां तत्त्वात्मवर्णात्मिकाम्। गायत्रीं वरदाभयाङ्कुशकरां शूलं कपालं गुणं शङ्खं चक्रमथारविन्दयुगलं हस्तैर्वहन्तीं भजे॥ आयातु वरदा देवी त्र्यक्षरा ब्रह्मवादिनी। गायत्री च्छन्दसां मातर्ब्रह्मयोने नमोस्तु ते॥३॥ भद्रं पश्येम प्रचरेम भद्रं भद्रं वदेम शृणुयाम भद्रम्। तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवीरुत द्यौः॥ “देवीनामेकेन्द्राणीवरुणान्याग्नायीनां द्यावापृथिव्यौ पार्थिवी षड्वैष्णव्योऽतो देवा दैवी वा”॥ अभि नो देवीरवसा महः शर्मणा नृपत्नीः, अच्छिन्नपत्राः सचन्ताम्॥ इहेन्द्राणीमुपह्वये वारुणानीं स्वस्तये, अग्नायीं सोमपीतये॥ मही द्यौः पृथिवी च न इमं यज्ञं मिमिक्षताम्, पिपृतां नो भरीमभिः॥तयोरिद्घृतवत्पयो विप्रा
रिहन्ति धीतिभिः, गन्धर्वस्य ध्रुवे पदे॥ स्योना पृथिवि भवानृक्षरा निवेशनी, यच्छाऽनः शर्म सप्रथः॥ अतो देवा अवन्तु नो यतो विष्णुर्विचक्रमे, पृथिव्याः सप्तधामभिः॥ इदं विष्णुर्विचक्रमे त्रेधा निदधे पदम्। समू
ह्लमस्य पांसुरे॥ त्रीणि पदा विचक्रमे विष्णुर्गोपा अदाभ्यः, अतो धर्माणि धारयन्॥ विष्णोः कर्माणि पश्यत यतो व्रतानि पस्पृशे, इन्द्रस्य युज्यःसखा॥ तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः, दिवीव चक्षुराततम्॥ तद्विप्रासो विपन्यवो जागृवांसः समिन्धते, विष्णोर्यत्परमं पदम्॥ ॐगायत्र्यै नमः ॐभूर्भुवःस्वस्तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि, धियो यो नः प्रचोदयात्।३। इति विष्णुभद्रम्॥ (अब क्षेत्रपालों को अक्षत छोडना॥अश्वमेधे घोराणामार्षम्। ॐद्रष्ट्रे नम उपद्रष्ट्रे नमोऽनुद्रष्ट्रे नमः ख्यात्रे नम उपख्यात्रे नमो नुक्शास्त्रे नमः शृण्वते नम उपशृण्वतेनमः सते नमोऽसते नमो जाताय नमो जनिष्यमानाय नमो भूताय नमो भविष्यते नमश्चक्षुषे नमः श्रोत्राय नमो मनसे नमो वाचे नमो ब्रह्मणे नमः शान्ताय नमस्तपसे नमः। भूतं भव्यं भविष्यद्वषट्स्वाहा नम, ऋक्सामयजुर्वषट्स्वाहा नमो, गायत्री त्रिष्टुब्जगती वषट्स्वाहा नमः, पृथिव्यन्तरिक्षं द्यौर्वषट्स्वाहा नमोऽन्नं कृषिर्वृष्टिर्वषट्स्वाहा नमः, पिता पुत्रः पौत्रो वषट्स्वाहा नमः, प्राणो व्यानोऽपानो वषट्स्वाहा नमो भूर्भुवः स्वर्वषट्स्वाहा नमः॥ यो विश्वचक्षुरुत विश्वतोमुखो विश्वतो हस्त उत विश्वतस्पात्। संबाहुभ्यां धमते संपतत्रैर्द्यावापृथिवी जनयन्देव एकः॥ ॐआब्रह्मन्ब्राह्मणो ब्रह्मवर्चस्वी जायतामस्मि-
न्राष्ट्रे राजन्य इषव्यः शूरो महारथो जायतां दोग्ध्री धेनुर्वोढाऽनङ्वानाशुः सप्तिर्जिष्णूरथेष्ठः पुरन्ध्रिर्योषा सभेयो युवाऽस्य यजमानस्य वीरो जायतां निकामे निकामे नः पर्जन्यो वर्षतु फलवतीर्न ओषधयः पच्यन्तां योगक्षेमो नः कल्पताम्॥ (और कलशपर अक्षतपुष्प छोडना)। “इषे त्वोर्जे त्वेति ब्रह्मणः”। इषे त्वोर्जे त्वा वायवः स्थो, पायवः स्थ देवो वः सविता प्रार्पयतु श्रेष्ठतमाय कर्मणे, आप्यायद्ध्वमघ्न्या देवभागं प्रजावतीरनमीवा अयक्ष्मा मावस्ते न ईशत माऽघशंसः*,* परि वो रुद्रस्य हेतिर्वृणक्तु ध्रुवा अस्मिन्गोपतौ स्यात बह्वीर्यजमानस्य पशून्पाहि यजमानस्य पशुपा असि, देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामादधे, गोषदसि प्रत्युष्टं रक्षः प्रत्युष्टाऽरातिः प्रेयमागाद्धिषणा बर्हिरच्छ मनुना कृता, स्वधया वितष्टा उर्वन्तरिक्षं वीहीन्द्रस्य परिषूतमसि माधो मोपरि परस्त ऋद्ध्या, स मा च्छेता ते मा रिषत् देवबर्हिः शतवल्शं विरोह सहस्रवल्शं विवयं रुहेम, आदित्या रास्नासीन्द्राण्याः सन्नहनं पूषा ते ग्रन्थिं ग्रथ्नातु स ते मा स्थादिन्द्रस्य त्वा बाहुभ्यामुद्यच्छे बृहस्पतेस्त्वा मूर्ध्ना हरामि देवं गममसि तदा हरन्ति कवयः पुरस्ताद्देवेभ्यो जुष्टमिह बर्हिरासदे, वसोः पवित्रमसि शतधारं वसूनां पवित्रमसिसहस्रधारमयक्ष्मा वः प्रजया संसृजामि रायस्पोषेण बहुला भवन्तीः, मधुमद्घृतवत्पिन्वमाना जीवा जीवन्तीरुप वः सदेम मातरिश्वानो घर्मोसि द्यौरसि पृथिव्यसि विश्वधाया परेण, धाम्ना, ह्नुतासि माह्वाः सा विश्वायुः सा विश्वव्यचाः सा विश्वधाया हुतस्तोको हुतो द्रप्सोऽग्नये बृहते नाकाय स्वाहा, द्यावापृथिवीभ्यां सपृच्यध्वमृ-
तावरी ऊर्मिणा मधुमत्तमा मान्द्राधानस्य सातयः, इन्द्रस्य त्वा भागं सोमेनातनच्म्यदस्तमसि विष्णवे विष्णो हव्यं रक्षस्वापो जागृत, महितॄणां मवोस्तु द्युम्नंमित्रस्यार्यम्णः, दुराधर्षं वरुणस्य, नहि तेषाममाचन नाध्वसु वरणेषु ईशे रिपुरघशंसः, यस्मै पुत्रासो अदितेः प्रजीवसे मर्त्याय ज्योतिर्यच्छन्त्यजस्रम्, सोमानं स्वरणं कृणुहि ब्रह्मणस्पते, कक्षीवन्तं य औषजो यो रैवाण्यो अमीवहा वसुवित्पुष्टिवर्धनः सनः सिषक्तु यस्तुरः, मा नःशंसो अरुरुषो धूर्तिः प्राणङ्मर्त्यस्य रक्षाणो ब्रह्मणस्पते॥ (अब तिल अक्षत पुष्प पानी और विष्टरवाले प्रणीतपात्र में गन्ध और तीन मंत्रोंसे तीन फूल पाना)॥ संव्वःसृजामि हृदयं संसृष्टं मनो अस्तु वः॥१॥ संसृष्टास्तन्वः सन्तु वः संसृष्टः प्राणो अस्तु वः॥२॥ संय्यावः प्रियास्तन्वः संप्रिया हृदयानि वः। आत्मा वो अस्तु संप्रियः संप्रियास्तन्वो मम॥३॥ (प्रणीतपात्र के विष्टर से कलश और क्षेत्रेशों को जीवाधान करना)॥ अग्नेरायुरसि तस्य ते मनुष्या आयुष्कृतस्तेनास्मा अमुष्मा आयुर्धेहि॥ इन्द्रस्य प्राणः स ते प्राणन्ददातु यस्य प्राणस्तस्मै ते स्वाहा॥ पितॄणां प्राणास्ते ते प्राणन्ददतु येषां प्राणस्तेभ्यो वः स्वाहा॥ मरुतां प्राणास्ते ते प्राणन्ददतु येषां प्राणस्तेभ्यो वः स्वाहा॥ विश्वेषान्देवानां प्राणास्तेते प्राणन्ददतु येषां प्राणस्तेभ्यो वः स्वाहा॥ प्रजापतेः प्राणः परमेष्ठिनः प्राणस्तौ ते प्राणन्दत्तां ययोः प्राणस्ताभ्यां वां स्वाहा॥ यदऽसर्पस्तत्सर्पिरभवो यन्नवमैस्तन्नवनीतमभवो यदऽद्रियथास्तद्घृतमभवो॥ घृतस्य धाराममृतस्य पन्थामिन्द्रेण दत्तं प्रयतं मरुद्भिः। तत्त्वा विष्णुरन्वपश्यत्तत्त्वेडा
गव्यैरयत्॥ पावमानेन त्वा स्तोमेन गायत्र्या वर्तन्या पांशोर्वीर्येणोद्धराम्यसौ॥ बृहता त्वा रथन्तरेण त्रिष्टुभा वर्तन्या शुक्रस्य वीर्येणोत्सृजाम्यसौ॥ अग्नेस्त्वा मात्रया जगत्या वर्तन्या देवस्त्वा सवितोन्नयतु जीवातवे जीवनस्याऽयाअसौ। देवा आयुष्मन्तस्तेऽमृतेनाऽयुष्मन्तस्तेषामयमायुषाऽयुष्मानऽस्त्वसौ॥ ब्रह्मायुष्मत्तद्ब्राह्मणैरायुष्मत्तस्यायमायुषाऽयु-ष्मानऽस्त्वसौ॥ अग्निरायुष्मान्स वनस्पतिभिरायुष्मांस्तस्यायमाऽयुषाऽयुष्मानऽस्त्वसौ॥ यज्ञ आयुष्मान्स दक्षिणाभिरायुष्मांस्तस्यायमायुषाऽयुष्मानऽस्त्वसौ॥ सोम आयुष्मान्स ओषधीभिरायुष्मांस्तस्यायमायुषाऽयुष्मानऽस्त्वसौ॥ ओषधय आयुष्मतीस्ता अद्भिरायुष्मतीस्तासामयमाऽयुषाऽयुष्मानऽस्त्वसौ॥ इममग्न आयुषे वर्चसे कृधि तिग्ममोजो वरुण संशिशाधि। मातेवास्मा अदिते शर्म यच्छ विश्वेदेवा जरदष्टिर्यथाऽसत्॥अश्विनोः प्राणस्तौ ते प्राणन्दत्तां तेन जीव, मित्रावरुणयोः प्राणस्तौ ते प्राणं दत्तां तेन जीव, बृहस्पतेः प्राणः स ते प्राणन्दत्तात्तेन जीव॥ (अब पूजामण्डप के दिशायों का अक्षतयुक्तराक्षस घातक तिल फेंकना)॥ (“प्रथम पूर्व को”)॥ये देवाः पुरःसदोऽग्निनेत्रा रक्षोहणस्ते नः पान्तु ते नोऽवन्तु तेभ्यः स्वाहा॥ (दक्षणको) ये देवा दक्षिणात्सदो यमनेत्रा रक्षोहणस्ते नः पान्तु ते नोऽवन्तु तेभ्यः स्वाहा॥ (पश्चिम को)॥ ये देवाः पश्चात्सदो मरुन्नेत्रा रक्षोहणस्ते नः पान्तु ते नोऽवन्तु तेभ्यः स्वाहा॥ (उत्तरको)॥ये देवा उत्तरात्सदो मित्रावरुणनेत्रा रक्षोहणस्ते नः पान्तु ते नोऽवन्तु तेभ्यः स्वाहा॥ (उपर आकाशको)॥ये देवा उपरिषदः सोमनेत्रा अवस्वदन्तो रक्षोहणस्ते
नः पान्तु ते नोऽवन्तु तेभ्यः स्वाहा॥ (आग्नेय कोण को)॥ इदमहं रक्षोभिः समूहाम्यग्ने संदह रक्षः संदग्धं रक्षोग्नये पुरः सदे रक्षोघ्ने स्वाहा॥ (नैऋत कोण को) यमाय दक्षिणात्सदे रक्षोघ्ने स्वाहा॥ (वायव्यकोण को) मरुद्भ्यःपश्चात्सद्भ्यःरक्षोहभ्यः स्वाहा (ईशानकोण को) मित्रावरुणाभ्यामुत्तरात्सद्भ्यां रक्षोहभ्यां स्वाहा॥ (नीचे धरती को)॥ सोमायोपरिषदेऽवस्वदते रक्षोघ्ने स्वाहा॥ (अब प्रणीतपात्र के विष्टर से उस का पानी आलोडन करना)॥ रथः पञ्चवाही दक्षिणा॥ (उस विष्टर से द्रव्यों की शुद्धि करना॥ “पहिले जल की”)॥आपो हि ष्ठा मयोभुवस्ता न ऊर्जे दधातन, महे रणाय चक्षसे। यो वः शिवतमो रसस्तस्य भाजयते ह नः, उशतीरिव मातरः। तस्मा अरङ्ग माम वो यस्य क्षयाय जिन्वथ, आपो जनयथा च नः॥ (अक्षतकी शुद्धि)॥ आप्यायस्वसमेतु ते विश्वतः सोमवृष्ण्यम्, भवावाजस्य सङ्गथे॥ (फूलों की) पुष्पवतीःप्रसुमतीः फलिनीरफला उत। अश्वा इव सजित्वरीर्वीरुधः पारयिष्णवः॥ (तिलककी)॥ गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम्। ईश्वरीं सर्वभूतानां तामिहोपह्वये श्रियम्॥ (कुशाकी)॥ कर्मणे वां वानस्पत्यमसि प्रत्युष्टं रक्षः प्रत्युष्टारातिः प्रियमागाद्विषेण बर्हिरच्छ मनुना कृता सुधया वितुष्ट उर्वन्तरिक्षं वीहि॥ (धूपकी) धूरसि धूर्व धूर्वन्तं योस्मान्धूर्वति तं धूर्वय वयं धूर्वामस्तं च धूर्व। देवानामसि वह्नितमं सस्नितमं पप्रितममिष्टतमं देवहूतमं विष्णोः क्रमोऽस्याह्नुतमसि हविर्दानं दृंहस्व माह्वान्मित्रस्यत्वा चक्षुषा
प्रेक्ष उरु त्वा वाताय वसवस्त्वा धूपयन्तु गायत्रेण च्छन्दसाऽङ्गिरस्वत्। रुद्रास्त्वा धूपयन्तु त्रैष्टुभेन च्छन्दसाङ्गिरस्वत्। आदित्यास्त्वा धूपयन्तु जागतेन च्छन्दसाङ्गिरस्वत्। विश्वे त्वा देवा वैश्वानरा धूपयन्तु आनुष्टुभेन च्छन्दसाऽङ्गिरस्वत् इन्द्रस्त्वा धूपयतु वरुणस्त्वा धूपयतु विष्णुस्त्वा धूपयतु॥ (सूरजकी) उद्वयं तमसस्परि ज्योतिष्पश्यन्त उत्तरम्। देवं देवत्रा सूर्यमगन्म ज्योतिरुत्तमम्॥ (दीपकी)॥ तेजोसि शुक्रमसि ज्योतिरसि धामासि प्रियन्देवानामनाधृष्टं देवयजनं देवताभ्यस्त्वा देवताभ्यो गृह्णामि यज्ञेभ्यस्त्वा यज्ञियेभ्यो गृह्णामि॥ (अपने आप को तिलक लगाना)॥ अध्वर्योयं यज्ञो अस्तु देवा ओषधीभ्यः पशुभ्यो मे धनाय। विश्वस्मै भूताय ध्रुवो अस्तु देवाः स पिन्वस्व घृतवद्देवयज्ञ। (अक्षत और फूल चढाना)॥ इहैवैधि मा पच्योष्ठाः पर्वता इवाविचाचलत्। इन्द्र इवेह ध्रुवस्तिष्ठेह यज्ञमुदारय॥ (दो काण्ड दर्भ का अपना आसन छोडना)॥ इममिन्द्रो अदीधरद्धुंवन्ध्रुवेण हविषा हविः। तस्मै सोमो अधिब्रुवत्तस्मा उ ब्रह्मणस्पतिः॥ (कलश को आसन छोडना)॥ ध्रुवा द्यौर्ध्रुवा पृथिवी ध्रुवासः पर्वता इमे। ध्रुवं विश्वमिदं जगद्ध्रुवो राजा विशामसि॥ (भूमी को तिलकफूल और अक्षत लगाना)॥ मही द्यौः पृथिवी च न इमं यज्ञं मिमिक्षताम्। पिपृतां नो भरीमभिः॥(आकाश को)॥ बडित्था पर्वतानां क्षेत्रं बिभर्षि पृथिवि प्रया भूमिं प्रवत्वति मह्नाजिनोषि महिनि॥ (अष्टदलके नीचे लिखेहुई पांच कोनों मेंसे वायुकोण पर गणेश को)॥ निषुसीद गणपते गणेषु त्वामाहुर्विप्रतमं कवीनाम्। न ऋते त्वत्क्रियते
किंचनारे महामर्कंमघवंश्चित्रमर्च॥ (नैर्ऋतकोण पर कुमार को)॥ कुमारं माता युवतिः समुब्धं गुहा बिभर्ति न ददाति पित्रे। अनीकमस्य नमिमज्जनासः पुरा पश्यन्ति निहितमरतौ॥ (ईशानकोण पर श्रिई को) अश्वपूर्वां रथमध्यां हस्तिनादप्रमोदिनीम्। श्रियं देवीमुपह्वये श्रीर्मां देवी जुषताम्॥ (बीच में उपर सरस्वती को)॥ इयं शुष्मेभिर्बिसखाइवारुजत्सानुर्गिरीणान्तर्विश्वेभिरूर्मिभिः। परावतघ्नीमवसे सुवृक्तिभिः सरस्वतीमाविवासेम धीतिभिः॥ (बीच में नीचे लक्ष्मीको) कांस्यस्मितां हिरण्यप्राकारामार्द्रां ज्वलन्तीं तृप्तां तर्पयन्तीम्। पद्मे स्थितां पद्मवर्णां तामिहोपह्वये श्रियम्॥ (आग्नेय कोणपर विश्वकर्म को)॥ विश्वकर्मा विश्वदेवो विश्वजिद्विश्वदर्शितः। ते त्वा घृतस्य धारया श्रैष्ठाय समसूषत॥ (कलशपात्र में और देवों को)॥ ब्रह्मा देवानां पदवीः कवीनामृषिर्विप्राणां महिषो मृगानाम्। श्येनो गृद्ध्राणां स्वधितिर्वनानां सोमः पवित्रमत्येति रेभन्॥ प्रतद्विष्णुः स्तवते वीर्येण मृगो न भीमः कुचरो गिरिष्ठः। यस्योरुषु त्रिषु विक्रमणेष्वधिक्षियन्ति भुवनानि विश्वा॥ यो रुद्रो अग्नौ योऽप्सु य ओषधीषु यो वनस्पतिषु। यो रुद्रो विश्वा भुवना विवेश तस्मै रुद्राय नमो अस्तु देवाः॥ अग्निमीडे पुरोहितं यज्ञस्य देवमृत्विजम्। होतारं रत्नधातमम्॥ इषे त्वोर्जे त्वा वायवः स्थो, पायवः स्थ देवो वः सविता प्रार्पयत, श्रेष्ठतमाय कर्मणे॥ अग्न आयाहि वीतये गृणानो हव्यदातये निहोता सत्सि बर्हिषि॥ शन्नो देवीरभीष्टय आपो भवन्तु पीतये, शंय्योरभिस्रवन्तु नः॥ आहं पितॄन्सुविदत्रां अवित्सि न पातञ्च विक्रमणं च विष्णोः। बर्हिषदो ये सुधया सुतस्य
भाजन्त पित्वस्त इहागमिष्ठाः॥ वषट्ते विष्णवास आकृणोमि तन्मे जुषस्व शिपिविष्ट हव्यम्। वर्धन्तु त्वा सुष्टुतयो गिरो मे यूयं पात स्वस्तिभिः सदानः॥ ऋतुपतये नारायणाय नमः दुर्गायै नमः। त्र्यम्बकाय नमः, वरुणाय नमः, यज्ञपुरुषाय नमः अग्निष्वात्तादिभ्यः पितृगणदेवताभ्यो नमः॥ (प्रधान हैं)॥ योरुद्रो अग्नौ य अप्सु य ओषधीषु यो वनस्पतिषु। यो रुद्रो विश्वा भुवना विवेश तस्मै रुद्राय नमो अस्तु देवाय नमः। भवायदेवाय नमः।८। अजैकपर्दिने नमः अहिर्बुध्न्यायकृत्तिवाससे पिनाकभृते सिन्धवे बहुरूपाय हराय त्र्यम्बकाय त्रिनेत्राय वृषभवाहनाय शतरुद्रेश्वराय मृत्युञ्जयभट्टारकायनमः॥ गणानान्त्वा गणपतिं हवामहे कविङ्कवीनामुपमश्रवस्तमम्। ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पत आनः शृण्वन्नूतिभिः सीद सादनं नमः। विनायकायनमः।८। कुमारं माता युवतिः समुब्धं गुहा बिभर्ति न ददाति पित्रे। अनीकमस्य नमिमञ्जनासः पुरा पश्यन्ति निहितमरतौ॥ क्लींकां कुमारायनमः षण्मुखायनमः मयूरवाहनाय नमः सेनाधिपतये कुमाराय नमः॥ जातवेदसे सुनवाम ०। भगवत्यै अमायै नमः।८॥ तद्विष्णोः परमं ०। विष्णुपञ्चायतनदेवताभ्यो नमः॥ यत इन्द्र भयामहे ०। अभयङ्करीदेव्यै नमः क्षेमङ्करीभगवत्यै नमः सर्वशत्रुघातिन्यै नमः इह राष्ट्राधिपतये अमुकभैरवाय नमः॥ क्षेत्रस्य पतिना वयं हितेनेव जयामसि गामश्वं पोषयित्वा स नो मृडातीदृशे नमः हेरकादिभ्यो नमः बटुकादिभ्यो नमः॥ यौ ते श्वानौ यमरक्षतारौ चतुरक्षौ पथिरक्षी नृचक्षसौ। ताभ्यामेनं परिदेहिराजन्स्वस्ति चास्मा अनमीवञ्च धीहि॥ यत्र वेत्थ वनस्पते देवानां गुह्या
नामानि तत्र हव्यानि गन्तय॥मुञ्चामि त्वा हविषा जीवनायकमज्ञातयक्ष्मादुत राजयक्ष्मात्। ग्राहि जग्राह यदि वैतदेनन्तस्या इन्द्राग्नी प्रमुमुक्तमेनम्॥ अङ्गादङ्गाल्लोम्नो लोम्नो जातं पर्वणि पर्वणि। यक्ष्मं सर्वस्मादात्मनस्तमिदं विवृहामि ते॥ तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः, दिवीव चक्षुराततम्। तद्विप्रासो विपन्यवो जागृवांसः समिन्धते, विष्णोर्यत्परमं पदम्॥ गायत्र्यै नमः। ॐभूर्भुवः स्वस्तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि, धियो यो नः प्रचोदयात्॥३॥ ऐन्द्राग्नंवर्म बहुलं यदुग्रं विश्वेदेवा नातिविध्यन्ति शूराः। तन्नस्त्रायतां तन्वःसर्वतो महदायुष्मन्तो जरामुपगच्छेम जीवाः॥ (कलश को नैवेद्य रखना) सावित्राणि सावित्रस्य देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णोहस्ताभ्यामादधे। महागणपतये कुमाराय श्रियै सरस्वत्यै लक्ष्म्यै विश्वकर्मणे द्वार्देवताभ्यः प्रजापतये ब्रह्मणे कलशदेवताभ्यः ब्रह्मविष्णुमहेश्वरदेवताभ्यः चातुर्वेदेश्वराय सानुचराय॥ ऋतुपतये नारायणाय दुर्गायै त्र्यम्बकाय वरुणाय यज्ञपुरुषाय अग्निष्वात्तादिभ्यः पितृगणयागदेवताभ्यः भगवते भवायदेवाय शर्वायदेवाय रुद्रायदेवाय पशुपतयेदेवाय उग्रायदेवाय भीमायदेवाय महादेवाय ईशानायदेवाय पार्वतीसहिताय परमेश्वराय॥ अजैकपर्दिने अहिर्बुध्न्याय कृत्तिवाससे पिनाकभृते सिन्धवे बहुरूपाय हराय त्र्यम्बकाय त्रिनेत्राय वृषभवाहनाय शतरुद्रेश्वराय मृत्युञ्जयभट्टारकाय। विनायकाय एकदन्ताय कृष्णपिङ्गलाय गजाननाय लम्बोदराय भालचन्द्राय हेरम्बाय आखुरथाय विघ्नेशाय विघ्नभक्ष्याय वल्लभासहिताय महागणेशाय। क्लींकां कुमाराय षण्मुखाय मयूरवाहनाय सेनाधियतये कुमाराय।
भगवत्यै अमायै कामायै चार्वङ्ग्यैटङ्कधारिण्यै तारायै पार्वत्यै यक्षिण्यै सहस्रनाम्न्यैदेव्यै भवान्यै। विष्णुपञ्चायतनदेवताभ्यः अभयङ्करीदेव्यै क्षेमङ्करीभवान्यै सर्वशत्रुघातिन्यै इह राष्ट्राधिपतये अमुकभैरवाय हेरकादिभ्यो वटुकादिभ्यः तिलतण्डुलमात्रं दधिमधुमिश्रं ॐ नमो नैवेद्यं निवेदयामि नमः॥ (कलश को फूल अर्घ छोडना)॥ हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत्। स दाधार पृथिवीं द्यामुतेमां कस्मै देवाय हविषा विधेम॥१॥ यः प्राणतो निमिषतश्च राजा पतिर्विश्वस्य जगतो बभूव। ईशेयो अस्य द्विपदश्चतुष्पदः कस्मै देवाय हविषा विधेम॥२॥ य ओजदा बलदा यस्य विश्व उपासते प्रशिषं यस्य देवाः। यस्य छायाऽमृतं यस्य मृत्युः कस्मै देवाय हविषा विधेम॥३॥ येन द्यौरुग्रा पृथिवी दृढा येन सुस्तम्मितं येन नाकम्। यो अन्तरिक्षं विममे वरीयः कस्मै देवाय हविषा विधेम॥४॥ यइमे द्यावा पृथिवी तस्तभाने आधारयद्रोधसी रेजमाने। यस्मिन्नधि वितताः सूर एति कस्मै देवाय हविषा विधेम॥५॥ यस्येमे विश्वे गिरयो महित्वा समुद्रं यस्य रसया सहाहुः। दिशो यस्य प्रदिशः पञ्चदेवी कस्मै देवाय हविषा विधेम॥६॥ आपो ह यन्महती विश्वमायुर्गर्भं दधाना जनयन्तीरग्निम्। ततो देवानां निरवर्ततासुरेकः कस्मै देवाय हविषा विधेम॥७॥ आ नः प्रजाञ्जनयतु प्रजापतिर्धाता दधातु सुमनस्यमानः। संवत्सर ऋतुभिश्चाक्लृपानो मयि पुष्टिं पुष्टिपतिर्दधातु॥८॥ अर्चन्तस्त्वा हवामहे अर्चन्तः समिधीमहि। अग्नेरर्चत ऊतये अर्चत प्रार्चत प्रियमेधसो
अर्चत। अर्चन्तु पुत्रका उत पुरं न धृष्णमर्चत अर्चत अर्चत॥ इति कलशस्थापनम्॥
अथ पूजाविधिः। (पीठ परे पार्थिवेश्वर रखके, पानी छोडना)। अस्य श्री आसनशोधनमन्त्रस्य, मेरुपृष्ठ ऋषिः, सुतलं च्छन्दः, कूर्मो देवता, आसनशोधने विनियोगः। मेरुपृष्ठ ऋषये नमः शिरसि (सिरको हाथों से छोना) सुतलं च्छन्दसे नमः, मुखे (मुंहको) कूर्मो देवतायै नमः हृदि (हृदय को) आसनशोधने विनियोगाय नमः सर्वाङ्गेषु। (सब अङ्गों को)॥ (दो दर्भकाण्डे भूमी को आसन छोडना) ध्रुवा द्यौर्ध्रुवा पृथिवी ध्रुवासः पर्वता इमे। ध्रुवं विश्वमिदं जगद्ध्रुवो राजा विशामसि। (गन्ध अर्घफूल देना) प्रींपृथिव्यै आधारशक्त्यै समालभनं गन्धो नमः अर्घोनमः पुष्पं नमः। (हाथ जोड के मांगना) पृथ्वि त्वया धृता लोका देवि त्वं विष्णुना धृता। त्वं च धारय मां देवि पवित्रं कुरु चासनम्॥ (अथ इष्टदेवके स्मरणपूर्वक नमस्कार करना) शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्। प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशान्तये॥अभिप्रेतार्थसिद्ध्यर्थं पूजितो यः सुरैरपि। सर्वविघ्नच्छिदे तस्मै गणाधिपतये नमः॥ कर्पूरगौरं करुणावतारं संसारसारं भुजगेन्द्रहारम्। सदा रमन्तं हृदयारविन्दे भवं भवानीसहितं नमामि॥ गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुः साक्षान्महेश्वरः। गुरुरेव जगत्सर्वं तस्मै श्रीगुरवे नमः॥ गुरवे नमः, परमगुरवे नमः, परमेष्ठिने गुरवे नमः, परमाचार्याय नमः, आद्यसिद्धेभ्यो नमः॥ (अब न्यास करना) अ नाभौ (नाभिस्थान को हाथोंसे छोना) उ हृदि (हृदय को)
म शिरसि (सेरको)। भूः पादयोः (पैरोंको)। भुवः हृदि (हृदयको) स्वः शिरसि (सेरको) भूरङ्गुष्ठाभ्यां नमः (अङ्गुठोंको) भुवस्तर्जनीभ्यां नमः (दूसरी अंगुली को) स्वर्मध्यमाभ्यां नमः (तीसरी अङ्गुली को) महः अनामिकाभ्यां नमः (चौथमी अङ्गुली को) जनः कनिष्ठिकाभ्यां नमः (पिच्छली अङ्गुली को) तपःसत्यं करतलकरपृष्ठाभ्यां नमः (हाथों के दोतले और दो पीठभी मेलाना) भूः पादयोः (पैरोंको) भुवः जान्वोः (घुट्टनोंको) स्वः गुह्ये (गुदाको) महः नाभौ (नाभी को) जनः हृदि (हृदयको) तपः कण्ठे (गले को) सत्यं शिरसि (सेरको)॥ भूः हृदयाय नमः (हृदयको) भुवः शिरसे स्वाहा (सिरको) स्वः शिखायै वषट् (शिखाको) महः कवाचाय हुं (बाही हाथ दाही कान के दाही हाथ बाही कान के आगे रखना) जनः नेत्राभ्यां वौषट् (आखोंको) तपः सत्यमस्त्राय फट् (तीन छोटिका सिरको ईर्द गीर्द मारना)॥ (इसीतरह औरोंभी) तत्सवितुरङ्गुष्ठाभ्यां नमः। वरेण्यं तर्जनीभ्यां नमः। भर्गो देवस्य मध्यमाभ्यां नमः। धीमहि अनामिकाभ्यां नमः। धियो योनः कनिष्ठिकाभ्यां नमः। प्रचोदयात्करतलकरपृष्ठाभ्यां नमः। तत्पादयोः सवितुर्जान्वोः॥ वरेण्यं कट्यां। भर्गो नाभौ॥ देवस्य हृदये। धीमहि कण्ठे॥ धियो नासिकायां। यश्चक्षुषे॥ नः ललाटे। प्रचोदयाच्छिरसि॥ तत्सवितुर्हृदयाय नमः। वरेण्यं शिरसे स्वाहा॥ भर्गो देवस्य शिखायै वषट्। धीमहि कवचाय हुं॥ धियो योनः नेत्राभ्यां वौषट्। प्रचोदयादऽस्त्राय फट्॥ आपः स्तनयोः।
ज्योतिर्नेत्रयोः॥ रसो मुखे। अमृतं ललाटे॥ब्रह्मभूर्भुवः स्वरों शिरसि। यो रुद्रो अग्नौ, हृदयाय नमः॥ यो अप्सु य ओषधीषु, शिरसे स्वाहा। यो वनस्पतिषु, शिखायै वषट्॥यो रुद्रो विश्वा भुवना विवेश, कवचाय हुँ। तस्मै रुद्राय, नेत्राभ्यां वाषट्॥ नमो अस्तु देवा अस्त्राय फट्। गणानान्त्वा गणपतिं हवामहे, हृदयाय नमः। कविङ्कवीनां, शिरसेस्वाहा। उपमश्रवस्तमं, शिखायै वषट्। ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पत, कवचाय हुं। आनः शृण्वन्, नेत्राभ्यां वौषट्। ऊतिभिः सीद सादनं, अस्त्राय फट्॥ कुमारं माता युवतिः हृदयायनमः। समुब्धं गुहा बिभर्ति, शिरसेस्वाहा। न ददाति पित्रे, शिखायै वषट्। अनीकमसिनमिमज्जनासः, कवचाय हुँ। पुरा पश्यन्ति, नेत्राभ्यां वौषट्। निहितमरतौ, अस्त्राय फट्॥ जात शिखायां वेदसे, ललाटे। सुनवाम, कर्णयोः। सोमं, नासिकायां। अराति, चक्षुषोः। यत, ओष्ठयोः। नि दन्तेषु। दहाति, तालुनि। वेद जिह्वायां। स, ग्रीवायां। नः, बाह्वोः। पर्षत्, हृदि। अति, स्तनयोः। दुर, कुक्षौ। गाणि, नाभौ। विश्वा, पृष्ठे, नाव, अपाने। इव, वृष्णयोः। सिन्धुं, शिश्ने। दुर्, कट्यां। इत ऊर्वोः। अति, जङ्घयोः। अग्निः पादयोः॥ (चारों तरफ तेल फेकते हुई पडना) अपसर्पन्तु ते भूता ये भूता भुवि संस्थिताः॥ ये भूता विघ्नकर्तारस्ते नश्यन्तु शिवाज्ञया॥ (प्राणायाम करना)। ॐ भूः ॐ भुवः ॐ स्वः ॐ महः ॐ जनः ॐ तपः ॐ सत्यं ॐ तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि, धियो योनः प्रचोदयादोमापो ज्योतीरसोमृतं ब्रह्मभूर्भुवः स्वरोम्॥ (पैरो और मुंह को छेडकना) तीर्थे स्नेयं तीर्थमेव समानानां
भवति, मानः शंस्यो अरुरुषो धूर्तिः प्राणङ् मर्त्यस्य रक्षाणो ब्रह्मणस्पते॥ (पवित्र अनामिका में धारना) वसोः पवित्रमसि शतधारं वसूनां पवित्रमसि सहस्रधारमयक्ष्मा वः प्रजया संसृजामि रायस्पोषेण बहुला भवन्ति॥ (शकुनसहित आशीर्वाद देना)॥ यावदिन्द्रादयो देवा यावच्चन्द्रदिवाकरौ। यावद्रामकथा लोके भूयात्तावत्स्थितिस्तव॥(रक्षासूत्र बान्धना)॥ यदाबन्धन्दाक्षायणा हिरण्यं शतानीकाय सुमनस्यमानः। तन्म आबघ्नामि शतशारदायाऽयुष्माञ्जरदष्टिर्यथासत्॥ रक्षस्व मे केशवः सविता सत्यधर्मा रक्षस्वमे केशवः प्राणधनानि यानि। रक्षस्वमे केशवश्चोभयलोकवीरं शंनो भवतु मे द्विपदे शं चतुष्पदे॥ रक्षाणो ब्रह्मणस्पते॥ (अपने आप को गन्ध व पुष्प और अर्घ लगाना) परमात्मने पुरुषोत्तमाय पञ्चभूतात्मकाय विश्वात्मने मन्त्रनाथाय आत्मने नारायणाय आधारशक्त्यै समालभनं गन्धो नमः। अर्थोनमः। पुष्पं नमः॥ (दीवा को गन्ध अर्घऔर फूल चडाना)। स्वप्रकाशो महादीपः सर्वतस्तिमिरापहः। प्रसीद मम गोविन्द दीपोयं परिकल्पितः। (धूप को)। वनस्पतिरसो दिव्यो गन्धाढ्यो गन्धवत्तमः। आधारः सर्वदेवानां धूपोयं परिकल्पितः॥ (सूरज को) नमो धर्मनिधानाय नमः स्वकृतसाक्षिणे। नमः प्रत्यक्षदेवाय भास्कराय नमो नमः॥ (अर्घव विष्टर समेत पानीसे संकल्पछोडना) यत्रास्ति माता न पिता न बन्धुर्भ्रातापि नो यत्र सुहृज्जनश्च। न ज्ञायते यत्र दिनं न रात्रिस्तत्रात्मदीपं शरणं प्रपद्ये। आत्मने नारायणाय आधारशक्त्यै दीपधूपसङ्कल्पात्सिद्धिरस्तु दीपोनमः धूपोनमः। तत्सद्ब्रह्म अद्यतावत्तिथावद्य
फाल्गुनमासस्य कृष्णपक्षस्य तिथौ त्रयोदश्यां शनिवारान्वितायां महागणपतये कुमाराय श्रियै सरस्वत्यै लक्ष्म्यै विश्वकर्मणे द्वार्देवताभ्यः प्रजापतये ब्रह्मणे कलशदेवताभ्यः ब्रह्मविष्णुमहेश्वरदेवताभ्यः चातुर्वेदेश्वराय सानुचराय ऋतुपतये नारायणाय दुर्गायै त्र्यम्बकाय वरुणाय यज्ञपुरुषाय अग्निष्वात्तादिभ्यः पितृगणयागदेवताभ्यः॥ भगवते भवायदेवाय शर्वायदेवाय रुद्रायदेवाय पशुपतयेदेवाय उग्रायदेवाय भीमायदेवाय महादेवाय ईशानायदेवाय पार्वतीसहिताय परमेश्वराय॥ अजैकपर्दिने अहिर्बुध्न्याय कृत्तिवाससे पिनाकभृते सिन्धवे बहुरूपाय हराय त्र्यम्बकाय त्रिनेत्राय वृषभवाहनाय शतरुद्रेश्वराय मृत्युञ्जयभट्टारकाय। विनायकाय एकदन्ताय कृष्णपिङ्गलाय गजाननाय लम्बोदराय भालचन्द्राय हेरम्बाय आखुरथाय विघ्नेशाय विघ्नभक्ष्याय वल्लभासहिताय महागणेशाय। क्लींकां कुमाराय षण्मुखाय मयूरवाहनाय सेनाधिपतये कुमाराय भगवत्यै अमायै कामायै चार्वङ्ग्यैटङ्कधारिण्यै तारायै पार्वत्यै यक्षिण्यै सहस्रनाम्न्यै देव्यै भवान्यै। विष्णुपञ्चायतनदेवताभ्यः अभयङ्करीदेव्यै क्षेमङ्करीभवान्यै सर्वशत्रुघातिन्यै इह राष्ट्राधिपतये अमुकभैरवाय हेरकादिभ्योवटुकादिभ्यः आत्मनो वाङ्मनःकायोपार्जितपापनिवारणार्थं पार्थिवेश्वरपूजानिमित्तं दीपधूपात्संकल्पसिद्धिरस्तु दीपोनमः धूपोनमः॥ अपसव्येन (बाहे तर्फ जञूरख के तिल समेत) नमः पितृभ्यः प्रेतेभ्यो नमो धर्माय विष्णवे। नमो यमाय रुद्राय कान्तारपतये नमः॥३॥ तत्सद्ब्रह्माऽद्यतावत्तिथा०॥ पित्रे पितामहाय प्रपितामहाय। मात्रे पितामह्यै प्रपितामह्यै। मातामहाय प्रमातामहाय वृद्धप्रमा-
तामहाय। मातामह्यैप्रमातामह्यैवृद्धप्रमातामह्यैसमस्तमातापितृभ्यो द्वादशदैवतेभ्यः पितृभ्यः पार्थिवेश्वरपूजानिमित्तं दीपः स्वधा धूपःस्वधा॥ “सव्येन॥” (दाही तर्फ जञूरख के तीन दफा फूल और गन्ध विष्टरसहित पानीकी पात्र में छोडना) संव्वःसृजामि हृदयं संसृष्टं मनो अस्तु वः॥१॥ संसृष्टास्तन्वः सन्तु वः संसृष्टः प्राणो अस्तु वः॥२॥ संय्या वः प्रियास्तन्वः संप्रिया हृदयानि वः। आत्मा वो अस्तु संप्रियः संप्रियास्तन्वो मम॥३॥ (सब देवों को जीवाधान देना, उस पानी से)। अश्विनोः प्राणस्तौ ते प्राणन्दत्तान्तेन जीव मित्रावरुणयोः प्राणस्तौ ते प्राणंदत्तान्तेन जीव, बृहस्पतेः प्राणः स ते प्राणन्दत्तात्तेन जीव। (देव को दो दर्भकाण्डों से चा मर सा न्यास करना) अ नाभौ, उ हृदि, म शिरसि, भूः पादयोः भुवः हृदि, स्वः शिरसि। भूरङ्गुष्ठाभ्यां नमः भुवस्तर्जनीभ्यां नमः स्वर्मध्यमाभ्यां नमः महः अनामिकाभ्यां नमः जनः कनिष्ठिकाभ्यां नमः तपःसत्यं करतलकरपृष्ठाभ्यां नमः। भूः पादयोः भुवःजान्वोः स्वःगुह्येमहः नाभौ जनःहृदि तपःकण्ठे सत्यं शिरसि। भूः हृदयाय नमः भुवःशिरसे स्वाहा स्वः शिखायै वषट् महःकवचाय हुं जनः नेत्राभ्यां वौषट् तपःसत्यमस्त्रायफट्॥ तत्सवितुरङ्गुष्ठाभ्यां नमः, वरेण्यंतर्जनीभ्यां नमः भर्गोदेवस्य मध्यमाभ्यां नमः धीमहिअनामिकाभ्यांनमः धियोयोनः कनिष्ठिकाभ्यां नमः प्रचोदयात्करतलकरपृष्ठाभ्यां नमः। तत्पादयोः सवितुर्जान्वोः वरेण्यं कट्यांभर्गो नाभौ, देवस्य हृदये, धीमहि कण्ठे, धियोनासिकायां यश्चक्षुषे, नः
ललाटे, प्रचोदयाच्छिरसि। तत्सवितुर्हृदयाय नमः वरेण्यं शिरसेस्वाहा भर्गोदेवस्यशिखायैवषट् धीमहिकवचायहुं धियोयोनः नेत्राभ्यां वौषट् प्रचोदयादस्त्राय फट्। आपः स्तनयोः ज्योतिर्नेत्रयोः रसो मुखे अमृतं ललाटे ब्रह्मभूर्भुवःस्वरों शिरसि॥ यो रुद्रो अग्नौ हृदयाय नमः, यो अप्सु य ओषधीषु शिरसे स्वाहा, यो वनस्पतिषु शिखायै वषट्, यो रुद्रो विश्वा भुवना विवेश कवचाय हुँ तस्मै रुद्राय नेत्राभ्यां वौषट्, नमो अस्तु देवाः अस्त्राय फट्॥ गणानान्त्वा गणपतिं हवामहे हृदयायनमः, कविंकवीनां शिरसेस्वाहा, उपमश्रवस्तमं शिखायैवषट्, ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पते कवचाय हुँ, आनःशृण्वन्नेत्राभ्यां वौषट्, ऊतिभिः सीदसादनमस्त्राय फट्॥ कुमारं माता युवतिः हृदयायनमः, समुब्धं गुहा बिभर्ति शिरसेस्वाहा, न ददाति पित्रे शिखायै वषट्, अनीकमस्य नमिनज्जनासः कवचाय हुँ, पुरापश्यंति नेत्राभ्यां वौषट् निहितमरतौ अस्त्राय फट्॥ जातशिखायां, वेदसे ललाटे, सुनवाम कर्णयोः, सोमं नासिकायां, अरातिश्चक्षुषोः, यत ओष्ठयोः, नि दन्तेषु, दहाति तालुनि, वेद जिह्वायां, स ग्रीवायां, नः बाह्वोः पर्षत् हृदि, अति स्तनयोः, दुर् कुक्षौ, गाणि नाभौ, विश्वा पृष्ठे, नावाऽपाने इव वृष्णयोः, सिन्धुं शिश्ने, दुर् कट्यां इत ऊर्वोः, अति जङ्घयोः, अग्निः पादयोः॥ (दो दर्भकाण्ड अक्षतयुक्त हाथ में रख के देवों से पूजा की आज्ञा लेना)। ॐभूः पुरुषमावाहयामि नमः ॐभुवःपुरुषमावाहयामि नमः ॐस्वःपुरुषमावाहयामि नमः ॐभूर्भुवःस्वःपुरुषमावाहयामि नमः॥३॥
ॐभूर्भुवः स्वस्तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात्।३। तत्पुरुषाय विद्महे महादेवायधीमहि तन्नोरुद्रः प्रचोदयात्।३। तन्महेशाय विद्महे अर्धनारीश्वरायधीमहि तन्नः पार्थिवेश्वरः प्रचोदयात्।३। तत्पुरुषाय विद्महे वक्रतुण्डायधीमहि तन्नो दन्ती प्रचोदयात्।३। कार्तिकेयाय विद्महे सेनाधिपतयेधीमहि तन्नः कुमारः प्रचोदयात्।३। सुभगायै विद्महे काममालिन्यैधीमहि तन्नो दुर्गाप्रचोदयात्॥३॥ ॐतत्सद्ब्रह्माद्यतावत्तिथावऽद्य फाल्गुनमासस्य कृष्णपक्षस्य तिथावमुकायां अमुकवारान्वितायां महागणपतेः कुमारस्य श्रियः सरस्वत्याः लक्ष्म्याः विश्वकर्मणः द्वार्देवतानां प्रजापतेः ब्रह्मणः कलशदेवतानां ब्रह्मविष्णुमहेश्वरदेवतानां चातुर्वेदेश्वरस्य सानुचरस्य ऋतुपतेर्नारायणस्य “फाल्गुने” शक्तिसहितस्य चक्रिणः क्रियासहितस्य गोविन्दस्य दुर्गायाः त्र्यम्बकस्य वरुणस्य यज्ञपुरुषस्य अग्निष्वात्तादीनां पितृगणयागदेवतानां भवस्य देवस्य०।८। अजैकपदिनः अहिर्बुध्न्यस्य कृत्तिवाससः पिनाकभृतः वृषाकपेः सिन्धोः बहुरूपस्य हरस्य त्र्यम्बकस्य त्रिनेत्रस्य वृषभवाहनस्य शतरुद्रेश्वरस्य श्रीमहामृत्युञ्जयभट्टारकस्य। विनायकस्य एकदन्तस्य कृष्णपिङ्गलस्य गजाननस्य लम्बोदरस्य भालचन्द्रस्य हेरम्बस्य आखुरथस्य विघ्नभक्ष्यस्य वल्लभासहितस्य महागणेशस्य। क्लीं कां कुमारस्य षण्मुखस्य मयूरवाहनस्य सेनाधिपतेः कुमारस्य। भगवत्याः अमायाः कामायाः चार्वङ्ग्याः टङ्कधारिण्याः तारायाः पार्वत्याः यक्षिण्याः श्रीशारिकाभगवत्याः श्रीशारदाभगवत्याः श्रीमहाराज्ञीभगवत्याः श्रीज्वालाभगवत्याः सहस्रनाम्न्या
देव्याः भवान्याः पार्थिवेश्वरयागदेवतानां विष्णुपञ्चायतनदेवतानां अभयङ्करीदेव्याः क्षेमङ्करीभवान्याः सर्वशत्रुघातिन्याः इहराष्ट्राधिपतेः अमुकभैरवस्य हेरकादीनां वटुकादीनां आत्मनो वाङ्मनःकायोपार्जितपापनिवारणार्थंपार्थिवेश्वरप्रीत्यर्थं कलशपूजनं पार्थिवेश्वरयागपूजनमर्चामहं करिष्ये ॐकुरुष्व॥ (तिल सर्षप और जवें चारोंतर्फ फैंकके, आसन देना॥) मृडा नो रुद्रो तनो मयस्कृधि क्षयद्वीराय नमसा विधेम ते। यच्छञ्चयोश्च मनुरायेजे पिता तदश्याम तव रुद्र प्रणीतिषु॥ ध्रुवा द्यौर्ध्रुवा पृथिवी ध्रुवासः पर्वता इमे। ध्रुवं विश्वमिदं जगद्ध्रुवोराजा विशामसि॥ विश्वेश्वर महादेव राजराजेश्वरेश्वर। आसनं दिव्यमिशान दास्येऽहं परमेश्वर॥ महागणपतेः कुमारस्य श्रियः सरस्वत्याः लक्ष्म्याः विश्वकर्मणः द्वार्देवतानां प्रजापतेः ब्रह्मणः कलशदेवतानां ब्रह्मविष्णुमहेश्वरदेवतानां चातुर्वेदेश्वरस्य सानुचरस्य ऋतुपतेः नारायणस्य “फाल्गुने” शक्तिसहितस्य चक्रिणः, क्रियासहितस्य गोविन्दस्य दुर्गायाः त्र्यम्बकस्य वरुणस्य यज्ञपुरुषस्य अग्निष्वात्तादीनां पितृगणयागदेवतानां भवस्य देवस्य ८ अजैकपर्दिनः अहिर्बुध्न्यस्य कृत्तिवाससः पिनाकभृतः वृषाकपेः सिन्धोः बहुरूपस्य हरस्य त्र्यम्बकस्य त्रिनेत्रस्य वृषभवाहनस्य शतरुद्रेश्वरस्य श्रीमहामृत्युञ्जयभट्टारकस्य। विनायकस्य एकदन्तस्य कृष्णपिङ्गलस्य गजाननस्य लम्बोदरस्य भालचन्द्रस्य हेरम्बस्य आखुरथस्य विघ्नभक्ष्यस्य वल्लभासहितस्य महागणेशस्य। क्लीं कां कुमारस्य षण्मुखस्य मयूरवाहनस्य सेनाधिपतेः कुमारस्य। भगवत्याः अमायाः कामायाः चार्वङ्ग्याः
टङ्कधारिण्याः तारायाः पार्वत्याः यक्षिण्याः श्रीशारिकाभगवत्याः श्रीशारदाभगवत्याः श्रीमहाराज्ञीभगवत्याः श्रीज्वालाभगवत्याः सहस्रनाम्न्याःदेव्याः, भवान्याः पार्थिवेश्वरयागदेवतानां विष्णुपञ्चायतनदेवतानां अभयङ्करीदेव्याः क्षेमङ्करीभवान्याः सर्वशत्रुघातिन्याः इह राष्ट्राधिपतेः अमुकभैरवस्य हेरकादीनां वटुकादीनां इदमासनं नमः॥ (अर्घसमेत दो दर्भों हाथ में रख कर आवाहन करना)॥ महागणपतये कुमाराय श्रियै सरस्वत्यै लक्ष्म्यै विश्वकर्मणे द्वार्देवताभ्यः प्रजापतये ब्रह्मणे कलशदेवताभ्यः ब्रह्मविष्णुमहेश्वरदेवताभ्यः चातुर्वेदेश्वराय सानुचराय ऋतुपतये नारायणाय “फाल्गुने” शक्तिसहिताय चक्रिणे क्रियासहिताय गोविन्दाय दुर्गायैत्र्यम्बकाय वरुणाय यज्ञपुरुषाय अग्निष्वात्तादिभ्यः पितृगणयागदेवताभ्यः भवाय देवाय ८ अजैकपदिने अहिर्बुध्न्याय कृत्तिवाससे पिनाकभृते वृषाकपये सिन्धवे बहुरूपाय हराय त्र्यबकाय त्रिनेत्राय वृषभवाहनाय शतरुद्रेश्वराय श्रीमहामृत्युञ्जयभट्टारकाय। विनायकाय एकदन्ताय कृष्णपिङ्गलाय गजाननाय लम्बोदराय भालचन्द्राय हेरम्बाय आखुरथाय विघ्नभक्ष्याय वल्लभासहिताय महागणेशाय। क्लीं कां कुमाराय षण्मुखाय मयूरवाहनाय सेनाधिपतये कुमाराय। भगवत्यै अमायै कामायै चार्वङ्ग्यैटङ्कधारिण्यै तारायै पार्वत्यै यक्षिण्यै श्रीशारिकाभगवत्यै श्रीशारदाभगवत्यै श्रीमहाराज्ञीभगवत्यै श्रीज्वालाभगवत्यै सहस्रनाम्न्यैदेव्यै भवान्यै पार्थिवेश्वरयागदेवताभ्यः विष्णुपञ्चायतनदेवताभ्यः अभयङ्करीदेव्यै क्षेमङ्करीभवान्यै सर्व-
शत्रुघातिन्यै इहराष्ट्राधिपतये अमुकभैरवाय हेरकादिभ्यो वटुकादिभ्यः युष्मान् वः पूजयामि ॐ पूजय। इमा रुद्राय तवसे कपर्दिने क्षयद्वीराय प्रभरामहे मतीः। यथा नः शमसद्द्विपदे चतुष्पदे विश्वं पुष्टं ग्रामे अस्मिन्ननातुरम्॥ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम्। उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात्। महागणपतिं कुमारं श्रियं सरस्वतीं लक्ष्मीं विश्वकर्माणं द्वार्देवताः प्रजापतिं ब्रह्माणं कलशदेवताः ब्रह्मविष्णुमहेश्वरदेवताः चातुर्वेदेश्वरं सानुचरं ऋतुपतिं नारायणं “फाल्गुने” शक्तिसहितं चक्रिणं क्रियासहितं गोविन्दं दुर्गां त्र्यम्बकं वरुणं यज्ञपुरुषं अग्निष्वात्तादीः पितृगणयागदेवताः भवं देवं ८ अजैकपदिनं अहिर्बुध्न्यंकृत्तिवाससं पिनाकभृतं वृषाकपिं सिन्धुं बहुरूपं हरं त्र्यम्बकं त्रिनेत्रं वृषभवाहनं शतरुद्रेश्वरं श्रीमहामृत्युञ्जयभट्टारकं। विनायकं एकदन्तं कृष्णपिङ्गलं गजाननं लम्बोदरं भालचन्द्रं हेरम्बं आखुरथं विघ्नभक्ष्यं वल्लभासहितं महागणेशं। क्लीं कां कुमारं षण्मुखं मयूरवाहनं सेनाधिपतिं कुमारं। भगवतीं आमां कामां चार्वङ्गीं टङ्कधारिणीं तारां पार्वतीं यक्षिणीं श्रीशारिकाभगवतीं श्रीशारदाभगवतीं श्रीमहाराज्ञीभगवतीं श्रीज्वालाभगवतीं सहस्रनाम्नीं देवीं भवानीं पार्थिवेश्वरयागदेवताः। विष्णुपञ्चायतनदेवताः अभयङ्करीदेवीं क्षेमङ्करीभवानीं सर्वशत्रुघातिनीं इहराष्ट्राधिपतिं अमुकभैरवं हेरकादीन् वटुकादीन् आवाहयिष्यामि ॐआवाहय॥॥ आवाहनं शिवस्य॥—शुद्धस्फुटकसकाशं०। लिङ्गेत्र भक्तदयया क्षणमात्रमेकं स्थानं विधाय भव मद्विहितां पुरारे।
सर्वेश विश्वमय हृत्कमलाधिरूढ पूजां गृहाण भगवन्भव मेऽद्य तुष्टः। भूमेर्जलात्तु पवनादनलाद्धिमांशोरुष्णांशुतो हृदयतो गगनात्समेत्य। लिङ्गेत्र मृन्मणिमये मदनुग्रहार्थं भक्त्यैकलभ्य भगवन्कुरु सन्निधानम्। आगच्छ मृत्युञ्जय चन्द्रमौले व्याघ्राजिनालङ्कृत शूलपाणे। सुभक्तसंरक्षणकल्पवृक्ष प्रसीद सर्वेश्वर पार्थिवेश॥ लिङ्गेस्मिन्भगवञ्छम्भो सदा सन्निहितो भव। गृहाणार्चामिमां देव कृपया परमेश्वर॥ गणेशस्य॥ शैलेश्वरस्य तनयार्भक भक्तविघ्ननाशाय हस्तधृतदण्डकुठारपाश। द्वारेश सर्वगणनायक पद्महस्त पूजां गृहाण भगवन्भव मेद्य तुष्टः। ध्याये गजाननं देवं तप्तकाञ्चनसन्निभम्। चतुर्भुजं महाकायं सर्वाभरणभूषितम्॥ दन्ताक्षमालापरशुपूर्णमोदकपात्रकम्। उमासुतं च विघ्नेशं विश्वव्यापिनमीश्वरम्। आवाहयामि भक्त्या त्वामागच्छ द्विरदानन॥ कुमारस्य॥ आवाहयाम्यहं देवं कुमारं षण्मुखंप्रभुम्। मयूरासनमारूढं भक्तानामभयङ्करम्॥ शुक्लवर्णो महातेजाः शुक्लस्रग्दामभूषितः। बलिः पुष्पं चरुश्चैव दीपोयं प्रतिगृह्यताम्॥ दुर्गायाः॥ श्रीशारदे सुरवरे त्रिपुरे सुरेशि दुर्गे भवानि खलु वैखरि विश्वमातः। शर्वार्धदेहनिलये परिवारयुक्ता पूजां गृहाण सुभगे भव मेऽद्य तुष्टः॥ आवाहयाम्यहं दुर्गां शङ्खचापशरान्विताम्। त्रिशूलहस्तां वरदां त्रिनेत्रां चारुहासिनीम्। एह्येहि दुर्गे वरदे भजस्वप्रतिमां सदा। अनुकम्पय मां भक्त्या कृपां कुरु महेश्वरि॥ भगवन्पार्वतीनाथ भक्तानुग्रहकारक। अस्मद्दयानुरोधेन सन्निधानं कुरु प्रभो॥३॥ इत्याहूयतु गायत्रीं त्रिः समुच्चार्य तत्ववित्।
मनसा चिन्तितैर्द्रव्यैर्देवमात्मनि पूजयेत्। तेजोरूपं ततः क्षिप्त्वा प्रतिमायां पुनर्यजेत्॥ (चारों तर्फजऊं फैंकके प्राणायाम करना) पाद्यार्थमुदकं नमः॥ (पात्रका पानी हाथसे उसी में वापस छोडना) शन्नोदेवीरभिष्टय आपो भवन्तु पीतये, शंय्योरभिस्रवन्तु नः॥ (उस पात्र में लाजा गन्ध सर्वौषधी विष्टर और पानी रखना) लाजाश्चकुङ्कुमं चैव सर्वौषधिसमन्वितम्। दर्भाङ्कुरं जलं चैव पञ्चाङ्गं पाद्यलक्षणम् (देवों को हाथ जोडना) भगवन्तः पाद्यंपाद्यं (पाद्य देना) हिरण्यवर्णाः शुचयः पावका यासु जातः कश्यपो यास्विन्द्रः। या अग्निं गर्भं दधिरे विरूपास्ता न आपः शंस्योना भवन्तु॥१॥ यासां देवा दिवि कृण्वन्ति भक्ष्यं या अन्तरिक्षे बहुधा भवन्ति। या अग्निं गर्भं दधिरे विरूपास्ता न आपः शंस्योना भवन्तु॥२॥ यासां राजा वरुणो याति मध्ये सत्यानृते अवपश्यञ्जनानाम्। या अग्निं गर्भं दधिरे विरूपास्ता न आपः शंस्योना भवन्तु॥३॥ शिवेन मा चक्षुषा पश्यतापः शिवया तन्वोपस्पृशत त्वचं मे। मधुश्च्युतः शुचयो या पावकास्ता न आपः शंस्योना भवन्तु॥४॥ महादेव महेशान महानन्द परात्पर। गृहाण पाद्यं मद्दत्तं पार्वतीसहितेश्वर॥ महागणपतये कुमाराय श्रियै सरस्वत्यै लक्ष्म्यै विश्वकर्मणे द्वार्देवताभ्यः प्रजापतये ब्रह्मणे कलशदेवताभ्यः ब्रह्मविष्णुमहेश्वरदेवताभ्यः चातुर्वेदेश्वराय सानुचराय ऋतुपतये नारायणाय “फाल्गुने” शक्तिसहिताय चक्रिणे क्रियासहिताय गोविन्दाय दुर्गायै त्र्यम्बकाय वरुणाय
यज्ञपुरुषाय अग्निष्वात्तादिभ्यः पितृगणयागदेवताभ्यः भवाय देवाय ८ अजैकपदिने अहिर्बुध्न्याय कृत्तिवाससे पिनाकभृते वृषाकपये सिन्धवे बहुरूपाय हराय त्र्यम्बकाय त्रिनेत्राय वृषभवाहनाय शतरुद्रेश्वराय श्रीमहामृत्युञ्जयभट्टारकाय। विनायकाय एकदन्ताय कृष्णपिङ्गलाय गजाननाय लम्बोदराय भालचन्द्राय हेरम्बाय आखुरथाय विघ्नभक्ष्याय वल्लभासहिताय महागणेशाय। क्लीं कां कुमाराय षण्मुखाय मयूरवाहनाय सेनाधिपतये कुमाराय। भगवत्यै अमायै कामायै चार्वङ्ग्यै टङ्कधारिण्यै तारायै पार्वत्यै यक्षिण्यै श्रीशारिकाभगवत्यै श्रीशारदाभगवत्यै श्रीमहाराज्ञीभगवत्यै श्रीज्वालाभगवत्यैसहस्रनाम्न्यैदेव्यै भवान्यै पार्थिवेश्वरयागदेवताभ्यः विष्णुपञ्चायतनदेवताभ्यः अभयङ्करीदेव्यै क्षेमङ्करीभवान्यै सर्वशत्रुघातिन्यै इहराष्ट्राधिपतये अमुकभैरवाय हेरकादिभ्यो वटुकादिभ्यः पाद्यंनमः॥ (पाद्यकाशेष छोडना) पाद्यशेषं निवारयेत्॥ (और हाथसे वापस पात्रमें पानी छोडना) शन्नो देवीरभिष्टय आपो भवन्तु पीतये, शंय्योरभि स्रवन्तु नः॥ (उस पात्रमें पानी दूध विष्टर घृत दही चावल यवा सर्षप यह आठ द्रव्य पाके नमस्कार करना) आपः क्षीरं कुशाग्राणि घृतं च दधि तण्डुलाः। यवाः सिद्धार्थकाश्चेति ह्यर्घ्यमष्टाङ्गमुच्यते॥ भगवन्तः अर्घ्यमऽर्घ्यम्। (अर्घ्यदेना)। त्वेषं वयं रुद्रं यज्ञं साधनमऽङ्कुङ्कविमवसे निह्वयामहे। आरे अस्मद्दव्यं हेडो अस्यतु सुमतिमिद्वयमऽस्या वृणीमहे॥आपो हिष्ठा मयोभुवस्तान ऊर्जे दधातन, महे रणाय
चक्षसे। यो वः शिवतमो रसस्तस्य भाजयते हनः, उशतीरिव मातरः॥ तस्मा अरङ्गमाम वो यस्य क्षयाय जिन्वथ, आपो जनयथा च नः। त्र्यम्बकेश सदाधार विपदां प्रतिघातक। अर्घ्यं गृहाण देवेश सर्वसम्पत्प्रदायक॥ महागणपते कुमार श्रीः सरस्वति लक्ष्मीः विश्वकर्मन् द्वार्देवताः प्रजापते ब्रह्मन् कलशदेवताः ब्रह्मविष्णुमहेश्वरदेवताः चातुर्वेदेश्वर सानुचर ऋतुपते नारायण “फाल्गुने” शक्तिसहित चक्रिन् क्रियासहित गोविन्द दुर्गे त्र्यम्बक वरुण यज्ञपुरुष अग्निष्वात्तादयः पितृगणयागदेवताः भवदेव शर्वदेव ८ अजैकपदिन् अहिर्बुध्न्य कृत्तिवासः पिनाकभृत् वृषाकपे सिन्धो बहुरूप हर त्र्यम्बकत्रिनेत्र वृषभवाहन शतरुद्रेश्वर श्रीमहामृत्युञ्जयभट्टारक। विनायक एकदन्त कृष्णपिङ्गल गजानन लम्बोदर भालचन्द्र हेरम्ब आखुरथ विघ्नभक्ष्य वल्लभासहित श्रीमहागणेश। क्लीं कां कुमार षण्मुख मयूरवाहन सेनाधिपते कुमार। भगवति अमे कामे चार्वङ्गि टङ्कधारिणि तारे पार्वति यक्षिणि श्रीशारिकाभगवति श्रीशारदाभगवति श्रीमहाराज्ञीभगवति श्रीज्वालाभगवति सहस्रनाम्नि देवि भवानि पार्थिवेश्वरयागदेवताः। विष्णुपञ्चायतनदेवताः अभयङ्करीदेवि क्षेमङ्करीभवानि सर्वशत्रुघातिनि इह राष्ट्राधिपते अमुकभैरव हेरकादयः वटुकादयः इदं वः अर्घ्यंनमः॥ (सफा पानीसे आचमन देना)। दिवो वराहमरुषं कपर्दिनं त्वेषं रूपं नमसा निह्वयामहे। हस्ते बिभ्रद्भेषजा वार्याणि शर्म वर्म च्छर्दिरस्मभ्यं यं सत्॥ शन्न आपो धन्वन्याः शन्नः सन्त्व-
नूप्याः। शन्नः समुद्रिया आपः शमुनः सन्तु कूप्याः॥ त्रिपुरान्तक दीनार्तिनाशिन् श्रीकण्ठ भूतये। गृहाणाचामनं देव पवित्रोदककल्पितम्॥ महागणपतये कुमारायश्रियै सरस्वत्यै लक्ष्म्यै विश्वकर्मणे द्वार्देवताभ्यः प्रजापतये ब्रह्मणे कलशदेवताभ्यः ब्रह्मविष्णुमहेश्वरदेवताभ्यः चातुर्वेदेश्वराय सानुचराय ऋतुपतये नारायणाय “फाल्गुने” शक्तिसहिताय चक्रिणे क्रियासहिताय गोविन्दाय दुर्गायै त्र्यम्बकाय वरुणाय यज्ञपुरुषाय अग्निष्वात्तादिभ्यः पितृगणयागदेवताभ्यः भवाय देवाय ८ अजैकपदिने अहिर्बुध्न्याय कृत्तिवाससे पिनाकभृते वृषाकपये सिन्धवे बहुरूपाय हराय त्र्यम्बकाय त्रिनेत्राय वृषभवाहनाय शतरुद्रेश्वराय श्रीमहामृत्युञ्जयभट्टारकाय। विनायकाय एकदन्ताय कृष्णपिङ्गलाय गजाननाय लम्बोदराय भालचन्द्राय हेरम्बाय आखुरथाय विघ्नभक्ष्याय वल्लभासहिताय महागणेशाय। क्लीं कां कुमाराय षण्मुखाय मयूरवाहनाय सेनाधिपतये कुमाराय। भगवत्यै अमायै कामायै चार्वङ्ग्यै टङ्कधारिण्यै तारायै पार्वत्यै यक्षिण्यै श्रीशारिकाभगवत्यै श्रीशारदाभगवत्यै श्रीमहाराज्ञीभगवत्यै श्रीज्वालाभगवत्यै सहस्रनाम्न्यैदेव्यै भवान्यै पार्थिवेश्वरयागदेवताभ्यः विष्णुपञ्चायतनदेवताभ्यः अभयङ्करीदेव्यै क्षेमङ्करीभवान्यै सर्वशत्रुघातिन्यै इहराष्ट्राधिपतये अमुकभैरवाय आचमनीयं जलं नमः॥ (सफा पानीसे और भी मैली उठानी)॥ इदं पित्रे मरुतामुच्यते वचः स्वादोः स्वादीयो रुद्राय वर्धनम्। रास्वाचनो अमृत मर्त्यभोजनं त्मने तोकाय तनयाय मृड॥
इदमापः प्रवहत यत्किञ्चिद्दुरितं मयि। यद्वाहमभिदुद्रोह यद्वाशेष उतानृतम्॥ त्रिकालकाल कालेश संहारकरणोद्यत। स्नानं तीर्थाहृतैस्तोयैर्गृहाण परमेश्वर॥ महागणपतये० चातुर्वेदेश्वराय सानुचराय ऋतुपतये नारायणाय “फाल्गुने” शक्तिसहिताय चक्रिणे क्रियासहिताय गोविन्दाय दुर्गायै त्र्यम्बकाय वरुणाय यज्ञपुरुषाय अग्निष्वात्तादिभ्यः पितृगणदेवताभ्यः भवाय देवाय ८ अजैकपदिने अहिर्बुध्न्याय कृत्तिवाससे पिनाकभृते वृषाकपये सिन्धवे बहुरूपाय हराय त्र्यम्बकाय त्रिनेत्राय वृषभवाहनाय शतरुद्रेश्वराय श्रीमहामृत्युञ्जयभट्टारकाय। विनायकाय एकदन्ताय कृष्णपिङ्गलाय गजाननाय लम्बोदराय भालचन्द्राय हेरम्बाय आखुरथाय विघ्नभक्ष्याय वल्लभासहिताय महागणेशाय। क्लीं कां कुमाराय षण्मुखाय मयूरवाहनाय सेनाधिपतये कुमाराय। भगवत्यै अमायै कामायै चार्वङ्ग्यै टङ्कधारिण्यै तारायै पार्वत्यै यक्षिण्यै श्रीशारिकाभगवत्यै श्रीशारदाभगवत्यै श्रीमहाराज्ञीभगवत्यै श्रीज्वालाभगवत्यै सहस्रनाम्न्यैदेव्यै भवान्यै पार्थिवेश्वरयागदेवताःविष्णुपञ्चायतनदेवताभ्यः अभयङ्करीदेव्यै क्षेमङ्करीभवान्यै सर्वशत्रुघातिन्यै इहराष्ट्राधिपतये अमुकभैरवाय हेरकादिभ्यो वटुकादिभ्यः मन्त्रस्त्रानीयं नमः॥ (पानी दूध दही घी शहद लाजा सर्षप तिल जवशाली विष्टर दूर्वा मिट्टी भस्ममेवा मिठास पश्चामृत पञ्चगव्य कर्पूर सर्वौषधी गन्ध और फूल, २१ यह एकीस द्रव्य पात्र में जमा करना) पयोदधिघृतक्षौद्रलाजासिद्धार्थकास्तिलाः।
यवव्रीहिकुशादूर्वा मृद्भस्मफलशर्कराः। पञ्चामृतं पञ्चगव्यं कर्पूरौषधयस्तथा। एकविंशतिस्नानानि गन्धाद्भिः कुसुमैरपि॥ (इन से स्नान देना) (पानी)। उदुत्तमं वरुणपाशमस्मदऽवाधमं विमध्यमं श्रथाय। अथावयं अदित्यव्रते तवानागसो अदितये स्याम॥१॥ (क्षीर) पयः पृथिव्यां पय ओषधीषु पयो दिव्यन्तरिक्षे पयोधाः। पयस्वतीः प्रदिशः सन्तु मह्यम्॥२॥ (दही)। दधिक्राव्णो अकारिषं जिष्णोरश्वस्य वाजिनः। सुरभि नो मुखाकरत्प्रण आयूंषि तारिषत्॥३॥ (घी) घृतवती भुवनानामभिश्रियोर्वी पृथिवी मधुदुघे सुपेशसा। द्यावापृथिवी वरुणस्य धर्मणा विष्कभिते अजरे भूरिरेतसा॥४॥ (शहद)। मधुवाता ऋतायते मधुक्षिरन्ति सिन्धवः। माद्ध्वीर्नः सन्त्वौषधीः॥ मधु नक्तमुतोषसो मधुमत्पार्थिवं रजः, मधु द्यौरस्तु नः पिता॥मधुमान्नो वनस्पतिर्मधुमानऽस्तु सूर्यः, माध्वीर्गावो भवन्तु नः॥५॥ (लाजा)। तदस्य रूपममृतं शचीभिस्तिस्रो दधुर्देवताः संरराणाः। लोमानि शष्पैर्बहुधा न तोक्मभिस्त्वगऽस्य मांसमऽभवन्न लाजाः॥६॥ (सर्षप)। रक्षोहणं वाजिनमाजिघर्मि मित्रं प्रथिष्ठमुपयामि शर्म। शिशानो अग्निः क्रतुभिः समृद्धः स नोदिवा सरिषः पातु नक्तम्॥७॥ (तिल)। तिलोसि सोमदेवत्यो गोसवो देवनिर्मितः। प्रयत्नवद्भिः पितॄंल्लोकान्प्राण आयाहि नः स्वधा॥८॥ (यवा)। यवोसि यवयास्मद्विषं यावया रातिम्। पितृषदनं त्वा लोकमास्तृणामि॥९॥ (शाली)। धान्यमसि धिनोहि देवान्धि-
नोहि यज्ञं धिनोहि यज्ञपतिं धिनोहि मां यज्ञम्॥१०॥ (दर्भांकुर)। देवस्य त्वा सवितुः प्रसवेश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामादधे॥११॥ (दूर्वा)। काण्डात्काण्डात्प्ररोहन्ती परुषः परुषस्परि। एवा नो दूर्वे प्रतनु सहस्रेण शतेन च॥१२॥ (मिट्टी)। आक्रम्य वाजिन्पृथिवीमग्निमिच्छा रुचात्वम्। भूम्यायत्वायनो ब्रूहि यतः खनेम ते वयम्॥१३॥ (भस्म)। प्रसद्य भस्मना योनिमपश्च पृथिवीमग्नेः। संसृज्य मातृभिष्ट्वंज्योतिष्मान्पुनरासदः॥१४॥ (मेवा)। याः फलिनीर्या अफला अकोशाः कोशिनीश्च याः। बृहस्पतिप्रसूतास्तानो मुञ्चन्त्वंहसः॥१५॥ (मिठास)। शर्कराभिरवकामऽवकाभिः शर्करामुत्सादेन जिह्वामवक्रन्देन तालुं सरखती जिह्वाग्रेण॥१६॥ मध्वाज्यशर्करक्षीरद्राक्षाः पञ्चामृतं स्मृतम्। अथवाज्यं दधियुक्तं तिला यवाश्चशर्कराः॥ (शहद घृत शकर क्षीर और अंगूर॥ अथवा। घी दही तिल जवऔर शकर रूप। पञ्चामृत)। पञ्चव्युष्टीरनुपञ्च दुहा गां पञ्चनाम्नीमृतवोऽनु पञ्च। पञ्च दिशः पञ्चदशेन क्लृप्ताः समानमूर्ध्नीरभिलोकमेकम्॥१७॥ (पञ्चगव्य)। गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम्। निर्दिष्टं पञ्चगव्यं तु पवित्रं कायशोधनम्। मिश्रीकृत्य। समुद्रादूर्मिर्मधुमां उदारदुपांशुना समऽमृतत्वमानट्। घृतस्य नाम गुह्यं यदस्ति जिह्वा देवानामऽमृतस्य नाभिम्॥१८॥ (कपूर)। त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम्। उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात्॥१९॥ (सर्वौषधीः)। या ओषधयः
प्रथमजा देवेभ्यस्त्रियुगं पुरा। मनैनु बभ्रूणामहं शतं धामानि सप्त च॥२०॥ (गन्ध)। गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम्। ईश्वरीं सर्वभूतानां तामिहोपह्वये श्रियम्। (और फूल)। पुष्पवतीः प्रसुमतीः फलिनीरफला उत। अश्वा इव सजित्वरीर्वीरुधः पारयिष्णवः॥२१॥ महागणपतये कुमाराय श्रियै सरस्वत्यै लक्ष्म्यै विश्वकर्मणे द्वार्देवताभ्यः प्रजापतये ब्रह्मणे कलशदेवताभ्यः ब्रह्मविष्णुमहेश्वरदेवताभ्यः चातुर्वेदेश्वराय सानुचराय ऋतुपतये नारायणाय “फाल्गुने” शक्तिसहिताय चक्रिणे क्रियासहिताय गोविन्दाय दुर्गायै त्र्यम्बकाय वरुणाय यज्ञपुरुषाय अग्निष्वात्तादिभ्यः पितृगणदेवताभ्यः भवाय देवाय ८ अजैकपदिने अहिर्बुध्न्याय कृत्तिवाससे पिनाकभृते वृषाकपये सिन्धवे बहुरूपाय हराय त्र्यंबकाय त्रिनेत्राय वृषभवाहनाय शतरुद्रेश्वराय श्रीमहामृत्युञ्जयभट्टारकाय। विनायकाय एकदन्ताय कृष्णपिङ्गलाय गजाननाय लम्बोदराय भालचन्द्राय हेरम्बाय आखुरथाय विघ्नभक्ष्याय वल्लभासहिताय महागणेशाय। क्लीं कां कुमाराय षण्मुखाय मयूरवाहनाय सेनाधिपतये कुमाराय। भगवत्यै अमायै कामायै चार्वङ्ग्यै टङ्कधारिण्यै तारायै पार्वत्यै यक्षिण्यै श्रीशारिकाभगवत्यै श्रीशारदाभगवत्यै श्रीमहाराज्ञीभगवत्यै श्रीज्वालाभगवत्यै सहस्रनाम्न्यैदेव्यै भवान्यै पार्थिवेश्वरयागदेवताभ्यः विष्णुपञ्चायतनदेवताभ्यः अभयङ्करीदेव्यै क्षेमङ्करीभवान्यै सर्वशत्रुघातिन्यै इहराष्ट्राधिपतये अमुकभैरवाय हेरकादिभ्यो वटुकादिभ्यः एकविंशतिस्नानानि नमः॥ अथ शिवस्य पञ्चदशस्नानानि॥ (शिव जी को पन्द्राह द्रव्योंसे स्नान देना)
पानीयान्तरितैः पयोदधिघृतैः क्षौद्रेक्षुभिः सौषधैः व्रीह्यद्भिः कुसुमोदकैः फलजलैः सिद्धार्थलाजोदकैः। गन्धाद्भिःशुभहेमरत्नसलिलैरित्थं सदा चोत्तमैर्दद्यात्पञ्चदशाम्बुना सह महास्ननानि शम्भोः क्रमात्॥ (पानी दूध दही घी शहद खण्ड सर्वौषधी शाली फूल मिवा सर्षप लाजा गन्ध सोना और रत्नसमेत पानी से पांद्रा द्रव्यों का स्नान शम्भो को देना, उनके भी क्रमसे पीछले मंत्र रखते हैं) उदुत्तमं १ पयः पृथिव्यां २ दधिक्राब्णो३ घृतवती ४ मधुवाता ५ (ईक्षु)॥ स्वादुःपवस्व दिव्याय जन्मने स्वादुरिन्द्राय सुहवीतुनाम्ने। स्वादुर्मित्राय वरुणाय वायवे बृहस्पतये मधुमां अदाभ्यः ६ या ओषधयः ७ धान्यमसि ८ पुष्पवती ९ याः फलिनी १० रक्षोहणं ११ तदस्य रूपं १२ गन्धद्वारां १३ हिरण्यवर्णाः १४ ऋतं च सत्यं चाभी १५ रुद्रमंत्रश्च॥ असंख्याताः सहस्राणि ये रुद्रा अधिभूम्याम्। तेषां सहस्रयोजनेव धन्वानि तन्मसि १ येस्मिन्महत्यर्णवेन्तरिक्षे भवा अधि। तेषां० २ ये नीलग्रीवाः शितिकण्ठा दिवं रुद्रा उपश्रिताः। तेषां०३ ये नीलग्रीवाः शितिकण्ठाः शर्वा अधः क्षमाचराः। तेषां०४ ये वनेषु शिष्पिञ्जरा नीलग्रीवा विलोहिताः। तेषां०५ येऽन्नेषु विविध्यन्ति पात्रेषु पिबतो जनान्। तेषां० ६ ये भूतानामधिपतयो विशिखासः कपर्दिनः। तेषां० ७ ये पथीनां पथिरक्षय ऐडमृडाय व्युधः। तेषां०८ ये तीर्थानि प्रचरन्ति सृकावन्तो निषङ्गणः। तेषां०९ य एतावन्तो वा भूयांसो वा दिशो रुद्रा वितिष्ठिरे। तेषां०१० ॐ नमो अस्तु रुद्रेभ्यो ये दिवि येषां वर्षमिषवस्तेभ्यो
दश प्राचीर्दश दक्षिणा दश प्रतीचीर्दशोदीचीर्दशोर्ध्वास्तेभ्यो नमो अस्तु ते नो मृडयन्तु ते यं द्विष्मो यश्च नो द्वेष्टि तमेषां जम्भे दध्मः १ ओंनमो अस्तु रुद्रेभ्यो ये अन्तरिक्षे येषां वात इषवस्तेभ्यो दश प्राची० २ ओनमो अस्तु रुद्रेभ्यो ये पृथिव्यां येषामन्नमिषवस्तेभ्यो दश० ३ यो रुद्रो अग्नौ० भवायदेवाय ८ अजैकपर्दिने० पञ्चदशस्नानानि नमः॥ गणानां त्वा गणपतिं हवामहे कविं कवीनामुपमश्रवस्तमम्। ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पत आनः शृण्वन्नूतिभिः सीदसादनम्॥ विनायकाय ८ चतुर्दशस्नानानि नमः॥ कुमारं माता युवतिः समुब्धं गुहाबिभर्ति न ददाति पित्रे। अनीकमस्य नमिमज्जनासः पुरा पश्यन्ति निहितमरतौ॥ क्लीं कां कुमाराय ५ षट्स्नानानि नमः। जातवेदसे सुनवाम सोममरातिर्यतो न दहाति वेदः। स नः पर्षदतिदुर्गाणि विश्वा नावेव सिन्धुं दुरितात्यग्निः। भगवत्यै अमायै ८ अष्टौ स्नानानि नमः॥ (देवोंको अर्घदही तिल शहद घी समेत पानी से तृप्ति करनी)। ततो दध्यक्षततिलैरित्थं मध्वाज्यमिश्रितैः। तर्पयेदुदकैर्देवानृषिपूर्वान्सपितृकान्॥ (अञ्जली करके देवों का ध्यान करना)। गृत्समदस्य गायत्री॥विश्वेदेवास आगत शृण्वताम इमं हवमिदं बर्हिर्निषीदत। (तर्पण करना)। ब्रह्मा तृप्यतां विष्णुस्तृप्यतां रुद्रस्तृप्यतां प्रजापतिस्तृप्यतां वेदास्तृप्यन्तां छन्दांसि तृप्यंतां ऋषयस्तृप्यन्तां तपोधनास्तृप्यन्तां आचार्यास्तृप्यन्तां गन्धर्वास्तृप्यंतां पितराचार्यास्तृप्यन्तां संवत्सराः सावयवास्तृप्यन्तां देवास्तृप्यन्तां अप्सरसस्तृप्यन्तां देवानुगास्तृप्यन्तां नागास्तृप्यन्तां सागरास्तृप्यन्तां पर्वता-
स्तृप्यन्तां सरितस्तृप्यन्तां मनुष्यास्तृप्यन्तां यक्षास्तृप्यन्तां रक्षांसि तृप्यन्तां पिशाचास्तृप्यन्तां सुपर्णास्तृप्यन्तां भूतानि तृप्यन्तां पशवस्तृप्यन्तां वनस्पतयस्तृप्यन्तां ओषधयस्तृप्यन्तां भूतग्रामाश्चतुर्विधास्तृप्यन्तां असुरास्तृप्यन्तां क्रूरास्तृप्यन्तां सर्पास्तृप्यन्तां जम्बुकास्तृप्यन्तां खगास्तृप्यन्तां विद्याधरास्तृप्यन्तां जलाधारास्तृप्यन्तां निराधारास्तृप्यन्तां पापधर्मरतास्तृप्यन्तां सर्वे देवाः तृ० सर्वे ग्रहास्तृप्यन्तां यमस्तृप्यतां धर्मराजस्तृप्यतां मृत्युस्तृप्यतां अन्तकस्तृप्यतां वैवस्वतस्तृप्यतां कालस्तृप्यतां सर्वप्राणहरस्तृप्यतां औदुम्बरस्तृप्यतां नीलस्तृप्यतां ब्रध्नस्तृप्यतां परमेष्ठीतृप्यतां वृकोदरस्तृप्यतां भीमस्तृप्यतां चित्रस्तृप्यतां चित्रगुप्तस्तृप्यतां॥ (अब पार्थिवेश्वर केसिर पर एक जलाञ्जलि और एक एक फूल चढाना) ॐनमः शिवाय शिवं तर्पयामि नमः। शशिशेखरायनमः। शशिशेखरं तर्प०। ॐ शङ्करायनमः शङ्करं तर्पयामिनमः। ॐ भवाय देवाय भवं। उग्रायदेवाय उग्रंदेवं। मृडायदेवाय मृडंदेवं। हराय हरं। विश्वरूपाय विश्वरूपं। कपर्दिने कपर्दिनं। त्र्यम्बकाय त्र्यम्बकं। ॐ मृत्युञ्जयभट्टारकाय नमः ॐ मृत्युञ्जयभट्टारकं तर्पयामि नमः। (गले मे जञूरखना)। कण्ठोपवीती। (ऋषियोंका ध्यान करना) अग्निर्ऋषिः पवमानः पाञ्चजन्यः पुरोहितः, तमीमहे महागयम्॥ (ऋषियोंको दो दो अञ्जलि करतलसे देना)। सनकस्तृप्यतां तृप्यतां सनन्दनः, सनातनः, सनत्कुमारस्तृप्यतां २ कपिलः, आसुरिः वोढा पञ्चशिखः मरीचिः अत्रिः अङ्गिराः, पुलहः, पुलस्त्यः, भृगुः, क्रतुः प्रचेताः, वसिष्ठः, नारदस्तृप्यतां तृप्यतां॥
(बाहे तरफ जञू रखना) अपसव्येन। (पितरोंका ध्यान करना) उशन्तस्त्वा हवामह उशन्तः समिधीमहि। उशन्नुशन्त आवह पितॄन्हविषे अत्तवे॥ (तीन तीन जलाञ्जली देना)। कव्यवाडऽनलः स्वधायिभ्यः स्वधा नमस्तृप्यतां तृप्यतां तृप्यतां, सोमः स्वधायिभ्यः स्वधा नमस्तृ० ३, यमः, अर्यमाः, अग्निष्वात्ताः स्वधायिभ्यः स्वधा नमस्तृप्यन्तां ३, बर्हिषदः स्वधायिभ्यः स्वधानमस्तृप्यन्तां ३, हविष्मन्तः, सुकालिनः सोमपाः आज्यपाः वसवः रुद्राः आदित्याः स्वधायिभ्यः स्वधा नमस्तृप्यन्तां ३। देवताभ्यः पितृभ्यश्चमहायोगिभ्य एवच। नमः स्वधा च स्वाहा च नित्यमेव भवन्त्विह॥ ॐ तत्सद्ब्रह्माऽद्यतावत्तिथावद्यफाल्गुनमासस्य कृष्णपक्षस्य तिथौ त्रयोदश्यां रविवारान्वितायां पितामुकोऽमुकगोत्रः स्वधा नमस्तृप्यतां ३ पितामहः प्रपितामहः। माता पितामही प्रपितामही। मातामहः प्रमातामहः वृद्धप्रमातामहः। मातामही प्रमातामही वृद्धप्रमातामही। (इसी तरह सब सम्बन्धियोंको पानी देना) मातृपक्षास्तु ये केचिद्ये चान्ये पितृपक्षजाः। गुरुश्वशुरबन्धूनां ये कुलेषु समुद्भवाः। ये प्रेतभावमापन्ना ये चान्ये श्राद्धवर्जिताः। जलदानेन ते सर्वे लभन्तां तृप्तिमुत्तमाम्॥ समस्तमातापितृभ्यो द्वादशदैवतेभ्यः पितृभ्यः हिमपानं स्वधा क्षीरपानं स्वधा मधुपानं स्वधा तिलोदकं स्वधा उदकतर्पणं स्वधा हिमंहिमं रजतंरजतं॥ (दाही तर्प जञूकरना)। सव्येन। वसन्तायनमः ग्रीष्मायनमः वर्षाभ्योनमः शरदेनमः हेमन्तायनमः शिशिरायनमः षडृतुभ्योनमः। ॐ नमो देवेभ्यः। (गले में जञू)। कण्ठोपवीती। स्वाहा
ऋषिभ्यः (वाहे तर्प जञू)। अपसव्येन। स्वधा पितृभ्यः। (दाहे तर्फ जञू)। सव्येन। आब्रह्मस्तम्बपर्यन्तं ब्रह्माण्डं सचराचरं। जगत्तृप्यतु तृप्यतु तृप्यतु एवमस्तु॥ (सफा पानीसे स्नानद्रव्यों का मलमिटाना)। त्र्यम्बकं यजामहे सुगन्धिं रयिपोषणम्। उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात्। पार्थिवेश्वरयागदेवताभ्यः मन्त्रगुडकं परिकल्पयामि नमः॥ (बाहे हाथ के तलेमें पानी और अक्षत रखके देवताओंको आलत निकाल के बाहे स्कन्द से फैंकना)॥ रक्षोहणं वाजिनमाजिधर्मि मित्रं पृथिष्ठमुपयामि शर्म। शिशानो अग्निः क्रतुभिः समिद्धः स नो देवः सरिषः पातु नक्तम्। हेमपात्रस्थमीशानदीपाष्टकसमन्वितम्। गृहाणारात्रिकां देव विश्वार्तिव्याधिनाशन॥ गृह्णन्तु भगवद्भक्ता भूताः प्रासादवाहकाः। पञ्चमन्त्राश्चये भूतास्तेषामनुचराश्च ये। ते तृप्यन्तु स्वाहा वौषट्। पार्थिवेश्वरयागदेवताभ्यः आरात्रिकां परिकल्पयामि नमः॥ (देव के पादों का पानी आंखों को मलना) १ मृड त्वमस्मभ्यं रुद्रैतदस्तु हुतं तव। पशूनस्माकं मा हिंसीरेतदस्मा असद्धुतम्॥तेजोरूप महेशान सोमसूर्याग्निलोचन। प्रकाशय परं तेजो नेत्रस्पर्शेन शंकर॥भगस्य हृदयं लिङ्गं लिङ्गस्य हृदयं भगः। तस्मै ते भगलिङ्गाय उमारुद्राय वै नमः॥ पार्थिवेश्वर यागदेवताभ्यो नेत्रस्पर्शनं परिगृह्णामि नमः॥ (बिठाने के जगाह आसन फूलों से रखना)। आसनाय नमः सिंहासनाय नमः प्रेतासनाय पद्मासनाय नमः वृषभासनाय मूषकास०मयूरास०सिंहास० विचित्रवाहासनाय नमः
(द्रव्यों के असम्भवकी माफी मांगकर सफाई और गन्ध अक्षतों से अङ्गराग करना)। रथे अक्षेषु वृषभस्य वाजे वाते पर्जन्ये वरुणस्य शुष्मे। इन्द्रं या देवी सुभगा जजान सेयमगाद्वर्चसा संविदाना।१। या हस्तिनि द्वीपिनि या हिरण्ये गोष्वश्वेषु पुरुषेष्वऽन्तः। इन्द्रं या देवी सुभगा जजान सेयमगाद्वर्चसा संविदाना।२। सिंहे व्याघ्र उत या पृदाकौ त्विषिरग्नौ ब्रह्मणे सूर्ये या। इन्द्रं या देवी सुभगा जजान सेयमगाद्वर्चसा संविदाना।३। या राजन्ये दुन्दुभावायतायामश्वस्य क्रन्दे पुरुषस्य मायौ। इन्द्रं या देवी सुभगा जजान सेयमगाद्वर्चसा संविदाना। (महिम्नः पारं आदि स्तोत्र भी पढ कर)। मा नो महान्तमुत मा नो अर्भकं मा न उक्षन्तमुत मा न उक्षितम्। मा नो वधीः पितरमुत मातरं मा नः। प्रियास्तन्वो रुद्र रीरिषः॥ पार्थिवेश्वरयागदेवताभ्योऽनुलेपनं परिकल्पयामि नमः। (वस्त्र पहनना)। मा न स्तोके तनये मा न आयौ मा नो गोषु मा नो अश्वेषु रीरिषः। वीरान्मा नो रुद्र भामितो वधीर्हविष्मन्तः सदमि त्वा हवामहे॥ युवा सुवासाः परिवीत आगात्स उश्रेयान्भवति जायमानः। तं धीरासः कवय उन्नयन्ति स्वाध्यो मनसा देवयन्तः॥ कालाग्निरुद्र सर्वज्ञ वरदाभयदायक। वस्त्रं गृहाण देवेश दिव्यवस्त्रोपशोभितम्॥पार्थिवेश्वरयागदेवताभ्यः वस्त्रं परिकल्पयामि नमः॥ (जञूलगाना)। उप ते स्तोमन्पशुपा इवाकरं राखा पितर्मरुतां सुम्नमस्मे। भद्रा हि ते सुमतिर्मृडयत्तमाथा वयमव इत्ते वृणीमहे॥यज्ञोपवीतं परमं पवित्रं प्रजापतेर्य-
त्सहजं पुरस्तात्। आयुष्यमऽग्र्यं प्रतिमुञ्च शुभ्रं यज्ञोपवीतं बलमस्तु तेजः। यज्ञोपवीतमसियज्ञस्य त्वा उपवीतेन उपनह्यामि॥ सुवर्णतारैरचितं दिव्यं यज्ञोपवीतकम्। नीलकण्ठ मया दत्तं गृहाण मदनुग्रहात्॥ पार्थिवेश्वरयागदेवताभ्यः यज्ञोपवीतं परिकल्पयामि नमः॥ (गन्ध चडाना)।आरे ते गोघ्नमुत पूरुषघ्नं क्षयद्वीर सुम्नमस्मे ते अस्तु। मृडा च नो अधि च ब्रूहि देवाधा च नः शर्म यच्छ द्विबर्हाः॥ गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम्। ईश्वरीं सर्वभूतानां त्वामिहोपह्वये श्रियम्॥ त्रिपुरान्तक देवेश पार्वतीप्राणवल्लभ। गृहाण गन्धं कश्मीरचन्द्रचन्दनकल्पितम्। महागणपतये कुमाराय श्रियै सरस्वत्यै लक्ष्म्यै विश्वकर्मणे द्वार्देवताभ्यः प्रजापतये ब्रह्मणे कलशदेवताभ्यः ब्रह्मविष्णुमहेश्वरदेवताभ्यः चातुर्वेदेश्वराय सानुचराय ऋतुपतये नारायणाय “फाल्गुने” शक्तिसहिताय चक्रिणे क्रियासहिताय गोविन्दाय दुर्गायै त्र्यम्बकाय वरुणाय यज्ञपुरुषाय अग्निष्वात्तादिभ्यः पितृगणदेवताभ्यः भवाय देवाय०पार्वतीसहिताय परमेश्वराय। अजैकपर्दिने० महामृत्युञ्जयभट्टारकाय। विनायकाय०। क्लीं कां कुमाराय। भगवत्यै० अमायै० सहस्रनाम्न्यैभवान्यै पार्थिवेश्वरयागदेवताभ्यः विष्णुपञ्चायतनदेवताभ्यः अभयङ्करीदेव्यै क्षेमङ्करीभवान्यै सर्वशत्रुघातिन्यै इह राष्ट्राधिपतये अमुकभैरवाय समालभनं सन्धोनमः॥ (गन्ध लेप धो के, अर्घऔर फूल चढाना)॥ अवोचाम नमो अस्मा अवस्यवः शृण्वन्तु नो हव्यं रुद्रो मरुत्वान्। तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवीउत द्यौः॥ पुष्पवतीः प्रसुमतीः फलिनीरफल
उत। अश्वा इव सजित्वरीर्वीरुधः पारयिष्णवः। सदाशिव शिवानन्द प्रधान करणेश्वर। पुष्पाणि बिल्वपत्रादिविचित्राणि गृहाण मे। ॐ ह्रां ह्रीं ज्वंसः पशुपतये नमः॥ महागणपतये कुमाराय श्रियै सरस्वत्यै लक्ष्म्यै विश्वकर्मणे द्वार्देवताभ्यः प्रजापतये ब्रह्मणे कलशदेवताभ्यः ब्रह्मविष्णुमहेश्वरदेवताभ्यः चातुर्वेदेश्वराय सानुचराय ऋतुपतये नारायणाय “फाल्गुने” शक्तिसहिताय चक्रिणे क्रियासहिताय गोविन्दाय दुर्गायै त्र्यम्बकाय वरुणाय यज्ञपुरुषाय अग्निष्वात्तादिभ्यः पितृगणदेवताभ्यः भवाय देवाय क्षितिमूर्तये नमः। शर्वायदेवायजलमूर्तये नमः। रुद्राय देवाय तेजोमूर्तये नमः। पशुपतये देवाय वायुमूर्तये। उग्रायदेवाय आकाशमूर्तये। महादेवायसूर्यमूर्तये। भीमायदेवाय सोममूर्तये। ईशानायदेवाय यजमानमूर्तयेनमः। ॐअभीष्टसिद्धिं मे देहि शरणागतवत्सल। भक्त्या समर्पये तुभ्यं प्रथमावरणार्चनम्॥ ॐ अनन्ताय सूक्ष्माय शिवोत्तमाय एकरुद्राय एकनेत्राय त्रिमूर्तये श्रीकण्ठाय शिखण्डिने नमः। अभीष्टसिद्धिं मे देहि० द्वितीयावरणार्चनम्॥ रां रीं रूं नन्दिने सां सीं सूंमहाकालाय व्रांवृषभाय भ्रांभृङ्गीशाय हांकुमाराय ॐ आं अम्बिकायै। अभीष्टसिद्धिं० तृतीयावरणार्चनम्॥ लं इन्द्राय रंअग्नये संयमाय क्षं नैर्ऋतये वंवरुणाय वांवायवे कुंकुवेराय ईं ईशानाय ब्रांब्रह्मणे वांविष्णवे अभीष्टसि० चतुर्थावरणार्चनम्। जयायै विजयायै सुभगायै दुर्भगायै जयन्त्यै कुहिन्यै अपराजितायै कराल्यै॥ अभीष्टसि० पञ्चमावरणार्चनम्। अग्न्यादित्याभ्यां वरुणचन्द्रमोभ्यां कुमारभौमाभ्यां विष्णुबुधाभ्यां इन्द्राबृहस्पतिभ्यां सरस्वतीशुक्राभ्यां प्रजापतिशनैश्वराभ्यां
गणपतिराहुभ्यां रुद्रकेतुभ्यां ब्रह्मध्रुवाभ्यां अनन्ताऽगस्त्याभ्यां अभीष्टसिद्धिं मे देहि श० षष्ठमावरणार्चनम्॥ अनन्तनागराजाय वासुकिना० पद्मना० महापद्मना० तक्षकना० शङ्खपालना० कार्कोटकना० कुलिकनागराजाय॥ अभीष्टसिद्धिं मे देहि शरणागतवत्सल। भक्त्या समर्पये तुभ्यं सप्तमावरणार्चनम्। वज्रायफट्नमः शक्तयेफ० दण्डायफ० खड्गाय० पाशय ध्वजाय गदायै त्रिशूलाय पद्माय हलायफट्नमः॥ लं सद्योजातवक्त्राय “प्रणालिकायां” उमायै “मूर्ध्नि” शिवाय सपरिवाराय सायुधाय सवाहनाय अर्घोनमः। पुष्पं नमः। विनायकाय० क्रींकांकुमाराय० भगवत्यै अमायै० पार्थिवेश्वरयागदेवताभ्यः विष्णुपञ्चायतनदेवताभ्यः अभयङ्करीदेव्यै क्षेमङ्करीभवान्यै सर्वशत्रुघातिन्यै इह राष्ट्राधिपतये अमुकभैरवाय हेरकादिभ्यो वटुकादिभ्यः अर्घोनमः पुष्पं नमः (धूप चढाना)॥ वयमग्ने धनवन्तः स्यामाऽलं यज्ञायोत दक्षिणायै। ग्रावा वदेदऽभिसोमस्यांशुमिन्द्रं शिक्षिमिन्दुना सुतेन॥ धूरसि धूर्व धूर्वन्तं योस्मान्धूर्वति तं धूर्वय वयं धूर्वामस्तं च धूर्व। देवानामसि वह्नितमं सस्नितमं पप्रितममिष्टतमं देवहुतमं विष्णोः क्रमोस्याहुतमसि हविर्दानं दृंहस्व माह्वान्मित्रस्य त्वा चक्षुषा प्रेक्ष उरु त्वा वाताय वसवस्त्वा धूपयन्तु गायत्रेण च्छन्दसाऽङ्गिरस्वत् रुद्रास्त्वा धूपयन्तु त्रैष्टुभेन च्छन्दसाऽङ्गिरस्वत्। आदित्यास्त्वाधूपयन्तु जागतेन च्छन्दसाऽङ्गिरस्वत्। विश्वे त्वा देवा वैश्वानरा धूपयन्तु आनुष्टुभेन च्छन्दसाऽङ्गिरस्वत् इन्द्रस्त्वा धूपयतु वरुणस्त्वा धूपयतु विष्णुस्त्वाधूपयतु।महादेव मृलानीश जगदीश निरञ्जन। धूपं गृ-
हाण देवेश साज्यं गुग्गुलकल्पितम्। पार्थिवेश्वरयागदेवताभ्यो धूपं समर्पयामि नमः॥(रत्नदीप और कपूर चढाना) रायस्पोषं नो देहि जातवेद ऊर्जोभागं मधुमत्स्यां घृतावत्। दधाम यज्ञं सुनवाम सोमं यज्ञेन त्वामुपशिक्षेम शक्र॥ तेजोसि शुक्रमसि ज्योतिरसि धामासि प्रियन्देवानामनाधृष्टं देवयजनं देवताभ्यस्त्वा देवताभ्यो गृह्णामि यज्ञेभ्यस्त्वा यज्ञियेभ्यो गृह्णामि॥ हिरण्यबाहो सेनानीर्गिरीश गिरिजापते। दीपं गृहाण कर्पूरकपिलाज्यत्रिवर्तकम्॥ पार्थिवेश्वरयागदेवताभ्यो रत्नदीपं कर्पूरं परिकल्पयामि नमः (चामर करना)॥ देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामादधे॥ “जय सर्व जनाधीश” (इह शिवपूजा की तीन स्तोत्र पढकर) चामरं रजनीनाथ मरीचिप्रभमुत्तमम्। हेमदण्डयुतं देव गृहाण गिरिजापते॥ पार्थिवेश्वरयागदेवताभ्यश्चामरं परिकल्पयामि नमः॥ (फूलों का छत्र चढाना)॥ काण्डात्काण्डात्प्ररोहन्ती परुषः परुषस्परि। एवा नो दूर्वे प्रतनु सहस्रेण शतेन च॥ नवरत्नमयं दिव्यं मुक्ताजालविभूषितम्। गृहाण छत्रं भगवञ्छिव भद्रासनप्रद॥ पार्थिवेश्वरयागदेवताभ्यः छत्रं परिकल्पयामि नमः॥ (आईना दिखाना)। तच्चक्षुर्देवहितं पुरस्ताच्छुक्रमुच्चरत्। पश्येम शरदः शतं जीवेम शरदः शतम्॥ यस्य दर्शनमात्रेण विश्वं दर्पणबिम्बवत्। तस्मै ते परमेशाय मुकुरमर्पयाभ्यहम्॥ पार्थिवेश्वरयागदेवताभ्यः आदर्शं परिकल्पयामि नमः॥ (पानी छोडना)॥ एताभ्यो देवताभ्यो धूपदीपात्सङ्कल्पसिद्धिरस्तु
धूपो नमः दीपो नमः॥ (कलश को भी वस्त्र या फूल देना)॥ एताभ्यो देवताभ्यो वासो नमः (माफी लेना) एतासां देवतानामर्घ्यदानाद्यर्चनविधिः सर्वः परिपूर्णोऽस्तु॥ (दूध और कन्द चढाना) ईशानं त्वा शुश्रुमा वयं धनानां धनपते गोमदग्ने। अश्ववद्भूरि पुष्टं हिरण्यवद्धनवद्धेहि मह्यम्॥ हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत्। स दाधार पृथिवीं द्यामुतेमां कस्मै देवाय हविषा विधेम॥ क्षीराज्यमधुसंमिश्रं शुभ्रदध्ना समन्वितम्। षड्सैश्च समायुक्तं गृहाणान्नं निवेदये। पार्थिवेश्वरयागदेवताभ्यो मात्रामधुपर्कं चरुं समर्पयामि नमः। (आलचा सुपारी नार्जील वगैरा ताम्बूल चढाना)॥ ताम्बूलं विविधैर्द्रव्यैर्नारिकेलादिभिर्युतम्। मुखशुद्धिकरं स्वामिन्गृहाण वरदो भव। पार्थिवेश्वरयागदेवताभ्यस्ताम्बूलं समर्पयामि नमः (फूलोंकी अञ्जलि चढाना) हर विश्वाखिलाधार निराधार निराश्रय। पुष्पाञ्जलिमिमं शम्भो गृहाण वरदो भव। पार्थिवेश्वरयागदेवताभ्यः पुष्पाञ्जलिं समर्पयामि नमः॥ (आधा प्रक्रम देना)। दुहान्ते द्यौः पृथिवी पयोऽजगरस्त्वा सोदको विसर्पतु। प्रजापतिनात्मना प्रीणेऽरिक्तो स आत्मा॥यानि कानि च पापानि ब्रह्महत्यादिकानि च। तानि तानि प्रणश्यन्ति शिवस्यार्धप्रदक्षिणात्॥ ॐ नमः शिवाय भगवन् प्रसीद॥ (दीनाक्रन्दनस्तोत्रादि पढकर साष्टाङ्ग प्रणाम करना)॥ उभाभ्यां जानुभ्यां पाणिभ्यां शिरसा चोरसा वचसा मनसा च नमस्कारं करोमि नमः॥ (कमी या अधिक होनी की माफी माङ्गना)।अन्नंनमः अन्नंनमः आज्यमाज्यमद्य दिने अद्य यथास-
ङ्कल्पात्सिद्धिरस्तु अन्नहीनं क्रियाहीनं विधिहीनं द्रव्यहीनं मन्त्रहीनं च यद्गतं तत्सर्वमच्छिद्रं सम्पूर्णमस्तु एवमस्तु॥(हाथ से पात्र में वापस किये पानीसे आचमन देना)। शन्नो देवीरभिष्टय आपो भवन्तु पीतये। शंय्योरभिस्रवन्तु नः। पार्थिवेश्वरयागदेवताभ्योऽपोशानं नमः आचमनीयं नमः। (और हाथ से पात्र में उलटाये पानी में तिल और दक्षिणा देना)। पुनः, शन्नो देवीरभिष्टय आपो भवन्तु पीतये। शंय्योरभिस्रवन्तु नः। पार्थिवेश्वरयागदेवताभ्यो दक्षिणायैतिलहिरण्यरजतनिष्कर्णं ददानि। एता देवताः सदक्षिणा अनेन प्रीयन्तां प्रीताः सन्तु॥(कलश को दो फूल चडाना)। ॐ तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः, दिवीव चक्षुराततम्॥१॥ तद्विप्रासो विपन्यवो जागृवांसः समिन्धते, विष्णोर्यत्परमं पदम्॥२॥ (पार्थिवेश्वर को फूल)॥ नाथं नाथं त्रिभुवननाथं भूतिसितं त्रिनयनं त्रिशूलधरम्। उपवीतीकृतभोगिनमिन्दुकलाशेखरं वन्दे॥१॥ पुष्पाणि सन्तु तव देव मदिन्द्रियाणि धूपो गुरुर्वपुरिदं हृदयं प्रदीपः। प्राणा हवींषि करणानि नवाक्षतास्ते पूजाफलं ब्रजतु साम्प्रतमेष जीवः॥२॥ वाञ्छामि नाहमपि सर्वरसाधिपत्यं नेच्छे पुरन्दरपदं न पदं विधातुः। भूयो भवामि यदि जन्मनि जन्मनि स्यां त्वत्पादपङ्कजलसन्मकरन्दभृङ्गः॥३॥ जन्मानि सन्तु मम देव शताधिकानि माया च मे विशतु चित्तमबोधहेतुः। किन्तु क्षणार्धमपि त्वच्चरणारविन्दान्मापैतु मे हृदयमीश नमो नमस्ते॥४॥ (अत्र नित्यकर्म जपपाठादि करके व्याहृति करना)।
अथ व्याहृतिः॥
(अग्नि जलाकर उसके ईशानकोणे पर विष्टर तिल अक्षत फूल और पानीवाला प्रणीतपात्र रख के उस में और अग्निमेंभी तिल छोडना)। पात्रं तिलाक्षतैर्मिश्रं कुसुमोदकविष्टरैः। अग्नेश्चैशानदिग्भागे प्रणीतमभिधीयते॥ प्रणीतं नैर्ऋते स्थाप्यं स विष्णुर्नात्र संशयः॥ (पात्र में तीन दफा फूल छोडना)॥ सं व्वः सृजामीति द्वाभ्यां पुष्पाणां त्रितयं क्षिपेत्॥ सं व्वः सृजामि हृदयं संसृष्टं मनो अस्तु वः॥१॥ संसृष्टास्तन्वः सन्तु वः संसृष्टः प्राणो अस्तु वः॥२॥ संय्यावः प्रियास्तन्वः संप्रिया हृदयानि वः। आत्मा वो अस्तु संप्रियः संप्रियास्तन्वो मम॥३॥ (दो दर्भकाण्ड जलाई दाहे तरफ छोडना)। निर्दिग्धं रक्षो निर्दग्धारातिरपाग्ने। अग्निमामादं जहि निष्क्रव्यादं सीधा देवयजनं वह॥ (प्राणायाम करके अग्नि को प्रणीत पात्र में से नौ छिडकियां देना)॥ प्राणायामं कुर्यात्॥ ऋतं त्वा सत्येन परिसमूह्यामि॥१॥ सत्यं त्वर्तेन परिसमूह्यामि॥२॥ ऋतसत्याभ्यां त्वा परिसमूह्यामि॥३॥ ऋतं त्वा सत्येन पर्युक्षामि॥४॥ सत्यं त्वर्तेन पर्युक्षामि॥५॥ ऋतसत्याभ्यां त्वा पर्युक्षामि॥६॥ ऋतं त्वा सत्येन परिषिञ्चामि॥७॥ सत्यं त्वर्तेन परिषिञ्चामि॥८॥ ऋतसत्याभ्यां त्वा परिषिञ्चामि॥९॥ (अग्नि के चार दिशायों के पूर्व और उत्तर अग्रवाला के चार दर्भकाण्ड छोडना)। यज्ञस्य सन्ततिरसि यज्ञस्य त्वा सन्तत्यै स्तृणामि। पुरस्तात्, दक्षि-
णतः, उत्तरतः, पश्चात्, इति स्तरैः॥ (अग्नि को गन्ध फूल लगाना)। अग्नये शुकारूढाय स्वाहासहिताय त्रिनेत्राय तेजोरूपाय समालभनं गन्धोनमः अर्घोनमः पुष्पं नमः॥ (दर्भकाण्ड दो जलाकर यवा, तिल, घी, दही, मिठास, रूप पञ्चामृत हवि में लगाना)। इदं हविः प्रजननं मे अस्तु दशवीरं सर्वगणं स्वस्तये आत्मसनि प्रजासनि पशुसनि अभयसनि लोकसनि अग्निः प्रजां बहलां मे करोतु अन्नं पयो रेतो अस्मासु दत्त घृतेन संलिप्य शृतमन्नं शृतमभिघार्य॥ (महागायत्रीका ध्यान करके अग्निमें फूल चढाना)। मुक्ताविद्रुमहेमनीलधवलच्छायैर्मुखैस्त्रीक्षणैर्युक्तामिन्दुनिब-द्धरत्नमुकुटांतत्त्वात्मवर्णात्मिकाम्। गायत्रीं वरदाभयाङ्कुशकरां शूलं कपालं गुणं शङ्खं चक्रमथारविन्दयुगलं हस्तैर्वहन्तीं भजे॥ आयातु वरदा देवी त्र्यक्षरा ब्रह्मवादिनी। गायत्रि च्छन्दसां मातर्ब्रह्मयोने नमोस्तु ते॥३॥ (आहुती अनवच्छन्न देना)। “महाव्याहृतयः प्रजापतेः”। ॐ अग्नये स्वाहा ॐ भूः स्वाहा ॐ भुवः स्वाहा ॐ स्वः स्वाहा ॐ भूर्भुवः स्वः स्वाहा। ॐ भूः स्वाहा ॐ भुवः स्वाहा ॐ स्वः स्वाहा ॐ महः स्वाहा ॐ जनः स्वाहा ॐ तपः स्वाहा ॐ सत्यं स्वाहा ॐ भूर्भुवःस्वस्तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात्॥३॥ (फूल चढाना)। अश्वमेधे घोराणामार्षम्। (आहुति देना)। द्रष्ट्रेनम, उपद्रष्ट्रे नमोऽनुद्रष्ट्रेनमः, ख्यात्रेनमः, उपख्यात्रेनमो, नुक्शास्त्रेनमः, शृण्वतेनमः, उपशृण्वतेनमः, सते नमोऽसते नमो, जाताय नमो, जनिष्यमाणाय नमो भूताय नमो,
भविष्यते नमश्चक्षुषेनमः, श्रोत्राय नमो, मनसे नमो, वाचे नमो, ब्रह्मणे नमः, शान्ताय नमस्तपसे नमः॥ भूतं भव्यंभविष्यद्वषट्स्वाहा नम, ऋक्साम यजुर्वषट् स्वाहा नमो गायत्री त्रिष्टुब्जगती वषट् स्वाहा नमः, पृथिव्यन्तरिक्षं द्यौर्वषट् स्वाहा नमोऽन्नं कृषिर्वृष्टिर्वषट् स्वाहा नमः, पिता पुत्रः पौत्रो वषट् स्वाहा नमः, प्राणो व्यानोऽपानो वषट् स्वाहा नमो, भूर्भुवः स्वर्वषट् स्वाहा नमः॥ यो विश्वचक्षुरुत विश्वतोमुखो विश्वतो हस्त उत विश्वतस्पात्। संबाहुभ्यां धमते संपतत्रैर्द्याव्यापृथिवी जनयन्देव एकः॥ आ ब्रह्मन् ब्राह्मणो ब्रह्मवर्चस्वी जायतामऽस्मिन्राष्ट्रे राजन्य इषव्यः शूरो महारथो जायतां, दोग्ध्री धेनुर्वोढाऽनड्वानाऽऽशुः सप्तिर्जिष्णूरथेष्ठः पुरन्ध्रिर्योषा सभेयो युवाऽस्य यजमानस्य वीरो जायतां निकामे निकामे नः पर्जन्यो वर्षतु फलवतीर्न ओषधयः पच्यतां योगक्षेमो नः कल्पताम्॥ (फूल चढाना)। चतुर्भुजामऽर्कसहस्रकोटिभां त्रिलोचनां हारकिरीटशोभिताम्। चतुर्मुखाङ्कोपगतां महोज्ज्वलां वेदेश्वरीं पञ्चमुखीं नमाम्यहम्॥ (आहुती देना)। ॐ ओजोसि सहोसि बलमसि भ्राजोसि देवानान्धाम नामासि विश्वमसि विश्वायुः सर्वमसि सर्वायुरभिभूः॥ ॐ देवाश्च वा असुराश्च संय्यन्ता आसंस्तान्गायत्र्याऽन्तरातिष्ठदोजो वै वीर्यमन्नाद्यं परिगृह्य संवत्सरो वा वैनान्सोऽन्तरातिष्ठच्चतुर्विंशतिर्गायत्र्या अक्षराणि चतुर्विंशतिः संवत्सरस्यार्धमासास्ते विदुर्यतरान्वाइयमुपवर्त्स्यति तइदं भविष्यन्तीति तं व्यहूयन्तदाभीत्यसुराह्वयन् विश्वकर्मन्निति देवासस्तान्यतरांश्च नोपवर्तत ते देवा
एतद्यजुरपश्यन्नोजोसि सहोसि बलमसि भ्राजोसि देवानां धाम नामासि विश्वमसि विश्वायुः सर्वमसि सर्वायुरभिभूरिति सा देवानुपावर्तत ततो देवा अभवन् पराऽसुरा अभवन्नाग्नेयमष्टाकपालं निर्वापेद्भ्रातृव्यवान्वा स्पर्धमानो वा तमाऽसाद्यैतैर्यजुर्भिरभिमृशेदोजो वै वीर्यं संवत्सर ओज एव वीर्यं भ्रातृव्यस्य वृङ्क्ते स निर्वीर्यः पराभवति सैषा गायत्री नामेष्टे रथो आहुः क्षेत्रस्य संवर्ग इति॥ श्रीमहागायत्र्यै स्वाहा सावित्र्यै स्वाहा सरस्वत्यै स्वाहा। (तर्पण करना)। अनेन मन्त्रहोमेन आत्मनो वाङ्मनःकायोपार्जितपापनिवारणार्थं पार्थिवेश्वरपूजाव्रतनिमित्तं महागायत्रीदेवीसन्तोषणार्थं महागायत्री सावित्री सरस्वती प्रीयतां प्रीताऽस्तु। (आहुती देना)। अध्वर्योऽयं यज्ञो अस्तु देवा ओषधीभ्यः पशुभ्यो मे धनाय। विश्वस्मै भूताय ध्रुवो अस्तु देवाः स पिन्वस्व घृतवद्देव यज्ञम्॥१॥ इहैवैधि मा पच्योष्ठाः पर्वता इवाविचाचलत्। इन्द्र इहेव ध्रुवस्तिष्ठेह यज्ञमुधारय॥२॥ इममिन्द्रो अदीधरद्ध्रुवं ध्रुवेण हविषा हविः। तस्मै सोमो अधिब्रुवत्तस्मा उ ब्रह्मणस्पतिः॥३॥ ध्रुवा द्यौर्ध्रुवा पृथिवी ध्रुवासः पर्वता इमे। ध्रुवं विश्वमिदं जगद्ध्रुवो राजा विशामसि॥४॥ मही द्यौः पृथिवी च न इमं यज्ञं मिमिक्षताम्। पिपृतां नो भरीमभिः॥५॥ बडित्था पर्वतानां क्षेत्रं बिभर्षि पृथिवि। प्रया भूमिं प्रवत्वति मह्नाजिनोषि महिनि॥६॥ निषुसीद गणपते गणेषु त्वामाहुर्विप्रतमं कवीनाम्। न ऋते त्वत्क्रियते किञ्चनारे महामर्कं मघवंश्चित्रमर्च॥१॥ कुमारं माता युवतिः समुब्धं
गुहा बिभर्ति न ददाति पित्रे। अनीकमस्य नमिनज्जनासः पुरः पश्यन्ति निहितमरतौ॥२॥ अश्वपूर्वां रथमध्यां हस्तिनादप्रमोदिनीम्। श्रियं देवीमुपह्वये श्रीर्मां देवीर्जुषताम्॥३॥ इयं शुष्मेभिर्बिसखा इवारुजत्सानुगिरीणान्तविषेभिरूर्मिभिः। पारावतघ्नीमवसे सुवृक्तिभिः सरस्वतीमाविवासेम धीतिभिः॥४॥ कांस्यस्मितां हिरण्यप्राकारामार्द्रां ज्वलन्तीं तृप्तां तर्पयन्तीम्। पद्मेस्थितां पद्मवर्णां तामिहोपह्वये श्रियम्॥५॥ विश्वकर्मा विश्वदेवो विश्वजिद्विश्वदर्शितः। ते त्वा घृतस्य धारया श्रैष्ठाय समसूषत॥६॥ ब्रह्मा देवानां पदवीः कवीनामृषिर्विप्राणां महिषो मृगाणाम्। श्येनो गृघ्राणां स्वधितिर्वनानां सोमः पवित्रमत्येति रेभन्॥७॥ प्रतद्विष्णुः स्तवते वीर्येण मृगो न भीमः कुचरो गिरिष्ठाः। यस्योरुषु त्रिषु विक्रमणेष्वऽधि क्षियन्ति भुवनानि विश्वा॥८॥ यो रुद्रो अग्नौ यो अप्सु य ओषधीषु यो वनस्पतिषु। यो रुद्रो विश्वा भुवना विवेश तस्मै रुद्राय नमो अस्तु देवाः॥९॥ अग्निमीडे पुरोहितं यज्ञस्य देवमृत्विजम्। होतारं रत्नधातमम्॥१०॥ इषे त्वोर्जे त्वा वायवः स्थोऽपायवः स्थ देवो वः सविता प्रार्पयतु श्रेष्ठतमाय कर्मणे॥११॥ अग्न आयाहि वीतये गृणानो हव्यदातये। निहोता सत्सि बर्हिषि॥१२॥ शन्नो देवीरभीष्टय आपो भवन्तु पीतये।शंय्योरभि स्रवन्तु नः॥१३॥ आहं पितॄन्सुविदत्रां अवित्सि न पातं च विक्रमणं च विष्णोः। बर्हिषदो ये स्वधया सुतस्य भजन्त पित्वस्त इहागमिष्ठाः॥१४॥ वषट्ते विष्णवास आकृणोमि तन्मे जुषस्वशिपि-
विष्ट हव्यम्। वर्धन्तु त्वा सुष्टुतयो गिरो मे यूयं पात स्वस्तिभिः सदा नः॥ “फाल्गुने” शक्तिसहिताय चक्रिणे स्वाहा। क्रियासहिताय दामोदराय स्वाहा दुर्गायै स्वाहा त्र्यम्बकाय स्वाहा वरुणाय स्वाहा यज्ञपुरुषाय स्वाहा अग्निष्वात्तादिभ्यः पितृगणदेवताभ्यः स्वाहा॥ (फूल चढाना)॥ ध्येयः सदा सवितृमण्डलमध्यवर्ती नारायणः सरसिजासनसन्निविष्टः। केयूरवान्कनककुण्डलवान्किरीटी हारी हिरण्मयवपुर्धृतशंखचक्रः॥१॥ शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं विश्वाधारं गगनसदृशं मेघवर्णं शुभाङ्गम्। लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यं वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम्॥२॥ आनुष्टुभस्य सूक्तस्य त्रिष्टुबन्तस्य देवता। विश्वात्मा पुरुषः साक्षादृषिर्नारायणः स्मृतः॥३॥ पुरुषमेधः पुरुषस्य नारायणस्यार्षम्। (आहुति देना)। सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात्। स भूमिं विश्वतोवृत्वाऽत्यतिष्ठद्दशाङ्गुलम्॥१॥ पुरुष एवेदं सर्वं यद्भूतं यच्च भव्यम्। उतामृतत्वस्येशानो यदन्नेनातिरोहति॥२॥ एतावानस्य महिमाऽतो ज्यायांश्च पूरुषः। पादोस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि॥३॥ त्रिपादूर्ध्व उदैत्पुरुषः पादोस्येहाभवत्पुनः। ततो विष्वङ्व्यक्रामत्साशनानशने अभि॥४॥ तस्माद्विराडऽजायत विराजो अधिपूरुषः। स जातो अत्यरिच्यत पश्चाद्भूमिमऽथो पुरः॥५॥ यत्पुरुषेण हविषा देवा यज्ञमतन्वत। वसन्तो अस्यासीदाज्यं ग्रीष्म इध्मः शरद्धविः॥६॥ तं यज्ञं बर्हिषि प्रौक्षन्पुरुषं जातमग्रतः। तेन देवा अयजन्त साध्या ऋषयश्च ये॥७॥ तस्माद्यज्ञात्सर्वहुतः सम्भृतं पृषदा-
ज्यम्। पशूंस्तांश्चक्रे वायव्यानारण्यान् ग्राम्याश्च ये॥८॥ तस्माद्यज्ञात्सर्वहुत ऋचः सामानि जज्ञिरे। छन्दांसि जज्ञिरे तस्माद्यजुस्तस्मादजायत॥९॥तस्मादऽश्वा अजायन्त येकेचोभयादतः। गावो ह जज्ञिरे तस्मात्तस्माज्जाता अजावयः॥१०॥ यत्पुरुषं व्यदधुः कतिधा व्यकल्पयन्। मुखं किमस्य कौ बाहू का ऊरू पादा उच्येते॥११॥ब्राह्मणोस्य मुखमासीद्बाहू राजन्यः कृतः। ऊरू तदस्य यद्वैश्यः पद्भ्यां शूद्रो अजायत॥१२॥चन्द्रमा मनसो जातश्चक्षोः सूर्यो अजायत। मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत॥१३॥ नाभ्या आसीदन्तरिक्षं शीर्ष्णेद्यौः समवर्तत। पद्भ्यां भूमिर्दिशः श्रोत्रात्तथा लोकानकल्पयत्॥१४॥ सप्तास्यासन्परिधयस्त्रिःसप्त समिधः कृताः। देवा यद्यज्ञं तन्वाना अबघ्नन्पुरुषं पशुम्॥१५॥ यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन्। ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः॥१६॥ (फूल चढाना)। मातर्नमामि कमले कमलायताक्षि श्रीविष्णुहृत्कमलवासिनि विश्वमातः। क्षीरोदजे कमलकोमलगर्भगौरि लक्ष्मि प्रसीद सततं नमतां शरण्ये। (आहुति देना)। रथे अक्षेषु वृषभस्य वाजे वाते पर्जन्ये वरुणस्यशुष्मे। इन्द्रं या देवी सुभगा जजान सेयमगाद्वर्चसा संविदाना॥१॥या हस्तिनि द्वीपिनि या हिरण्ये गोष्वश्वेषु पुरुषेष्वन्तः। इन्द्रं या देवी सुभगा जजान सेयमगाद्वर्चसा संविदाना॥२॥सिंहे व्याघ्र उत या पृदाकौ त्विषिरग्नौ ब्रह्मणे सूर्ये या। इन्द्रं या देवी सुभगा जजान सेयमगाद्वर्चसा संविदाना॥३॥या राजन्ये दुन्दुभावायतायामश्वस्य क्रन्दे
पुरुषस्य मायौ। इन्द्रं या देवी सुभगा जजान सेयमगाद्वर्चसा संविदाना॥४॥ प्रियं मां कुरु देवेषु प्रियं राजसु मा कुरु। प्रियं विश्वेषु गोप्त्रेषु मयि देहि रुचारुचिम्॥५॥ तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः। दिवीव चक्षुराततम्॥ तद्विप्रासो विपन्यवो जागृवांसः समिन्धते। विष्णोर्यत्परमं पदम्॥ भगवते वासुदेवाय स्वाहा सङ्कर्षणाय स्वाहा प्रद्युम्नाय स्वाहा अनिरुद्धाय स्वाहा सत्याय स्वाहा पुरुषाय स्वाहा अच्युताय स्वाहा माधवाय स्वाहा गोविन्दाय स्वाहा सहस्रनाम्नेविष्णवे स्वाहा लक्ष्मीसहिताय नारायणाय स्वाहा॥ यो रुद्रो अग्नौ यो अप्सु य ओषधीषु यो वनस्पतिषु। यो रुद्रो विश्वा भुवना विवेश तस्मै रुद्राय नमो अस्तु देवाः स्वाहा॥ भवाय देवाय स्वाहा शर्वायदेवाय स्वाहा रुद्रायदेवाय स्वाहा पशुपतयेदेवाय स्वाहा उग्रायदेवाय स्वाहा महादेवाय स्वाहा भीमायदेवाय स्वाहा ईशानायदेवाय स्वाहा पार्वतीसहितायपरमेश्वराय स्वाहा॥ गणानान्त्वा गणपतिं हवामहे कविंकवीनामुपम श्रवस्तमम्। ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पत आनः शृण्वन्नूतिभिः सीद सादनम्॥विनायकाय स्वाहा एकदन्ताय स्वाहा कृष्णपिङ्गलाय स्वाहा गजाननाय स्वाहा लम्बोदराय स्वाहा भालचन्द्राय स्वाहा हेरम्बाय स्वाहा आखुरथाय स्वाहा विघ्नेशाय स्वाहा विघ्नभक्ष्याय स्वाहा वल्लभासहिताय श्रीमहागणेशाय स्वाहा॥ कुमारं माता युवतिः समुब्धं गुहा बिभर्ति नदधाति पित्रे। अनीकमस्य नमिनज्जनासः पुरा पश्यन्ति निहितमरतौ॥ क्लींकां कुमाराय०॥चित्रन्देवानामुदगादनीकं चक्षुर्मित्रस्य वरुणस्याग्नेः। आप्रा द्यावापृथिवीरन्तरिक्षं सूर्य
आत्मा जगतस्तस्थुषश्च स्वाहा॥ह्रांह्रींसः सूर्याय स्वाहा सप्ताश्वाय स्वाहा अनश्वाय स्वाहा एकाश्वाय स्वाहा नीलाश्वाय स्वाहा प्रत्यक्षदेवाय स्वाहा परमार्थसाराय तेजोरूपाय स्वाहा प्रभासहिताय आदित्याय स्वाहा॥जातवेदसे सुनवाम सोममरातीयतो निदहाति वेदः। स नः पर्षदति दुर्गाणि विश्वा नावेव सिन्धुं दुरितात्यग्निः॥अमायै स्वाहा कामायै स्वाहा चार्वङ्ग्यैस्वाहा टङ्कधारिण्यै स्वाहा तारायै स्वाहा पार्वत्यै स्वाहा यक्षिण्यै स्वाहा श्रीशारिकाभगवत्यै स्वाहा श्रीशारदाभगवत्यै स्वाहा श्रीमहाराज्ञी भगवत्यै स्वाहा श्रीज्वालाभगवत्यै स्वाहा ब्रीडाभगवत्यै स्वाहा वैखरीभगवत्यै स्वाहा वितस्ताभगवत्यै स्वाहा गङ्गाभगवत्यै स्वाहा यमुनाभगवत्यै स्वाहा कालिकाभगवत्यै स्वाहा सिद्धलक्ष्म्यै स्वाहा महालक्ष्म्यै स्वाहा महात्रिपुरसुन्दर्यै स्वाहा सहस्रनाम्न्यैदेव्यैभगवत्यै स्वाहा॥ॐ यत इन्द्र भयामहे ततो नो अभयङ्कृधि। मघवञ्छग्धि तव तन्न ऊतिभिर्विद्विषो विमृधो जहि स्वाहा॥अभयङ्करीदेव्यै क्षेमङ्करीभवान्यै सर्वशत्रुघातिन्यै इहराष्ट्राधिपतये अमुकभैरवाय स्वाहा। (इष्टदेव का दशांश देना)। हेरकादिभ्यः स्वाहा बटुकादिभ्यः स्वाहा॥ यौ ते श्वानौ यमरक्षितारौ चतुरक्षौ पथिरक्षी नृचक्षसौ। ताभ्यामेनं परिदेहि राजन्स्वस्ति चास्मा अनमीवं च देहि॥ यत्र वेत्थ वनस्पते देवानां गुह्या नामानि। तत्र हव्यानि गामय॥ मुञ्चामि त्वा हविषा जीवनायकमज्ञातयक्ष्मादुत राजयक्ष्मात्। ग्राहिर्जग्राह यदि वैतदेनं तस्या इन्द्राग्नी प्रमुमुक्तमेनम्॥ अङ्गादङ्गाल्लोम्नो लोम्नो जातं पर्वणि पर्वणि। यक्ष्मं सर्वस्मादात्मनस्तमिमं विवृधामि ते॥ ॐ भूर्भुवः स्वस्तत्सवितुर्वरेण्यं
भर्गो देवस्य धीमहि धियो योनः प्रचोदयात्॥३॥ ॐतद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः। दिवीव चक्षुराततम्॥ तद्विप्रासो विपन्यवो जागृवांसः समिन्धते। विष्णोर्यत्परमं पदम्॥ ऐन्द्राग्नंवर्म बहुलं यदुग्रं विश्वेदेवा नातिविध्यन्ति शूराः। तन्नस्त्रायतां तन्वः सर्वतो महदायुष्मन्तो जरामुपगच्छेम जीवाः स्वाहा। (तर्पण करना)। अनेन मन्त्रहोमेनआत्मनो वाङ्मनःकायोपार्जितपापनिवारणार्थं श्रीपार्थिवेश्वरपूजानिमित्तं महागणपतिः कुमारः श्रीः सरस्वती लक्ष्मीः विश्वकर्मा द्वार्देवताः प्रजापतिः ब्रह्मा कलशदेवताः ब्रह्मविष्णुमहेश्वरदेवताः चातुर्वेदेश्वराः सानुचराः “फाल्गुने” शक्तिसहितश्चक्री क्रियासहितो गोविन्दः दुर्गा त्र्यम्बकः वरुणः यज्ञपुरुषः अग्निष्वात्तादयः पितृगणदेवताः वासुदेवः लक्ष्मीसहितो नारायणः भवोदेवः पार्वतीसहितः परमेश्वरः विनायकः वल्लभासहितः महागणेशः क्लीं कां कुमारः सेनाधिपतिः कुमारः। ह्रांह्रींसः सूर्यः प्रभासहित आदित्यः अमा कामा चार्वङ्गी टङ्कधारिणी तारा पार्वती यक्षिणी श्रीशारिकाभगवती श्रीशारदा श्रीज्वाला श्रीमहाराज्ञी त्रिपुरसुन्दरी सहस्रनाम्नी भगवती अभयङ्करीदेवी क्षेमङ्करीभवानी सर्वशत्रुघातिनी इहराष्ट्राधिपतिरमुकभैरवः पञ्चामृतहोमेन प्रीयन्तां प्रीताः सन्तु॥ इति व्याहृतिः॥ (अब वैश्वदेवकी विधि है)॥
अथ वैश्वदेवम्॥
(पकाय हुई अन्न या रूटी घीयुक्तको जुलाई हुई दो दर्भकाण्ड लगाना)॥ वैश्वदेवस्य सिद्धस्य सर्वतोऽग्र्यस्य
अन्नस्य जुहोतिपाकस्य घृतेन संलिप्य यजमानाय स्वस्त्यस्तु शृतमभिघार्य॥ (उससे अग्निके उत्तरभाग में प्रथम, दक्षिणभाग में दूसरी आहुति देकर उन में भाकय आहुति देना)॥ “आदौ” अग्नये स्वाहा “इत्युत्तरतः”। सोमाय स्वाहा “इति दक्षिणतः”। “तयोर्मध्ये” मित्राय स्वाहा वरुणाय स्वाहा इन्द्राय स्वाहा इन्द्राग्निभ्यां स्वाहा विश्वेभ्योदेवेभ्यः स्वाहा प्रजापतये स्वाहा अनुमत्यै स्वाहा धान्वन्तरये स्वाहावास्तोष्पतये स्वाहा वासुदेवाय स्वाहा सङ्कर्षणाय स्वाहा प्रद्युम्नाय स्वाहा अनिरुद्धाय स्वाहा सत्याय स्वाहा पुरुषाय स्वाहा अच्युताय स्वाहा माधवायस्वाहा गोविन्दायस्वाहा सहस्रनाम्ने विष्णवे लक्ष्मीसहितायनारायणायस्वाहा। (सबसलोनयुक्त अन्नका बान्धवसहित नैवेद्य चढाना)। अमृतेशमुद्रया अमृतीकृत्य। अमृतमस्तु अमृतायतां नैवेद्यं सावित्राणि सावित्रस्य देवस्य त्वासवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णोहस्ताभ्यामादधे। महागणपतये कुमाराय श्रियै सरस्वत्यै लक्ष्म्यै विश्वकर्मणे द्वार्देवताभ्यः प्रजापतये ब्रह्मणे कलशदेवताभ्यः ब्रह्मविष्णुमहेश्वरदेवताभ्यः चातुर्वेदेश्वराय सानुचराय ऋतुपतये नारायणाय “फाल्गुने” शक्तिसहिताय चक्रिणे, क्रियासहिताय गोविन्दाय दुर्गायै त्र्यम्बकाय वरुणाय यज्ञपुरुषाय अग्निष्वात्तादिभ्यः पितृगणदेवताभ्यः भगवते वासुदेवाय सङ्कर्षणाय प्रद्युम्नाय अनिरुद्धाय सत्याय पुरुषाय अच्युताय माधवाय गोविन्दाय सहस्रनाम्ने विष्णवे लक्ष्मीसहितायनारायणाय। भवायदेवाय शर्वायदेवाय रुद्रायदेवाय पशुपतयेदेवाय उग्रायदेवाय भीमायदेवाय महादेवाय ईशानायदेवाय ईश्वरायदेवाय उमासहितायशिवाय पार्वतीसहिताय
परमेश्वराय। विनायकाय एकदन्ताय कृष्णपिङ्गलाय गजाननाय लम्बोदराय भालचन्द्राय हेरम्बाय आखुरथाय विघ्नेशाय विघ्नभक्ष्याय वल्लभासहिताय श्रीमहागणेशाय। क्लींकांकुमाराय षण्मुखाय मयूरवाहनाय सेनाधिपतये कुमाराय। ह्रांह्रींसः सूर्याय सप्ताश्वाय अनश्वाय एकाश्वाय नीलाश्वाय प्रत्यक्षदेवाय परमार्थसाराय प्रभासहिताय आदित्याय। भगवत्यै अमायै कामायै चार्वङ्ग्यैटङ्कधारिण्यै तारायै पार्वत्यै यक्षिण्यै श्रीशारिकाभगवत्यै श्रीशारदाभगवत्यै श्रीमहाराज्ञीभगवत्यै श्रीज्वालाभगवत्यै व्रीडाभगवत्यै वैखरीभगवत्यै वितस्ताभगवत्यै गङ्गाभगवत्यै यमुनाभगवत्यै कालिकाभगवत्यै सिद्धलक्ष्म्यै महालक्ष्म्यै महात्रिपुरसुन्दर्यै सहस्रनामयैदेव्यैभवान्यै। अभयङ्करीदेव्यै क्षेमङ्करीभवान्यै सर्वशत्रुघातिन्यै इहराष्ट्राधिपतये अमुकभैरवाय। इन्द्राय वज्रहस्ताय अग्नये शक्तिहस्ताय यमाय दण्डहस्ताय नैर्ऋतयेखड्गहस्ताय वरुणाय पाशहस्ताय वायवे ध्वजहस्ताय कुबेराय गदाहस्ताय ईशानाय त्रिशूलहस्ताय ब्रह्मणे पद्महस्ताय विष्णवे चक्रहस्ताय अनन्तादिभ्योऽष्टाभ्यः कुलनागदेवताभ्यः। अग्न्यादित्याभ्यां वरुणचन्द्रमोभ्यां कुमारभौमाभ्यां विष्णुबुधाभ्यां इन्द्राबृहस्पतिभ्यां सरस्वतीशुक्राभ्यां प्रजापतिशनैश्चराभ्यां गणपतिराहुभ्यां रुद्रकेतुभ्यां ब्रह्मध्रुवाभ्यां अनन्तागस्त्याभ्यां ब्रह्मणे कूर्माय ध्रुवाय अनन्ताय हरये लक्ष्म्यै कमलायै शिख्यादिभ्यःपञ्चचत्वारिंशद्वास्तोष्पतिदेवताभ्यः। ब्राह्म्यादिभ्योमातृभ्यः गौर्यादिभ्योमातृभ्यः ललितादिभ्योमातृभ्यः दुर्गा क्षेत्रगणेशदेवताभ्यः राकादेवताभ्यः त्रिकादेवताभ्यः सिनीवालीदेवताभ्यः यामीदेवतायः रौद्रीदेवताभ्यः वारुणीदेवताभ्यः
बार्हस्पत्यदेवताभ्यः ॐभूर्देवताभ्यः ॐभुवोदेवताभ्यः ॐस्वर्देवताभ्यः ॐभूर्भुवःस्वर्देवताभ्यः। अखण्डब्रह्माण्डयागदेवताभ्यः धूर्भ्यः उपधूर्भ्यः महागायत्र्यै सावित्र्यै सरस्वत्यै हेरकादिभ्यो वटुकादिभ्यः। उत्पन्नममृतं दिव्यं प्राक्क्षीरोदधिमन्थनात्। अन्नममृतरूपेण नैवेद्यं प्रतिगृह्यताम्। ॐतत्सद्ब्रह्म अद्यतावत्तिथावद्य फाल्गुनमासस्य कृष्णपक्षस्य तिथावमुकायामात्मनो वाङ्मनःकायोपार्जितपापनिवारणार्थंपार्थिवेश्वरप्रीत्यर्थमोंनमो नैवेद्यं निवेदयामिनमः॥ (पूर्वकेतरफ अग्रवाले कुशाधरतीपर बिछाना) पूर्वाग्रान्दर्भानास्तीर्य। (उस पर वायवीकोणसे लैनमें तीन २ नैर्ऋतीकोण तक और उपर उपर नैर्ऋतसे वायुकोण तक लैनमें तीन २ ऐसी छतीस देवोंको बलि देना)॥ तक्षायनमः, उपतक्षायनमः, अम्बानामासि नमस्ते, दुलानामासि नमस्ते, नितत्नीनामासि नमस्ते, चुपनीकानामासि नमस्ते, अभ्रयन्तीनामासि नमस्ते, मेघयन्तीनामासि नमस्ते, वर्षयन्तीनामासि नमस्ते, नन्दिनी नमस्ते, १० सुभगे नमस्ते, सुमङ्गलि नमस्ते, भद्रङ्करि नमस्ते, श्रियै हिरण्यकेश्यैनमः, वनस्पतिभ्योनमः, १५ धर्मायनमः, अधर्मायनमः, मृत्यवेनमः, मरुद्भ्योनमः, वरुणायनमः, विष्णवेनमः, २१ वैश्रवणायराज्ञेनमः, भूतेभ्योनमः, इन्द्रायनमः, इन्द्रपुरुषेभ्योनमः, २५ यमायनमः, यमपुरुषेभ्योनमः, सोमायनमः, सोमपुरुषेभ्योनमः, वरुणायनमः, ३० वरुणपुरुषेभ्योनमः, ब्रह्मणेनमः, ब्रह्मपुरुषेभ्योनमः, “ऊर्ध्वं” आकाशायनमः “स्थण्डिले” दिवञ्चरेभ्योभूतेभ्योनमः नक्तञ्चरेभ्योभूतेभ्योनमः ३६ षट्त्रिंशत्तक्षादिभ्योऽन्नंनमः आचमनीयंनमः॥
(बाहेतर्फ जञूकरना)। अपसव्येन (दाहे तर्फ अग्रवाले दर्भ बिछावना)। दक्षिणाग्रान्दर्भानास्तीर्य॥ (उनपर तिल और पानीसे मार्जन करना) समस्तमातापितृभ्यो द्वादशदैवतेभ्यः पितृभ्यो भूपृष्ठे दर्भास्तरणे तिलोदकेन अवनेजनं स्वधा॥ (उसपर अंगूठ फिरावना)॥ उशन्तस्त्वाहवामह उशन्तः समिधीमहि। उशन्नुशत आवह पितॄन्हविषे अत्तवे (तिल पानी दूध दीप धूप अन्न घी और शहद यह आठ द्रव्य पितरोंका अन्नहै)। तिलास्तोयं तथा क्षीरं दीपधूपौ बलिस्तथा। मधुसर्पिःसमायुक्तमष्टाङ्गमन्नसम्भवम्॥ (बाहे घोठना धरतीपर डकाना)। वामजानुं भूमौ निधाय। (पितरोंको मन्त्र व नाम उच्चारके अन्न देना) देवताभ्यः पितृभ्यश्च महायोगिभ्य एवच। नमः स्वधा च स्वाहा च नित्यमेव भवन्त्विह॥ तत्सद्ब्रह्म अद्यतावत्तिथौ अद्य फाल्गुनमासस्य कृष्णपक्षस्य तिथौ अमुकायां अमुकवारान्वितायां आत्मनो वाङ्मनःकायोपार्जितपापनिवारणार्थं पितः “अमुकअमुकगोत्र एतत्ते अन्नं ये च त्वानु। (इसी तरह पुरुषोंको)। पितामह “अमुक०” प्रपितामह “अमु०”। मातः “अमुके अमुकगोत्रि एतत्ते अन्नं याश्चत्वाऽनु”। (इसी तरह औरतोंको) पितामहि “अमुके” प्रपितामहि। मातामह “अमुक”। प्रमातामह। वृद्धप्रमातामह। मातामहि “अमुके” प्रमातामहि। वृद्धप्रमातामहि। (इसी तरह और सम्बन्धियों को भी अन्न वगैरा देना)। भ्रातः। “एतत्ते अन्नं”। मातुल “एतत्ते अन्नं”। इत्थं सर्वान्सम्बन्धिनश्च तर्पयेत्॥ मातृपक्ष्यास्तु ये केचिद्येचान्ये पितृपक्षजाः। गुरुश्वशुरबन्धूनां ये
कुलेषु समुद्भवाः। ये प्रेतभावमापन्ना येचान्ये श्राद्धवर्जिताः। अन्नदानेन ते सर्वे लभन्तां तृप्तिमुत्तमाम्। समस्तमातापितृभ्यो द्वादशदैवतेभ्यः पितृभ्योऽन्नं स्वधा। (लेप मिटाना) अन्नलेपं निवारयेत्॥ (गन्ध वगैरा चडाना)। “समस्तमातापितृभ्यः” समालभनं गन्धः स्वधा। “समस्त” अर्घ्यः स्वधा। पुष्पंस्वधा “समस्त०” दीपः स्वधा धूपः स्वधा “समस्तमा” भक्ष्यभोज्यफलमूलबलिनैवेद्यमाऽहारादि अन्नं स्वधा “समस्त” तिलमधुमिश्रमुदकपात्रमाचमनीयं जलं स्वधा। “समस्त” हिमपानंस्वधा “स०” क्षीरपानंस्वधा “समस्तमा” मधुपानंस्वधा “सम” तिलोदकंस्वधा “समस्तमातापितृभ्यः” उदकतर्पणंस्वधा हिमंहिमं रजतंरजतं। (दाहे जञू करना)। सव्येन। (तर्पण)। वसन्तायनमः ग्रीष्मायनमः वर्षाभ्योनमः शरदेनमः हेमन्तायनमः शिशिरायनमः षडृतुभ्योनमः। (अग्निके ईशानकोनपर अन्नकी आहुति देकर दोनू हाथ दोना)। अग्नये स्विष्टकृते स्वाहा। हस्तौ प्रक्षाल्य। (प्राणायाम करना)। “प्राणायामः”। (अग्निको तीन वार छिडकना)। ऋतंत्वासत्येन विमुञ्चामि १ सत्यं त्वर्तेन विमुञ्चामि २ ऋतसत्याभ्यां त्वा विमुञ्चामि॥३॥ (अग्नि के आस्तरण छोडे होई दर्भां उठाना)। यज्ञस्य सन्ततिरसि यज्ञस्य त्वा सन्तत्यै नयामि॥ (अग्निको फूलोंसे आशीर्वाद मांगना)। धर्मं देहि धनंदेहि पुत्रपौत्रांश्च देहि मे। आयुरारोग्यमैश्वर्यं देहि मे हव्यवाहन॥१॥ भक्तिं देहि श्रियं देहि सुखं देहि स्वतन्त्रताम्। देहि भोगं च मोक्षं च मनोभिलषितं तथा॥२॥ गच्छगच्छ सुरश्रेष्ठ ब्रह्मविष्णुम-
हेश्वराः। यत्र देवालयाः सर्वे तत्र गच्छ हुताशन॥३॥ तेजोसि तेजो मयि देहि। (अपने तर्फे ज्योति लेके अग्निके रुकसत देना)। “इत्यात्मानं देहि” भगवन् सन्निधत्स्व॥ (धरतीपर यक्ष्म रोगराजको बल देना)। भगवन् यक्ष्म एतत्तेऽन्नंनमः एतत्ते आचमनीयंनमः। (गले में जञू रखके सनकादि चार सिद्धोंको बल हाथके तलेसे छोडना)। कण्ठोपवीती। हन्त मनुष्येभ्यः। सनकादिभ्यऋषिभ्यः अन्नंनमः। आचमनीयंनमः॥ (दाहे जञूरखके योगिनियोंका ध्यान करके बल। कश्मीरभाषया “चोठ” रखना)। सव्येन। या काचिद्योगिनी रौद्रा सौम्या घोरतरा परा। खेचरी भूचरी रामा तुष्टा भवतु मे सदा॥ आकाशमातृभ्योऽन्नंनमः समालभनंगन्धोनमः अर्घोनमः पुष्पंनमः॥ (शिवजीका ध्यान पढकर बल देना) कर्पूरगौरं० शिवपञ्चायतनदेवताभ्यो बलिं समर्पयामि नमः। (धरतीपर और जीवोंकी तृप्ति अन्नसे देनी)॥ ततो गोग्रासादि। सौरभेय्यः स्वर्गहिताः पवित्राः पुण्यराशयः। प्रतिगृह्णन्तु मे ग्रासं गावस्त्रैलोक्यमातरः। “गोभ्योन्नंनमः”। ऐन्द्रवारुणचायव्या याम्या नैर्ऋतिकाश्चये। वायसाः प्रतिगृह्णन्तु इमं पिण्डं मयोद्धृतम्। “काकेभ्योऽन्नंनमः”। श्वानौ द्वौ शावशवलौ वैवस्वतकुलोद्भवौ। ताभ्यां पिण्डं प्रदास्यामि स्यातामेतावहिंसकौ। श्वभ्यः श्वानकेभ्योऽन्नंनमः। (वाहे जञू से)। अपसव्येन। रौरवाधीनसत्वानां प्रेतद्वारनिवासिनाम्। अर्थिनां याचमानानामक्षय्यमुपतिष्ठतु॥ (दाहे जञूसे)।
सव्येन। शुनां च पतितानां च श्वपचां पापरोगिणाम्। वायसानां क्रिमीणां च शनकैर्निक्षिपेद्भुवि॥ देवा मनुष्याः पशवो वयांसि सिद्धाः सयक्षोरगदैत्यसंघाः। प्रेताः पिशाचास्तरवः समस्ता ये चान्नमिच्छन्ति मया प्रदत्तम्॥ पिपीलिकाः कीटपतंगकाद्या बुभुक्षिताः कर्मणि बद्धबद्धाः। प्रयान्तु ते तृप्तिमिदं मयान्नं तेभ्यो विसृष्टं सुखिनो भवन्तु॥ येषां न माता न पिता न बन्धुर्नैवान्नसिद्धिर्न तथान्नमस्ति। तत्तृप्तयेऽन्नं भुवि दत्तमेतत्ते यान्तु तृप्तिं मुदिता भवन्तु॥ भूतानि सर्वाणि तथान्नमेतदयं चरिष्णुर्न ततोन्यदस्ति। तस्मादहं भूतनिकायभूतमन्नं प्रयच्छामि भवाय तेषाम्॥ चतुर्दशो भूतगणो य एष तत्र स्थिता येऽखिलभूतसङ्घाः। तृप्त्यर्थमन्नं हि मया विसृष्टं तेषामिदं ते मुदिता भवन्तु॥ इत्युच्चार्य नरो दद्यादन्नं श्रद्धासमन्वितः। भुवि भूतोपकाराय गृही सर्वाश्रयो यतः॥ (बाहे जञूकरके)। अपसव्येन। यमाय धर्मराजाय मृत्यवे चान्तकाय च। वैवस्वताय कालाय सर्वप्राणहराय च॥औदुम्बराय नीलाय ब्रध्नाय परमेष्ठिने। वृकोदराय भीमाय चित्रगुप्ताय वै नमः॥ पाशहस्तकृतान्ताय प्रेताधिपतये नमः। श्रीयमराजधर्मराजचित्रगुप्ततृप्तयेऽस्तु॥ (दाहे जञू से)। सव्येन। बल देने योग्य अन्न मांस अपूप आद्ययों पर अर्घऔर पानी पाना)॥ ये विश्वभाविनो भूता ये च तेष्वऽनुयायिनः। आहरन्तु बलिं तुष्टाः प्रयच्छन्तु शिवं मम॥ (उह भांटके क्षेत्रपालों को देना)। योऽस्मिन्निवसति क्षेत्रे क्षेत्रपालः सकिङ्करः। तस्मै निवेदयाम्यद्य बलिं पानीयसंयुतम्॥ क्षंक्षेत्राधिपतये बलिंनमः। रां-
राष्ट्राधिपतये बलिंनमः। सर्वे अभयवरप्रदा मह्यं पुष्टिं पुष्टिपतयो ददतु॥ (बाहे जञूसे)॥अपसव्येन॥ (अन्नकानों पर फूल लगाना)॥ आयुः प्रजां धनं विद्यां स्वर्गमोक्षौ सुखानि च। प्रयच्छन्तु तथा राज्यं नृणां प्रीताः पितामहाः।१। एष पिण्डो मया दत्तस्तव हस्ते जनार्दन। गयायां पितृरूपेण स्वयमेवोपगृह्यताम्।२। आत्मनश्चार्थलाभाय क्षेमाय विजयाय च। शत्रूणां बुद्धिनाशाय पितृृनुद्धरणाय च।३। पञ्चक्रोशं गयाक्षेत्रं क्रोशमेकं गयाशिला। यत्र तत्र स्मरेन्नित्यं पितॄणां दत्तमक्षयम्। इति वैश्वदेवविधिः॥ (दाहे जञूसे)॥सव्येन। (दो दर्भकाण्डअर्धयुक्त हाथ में रख के देवोंका रुकसथ देना)॥ ॐभूः पुरुषं विसर्जयामिनमः ॐभुवः पुरुषं विसर्जयामिनमः ॐस्वःपुरुषं विसर्जयामिनमः ॐभूर्भुवःस्वःपुरुषं विसर्जयामिनमः॥३॥ ॐभूर्भुवःस्वस्तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात्॥३॥ तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्रः प्रचोदयात्॥३॥ तन्महेशाय विद्महे अर्धनारीश्वराय धीमहि तन्नः पार्थिवेश्वरः प्रचोदयात् ३ तत्पुरुषाय विद्महे वक्रतुण्डाय धीमहि तन्नो दन्ती प्र० ३ कार्तिकेयाय विद्महे सेनाधिपतये धीमहि तन्नः कुमारः प्रचोदयात् ३ सुभगायैविद्महे काममालिन्यै धीमहि तन्नो दुर्गा प्रचोदयात्॥३॥ ॐतत्सद्ब्रह्म अद्यतावत्तिथावद्य फाल्गुनमासस्य कृष्णपक्षस्य तिथावमुकायां अमुकवारान्वितायां महागणपतेः कुमारस्य श्रियः सरस्वत्याः लक्ष्म्याः विश्वकर्मणः द्वार्देवतानां प्रजापतेः ब्रह्मणः कलशदेवतानां ब्रह्मविष्णुमहेश्वरदेव-
तानां चातुर्वेदेश्वरस्य सानुचरस्य ऋतुपतेर्नारायणस्य दुर्गायाः त्र्यम्बकस्य वरुणस्य यज्ञपुरुषस्य अग्निष्वात्तादीनां पितृगणदेवतानां भवस्य०।८। अजैकपर्दिनः अहिर्बुध्न्यस्य कृत्तिवाससः पिनाकभृतः वृषाकपेः सिन्धोः बहुरूपस्य हरस्य त्र्यम्बकस्य त्रिनेत्रस्य वृषभवाहनस्य शतरुद्रेश्वरस्य श्रीमहामृत्युञ्जयभट्टारकस्य। विनायकस्य एकदन्तस्य कृष्णपिङ्गलस्य गजाननस्य लम्बोदरस्य भालचन्द्रस्य हेरम्बस्य आखुरथस्य विघ्नभक्षस्य वल्लभासहितस्य महागणेशस्य। क्लीं कांकुमारस्य षण्मुखस्य मयूरवाहनस्य सेनाधिपतेः कुमारस्य। भगवत्याः अमायाःकामायाः चार्वङ्ग्याःटङ्कचारिण्याः तारायाः पार्वत्या यक्षिण्याः श्रीशारिकाभगवत्याः श्रीशारदाभगवत्याः श्रीमहाराज्ञीभगवत्याः श्रीज्वालाभगवत्याः सहस्रनाम्न्यादेव्याः भवान्याः पार्थिवेश्वरयागदेवतानां विष्णुपञ्चायतनदेवतानां अभयङ्करीदेव्याः क्षेमङ्करीभवान्याः सर्वशत्रुघातिन्याः इह राष्ट्राधिपतेः अमुकभैरवस्य आत्मनो वाङ्मनःकायोपार्जितपापनिवारणार्थं पार्थिवेश्वरप्रीत्यर्थ कलशपूजनं पार्थिवेश्वरयागपूजनमऽच्छिद्रं सम्पूर्णमस्तु एवमस्तु॥ (यवोदक छोडना)॥ एताभ्यो देवताभ्यो यवोदकंनम उदकतर्पणंनमः॥ (फूलों से प्रार्थना करना)। आज्ञा मे दीयतां नाथ नैवेद्यस्यास्य भक्षणे। शरीरयात्रासिद्ध्यर्थं भगवन् क्षन्तुमर्हसि॥ आपन्नोस्मि शरण्योसि सर्वावस्थासु सर्वदा। भगवंस्त्वां प्रपन्नोस्मि रक्ष मां शरणागतम्॥ (कलश को)॥ ईशानविष्णुकमलासनकार्तिकेयवह्नित्रयार्करजनीशगणेश्वराणाम्। क्रौञ्चामरेन्द्रकलशोद्भवकश्यपानां पादान्नमामि सततं पितृमुक्तिहेतोः॥ कलिकलु-
षविमुक्तैः पूजितः सिद्धसङ्घैरमरचमरमालावीज्यमानोप्सरोभिः। पितृशतमपि बन्धून्पुत्रपौत्रान्प्रपौत्रानपि नरकनिमग्नांस्तारयेद्विष्णुरेव॥ (स्तोतृपाठादि कालानुसार पढकर)॥ क्षमध्वं मम क्षेत्रेशा ददध्वं सुखसम्पदः। खगोपातालदिक्संस्थास्तुष्टा यान्तु स्वकं पदम्॥ आह्वानं नैव जानामि नैव जानामि पूजनम्। पूजाभागं न जानामि क्षम्यतां परमेश्वर॥ (अष्टाङ्ग प्रणाम देना)॥ उभाभ्यां जानुभ्यां पाणिभ्यां शिरसा चोरसा च वचसा च मनसा च नमस्कारं करोमि नमः॥ (तर्पण करना)॥ नमो ब्रह्मणे नमो अस्त्वग्नये नमः पृथिव्यै नम ओषधीभ्यः। नमो वाचे नमो वाचस्पतये नमो विष्णवे बृहते कृणोमि॥३॥ इत्येतासामेव देवतानां सामीप्यं सार्ष्टितां सायुज्यं सलोकतामाप्नोति य एवं विद्वान्स्वाध्यायमधीते॥ (कलश ब्राह्मणहाथ देकर स्वस्त्ययन का मार्जन उससे बन्धुसहित लेना) उदकलशमुपनिधाय स्वस्त्ययनं पाचयति। उत्तिष्ठ ब्रह्मणस्पते देवयन्तस्त्वेमहि उपप्रयन्तु मारुतः सुदानव इन्द्र प्राशून्भवासचा, अर्यमाऽयातु वृषभस्तुविष्मान् यन्ता वसूनि विधत्ते तनूपाः, सहस्राक्षो गोत्रभिद्वज्रबाहुः, अस्मासु देवो द्रविणं ददातु, ये ते अर्यमन्बहवो देवयानाःपन्थानो राजन् दिव आचरन्ति, तेभिर्नो अद्य पथिभिः सुगेभीरक्षा च नो अधि च ब्रूहि देव॥“राष्ट्रभृतां देवानामार्षम्”। बोधश्चमा प्रतिबोधश्चपुरस्ताद्गोपायतामऽस्वप्नश्चमाऽणवद्राणश्च दक्षिणतो गोपायतां गोपायमानश्चमा रक्षमाणश्च पश्चाद्नोपायतां जागृविश्चमाऽरुन्धती चोत्तराद्गोपायताम्। अनमित्रं नो अधरागऽनमित्रमुद-
क्कृधि, इन्द्रानमित्रं नः पश्चादऽनमित्रं पुरस्कृधि। अनमित्रैरहोभिः सचेमहि विश्वेदेवा अनमित्रान उशसः सन्तु निम्रुचः। याः षडुर्वीःपञ्च प्रदिशस्ता नः पान्तु मित्रधानो मित्रे दधात अभयं नो अस्तु। ये रात्रीमनु तिष्ठथ ये च भूतेषु जागृथ पशून्ये सर्वान्रक्षत तेन आत्मा सुजागृत। बोधप्रतीबोधाऽस्वप्नानवद्राणो गोपायमान रक्षमाण जागृवेऽरुन्धति ये देवास्तनूपाः स्थ ते म इह तन्वं पात बोधप्रतीबोधेत्यसौ वा आदित्यो बोधः प्रतीबोधोग्निः स्वप्नानवद्राणेति चन्द्रमा वा अस्वप्नोयं य्यः पवते सोणवद्राणो गोपायमानो रक्षमाणेत्यहर्वै गोपायमानो रात्री रक्षमाणो जागृवेरुन्धतीति यज्ञो वै दक्षिणारुन्धत्येते वै देवा राष्ट्रभृतस्तानेवेट्टे आत्मनो गोपीथाय॥ (यजमानों को अक्षोट सहित फूलदेना) मन्त्रार्थाः सफलाः सन्तु पूर्णाः सन्तु मनोरथाः। शत्रूणां बुद्धिनाशोस्तु मित्राणामुदयस्तव। मार्कण्डेयमुनेः स्वर्गवैद्ययोः स्वर्पतेर्यथा। आयुरारोग्यमैश्वर्यमेतत्त्रितयमस्तु ते। जीव त्वं शरदः शतम्॥
इति पार्थिवेश्वरपूजा सम्पूर्णा॥
<MISSING_FIG href="../books_images/U-IMG-1725350234rcnrdy4Li.jpg"/>
Please dont Edit this page (Blank Page)
]